लघुकथासङ्ग्रहः-१३

[[लघुकथासङ्ग्रहः-१३ Source: EB]]

[

पत्न्याः उपदेशः

पूर्वं मनोहरपुरे रमणः नाम कश्चित् आसीत्। तस्य पत्नी राधा। रमणः जन्मना महालसः। गृहे भुक्त्वा सः ग्रामे सर्वत्र इतस्ततः अटति। धनसम्पादनविषये कदापि न चिन्तयति।

कदाचित् गृहे पाकार्थं किमपि नास्तीति राधा पाकं न कृतवती। भोजनसमये गृहम् आगतः रमणः पत्नीं भोजनं परिवेष्टुं सूचितवान्। तदा क्रुद्धा राधा- “किञ्चिदपि न सम्पादयति। समये भुक्त्वा इतस्ततः अटन् समयं यापयति। भवान् यदा किञ्चित् सम्पाद्य आनयति तदा एव पाकः। सम्पादनं कार्येण वा भवेत् चौर्येण वा भवेत्। विना सम्पादनं पाकः तु सर्वथा नास्ति” इति उक्तवती।

तदा रमणः चकितः सन् पृष्टवान्- “किं चौर्यं करोतु इति मां वदति वा? चौर्यं पापकरं न वा?” इति।

“पापं पुण्यम् इत्यादिकम् अहं न जानामि। रिक्तहस्तः सन् प्रत्यागमिष्यति चेत् योग्या पूजा क्रियते” इति वदन्ती राधा सम्मार्जनीम् उन्नीय प्रदर्शितवती।

अस्तु तावत्। चौर्यम् एव कुर्याम् इति चिन्तयतु। कुत्र करणीयम्? कथं करणीयम्? भवती एव सर्वं सूचयतु” इति उक्तवान् रमणः।

“प्रातः सूर्यः यदा उदयाचलात् अग्रे गच्छति तदा सर्वे कृषिक्षेत्रं गमिष्यन्ति। तदा जनरहितं गृहं प्रविश्य तण्डुलधान्यादिकं यावच्छक्यं चोरयतु” इति मार्गम् उपदिष्टवती राधा।

रमणः एतत् अङ्गीकृतवान्। एतदनुगुणं सः प्रातः नववादनसमये गृहात् निर्गच्छति। बहुकालानन्तरम् अपि पतिः यदा न

प्रत्यागच्छति तदा राधा मार्गम् आगत्य ‘जलं क्वथति’ इति उच्चैः वदति। एतत् श्रुत्वा रमणः किञ्चन गृहं प्रविश्य यावत् आवश्यकं तावत् चोरयित्वा प्रत्यागच्छति।

प्रतिदिनम् अपि एवम् एव प्रचलति। रमणः गृहोपयोगार्थं यावत् आवश्यकं तावत् एव चोरयति, न अधिकम्। गृहे स्थितानि धनाभरणादीनि सः न पश्यति अपि।

कानिचन दिनानि एवम् एव अतीतानि। स्वगृहे पाकवस्तूनां चौर्यं प्रचलति इति ग्रामीणाः ज्ञातवन्तः। प्रतिदिनम् अपि प्रचलतः चौर्यस्य मूलकारणं चोरं ग्रहीतुं ते सम्भूय योजनां कृतवन्तः।

एकदा रमणः चौर्यार्थं ग्रामज्येष्ठस्य गृहं प्रविष्टवान्। एतस्य एव प्रतिक्षायां स्थिताः जनाः तं झटिति गृहीतवन्तः। गृहस्य पुरतः स्तम्भे बद्धवन्तः च।

महता विलम्बेन अपि पतिः यदा न प्रत्यागतः तदा राधा मार्गम् आगत्य उच्चैः उक्तवती- “जलं क्वथति” इति।

एतत् श्रुत्वा रमणः अपि उच्चस्वरेण- “स्तम्भे बद्धः अस्मि” इति उक्तवान्।

एवं वचनं प्रतिवचनं च श्रुत्वा ग्रामीणाः आश्चर्यचकिताः। ग्रामप्रमुखः रमणस्य समीपम् आगत्य पृष्टवान्- “किम् एतत्?’ इति।

तदा, रमणः अश्रूणि स्रावयन् पूर्वं प्रवृत्तं सर्वम् विस्तरेण उक्तवान्। ग्रामीणाः उदरोपपीडं हसितवन्तः।

ग्रामज्येष्ठः राधां स्वगृहम् आनाय्य तर्जितवान्- पति चौर्यं बोधयति वा? किम् एतत् शोभते?” इति। अनन्तरं रमणं दृष्ट्वा- “इतः परं कुत्रापि एवं चौर्यं करोति चेत् कारागारं प्रति प्रेषयिष्यामि। श्वः आरभ्य भवान् मम गृहे कार्यं करोतु। पुरुषः कार्यं कुर्यात्, न तु चौर्यम्” इति उक्तवान्।

अनन्तरदिनतः रमणः ग्रामप्रमुखस्य गृहे कार्यं कर्तुम् आरब्धवान्। राधा अपि तथैव कर्तुम् आरब्धवती। उभयोः सम्पादनेन तयोः जीवनं सुखमयं जातम्।

पिशाचयुतकम्

बहुभ्यः वर्षेभ्यः पूर्वं जपानदेशे कस्मिंश्चित् ग्रामे कुचेष्टापरः कश्चन निरुद्योगी युवकः आसीत्। तस्य नाम ओटोको।

एकस्मिन् दिने सः कार्यान्तराभावात् एकं वेणुदण्डं स्वीकृत्य नलिकाकारेण कर्तयित्वा तदाधारेण दूरदर्शकेन इव आकाशं पश्यन् आसीत्। तदा वायौ सञ्चरन् टेङ्गुजातीयः पिशाचः तेन दृष्टः।

टेङ्गुजातीयाः पिशाचाः जपानदेशे तदा तदा मानवानां दृष्टिगोचराः भवन्ति। किन्तु तेषां सहवासः अपायकरः इति जनानाम् अभिप्रायः आसीत्।

ओटोकोमहोदयेन दृष्टस्य पिशाचस्य नासिका अतीव दीर्घा। भुजद्वये अपि पक्षाकारकः अलङ्कारः आसीत्। शुष्कतृणैः निर्मितं विचित्रं युतकं धृतम् आसीत् तेन पिशाचेन।

अभिमुखम् आगच्छन्तं पिशाचं दृष्ट्वा एव ओटोको चिन्तितवान् यत् एतस्य पिशाचस्य युतकं कथञ्चित् मया स्वायत्तीकरणीयम् इति।

यदा पिशाचः भूमौ अवतीर्णः तदा ओटोको वेणुदण्डस्य साहाय्येन आकाशं पश्यन् -“अहो! अपूर्वं दृश्यम्! अत्यद्भुतम्!” इति उद्गारं प्रकटीकृतवान्।

एतत् श्रुतवतः पिशाचस्य कुतूहलं प्रवृद्धम्। सः कूर्दन् ओटोकोसमीपम् आगत्य -“किं तत् दृश्यम्? मह्यम् अपि प्रदर्शयतु” इति अवदत्।

“किम्? किं वदति भवान् ? मया महता परिश्रमेण सम्पादितम् एतत् दूरदर्शकं भवते दातव्यं वा? यत् एतत् चन्द्रं, नक्षत्रलोकं, ग्रहप्रपञ्चं च प्रदर्शयति तादृशं भवते ददामि? प्रतिफलरूपेण एतत्समानम् अपूर्वं वस्तु किं ददाति भवान्?” इति पृष्टवान्

ओटोको।

‘भवान् तत् दूरदर्शकं मह्यम् एव ददाति चेत् अपूर्वशक्तिशालिनीं पादरक्षां ददामि" इति अवदत् पिशाचः।

किन्तु पादरक्षाविनिमयेन वेणुदण्डं दातुं न सिद्धः जातः ओटोको। यावत् पिशाचः ‘युतकं ददामि’ इति न अवदत् तावत् सः पिशाचस्य कुतूहलं वर्धयन् आसीत्। अन्ते युतकं दातुं पिशाचः यदा सिद्धः अभवत् तदा तत् स्वीकृत्य ओटोको वेणुदण्डं दत्तवान्।

पिशाचः महता कुतूहलेन वेणुदण्डद्वारा आकाशं द्रष्टुम् उद्युक्तः।

अत्रान्तरे ओटोको तत् युतकं धृत्वा अदृश्यः अभवत्। यः तत् युतकं धरति सः अदृश्यः भवति स्म।

अदृश्यगमनसामर्थ्येन ओटोको अतीव सन्तुष्टः। सः ग्रामस्य मुख्यमार्गं गत्वा कुचेष्टाम् आरब्धवान्। ये शिरसि वस्तूनि स्थापयित्वा गच्छन्तः आसन् तेषां वस्तूनि सः पातितवान्। आपणस्थानि वस्तूनि यानि दृष्टानि तानि स्वेच्छया मार्गे इतस्ततः क्षिप्तवान्।

मार्गे गच्छन्तः जनाः तु दिग्भ्रान्ताः। अल्पे एव काले मार्ग निर्मानुषः जातः। जनाः कुत्रापि निलीय मार्गे प्रचलन्तं कोलाहलं पश्यन्तः आसन्।

जनसञ्चाररहिते एतस्मिन् मार्गे कश्चन धनिकः आगतवान्। गाम्भीर्येण गच्छतः तस्य वामकर्णम् बलात् आकृष्टवान् अदृश्यरूपी ओटोको।

सः धनिकः कोपेन परिवृत्य दृष्टवान्। तदा कोऽपि दक्षिणकर्णम् अपि आकर्षति! भीतः सः धनिकः तत्रैव उपविश्य इतस्ततः पश्यति। नागरिकाः तु गृहस्य द्वारस्य पृष्ठतः। एव स्थित्वा हसन्तः एतत् विनोदकरं दृश्यम् आस्वादयन्ति।

अत्रान्तरे कोऽपि कृषिकः उत्तमानि वस्त्राणि क्रीत्वा हस्ते स्थापयित्वा तेन मार्गेण आगतवान्।

अकस्मात् तस्य हस्ते स्थितानि तानि वस्त्राणि उद्गतानि। पार्श्वस्थायां मलिनजलस्य कुल्यायां पतितानि च।

अन्यत्र नवाः मीनाः विक्रयणार्थं स्थापिताः आसन्। ग्राहिकाः स्त्रियः अपेक्षितानां मीनानां क्रयणे रताः आसन्।

अत्रान्तरे एकः महामीनः उज्जीवितः इव उत्थाय वायौ गन्तुम् आरब्धवान्। जनाः अपि केचन अनुसृत्य धावितवन्तः। एतन्मध्ये सः मीनः तेषां पुरतः सशब्दम् अपतत्, धूलिमयः जातः च।

एवं दुष्टचेष्टाभिः यथेष्टम् आनन्दम् अनुभवन् ओटोको गृहं गतवान्। द्वारि एव तस्य माता पुत्रस्य प्रतीक्षायाम् आसीत्। एषः ताम् अतिक्रम्य अन्तः गत्वा युतकं निष्कासितवान्, निजरूपेण प्रत्यक्षः अभवत् च। अकस्मात् प्रत्यक्षीभूतं पुत्रं दृष्ट्वा माता आश्चर्यचकिता।

पुत्रः भुक्त्वा यदा निद्रामग्नः जातः तदा माता कुतूहलेन तस्य युतकस्य समीपं गतवती।

“बुद्धिहीनः एषः मम पुत्रः गृहं प्रति किमपि किमपि आनयति” इति वदन्ती सा तत् युतकं अग्नौ स्थापितवती। क्षणमात्रेण युतकं दग्धम् अभवत्।

निद्रातः उत्थितः ओटोको युतकं सर्वत्र अन्विष्टवान्। कुत्रापि तत् यदा न दृष्टं तदा मातरं पृष्टवान्। माता- “निरुपयुक्तं तत् युतकम् अग्नौ स्थापितवती” इति उक्तवती। एषः मातरं स्वेच्छया निन्दन् चुल्लीसमीपं गतवान्।

‘युतकस्य प्रभावः भस्मनि अपि भवेत् एव इति चिन्तयन् ओटोको भस्म एकस्मिन् पात्रे सङ्गृहीतवान्।

गृहस्य पृष्ठतः गत्वा युतकादिकं निष्कास्य भस्मना शरीरम् आपादमस्तकं सम्यक् लिप्तवान्।

यत्र भस्म लेपितं स च भागः अदृश्यः जातः आसीत्। सन्तोषम् अनुभवन् ओटोको इतरत्र अपि भस्म लेपितवान्। अदृश्यतां प्राप्य सः ततः निर्गतवान् च।

सर्वत्र अटन् सः कस्मिंश्चित् स्थले स्थितं जलपात्रं दृष्टवान्। जलं पातुम् आरब्धवान् च। तस्य जलपात्रस्य यजमानः ‘गोल् गोल्

इति जलपानशब्दं श्रुतवन्। बहिः आगत्य यदा दृष्टं तदा जलपात्रस्य समीपे कोऽपि नास्ति। जलपानशब्दः केवलं श्रूयते। क्रमशः नलिकायाः पार्श्वे एकं मुखं केवलं तेन दृष्टम्। आश्चर्यचकितः सः प्रतिक्रियां कामपि प्रदर्शयितुम् अशक्तः सन् भीत्या सर्वं पश्यति।

जलपानेन ओटोको मुखं किञ्चित् आर्द्रं जातम्। यदा भस्मक्षालितम् अभवत् तदा स च भागः दृष्टिगोचरः जातः। एवम् एव चिबुकप्रदेशः अपि दृष्टिगोचरः जातः।

आपणिकः एतत् दृश्यं दृष्ट्वा -“हा देव!” इति उच्चैः आक्रोशनं कृतवान्। अकस्मात् श्रुतात् ध्वनितः भीतस्य ओटोको शरीरे स्वेदः उत्पन्नः। पानजलं शरीरे पतितं च। च तत्कारणतः भस्म अपगतम्। तस्य शरीरस्य भागः अपि दृष्टिगोचरः जातः।

‘मदीयं रहस्यं प्रकटितम् अभवत्’ इति चिन्तयन् ओटोको ततः धावितवान्। आपणिकः, आपणम् आगताः जनाः च तम् अनुसृत्य धावितवन्तः। धावन् ओटोको कस्याञ्चित् कुल्यायां पतितवान्। भस्म जले विलीनम्। उपरि आगन्तुं लज्जाम् अनुभवन् ओटोको शिरोमात्रम् उन्नीय जले स्थितवान्।

अनुसृत्य आगताः जनाः तस्य परिचयं प्राप्य तं जलात् उद्धृतवन्तः। ‘किमानो’ नामकेन वस्त्रेण तस्य शरीरम् आच्छादितवन्तः।

लज्जाम् अनुभवन् ओटोको पिशाचदर्शनं, वेणुदण्डदानेन कृतं पिशाचवञ्चनं, अपूर्वयुतकप्राप्तिं, युतकस्य दाहकथां च सविस्तरं श्रावितवान्। तस्य कथां श्रुत्वा जनाः उच्चैः हसितवन्तः।

“पिशाचं यत् वञ्चितवान् तस्य फलरूपेण एतादृशम् अपमाननं प्राप्तवान्। उचितः दण्डः एषः” इति वदन्तः ते प्रतिगतवन्तः।

पदे पदे जनानाम् उपहास श्रुत्वा ओटोको विवेकं प्राप्तवान्। सहजतया एव तस्य दुष्टचेष्टाः विलुप्ताः जाताः।

पूर्वं विदेहराज्यं विक्रमकीर्तिः नाम राजा पालयन् आसीत्। महाराजस्य चिन्मयः नाम आन्तरङ्गिकः स्नेहितः आसीत्। चिन्मय-महाराजयोः गाढां मैत्रीं राजोद्योगिनः बहवः न सहन्ते स्म। कथञ्चित् तयोः मध्ये मतिभेदः आनेतव्यः इति ते चिन्तयन्तः आसन्।

एवं स्थिते एकदा महाराजस्य वृद्धा माता दिवंगता। तदा नगरप्रमुखाः बहवः महाराजसमीपम् आगत्य सहानुभूतिं प्रदर्शितवन्तः। किन्तु चिन्मयः तत्सन्दर्भे राजभवनम् एव न आगतवान्।

अत्र कारणं तु तद्दिने एव तस्य आत्मीयसेवकस्य गृहे प्रचलिष्यमाणे कस्याश्चित् अनाथबालिकायाः विवाहे तेन अवश्यम् उपस्थातव्यम् आसीत्।

राजा मातुः दहनाद्यन्त्यसंस्कारं विशेषरीत्या निर्वर्तितवान्। तत्समये अपि पिशुनता चिन्मयः तत्र न उपस्थितः आसीत्। एतत् लक्षितवन्तः तद्विरोधिनः महाराजसमीपं गत्वा उक्तवन्तः- “महाराज! अस्माकं सर्वेषाम् आश्चर्यं यत् भवतः आत्मीयः स्नेहितः चिन्मयः अत्र किमर्थं वा न दृश्यते इति। मातृवियोगात् खिन्नं भवन्तं सान्त्वयितुं तु न आगतः। अन्त्यसंस्कारसन्दर्भे अपि न उपस्थितः। किम् एतत् स्नेहितलक्षणं वा? कृतज्ञताप्रदर्शनरीतिः वा? प्रायः भवन्तम् अवमानयितुम् एव सः एवं व्यवहृतवान् स्यात्” इति।

“सत्यं किल! सः किमर्थम् एतत्सन्दर्भे न उपस्थितवान्? अवश्यम् उपस्थातव्यम् आसीत् तेन। अनुपस्थितौ अनुपस्थितौ किमपि विशेषकारणं स्यात् वा?” इति।

“विशेषकारणं किम्? वयं सर्वं न जानीमः वा? सः तदीयसेवकस्य गृहे प्रचलतः विवाहस्य कार्यक्रमे उपस्थितः आसीत् तदा। राजमातुः मरणदुःखापेक्षया सेवकगृहस्य

सन्तोषः एव तस्य दृष्ट्या श्रेष्ठः संवृत्तः। ‘इन्द्रसिंहासनम् आरूढः अपि शुनकः अस्थिखण्डास्वादनम् एव चिन्तयति’ इति ज्येष्ठाः वदन्ति। अल्पे तस्मिन् भवता या महती कृपा प्रदर्शिता तस्य फलम् एतत्’ इति असूयया उक्तवन्तः चिन्मयविरोधिनः।

राजा तु मातृवियोगतः खिन्नः अस्ति। तदुपरि एतेषां पिशुनतावचनानि। एतेन कोपोन्मत्तः जातः राजा।

सः महता कोपेन भटान् आहूय- “तं गर्वोन्मत्तं चिन्मयं बद्धवा आनीय कारागारे स्थापयन्तु” इति आज्ञापितवान्।

सेवकाः साक्षात् विवाहमण्डपं गतवन्तः। तत्र विवाहाङ्गकार्यक्रमेषु मग्नं चिन्मयं “राजाज्ञा” इति एतावदेव उक्त्वा बद्धवा आनीय कारागारे स्थापितवन्तः।

एतां वार्तां विक्रमकीर्तिमहाराजस्य मन्त्री अमलवर्मा श्रुतवान्। सः झटिति महाराजसमीपं गत्वा - “राजन्! चिन्मयः कार्याकार्यविवेकी लोकव्यवहारज्ञः च। ‘सः मेधावी, काले काले समुचितमार्गदर्शनं करोति च। राज्यहिते तस्य महत्त्वभूतं पात्रम्’ इति भवता एव उक्तम्। तादृशः सहानुभूतिप्रदर्शनार्थम्, अन्त्यक्रियायां भागं ग्रहीतुं वा न आगतः इति चेत् तत्र प्रबलं कारणं किमपि स्यात् एव। अतः भवान् स्वयं तं पश्यति चेदेव वरम् इति मम अभिप्रायः” इति निवेदितवान्।

“किम् अन्यत् प्रबलं कारणम् ? राजापेक्षया सेवकः एव श्रेष्ठः तस्य दृष्ट्या’ इति असमाधानेन उक्तवान् राजा।

क्षाम्यतु माम्। वयम् एतत्सन्दर्भे चिन्मयविषये अन्यथाभावं प्रदर्शितवन्तः इति मम भाति” इति पुनः उक्तवान् अमलवर्मा।

राजा क्षणकालं विचिन्त्य “अस्तु तावत्” इति वदन् चिन्मयस्य दर्शनार्थं प्रस्थितः। अमलवर्मा तम् अनुसृतवान्।

कारागारं गतः राजा कोपेन एव चिन्मयम् उक्तवान्- “बहोः कालतः भवन्तम् आत्मीयमित्रं मन्यमानः आसम्। किन्तु भवान् मातृवियोगतप्तं मां सान्त्वयितुं किं, मम मातुः अन्त्यसंस्कारार्थम् अपि न

आगतवान्। राजभवने किं प्रवर्तते इति ज्ञातुं दृष्टिपातम् अपि न कृतवान्। सेवकस्य गृहे प्रचलिष्यमाणः विवाहः एव श्रेष्ठः संवृत्तः खलु?” इति।

तत् श्रुत्वा चिन्मयः खेदपूर्णेन स्वरेण उक्तवान्- “महाराज! एतद्विषये मया अपि किञ्चित् वक्तव्यम् अस्ति। भवान् निष्पक्षपातं चिन्तयति इति अहं विश्वसिमि। मम सेवकस्य गृहस्य विवाहार्थं मया अवश्यं गन्तव्यम् आसीत्। यतः निस्सन्तानः सः सेवकः मम प्रोत्साहकारणतः काञ्चित् अनाथबालिकां पोषितवान्। योग्यं वरम् अन्विष्य विवाहं निश्चितवान्। बालिकायाः वर्धने विवाहे च ममापि दायित्वम् आसीत् एव। सा बालिका मां पितृसमानं चिन्तयति इत्यतः मया तस्याः विवाहसन्दर्भे उपस्थातव्यम् आसीत् एव। दुःखस्य सन्तोषस्य च विषये राजा सेवकः इति तारतम्यभावः नास्ति। तात्कालिकमरण-दुःखापेक्षया चिरकालिकं भविष्यत् मुख्यम् इति भवान् अपि अङ्गीकुर्यात् एव। भवद्दर्शनं कृत्वा सहानुभूतिः प्रदर्शनीया आसीत् इति तु अहम् अङ्गीकरोमि। अतः एव मुहूर्तसमाप्तेः अनुक्षणम् एव विवाहमण्डपतः निर्गतः आसम्। तदा एव भटाः आगत्य मां बद्ध्वा अत्र आनीय स्थापितवन्तः” इति।

चिन्मयस्य वचनं तिरस्कर्तुं न शक्तवान् विक्रमकीर्तिः। “पिशुनजनानां वचनश्रवणेन मया चिन्मयविषये कोपः प्रदर्शितः। कोपवशात् च विवेचनं विना एव एतस्य बन्धनार्थम् आज्ञा कृता। पिशुनतापूर्णं वचनं यत् श्रुतवान् तस्य फलम् एतत्” इति पश्चात्तापम् अनुभूतवान् राजा।

“चिन्मय! वस्तुस्थितिम् अपरामृश्य मया आज्ञा दत्ता, येन भवता कष्टम् अपमाननं च अनुभवोक्तव्यम् आपतितम्। मां क्षाम्यतु। उत्कर्षम् असहमानाः पिशुनतावचनैः मां चोदितवन्तः। ते तस्य फलम् अनुभविष्यन्ति” इति उक्त्वा राजा चिन्मयहस्तयोः बद्धां शृङ्खलाम् स्वयम् अपसार्य प्रीत्या तं दृढम् आलिङ्गितवान्।

प्रामाणिकता

धर्मपुरस्य भूस्वामी स्वभवनस्य रक्षणार्थम् एकं नियोक्तुम् इष्टवान्। एतां वार्तां श्रुत्वा आनन्दः मुकुन्दः च इति द्वौ युवकौ भूस्वामिनः समीपम् आगतवन्तौ। भूस्वामी तद्दिने रात्रौ आनन्दं भवनरक्षणकार्ये नियोजितवान्।

अनन्तरदिने सायङ्कालपर्यन्तम् अपि आनन्दद्वारा सस्यसेचनकार्यं कुतृणोन्मूलनकार्यं च कारितवान् भूस्वामी। आनन्दः तत् कार्यं विनायासेन कृतवान्। “भवनरक्षणकार्यं लभ्यते वा न वा इति दिनचतुष्तयानन्तरं सूचयिष्यामि” इति उक्त्वा भूस्वामी आनन्दं प्रेषितवान्।

अनन्तररात्रौ भूस्वामी भवनरक्षणकार्ये मुकुन्दं नियोजितवान्। तदनन्तरदिने आनन्दम् इव मुकुन्दम् अपि उद्यानकार्ये नियोजितवान्। ‘उद्यानकार्यं कुर्वन् मुकुन्दः मध्ये तन्द्रया स्खलति’ इत्येतम् अंशं लक्षितवान् भूस्वामी।

** भूस्वामी मुकुन्दम् आहूय उक्तवान्- “भवन्तं भवनरक्षणकार्ये नियोजितवान् अस्मि। आनन्दः तु उद्यानकार्यं विनायासं कृतवान्। एतस्य अर्थः अयं यत् आनन्दः रात्रौ भवनरक्षणकार्यं सम्यक् अकुर्वन् निद्रां कृतवान् इति। यः उक्तं कार्यं सम्यक् श्रद्धया करोति, तादृशः प्रामाणिकः एव अत्र अपेक्षितः” इति।**

प्रातिवेशिकः

‘शृङ्गपुरनामके ग्रामे रङ्गराजः नाम धनिकः आसीत्। ग्रामस्य मध्यभागे एव तस्य गृहम्। अट्टद्वयेन निर्मिते गृहे वसति स्म रङ्गराजः। तस्य गृहस्य पार्श्वे एव मृच्छदस्य पुरातनम् एकं गृहम् आसीत्। तस्मिन् गृहे शिवानन्दः नाम दरिद्रः वसति। रङ्गराजस्य वक्रदृष्टिः तु शिवानन्दस्य गृहविषये एव।

शिवानन्दसदृशः निर्धनिकः स्वस्य प्रातिवेशिकः इति विषयं रङ्गराजः सोढुं न शक्नोति। सः कथञ्चित् तत् गृहं त्यक्त्वा गच्छेत् इति रङ्गराजः बहुधा प्रयत्नं करोति। किन्तु केनापि प्रयत्नेन शिवानन्दः दूरं न गतः।

“भोः शिवानन्द! भवतः दरिद्राः कुक्कुटाः मम परिसरम् आगत्य सर्वाणि सस्यानि नाशयन्ति। यदि भवान् तेषां रक्षणं कर्तुं न शक्नोति, तर्हि किमर्थं तान् पोषयति?” इति एकवारं निन्दति।

