[[लघुकथासङ्ग्रहः-१२ Source: EB]]
[
अभिशापः
उज्जयिन्याः राजा कीर्तिवर्मा। तस्य आस्थाने जयदेवः नाम मेधावी शास्त्रज्ञः च कविः आसीत्। देशविदेशेषु तस्य महती कीर्तिः आसीत्। जयदेवस्य पुत्रः सोमनाथः अपि कविः पण्डितः च, कानिचन काव्यानि लिखितवान् आसीत् च। किन्तु तेन यशः न प्राप्तम्।
एकदा सोमनाथः कीर्तिवर्माणं दृष्ट्वा नमस्कृत्य निवेदितवान् —“अहं पार्श्वस्थे मालवदेशे स्थातुम् इच्छामि। अनुमतिदानेन माम् अनुगृह्णातु” इति।
तदा कीर्तिवर्मा आश्चर्येण पृष्टवान्- ‘किं भवतः पिता भवतः विषये कुपितः?” इति।
‘नैव मधुरः सम्बन्धः आवयोः" इति उक्तवान् सोमनाथः।
“एवं तर्हि मम राज्ये भवतः सुखसौकर्यादिकं नास्ति वा ?” इति पुनः पृष्टवान् कीर्तिवर्मा।
“महाराज! अन्यराज्ये अत्र अविद्यमानं किम् अधिकं सौकर्यं प्राप्नुयाम् ?” इति उक्तवान् सोमनाथः।
“तर्हि किमर्थं भवान् पार्श्वराज्ये निवासं कर्तुम् इच्छति?” इति पृष्टवान् राजा।
सोमनाथः किमपि वक्तुम् अनिच्छन् मौनं स्थितवान्। तदा तत्र स्थितःउफ़् मन्त्री प्रद्योतसेनः सोमनाथस्य अन्तरङ्गं जानन् महाराजम् उक्तवान् —“महाराज! सोमनाथाय गमनार्थम् अनुमतिं ददातु” इति।
सोमनाथं अनुमतिं प्राप्य ततः निर्गतवान्। अनन्तरं राजा कीर्तिवर्मा प्रद्योतसेनं पृष्टवान्—
“मन्त्रिवर्य! सोमनाथाय गमनानुमतिं दातुं किमर्थं भवान् सूचितवान् ?” इति।
“महाराज! वटवृक्षस्य अधः किमपि न प्रवर्धते इति आभाणकं भवान् श्रुतवान् खलु ? सोमनाथः असाधारणप्रतिभाशालिनः जयदेवस्य पुत्रः जातः इति तु अभिशापः एव। सः अत्र कदापि स्वप्रतिभया प्रसिद्धिं प्राप्तुं न अर्हति” इति उक्तवान् मन्त्री।
मालवदेशं गतः सोमनाथः अनेकानि काव्यानि रचितवान्। उत्तमां कीर्तिं सम्पादितवान् च।
अदृष्टपरीक्षा
सोमनाथपुरस्य भूस्वामिनः नाम ईश्वरस्वामी। तस्य कार्यालये लेखनकार्यार्थं लिपिकारस्य आवश्यकता आसीत्। एतां वार्तां ज्ञात्वा पञ्चदश युवकाः तत् कार्यार्थम् भूस्वामिनः समीपम् आगतवन्तः।
भूस्वामी आगतान् युवकान् उक्तवान्— ‘एतत्कार्यार्थम् एतावन्तःजनाः आगच्छन्ति इति मम कल्पना अपि न आसीत्। अस्तु तावत्। इदानीम् एका परीक्षा। आवरणसहिताः दश घटाः भवतां पुरतः स्थाप्यन्ते। तेषु एकस्मिन् घटे केवलम् एकं सुवर्णनाणकं स्थाप्यते। तत् नाणकं कस्मिन् घटे अस्ति इति यः ज्ञातुं समर्थः भवति तादृशाय उद्योगः। अदृष्टबलं कस्य स्यात् इति पश्यन्तु भवन्तः" इति।
कश्चन सेवकः आवरणसहितान् दश घटान् आनीय युवकानां पुरतः किञ्चिद्दूरे स्थापितवान्। तेषां पुरतः एकां जवनिकां बद्धवान् च। भूस्वामी एकस्मिन् पार्श्वे आसन्दे उपविष्टवान्।
कः कं घटम् उद्घाट्य पश्यति इति जवनिकायाः पुरतः विद्यमानाः युवकाः ज्ञातुं न शक्नुवन्ति। भूस्वामी केवलं तत् सर्वं सूक्ष्मतया अवलोकयति।
क्रमशः एकैकः एव जवनिकायाः अन्तः गत्वा कञ्चित् घटम् उद्घाट्य दृष्टवान्। किन्तु केनापि सुवर्णनाणकं न प्राप्तम्। चतुर्दश अपि युवकाः रिक्तहस्ततया एव प्रत्यागतवन्तः।
उद्योगम् अन्विष्य आगतः रामदासः नाम युवकः दूरे स्थितवान् आसीत्। घटस्य उद्घाटने इच्छाम् अप्रदर्शयन् सः मौनं स्थितवान् आसीत्।
भूस्वामी तं परीक्षादृष्ट्या पश्यन्
उक्तवान्—‘‘भोः, भवान् अपि उद्योगं प्राप्तुम् इच्छन् एव आगतवान् खलु? किमर्थं तथा मौनं स्थितवान्? अग्रे आगत्य भवान् अपि आत्मनः भाग्यपरीक्षां करोतु” इति।
तदा रामदासः उक्तवान्— “श्रीमन्, दशसु घटेषु एकस्मिन् एव सुवर्णनाणकस् अस्ति इति भवान् वदति। कदाचित् केनापि तत् सुवर्णनाणकं न प्राप्येत। द्यूते धनप्राप्तिः इव अदृष्टबलात् नाणकप्राप्तिः अपि अनिश्चिता एव। अन्यच्च अनुभवी भवान् अदृष्टपरीक्षाम् आयोज्य तद्द्वारा लिपिकारस्यनियोजनं न कुर्यात् इत्येव मम विश्वासः” इति।
तस्य वचनं श्रुत्वा भूस्वामी मन्दहासपूर्वकं पृष्टवान्— “एवं तर्हि एतां परीक्षाम् अहं मनोविनोदार्थम् आयोजितवान् इति वा भवतः अभिप्रायः?” इति।
“श्रीमन्, विनोदार्थम् एषा परीक्षा न स्यात्। उद्योगेच्छया आगतानां विवेचनशक्तिं चिन्तनरीतिं च परीक्षितुम् आयोजिता भवितुम् अर्हति एषा परीक्षा। मम विचारानुगुणं तेषु घटेषु कस्मिंश्चित् अपि सुवर्णनाणकं नास्ति। स्यात् चेदपि तत् मह्यं मास्तु” इति उक्तवान् रामदासः।
“घटानां परीक्षणार्थं न गन्तव्यम् इत्येव वा भवतः अभिप्रायः ?” इति पुनः पृष्टवान् भूस्वामी।
“आम्। अहम् योग्यताबलात् उद्योगं प्राप्तुम् इच्छामि, न तु अदृष्टबलात्। यत्र योग्यतापरीक्षा न भवति तत्र उद्योगं नइच्छामि अहम्” इति उक्तवान् रामदासः।
तस्य वचनेन सन्तुष्टः भूस्वामी उक्तवान्— “साधु युवक, साधु ! भवतः ऊहा युक्ता एव। कस्मिन् अपि घटे वस्तुतः सुवर्णनाणकं नास्ति। यः स्वयोग्यतायां विश्वसिति तं दैवम् अनुसरति। यः दैवे केवलं विश्वसिति सः जीवने साफल्यं न प्राप्नोति। भवादृशस्य शोधनार्थम् एव एषा परीक्षा आसीत्। श्वः आरभ्य भवान् कार्यार्थम् आगच्छतु” इति।
तत्र उपस्थिताः सर्वे भूस्वामिनः बुद्धिकौशलं प्रशंसितवन्तः।
अदृष्टफलम्
“ग्रीक्देशस्य जानपदकथा”