अन्यस्मिन् दिने तर्जयति- “भवतः गृहतः आगतं मलिनं जलं सर्वं मम गृहस्य पुरतः एव प्रवहति। एतत् महत् अन्याय्यम्’ इति। पुनरपि तर्जयति- “कतिवारं वदामि। तथापि न शृणोति किल? अस्य कः अर्थः? भवतः मनुष्यत्वं नास्ति वा? अन्यस्मै कष्टं न दातव्यम् इति न जानाति वा?” इति।

‘रङ्गराजस्य कोपं गर्जनादिकं च दृष्ट्वा अपि शिवानन्दः मौनं तिष्ठति। किं करणीयम् इति रङ्गराजः बहु चिन्तयति। एकस्मिन् दिने शिवानन्दं स्वगृहम् आनाय्य कोपेन वदति- “पश्यतु शिवानन्द, न केवलं भवता पाल्यमानैः कुक्कुटैः उपद्रवः, भवतः पुत्रैः अपि उपद्रवः एव। तेषां कारणतः अस्माकं शान्तिः एव नास्ति। तेषां कोलाहलेन मम निद्रा एव नास्ति। देवपूजां कर्तुम् अपि न शक्नोमि। भवतः गृहं दग्धं भविष्यति चेत् एव मम उपद्रवः न भवेत् इति चिन्तयामि। भोः, पार्श्वस्थानाम् अपि हितं

किञ्चित् चिन्तयतु। कीदृशः मनुष्यः भवान्? उष्णकाले भवतः पुत्राः एव भवतः गृहस्य दहनं कुर्युः। तदा अपि माम् एव आक्षिपति वा? मार्गे ये गच्छन्ति तेषां कारणतः अपि कदाचित् अग्निः पतेत्” इति।

गृहस्य दहनं भवेत् इति रङ्गराजस्य वचने एव सूचना आसीत्। अतःशिवानन्दस्य मनसि सन्देहः उत्पन्नः रङ्गराजः एव मम गृहं दाहयेत् अपि इति। एतादृशस्य प्रातिवेशिकस्य पीडानां सहनापेक्षया एतस्य ग्रामस्य त्यागः एव उचितः इति चिन्तितवान् सः। धनिकैः सह विवादं कृत्वा प्रयोजनं नास्ति इत्यपि ज्ञातवान् शिवानन्दः।

अनन्तरं शिवानन्दः रङ्गराजाय एव तत् गृहं विक्रीय पत्नीपुत्रैः सह कुत्रापि गतवान्।

केचन माझाः अतीताः। नगरं गत्वा तत्र वासः करणीयः इति रङ्गराजस्य इच्छा जाता। तथैव सः नगरं गतवान्। मार्गपार्श्वे एव एकं गृहम् आसीत् विक्रयणार्थम्। तस्मिन् मार्गे जनसञ्चारः अपि अधिकः। रङ्गराजः तत् गृहं क्रीतवान्। ग्रामे विद्यमानं स्वपरिवारं तत्र नीतवान् च।

रङ्गराजः यद्दिने तत्र गतवान् तस्य अनन्तरदिने एव पार्श्वगृहे कोऽपि कोलाहलः आरब्धः। जनाः समूहरूपेण सम्मिलन्ति स्म। तत्र किं प्रचलति? इति।

तदा सः उक्तवान् - ‘अस्य गृहस्य यजमानः महता मूल्येन एतत् गृहं क्रीतवान्। तथापि एकं दिनम् अपि सः निश्चिन्ततया अत्र वासं कर्तुं न शक्नोति। अस्मिन् गृहे एकः पिशाचः वसति। येन केनापि मन्त्रेण तन्त्रेण वा सः एतत् गृहं त्यक्त्वा न गच्छति। अन्तिमः प्रयत्नः इति अस्य गृहस्य यजमानः मलयालदेशतः आगतं कञ्चित् मान्त्रिकम् आनीतवान्। तस्य मन्त्रस्य शब्दः एव एतावत् उच्चैः श्रूयते। यः कोऽपि पिशाचः भवतु। भीत्या गच्छेत् एव। सः एव कोलाहलः” इति।

रङ्गराजः ततोऽपि किञ्चित् अग्रे गतवान्। गृहे किं किं प्रचलति इति दृष्टवान्

च। मलयालमान्त्रिकः पिशाचं निवारयितुम् आवश्यकानि वस्तूनि एकत्र योजयित्वा गृहस्य यजमानं उक्तवान्- “भोः शेषसेन, भवतः भयं मास्तु। दुरदृष्टवशात् भवतः गृहम् आगतः एषः पिशाचः। किन्तु मम अत्र आगमनं तु भवतः भाग्यम् एव। यावत् मम पूजा समाप्ता भवति तावति काले एषः पिशाचः गृहं त्यक्त्वा पृष्टतः अदृष्ट्वा एव धावति” इति।

शिवानन्दः आश्चर्येण तत्र सम्मिलितान् पश्यन् उक्तवान्- “मम दुरदृष्टम् एव। उत्तमं पार्श्वगृहं मया क्रेतव्यम् आसीत्। दौर्भाग्यवशात् अहम् एतत् गृहं क्रीतवान्। यतः रङ्गराजनामकः कोऽपि महान् धनिकः द्विगुणितं मूल्यं दत्त्वा पार्श्वगृहं क्रीतवान् एव। एषः एव मम अन्तिमः प्रयत्नः। एषः पिशाचः एतत् गृहं त्यक्त्वा न गच्छति चेत्, यावदपि नष्टं भवतु, अहम् एव एतत् गृहं त्यक्त्वा गच्छामि। कथं पिशाचेन सह वसामि ?” इति।

शेषसेनस्य वचनसमाप्तिसमनन्तरम् एव गृहे विद्यमानः पिशाचः उच्चस्वरेण उक्तवान्– “किम् उक्तवान् भोः शेषसेन, पार्श्वगृहं रङ्गराजः क्रीतवान् वा ? सः शृङ्गपुरग्रामस्य रङ्गराजः तु न किल?” इति।

पिशाचस्य वचनं श्रुत्वा सर्वेऽपि भयभ्रान्ताः। मान्त्रिकः शेषसेनम् आश्चर्येण दृष्टवान्। तदा शेषसेनः उक्तवान्- आम्, शृङ्गपुरतः आगतः रङ्गराजः एव” इति।

अपरक्षणे एव पिशाचः कर्कशस्वरेण उक्तवान्- “अहो! तर्हि अहं न केवलम् एतत् गृहम्, एतं प्रान्तम् एव त्यक्त्वा गच्छामि” इति।

मान्त्रिकः गर्वेण श्मश्रु स्पृशन् सर्वान् दृष्ट्वा उक्तवान्- “दृष्टं वा? अहम् इदानीम् अपि पिशाचस्य निवारणमन्त्रम् एव न आरब्धवान्। मां दृष्ट्वा एव सः भीत्या मृतः” इति।

तत् श्रुत्वा पिशाचः अट्टहासपूर्वकम् उच्चस्वरेण उक्तवान्- “मूर्ख, मान्त्रिक! इतः मम गमनस्य कारणं भवतः मन्त्रः अपि न, तन्त्रम् अपि न। मम नाम शिवानन्दः। जीवितकाले अहम् एतस्य रङ्गराजस्य

पार्श्वगृहे एव आसम्। एतेन दीयमानां नरकयातनां सम्यक् अनुभूतवान्। एतस्य कारणतः एव अहं तत् गृहं त्यक्त्वा कुत्रापि अटन् मार्गे मृतः। ये प्रातिवेशिकेभ्यः कष्टं यच्छन्ति ते पिशाचानाम् अपेक्षया अतीव क्रूराः। तादृशः रङ्गराजः अत्र आगतः अस्ति। शीघ्रम् एव तस्य स्वभावं ज्ञातुं शक्नुवन्ति भवन्तः” इति।

अपरक्षणे एव गृहस्य मध्ये एकः चक्रवातः उत्पन्नः। तस्य वेगेन मान्त्रिकस्य पुरतः विद्यमानानि पूजावस्तूनि सर्वाणि अपि गृहे अस्तव्यस्तानि जातानि। मान्त्रिकः भीत्या कम्पमानः उच्चस्वरेण मन्त्रोच्चारणम् आरब्धवान्।

तदा एव चक्रवातः वातायनम् अतिक्रम्य बहिः धावितः।

तत्र सम्मिलिताः सर्वेऽपि रङ्गराजं सन्देहपूर्वकं पश्यन्तः सम्भाषणम् आरब्धवन्तः।

एतत् दृष्ट्वा रङ्गराजः उक्तवान् - “पिशाचस्य वचनानुसारम् सः रङ्गराजः अहम् एव इति मन्ये। एषः कश्चित् गृहनाशकः पिशाचः। एतेषु दिनेषु मानवेषु एव प्रामाणिकता न्यूना दृश्यते। एवं सति पिशाचानां प्रामाणिकतां विश्वसितुम् एव न शक्यते। कलहप्रियाः एव एवं पिशाचाः भवन्ति” इति।

“एतत् सत्यम् अपि स्यात्। मान्त्रिकस्य हस्ततः विमोचनं प्राप्तुं पिशाचः किमपि असत्यम् उक्तवान् स्यात्। पिशाचानां किं भोः, असत्यकथनात् तेषां भीतिः एव नास्ति। असत्यकथनात् पापं, पापतः दुर्गतिः च। पिशाचजन्मापेक्षया अधोगतिः का अन्या अस्ति” इति उक्तवान् कश्चित्।

एवं रङ्गराजः तत्क्षणे जनापवादतः रक्षितः अभवत्। किन्तु अन्तरङ्गं तु वदति स्म- ‘भवान् एतावत्पर्यन्तं यत् कृतवान् तत् असमीचीनम्’ इति।

जनाः सर्वे स्व-स्वगृहं गतवन्तः। रङ्गराजः अवमानेन शिरः अवनमय्य ततः निर्गतवान्। अनन्तरकाले प्रातिवेशिकेभ्यः साहाय्यं कुर्वन्, स्वयम् अपि उत्तमः प्रातिवेशिकः सञ्जातः।

प्रशंसनम्

आदित्यसेनमहाराजस्य आस्थाने अनेके उद्योगिनः आसन्। समस्यापरिहारार्थं बहवः जनाः महाराजस्य समीपम् आगच्छन्ति स्म। तस्मिन् समये प्रवर्तमानं लघुविषयं निमित्तीकृत्य अपि महाराजस्य मुखस्तुतिं कुर्वन्ति स्म आस्थानस्य उद्योगिनः। एतादृशानि प्रशंसावचनानि श्रुत्वा कदाचित् राजा खिन्नः भवति। एतानि केवलं प्रशंसावचनानि इति राजा जानाति च।

एकस्यां रात्रौ महत् शैत्यम् आसीत्। सोढुम् अपि कष्टकरम्। तादृशे शैत्ये अपि राजा आदित्यसेनः बहिः गन्तुं राजभवनात् प्रस्थितः। मुखस्तुतिं विना सहजतया यः सत्यं वदति तादृशः प्रामाणिकः कुत्रापि द्रष्टव्यः इति तस्य आशा।

राजा राङ्कवेण शरीरम् आच्छाद्य मार्गे गच्छन् आसीत्। किञ्चिदूरं यदा गतवान् तदा मार्गपार्वेविद्यमानस्य गृहस्य पुरतः शैत्यकारणेन शरीरं सङ्कोचीकृत्य शयितं कञ्चित् पुरुषं दृष्टवान् सः। तस्य विषये महाराजस्य कुतूहलं जातम्।

आदित्यसेनः तस्य समीपं गत्वा पृष्टवान् “एवं शयनं कृतवान् किल? भवन्तं शैत्यं न बाधते वा?” इति।

तदा सः उक्तवान् - “मया आच्छादितं वस्त्रं छिन्नम्। अतः शैत्यवायुः एकत्र अन्तः प्रविश्य अन्यत्र बहिः गच्छति। भवतः राङ्कवं तु समीचीनम् अस्ति। यदि एकवारं शैत्यवायुः राङ्कवस्य अन्तः प्रविशति, तर्हि पुनः बहिः गन्तुं तस्य अवकाशः एव नास्ति। अतः शैत्यं सोढुम् अशक्तः भवान् कम्पते। अहं सोढुं शक्नोमि” इति।

तस्य विनोदयुक्तानि वचनानि श्रुत्वा राजा सन्तुष्टः। सः तं पृष्टवान्- “मम समीपे शतं सुवर्णनाणकानि सन्ति। तस्मिन् विंशतिनाणकानि भवते ददामि। महाराज

सदृशः इति मम प्रशंसां करोति वा?” इति।

“विंशतिनाणकानि वा? केवलं विंशतिनाणकानां कृते एतादृशी प्रशंसा मया करणीया वा? एतत् न शक्यते” इति उक्तवान् सः।

“यदि मम समीपे विद्यमानेषु नाणकेषु अर्धं ददामि?” इति पृष्टवान् राजा।

“तदा आवां समानौ भवावः। भवान् श्रेष्ठः इति कथनस्य आवश्यकता एव न भवति” इति उक्तवान् सः दरिद्रः।

तस्य वचनानि श्रुत्वा राजा आदित्यसेनः अतीव सन्तुष्टः। ‘इदानीम् अहं किमपि अनुक्त्वा मौनं गच्छामि चेत् एषः धनाशया माम् आह्वयेत्, पश्यामि’ इति चिन्तयन् राजा मौनम् अग्रे गतवान्।

किन्तु दरिद्रः तं न आहूतवान्। राजा पुनः तस्य समीपम् आगतवान्।

“भोः, भवान् पुनः किमपि प्रष्टुं मम समीपम् आगतवान् इति भाति” इति उक्तवान् दरिद्रः।

“प्रष्टुं न आगतवान्। प्रशंसावचनानि श्रोतुम् आगतवान्। मम समीपे शतं नाणकानि सन्ति इति पूर्वमेव उक्तवान् किल? शतं नाणकानि अपि भवते ददामि। तदा ‘महाराजसदृशः’ इति मम प्रशंसां करोति वा?” इति पृष्टवान् राजा।

“भोः, सर्वाणि सुवर्णनाणकानि अपि मम एव चेत् पुनः किमर्थं प्रशंसनीयः भवान्? तस्य आवश्यकता एव नास्ति। आवश्यकं चेत् भवान् एव मम प्रशंसां कर्तुम् अर्हति। यतः मया दत्तं चेत् एव भवतः कष्टं निवारितं भवेत्” इति उक्त्वा हसितुम् आरब्धवान् सः दरिद्रः।

सन्तुष्टः आदित्यसेनः अपि तेन सह हसितवान्।

अनन्तरं राजा तस्मै दरिद्राय शतं सुवर्णनाणकानि अपि दत्त्वा आप्तसेवकस्थाने तं नियोजितवान्।

प्रवृत्तम् एतं विषयं श्रुत्वा आस्थानस्य उद्योगिनः तद्दिनादारभ्य पुनः पुनः महाराजस्य प्रशंसां यत् कुर्वन्ति स्म तत् त्यक्तवन्तः।

प्रतिवचनम्

“नार्वेदेशस्य जानपदकथा”

पूर्वं कस्यचित् राज्ञः काचित् कुमारी आसीत्। सा वचने शूरा वाचाला। तां वचनैः जेतुंं कोऽपि न शक्नोति। अतः राजा प्रकटितवान् यत् यः मम पुत्रीं वचनैः जेष्यति तस्मै सा अर्धराज्यं च दीयते इति।

राजकुमारीं परिणेतुम् इच्छन्तः अर्धराज्याशया बहवः असमर्थाः अपि राजभवनम् आगतवन्तः। अनधिकारिणाम् आगमनस्य निवारणार्थं राजा पुनः प्रकटितवान् यत् यः पराजयं प्राप्नुयात् सः तप्तायःशलाखारेखया दण्ड्यते इति। एतेन आगन्तॄणां सङ्ख्या न्यूना जाता।

राजकुमारीविवाहवार्तां श्रुत्वा तां परिणेतुम् इच्छन्तः त्रयः सहोदराः अपि गृहात् प्रस्थिताः। यदि अर्धं राज्यं लभ्येत तर्हि सुखेन जीवितुं शक्यते इति तेषां विचारः।

मार्गे तैः कश्चन पक्षी दृष्टः। कनिष्ठः तम् उन्नीय - “मया किं प्राप्तम् इति पश्यन्तु’ इति सन्तोषेण उक्तवान्।

“किमर्थं भोः, तं पक्षिणं गृहीतवान्? त्यजतु” इति उक्तवन्तौ अग्रजौ।

“कदाचित उपयोगाय भवेत्” इति वदन् तं पक्षिणं सुरक्षितं स्थापितवान् अनुजः।

किञ्चिद्दूरं गमनानन्तरं रज्जुः काचित् तृतीयेन लब्धा। अग्रजौ तां क्षेप्तुम् उक्तवन्तौ। तथापि स्वीकृतवान् सः अनुजः।

एवं मार्गे तेन अनुजेन एकः दण्डः, कश्चन घटकर्परः, मेषस्य शृङ्गद्वयं, प्राचीना पादरक्षा च प्राप्ताः।

राजभवनस्य प्राप्तेः अनन्तरं ज्येष्ठः राजकुमार्या सह वार्तालापार्थं गत्वा- “अहो, सुदिनम् अद्य! अत्र हितकरम् औष्ण्यम् अनुभूयते” इति उक्तवान्।

‘अत्र किं, तत्र पश्यतु। इतोऽप्यधिका उष्णता तत्र अस्ति” इति राजकुमारी चुल्लीं

प्रदर्शितवती। तत्र अयः शलाकाद्वयं सम्यक् तप्तं दृश्यते स्म। एतत् दृष्टवतः ज्येष्ठस्य मुखात् किमपि न निर्गतम्। पराजितं तं तप्तायः शलाकारेखया दण्डयित्वा प्रेषितवती राजकुमारी। द्वितीयस्य अपि एषा एव गतिः जाता।

तृतीयः अपि राजकुमार्याः प्रकोष्ठं प्रविश्य अत्र हितकरी उष्णता अनुभूयते” इति उक्तवान्।

राजकुमारी चुल्लीं प्रदर्शयन्ती- “तत्र इतोऽप्यधिका उष्णता” इति उक्तवती।

“युक्तम् एव। तस्मिन् अग्नौ एतं पक्षिणं पक्तुं शक्नुमः वयम्” इति वदन् पक्षिणं प्रदर्शितवान् सः।

“पक्षी तत्र दग्धः भवेत्” इति उक्तवती राजकुमारी। “एतस्याः रज्जोः साहाय्येन ततः पूर्वम् एव तम् अहम् उन्नयामि” इति उक्तवान् कनिष्ठः।

“तापयुक्तं तत् कथं स्वसमीपे स्थापयति?” इति पृष्टवती राजकुमारी।

“दण्डान्ते उत्तोलयामि किल?” तदा दग्धात् पक्षितः स्रुतं मोदोजलम् अधः पतेत् किल?”

“यथा भूमौ न पतेत् तथा घटकर्परे सङ्ग्रह्ह्णामि” इति उक्तवान् कनिष्ठः।

“प्रतिवचनं वक्रतां प्रदर्शयति खलु!” इति पुनः उक्तवती राजकुमारी।

“वक्रता न वचने, अपि त अत्र” इति वदन् मेषशृङ्गं प्रदर्शितवान् सः।

“एतादृशम् अन्यत् मया न दृष्टम् एव।”

“तर्हि अत्र पश्यतु। अपरम् अपि अस्ति” इति अन्यत् शृङ्गं प्रदर्शितवान् कनिष्ठः।

“मां पराजेतुम् इच्छता भवता आयुः वृथा व्ययितम्” इति उक्तवती राजकुमारी।

आयुषः व्ययः न मम, अपि तु एतस्याः पादारक्षायाः” इति उक्तवान् कनिष्ठः।

अग्रे किमपि वक्तुम् अजानती राजकुमारी पराजयम् अङ्गीकृतवती। तयोः विवाहः सवैभवं सम्पन्नः। सः कनिष्ठः अर्धराज्यस्य अधिपतिः अभवत्। तस्य गृहस्य दारिद्र्यं निवृत्तम् अभवत् अपि।

प्रतियुक्तिः

गोपीनाथः कश्चन महाकृपणः। यद्यपि तस्य समीपे यथेष्टम् ऐश्वर्यम् अस्ति, तथापि सः धनव्ययं न करोति। पुत्रं रमेशम् अपि कृपणतां पाठयति। तदीयम् एतादृशं व्यवहारं दृष्ट्वा जनाः खेदम् अनुभवन्ति स्म।

एकदा गोपीनाथः रमेशाय वस्त्राणि सीवयितुम् इच्छन् सौचिकस्य समीपं गतवान्। वस्त्रं दत्त्वा प्रत्यागच्छन् सः ‘सीवनशुल्कम् अदत्त्वा कथं वा सौचिकः वञ्चनीयः?’ इति आलोचनं कृतवान्। तदनगुणं पुत्राय उपायं सूचितवान् च। किन्तु उत्सवदिने अपि पुत्रः पुरातनं वस्त्रम् एव धृतवान् आसीत्। तत् दृष्ट्वा गोपीनाथः पुत्रं पृष्टवान्- “किं भोः? नूतनं वस्त्रं न आनीतवान् वा?” इति।

“सीवनशुल्कं यावत् न ददाति तावत् वस्त्रं न ददामि इति सौचिकः उक्तवान्” इति उक्तवान् रमेशः।

“अहम् अल्पवयस्कः बालकः। मम हस्ते दत्तं चेत् धनं मार्गे नष्टं भवेत् इति चिन्तयन् पिता मम हस्ते धनं न दत्तवान् इति भवान् सौचिकं न उक्तवान् वा?” इति पृष्टवान् गोपीनाथः।

“तथैव उक्तवान् अहम्। किन्तु सः- ‘यावत् भवान् धनं सुरक्षितम् आनेतुं शक्नोति तावत् अहं प्रतीक्षां करोमि’ इति उक्त्वा वस्त्रं न दत्तवान् एव” इति उक्तवान् रमेशः। अनन्योपायः गोपीनाथः सौचिकाय धनं दत्त्वा पुत्रस्य वस्त्राणि प्रत्यानीतवान्।

प्रवृत्तेः दास्यम्

स्र

वन्तीदेशस्य महाराजस्य मुखे महाश्मश्रु विराजते। सः प्रतिदिनं तैलं लेपयन्, सुगन्धं लेपयन् च स्वपुत्रम् इव श्मश्रु पालयति।

महाराजस्य क्षौरिकः तिरुमलः। सः कदाचित् क्षौरसमये वार्तालापे मग्नः सन् अजागरूकतया महाराजस्य श्मश्रुणः एकं भागं कर्तितवान्।

अकार्यप्रवृत्तेः अनन्तरं सः अतीव भीतः। ‘मम मरणदण्डनं निश्चितम्’ इति सः चिन्तितवान्।

तिरुमलः बुद्धिमान्। सः महाराजम् उक्तवान्- “महाप्रभो! मानवः महापुरुषः चक्रवर्ती वा कुतो न भवेत्, किन्तु तस्य दौर्बल्यं किमपि भवति एव। सर्वेऽपि दौर्बल्यस्य दासाः एव” इति।

एतत् श्रुत्वा राजा दर्पेण उक्तवान्- “एतत् अहं न अङ्गीकरोमि। महाराजः अहं कस्यापि दौर्बल्यस्य न दासः। अहं जितेन्द्रियः” इति।

“जितेन्द्रियत्वस्य प्रस्तावः किमर्थम्? सामान्यां प्रवृत्तिम् अपि त्यक्तुं न शक्नुमः वयम्। भवान् सर्वदा स्वश्मश्रुणः उपरि हस्तं स्थापयति खलु? यदि तत् न स्यात् चेदपि भवतः हस्तः अप्रयत्नेन तत्र गच्छेत् एव” इति उक्तवान् तिरुमलः।

तदा राजा दर्पेण उक्तवान्- “मां किमिति भावयति? भवान् मम श्मश्रु निष्कासयतु। तथापि हस्तः “तत्र न गच्छति” इति।

मनसि एव हसन् तिरुमलः महाराजस्य समग्रं श्मश्रु निष्कासितवान्।

एकक्षणाभ्यन्तरे महाराजस्य हस्तः पूर्वाभ्यासानुगुणम् अप्रयत्नेन मुखप्रदेशं गतः। तत् जानन् महाराजः हसितवान् अपि।

“भवतः वचनं सत्यम् एव” इति वदन् महाराजः स्वकण्ठहारं तिरुमलस्य कण्ठे स्थापितवान्। इदानीं किं वर्णयेम तिरुमलस्य आनन्दम्?