** कस्मिंश्चित् ग्रामे एकः कृषिकः आसीत्। तस्य एकः पुत्रः। पुत्रस्य बाल्ये एव माता दिवङ्गता। कालान्तरे पिता अपि केनचित् रोगेण पीडितः। प्रतिदिनं सः रोगः वर्धते स्म।**
** मरणं सन्निहितम् इति ज्ञात्वा कदाचित् पिता पुत्रम् आहूय उक्तवान्—“अये पुत्र, अहं दरिद्रः इति कारणतः भवतः कृते किमपि सम्पादयितुं न शक्तवान्। किन्तु भवान् मृत्तिकां स्पृशति चेत् अपि तत् सुवर्णं भवेत् इति मनःपूर्वकम् आशीर्वादं कर्तुम् शक्नोमि। तावदेव” इति।**
** केषुचित् दिनेषु एव पिता दिवङ्गतः। पुत्रः स्वमातापितरौ स्मरन् श्रमेण कृषिकार्यं कर्तुम् आरब्धवान्। तस्मिन् कृषिकार्ये शीघ्रम् एव साफल्यं प्राप्तवान् सः। तस्य स्वकीयम् एकं द्राक्षावनम् आसीत्। अन्येषां द्राक्षावनापेक्षया एतस्य एव उत्तमं फलभरितं च आसीत्।**
** कालान्तरे धनिकः सः फलवनानि क्रीतवान्। फलानां वाणिज्यार्थं नौकाः अपि क्रीतवान्। मत्स्यवाणिज्यम् आरब्धवान्। तैलयन्त्रम् अपि क्रीतवान्। तैलेन मत्स्यवाणिज्येन च महान्तं लाभंप्राप्तवान् च।**
** शीघ्रातिशीघ्रम् एव सः नगरे महान् धनिकः सञ्जातः। सः यस्मिन् कस्मिन् अपि कार्ये उद्युक्तः भवतु, तत्र साफल्यं प्राप्नोति। धनिकाः तस्य सहवासं कर्तुम् इष्टवन्तः। ऐश्वर्येण सन्तुष्टः एषः कस्यचित् धनिकस्य सुन्दरीं पुत्रीं परिणीय विना क्लेशं सुखं जीवितुम् आरब्धवान्।**
** एवं स्थिते अदृष्टविषये कदाचित् एतस्य शंका उत्पन्ना। सः स्वकीयं प्रियमित्रम् उक्तवान्— “मित्र, वस्तुतः वक्तव्यं चेत् मम शक्तिसामर्थ्यम् अतिरिच्य अपि अदृष्टं**
मां गृहीतम् अस्ति इति भाति। अतः मम तु भयम्। यतः सुलभतया आगता लक्ष्मीः तथैव गच्छेत् अपि। दुरदृष्टदेवी मयि कुपिता भवेत् अपि। अतः तस्याः तृप्त्यर्थं तादृशं किमपि कार्यं करणीयम्, येन कार्येण काचित् हानिः सम्भवेत्। कीदृशं कार्यं कृतं चेत् हानिः भवेत् ? वदति वा?” इति।
सः स्नेहितः क्षणकालं विचिन्त्य पृष्टवान्- “खर्जूरं कुतः आगच्छति ?” इति।
“कैरोनगरतः किल?” इति उक्तवान् प्रथमः।
‘पुनः किमर्थं चिन्ता ? अत्र लभ्यमानं खर्जूरं यावत् शक्यं तावता अधिकमूल्येन क्रीत्वा उष्ट्राणां द्वारा कैरोनगरं नयतु। तत्र यावत् शक्यं तावता न्यूनमूल्येन विक्रयणंकरोतु। तेन भवान् निश्चयेन हानिं प्राप्नोति” इति उपायम् उक्तवान् सः स्नेहितः।
मित्रस्य अभिप्रायः समीचीनः एव इति चिन्तितवान् एषः। तद्दिने एव नगरं गत्वा वणिजां समीपे विद्यमानानि सर्वाणि खर्जूरफलानि क्रीतवान्। मूल्यम् अपि अधिकम् एव दत्तवान्। अनन्तरं कांश्चित् उष्ट्रान् क्रीतवान्। तेषां द्वारा कैरोनगरं प्रति प्रस्थितवान् च।
बहुदिनानि मरुभूमौ प्रयाणं कुर्वन् सः कदाचित् विश्रान्त्यर्थं मरुभूमौ शिबिरं स्थापयित्वा स्थितवान्। तस्मिन् समये एव श्वेताश्वारूढः ईजिप्तदेशस्य राजा तत्र आगतवान्। तेन सह तस्य परिवारजनाः, केचन सैनिकाः च आसन्। सैनिकानां हस्ते आयुधानि आसन्।
एषः महाराजं नमस्कृत्य पृष्टवान्— “प्रभो, एते सैनिकाः आयुधानि धृतवन्तः। कः विशेषः इति अहं ज्ञातुं शक्नोमि वा?” इति। तदा राजा “किमिति वदामि ? अद्य प्रातः अश्वारूढः अहं विहारार्थम् एतस्यां दिशि आगतवान्। मम अङ्गुलीयकम् अत्रैव कुत्रापि पतितम्। तत् अङ्गुलीयकं मम विवाहस्य, प्रीतिपात्रं च। अतः तस्य अन्वेषणार्थम् अहम् अत्र सिकतां शोधयन्
अस्मि। तदस्तु, भवान् कैरोनगरं गच्छति वा? तत्र किं विशेषकार्यं भवतः ?” इति पृष्टवान्।
** “खर्जूरविक्रयणार्थं कैरोनगरं गच्छन् अस्मि” इति वदन् एषः उष्ट्राणाम् उपरि विद्यमानान् खर्जूरकण्डोलान् महाराजाय प्रदर्शितवान्।**
** आंश्चर्यचकितः राजा उक्तवान्— “कैरोनगरं गत्वा खर्जूरविक्रयणं करोति वा ? अत्र पश्यतु। समीपे एव खर्जूरवृक्षाः सन्ति। कियन्ति फलानि सन्ति ! एकस्मिन् वृक्षे विद्यमानानि फलानि उत्पाटयितुम् एकं दिनम् अपि न पर्याप्तम्। भवान् कैरोनगरं नयति चेत् एकं नाणकम् अपि प्राप्तुं न शक्नोति। महती हानिः भविष्यति। उपहासार्हः भविष्यति च!” इति।**
** एतेन वचनेन महाराजेन सह विद्यमानाः सर्वे उच्चैः हसितवन्तः।**
** एषः “अहं नष्टार्थम् एव सिद्धः अस्मि। हानिः भविष्यति इति भवन्तः वदन्ति। किन्तु मम तुहानिः न भवति किल इति एव चिन्ता। यतः मरणसमये मम पिता ‘मृत्तिकां स्पृशति चेत् अपि तत् सुवर्णं भवति’ इति आशीर्वादं कृतवान् अस्ति।” इति वदन् एकमुष्टिमितां सिकतां स्वीकृतवान्।**
** सः यदा मुष्टिम् उद्घाटितवान्, तदा तस्य सिकतानां मध्ये सुवर्णस्य अगुलीयकम् आसीत्।**
** “मम नष्टम् अङ्गुलीयकम् एतत् एव’ इति उक्तवान् राजा आश्चर्येण।**
** एतस्य अदृष्टेन अङ्गुलीयकं सुलभतया लब्धम् इति सन्तोषेण राजा खर्जूर-मूल्यापेक्षया अधिकमूल्ययुक्तेन उपायनेन तं सत्कृत्य प्रेषितवान्।**
** हानिम् अनुभवितुं श्रमेण प्रस्थितः एषः ततोऽपि द्विगुणितं लाभं प्राप्य स्वग्रामं प्रतिगतवान्।**
** विद्यमानानि खर्जूरफलानि सर्वेभ्यः विना मूल्यं वितरितवान् सः। पितुः आशीर्वादप्रभावेण दुरदृष्टं समीपम् अपि न आगच्छति इति तस्य मनसि दृढः विश्वासः उत्पन्नः।**
अदृष्टशाली
** नार्वेदेशे कश्चन धनिकः निवसति स्म। तस्य उभौ पुत्रौ। समुद्रमध्यस्थः कश्चन द्वीपः एतस्य धनिकस्य अधीने आसीत्। ग्रीष्म-काले तदीयौ पुत्रौ तं द्वीपं गच्छतः, मीनग्रहणकार्यं कुरुतः च। तयोः वासार्थं तत्र एकं गृहम् अपि निर्मितम् आसीत्।**
** धनिकस्य ज्येष्ठः पुत्रः स्वभावेन गम्भीरः। तस्य मनसि स्थितं विचारम् अन्यः कोऽपि ज्ञातुं न शक्नोति।**
** द्वितीयस्य तु एतद्विरुद्धः स्वभावः। सः साहसकार्येषु अतीव आसक्तः। ‘अहं स्वभावेन सरलः’ इति सर्वदा वदति स्म सः। अपायं सम्मुखीकृत्य अपि साहसकार्येषु प्रवर्तते।