पट्टशिलामहिमा

स्मिंश्चित् ग्रामे काचित् वृद्धा आसीत्। तस्याः द्वौ पौत्रौ। सा स्वमरणं सन्निहितं ज्ञात्वा पौत्रौ आहूय उक्तवती- “यस्मात् लोकात् प्रतिनिवर्तनं नास्ति तादृशं लोकम् अहं गच्छामि। भवतोः निमित्तं मया किमपि न सम्पदितम्। पाकशालायाम् उलूखलं पट्टशिला च अस्ति। उलूखलं ज्येष्ठः स्वीकरोतु। कनिष्ठः पट्टशिलां स्वीकरोतु। यत् लब्धं तेन सन्तोषं प्राप्य सुखेन स्थातव्यम्” इति। अनन्तरं द्वित्रेषु दिनेषु सा दिवंगता च।

“उलूखलेन मम किं प्रयोजनम्? किम् अहं पाचकः भवेयम्?” इति वदन् ज्येष्ठः अन्यं ग्रामं गत्वा श्रमकार्येण जीवनम् आरब्धवान्।

कनिष्ठः पितामह्याः वचनं श्रद्धया पालितवान्। “पट्टशिला निष्प्रयोजिका यदि स्यात् तर्हि पितामही किमर्थं वा स्वीकर्तुं सूचयेत् ?” इति तस्य विचारः। पट्टशिलाम् उन्नीय एव सर्वत्र सञ्चरन्तं तं दृष्ट्वा जनाः उपहसन्ति स्म। कनिष्ठः एतद्विषये निर्लिप्तः इव व्यवहरति। अरण्यतः काष्ठम् आनीय ग्रामे विक्रयणं कुर्वन् सः जीवनं यापयति।

एकदा सः अरण्ये शुष्काणां काष्ठानां सङ्ग्रहणे निरतः आसीत्। तदा एकः महावृकः तस्य समीपम् आगतवान्। भीतः कनिष्ठः समीपस्थम् एकं वृक्षम् आरुह्य स्थितवान्।

तदा वृकः अवदत्- “वत्स ! मत्तः भीतिः मास्तु। अहम् अहितं किमपि न आचरामि। भवतः समीपे स्थितां पट्टशिलां ददातु इति प्रार्थयितुम् आगतवान् अहम्’ इति।

“तेन भवतः किं प्रयोजनम्?” इति वृकं पृष्टवान् कनिष्ठः।

“मम सहचरः वृकः मृतः। भवतः समीपस्था पट्टशिला तस्य नासिकासमीपे

स्थापिता चेत् सः जीवति” इति अवदत् वृकः

“मम पट्टशिलायाः तावत् सामर्थ्यम् अस्ति वा?” पृष्टवान् कनिष्ठः।

“मया सह आगत्य भवान् एव स्वयं पश्यतु” इति अवदत् वृकः।

कनिष्ठः वृक्षात् अवतीर्य पट्टशिलाम् उन्नीय वृकम् अनुसृतवान्। मृतस्य वृकस्य समीपं तौ गतवन्तौ कनिष्ठः तां पट्टशिलां मृतस्य वृकस्य नासिकायाः पुरतः स्थापितवान् तदा सः मृतः वृकः उज्जीवितः अभवत्।

“भवतः एषा पट्टशिला अपूर्वा। यावत् एतस्याः रहस्यम् अन्यः न जानाति तावत् एतस्याः माहात्म्यं तिष्ठति” इति सः वृकः अवदत्।

कनिष्ठः स्वग्रामं प्रत्यागतवान्। ग्रामगमनमार्गे एकस्य शुनकस्य शवः तेन दृष्टः एषः स्वसमीपे स्थितां पट्टशिलां तस्य नासिकायाः पुरतः गृहीतवान् पुनर्जीवनं प्राप्य सः शुनकः पुच्छं चालयन् उत्थितवान् कृतज्ञताभावेन तेनैव सह प्रस्थितवान् च।

कनिष्ठस्य ख्यातिः अल्पे एव काले सर्वत्र प्रसृता ‘पुनर्जीवनदाता वैद्यः’ इति तस्य ख्यातिः आगता। किन्तु प्राणदायकशक्तिः पट्टशिलायाम् अस्ति इति कोऽपि न जानाति। सः पट्टशिलायाः उपयोगसमये सर्वान् तत्प्रदेशतः दूरं प्रेषयति स्म।

एवम् एव दिनानि अतीतानि। कदाचित् महाराजस्य अद्वितीया पुत्री अकस्मात् मरणं प्राप्तवती। एषः कनिष्ठः तत्र गत्वा ताम् उज्जीवितवान्। राजा कृतज्ञताभावेन तस्य प्रशंसां कुर्वन् तस्मै एव स्वपुत्रीं दत्त्वा तं राज्यस्य उत्तराधिकारिस्थाने उपवेशितवान्। राज्ञः जामाता सन् अपि कनिष्ठः मृतोज्जीवनकार्यं न त्यक्तवान् अतः तस्मिन् राज्ये कस्यापि मरणभयं न आसीत्।

एकदा कनिष्ठस्य मनसि कश्चन विचारः आगतः ‘एषा पट्टशिला यदि मरणम् एव निवारयितुं शक्नुयात् तर्हि वार्धक्यं कृतो वा न निवारयेत्? अतः एषा वार्धक्यं निवारयितुं शक्नोति वा न वा इति द्रष्टव्यम्’ इति। अतः

सः प्रतिदिनं पट्टशिलायाः गन्धम् आघ्रातुम् आरब्धवान्। पत्नीम् अपि तथा कर्तुं सूचितवान्। सा अपि पट्टशिलायाः आघ्राणनं कर्तुम् आरब्धवती। एतस्य परिणामतः तौ नित्ययुवकौ इव दृश्येते स्म।

तयोः नित्ययौवनं दृष्टवतः चन्द्रस्य मनसि असूया उत्पन्ना। ‘सदा यौवनं तु मम एकस्य एव भवेत्, न अन्यस्य कस्यापि’ इति तस्य विचारः। सः चन्द्रः कनिष्ठस्य पट्टशिलाम् अपहर्तुं समयं प्रतीक्षमाणः आसीत्।

एकदा कनिष्ठः स्वपट्टशिलां परीक्षितवान्। जलांशकारणतः सा शिला तत्र तत्र शैवालैः लिप्ता आसीत्। शैवालं निवारयितुम् इच्छन् कनिष्ठः पट्टशिलाम् आतपे स्थापितवान्। स्वयं रक्षणार्थम् उपविष्टवान् च।

एतत् दृष्ट्वा राजकुमारी उक्तवती- “किम् एतत् अपमानकरं कार्यम्? किम् अत्र सेवकानाम् अभावः? उत्तिष्ठतु इतः” इति।

“सेवकानां विषये मम विश्वासः नास्ति। रक्षणकार्यार्थम् अहं मम शुनकं नियोजयामि” इति उक्त्वा कनिष्ठः शुनकं रक्षणकार्ये नियोज्य स्वयम् उत्थाय अन्तः गतवान्।

समयं प्रतीक्षमाणः चन्द्रः विना शब्दम् अधः आगत्य पट्टशिलाम् उन्नीय पलायनं कर्तुम् आरब्धवान्। तद्दिने अमावास्या इति कारणतः शुनकः चन्द्रं द्रष्टुं न शक्तवान्। किन्तु शुनकः पट्टशिलायाः गन्धं सम्यक् जानाति। अतः सः चौर्यं ज्ञात्वा गन्धबलेन चन्द्रम् अनुसृतवान्।

इदानीम् अपि सः शुनकः चन्द्रम् अनुसृत्य धावन् एव अस्ति इति बर्मादेशीयाः विश्वसन्ति। यदा चन्द्रग्रहणं भवति तदा “पश्यतु ! चन्द्रं शुनकः गिलितवान्” इति वदन्ति ते। यदा च ग्रहणमोक्षः भवति तदा ते “शुनकः चन्द्रं वान्तवान्” इति वदन्ति। शुनकस्य आकारः अल्पः इत्यतः चन्द्रः सदा शुनकस्य उदरे स्थातुं न अर्हति इति तेषां विचारः। पट्टशिलायाः अभावात् लोके मरणवार्धक्ययोः यथापूर्वं स्थितिः अभवत्।

पुरुषव्याघ्रः

“चीना जानपदकथा’

पू

र्वं चीनादेशे निर्गतिकः कश्चन युवकः आसीत्। मातरं विना तस्य अन्ये बान्धवाः न आसन्। सः प्रतिदिनं पर्वतप्रदेशं गत्वा काष्ठानि सङ्ग्रहणाति, तानि विक्रीय प्राप्तेन धनेन जीवति च।

शीतकालस्य कस्मिंश्चित् सायड्काले सः पर्वतप्रदेशे काष्ठानि सङ्ग्रहणन् आसीत्। तस्मिन् सयमे समीपे विद्यमानात् वेणुसमूहात् करुणापूर्णः सङ्कटयुक्तः कश्चन स्वरः श्रुतः। सान्द्ररूपेण वेणुसमूहः आसीत् इत्यतः समूहस्य अन्तः किम् अस्ति इति न दृश्यते स्म।

युवकः परशुं स्कन्धे संस्थाप्य वेणुसमूहस्य समीपं गतवान्। तदा सङ्कटयुक्तः ध्वनिः पूर्वापेक्षया उच्चैः श्रूयते स्म। अन्तः कः अस्ति, तस्य परिस्थितिः कीदृशी अस्ति इति किमपि न ज्ञातम्। सः बहु जागरूकतया मार्गं स्वच्छीकुर्वन् वेणुसमूहस्य अन्तः प्रविष्टवान्।

पूर्वं ये वेणवः कर्तिताः आसन् तेषां तीक्ष्णानि मूलानि वेणसमूहस्य मध्ये मध्ये आसन्। तानि तावत् तीक्ष्णानि आसन् यत् अजागरूकतया तेषाम् उपरि पादः स्थापितः चेत् पादः व्रणितः इत्येव।

वेणुसमूहस्य अन्तः करुणक्रन्दनं निरन्तरं श्रूयते स्म। करुणक्रन्दनं यः करोति सः मानवः उत मृगविशेषः इत्यपि न ज्ञायते स्म।

युवकः धैर्येण अग्रे गतवान्। वेणूनां मध्ये काचित् व्याघ्री तेन दृष्टा। तस्याः पादे कण्टकसदृशं वेणुमूलं लग्नम् आसीत्। एतेन इतस्ततः स्पन्दितुम् अपि अशक्ता सा वेदनया क्रन्दति स्म।

युवकः झटिति वेणुसमूहतः बहिः आगत्य पर्वतम् अवतीर्य गृहं गतवान्। अम्ब! पर्वतस्य उपरि वेणुसमूहे काचित् व्याघ्री व्रणिता, करुणया क्रन्दति। तां रक्षितुम्

इच्छन् अहं भवतीं नेतुम् अत्र आगतवान्। मम साहाय्यार्थं भवती आगन्तुं शक्नोति वा?” इति पृष्टवान् च।

“एवं वा? क्षणकालं तिष्ठतु। व्रणस्य उपरि लेपनार्थम् औषधरसम् अपि स्वीकृत्य एव गच्छाम” इति उक्तवती माता।

अनन्तरं मातापुत्रौ व्याघ्रीसमीपम् आगतवन्तौ। माता प्रीतिं प्रदर्शयन्ती लालन-वचनानि उक्तवती। पुत्रः उपायेन व्याघ्याः पादे लग्नं कण्टकं जागरूकतया निष्कासितवान्। व्याघ्री वेदनया विमुक्ता जाता। किन्तु सा स्वभावसहजां क्रूरतां न प्रदर्शितवती। अपि तु कृतज्ञतां प्रकटयन्ती इव मातरं पुत्रं च प्रीत्या आघ्रातवती माता व्याघ्र्याः व्रणे औषधं लेपयित्वा तृप्त्या वेणुसमूहात् बहिः आगतवती।

अनन्तरं गन्तुम् उद्युक्ता सा माता- “व्याघ्रि! वयं दरिद्राः। मम पुत्राय कन्यां दातुं कोऽपि उत्साहं न प्रकटयति। भवत्याः परिचिता कापि कन्या यदि स्यात् तर्हि कृपया मम पुत्रस्य विवाहे साहाय्यम् आचरतु। तेन भवती अपि पुण्यवती भविष्यति” इति उक्त्वा पुत्रेण सह ततः गतवती।

अनन्तरं हेमन्तऋतोः अन्तिमे भागे काचित् वधूयात्रा तेन पर्वतमार्गेण आगता। वधूः तु धनिकस्य पुत्री। तैः सह अनेकानि अमूल्यानि आभरणानि धनकनकादीनि च आसन्। वधूः शिबिकायाम् उपविष्टवती आसीत्। चत्वारः दृढकायाः सेवकाः शिबिकायाः पुरतः पृष्ठतः च गच्छन्तः आसन्।

तदा अकस्मात् पञ्च व्याघ्राः वधूयात्रायाः मार्गे आगत्य उपविष्टाः। ते गुर्गुरायन्ते स्म। पुच्छम् इतस्ततः चालयन्तः ते ततः निर्गमनत्वरां न प्रदर्शितवन्तः एव।

अकस्मात् आगतान् व्याघ्रान् दृष्ट्वा वधूयात्रासेवकाः वस्तूनि तत्रैव क्षिप्त्वा पलायनं कृतवन्तः। शिबिकावाहकाः अपि पलायनं कृतवन्तः। ‘किं प्रवृत्तम्’ इति जिज्ञासया वधूः शिबिकायाः द्वारम् उद्घाट्य बहिः आगतवती। तत्र एकः अपि सेवकः न दृश्यते! पञ्च व्याघ्राः तु पुच्छं चालयन्तः उपविष्टाः सन्ति!

ततः किञ्चित्कालानन्तरं युवकेन स्वगृहस्य द्वारताडनशब्दः श्रुतः। आश्चर्येण

उत्थाय सः द्वारम् उद्घाटितवान्। सुन्दरी वधूः द्वारस्य पुरतः स्थिता आसीत्। तस्याः पृष्ठतः पञ्च व्याघ्राः आसन्। तेषां मुखे मन्दहासः प्रीतिः च स्फुटं दृश्यते इव।

अनन्तरं युवकः तस्याः वध्वाः सम्मतिं प्राप्य तां परिणीतवान्। तया सह आनीतानि आभरणादीनि अपि युवकस्य गृहम् आगतानि। सा वधूः श्वश्र्वाः पत्युः च विधेया आसीत्। केषाञ्चित् दिनानाम् अनन्तरं वध्वाः पिता प्रवृत्तं सर्वं श्रुतवान्। सः पर्वतस्य अपरपार्श्वे निवसति। धनिकस्य तस्य प्रभावः सर्वत्र आसीत्। कुपितः सः न्यायाधिकारिणः पुरतः आक्षेपं कृतवान् यत् युवकः तस्य माता च मम पुत्रीम् अपहृतवन्तौ इति। न्यायाधिकारी युवकं, तदीयां मातरं च न्यायास्थानं प्रति आहूतवान्। न्यायविचारणम् आरब्धवान् च।

‘अहं तां न अपहृतवान्। व्याघ्राः तां मम गृहस्य समीपम् आनीतवन्तः। तस्याः सम्मतिं प्राप्य तां परिणीतवान् अहम् इति तु सत्यम् एव” इति उक्तवान् युवकः।

न्यायाधिकारी एतत् न अङ्गीकृतवान्। “एषः यावत् सत्यं न अङ्गीकरोति तावत् कशया एतं प्रहरन्तु” इति आज्ञापितवान् सः।

तदा युवकस्य माता न्यायाधिकारिणः पादयोः पतन्ती- “मम पुत्रः सत्यम् एव वदति। यदि आवश्यकं तर्हि अहं तान् व्याघ्रान् इदानीम् एव आनयामि” इति उक्तवती।

वचनानुसारं धावन्ती गतवती, अल्पे एव

काले प्रत्यागतवती च। पञ्च महाव्याघ्राः ताम् अनुसृत्य आगतवन्तः।

व्याघ्रान् दृष्ट्वा न्यायास्थाने स्थिताः सर्वे पलायनं कृतवन्तः। न्यायाधीशः तु भीत्या कम्पमानः उन्नतं किञ्चन आसनम् आरुह्य व्याघ्रान् पश्यन्- “किम् एतत्!….” इति एकं वाक्यम् उक्तवान्। तदनन्तरं तस्य मुखतः एकोऽपि शब्दः न निर्गतः।

न्यायाधिकारिणः भावं ज्ञातवन्तः इव व्याघ्राः ‘वयम् एव साक्षिणः’ इति वदन्तः इव शिरः चालितवन्तः। न्यायविचारणा युवकः मात्रा सह गृहं समाप्ता। प्रत्यागतवान्।

तस्मिन् वर्षे ग्रीष्मकाले सहस्रशः अटविकाः अकस्मात् तस्य राज्यस्य उपरि आक्रमणं कृतवन्तः। तेषां सैन्ये क्रूराः शुनकाः, कृष्णमुखिनः वानराः, भयङ्कराः भल्लूकाः च अपि आसन्। राजा तु प्रतिभटनं कर्तुम् अशक्तः सञ्जातः।

सैनिकाः कर्तव्यबुद्ध्या युद्धार्थं तु गतवन्तः। किन्तु तेषां युद्धविद्यानैपुण्यं तु निष्प्रयोजकं जातम्। यतः आक्रमणकाराः अटविकाः तु युद्धनियमान् अजानन्तः स्वेच्छया आक्रमणं कुर्वन्ति स्म।

तत्समये कश्चित् महाराजाय काष्ठविक्रेतुः युवकस्य वार्तां निवेदितवान्।

तृणम् अपि महत्साहाय्यं मन्यमानः राजा तद्दिने एव युवकम् आनाय्य उक्तवान्- “भवतः व्याघ्रसाहाय्यम् अस्ति किल? केनापि उपायेन भवान् एतान् शत्रून् निवारयति चेत् भवन्तं सेनापतिस्थाने नियोजयिष्यामि” इति।

अटविकाः आक्रमणकाराः सैनिकानाम् आयुधेभ्यः न भीताः आसन् खलु? किन्तु इदानीं ते क्रूरान् पञ्च व्याघ्रान् दृष्ट्वा धैर्यच्युताः सन्तः आक्रोशनं कुर्वन्तः इतस्ततः धावितवन्तः।

महाराजस्य गौरवं रक्षितम् अभवत्। पूर्वं दत्तस्य वचनस्य अनुसारं राजा तं युवकं सेनापतिस्थाने नियोजितवान्। विशेषपुरस्कारं दत्त्वा योग्यं वेतनं निश्चित्य च ‘पुरुषव्याघ्रः’ इति बिरुदा तं सत्कृतवान् च।

सहजता

पू

र्वं माधवशर्मा नाम कश्चन चित्रकारः आसीत्। सः चित्रलेखने सुप्रसिद्धः। तेन चित्रितानि चित्राणि महावणिजः, धनिकाः, भूस्वामिनः इत्यादयः महता मूल्येन क्रीणन्ति स्म।

एकदा सः कलहनिरतयोः दृप्तवृषभयोः चित्रं लिखितवान्। तत् चित्रं दृष्ट्वा चित्रकारस्य अभिमानिनः सर्वे बहुधा प्रशंसां कृतवन्तः।

एतैः प्रशंसावचनैः माधवशर्मा अतीव सन्तुष्टः। सः तद्दिने सर्वान् अभिमानिनः आहूय विशेषभोजनं व्यवस्थापितवान्। वृषभयुद्धस्य चित्रं वस्त्रे लेपयित्वा श्रीगन्धस्य दण्डे बद्धवान्, तत् भोजनशालायां स्थापितवान् च।

‘एतत् चित्रं राजधानीं प्रति नेतव्यम्’ इति सूचितवन्तः भोजनकूटम् आगताः ते अभिमानिनः।

‘सत्यम्। महाराजाय यदि एतत् चित्रं प्रदर्शयेयं तर्हि सोऽपि सन्तुष्टः भवेत्। विशेषपारितोषिकं दद्यात् अपि” इति चिन्तितवान् माधवशर्मा। अतः सःअनन्तरदिने एव कैश्चित् मित्रैः सह राजधानीं प्रति प्रस्थितः एव।

मार्गे ते कञ्चित् ग्रामं प्राप्तवन्तः। मित्रेषु एकः माधवशर्माणम् उक्तवान्- “एतस्मिन् ग्रामे युद्धरतयोः वृषभयोः तत् चित्रं प्रदर्शयेम। तेन भवतः महत्त्वं एते अपि जानन्तु नाम” इति।

माधवशर्मा एतत् अङ्गीकृतवान्। पेटिकातः वृषभयोः युद्धस्य चित्रं बहिः आनीय प्रदर्शयन् सः तत्र सम्मिलितान् जनान् उक्तवान्- “मम समीपे श्रेष्ठानि बहूनि चित्राणि सन्ति। किन्तु तेषाम् अर्थं ज्ञातुं न शक्नुयुः भवन्तः। एतत् वृषभयोः युद्धस्य चित्रं पश्यन्तु भवन्तः। चित्रणं सहजम्

अस्तीति कारणतः भवताम् अपि सन्तोषः भवेत्” इति।

ग्रामीणाः कुतूहलेनचित्रं परिशीलितवन्तः। माधवः ग्रामीणानां तेषां प्रतिक्रियां ज्ञातुम् इच्छन् किमपि प्रष्टुम् उद्यक्तः।

अत्रान्तरे कश्चन युवकः कृषिकः उच्चैः हसितवान्। हसन्तं युवकं दृष्ट्वा माधवशर्मा अतीव कुपितः।

सः तं कृषिकयुवकं कोपेन पश्यन्- “अये! चित्रकलाविषये भवान् किं वा जानाति? किमर्थं तथा हसति ? का वा असहजता तत्र दृष्टा भवता?” इति पृष्टवान्।

असहजता काऽपि नास्ति। अतीव सहजम् अस्ति चित्रम्। अतीव सहजम्” इति मन्दहासं प्रकटयन् उक्तवान् सः युवकः।

तदा माधवस्य मित्रेषु अन्यतमः तं कृषिकयुवकं दृष्ट्वा- “एषः कः इति जानाति खलु भवान्? माधवशर्मा एषः चित्रकारेषु सुप्रसिद्धः। एतस्य चित्राणि धनिकाः भूस्वामिनः महावणिजः च महता धनव्ययेन क्रीणन्ति। महाराजोऽपि क्रीणाति। इतोऽपि किम् अधिकं वक्तव्यम्? भवान् तु एतत् चित्रं दृष्ट्वा उपहसति। एतत् तु अनुचितम्” इति उक्तवान्।

तदा कृषिकयुवकः- “भोः, वृषभयोः कलहम् अहम् इतः पूर्वं बहुवारं दृष्टवान् ‘अस्मि। यदा तौ शिरः अवनमय्य शृङ्गाभ्यां परस्परं घट्टयतः तदा तयोः पुच्छं कशारज्जुः इव वायौ परिभ्रमति। चित्रे लिखितम् इव कदापि अधोमुखं शान्तं न तिष्ठति” इति उक्तवान्।

एतत् श्रुत्वा एतावत्पर्यन्तं मौनं स्थिताः सर्वे ग्रामीणाः उच्चैः हसितवन्तः। तदा माधवशर्मा स्वहस्ते स्थितं चित्रपटं झटिति पुटीकृत्य पेटिकायां स्थापितवान्।

चित्रकारस्य अभिमानिनः सर्वे मौनं शिरः अवनमय्य स्थितवन्तः। माधवशर्मा तत्क्षणे एव ततः प्रस्थितवान् - न राजधानीं प्रति, अपि तु स्वग्रामं प्रति।

समर्थः ज्योतिषिकः

श्री

निवासपरराज्यस्य आस्थाने ज्योतिषिकपदवी काचित् रिक्ता आसीत्। समर्थः ज्योतिषिकः अत्र (नियोजनीयः इति महाराजस्य इच्छा। अतः राजा देशे स्थितान् सर्वान् ज्योतिषिकान् स्वकीयम् आस्थानं प्रति आहूतवान्।

परीक्षानन्तरम् आगतेषु पञ्च जनाः ज्योतिः शास्त्रे पण्डिताः इति सिद्धम्। राजा तान् आहूय पृष्टवान्- “भवता जन्मकुण्डल्यां आस्थानज्योतिषिकपदव्याः प्राप्तेः योगः अस्ति वा?” इति।

‘तादृशः योगः अस्ति इति विश्वस्य एव किल वयम् अत्र आगतवन्तः?” इति पुष्टवन्तः ज्योतिषिकाः।

इदानीं राजा सन्देहे पतितः। एतेषु पञ्चसु अहम् एकम् एव आस्थानज्योतिषिकपदव्यां नियोक्ष्यामि तदानीम् अवशिष्टानां चतुर्णां वचनं मिथ्या भविष्यति। तेन सिध्यति यत् ते चत्वारः ज्योतिषे निपुणाः न इति। तर्हि एतेषु समर्थः कः स्यात्?” इति बहुधा चिन्तितवान् राजा।

मन्त्री राज्ञः समस्यां ज्ञात्वा उक्तवान्- “एतेषु कञ्चित् एकं नियोजयतु भवान्। अनन्तरं भवतः सन्देहस्य परिहारं कथयष्यामि” इति। राजा रामशास्त्रिनामकम् आस्थानज्योतिषिकस्थाने नियोजितवान्। एतं विषयं मन्त्रिणे सूचितवान् च।

तदा मन्त्री उक्तवान्- “महाराज! एषः रामशास्त्री एवज्योतिः शास्त्रे महापण्डितः” इति।

“केन आधारेण भवान् एवं वदति?” इति पृष्टवान् राजा।

“महाराज! सत्यं वक्तव्यं चेत् पञ्चानां पाण्डित्यम् अपि समानम् एव। किन्तु रामशास्त्रिणः तु अदृष्टबलम् अस्ति। यतः सः एव किल आस्थानज्योतिषिकपदवीं प्राप्तवान् अतः एतस्य सामर्थ्यम् अधिकम् इति अहम् उक्तवान्” इति विवरणं दत्तवान् मन्त्री।

संशयशीलः

पू

र्वं सुरपुरे रामरायः नाम कश्चन भूस्वामी निवसति स्म। बाल्यतः आरभ्य तस्य पठनविषये महती निरासक्तिः।तदीयविद्याभ्यासार्थं तस्य पिता महान्तं प्रयत्नं कृतवान् आसीत्। तदीयाः सर्वे यत्नाः विफलाः आसन्। इदानीं तु रामरायः मृगयाविहारं, ग्रामस्थानां सकाशतः करसङ्ग्रहणं, स्वादुभोजनम् इति एतावत् एव जानाति।

रामरायस्य अभिप्रायः आसीत् यत् ये सर्वदा चिन्तनमग्नाः भवन्ति तेकुशाग्रमतयः एव इति। तस्य कार्यालये वेङ्कटरामः नाम कश्चित् उद्योगी आसीत्। सः सर्वदा अपि किमपि आलोचयन् एव तिष्ठति। अतः रामरायस्य भावना आसीत् - “वेङ्कटरामः महाबुद्धिमान्” इति।

भूस्वामी तदा तदा वेङ्कटरामं स्वपार्श्वे उपवेश्य पृच्छति- “किं भोः? किं चिन्तयन् अस्ति?” इति। वेङ्कटरामः चिन्तनविषयं निवेदयति। तेन - “अहो! ज्ञानी नाम एषः एव” इति चिन्तयति भूस्वामी।

एकस्यां रात्रौ निद्रितः भूस्वामी केनापि शब्देन जागरितः। सः प्रकोष्ठतः बहिः आगत्य इतः ततः दृष्टवान्। वेङ्कटरामः न शयितवान् आसीत्। उपविश्य एव किमपि चिन्तयति स्म। तत् दृष्ट्वा भूस्वामी तं पृष्टवान्- “किं चिन्तयन् अस्ति वेङ्कटराम?” इति।

“भोः, चोराः चौर्यार्थम् अमावास्यारात्रौ एव किमर्थं गच्छन्ति इति चिन्तयन् आसम्” इति उक्तवान् वेङ्कटरामः।

तस्य वचनेन तृप्तः भूस्वामी स्वप्रकोष्ठं गत्वा शयनं कृतवान्। किन्तु अनन्तरं तस्य निद्रा न आगता। वेङ्कटरामः इदानीं किं चिन्तयन् अस्ति इति ज्ञातव्यम् इति कुतूहलम् उत्पन्नम्।

भूस्वामी पुनः बहिः आगत्य “किं भोः वेङ्कटराम, शयितवान् वा?” इति

पृष्टवान्।

“न, चोराः चौर्यार्थं धनिकानां गृहम् एव किमर्थं गच्छन्ति इति चिन्तयन् आसम्” इति उक्तवान् वेङ्कटरामः।

भूस्वामी तस्य उत्तरं श्रुत्वा “वेङ्कटरामः कीदृशः चिन्तनशीलः!” इति वदन् पुनः स्वप्रकोष्ठं गत्वा शयनं कृतवान्। किञ्चित्कालानन्तरं तस्य निद्रा आगता।

प्रातःकालसमये जागरितः भूस्वामी प्रकोष्ठतः बहिः आगत्य दृष्टवान्। तदानीम् अपि शय्यायाम् एव उपविश्य चिन्तयन्तं वेङ्कटरामं सः पृष्टवान्- “इदानीं किं चिन्तयन् अस्ति भोः ?” इति।

“भोः, इदानीं किञ्चित्कालात् पूर्वं चोराः भवतः अयसः पेटिकायां विद्यमानं धनं सर्वं नीतवन्तः। तावत् धनं ते किं कुर्युः इति चिन्तयन् अस्मि” इति उक्तवान् वेङ्कटरामः।