**
** पितुः मरणानन्तरं पित्रार्जिता सम्पत्तिः पुत्रयोः वशे आगता। तस्य द्वीपस्य स्वामित्वम् अपि तयोः अधीनं जातम्। द्वीपस्य स्वामित्वे ताभ्यां विभागः न कृतः।**
** प्रतिवर्षं ग्रीष्मकाले तौ नौकाम् आरुह्य तं द्वीपं गच्छतः। तत्रैव कानिचन दिनानि स्थित्वा मीनग्रहणेन समयं ससन्तोषं यापयतः। वृष्टेः आरम्भः यदा भवति तदा तौ प्रत्यागच्छतः। शैत्यकाले कुब्जजातीयाः केचन तस्य द्वीपस्य उपयोगं स्वीकुर्वन्ति इति प्रतीतिः आसीत्।**
** एकदा तौ सहोदरौ द्वीपं गत्वा ग्रीष्मकालं समाप्य प्रत्यागतवन्तौ। किन्तु इदानीं पुनः गत्वा आगन्तव्यम् आपतितं, यतः कानिचन अत्यावश्यकानि वस्तूनि ताभ्यां तत्रैव त्यक्त्वा आगतम् आसीत्। अतः तौ पुनः अपि तं द्वीपं गतवन्तौ। यदा प्रत्यागमनं चिन्तितं तदा अन्धकारः व्याप्तः आसीत्।**
** तदा अग्रजः अनुजम् उक्तवान् —“अन्धकारे प्रयाणं मास्तु। रात्रौ झंझावातः उत्पद्येत इति भाति। श्वः प्रातः एव प्रयाणं भवतु” इति।**
“झंझावातस्य लक्षणम् एव नास्ति । वृथा भीतिः भवतः” इति उक्तवान् अनुजः ।
‘अहम् अतीव श्रान्तः । इदानीं मया प्रयाणं कर्तुं न शक्यते” इति प्रयाणं निराकृतवान् अग्रजः ।
तस्यां रात्रौ तौ सहोदरौ तस्मिन् द्वीपे एव शयनं कृतवन्तौ । प्रातःकाले अनुजः यदा उत्तिष्ठति तदा अग्रजः तत्र नास्ति! नौका अपि न दृश्यते । आहारपदार्थाः भुषुण्डिका च दैववशात् तत्रैव आसन् ।
‘अग्रजः रात्रितः पूर्वं प्रत्यागच्छेत्’ इति चिन्तयन् अनुजः मध्याह्ने पाकं कृत्वा भोजनं कृतवान् ।
तद्दिनम् एवम् एव अतीतम् । सप्ताहः अपि अतीतः । ‘मदीयः सम्पत्तिभागः अपि वशीकरणीयः इत्युद्देशेन एव अग्रजः अस्मिन् निर्जने द्वीपे माम् एकाकिनं त्यक्त्वा गतवान्’ इति आलोचितवान् अनुजः ।
वस्तुतः प्रवृत्तम् अपि तथैव । अग्रजः अपरतीरं प्राप्य नौकाम् अधोमुखतया नद्यां पातयित्वा ‘अनुजः समुद्रे मज्जितः अभवत्’ इति सर्वान् उक्तवान् ।
अनुजः अग्रजस्य वञ्चनापूर्णव्यवहारेण न तथा खिन्नः । सः एकम् उडुपं निर्मितवान् । तस्य साहाय्येन मीनान् गृहीतवान् । भुषुण्डिकया पक्षिणः मारितवान् । एवं सः अल्पश्रमेण एव उदरं पूरयन् तस्मिन् एव द्वीपे निवसति स्म ।
हेमन्तकालः आगतः । जनानां वचनं यदि सत्यं स्यात् तर्हि एषु दिनेषु वामनाः तं द्वीपम् आगच्छेयुः । ते वामनाः आगच्छन्तु नाम । जनानां सम्पर्केण मम कालः अपि विनोदेन गच्छेत्’ इति चिन्तितवान् अनुजः ।
शैत्यकालस्य एकस्मिन् सायङ्काले सुदूरात् समुद्रप्रदेशात् वाद्यसङ्गीतध्वनिः श्रुतः । शब्दं श्रुत्वा बहिः आगतः अनुजः शब्दस्य दिशि दृष्टिं प्रसारितवान् । एका नौका तत्र दृश्यते स्म । नौकातः प्रकाशः अपि प्रसरति स्म। नौकायाः रचना तेन इतः पूर्वं कुत्रापि न दृष्टा आसीत्। सुसूक्ष्मम् अवलोकनेन ज्ञातं यत् नौकायाः अरित्रस्य पार्श्वे काचित् तरुणी स्थिता अस्ति, तां परितः वर्णमयवेषधारिणः वामनाः सन्ति इति । सा स्त्री राजकुमारी इव दृश्यते स्म । सा या कापि भवतु नाम, तेषां वामनानां कुले