तत् श्रुत्वा भूस्वामिनः रामरायस्य हृदयं स्तब्धम् इव। सः शीघ्रं प्रकोष्ठं गत्वा दृष्टवान्। अयसः पेटिका रिक्ता आसीत्।

सः वेङकटरामस्य समीपम् आगत्य कोपावेशेन उक्तवान्- “भोः बुद्धिहीन, यदा चोराः चौर्यं कुर्वन्तः आसन्, तदा भवान् तूष्णीं पश्यन् आसीत् वा? उच्चैः यदि कोलाहलं कृतवान् स्यात् तर्हि वयं सर्वेऽपि तान् चोरान् ग्रहीतुं शक्ताः अभविष्याम किल? किं जातं भवतः?” इति।

वेङ्कटरामः किमपि न उक्तवान्।

भूस्वामी तं कोपेन पश्यन्- “किं भोः, सम्भाषणं न करोति?” इति पुनः पृष्टवान्।

“भोः, कथं सम्भाषणं करोमि? चौर्यसमये उच्चैः कोलाहलः करणीयः इति किमर्थम् अहं न ज्ञातवान् इति चिन्तयन् आसम्” इति उक्तवान् वेङ्कटरामः।

एतेन प्रसङ्गेन भूस्वामी ‘कः संशयशीलः, चिन्तनशीलः च कः’ इति ज्ञातवान्। अप्रयोजकान् तादृशान् संशयशीलान् स्वकार्यालयतः निष्कास्य उत्तमान् एव नियोजितवान्।

शिरसः योगक्षेमम्

“बुन्देलखण्डस्य जानपदकथा”

बु

न्देलखण्डनगरे प्राचीनराजवंशीयः कश्चन धनिकः आसीत्। तस्य नाम जयपालः। जयपालसमीपे दैनन्दिनजीवनयापनार्थं यावत् आवश्यकं तावत् अपि धनं न आसीत्। तथापि सः धनिकः इव वेषभूषादिकं धरन् आडम्बरं प्रदर्शयति। सदा स्ववंशविषये किमपि वदन् समयं यापयति।

एकदा जयपालः पीताम्बरश्रेष्ठिना सह वार्तालापं कुर्वन् आसीत्। तदा दूरतः आगच्छन् कश्चन वृषभशकटः ताभ्यां दृष्टः। तस्मिन् शकटे बहवः धान्यस्यूताः स्थापिताः आसन्।

तं शकटं दृष्ट्वा जयपालः उच्चैः उक्तवान् “कियदुन्नतः गजः ! मम पितामहस्य समीपे अपि एतादृशः एव गजः आसीत्” इति।

तदा पीताम्बरः हसन् उक्तवान् -“भोः श्रीमन्, भवान् भ्रान्तः इति भाति। सः न गजः, अपि त धान्यगोणीभिः पूर्णः वृषभशकटः " इति।

“भ्रमः मम न, अपि तु भवतः एव। सः गजः इति स्पष्टं दृश्यते। सः गजः अस्मदभिमुखं वेगेन आगच्छन् अस्ति” इति जयपालः उक्तवान्।

“श्रीमन् ! सः धान्यगोणीभिः पूर्णः वृषभशकटः एव” इति दृढस्वरेण उक्तवान् पीताम्बरः।

“यदि सः गजः स्यात् तर्हि मम जयः। तदा अहं भवतः शिरः कर्तयिष्यामि। यदि सः शकटः स्यात् तर्हि भवतः जयः। तदा भवता मम शिरः कर्तनीयम्। भवतु वा?” इति वदन् ‘जयपालः पीताम्बरस्य प्रतिक्रियाम् अनिरीक्षमाणः मार्गे आगत्य स्थितवान्। अल्पे एव काले वृषभशकटः तयोः पुरतः आगतः।

“जयपालवर्य! इदानीं वा ज्ञातं खलु एषः न गजः, अपि तु वृषभशकटः इति ? भवान्

पराजितः अभवत्” इति मन्दहासपूर्वकम् उक्तवान् पीताम्बरः।

“आं, पीताम्बर! भवतः वचनं सत्यम्। इदानीं मम शिरः कर्तयतु भवान्” इति उक्तवान् जयपालः।

“त्यजतु भोः एतं विषयम्। विनोदार्थं निश्चितः आसीत् सः पणः” इति उक्तवान् पीताम्बरः।

जयपालः हठस्वरेण उक्तवान् - “तथा कदापि भवितुं न अर्हति। वयं राजवंशीयाः। राजवंशीयाः वचनपरिपालने निष्ठुराः। भवता मम शिरः कर्तनीयम् एव” इति।

पीताम्बरः यावत् वदति चेदपि जयपालः न अङ्गीकरोति। अन्ते पीताम्बरः उक्तवान् - “निर्णयार्थम् आवां न्यायाधीशस्य समीपम् एव गच्छेव। सः यथा वदति तथा आचरणं भवतु” इति।

अनन्तरं तौ न्ययाधीशस्य समीपं गतवन्तौ। न्यायाधीशः समग्रं वृत्तान्तं श्रुतवान्। स्वकीय निर्णयं श्राविंतवान् च - “जयपालस्य शिरः पीताम्बरस्य अधीनम्” इति तु सत्यम् एव। यदि इच्छति तर्हि सः कर्तयतु, नो चेत् रक्षतु” इति।

एतं निर्णयं श्रुतवतः जयपालस्य महान् आनन्दः। सः सन्तोषातिरेकेण उक्तवान् -“एतत्क्षणतः मम शिरसः रक्षणकार्यं पोषणदायित्वं च भवतः एव” इति।

सरलः पीताम्बरः अनन्योपायतया जयपालस्य शिरसः पोषणस्य रक्षणस्य च दायित्वम् अङ्गीकृतवान्।

किन्तु एतत् दायित्वं महतः धनव्ययस्य कारणं जातम्। जयपालस्य राजवंशस्य ‘गौरवानुगुणं पीताम्बरेण शिरसः रक्षणं करणीयम् आसीत्। एतेन पीताम्बरस्य आर्थिकी परिस्थितिः विषमतां गता। कानिचन दिनानि अतीतानि। पीताम्बरस्य केचन आत्मीयाः स्नेहिताः आसन्। ‘पीताम्बरस्य उपरि एतत् विचित्रं दायित्वं यत् पतितं ततः विमोचनं कथम्’ इति ते सर्वे सम्भूय चिन्तितवन्तः। अन्ते तेषां मनसि कश्चन उपायः स्फुरितः। एतम् उपायं ते पीताम्बरं श्रावितवन्तः।

उपायानुसारं अनन्तरदिने कश्चित् पुरुषः पीताम्बरस्य गृहस्य मार्गेण गच्छन् उच्चैः उक्तवान् “वयं कर्णनासिकादिकं क्रीणीमः।

कोऽपि विक्रेतुम् इच्छति वा?” इति।

पीताम्बरः तं पुरुषम् आहूय पृष्टवान् “अये मित्र! स्पष्टं वदतु। भवान् किं कर्तुम् इच्छति?” इति।

‘श्रीमन्! अहं मनुष्याणां नासिकां कर्णं च क्रीणामि” इति उक्तवान् सः पुरुषः।

‘केन मूल्येन क्रीणाति?” इति पीताम्बरः तं पृष्टवान्।

“यदि उत्तमवंशीयस्य स्यात् तर्हि नासिकां कर्णद्वयं च पञ्चशतैः रूप्यकैः क्रीणामि” इति उक्तवान् सः पुरुषः।

पीताम्बरः तं पुरुषं जयपालस्य समीपं नीतवान्। तं प्रदर्श्य उक्तवान् - “एषः मम स्नेहितः राजवंशे उत्पन्नः। एतस्य शिरः इदानीं मम वशे अस्ति। मह्यं पञ्चशतं रूप्यकाणि ददातु, एतस्य नासिकां कर्णद्वयं च स्वीकरोतु” इति।

एतत् वचनं श्रुत्वा जयपालः क्रुद्धः। सः असमाधानेन उक्तवान् - “पीताम्बर! एतत् तु अनुचितम्” इति।

“अनुचितम् इति किमर्थं वदति? एतत् तु शिरः मम। अहं यथा इच्छामि तथा करोमि” इति उक्तवान् पीताम्बरः।

‘आवां न्यायाधीशस्य समीपं गच्छाव। सः यथा वदति तथा आचराव” इति उक्तवान् पीताम्बरः। अनन्तरं जयपालः पीताम्बरः च न्यायाधीशस्य समीपं गतवन्तौ। प्रवृत्तं निवेदितवन्तौ च।

न्यायाधीशः जयपालम् उक्तवान् -“श्रीमन्! भवतः नासिकां कर्णद्वयं च विक्रेतुम् पीताम्बरस्य पूर्णः अधिकारः अस्ति। यतः सः भवतः शिरसः पोषणार्थं यथेष्टं व्ययं कृतवान्। यदि भवान् नासिकायाः कर्णद्वयस्य च विक्रयणं निराकरोति तर्हि पीताम्बरेण यावान् व्ययः कृतः तावत् धनं दातव्यम्” इति।

** न्यायाधीशस्य वचनं श्रुत्वा जयपालः निरुत्तरः जातः। स्वकीया या सम्पत्तिः आसीत् तां समग्रतया पीताम्बरस्य नास्ति लिखितवान् सः। अनन्तरं तं ग्रामं त्यक्त्वा कुत्रापि गतवान् च।**

स्मरणिका

सूर्यपुरग्रामः पर्वतस्य उपत्यकायाम् आसीत्। फलोद्यानैः वृक्षवाटिकाभिः च स च प्रदेशः अतीव रमणीयतया शोभते स्म। ग्रामस्य वातारणम् आरोग्याय अनुकूलकरः इत्यतः धनिकाः अस्वास्थ्यसमये तत्र आगत्य कानिचन दिनानि तिष्ठन्ति स्म। यदा पूर्णतः स्वस्थाः भवन्ति तदा प्रतिगच्छन्ति स्म।

एतस्मिन् ग्रामे नटवरः नाम कश्चित् आसीत्। तस्य स्वकीयं गृहादिकं किमपि नास्ति। अतः सः स्वास्थ्यसम्पादनार्थम् अन्यप्रदेशेभ्यः ये धनिकाः आगच्छन्ति तेषां सेवां करोति।

यदा ते प्रतिगन्तुम् उद्युक्ताः भवन्ति तदा एषः प्रार्थयते- “श्रीमन् ! अहं भवन्तं सदा यथा स्मरेयं तथा किमपि दत्त्वा गच्छतु” इति।

ते धनिकाः नटवराय किञ्चित् धनम् अमूल्यं वस्तु वा दत्त्वा गच्छन्ति स्म।

एकदा एतं ग्रामं केशवचक्रवर्ती इति कश्चित् धनिकः गृहस्थः आगतवान्। नटवरः यदा यदा आवश्यकं तदा सर्वदा तस्य साहाय्यं कृतवान्।

प्रतिफलरूपेण केशवचक्रवर्ती तत्तत्सन्दर्भे एव कृतकार्यानुगुणं धनं ददाति स्म।

केषाञ्चित् दिनानाम् अनन्तरं केशवचक्रवर्ती नटवरम् उक्तवान्- “भवतः ग्रामस्य वातावरणप्रभावतः अहं पूर्णतः स्वस्थः जातः। इतः परम् अचिरात् एव मम ग्रामं प्रतिगमिष्यामि” इति।

नटवरः पूर्वतनाभ्यासानुसारम् उक्तवान्- ‘अस्तु श्रीमन्! भवादृशाः धनिकाः एतं ग्रामं तदा तदा आगच्छन्ति। मम सेवया तृप्ताः ते स्मरणार्थम् इति किमपि दत्त्वा गच्छन्ति। मम हस्ते स्थितम् अङ्गुलीयकं, रजतकङ्कणं, गृहे स्थिता काष्ठपेटिका इत्यादयः उदारिभिः दत्ताः एव” इति।

तत् श्रुत्वा केशवचक्रवर्ती उक्तवान्- अहं तु एतेषां सर्वेषाम् अपि अपेक्षया श्रेष्ठम् उपायनं दास्यामि भवन” इति।

एतेन नटवरः अतीव सन्तुष्टः। सः केशवचक्रवर्तिनः निगमनदिनम् एव प्रतीक्षमाणः आसीत्।

एकदा नटवरः कार्यानिमित्तं पार्श्वग्रामं गतवान्। प्रत्यागमनार्थं चत्वारि दिनानि लग्नानि।

किन्तु अत्रान्तरे केशवचक्रवर्तीं ग्रामं त्यक्त्वा निर्गतवान् आसीत्। एतत् ज्ञातवतः नटवरस्य आश्चर्यं खेदः च।

एतदनन्तरं कानिचन वर्षाणि अतीतानि। नटवरः वृद्धः सञ्जातः। एकदा सः कस्यचित् गृहस्य पुरतः विश्रान्त्यर्थं भित्तिम् आलम्ब्य उपविष्टवान् आसीत्।

तदा कश्चन धनिकः अश्वशकटेन आगत्य नटवरं परीक्ष्यादृष्ट्या पश्यन् पृष्टवान्- “भोः, विश्रान्त्यर्थम् अहम् एतं ग्रामम् आगतवान्। भाटकार्थम् उपलभ्यमानः समीचीनः प्रकोष्ठः कोऽपि अत्र कुत्रापि अस्ति वा?” इति।

नटवरः

झटिति उत्थाय- “प्रकोष्ठः भाटकार्थम् अस्ति वा न वा इति अन्नस्थः यजमानः एव प्रष्टव्यः” इति धनिकं सूचितवान्।

“भवान् इदानीं किं कार्यं कुर्वन् अस्ति?” इति कुतूहलेन पृष्टवान् धनिकः।

एतत् श्रुत्वा निरुत्साहपूर्णेन स्वरेण उक्तवान् नटवरः- “किं करोमि इदानीम्? शरीरस्य शक्तिः क्षीणा जाता। तत्कारणतः कार्येषु अज्ञाततया एव कोऽपि लोपः भविष्यति। आलस्यं वर्धते। चिन्तनानुगुणं शरीरं न सहकरोति। न उत्साहः, न वा कार्यदक्षता। अतः कोऽपि मां किमपि कार्यं न वदति। किन्तु यदा अहं यौवने आसं तदा बहूनां साहाय्यं कृतवान्। बहवः धनिकाः “विश्रान्त्यर्थम् एतं ग्रामम् आगच्छन्ति स्म। ते इतः निर्गमनसमये ज्ञापकार्थं किमपि दत्त्वा गच्छन्ति स्म। इदानीं कालः परिवृत्तः। तादृशः उदारी कोऽपि न दृश्यते। आयः कोऽपि नास्ति। कथञ्चित् जीवनं प्रचलति इति।

“पूर्वम् अत्र आगतेषु दातुम् अनिच्छन्, दानं विस्मृत्य वा कोऽपि न गतवान् वा?’ इति पुनः पृष्टवान् सः धनिकः।

नटवरः पूर्वतनं प्रसङ्गं पुनः अपि स्मरन् क्षणकालस्य मौनानन्तरम् उक्तवान्- ‘आम्, एकं तादृशं स्मरामि। तस्य नाम केशवचक्रवर्ती इति वा किमपि अस्ति। सः एकः एव किमपि अदत्त्वा एव इतः गतवान्” इति।

“सः तथा किमर्थं कृतवान् स्यात्?” इति पृष्टवान् सः धनिकः।

“तदेव अहम् अपि न जानामि। षष्टिवर्षीये मम अनुभवे तादृशः उदारः अन्यः कोऽपि मया न दृष्टः। यदा सः गमनप्रस्तावं कृतवान् तदा अहम् अभ्यासबलेन किमपि दातव्यम्’ इति पृष्टवान् अपि। किन्तु अनिवार्यकारणेन पार्श्वग्रामं गत्वा त्रिचतुराणां दिनानाम् अनन्तरम् अहं यदा प्रत्यागतवान् तदा सः इतः निर्गतः आसीत्। मां अत्याशासहितं चिन्तितवान् स्यात् सः। यदि दातव्यम् इति, इच्छा स्यात् तर्हि अत्रत्यस्य कस्यचित् हस्ते दत्त्वा मां दातुं सूचयितम् अर्हेत् सः” इति उक्तवान् नटवरः।

धनिकः प्रीत्या आदरेण च नटवरस्य स्कन्धे हस्तं स्थापयन्- “नटवर ! सः केशवचक्रवर्ती अहम् एव। बहवः धनिकाः भवते किमपि किमपि दत्तवन्तः। तेषु एकम् अपि भवान् न स्मरति। यः किमपि न दत्तवान् तादृशं मां सम्यक् स्मरति भवान्। सत्यं खलु?” इति पृष्टवान्।

नटवरः आश्चर्यचकितः सन्केशवचक्रवर्तिनं भक्त्या श्रद्धया च नमस्कृतवान्।

तदा केशवचक्रवर्ती - “यदा अहम् अत्र आसं तदा भवते अमूल्यं पारितोषिकं दातुं निश्चितवान् आसम्। अस्मिन् वार्धक्ये भवतः योगक्षेमं द्रष्टुं कोऽपि नास्ति खलु? अतः मया सह आगच्छतु। यावज्जीवं भवतः कोऽपि क्लेशः यथा न भवेत् तथा व्यवस्थां करिष्यामि। इदानीम् एव तावत्” इति उक्त्वा तं शकटसमीपं नीतवान्।

नटवरः आश्चर्यम् आनन्दं च अनुभवन् उत्साहेन केशवचक्रवर्तिनम् अनुसरन् शकटम् आरूढवान्।

स्वजनपक्षपातः

काञ्चनदेशं कुमारवर्मा परिपालयन् आसीत्। सः कुशाग्रमतिः। यद्दिने सः सिंहासनम् आरूढवान् तद्दिनतः राजोद्योगिनां कार्यवैखरीं परिशीलयन् एव आसीत्। राजा एवं सुसूक्ष्मं परीक्षां कुर्वन् अस्ति इति कोऽपि न जानाति स्म।

एकदा कुमारवर्मा राजोद्याने विहरन् आसीत्। तदा सः आलवालं निर्माय जलेन पुष्पसस्यानि सिञ्चन्तं कञ्चित् कर्मकरं दृष्टवान्।

तस्य कार्यकरणरीतिं दृष्ट्वा एव राजा ज्ञातवान् यत् उद्यानरक्षणकार्ये एतस्य परिणतिः नास्ति इति।

कुमारवर्मा तस्य कर्मकरस्य समीपं गत्वा पृष्टवान्- “भवन्तम् इतः पूर्वम् अत्र कदापि न दृष्टवान् अहम्। पूर्वं यः कार्यं करोति स्म सः कुत्र?” इति।

“प्रभो! सः सर्पदंशनकारणतः कार्यं कर्तुम् असमर्थः जातः। अतः उद्यानपालकेन अहम् अत्र नियुक्तः अभवम्” इति उक्तवान् सः कर्मकरः।

“अत्र आगमनतः पूर्वं भवान् कीदृशं कार्यं कुर्वन् आसीत् ?” इति पृष्टवान् राजा।

“उद्यानपालकस्य गृहे तिष्ठन् लघुलघुकार्याणि कुर्वन् आसं महाप्रभो!” इति विनयेन उक्तवान् सः।

कुमारवर्मा पुनः किमपि न पृष्टवान्। मौनं प्रासादं प्रविष्टवान्।

अनन्तरदिने कुमारवर्मा नगरपालकं, गजशालाधिपतिं राजप्रासादप्रमुखं च स्वसमीपम् आहूय- “अहम् अन्यम् एकम् अङ्गरक्षकं नियोजयितुम् इष्टवान् अस्मि। देहबलेन सहैव यस्य बुद्धिबलं, साहसबुद्धिः, युक्तायुक्ततानिर्णयक्षमता च अस्ति तादृशः मह्यम् अपेक्षितः। भवतां परिचितेषु एतादृशः यदि कोऽपि स्यात् तर्हि सूचयन्तु” इति उक्तवान्।

अनन्तरं ते त्रयः अपि सप्ताहाभ्यन्तरे एव

महाराजम् एकान्ते दृष्ट्वा महाराजेन उक्तैः गुणैः सहितान् अङ्गरक्षककार्ये समर्थान् द्वित्रान् आनीय प्रदर्शितवन्तः।

कुमारवर्मा तान् उद्दिश्य द्वित्रान् सामान्यान् प्रश्नान् पृष्टवान्। अनन्तरं तान् प्रतिप्रेषितवान् च।

अनन्तरदिने कुमारवर्मा मन्त्रिणम् इतरान् मुख्यान् राजोद्योगिनः च एकत्र मेलितवान्। उक्तवान् च- “यदा अहम् अङ्गरक्षकं नियोक्तुम् इच्छामि इति ज्ञातं तदा केचन प्रमुखाः स्वपरिचितम् एतदर्थं दक्षं सूचयन्तः मत्समीपम् आनीतवन्तः। वस्तुतः तु अहम् अङ्गरक्षकं नियोक्तुं न इच्छामि एव। उन्नतस्थाने स्थितानाम् अधिकारिणां व्यवहारस्य परीक्षार्थं मया एवं कृतम् आसीत्” इति।

कुमारवर्मणः वचनं श्रुत्वा सर्वे आश्चर्यचकिताः।

तदा मन्त्री मङ्गलसेनः- “प्रभो! उन्नताधिकारिणां परीक्षा कृता इति तु ज्ञातम्। एवं परीक्षार्थं किं कारणम् इति तु न ज्ञातम्” इति उक्तवान्।

कुमारवर्मा मन्दहासं प्रकटयन् नूतनतया नियुक्तस्य उद्यानकर्मकरस्य कार्ये अदक्षतां निवेदयन्- “यस्य उद्यानकार्ये सर्वथा अनुभवः नास्ति सः उद्यानपालकस्य परिचयकारणतः उद्याने कार्यं प्राप्तवान्। एतादृशस्य कार्येण उद्यानस्य गतिः का भवेत् इति न पुनः वक्वव्यम्” इति उक्तवान्। उद्यानपालकः लज्जया शिरः अवनमय्य स्थितवान्।

कुमारवर्मा क्षणकालानन्तरं पुनः उक्तवान्- “अल्पस्थाने स्थितः उद्यानपालकः अपि स्वजनपक्षपातेन असमर्थाय शासकीयम् उद्योगं दापयति। एवं चेत् उन्नतस्थाने स्थिताः किं कुर्वन्तः स्युः इति ज्ञातुं शक्यते एव किल? अतः अद्य आरभ्य कुत्रापि यदि उद्योगस्थानं रिक्तं स्यात् तर्हि सा वार्ता सडिण्डिमघोषं प्रसारणीया, येन सर्वे एतां वार्तां ज्ञातुं शक्नुयुः” इति।

अनन्तरकाले सर्वे अधिकारिणः एतम् एव क्रमम् अनुसृतवन्तः। कुमारवर्मणः शासनकाले स्वजनपक्षपातः लुप्तः अभवत्।

स्वयंकृतापराधः

“हङ्गरी जानपदकथा”

पञ्चशतवर्षेभ्यः पूर्वं धर्मात्मा इति ख्यातः मात्यास्नामकः महाराजः हङ्गरीदेशं परिपालयति स्म। तस्मिन् काले राजधानीतः अनतिदूरे वर्तमाने एकस्मिन् ग्रामे कश्चित् धनिकः वसति स्म। सः धनिकः महान् धूर्तः, वञ्चकः च आसीत्।

सः किमपि किमपि असत्यं वदति, भ्रामकवचनानि वदति। अन्ये तस्य जाले यदा पतन्ति, तदा सः महान्तं सन्तोषम् अनुभवति। एतादृशकार्यं यदि न करोति, तर्हि तस्मै भोजनं वा निद्रां वा न रोचते।

एवं हि सति कदाचित् सः दुष्टः धनिकः राजधानीं गत्वा तत्र किमपि वाणिज्यं कृत्वा, एकस्यूतपूर्णानि सुवर्णनाणकानि सम्पादितवान्। किन्तु तावत् सुवर्णं प्राप्य ग्रामं प्रत्यागतः सः तूष्णीं न स्थितवान्।

“अहं शुनकान् विक्रीय एतावत्प्रमाणकं सुवर्णं सम्पादितवान्। राजधान्यां शुनकानां महती आवश्यकता अस्ति। तत्र बहवः शुनकग्राहकाः सन्ति” इति प्रत्येकस्य अपिग्रामस्थस्य पुरतः कथितवान्। आश्चर्यचकिताः मुग्धाः ग्रामीणाः आसक्त्या कुतूहलेन च यदा शृण्वन्ति, तदा तस्य महती तृप्तिः।

तस्मिन् ग्रामे एकः दरिद्रः आसीत्। धनिकस्य वचनानि श्रुत्वा तस्य अपि धनार्जनस्य आशा उत्पन्ना। सः धनिकस्य समीपं गत्वा- “भोः आर्य, भवतः शुनकविक्रयणवचनं सत्यं वा ? अहं दरिद्रः अस्मि भोः! अहम् अपि तथा कर्तुं शक्नोमि वा?” इति पृष्टवान्।

“सत्यं भोः, सत्यम्। मात्यास् महाराजः शुनकान् पुनः पुनः क्रीणाति। अधिकाधिकमूल्यं ददाति च। एतां वार्तां ज्ञात्वा मत्समीपे यावत् धनम् आसीत्, तत्सर्वं दत्त्वा शुनकान् क्रीत्वा नगरं नीतवान्। महाराजः तान् शुनकान् दृष्ट्वा महता सन्तोषेण अत्यधिकमूल्यं दत्त्वा सर्वान्

शुनकान् क्रीतवान्। एतस्मात् वाणिज्यतः एव अहं एतावत् सुवर्णं प्राप्तवान्। मूलधनस्य षोडशगुणितः लाभः! भवान् तु अतीव दरिद्रः खलु? धनं सम्पादयितुम् इच्छति चेत्, शुनकान् क्रीत्वा नगरं नयतु। महाराजः निश्चयेन क्रीणाति” इति उक्तवान् धनिकः।

धनिकस्य वचनेषु दरिद्रस्य महान् विश्वासः सञ्जातः। यथा कथञ्चित् बहुधनं सम्पादनीयम् इति दरिद्रः निश्चयं कृतवान्। किन्तु तस्य समीपे एक शुनकं क्रेतुं पर्याप्तं धनम् अपि न आसीत्। तस्य गृहे एका दुर्बलां गां विना अन्यत् किमपि न आसीत्।

तथापि सः एतादृशं सुवर्णावकाशं त्यक्त्म अनिच्छन्, तां दुर्बलां गाम् एव साप्ताहिकविपणिं नीत्वा विक्रीय, लब्धेन धनेन कतिपयशुनकान् क्रीतवान्। तेषां कण्ठेषु रज्जुबन्धनं कृत्वा, तान् महता प्रयासेन राजधानीं नीतवान्।

सः राजभवनं प्राप्य, यदा द्वारस्य समीपं गतवान्, तदा अन्तः प्रवेष्टुं द्वारपालकाः अवकाशं न दत्तवन्तः। धनिकेन वञ्चना कृता इति इदानीं दरिद्रः ज्ञातवान्। तस्य वृत्तान्तं श्रुत्वा राजभटाः यदा उच्चैः हसितवन्तः, तदा दरिद्रः अश्रूणि स्रावयन् रोदितुम् एव आरब्धवान्। यतः इदानीं सः सम्पूर्णरूपेण रिक्तहस्तः आसीत्। भिक्षायाचना एव तस्य कृते अवशिष्टः मार्गः आसीत्।

तस्मिन् समये राजभवनस्य अट्टे स्थितः महाराजः शब्दायमानान् शुनकान्, तैः सह स्थितं रोदनपरं कञ्चन दरिद्रं च दृष्ट्वा कुतूहलाविष्टः अभवत्। “तत्र किं प्रवर्तते इति ज्ञात्वा, तं दरिद्रम् अन्तः आनयन्तु’ इति सेवकान् प्रेषितवान्।

दरिद्रः महाराजस्य समीपं गत्वा, स्वग्रामस्य धनिकस्य असत्यकथनम् उक्त्वा आत्मानं कथं वञ्चितवान् इति विचारं सविवरणं कथितवान्।

तस्य दरिद्रस्य उपरि महाराजस्य महती दया सञ्जाता। “अहं शनकान् क्रीणामि इति विचारः यथार्थः एवं” इति उक्त्वा सः महाराजः दरिद्राय शतं सुवर्णनाणकानि दत्तवान्, तस्य धनिकस्य नामसङ्केतादिकं

स्वीकृतवान् च।

दरिद्रस्य सन्तोषस्य सीमा एव न आसीत्। महाभाग्यवान् सः स्वीयं ग्रामं प्रत्यागत्य, स्वीयशनकविक्रयणविचार, सुवर्णनाणकानां लाभविषयं च सर्वेषां पुरतः वर्णितवान्। ग्रामीणानां तु महत् आश्चर्यम् अभवत्।

सः दरिद्रः स्वीयवचनं श्रुत्वा जनानाम् उपहासपात्रं भवति इति धनिकेन चिन्तितम् आसीत्। किन्तु सः वस्तुतः एव शुनकानां वाणिज्यं कृत्वा सुवर्णं सम्पादितवान् इति ज्ञात्वा धनिकस्य अत्याश्चर्यं जातम्। ‘तं वञ्चयितुं मया उक्तम् असत्यं यथार्थम् एव जातम्! तर्हि मया अपि एषः अवकाशः किमर्थं त्यक्तव्यः? अहं किमर्थं भाग्यहीनः भवेयम्?

‘एवं चिन्तयन् धनिकः तूष्णीं स्थातुम् असमर्थः अभवत्। सद्यः एव सः स्वीयां सम्पूर्णां सम्पत्तिं विक्रीय लब्धेन धनेन सहस्रशः शनकान् क्रीत्वा, तान् सर्वान् राजधानीं नीतवान्। किन्तु राजभवनस्य पुरतः तस्य तदीयशनकानां च कृते द्वारपालकैः प्रवेशः निराकृतः। धनिकः उच्चैः आक्रोशं कृतवान्। तस्य शुनकाः कर्णकठोरं भर्षान्ति स्म।

एतं कोलाहलं श्रुत्वा अट्टे स्थितः महाराजः शुनकस्वामिनम् अन्तः आनेतुम् आज्ञापितवान्।

“अहं शुनकानां विक्रयणार्थम् आगतवान् अस्मि” इति महाराजं निवेदितवान् धनिकः।

धनिकस्य नामश्रवणसमनन्तरम् एव महाराजः ज्ञातवान् यत् एषः एव तं दरिद्रं वञ्चितवान् इति। सः धनिकम्- “अहम् केवलम् एकवारम् एव शुनकान् क्रीतवान्। इदानीं मम शुनकानाम् आवश्यकता नास्ति। भवान् विलम्बेन आगतवान् अस्ति’ इति उक्तवान्।

धनिकः यथा राजधानीं गतवान्, तथा एव स्वग्रामं प्रत्यागतवान्। तस्य सम्पूर्णां सम्पत्तिः शुनकाधीना अभवत्। तदनन्तरं बहुकालं यावत् तेन कृतं शुनकवाणिज्यं पुनः पुनः वर्णयन्तः ग्रामीणाः आनन्दम् अनभवन्ति स्म।

श्वेतशशः

“जपानवेशस्य जानपदकथा”

जपानदेशस्य समीपे समुद्रे शशानाम् एव द्वीपः अस्ति। तत्र विविधाः शशाः असङ्ख्याकाः। किन्तु तेषु श्वेतवर्णीयः शशः एकः एव आसीत्।

सः श्वेतशशः प्रतिदिनं समुद्रतीरं गच्छति। सिकतासु शयानः जपाददेशस्य दिशि निर्निमेषदृष्ट्या पश्यति। ‘कथञ्चित् जपानदेशः गन्तव्यः। तत्र स्थितं चित्रवैचित्र्यं द्रष्टव्यम्’ इति तस्य महती इच्छा।

एतादृश्याः इच्छायाः कारणम् अपि अस्ति एव। शशस्य स्नेहितः कश्चन मकरः अस्ति। सः तदा तदा जपानदेशतः शशद्वीपम् आगत्य सिकतासु विहरति। एतत्कारणतः तस्य मकरस्य शशस्य च मध्ये स्नेहः प्रवृद्धः।

मकरः जपानदेशस्य वैशिष्ट्यं वर्णयन् वदति- “मित्र! जपादेशस्य समुद्रतीरे अतीव अस्वच्छाः सिकताः। तत्र पादद्वययुताः मनुष्यनामकाः प्राणिनः निवसन्ति। ते पादद्वयेन यत् यत् सञ्चरन्ति तत् तु अत्यद्भुतम्” इति।

मनुष्याणां जीवनक्रमं वर्णयन् मकरः पुनः वदति- “मानवानां प्रभुः कश्चन चक्रवर्ती अस्ति। तस्य एका पुत्री अस्ति। तस्याः केशाः अमावास्यायाः अन्धकारः इव कृष्णाः। शरीरस्य कान्तिः तु पूर्णिमायाः कौमुदी इव श्वेता। सा राजकुमारी जन्मनि एकवारं द्रष्टव्या एव” इति।

मकरेण उच्यमानम् एतत् सर्वं शृण्वतः शशस्य मनसि भावना उदेति- ‘समुद्रम् अतिक्रम्य एकवारम् एतत् सर्वं द्रष्टव्यम् एव’ इति। भावनायाः तीव्रतां सोढुं न शक्नोति सः।

एकदा मकरः शशम् अवदत्- “भोः राजकुमार्याः विवाहः इति वार्ता। राजकुमारीं

परिणेतुम् इच्छन्तः बहवः राजकुमारा आगतवन्तः इति श्रुतम्। तेषु कमपि राजकुमारी न परिणीतवती इत्यपि श्रुतम् इति।

अन्यस्मिन् दिने मकरः अन्यां सद्यः कालीनां वार्ताम् आनीतवान्- “राजकुमारीं परिणेतुम् इच्छन्तः पञ्च सहोदराः सुदूरात् देशतः आगच्छन्तः सन्ति इति श्रुतम्। तेषु एकः तां परिणेतुम् अपि अर्हेत्” इति। ‘चक्रवर्तिनः पुत्र्याः विवाहः एतत्सन्दर्भे तुअवश्यं भविष्यति एव’ इति तु प्रचलन्तं जनानां वार्तालापं श्रुतवान् आसीत् मकरः।

जपानदेशः द्रष्टव्यः इति आशा शशस्य मनसि अदम्या जाता। ‘इदानीं तां राजकुमारीं यदि न पश्येयं तर्हि पुनः कदापि द्रष्टुं न शक्नुयाम् एव’ इति व्यथा अपि तस्य।

अतः सः मकरम् अवदत्- “भ्रातः ! मां भवतः पृष्ठे आरोप्य जपानसमुद्रतीरं प्रापयतु। भवतः उपकारम् आजीवनं स्मरामि अहम्” इति।

“यदि अहं भवन्तं जपानदेशं नीतवान् इति भवतः बान्धवाः जानीयुः तर्हि ते निश्चयेन कुपिताः भवेयुः। पुनः कदापि अहम् एतस्य तीरस्य सिकतासु शयनसुखम् अनुभोक्तुं न शक्नुयाम्” इति सन्देहं प्रकटितवान् मकरः।

अन्ते श्वेतशशस्य अनुरोधं निरोद्धुम् अशक्तः सः मकरः तं शशं पृष्ठे आरोप्य जपानतीरं प्रापितवान्। तत्तीरं गोलाकारिकाभिः लघुशिलाभिः कृष्णवर्णीयया मृत्तिकया च व्याप्तम् आसीत्।

एषः शशः यदा किञ्चिदग्रे अगच्छत् तदा कश्चन शुनकः तम् अनुधावन् आगत्य अदशत्। शुनकात् आत्मानं रक्षन् सः एकं गुल्मं प्राविशत्। स च गुल्मः कस्यचित् सेतोः अधः आसीत्। समीपे एव लवणभूमिः अपि आसीत्। जीवने प्रथमवारं प्राणभयम् अनुभवन् अस्ति शशः। ‘जन्मभूमिं व्यक्त्वा आगच्छता मया दोषः कृतः’ इति पश्चात्तापम् अनुभवति सः।

अल्पे एव काले सेतोः उपरि गच्छतः अश्वस्य खुरपुटध्वनिः श्रुतः। शशः गुल्मात् बहिः आगत्य विचित्रं प्राणिनं मनुष्यं

निर्निमेषम् अपश्यत्।

चत्वारः मनुष्याः अश्वम् आरुह्य आगच्छन्तः आसन्। ‘चक्रवर्तिनः पुत्री अस्मासु कं परिणयेत्?’ इति विषये ते परस्परं चर्चयन्तः आसन्। राजकुमारीं परिणेतुं गच्छन्तः सन्ति एते इति ज्ञातवान् सः शशः। यतः मकरः पूर्वम् एव उक्तवान् आसीत् खलु पञ्च जनाः सुदूरात् देशतः आगच्छन्तः सन्ति इति?

‘अहम् अपि राजकुमारीं द्रष्टुम् इच्छामि। भवद्भिः सह माम् अपि नयन्तु’ इति तान् प्रार्थयत् शशः।

“एवं वा? व्रणितं भवन्तं दृष्ट्वा राजकुमारी सन्तोषेण नृत्येत्” इति उपहसितवन्तः ते।

तेषु एकः अवदत्- “भवान् लवणजले स्नानं कृत्वा सिकतासु लुण्ठनं करोति चेत् भवतः व्रणाः शाम्यन्ति” इति। एतत् सत्यम् इति भावयन् शशः लवणजलेन स्नानम् अकरोत्। एतेन व्रणिते स्थले महती वेदना उत्पन्ना। एतां वेदनां शमयितुम् इच्छन् सः मृत्तिकासु लुण्ठनम् अकरोत्। एतेन वेदना द्विगुणिता अभवत्। कौमुदी इव प्रकाशमानं तदीयं शरीरं सर्वथा मलिनं जुगुप्साजनकं चजातम्।

“हा हन्त ! एते मानवाः दुष्टाः। एतदपेक्षया शुनकानां सहवासः एव उचितः भवेत्” इति वदन् अश्रूणि स्रावयन् सेतोः समीपे उपाविशत् शशः।

तदा सेतुमार्गेण अन्यः मनुष्यः आगतवान्। सः शय्याभारं स्कन्धे आरोपितवान् आसीत्। रुदन्तं शशं दृष्ट्वा सः - “भोः, किमर्थम् एवं रोदिति ? किं प्रवृत्तम् ?” इति वात्सल्येन पृष्टवान्।

‘एषः सज्जनः इव भाति’ इति आलोचयन् शशः प्रवृत्तं सर्वम् अवदत्। चतुर्णां पुरुषाणां दौष्ट्यम् अवर्णयत् च। सः मनुष्यः ‘अहं तेषाम् अनुजः पञ्चमः राजकुमारः’ इति आत्मनः परिचयम् उक्त्वा तेषां दौष्ट्यार्थं क्षमां याचितवान्।

“ते चत्वारः राजकुमारीं परिणेतुम् आगतवन्तः। अहं तेषां सेवकत्वेन आगतवान् अस्मि” इत्यपि उक्तवान् सः मानवः।

तदा शशः अपृच्छत्- “भवान् किमर्थं वा राजकुमारीं न परिणयेत्? सा जगदेकसुन्दरी इति वार्ता श्रुता मया” इति।

सः पञ्चमः राजकुमारः किमपि उत्तरम् अयच्छन् मौनं शिरश्चालयन् शशं जलेन क्षालितवान्। तस्य व्रणस्य उपरि औषधरसं लेपितवान् च।

तं पुष्पशय्यायां प्रीत्या शाययन्- “भवान् अत्रैव किञ्चित्कालं सुखनिद्रां करोतु। एतां शय्याम् अग्रजानां समीपं नीत्वा प्रत्यागत्य भवन्तं चक्रवर्तिनः पुत्र्याः समीपं नेष्यामि” इति उक्तवान् च।

यदा सः शय्यां प्रापय्य प्रत्यागतवान् तदा अपि शशः निद्रायाम् एव मग्नः आसीत्। अत्रान्तरे व्रणिते स्थले औषधप्रभावतः रोमाणिउत्पन्नानि आसन्।

पञ्चमः राजकुमारः तम् उन्नीय राजकुमार्याः समीपं गतवान्। ततः पूर्वं राजकुमारी चतुर्षु एकम् अपि राजकुमारं न इष्टवती आसीत्।

द्वारपालकाः राजकुमारीं निवेदितवन्तः- “अन्योऽपि राजकुमारः द्वारसमीपे तिष्ठति। तस्य हस्ते अपूर्वः श्वेतः शशः अपि अस्ति” इति।

‘‘श्वेतः शशः! एतत् तु मया न श्रुतम् एव। झटिति तम् अन्तः प्रेषयन्तु” इति आज्ञापितवती राजकुमारी।

राजकुमारी राजकुमारस्य हस्तात् तं शशं स्वीकृतवती। प्रीत्या तस्य शरीरम् आमृशन्- “कियान् सुन्दरः कोमलश्च शशः एषः! “इति स्वसन्तोषं प्रकटीकृतवती। तदा शशः पञ्चमेन राजकुमारेण कृतम् उपकारं वर्णयन् अवदत्- “भवत्या एषः एव परिणेतव्यः’ इति।

“राजकुमारी एतत् अङ्गीकृतवती। केषुचित् एव दिनेषु चक्रवर्तिकुमारी-राजकुमारयोः विवाहः सवैभवं सम्पन्नः।

अनन्तरं शशः कदापि स्वद्वीपं न अगच्छत् एव। राजकुमार्याः सहवासे चिरकालं सुखम् अतिष्ठत् च।

तायकमाहात्म्यम्

पू

र्वकाले गणराजः नाम कश्चन महाचोरः आसीत्। सः कदाचित् राजभवनं प्रविश्य कोषागारतः यथेष्टम् ऐश्वर्यं चोरितावान्। तत् एकत्र रहस्यस्थाने स्थापितवान् च। अनन्तरं तस्य मनसि कुतूहलं जातं यत् चोरग्रहणविषये कीदृशाः प्रयत्नाः राज्ये प्रचलन्तः सन्ति इति द्रष्टव्यम् इति। अतः गणराजः वेषान्तरं धृत्वा राजधानीम् आगतवान्।

यदा सः धर्मशालायाः पुरतः गच्छन् आसीत् तदा तेन कश्चन संन्यासी दृष्टः। सः संन्यासी सुप्रसिद्धः। तस्य समीपे यानि वस्तूनि भवन्ति तानि महिमान्वितानि’ इति गणराजेन श्रुतम् आसीत्।

अतः सः निश्शब्दं संन्यासिनः समीपं गतवान्। किमपि वस्तु स्यात् वा इति अन्विष्टवान्। संन्यासिनः हस्ते रजतमयं तायकं बद्धम् आसीत्। चोरः गणराजः तत् तायकं संन्यासिनः हस्ततः निष्कास्य स्वहस्ते बद्धवान्। तदा जागरितः संन्यासी एतत् यद्यपि दृष्टवान्, तथापि सः किमपि न उक्तवान्।

तायकधारणसमनन्तरम् एव चोरस्य मुखात् एतानि वचनानि निर्गतानि - “अहम् एव महाचोरः गणराजः। महाराजस्य कोषागारः मया एव लुण्ठितः” इति।

अप्रयत्नेन स्वमुखात् उच्चैः स्वरेण आगतानि एतानि वचनानि श्रुत्वा चोरः भीतः। सः कोपेन तायकं वेगेन सुदूरं क्षिप्तवान्। किञ्चिदूरं गतं तायकं तावता एव वेगेन प्रत्यागत्य गणराजस्य हस्ते लग्नम् अभवत्। भीतः सः द्वित्रवारं तायकं दूरे क्षिप्तवान्। तथापि तत् प्रत्यागत्य तस्य हस्ते लगति स्म।

अत्रान्तरे जनाः तत्र सम्मिलिताः। राजभटाः अपि केचन तत्र आगतवन्तः। राजभटाः तं महाराजसमीपं नीतवन्तः।

राजा चोरं दृष्ट्वा भटानां कथनम् अपि श्रुतवान्। अनन्तरं सः उक्तवान् - “कोऽपि चोरः आत्मनः चौर्यं स्वयं न उद्घोषयति। तथापि एतेन सूचिते स्थले अन्वेषणं कृत्वा आगच्छन्तु। एतेन यदि असत्यम् उक्तं स्यात् तर्हि एतस्य शिरः कर्तयित्वा दुर्गद्वारे उत्तोलयन्तु” इति।

भटाः गणराजेन सह तत् स्थलं गतवन्तः। तत्र वस्तुतः अपि चोरितानि आसन्। आभरणादीनि भटाः तानि आनीय महाराजाय प्रदर्शितवन्तः।

आश्चर्यचकितः राजा उक्तवान् एतैः आभरणैः ज्ञायते यत् एषः महाचोरः गणराजः एव इति। किन्तु अहं चिन्तयामि केनापि विशेषकारणेन एषः सत्यं वदन् स्यात् इति। यावत् वस्तुस्थितिः न ज्ञायते तावत् एतं कारागारे स्थापयन्तु। जागरूकतया रक्षन्तु च” इति।

तद्दिने रात्रिसमये गणराजः कारागृहरक्षकेण सह वार्तालापं कुर्वन् मैत्रीं सम्पाद्य स्वहस्ते बद्धं तायकं प्रदर्शयन् उक्तवान् “एतस्य माहात्म्यम् अपूर्वम्। एतस्य धारणेन भवान् एव स्वयम् जानाति” इति।

भटः कुतूहलेन तायकं स्वीकृतवान्। तदा तस्य मुखतः एतानि वचनानि आगतानि रक्षणकार्यसमये निद्रां करोमि। किन्तु मम निद्रां कोऽपि न जानाति, यतः अहं नेत्रे उद्घाट्य एव निद्रां कर्तुं शक्नोमि” इति।

एतेन रक्षकभटस्य रहस्यं ज्ञातवान् गणराजः। अतः सः मध्यरात्रसमये अयः-शलाकाः भञ्जयित्वा ततः पलायितवान्।

प्रातःकाले भटः प्रवृत्तं सर्वं ज्ञातवान्। सः भटः स्वयं महाराजसमीपं गत्वा उक्तवान् “महाप्रभो! गणराजः रात्रौ पलायितवान्। तत्र कारणं मम दोषः एव” इति।

“राजा कोपेन भटं पृष्टवान् किमर्थं तस्य पलायनार्थम् अवकाशं दत्तवान्?” इति।

“प्रभो ! तेन मह्यम् एकं तायकं दत्तम्। तस्य धारणेन मम मुखात् मदीयं रहस्यम् अप्रयत्नेन प्रकटितम् अभवत्” इति वदन् सः भटः स्वहस्ते स्थितं तायकं महाराजाय दत्तवान्।

राजा तायकं दूरे क्षिप्तवान्। किन्तु तत् प्रत्यागत्य महाराजस्य हस्ते एव पुनः लग्नम्। ‘अन्येन यदि न स्वीक्रियते तर्हि एतत् न त्यजति’ इति एतां वस्तुस्थितिं ज्ञातवान् महाराजः। मुष्ट्या गृहीत्वा एव सः तद्दिनं यापितवान्। तदा तस्य मनसि कश्चन विचारः अगतः ‘एतदाधारेण राजोद्योगिनां प्रजानां च अभिप्रायः ज्ञातव्यः’ इति।

अनन्तरदिने सः सभाम् आयोज्य तत्र पस्थितम् एकम् आहूय तस्य हस्ते तायकं बद्धवान्। तदा सः उच्चैः स्वरेण उक्तवान् “प्रजानाम् उपरि अधिकं करभारम् आरोपयन् यावत् राज्यभारं करोति तावत् भवान् लुण्ठाकः, महाराजः कथमपि न भवति” इति।

अनन्तरं राजा तायकं ततः स्वीकृत्य एकस्य भटस्य हस्ते बद्धवान्। “नाममात्रेण वेतनं यच्छन् यथेष्टं कार्यं च कारयन् एषः महाराजः सर्वथा निन्द्यः एव” इति असमाधानेन उक्तवान्।

तदनन्तरं राजा तत् तायकं सेनापतेः हस्ते बद्धवान्। तदा सेनापतिः “राजजीवनं नाम भोगस्य शय्या। अतः राजसिंहासनम् आरोढव्यम् इति मम महती इच्छा न जाने, कदा एषा इच्छा पूरिता भवेत्” इति उक्तवान्।

एतादृशानि वचनानि श्रुतवतः महाराजस्य शान्तिः दूरङ्गता। रात्रौ निद्रा एव नास्ति। “प्रजानां हितार्थं मया बहूनि उत्तमकार्याणि कृतानि। तानि कोऽपि न स्मरति। वेतनवृद्धिः कृता चेदपि सैनिकानाम् मनःसमाधानम् एव नास्ति। महत्त्वपूर्णस्थाने तिष्ठतः सेनापतेः तु मद्विषये असूया। एतेषु विश्वस्य एव खलु एतावत्पर्यन्तम् अहं राज्यभारं कृतवान्। कीदृशः विश्वासद्रोह!” इति एवं रूपेण चिन्तयन् महाराजः अतीव खिन्नः।

अनन्तरदिने सः मन्त्रिणं स्वसमीपम् आहूय उक्तवान् “प्रवृत्ताः सर्वाः घटनाः परिशीलितवतः मम मनसि भावना यत् एषः राज्यपालनभारः मह्यं मांस्तु इति” इति।

तदा मन्त्री हसन् उक्तवान् - “द्वित्राणाम् अभिप्रायं श्रुत्वा एवं निर्णयः अनुचितः एव। तीरे स्थित्वा सरोवरस्य गभीरतां ज्ञातुं न शक्नुमः

खलु वयम्? भवतः मनसः अशान्तेः कारणं तत् तायकम् एव। प्रथमं तत् अन्यस्मै ददातु। तदा भवान् स्वस्थचित्तः भविष्यति” इति।

मन्त्रिणः एतां सूचनां राजा अङ्गीकृतवान्। तत् तायकं स्वीकरणीयम् इति सर्वान् प्रार्थितवान् अपि। किन्तु तायकं स्वीकर्तुं कोऽपि सिद्धः न जातः, यतः सर्वे तायकस्य माहात्म्यं जानन्ति स्म।

अन्ते राजा उद्घोषितवान् यत् यः तायकं धरति तस्मै अमूल्यं पारितोषिकं दीयते इति। एतदनन्तरम् अपि कोऽपि तायकं स्वीकर्तुं सिद्धः जातः। इदानीं महाराजस्य अहोरात्रम् एका एव चिन्ता ‘तायकं कथं निवारणीयम् ?’ इति।

चिन्तया श्रान्तः सः मन्त्रिणम् उक्तवान् “एतस्य तायकस्य निवारणोपायं भवान् एव सूचयतु” इति।

मन्त्री दिनत्रयस्य समयं स्वीकृत्य ततः निर्गतवान्। तृतीये दिने प्रत्यागत्य आत्मना सह आगतम् एकं पुरुषं प्रदर्श्य उक्तवान् “महाप्रभो! एषः तायकधारणार्थं सिद्धः अस्ति इति।

राजा तायकं तस्य हस्ते बद्धवान्। ‘सः किं वदेत्?’ इति महाराजस्य कुतूहलम्। किन्तु सः तायकधारणानन्तरम् अपि किमपि न उक्तवान् एव। राजा पूर्वतनघोषणानुसारं तस्मै पारितोषिकं “तायकधारणेन भवतः यच्छन् उक्तवान् - स्वरूपपरिचयः भवेत् इति मम निरीक्षा आसीत्। किन्तु भवान् कोऽपि महानुभावः इति भाति। अतः तायकस्य कोऽपि परिणामः न जातः” इति।

तदा मन्त्री मन्दहासं प्रकटयन् उक्तवान् - “प्रभो ! एषः महानुभावः न अपि तु मूकः। ‘तायकधारणार्थम् एषः योग्यः’ इति निश्चित्य एतम् अनीतवान्” इति।

महाराजेन दत्तेन पारितोषकेण तस्य मूकस्य जीवनं समृद्धं जातम्। मूलकारणीभूतः महाचोरः गणराजः अनन्तरकाले केनापि देशे कुत्रापि न दृष्टः।

उत्तराधिकारी

‘शङ्करपुरे सत्यनारायणः नाम कश्चन धनिकः आसीत्। सः महाकृपणः, विवादशीलः अपि। तस्य पत्नी गौराम्बा अपि पत्युः स्वभावम् एव अनुकरोति।

कोऽपि कष्टे अस्ति इति वार्ता ज्ञाता चेत् सत्यनारायणः तत्र धावति। नयवचनैः मोहयित्वा तस्मै ॠणं ददाति। अनन्तरं गणनायां वञ्चनां कुर्वन् द्विगुणितं धनं प्रतिसङ्गृह्णाति च। पत्नी गौराम्बा अपि स्थालिकाचषकादिकम् आधिरूपेण स्वीकुर्वती वृद्ध्या धनं सम्पादयति।

अनयोः दम्पत्योः विवाहात् पञ्चविंशतिवर्षाणाम् अनन्तरम् एकः सुन्दरः पुत्रः जातः। ‘उत्तराधिकारी जातः’ इति दम्पती अतीव सन्तुष्टौ। पुत्रजननवार्तां श्रुत्वा प्रतिवेशिनः उक्तवन्तः- “बहोः कालात् अनन्तरं पुत्रः जातः। अतः नामकरणमहोत्सवः सवैभवम् आचरणीयः। विशेषभोजनं दातव्यं च” इति।

एतस्य प्रस्तावस्य विषये पतिः पत्नी च सुदीर्घं चिन्तितवन्तौ। पत्नी सूचितवती- “पुत्रस्य नामकरणदिने एव आवयोः विवाहस्य रजतोत्सवम् अपि आचरेम। तदा ये आगच्छन्ति तैः पुत्राय, आवयोः कृते च पृथक् पृथक् उपायनं दातव्यं भविष्यति।

एवं द्विधा वयम् उपायनानि सङ्ग्रहीतुं शक्नुमः” इति।

सत्यनारायणः एतत् अङ्गीकृतवान्। एतदनुगुणं ग्रामस्थाः सर्वे आहूताः। भोजनकूटस्य व्यवस्था अपि कृता।

ग्रामस्थाः एतयोः दम्पत्योः स्वभावं जानीतः। दुरालोचनायाः गन्धः अपि तैः आघ्रातः। तद्दिने आगताः सर्वे - “विवाहात् पञ्चविंशतिवर्षाणाम् अनन्तरं जाताय भवतोः पुत्राय एतत् अङ्गुलीयकम्” इति

वदन्तः शिशवे उपायनं दत्तवन्तः। विवाहरजतोत्सवनिमित्तम् उपायनदानं दूरे तिष्ठतु, केनापि तस्य प्रस्तावः अपि न कृतः।

रात्रौ सत्यनारायणः गौराम्बा च उपायनस्य मूल्यं निश्चेतुम् उद्युक्तौ जातौ।

‘यावान् व्ययः कृतः तावत् तु आगतं स्यात् एव’ इति तयोः विचारः आसीत्।

अङ्गुलीयकानि पश्यतः सत्यनारायणस्य मनसि कोऽपि सन्देहः। सः झटिति अन्तः गत्वा शाणम् आनीय अङ्गुलीयकपरीक्षां कृतवान्। “हा हन्त! वञ्चिताः वयम्” इति उद्गारं प्रकटयन् सर्वाणि अङ्गुलीयकानि परीक्ष्य पत्नीम् उक्तवान्- “सर्वैः दत्तानि अपि सुवर्णवर्णलेपितानि कृतकानि अङ्गुलीयकानि एव। वृथा अस्माभिः भोजनव्यवस्था कृता। उपायनरूपेण कोऽपि आयः न प्राप्तः एव” इति।

“ग्रामीणाः सर्वे सम्भूय समालोचनां कृत्वा आवाम् एवं वञ्चितवन्तः। न जाने, गृहे अन्या काऽपि वञ्चना प्रवृत्ता स्यात् वा इति। तिष्ठतु, सर्वं परिशील्य आगच्छामि” इति उक्त्वा गौराम्बा त्वरया अन्तः गतवती। तत्र आधिवृत्त्या सगृहीतानि स्थालिकाचषकादीनि सर्वाणि अदृश्यतां गतानि आसन्।

“हा हन्त! आकण्ठं भुक्त्वा चौर्यम् अपि कृतवन्तः एते!” इति खेदेन कोपेन च आक्रोशनं कृतवती गौराम्बा।

एवं दम्पत्योः विलापः यदा प्रचलन् आसीत् तदा प्रेड्खायां सुप्तः शिशुः रोदनम् आरब्धवान्। शिशोः समीपं गत्वा लालयितुम् उद्युक्ता गौराम्बा शिशोः हस्तं दृष्ट्वा आश्चर्यचकिता सन्तुष्टा च। यतः शिशोः हस्ते कस्याश्चित् सुवर्णहारः दृश्यते स्म!