जाता तु न ।
** द्वीपं प्रति एव नौकायाः आगमनं ज्ञात्वा अनुजः त्वरया अन्तः प्रविष्टवान् । भुषुण्डिकां स्वीकृत्य गृहस्य अट्टम् आरुह्य निलीय सुप्तवान् च ।**
** अचिरात् एव ते वामनाः द्वीपं प्राप्तवन्तः । गृहम् अपि प्रविष्टवन्तः । समग्रं गृहं तैः वामनैः व्याप्तं जातम् । अल्पे एव काले तत् गृहं ते राजभवनरूपेण अलङ्कृतवन्तः । इदानीं गृहे सर्वत्र रजतसुवर्णमयानि एव पात्राणि ।**
** सर्वे वामनाः पङ्क्तौ उपविश्य भोजनं समापितवन्तः। भोजनानन्तरं तेषां नृत्यम् आरब्धम्। सा तरुणी एकत्र मौनम् उपविष्टा आसीत्। वामनानां राजा तां नृत्यार्थम् आह्वयन् तस्याः समीपं गतवान्। सा तस्य आह्वानं निराकृत्य कोपेन मुखं परिवृत्य उपविष्टवती ।**
** अनुजः गवाक्षमार्गतः बहिः आगत्य समुद्रतीरं गतवान् । वामनानां नौकां रज्ज्वा दृढं बद्धवान् । पुनः गृहम् आगत्य द्वारे स्थित्वा अन्तः प्रचलत् नृत्यं क्षणकालं दृष्टवान् ।**
** कोलाहलपूर्णम् एतत् नृत्यं समापयितुम् इच्छन् एकं गोलकं निरुद्देश्यं प्रयुक्तवान् । एतं शब्दं श्रुत्वा वामनाः दिग्भ्रान्ताः । भीत्या ते इतस्ततः धावितवन्तः । यदा नदीतीरं प्रति गतं तदा तैः नौका बद्धा दृष्टा । अतः ते. पर्वतप्रदेशं प्रति धावितवन्तः ।**
** गृहस्य अन्तः सा तरुणी सुवर्णमयानि पात्रादीनि च आसन्। सा तरुणी अनुजाय स्वकीयां करुणकथां निवेदितवती ।**
** यदा बालिका आसीत् तदा एव सा वामनैः अपहृता । वामानानाम् आचारव्यवहारात् सा अतीव जुगुप्सिता। अत्रान्तरे तेषां नायकः तां परिणेतुम् इच्छन् तदा तदा तां पीडयति । एतेन तस्याः जुगुप्सा द्विगुणिता जाता। गत्यन्तराभावात् तत्रैव तिष्ठन्ती ‘कदा वा मम विमोचनं भवेत्’ इति निरीक्षमाणा सा दिनानि यापयति स्म ।**
** तस्याः नाम, ग्रामनाम, मातापित्रोः परिचयं च पृष्टवान् अनुजः । एतेन सः ज्ञातवान् यत् एषा परम्परया सम्बन्धिनी एव इति ।**
** एषः अपि आत्मनः परिचयम् उक्तवान् । अनन्तरं तौ वामनानां नौकाम् एव आरुह्य**
समुद्रम् अतिक्रम्य नगरं गतवन्तौ, तत्र सुखेन जीवितवन्तौ च ।
अग्रजः कथञ्चित् अनुजस्य वार्तां ज्ञातवान् एव । मम अनुजः एव ‘मत्तः अपि धनिकः जातः खलु !’ इति असूयां प्राप्तवान् सः । एषा सम्पत्तिः वामनानां सहवासतः प्राप्ता इत्यपि तेन श्रुतम् आसीत् ।
अनन्तरवर्षे पुनः अपि शैत्यकालः आगतः । अग्रजः दुराशाग्रस्तः सन् तं द्वीपं गतवान् ।