एतत् दृष्ट्वा सत्यनारायणः पत्नीम् उक्तवान्- “भोः, आवाभ्यां कर्तुम् अशक्यं कार्यम् आवयोः सुपुत्रः कृतवान् अस्ति। कस्याश्चित् स्त्रियः कण्ठहारम् एव वशीकृतवान्। आवयोः युक्तः उत्तराधिकारी भविष्यति एषः” इति।

वाणिज्यं स्नेहः च

सु

रपुरग्रामे भूषणः नाम वणिक् निवसति स्म। सः तण्डुलवाणिज्येन उत्तमां कीर्तिं यथेष्टं सम्पत्तिं च सम्पादितवान् आसीत्। किन्तु सः कदापि अन्याय्यमार्गं न अनुसृतवान्। तेन यत् सम्पादितम् तत्सर्वं न्यायमार्गेण एव।

चन्द्रशेखरः भूषणस्य आत्मीयः स्नेहितः। सः अल्पायाम् एव कृषिभूमौ परिश्रमेण कार्यं कुर्वन् जीवननिर्वहणं करोति स्म।

चन्द्रशेखरस्य भूमिः देवमातृका। वृष्टिः समीचीनतया आगच्छति चेदेव कृषिः। अन्यथा कृषिः न शक्यते। केभ्यश्चित् वर्षेभ्यः तत्प्रदेशे वृष्टिः काले न आगच्छति स्म। वृष्ट्याधारितकृषेः कारणतः चन्द्रशेखरः प्रतिवर्षम् अपि पर्याप्तमात्रेण धान्यम् उत्पादयितुं न शक्नोति। अतः तस्य आर्थिकी परिस्थितिः विषमतां गता आसीत्।

‘एषा कष्टकरी परिस्थितिः परिवर्तनीया एव’ इति चिन्तयन् चन्द्रशेखरः एकदा भूषणस्य गृहं गतवान्। कुशलप्रश्नानन्तरं स्वकीयां कष्टदशां सविस्तरं निवेद्य चन्द्रशेखरः उक्तवान् भूषण! अहं परिश्रमं कर्तुं सिद्ध अस्मि। किन्तु अनिश्चितवृष्टेः कारणतः अहं किमपि कर्तुं न शक्नोमि। कृषिम् अवलम्ब्य जीवनं कष्टकरम् एव जातम्। भवान् यदि अर्थसाहाय्यं कुर्यात् तर्हि अहं किमपि वाणिज्यम् आरब्धं शक्नुयाम्” इति।

“किं वाणिज्यं कर्तुम् इच्छति भवान्?” इति पृष्टवान् भूषणः।

“तण्डुलवाणिज्यम् एव करिष्यामि” इति उक्तवान् चन्द्रशेखरः।

“तण्डुलवाणिज्यं कुत्र कर्तुम् इच्छति?” इति पुनः पृष्टवान् भूषणः।

‘अस्माकं ग्रामे एव! कुत्र अन्यत्र कुर्याम्?” इति उक्तवान् चन्द्रशेखरः।

भूषणः क्षणकालं मौनं स्थित्वा किमपि आलोच्य - “चन्द्रशेखर ! एषु दिनेषु वाणिज्ये लाभः एव नास्ति। यत् धनम् अस्ति तत् वाणिज्ये नियोजितम् अस्ति। अतः माम् अन्यथा न चिन्तयतु। सद्यः अहं किमपि साहाय्यं कर्तुं न शक्नोमि” इति उक्तवान्।

एतत् वचनं श्रुत्वा निराशः चन्द्रशेखरः दीर्घं निःश्वस्य स्वगृहं गतवान्।

केषाञ्चित् दिनानाम् अनन्तरं चन्द्रशेखरः अपरया समस्यया ग्रस्तः जातः। तस्य प्राप्तवयस्को एका पुत्री आसीत्। तस्याः निमित्तं वरः अपि अन्विष्टः आसीत्। किन्तु वरस्य मातापितरौ वदतः यत् दशसहस्रं रूप्यकाणि दत्तानि चेदेव विवाहः प्रचलेत् इति। ऋणात् अन्तरा अन्यः मार्गः नास्ति चन्द्रशेखरस्य पुरतः। “कं वा ऋणं पृच्छामि?” इति चिन्तयन् आसीत् सः।

तदा तस्य पत्नी सूचितवती- “आत्मीयं मित्रं भूषणम् एव पुनः एकवारं पृच्छतु” इति।

चन्द्रशेखरः भूषणं प्रष्टुं न इच्छति। यतः पूर्वतनः अनुभवः तस्य मनसि स्फुटः अस्ति। किन्तु अन्यमार्गस्य अभावात् सः भूषणं द्रष्टुं गतवान्।

पुत्र्याः विवाहविषये आगतां समस्यां चन्द्रशेखरः यदा निवेदितवान् तदा भूषणः- “एतदर्थं धनं प्रष्टुं किमर्थं भवतः सङ्कोचः? आत्मीयस्य भवतः पुत्री न अन्या। सा अपि मम पुत्री इव” इति उक्त्वा अन्तः गतवान्।

धनस्यूतं स्वीकृत्य बहिः आगत्य भूषणाय यच्छन्- “अत्र पञ्चदशसहस्रं रूप्यकाणि सन्ति, स्वीकरोतु” इति उक्तवान्।

भूषण! अहं दशसहस्रं रूप्यकाणि केवलम् इच्छामि” इति उक्तवान् चन्द्रशेखरः।

“सत्यं, भवान् दशसहस्रं रूप्यकाणि एव पृष्टवान्। किन्तु तावत् धनं वरदक्षिणारूपेण दीयते खलु? पुनः इतरव्ययार्थं धनम् आवश्यकम् एव। एतानि पञ्चसहस्रं रूप्यकाणि भवता न प्रत्यर्पणीयानि। भवतः पुत्र्याः विवाहार्थं मदीयम् उपायनम् एतत्’ इति तृप्त्या हसन् उक्तवान् भूषणः।

चन्द्रशेखरः मित्रस्य सामयिकं साहाय्यं कृतज्ञतापूर्वकं स्मरन् धनस्यूतेन सह गृहं प्रतिगतवान्।

एतत् सर्वं दृष्टवती भूषणस्य पत्नी पतिं पृष्टवती- “इतः पूर्वं चन्द्रशेखरः वाणिज्यार्थं प्रष्टुं यदा आगतवान् तदा भवान् साहाय्यं निराकृतवान्। इदानीं तु ऋणं दत्तम्, उपायनरूपेण अपि धनं दत्तम्। एतस्य व्यवहारस्य कः अर्थः?” इति।

‘सः पूर्वं धनं यत् पृष्टवान् तत् वाणिज्यनिमित्तम्। सः तण्डुलवाणिज्यम् एव अस्मिन्नेव ग्रामे कर्तुम् इच्छति स्म। एतस्य अर्थः मम धनसाहाय्येन ममैव स्पर्धी भवति इति। एतत् ज्ञात्वा मम वाणिज्यबुद्धिः उपदेशम् अकरोत् धनसाहाय्यं न करोतु इति। अतः तदा धनसाहाय्यं न कृतवान् “इति हसन् उक्तवान् भूषणः।

“इदानीं कथम् एतावती उदारता प्रदर्शिता?” इति आश्चर्येण पृष्टवती पत्नी। “इदानीं तु स्नेहबुद्धच्या साहाय्यं कृतवान् अस्मि। स्नेहः अन्यः वाणिज्यम् अन्यत्। चन्द्रशेखरः मम आत्मीयः स्नेहितः। यदि वाणिज्यार्थं साहाय्यम् अकरिष्यं तर्हि स्नेहः नष्टः अर्भावष्यत्” इति उक्तवान् भूषणः।

“वाणिज्ये इव लौकिकव्यवहारे अपि कुशलः भवान्” इति साभिमानम् उक्तवती भूषणस्य पत्नी।

वधूस्वीकारः

पू

र्वं विजयसेनः नाम राजा विदर्भदेशं पालयति स्म। तस्य राज्यपरिपालनम् अन्येषां महाराजानां कृते आदर्शरूपम् आसीत्।

विजयसेनराजस्य एकः एव पुत्रः। सुकेतुः इति तस्य नामधेयम्। यद्यपि सः राजोचितलक्षणसम्पन्नः आसीत्, तथापि न अधिकबुद्धिमान्। भाविनः महाराजस्य एतादृशीम् अन्तरगपरिस्थितिं दृष्ट्वा महाराजः चिन्ताक्रान्तः अभवत्।

एकस्मिन् दिने महाराजः एतं विषयम् अधिकृत्य मन्त्रिजनैः सह पर्यालोचनं कृतवान्।

तस्य सचिवाः विषयं सम्यक् परिशील्य, सर्वे एककण्ठेन- “प्रभो, अस्माकं युवराजः इदानीं विवाहयोग्यं वयः प्राप्तवान् अस्ति। एतस्मिन् वयसि तस्य मनः समीकर्तुं तस्य पत्नी एवं समर्था भवेत्। अतः इदानीम् अस्माभिः काचन कन्या अन्वेष्टव्या या अत्यन्ततीक्ष्णबुद्धिमती, प्रतिभावती च स्यात्। तादृशीम् आनीय युवराजस्य विवाहं करिष्यामः चेत् एषा समस्या परिहृता भविष्यति।” इति स्वाशयं प्रकटितवन्तः।

‘मन्त्रिणां सूचना युक्ता अस्ति’ इति चिन्तितवान् महाराजः। अतः सः “समीचीनां कन्याम् अन्विष्य रहस्यरूपेण मां सूचयन्तु” इति आदिश्य समर्थान् कांश्चन सेवकान् कन्यान्वेषणार्थं प्रेषितवान्।

किञ्चित्कालानन्तरं तैः चारैः प्रेषितां कन्यासम्बन्धिनीं रहस्यवार्तां महाराजः प्राप्तवान्। सपदि एव चारैः सूचितासु कन्यासु स्वाभिप्रेताम् एकां परीक्षितं स्वयं महाराजः काशीयात्रिकः इव वेषपरिवर्तनं कृत्वा तस्याः कन्यायाः ग्रामं प्रति प्रस्थितवान्।

यदा महाराजः तं ग्राम प्राप्तवान्, तदा अन्धकारः व्याप्तः आसीत्। कन्यायाः गृहे तस्याः मातापितरौ न आस्ताम् तस्मिन् दिने। नाम सुमती। काशीयात्रिकरूपेण समागतस्य महाराजस्य सादरसत्कारं कृतवती।

रात्रौ भोजनवेलायां विजयसेनराजः स्वीयं वज्राङ्गुलीयकं दक्षिणहस्तस्य अङ्गुलीतः सश्रमं निष्कास्य, वामहस्ते धरन् मन्दहासं प्रकटयन् सुमतीं “मां दृष्ट्वा किं वा चिन्तयेत् भवती? दक्षिणहस्ते एव अङ्गुलीयकं तिष्ठति चेत्, एतादृशः श्रमः नैव अभविष्यत् इति वदति वा ?” इति उक्तवान्।

भूमौ स्थापिते पीठे श्रमपूर्वकम् उपविशन्तं महाराजं दृष्ट्वा सुमती अन्नं परिवेषयन्ती- “दक्षिणः वामः भवति चेत् कष्टम् अनुभोक्तव्यम्एव। स्थानपरिवर्तनेन एवमेव भवति। सर्वदा यः हंसतूलिकातल्पे शयनं करोति, सः एतादृशकर्कशपीठे उपवेशनसमये महत् कष्टम् अनुभवति एव। किञ्चित् अभ्यासानन्तरं कष्टं न प्रतीयते” इति उक्तवती।

महाराजः तस्याः वचनस्य अन्तरार्थं जानन्- “एवं तर्हि सर्वापेक्षया स्वीयाः अनुभवाः एव कष्टदायकाः इति भवती वदति वा?” इति पृष्टवान्।

तदा सुमती स्मयमाना- “ततोऽपि कष्टतरम् अन्यत् अस्ति स्वामिन्!” इति उक्तवती।

तत् किम् इति ज्ञातुम् इच्छन् महाराजः कुतूहलं प्रकटयन्- “तत् किं स्यात्? वदतु भवती” इति पृष्टवान्।

‘सर्वापेक्षया किंवदन्ती एव अत्यन्तकष्टदायिका” इति उक्तवती सुमती।

“किंवदन्ती वा? वस्तुतः सा कीदृश कष्टम् उत्पादयेत्?” इति पृष्टवान् महाराजः।

“मम वचनं नितरां सत्यम् अस्ति। किंवदन्तीः यः विश्वसिति, तस्य विचक्षणाज्ञानं, तार्किकशक्तिः च नश्यति। तदा सः असत्यं सत्यम् इति चिन्तयति। सत्यं च असत्यम् इति” इति उत्तरिवती सुमती।

साधारणकुटुम्बे जन्म प्राप्तवत्याः

सुमत्याः यादृशी बुद्धिशक्तिः अस्ति, तादृशी बुद्धिशक्तिः स्वीयकुमारस्य सुकेतोः नास्ति इति स्मरतः महाराजस्य मनसि तस्याः उपरि ईर्ष्या उत्पन्ना।

घृतं परिवेषयन्ती सुमती महाराजस्य मुखभावं परीक्षमाणा- “मानवस्य कष्टदुःखादीनां मूलकारणं ज्ञायते चेत्, कष्टानाम् अर्धभागः परिहृतः भवति। तदा सर्वे अपि सामान्यतया सुखं जीवितुं शक्नुवन्ति” इति उक्तवती।

तस्याः वचनस्य भावं ज्ञातुम् अपेक्षमाणः विजयसेनराजः- “तथाविधं मूलकारणम् किम् इति कथयति वा ?” इति पृष्टवान्।

“मनुष्येषु अर्धसङ्ख्याकजनानां पीडाकारः ईर्ष्यागुणः अथवा असूया। एतेन कारणेन एव स्वेषु अविद्यमानं गुणम् अन्येषु दृष्ट्वा जनाः ईर्ष्यायुक्ताः भवन्ति। सा ईर्ष्या परोक्षवहिनः इव तान् जनान् निरन्तरं दहति” इति उत्तरं दत्तवती सुमती।

अनन्तरं महाराजः मौनं स्थित्वा भोजन समापितवान्। सः उत्थाय हस्तं क्षालयितुं बहिः गच्छन् “एतत् तमः किमर्थम् एतावत् गाढं स्यात्?” इति पृष्टवान्।

सुमती महाराजाय जलं ददती- “एतत् तमः गाढम् एव अस्ति। तथापि अशुद्ध्यपेक्षया कृष्णं नास्ति खलु ?” इति उक्तवती।

“विजयसेनराजस्य तस्याः वचनस्य अर्थबोधः न अभवत्। आश्चर्यचकिताय तस्मै सुमती ताम्बूलं यच्छन्ती “महाराज! कृपया एषा क्षन्तव्या। बालभावेन अहं किमपि किमपि प्रलपितवती” इति

उक्तवती।

‘अहं वेषान्तरं धृतवान् अस्मि। तथापि एषा अहं महाराजः इति कथं ज्ञातवती?” इति विचिन्तयन् विजयसेनः सुमतीम् एव तं विषयं कथयतुं पृष्टवान्।

“भवान् काशीं गच्छन् यात्रिकः इति उक्तवान्। तावद्दूरं एकाकी कोऽपि प्रयाणं न करोति। तेन सह अन्ययात्रिकाः अवश्यं भवन्ति। अतः भवान् न काशीयात्रिकः इति अहम् ऊहितवती” इति उक्तवती।

“समीचीनम्। अहं महाराजः इति विचारं भवती कथं ज्ञातवती? अन्यः कोऽपि कथं न?” इति पृष्टवान् विजयसेनः।

“भवान् यदा भोजनार्थं भूमिस्थपीठे उपविष्टवान्, तदा भवतः श्रमं दृष्ट्वा अधः उपविश्य भोजनं कर्तुम् अभ्यासः नास्ति इति ज्ञातवती। अनन्तरं भवान् दक्षिणहस्ते स्थितं वज्राङ्गुलीयकं वामहस्ते स्थापितवान्। तस्मिन् समये दीपस्य प्रकाशे अङ्गुलीयकस्य चाकचक्यतां लक्षयित्वा भवान् कोऽपि महाधनवान् इति तर्कितवती। किन्तु अन्ते….” इति वदन्ती सुमती तृष्णीम् अभवत्।

विजयसेनराजः हसन् “किमर्थं तूष्णीम् स्थितवती? वदतु, वदतु वत्से। भवत्याः वचनानि शृण्वन् अहम् आनन्दितः अस्मि” इति उक्तवान्।

‘महाराज! इदानीम् अहं यत् वचनं वदामि, तदर्थं मां क्षाम्यतु। राज्यपालेषु सामान्यतः ईर्ष्यासूयादयः अवश्यं भवन्ति इति मया श्रुतम् अस्ति। मम चत्रवचनानि शृण्वतः भवतः मुखे जातं भावव्यत्यासं दृष्टवत्याः मम अभिप्रायः दृढः अभवत्” इति उक्तवती सुमती।

सुमत्याः बुद्धिशक्त्या, समयस्पूर्त्या, आदरभावादिसद्गुणैः च महाराजः आकृष्टः। एषा एव मम स्नुषा भवितुं योग्या इति तस्य विश्वासः अभवत्।

तस्याः मातापितरौ यदा प्रत्यागतवन्तौ तदा विवाहप्रस्तावं कृतवान् महाराजः। गतेषु केषुचिदेव दिनेषु युवराजेन सुकेतुना सह सुमत्याः विवाहः सवैभवं प्राचलत्।

वज्रस्वीकारः

कि

शोरवर्ममहाराजः गोवर्धनगिरिं पालयन् आसीत्। तस्य पुत्री मनोरमा। हेमपुरयुवराजाय जयसेनाय मनोरमा दातव्या इति निश्चयः जातः।

विवाहसन्दर्भे राजकुमार्यै दातुं किशोरवर्मा अतिमनोहरं कण्ठहारं कारयितुं निश्चितवान्। हारः सिद्धः अपि। किन्तु हारस्य मध्ये स्थापनार्थं योग्यं वज्रं केवलं न लब्धम्।

बहवः प्रसिद्धाः वज्रवणिजः आगत्य राजकुमार्यै मनोरमायै स्वसमीपे स्थितानि वज्राणि प्रदर्शितवन्तः। किन्तु तेषु एकम् अपि राजकुमार्यै न अरोचत। एवं स्थिते काञ्चनपुरतः धनगुप्तः इति, चन्दनपुरतः चन्द्रचूडः इति, चामीरपुरतः नागदत्तः इति च त्रयः वज्रप्रदर्शनार्थं राजधानीम् आगतवन्तः।

प्रथमं धनगुप्तः मनोरमासमीपं गत्वा नमस्कृत्य स्वसमीपस्थानि वज्राणि प्रदर्शितवान्। तानि क्षणकालं दृष्ट्वा मनोरमा उक्तवती- “सर्वाणि उत्तमानि एव। मम हारार्थं किं वज्रं युज्येत इति निर्णेतुम् एव न शक्नोमि” इति।

तदा धनगुप्तः तेषु एकं स्वीकृत्य- “एतत् वज्रं भवत्याः हारार्थं युज्यते” इति उक्तवान्।

तदा मनोरमा कोपेन- “वज्रचयनं मम कार्यम्। मम उपदेशकः भवान् कः?” इति उक्त्वा असमाधानेन ततः उत्थाय गतवती।

अनन्तरं चन्द्रचूडः अन्तः आगत्य स्वसमीपस्थानि वज्राणि स्थालिकायां स्थापयित्वा प्रदर्शितवान्। तानि दृष्ट्वा आश्चर्यचकिता मनोरमा- “अहो! अपूर्वाणि वज्राणि एतानि ! एतेषु कीदृशम् एकं स्वीकरोमि इत्येव निर्णेतुं न शक्नोमि” इति उक्तवती।

चन्द्रचूडः एकं वज्रम् उन्नीय प्रदर्शयन्- “एतत् वज्रं स्वीकरोति चेत् भवत्याः हारस्य शोभा वर्धते” इति उक्तवान्।

मनोरमा कोपेन- “मया खलु वज्रचयनं करणीयम् ? मध्ये भवतः कोऽयं प्रवेशः?” इति वदन्ती ततः उत्थाय गतवती।

अनन्तरं नागवर्मा अन्तः आगत्य - “युवराज्ञीनिमित्तं वज्राणि आनीतवान् अस्मि। किन्तु उत्तमस्य चयनभारं राजकुमार्याः उपरि एव आरोपयन् अस्मि। एतदर्थं क्षन्तव्यः अयं जनः” इति विनयेन उक्तवान्।

युवराज्ञी सर्वाणि वज्राणि परीक्ष्य एकं स्वीकृत्य तृप्त्या- “एतत् एव मम हारार्थं योग्यं वज्रम्” इति उक्तवती।

नागदत्तः वज्रस्य योग्यं मूल्यं, ‘योग्यं वज्रम् आनीय दत्तवान्’ इति महाराजतः प्रशंसां च प्राप्तवान्।

नागदत्तः यदा राजभवनतः बहिः आगतवान् तदा धनगुप्तः चन्द्रचूडः च पृष्टवन्तौ- “वयं बहूनि अमूल्यानि वज्राणि नीत्वा प्रदर्शितवन्तः। तथापि राजकुमारीं तर्पयितुं वयं न शक्तवन्तः। किन्तु भवान् तां कथं तर्पयितुं शक्तवान्? अत्र किं रहस्यम् ?” इति।

‘भवन्तः प्रायः अमूल्यानि वज्राणि बहूनि प्रदर्शितवन्तः स्युः। तदा किं स्वीकरणीयम् इति अजानती राजकुमारी व्यामुग्धा जाता स्यात्” इति उक्तवान् नागदत्तः।

“भवतः वचनं सत्यम् एव। यदा सा व्यामुग्धा तदा वयम् एव उत्तमम् एकं प्रदर्शितवन्तः। तेन सा कुपिता अभवत्” इति उक्तवन्तौ तौ।

“अत्रैव भवतां दोषः जातः। तादृशानां पुरतः अस्माभिः निर्णयः कदापि न वक्तव्यः। अहं तु एकम् उत्तमं वज्रं स्वीकृत्य सामान्यानां वज्राणां मध्ये स्थापयित्वा राजकुमार्यै प्रदर्शितवान्। सो विनायासम् उत्तमं वज्रम् एव स्वीकृतवती। तृप्ता अभवत् च” इति उक्तवान् नागदत्तः।

वेगस्य कारणम्

कश्चित् राजा कदाचित् राजसभायां पृष्टवान्- “प्राणिप्रपञ्चे अतिवेगेन कः धावति?” इति।

सभ्याः विविधानि उत्तराणि दत्तवन्तः। तेषु एकेन अपि महाराजः न सन्तुष्टः।

तदा विदूषकः उत्थाय उक्तवान्- “अहं यथा जानामि, वेगेन धावितवत्सु अहम् एव अग्रणीः। पूर्वं कदाचित् मया धावनसन्दर्भे हरिणाः, अश्वाः च पराजिताः” इति।

राजा कोपेन विदूषकं पश्यन् उक्तवान्- “भवन्तं कः पृष्टवान्? मया विनोदार्थम् अयं प्रश्नः न पृष्टः। विकत्थनेन किं प्रयोजनम्? वस्तुस्थितिः अपेक्षिता मम” इति।

“मया वस्तुस्थितिः एव निवेदिता। तत्समये तावता वेगेन धावने कारणम् अपि अस्ति” इति उक्तवान् विदूषकः।

“किं तत्?” इति महाराजेन पृष्टः विदूषकः उक्तवान्- “तत्सन्दर्भे उन्मत्तः शुनकः माम् अनुसृत्य धावन् आगतवान् आसीत्” इति।