यद्दिने सः द्वीपं प्राप्तवान् तद्दिने एव समुद्रतीरे प्रकाशः कोलाहलः च श्रुतः । भीतः अग्रजः गृहं प्रविश्य कोणे उपविष्टवान् ।
अस्मिन् वर्षे तं द्वीपम् अन्यजातीयाः ‘वामनाः आगतवन्तः । ते कृष्णवर्णीयाः । कटेः अधः चर्म धारयन्ति । ते नौकया न अगताः आसन्, अपि तु तरणं कृत्वा एव । यदा ते तत् गृहं प्रविष्टवन्तः तदा भीतः अग्रजः अट्टम् आरूढवान् ।
आगतेषु कश्चित् मुखेन अग्निवर्षणं कृतवान् । तेन गृहस्थः अवकरराशिः अग्निना स्पृष्टः अभवत् । इतरे बहिः गत्वा तृणपर्णादीनि काष्ठानि च आनीय अग्नौ स्थापितवन्तः । तेन गृहे सर्वत्र धूमः व्याप्तः ।
एतेन अट्टे उपविष्टस्य अग्रजस्य श्वासोच्छ्वासार्थं क्लेशः जातः । सः गवाक्षद्वारा निर्गन्तुं प्रयत्नं कृतवान् । किन्तु सः आकारेण स्थूलः । अर्धं शरीरं गवाक्षात् बहिः अस्ति । पुनः अर्धम् अन्तः एव अस्ति । स्थौल्यकारणतः शरीरम् अग्रे नेतुं न शक्यते । पृष्ठतः आनेतुम् अपि न शक्यते । सः उच्चैः आक्रन्दनं करोति । किन्तु तत् राक्षसानां कोलाहलकारणतः न श्रूयते एव ।
प्रातः कालसमये ते वामनाः समुद्रं प्रविश्य तरन्तः निर्गतवन्तः । अग्रजः कथञ्चित् गवाक्षतः विमोचनं प्राप्य गृहम् आगतवान् । इदानीं तदीया मतिः तदधीने नास्ति। मतिभ्रष्टः सः इतस्ततः अटन् कुत्रापि गतवान् । अग्रजः न प्रत्यागतः इत्यतः तदीया सम्पत्तिः अनुजस्य एव जाता।
अनर्थकः द्वेषः
बहुभ्यः वर्षेभ्यः पूर्वं मलयपर्वतप्रान्ते मारदेवः नाम प्रसिद्धः ऐन्द्रजालिकः आसीत् । सः अनेकविधाः मन्त्रविद्याः जानाति । तथापि सः धनार्जनार्थम् एतस्याः विद्यायाः उपयोगं न करोति ।
मारदेवस्य लवनामकः पुत्रः आसीत् । ‘अधीता विद्या मया सह एव जीर्णा न भवेत्’ इति चिन्तयन् मारदेवः पुत्रं सर्वाः विद्याः पाठितवान् ।
लवः स्वभावेन भिन्नः एव । विद्यायाः आधारेण धनं कीर्तिः च सम्पादनीया इति तस्य प्रबला इच्छा। अतः सः एकदा स्वग्रामं त्यक्त्वा देशविदेशं प्रति प्रस्थितवान् । बहवः राजानः तदीयम् इन्द्रजालकौशलं दृष्ट्वा सन्तोषम् अनुभवन्तः पारितोषिकाणि दत्तवन्तः आसन्।
एवं देशाटनं कुर्वन् लवः तोरणदेशं प्राप्तवान् । तत्र महाराजं दृष्ट्वा— “अहम् ऐन्द्रजालिकः । मम विद्याकौशलं दृष्ट्वा बहवः राजानः सन्तोषं प्रकटितवन्तः । अत्रापि मम कौशलप्रदर्शनार्थम् अवकाशः दातव्यः” इति विज्ञापितवान् लवः ।
बहोः कालतः निस्सन्तानस्य तोरणदेशमहाराजस्य गतवर्षे एव एकः पुत्रः जातः आसीत्। पुत्रस्य जन्मकुण्डलीं दृष्ट्वा ज्योतिषिकः उक्तवान् आसीत् यत् एतस्य द्वितीये वर्षे कस्माच्चित् ऐन्द्रजालिकतः हीनयोगप्राप्तिः अस्ति इति । तदारभ्य राजा ऐन्द्रजालिकशनतः भीतः भवति स्म ।