तत् श्रुत्वा राजा सभ्याः च उच्चैः हसितवन्तः। तदा विदूषकः विनयेन विवरणं दत्तवान्- “प्राणिनां सहजः वेगः अन्यः। यदा भीतिः जायते तदा अन्यः। एव वेगः। एतं विषयं महाराजः यदि न अङ्गीकुर्यात् तर्हि तत्र कारणं भीतिविषयकं महाराजस्य अज्ञानम् एव” इति।

सभ्याः हर्षोद्गारं प्रकटितवन्तः। महाराजः मन्दहासं प्रकटयन् विदूषकाय अमूल्यानि पारितोषिकाणि दत्तवान्।

विमोचनम्

हुभ्यः वर्षेभ्यः पूर्वम् सह्यपर्वतप्रदेशे आरुणिः नाम कश्चन ऋषिः आसीत्। कदाचित् तस्य मनसि कश्चन विचित्रः पश्नः उत्पन्नः- ‘सृष्टौ एतावन्तः विभिन्नाः जीविनः किमर्थं सन्ति? केवलं मानवाः तिष्ठन्ति चेत् पर्याप्तं न वा?” इति।

एषः ऋषिः ब्रहमाणं ध्यायन् कठोरं तपः आचरितवान्। ब्रह्मणः अनुग्रहेण प्राणिनं मानवं कर्तुं समर्थां शक्तिं सम्पादितवान् च। यदा सः तपोबलात् वरं प्राप्य प्रत्यागच्छन् आसीत् तदा भीत्या धावन्तीं काञ्चित् हरिणीं, तां खादितुम् अनुधावन्तं व्याघ्रं च दृष्टवान्।

आरुणिः तत्क्षणे एव स्वतपोबलेन हरिणीं स्त्रीरूपेण, व्याघ्रं च पुरुषरूपेण परिवर्तितवान्।

सः पुरुषः तां स्त्रियं दृष्ट्वा काममोहितः अभवत्। ‘तिष्ठतु, तिष्ठतु’ इति वदन् ताम् अनुसरन् सः पुरुषः तस्याः पुरतः आत्मनः प्रेमभावनां निवेदितवान्।

परस्परानुरागं दृष्ट्वा आरुणिः तयोः विवाहं निर्वर्तितवान्। तौ अरण्ये एव गृहं निर्माय सहजीवनम् आरब्धवन्तौ।

पतिः अरण्यं गत्वा पशून् मारयित्वा मांस गृहम् आनयति। ‘मांस खादतु’ इति पत्नीं साग्रहं वदति च।

पत्न्यै मांसाहारः सर्वथा न रोचते। निर्दयं पशुमारणं दृष्ट्वा सा अतीव खिन्ना भवति। सा अरण्यस्थान् हरिणः साधुप्राणिनः च आनीय गृहे प्रीत्या पोषयति। आरुणिः समीपे एव निवसन् एतत्सर्वं जागरूकतया परिशीलयति।

दिने दिने पतिपत्न्योः विरसः वर्धमानः एव जातः। पत्न्या पालितान् हरिणादीन् पशून् मारयित्वा खादति पतिः। तदा पत्नी असह्येन दुःखेन करुणं विलपति। पत्युः

विषये सा तदा तदा कृप्यति च। “मया इव भवता अपि किमर्थं कन्दमूलफलादीनि न खादनीयानि?” इति अञ्जलिं बद्धवा सा पतिं निवेदयति।

“तत् न शक्यते। भवती एव अहम् इव मांसाहार स्वीकरोत्। एषः एव पतिव्रताधर्मः” इति अधिकारवाण्या वदति पतिः।

अनतिकाले एव तयोः विरसः पराकाष्ठतां प्राप्ता। तथापि तयोः जीवने बहवः पुत्राः जाताः। पुत्रेषु केचन पितुः स्वभावम् अनुकुर्वन्ति स्म, अन्ये मातुः स्वभावम्। किन्तु तेषु रूपसाम्यं तु समानम् आसीत्।

पतिः पत्नीं सदा केनापि व्याजेन ताडयति। विविधपीडाभिः पीडयति च। एकदा पत्न्याः विषये क्रुद्धः पतिः मृगयायाम् इव खड्गादिकं स्वीकृत्य आक्रमणार्थम् आगतवान्। पत्नी भीत्या पलायनम् आरब्धवती। पतिः ताम् अनुसृत्य धावितवान्।

पत्नी धावन्ती आगत्य आरुणेः आश्रमं प्रविश्य निलीय स्थितवती। ताम् अनुसृत्य आगतः पतिः अपि तत्र आगतवान्।

आरुणिः उभौ प्रति अपि कानिचन सान्त्वनवचनानि उक्त्वा- “परस्परद्वेषपूर्वकं जीवनयापनेन कः लाभः? प्राणिनां जीवनम् इव जातं तदपि। भवतोः सहजीवनं पर्याप्तम्। सहजीवनं पर्याप्तम्। इतः परं भवन्तौ परस्परं वियुक्तौ भूत्वा स्वस्वजीवनमार्गम् अनुसरताम्” इति उक्त्वा तयोः हस्ते एकैकं बालं पर्णं दत्तवान् अनन्तरं पुनः उक्तवान् “एतत् स्वीकृत्य भवद्भ्यां परस्परविरुद्धायां दिशि गन्तव्यम्। यदा भवतोः हस्ते स्थितं पर्णं शुष्कीभवति भवति तदा एतस्मात् जीवनात् भवतोः मुक्तिः” इति।

पतिः पत्नी च मुनिना दत्तं पर्णं स्वीकृत्य परस्परं विरुद्धदिशम् अनुसृतवन्तौ। यदा हस्तस्थितं पर्णं शुष्कं जातं तदा पुरुषः व्याघ्ररूपं प्राप्तवान्। स्त्री च हरिणरूपं प्राप्तवती।

तयोः पुत्राणां तु जन्मजातः गुणः यथापूर्वम् आसीत् एव।

विवाहनियमः

स्मिंश्चित् काले चन्द्रकान्तनामकः युवकः वसन्तगिरिराज्यस्य राजा अभवत्। सः कदाचित् प्रातः सूर्योदयसमये अश्वम् आरुह्य विहारार्थम् एकाकी एव समीपे विद्यमानम् अरण्यं प्रस्थितः। तत्रत्यं सुन्दरं तटाकं दृष्ट्वा सन्तुष्टः सः तस्मिन् स्नानं कृत्वा तटाकतीरम् आगतवान्। तस्मिन् समये काचित् व्याधयुवती तेन एव मार्गेण गृहं गच्छन्ती आसीत्। तस्याः सौन्दर्यं कोमलतां च दृष्ट्वा चन्द्रकान्तः आकृष्टः।

अश्वारूढः चन्द्रकान्तः ततः प्रस्थाय राजभवनं प्रति आगतवान्। व्याधयुवती परिणेतव्या इति तस्य महती इच्छा जाता। प्रतिनिमेषम् अपि सः तद्विषये चिन्तयति स्म। किन्तु ‘एकस्य देशस्य राजा अहम्। मम एतादृशः विवाहः उचितः वा?’ इति संशयः अपि तं बाधते स्म।

राजा अन्यमनस्कः इति चिन्तितवान् मन्त्री देववर्मा तस्य समीपम् आगत्य पृष्टवान्- “महाराज, भवतः पुरतः महती समस्या अस्ति इति मन्ये। सा कीदृशी समस्या इति ज्ञातुं शक्नोमि वा?” इति।

तदा चन्द्रकान्तः रहस्यं किञ्चिदपि अगोपयन् उक्तवान्- “अहम् अरण्यसमीपं गतवान्। तत्र काञ्चित् व्याधयुवतीं दृष्टवान्। मम मनः तस्याम् एव संलग्नम्। सा एव परिणेतव्या इति इच्छा अस्ति। किन्तु देशपालकस्य महाराजस्य मम एतादृशं कार्यम् उचितं वा? इति प्रश्नः बाधते। तदेव चिन्तयन् अस्मि” इति।

मन्त्री क्षणकालं चिन्तितवान्। “अत्र धर्माधर्मयोः प्रश्नः एव नास्ति” इति उक्त्वा महाराजकिरीटस्य वज्रं प्रदर्शयन् उक्तवान्- “कस्मिंश्चित् काले भूमौ आसीत् एतत् वज्रम्। उपयोगे आनीतम् इति कारणतः अस्य मूल्यम् अधिकं जातम्। भवतः किरीटम् अलङ्कृतं च । तस्यै च व्याधयुवत्यै एकवर्षाभ्यन्तरे एव

राजोचिताः विद्याः पाठयितुं शक्यते। अनन्तरं यदि भवान् तां परिणेष्यति, तर्हि प्रजानाम् अपि आदर्शः भविष्यति। श्वः एव अहं सपरिवारं तस्याः गृहं गच्छामि” इति।

मन्त्रिणः वचनानि श्रुत्वा तृप्तः चन्द्रकान्तः उक्तवान्- “भवतः गमनं मास्तु। अहम् एव गमिष्यामि। यतः अहं तां दृष्टवान्। तया अपि अहं द्रष्टव्यः किल” इति।

अनन्तरदिने चन्द्रकान्तः तस्याः गृहं गतवान्। सा युवती व्याधप्रमुखस्य पुत्री ‘चम्पकवल्ली’ इति ज्ञातम्।

व्याधप्रमुखः महाराजाय योग्यम् आतिथ्यं कृतवान्, पृष्टवान् च- “महाराज, भवान् स्वयम् अस्माकं वसतिप्रदेशम् आगतवान्। महान् सन्तोषः। भवतः आगमनस्य कारणं ज्ञातुं शक्नोमि वा?” इति।

चन्द्रकान्तः द्वारस्य पार्श्वे स्थितां चम्पकवल्लीं प्रदर्शयन् उक्तवान्- “यदि सा इच्छति, तर्हि अहं तां परिणेतुं सिद्धः अस्मि। एतं विषयं वक्तुम् एव अहम् अत्र आगतवान्” इति।

एतत् वचनं श्रुत्वा चम्पकवल्ली झटिति अन्तः गतवती। व्याधप्रमुखः अपि अन्तः गत्वा कुटुम्बसदस्यैः सह एतद्विषये वार्तालापं कृतवान्। किञ्चित्कालानन्तरं बहिः आगत्य महाराजम् उक्तवान् च- “क्षाम्यतु महाराज, एषः विवाहः सुलभसाध्यः न। विवाहः भविष्यति चेत् अपि विवाहानन्तरं चम्पकवल्ली भवता सह न आगमिष्यति। सा अत्रैव स्थास्यति। प्रायः एषः नियमः भवते न रोचेत” इति।

एतत् वचनं श्रुत्वा चन्द्रकान्तः आश्चर्यचकितः। “विवाहानन्तरम् अपि मम पत्नी मया सह यदि राजभवनं न आगमिष्यति तर्हि विवाहस्य अर्थः एव नास्ति” इति उक्त्वा खिन्नः महाराजः नगरं प्रति गतवान्।

एतं वृत्तान्तं श्रुत्वा मन्त्री देववर्मा कुपितः। तथापि कोपस्य नियन्त्रणं कुर्वन् महाराज पृष्टवान्- “इदानीम् अपि सा एव परिणेतव्या इति इच्छा भवतः मनसि अस्ति वा?” इति।

चन्द्रकान्तः ‘आम्’ इति “किं शिरश्चालनपूर्वकं सूचितवान्। “किं करणीयम् इति चिन्तयन् अस्ति?” इति पृष्टवान् मन्त्री।

“तस्याः पित्रा सूचितस्य नियमस्य विषये किं करणीयम् इत्येव चिन्ता” इति उक्तवान् राजा।

मन्त्री देववर्मा चिन्तयन् किञ्चित् कालं मौनम् उपविष्टवान्। अनन्तरम् “इदानीं मह्यम् अनुमतिं ददातु महाराज” इति उक्त्वा ततः निर्गतवान्।

अनन्तरदिने मन्त्री देववर्मा चन्द्रकान्तस्य समीपम् आगत्य - “विहारार्थम् उद्यानं गच्छावः, आगच्छतु” इति वदन् महाराजं नीतवान्। द्वौ अपि उद्याने विहरन्तौ आस्ताम्। तत्र दासीनां मध्ये राजकन्या इव उपविष्टां चम्पकवल्लीं दृष्टवान् राजा।

चन्द्रकान्तः आश्चर्येण देववर्माणं दृष्टवान्। तदा मन्दस्मितः मन्त्री उक्तवान्- “महाराज, रात्रौ आयुधहस्ताः केचन भटाः, चतस्रः दास्यः च व्याधानाम्

अग्रहारं गतवन्तः। अहम् एव ‘एताम् आनयन्तु’ इति तान् प्रेषितवान्। तस्याः पिता वा, अन्ये जना वा अस्याः आनयनसमये विरोधं न कृतवन्तः। कृतवन्तः। देशपालकस्य महाराजस्य अपेक्षा तिरस्क्रियते चेत् महान् प्रमादः इति ते जानीयुः” इति।

मन्त्रिणः कार्येण चन्द्रकान्तः न सन्तुष्टः। खेदम् अनुभवन् सः उक्तवान्- “भवता एवं न करणीयम् आसीत्। बलात्कारेण वा आग्रहेण वा इच्छाविरुद्धं कार्यं केनापि न करणीयम्। तेन उभयपक्षयोः अपि सुखं नास्ति। अद्य सायम् अहम् एव स्वयं गत्वा तस्याः पित्रे एतां प्रत्यर्प्य आगच्छामि” इति।

इदानीं मन्त्री देववर्मा खिन्नः। चन्द्रकान्तः चम्पकवल्लीं तस्याः गृहं नीतवान्।

तस्याः पिता बन्धुजनैः सह महाराजं स्वागतीकृत्य उक्तवान्- “महाराज, भवतः प्रेमपरीक्षां कर्तुम् एव अहं विवाहार्थं नियमम् उक्तवान्। यदा भवान् प्रथमवारम् अत्र आगतवान्, तदा मम पुत्र्याः इच्छा अस्ति चेत् तां परिणेष्यामि इति उक्तवान्। तदा एव भवतः उदारतां ज्ञातवान् अहम्। किन्तु विवाहानन्तरं मम पुत्री युवराज्ञी भवितुं न अर्हति इति भवान् वदेत् इत्यपि भयम् आसीत्। पुत्र्याः योगक्षेमदायित्वं पितुः कर्तव्यम् इति विचिन्त्य मया एकः नियमः उक्तः। या काचित् स्त्री भवतु, सा पत्या सह एव स्थातुम् इच्छति। इदानीं भवतः उद्देशः स्पष्टतया ज्ञातः। भवान् एव स्वयम् एताम् आनीतवान्। भवतः मन्त्री अपि भवतः इच्छाविरुद्धम् एव तथा आचरितवान् इत्यपि ज्ञातवान्। भवान् किं करोति इति ज्ञातुम् एव नयनसमये विरोधं न कृतवान् अहम्” इति।

एतत् श्रुत्वा राजा चन्द्रकान्तः अतीव सन्तुष्टः। शीघ्रातिशीघ्रमेव शुभमुहूर्ते चम्पकवल्ल्या सह चन्द्रकान्त महाराजस्य विवाहः सवैभवं सम्पन्नः।

चम्पकवल्ली एकवर्षाभ्यन्तरे एव राजोचिताः सर्वाः विद्याः अपि ज्ञात्वा ‘महाराजस्य अनुरूपा युवराज्ञी’ इति योग्यताम् अपि प्राप्तवती।

वृद्धस्य विवाहः

रसपुरग्रामे रामानुजः नाम महाधनिकः निवसति स्म। तस्य पित्रार्जिता सम्पत्तिः आसीत् एव। स्वयम् अपि श्रमेण वाणिज्यं कुर्वन् सः यथेष्टम् ऐश्वर्यम् सम्पादितवान् आसीत्। इदानीं सः षष्टिवर्षीयः। तस्य गृहे पुत्रपुत्र्यः, पौत्राः, पौत्र्यः च निवसन्ति स्म। रामानुजस्य पत्नी केभ्यश्चित् वर्षेभ्यः पूर्वं दिवङ्गता आसीत्।

एकदा रामानुजः विवाहघटकं कृष्णशर्माणं स्वगृहम् आहूतवान्। तम् उक्तवान् च- “श्रीमन्! अहं पुनर्विवाहितः भवितुम् इच्छामि। काञ्चित् सुन्दरीं कन्याम् अन्विष्य मां सूचयतु। कन्या निर्धनकुलीया भवतु। मम तु यथेष्टम् ऐश्वर्यम् अस्ति। अतः वरदक्षिणादिकस्य अपेक्षा सर्वथा नास्ति। विवाहव्ययविषये कन्यापित्रा चिन्तनीयं नास्ति” इति।

रामानुजस्य अपेक्षां श्रुत्वा कृष्णशर्मा आश्चर्यचकितः। यतः रामानुजः सज्जनः, धर्मनिष्ठः इति नगरे सर्वत्र प्रसिद्धिः आसीत्। एतादृशस्य मनसि, तत्रापि पश्चिमे वयसि, कथं विवाहविषये आसक्तिः उत्पन्ना? कस्मिन् काले कस्य बुद्धिः कथं भवति इति कोऽपि ज्ञातुं न शक्नोति एव’ इति आलोचितवान् कृष्णशर्मा।

“तथैव भवतु श्रीमन् ! शीघ्रम् एव कन्याम् अन्विष्य भवते निवेदयिष्यामि” इति उक्त्वा ततः निर्गतवान् कृष्णशर्मा।

एषः वार्तालापः यदा प्रवृत्तः तदा रामानुजस्य स्नुषा जयलक्ष्मीः गृहे एव आसीत्। सहजतया सा अपि तयोः वार्तालापं श्रुतवती। श्वशुरम्य इच्छां श्रुतवत्याः तस्याः अपि आश्चर्यम् एव।

सायड्काले जयलक्ष्याः पतिः वेङ्कटरमणः गृहम् आगतवान्। सः अपि पितुः विवाहेच्छां ज्ञात्वा पत्नीम् उक्तवान् -

‘माता तु वर्षचतुष्टयात् पूर्वम् एव दिवङ्गता। किन्तु अद्यावधि पिता पुनर्विवाहविषये न चिन्तितवान् आसीत्। यत् मनसि स्फुरति तत् साधयति एव सः। अतः मौनं स्थितिः एवं वरम् इति।

दशदिनानाम् अनन्तरं कृष्णशर्मा रामानुजस्य गृहम् आगतवान्। रामानुजम् उक्तवान् च- “श्रीमन्, महता परिश्रमेण मया योग्या वधूः अन्विष्टा अस्ति। सर्वसिद्धिनामके ग्रामे मनिरामः नाम निर्धनः अस्ति। तस्य पुत्री रत्ना सन्दरी गुणवती च।किन्तु वरपक्षीयाणाम् अपेक्षां पूरयितुम् असमर्थः मनिरामः पुत्र्याः बिवाहं कर्तुं न शक्तवान्। रत्नायाः अनुजाद्वयम् अपि इदानीं प्राप्तवयस्कम् अस्ति” इति।

‘मम वयः तेभ्यः निवेदितं वा? तौ कन्यापितरौ मह्यं कन्या दातं मनसा किम् अङ्गीकृतवन्तौ?” इति कृष्णशर्माण पृष्टवान् रामानुजः।

“भवदीयान् सर्वान् विषयान् तौ निवेदितवान् अस्मि। ‘कथञ्चित पुत्र्याः विवाहः भवति चेत् पर्याप्तम्’ इति तयोः विचारः। रत्ना द्वाविंशतिवर्षीया कन्या। रूपेण लक्ष्मीः सा” इति उक्तवान् कृष्णशर्मा।

अस्तु तावत्, सा रत्ना मया द्रष्टव्या। एतदर्थम् उत्तमं दिनम् अन्विष्य मां कथयतु इति उक्तवान् रामानुजः।

कृष्णशर्मा पञ्चाङ्गम् उद्घाट्य ग्रहगतिं परिशील्य- “आगामी शुक्रवासरः एकादशीतिथिः एतदर्थम् उत्तमं दिनम्” इति उक्तवान्।

एषा वार्ता ग्रामे सर्वत्र प्रसृता। रामानुजः यस्मिन् मार्गे निवसति तेन मार्गेण ग्रामीणाः यदा गछन्ति तदा कुतूहलेन रामानुजगृहं पश्यन्तः- “एतस्य गृहस्य यजमानस्य वृद्धस्य विवाहः!” इति उपहसन्तः गच्छन्ति स्म।

पुत्रः वेङ्कटरमणः वा स्नुषा जयलक्ष्मीः वा रामानुजम् एतद्विषये किमपि न पृष्टवन्तौ एव। रामानुजः अपि स्वपुनर्विवाहस्य प्रस्तावं गृहे स्वयं न कृतवान्।

पर्वनिश्चयानुसारं कृष्ण शर्मा रामानुजस्य गृहम् आगतवान्। रामानुजः

हस्तेन एकं स्यूतं गृहीत्वा कृष्णशर्मणा सह सर्वसिद्धिग्रामं प्रति प्रस्थितवान्।

मुनिरामः अतिथीन् सन्तोषेण स्वागतीकृत्य सत्कृतवान्। वधूं रत्नां प्रदर्शितवान् च।’ रत्ना वस्तुतः अपि रत्नायते स्म।

रामानुजः तां दृष्ट्वा तृप्तिं प्रकटयन् मुनिरामम् उक्तवान्- “महोदय ! मम विवाहवार्तां श्रुत्वा सर्वे उपहसन्तः सन्ति, ‘वार्धक्ये किम् एतत् चापल्यम्?’ इति वदन्तः सन्ति इति अहं जानामि। वर्षचतुष्ट्यात् पूर्वम् एव मम पत्नी दिवङ्गता। यदि अहम् इच्छेयं तर्हि इतः पूर्वम् एव विवाहितः भवेयम्। किन्तु मम पुनर्विवाहे इच्छा एव नास्ति। एषा तु वस्तुस्थितिः” इति।

एतत् वचनं श्रुतवतः मनिरामस्य मुखं म्लानम्। सः खेदेन उक्तवान्- “भवान् सज्जनः इति श्रुतवान् आसम्। वधूदर्शनव्याजेन मम परिस्थितिम् उपहसति किल भवान्!” इति।

कृष्णशर्मा तु मतिभ्रान्तः इव इतस्ततः पश्यन् आसीत्।

रामानुजः शान्तस्वरेण एव उक्तवान्- “मुनिराममहोदय ! उद्वेगः खेदः वा मास्तु। मादृशाय वृद्धाय अपि रत्नसदृशीं कन्यां दातुं सिद्धस्य भवतः परिस्थितिः कीदृशी स्यात् इति अहं ज्ञातुं शक्नोमि। भवादृशस्य साहाय्यं करणीयम् इत्येव मम उद्देशः। दानस्वीकर्तुः सत्पात्रतां परीक्षितुम् अहम् एवंम् अभिनीतवान्। कृष्णशर्मणः उपयोगः अपि स्वीकृतः” इति। अनन्तरं स्यूततः

धनग्रन्थिं निष्कास्य मनिरामस्य पुरतः स्थापितवान्।

रामानुजस्य वचनं श्रुत्वा धनं च दृष्ट्वा तत्रस्थाः सर्वे आश्चर्यचकिताः।

तदा रामानुजं पुनः उक्तवान् अत्र विंशतिसहस्रं रूप्यकाणि सन्ति। मम पत्नी निर्धनकुलात् एव आगता। तथापि तस्याः पितृसकाशात् मम पिता पर्याप्तमात्रेण वरदक्षिणां प्राप्तवान् आसीत्। मम पत्नी एतां घटनां सम्यक् स्मरति स्म। तस्याः सूचनां परिपालयन् अहं वरदक्षिणां तिरस्कृत्य स्नुषां मम गृहम् आनीतवान्। एषा वार्ता प्रायः कृष्णशर्मणा ज्ञायते अपि इति।

“आं श्रीमन्! भवतः धर्मगुणः सर्वत्र प्रसिद्धः खलु” इति उत्तरितवान् कृष्णशर्मा।

“श्रीमन् ! सत्यं वदामि - मयि कोऽपि सद्गुणाः यदि स्युः तर्हि तत्र कारणं मम पत्नी एव। सा मरणात् पूर्वं मां निवेदितवती यत् मम मरणानन्तरं मदीयानि कण्ठहारादीनि विक्रीय प्राप्तं धनं तादृशाय कन्यापित्रे दातव्यं यश्च गुणवत्याः अपि कन्यायाः विवाहं दारिद्र्यकारणतः कर्तुं न शक्नोति इति। अतः एव अहं तस्याः मरणानन्तरम् आभरणानि विक्रीय प्राप्तं धनं वाणिज्ये नियोजितवान्। वाणिज्यव्यग्रः अहं सत्पात्रतां ज्ञातुं न शक्नोमि इति कारणेन पुनर्विवाहस्य नाटकम् अभिनीतवान्। इदानीम् एतत् धनं स्वीकरोतु” इति।

रामानुजस्य उदारतां दृष्टवतः मनिरामस्य तत्पत्न्याः च नेत्राभ्याम् आनन्दाश्रूणि आगतानि।

“योग्यं वरम् अन्विष्य एतेन धनेन पुत्र्याः रत्नायाः विवाहम् सद्यः एव निर्वर्तयतु” इति उक्त्वा गन्तुम् उद्युक्तः रामानुजः।

“रामानुजार्य! भवतः उपकारभारात् वयं अस्मिन् जन्मनि निवृत्तिं प्राप्तुं शक्नुमो वा न वा” इति रामानुजस्य हस्तद्वयं स्वहस्तेन स्वीकृत्य सगद्गदम् उक्तवान् मुनिरामः।

एतावत्पर्यन्तं द्वारस्य पृष्ठतः स्थित्वा सर्वं श्रुतवती रत्ना बहिः आगत्य कृतज्ञताभावेन रामान्जस्य पादयोः नमस्कारं कृतवती।

व्यर्थशासनम्

पूर्वं शान्तसेनः नाम राजा लवङ्गपुरराज्यं पालयति स्म। साधु-संन्यासिनां विषये अतीव गौरवं प्रदर्शयति स्म महाराजः।

तादृशाः साधु-संन्यासिनः सर्वेऽपि भगवतः प्रतिरूपाणि, तैः बोध्यमानानि वाक्यानि वेदवाक्यानि इति महाराजः विश्वसिति। स्वकीयराज्यस्य प्रजाभिः वा उद्योगस्थैः वा कथञ्चित् अपि ते संन्यासिनः न पीडनीयाः, गौरवादरैः एव द्रष्टव्याः इति राजा शासनम् एव कृतवान् आसीत्। अपि च राज्ये साधु-संन्यासिनां कृते निःशुल्कं भोजन-वसत्यादीनां व्यवस्था कृता आसीत्। यदि यः कश्चित्, साधु-संन्यासिनाम् अवमाननं करोति, तर्हि तेन कठिनदण्डनम् अनुभोक्तव्यम् आसीत् तस्मिन् काले।

एवं स्थिते कदाचित् मन्त्री माधवशर्मा महाराजम् उक्तवान्- “प्रभो, भवान् साधु-संन्यासिनां कृते एवं शासनं कृतवान्। किन्तु इदानीं तेषां व्यवस्थार्थम् एव अस्माकम् आयस्य अर्धभागः व्ययितः भवति। तेन कारणेन प्रजानां क्षेमाभिवृद्धिः अपि कुण्ठिता अस्ति। अन्यः एकः प्रधानः विषयः नाम यदा एतत् शासनं व्यवहारे आनीतं, तदारभ्य पूर्वापेक्षया अपराधिनां सङ्ख्या अधिका जाता। एतेषु दिनेषु न्यायालयस्य विरामः एव न भवति” इति।

तत् अनिच्छन् इव शिरः चालयन् शान्तसेनराजः उक्तवान्- “तथा न वदतु। मया कृतं साधु-संरक्षणाशासनम् एव अस्याः परिस्थित्याः कारणम् इति यदि भवान् विश्वसिति, तर्हि भगवतः प्रतिरूपाणां साधु-संन्यासिनाम् अवमाननम् एव। एतेषां सेवया अस्माकं राज्यम् उन्नतस्तरं प्राप्स्यति इति मम दृढः विश्वासः अस्ति। तेषां विषये अन्यथा न चिन्तयतु भवान्” इति।

मन्त्री क्षणकालं मौनं स्थित्वा

उक्तवान्- “प्रभो, विद्यमानायाः परिस्थित्याः निवेदनं मम कर्तव्यम् इति चिन्तयन् मया यत् ज्ञातं तत् उक्तवान् अहम्। साधु-संन्यासिनां विषये अगौरवं प्रदर्शितवान् इति न चिन्तयतु” इति।

एतस्य अङ्गीकरणपूर्वकं राजा उक्तवान्- “अस्माकं राजगुरुः एकवर्षतः देशाटनं कुर्वन् अस्ति। शासनकरणात् पूर्वम् अनुभविनां मार्गदर्शनं प्राप्तुं मम अवकाशः न आसीत्। एतद्विषये मम विश्वासः एव साक्षी। अस्तु, इदानीं एकं कार्यं करोतु। ‘सर्वाः प्रजाः अपि विशेषतया परिश्रमेण कार्यं कुर्युः। सकाले विना क्लेशं करादीन् दद्युः च। अकस्मात् यः कोऽपि अलसः भवति, तेन कठिनं दण्डनम् अनभोक्तव्यं भवति’ इति उद्घोषणं करोतु। अस्याः आज्ञायाः साफल्यं यद् भवति, तर्हि पुनः अपि अस्माकं कोशागारः यथेष्टं पूरितं भवति। एतद्विषये भवतः खेदः मास्तु” इति।

मन्त्रीमाधवशर्मा महाराजस्य आदेशानुसारं देशे सर्वत्र उद्घोषणं एवमेव कानिचन दिनानि अतीतानि। शान्तसेनराजः मन्त्रिणं माधवशर्माणम् आहूय पृष्टवान् -“इदानीम् अस्माकं कोशागारस्य परिस्थितिः कथम् अस्ति? मम आज्ञा समीचीनतया पाल्यते वा?” इति।

“प्रभो, किमिति वदामि? कोशागारस्य परिस्थितिः इदानीम् अतीव गम्भीरा अस्ति। कारणं किम् इति सम्यक् न ज्ञायते। प्रजानां पीडनम् अपि दुःशकम्। तादृशी परिस्थितिः’ इति उक्तवान् मन्त्री।

एतत् श्रुत्वा आश्चर्यचकितः राजा उक्तवान्- “किम् उक्तम्? प्रजाः मम आज्ञां शिरसा न अङ्गीकुर्वन्ति वा? श्रद्धां न प्रदर्शयन्ति वा? किमर्थम् एवं भवति इति अस्माभिः ज्ञातव्यम्। वृथा प्रजानां पीडा न उचिता। स्वयं गत्वा पश्यामः चेत् ज्ञायेत। वेषान्तरेण देशसञ्चारं कृत्वा आगच्छाम। भवान् अपि आगच्छतु” इति।

एवं राजा मन्त्री च वेषान्तरेण कस्मिंश्चित् लघुनगरे अटन्तौ आस्ताम्। तस्मिन् समये कस्यचित् तन्तुवायस्य गृहे केचन वेमां परितः उपविश्य सन्तोषेण

सम्भाषणं कुर्वन्तः आसन्। राजा मन्त्री च एतत् दृष्टवन्तौ।

तौ तेषां समीपं गत्वा पृष्टवन्तौ- “भवन्तः स्वकार्याणि त्यक्त्वा अलसाः इव कालयापनं कुर्वन्ति चेत् एतस्य देशस्य राजा कठिनरीत्या दण्डयति इति एषा वार्ता भवद्भिः न श्रुता वा?” इति।

एतयोः वचनं श्रुत्वा वेमां परितः उपविष्टाः उच्चैः हसन्तः उक्तवन्तः- “भवन्तौ नूतनतया अत्र आगतवन्तौ इति मन्यामहे” इति। भित्तौ विद्यमानं दण्डकमण्डलुकाषायवस्त्रादीन् प्रदर्शयन्तः पुनः उक्तवन्तः- “राजशासनं विरुध्य वयं व्यवहरामः इति यः कश्चित् अस्मान् दण्डयितुम् उद्युक्तः भवति, तर्हि अपरक्षणे एव वेषान्तरेण साधु-संन्यासिनां रूपं प्राप्नुमः। यद्यपि अस्मिन् देशे अलसेभ्यः एव दण्डनम् इति शासनम् अस्ति, तत् सत्यम् एव। तथापि तत् साधु-संन्यासिभ्यः न अन्वेति। अपि च वयं यं कमपि अपराधं कुर्मः चेत् अपि यदि वेषान्तरेण साधुसज्जनाः भवामः, तर्हि भयम् एव नास्ति। दूरतः एव राजभटान् दृष्ट्वा ज्ञातुं शक्नुमः वयम्” इति।

“एवं वा विषयः?” इति चिन्तयन्तौ शान्तसेनराजः मन्त्री च ततः प्रस्थितौ। पुनरपि बहुषु प्रान्तेषु अटितवन्तौ। सर्वेषु स्थलेषु अपि समानम् अनुभवम् एव प्राप्तवन्तौ।

ततः तौद्वौ अपि राजधानीं प्रत्यागतवन्तौ। प्रजानां हितार्थम् इति स्वेन यत् शासनं कृतम् आसीत् तत् किमर्थं व्यर्थं

जातम् इति ज्ञातुम् अशक्तः राजा अतीव व्यथितः।

एवं सति राजगरुः देशाटनं समाप्य प्रत्यागतवान् अस्ति इति विषयं `शान्तसेनराजः ज्ञातवान्। तत्क्षणे एव राजा मन्त्रिणा सह राजगरोः दर्शनार्थं प्रस्थितः।

शान्तसेनराजस्य वचनं श्रुत्वा राजगुरुः उक्तवान्- “राजन्, अस्माकं उद्देशः आदर्शभूतः भवेत्। इष्टानिष्टम् अविचार्य यानि शासनानि क्रियन्ते, तानि प्रजानां एव विषये महाराजस्य विषये च शापरूपेण परिणमन्ति। लोकहितनिरताः सर्वसङ्गत्यागिनः महानुभावाः अङ्गुलिगणनीयाः” इति।

“गुरुदेव, प्रतिदिनम् अपि अनेकान् सज्जनान् साधु-संन्यासिनः पश्यामः किल? अङ्गुलिगणनापेक्षया अधिकाः सन्ति इति भाति” इति उक्तवान् शान्तसेनराजः।

राजगुरुःमन्दं हसन् उक्तवान्- “तादृशेषु निष्कपटिनां संन्यासिनां परिचयः न सुलभः राजन्।तत्रापि अनेके संसारदायित्वं निर्वोढुम् अनिच्छन्तः, सुलभतया सुखजीवनं यापयितुं काषायवस्त्रधारिणः भवन्ति। भवतः शासनेन तादृशैः प्रोत्साहः लब्धः। प्रजासु आलस्यम् आरब्धम्” इति।

शान्तसेनराजः अत्यन्तं विनयेन उक्तवान्- “गुरुदेव, व्यर्थस्य शासनस्य परिवर्तनम् एव भवतः अभिप्रायः इति ज्ञातवान्। तथैव करोमि अहम्” इति।

“सत्यम्, प्रथमं तत् कार्यं करोतु। किन्तु एकः विषयः स्मरणे भवतु। इतः परं मताचारपालनविषये वैयक्तिकान् भवतः विश्वासविचारान् प्रजानाम् उपरि शासनद्वारा न आरोपयतु” इति उक्तवान् राजगुरुः।

राजा तद्दिनादारभ्य साधु-संन्यासिनां कृते निश्शुल्कं यत् वसति-भोजनादिकं कल्पितम् आसीत् तत् परिवर्तितवान्। ‘ये अलसाः भवन्ति, तेभ्यः कठिनरीत्या दण्डनं दीयते’ इति पुनः अपि उद्घोषणं कारितवान्। तदनन्तरं राज्ये व्यवस्था जाता।

युक्तिमान् सैनिकः

“हंगरीदेशस्य जानपदकथा”

पूर्वं कदाचित् मात्यास्नामकः हङ्गरीदेशस्यराजा अभवत्। सिंहासनारोहणानन्तरं सः ज्ञातवान् यत् सैनिकाः पानमत्ताः सन्तः सदा जडतया कुत्रचित् पतिताः भवन्ति इति। किन्तु एते सैनिकाः प्रतिमासं वेतनरूपेण, केवलं चत्वारि ताम्रनाणकानि प्राप्नुवन्ति, तावदेव। एतेन अल्पेन वेतनेन ते कथं वा एवं सुरापानं कर्तुं शक्नुवन्ति?’ इति कुतूहलः उत्पन्नः महाराजस्य मनसि। ‘कथमपि उपायेन एतत् रहस्यं ज्ञातव्यम् एव’ इति निश्चितवान् सः।

मात्यास्राजः कदाचित् सैनिकवेषं धृत्वा राजधानीतः निर्गतवान्। सैनिकानां व्यवहारं सुसूक्ष्मं परिशीलयन् सायङ्कालसमये इतरे सैनिकाः इव नगरात् बहिर्भागे स्थितं मदिरापणं प्राप्तवान्।

यदा सः द्वारसमीपं गतवान् तदा तेन मदिरापणस्य अन्तर्भागतः अट्टहासध्वनिः कोलाहलः च श्रुतः। अन्तः सैनिकाः पानमत्ताः सन्तः उन्मादलोके सन्ति इति ज्ञातवान् मात्यास्राजः। युक्ते समये अहम् आगतवान् इति चिन्तयन् सः अन्तः प्रविष्टवान्।

अन्तः चत्वारः प्राचीनसैनिकाः आसन्। तेषु एकः नूतनस्य हस्तं गृहीत्वा- आगच्छतु भोः, कदा सैन्यं प्रविष्टवान् भवान्?” इति पृष्टवान्।

“एकः सप्ताहः अतीतः” इति उक्तवान् मात्यास्- महाराजः।

तदा प्राचीनसैनिकः एतस्य स्कन्धे हस्तं संस्थाप्य - “इतः परं द्वादश वर्षाणि यावत् नीरसजीवनं भवतः। किन्तु नियतरूपेण वेतनप्राप्तिः तु निश्चिता। तत्सर्वम् अस्तु तावत्। धनं निष्कासयतु। नाणकद्वयं व्ययीकृत्य मदिराम् आनयतु। सर्वे उत्सवम् आचरेम” इति उक्तवान्।

“मम समीपे धनं नास्ति किल? अहं

निर्धनः” इति उक्तवान् राजा।

“किं भोः, एवं वदति! ह्यः एव वेतनं प्राप्तवान् स्यात् खलु भवान्? किञ्चित् वा मदिरा मह्यं दापनीया एव भवता” इति उक्तवान् सः प्राचीनः सैनिकः।

राजा तस्य निर्बन्धात् विमोचनं प्राप्तुं न शक्तवान्। तस्मै मदिरां दापितवान् सः। तदा इतरे त्रयः अपि एकैकशः महाराजस्य समीपम् आगत्य मदिरार्थं धनं बलात् व्ययीकारयित्वा स्वेच्छया मदिरां पीतवन्तः। एवं महाराजस्य कोषः रिक्तः जातः।

एतावता अपि तेषां तृप्तिः न जाता। तेषु योष्यानामकः आपणिकस्य समीपं गत्वा- “ॠणत्वेन किञ्चित् मदिरां ददातु। श्वः धनं दास्यामि” इति उक्तवान्।

“सैनिकाय कदापि ऋणत्वेन किमपि न ददामि” इति निर्दाक्षिण्यम् उक्तवान् सः मदिरापणिकः।

योष्का कुपितः सन् “मयि विश्वासः यदि न स्यात् तर्हि एतं खड्गं न्यासरूपेण स्वीकृत्य किञ्चित् मदिरां ददातु भोः” इति उक्तवान्।

आपणिकः खड्गं स्वीकृत्य चतुर्भ्यः सैनिकेभ्यः अपि किञ्चित् किञ्चित् मदिरां दत्त्वा “इतः परं गच्छन्तु। द्वारपिधानस्य समयः आसन्नः” इति उक्तवान्।

तदा रात्रौ नववादनसमयः। ते सैनिकाः आपणात् बहिः आगतवन्तः।

इदानीं बुभुक्षा पिपासा च तान् बाधते। चौर्येण आहारः सम्पादनीयः इति ते निश्चितवन्तः। एतत्कार्यार्थं सैनिकवेषधारिणं महाराजम् आदिष्टवन्तः च।

महाराजः झटिति एतदर्थं सिद्धः न अभवत्। तदा ते सैनिकाः महाराजं सम्यक् तर्जितवन्तः, भाषितवन्तः, ताडयितुम् उद्युक्ताः अभवन् च। सैनिकानां दुष्टतां निर्दाक्षिण्यप्रवृत्तिं च महाराजः जानाति। अतः अनिवार्यतया सः चौर्यं कृत्वा आहारं सम्पाद्य आगतवान्।

मात्यास्महाराजेन आनीतानि खाद्यानि ते सन्तोषेण खादितवन्तः। अनन्तरं रक्षणकार्यं स्मरन्तः ततः वेगेन धावितवन्तः। ते यद्यपि विलम्बेन गच्छन्ति, किन्तु तान् आक्षेप्तुं कोऽपि न शक्नोति।

प्राचीनसैनिकानां शयनार्थं स्थलं निश्चितम् अस्ति। किन्तु सैनिकवेषधारिणः महाराजस्य तादृशं स्थलं नास्ति। तदा योष्का एव मार्गपार्श्वे कम्बलं प्रसार्य अत्र शयनं करोतु” इति महाराजम् उक्तवान्।

महाराजः यद्यपि शयनं कृतवान्, किन्तु सः निद्रां न प्राप्तवान्। ‘एते सैनिकाः प्राप्तं धनं समग्र मदिरापानार्थं व्ययीकुर्वन्ति। माम् अवाच्यैः शब्दैः निन्दितवन्तः। चौर्ये मां बलात् नियोजितवन्तः अपि। एतेषां प्रमुखः योष्का निश्चयेन कठोरं दण्डनीयः’ इति चिन्तितवान् राजा।

एवं चिन्तयित्वा मात्यासराजः मध्यरात्रे उत्थाय मौनं स्वभवनं प्रति गतवान्।

प्रातःकाले राजाज्ञा आगता यत् सर्वे सैनिकाः आयुधसहिताः सन्तः राजाङ्गणे सम्मिलेयुः महाराजः स्वयं सर्वेषां परीक्षां करिष्यति इति। सर्वे सैनिकाः त्वरया राजाङ्गणं प्रति प्रस्थिताः।

“कोऽपि खड्गं दद्यात् वा ?’ इति योष्का बहुधा प्रयत्नं कृतवान्। सर्वान् प्रार्थितवान्। किन्तु कोऽपि खड्गं न दत्तवान्। अन्ते योष्का एकस्य तक्षकस्य गृहं प्रति धावितवान्। काष्ठमयं त्वरया कथञ्चित् कारितवान्। तं कोषे संस्थाप्य सर्वैः सह राजाङ्गणं प्रविष्टवान्।

स्वपरतः स्थितेषु सैनिकेषु योष्कानामकस्य परिचयं प्राप्तवान् महाराजः। तस्य कटिप्रदेशे खड्गः अस्ति वा न वा इति परीक्षादृष्ट्या दृष्टवान् राजा। तत्र कोषः तु अस्ति। कृतकः त्सरुः स्पष्टं

दृश्यते। एतस्य कोषस्थः खड्गः कृतकः इति विषयः सर्वेषां पुरतः एव निरूपणीयः’ इति चिन्तितवान् राजा।

महापराधं कृतवन्तं कञ्चन सैनिकं महाराजः कारागारे स्थापितवान् आसीत्। तस्य मरणदण्डनम् अपि निश्चितम् आसीत्। तं महापराधिनम् अत्र आनेतुम् आदिष्टवान् राजा। सः मरणदण्डनार्हः अपराधी सैनिकः भटैः तत्र आनीतः।

मात्यास्राजः योष्कानामकम् अग्रे आहूय आज्ञां कृतवान् “एतस्य शिरच्छेदं करोतु” इति।

योष्कासैनिकस्य पादयोः कम्पनम् उत्पन्नम्। काष्ठमयेन खड़गेन कस्यापि शिरच्छेदः कर्तुं न शक्यते किल? अतः सः विनयेन महाराजम् उक्तवान्- “महाराज! रक्तपातम् अहं द्रष्टुं सर्वथा न शक्नोमि। एतद्विपरीततया चत्वारि वर्षाणि यावत् सैनिककार्यम् अधिकम् आदिशत्, तत् करोमि। मनुष्यस्य शिरच्छेदनं त् सर्वथा न करोमि। एतादृशं कार्यम् अन्यस्मै वक्तव्यम् इति विनयेन प्रार्थयामि। क्षन्तव्यः अहम्” इति।

‘अहं राजा आज्ञां कुर्वन् अस्मि इति स्मरति खलु। राजाज्ञायाः विरोधः केनापि न करणीयः। करोतु एतस्य शिरच्छेदम्” इति कोपेन गर्जितवान् राजा।

“महाप्रभो! शिरच्छेदं विना….” इति आरब्धं योष्कावचनम् अर्धे स्थगयन् राजा गर्जितवान्- “व्याजं किमपि न वदतु। भवता एव एतस्य शिरच्छेदः करणीयः’ इति। त

तदा योष्का दीर्घं निःश्वसन् आकाशं पश्यन्- “अये भगवन्! भवति मम भक्तिः नैजा यदि स्यात् तर्हि मम खड्गं काष्ठमयं करोतु, येन हिंसनं निवारितं भवेत्” इति उच्चैः उक्त्वा कोषात् काष्ठमयं खड्गम् आकृष्टवान्। “पश्यतु महाप्रभो! देवः मम प्रार्थनाम् अङ्गीकृतवान्” इति वदन् राज्ञे काष्ठमयं खड्गं प्रदर्शितवान् च।

योष्कासैनिकस्य युक्तिं प्रशंसन् महाराजः तस्य दण्डनविचारं परित्यक्तवान्।

युक्तिशक्तिः

प्रा

चीनकाले काश्मीरदेशम् अवन्तिवर्मा पालयति स्म। तस्मिन् समये प्रकृतेः विकोपः अधिकः आसीत्। प्रतिवर्षं क्षामः भवति स्म। आहाराभावतः जनाः महान्तं क्लेशम् अनुभवन्ति स्म।

काश्मीरदेशः उन्नतस्य पर्वतस्य मूले अस्ति। तत्रत्याः नद्यः महता वेगेन प्रवहन्ति। प्रवाहपीडा तत्र तदा तदा भवति एव। किन्तु तत्प्रदेशस्य भूमिः अत्युत्कृष्टा।

महापद्मसरोवरस्य जलस्य कारणतः काश्मीरराज्ये सस्यवृद्धिः अतिसमीचीना भवति। किन्तु जनाः फलसमृद्धिं न पश्यन्ति। यतः फलसमये एव वितस्तानद्याः प्रवाहः महापद्मसरोवरे प्रविशति। तदा उद्गतेन सरोवरप्रवाहेण सर्वं नाशितं भवति।

अवन्तिवर्मा धर्मभीरुः। सः चिन्तयति यत् अस्मत्पुरतः कोऽपि प्रमादः घटितः। तत्कारणतः एव सर्वदा क्षामः इति। अतः सः अनेकेषां देवानां पूजां कारयति। ग्रहशान्त्यर्थं होमयज्ञादीन् कारयति। किन्तु क्षामनिवारणं न जातम् एव।

कानिचन वर्षाणि एवम् एव अतीतानि। एकदा राजा श्रुतवान् यत् समीरनामकः कश्चन पुरुषः ‘अहं प्रवाहपीडां निवारयितुं शक्नोमि’ इति वदन् अटति इति। जनाः तं मतिभ्रान्तं भावयन्तः उपहसन्ति इत्यपि महाराजेन श्रुतम्। एतद्विषये कुतूहलः प्रवृद्धः महाराजस्य मनसि।

येन केनापि उपायेन क्षामपरिस्थितिः निवारणीया एव इति अवन्तिवर्मणः सङ्कल्पः। अतः सः समीरस्य कथनं पुरस्कुर्वन् तं राजधानीम् आनायितवान्।

राजाज्ञानुगुणम् आगतः समीरः महाराजं प्रणम्य विनयेन स्थितवान्।

“प्रवाहपीडां निरोद्धुं शक्नेमि इति वदन् भवान् सर्वत्र अटति इति वचनं सत्यं

वा?” इति पृष्टवान् राजा।

“आं महाराज! प्रवाहपीडा अपगता चेत् क्षामः अपि अपगमिष्यति” इति आत्मविश्वासेन उक्तवान् समीरः।

“तत् तु सत्यम्। प्रवाहपीडायाः निरोधः कथम्? भवान् वस्तुतः अपि एतत् साधयितुं शक्नुयात् वा?” इति पृष्टवान् राजा अवन्तिवर्मा।

“आं महाराज!। अहं प्रवाहपीडां निरोद्धुं शक्नोमि” इति उक्तवान् समीरः।

“यत् कार्यं राजशक्त्या अपि न शक्तं तत्. भवान् एकाकी कथं साधयिष्यति?” इति पुनः पृष्टवान् राजा।

‘भवान् धनं ददाति चेत् साधयिष्यामि एव। धनेन साधयितुम् अशक्यं किम् अस्ति महाराज?” इति प्रतिपृष्टवान् समीरः।

“धनागारतः यावदिच्छति तावत् नयतु। किन्तु स्मर्तव्यं यत् आगामिनि वर्षे प्रवाहपीडा न भवेत्” इति जागरूकतावचनम् उक्तवान् महाराजः।

मन्त्री महाराजस्य एताम् उदारतां निरोद्धुं कृतवान्। किन्तु महाराजः सड़कल्पच्युतः न जातः।

समीरः आत्मना यावत् नेतुं शक्येत तावन्ति सुवर्णनाणकानि स्वीकृत्य प्रस्थितवान्। जनाः अपि उपहसन्तः तम् अनुसृतवन्तः।

केचन वदन्ति स्म “समीरः महाराजं सम्यक् वञ्चितवान्” इति।

अन्ये केचन वदन्ति स्म “समीरः इव महाराजः मतिभ्रान्तः इति।

”सर्वेषां तु मनसि ‘समीरः अग्रे किं कुर्यात् इति कुतूहलम् आसीत्।

वितस्तानद्याः प्रवाहः काश्मीरे प्रवाहपीडां जनयति स्म किल? सा नदी प्रवाहेण सह पर्वतशिखरभागतः महाशिलाः आनयति। पर्वतमूले त्यक्त्वा अग्रे गच्छति च। एवं प्रतिवर्षम् आगताभिः शिलाभिः कश्चन सेतुः निर्मितः आसीत्।

एतत्कारणतः वितस्तायाः प्रवाहः प्रतिवर्षं महापद्मसरोवरं प्रविशति, ततः च प्रवाहपीडा सम्भवति स्म च। जनाः एतं सेतुम् अतिक्रम्य सदा गमनागमनं कुर्वन्तः आसन्। एवं प्रवाहपीडायाः मूलं कारणं ज्ञातवान् आसीत्

समीरः।

समीरः धनस्यूतं स्वीकृत्य पूर्वोक्तसेतोः समीपम् आगतवान्। ताः शिलाः आरुह्य तासां मध्ये सुवर्णनाणकानि पातयन् सः अग्रे गतवान्।

जनाः तम् अनुसरन्तः आगतवन्तः खलु ? ते समीरस्य एतम् उद्यमं दृष्ट्वा उच्चैः हसितवन्तः।

“एषः निश्चयेन मतिभ्रान्तः एव। अमूल्यानि नाणकानि नद्यां क्षिपति किल” इति ते परस्परम् उक्तवन्तः। तम् एतस्मात् उद्यमात् निवारयितुं कोऽपि न शक्तवान्।

अकस्मात् जनसमूहे किञ्चन जागरणम् उत्पन्नम्। केचन नद्याम् अवतीर्य सुवर्णनाणकानाम् अन्वेषणे उद्युक्ताः अभवन्। तत्रैव जनानां गणाः सञ्जाताः। गणशक्त्या ते महतीम् अपि शिलां तीरं प्रति आनीतवन्तः। शिलायाः अधः स्थितानि नाणकानि स्वीकृतवन्तः।

अल्पेन एव कालेन एषा वार्ता समीपस्थेषु ग्रामेषु प्रसृता। पुनः अपि सहस्रशः जनाः तत्र आगतवन्तः। शतशः वर्षेभ्यः पतिताः शिलाः तीरं प्रापितवन्तः।

राजसेवकैः सर्वथा कर्तुम् अशक्यं कार्यं जनता कृतवती आसीत्। समीरः शिष्टानां शिलानाम् अपसारणार्थम् अन्यम् उपायम् अवलम्बितवान्। राजधानीं गत्वा पुनः अपि सुवर्णनाणकानि आनीय शिष्टानां शिलानाम् अधः पातितवान्।

एकदिनाभ्यन्तरे सा सेतुमयी शिलापङ्क्तिः अदृश्यतां गता। बाधाभावात् इदानीं जलं सहजगत्या प्रवहति। ये जनाः श्रमम् आचरितवन्तः आसन् ते प्रतिफलरूपेण सुवर्णनाणकानि प्राप्तवन्तः आसन्।

तस्मिन् वर्षे वितस्तानद्याः प्रवाहः महापद्मसरोवरं न प्राविशत्। प्रवाहपीडाभावतः सन्तुष्टाः जनाः समाधानेन निःश्वसितवन्तः।

समीरः स्वकीयया युक्तिशक्त्या अपूर्वं कार्यं साधितवान् आसीत्। सर्वे देशहितार्थं तेन कृतस्य कार्यस्य प्रशंसां कृतवन्तः। महाराजः अवन्तिवर्मा अमूल्येन पारितोषिकेण तं सम्मानितवान्।

]