इदानीम् उपस्थितस्य लवस्य दर्शनतः अपि राजा भीतः अभवत् । यतः तदीयस्य कुमारस्य द्वितीयवर्षप्रवेशानन्तरं मासद्वयम् अपि न अतीतम् आसीत् ।
“कुतश्चित् आगतात् एतस्मात् ऐन्द्रजालिकतः एव कोऽपि अपायः भविष्यति। ज्योतिषिकस्य वचनं सत्यम् एव सम्पन्नम्” इति चिन्तयन् राजा मन्त्रिणा सह रहसि वार्तालापं कृतवान् । “एतस्य
ऐन्द्रजालिकस्य समापने कोऽपि उपायः चिन्तनीयः’ इति सूचितवान् च।
** एतदनुगुणं मन्त्री लवम् एकान्ते आहूय— “इन्द्रजालविद्यायाम् अस्माकं महाराजस्य विशेषरुचिः । अतः सः भवदर्थं विशेषभोजनकूटस्य व्यवस्थार्थम् आज्ञापितवान् अस्ति । अद्य भवता महाराजस्य भोजनालये एव आतिथ्यं स्वीकरणीयम्। भवतः कौशलप्रदर्शनार्थं श्वः व्यवस्था क्रियते” इति निवेदितवान् ।**
** लवः तु अतीव सन्तुष्टः। रात्रौ सः महाराजेन सह भोजनं कृतवान्। भोजने तीव्रं विषं मिश्रितम् आसीत् इत्यतः सूर्योदयतः पूर्वम् एव सः गतप्राणः जातः । मन्त्री तस्य शवं विश्वासार्हसेवकानां द्वारा श्मशानं प्रापितवान्।**
** एतत् कार्यं यद्यपि रहसि एव प्रवृत्तं, तथापि प्रसिद्धः ऐन्द्रजालिकः कश्चन अदृश्यतां गतः इति विविधाः किंवदन्तीः तुप्रसृताः एव । ‘सः दारुणं मरणं प्राप्तवान्’ इति तु निश्चितम् अभवत् । केषुचित् मासेषु एषा वार्ता मारदेवेन अपि श्रुता। ‘पुत्रस्य मरणं वस्तुतः जातं वा न वा’ इति ज्ञातुं सः स्वयं प्रस्थितः सन् तोरणदेशं प्राप्तवान्। तोरणदेशे बहवः लवस्य आगमनं जानन्ति स्म। किन्तु आगतस्य तस्य का गतिः जाता इति कोऽपि न जानाति । ‘राजभवनं प्रति आहूय तं मारितवन्तः’ इति वार्तां तु बहवः तु श्रावितवन्तः ।**
** मारदेवः वस्तुतः स्वभावेन साधुः । किन्तु विना कारणं राजा लवं मारितवान् इति ज्ञातवतः तस्य मनसि तीव्रः द्वेषः उत्पन्नः ।**
** कदाचित् सः दासीभिः विहारार्थम् उद्यानं नीयमानं राजकुमारं दृष्टवान् । झटिति सः कार्ये उद्युक्तः अभवत् । ऐन्द्रजालिकविद्यया दासीः वञ्चयित्वा सः राजकुमारम् उन्नीय स्वदेशं गतवान्। राजकुमारस्य वस्त्राभरणादीनि एकस्यां पेटिकायां स्थापितवान् । तं बालकं पुत्रवत् प्रीत्या पालितवान्।**
** ‘पुत्रं कोऽपि अपहृत्य गतवान्’ इति ज्ञात्वा तोरणदेशस्य राजा अतीव निराशः । ‘मया स्वीकृता पूर्वजागरूकता अपि व्यर्था जाता किल?’ इति चिन्तयन् सः दुःखसागरे**
पतितवान्।
** ‘पुण्यवशात् जातः अद्वितीयः पुत्रः अपि अदृश्यतां गतः’ इति चिन्तयन्तं शयनम् आश्रितवन्तं महाराजं मन्त्री उक्तवान्— ‘महाराज! एवं दुःखितेन भवता आरोग्यं न उपेक्षणीयम् । यत् भवितव्यम् आसीत् तत् जातम् एव। वयम् अत्र असहायाः संवृत्ताः । कश्चित् ऐन्द्रजालिकः एव राजकुमारम् अपहृतवान् स्यात् । वयं यं युवकम् ऐन्द्रजालिकं मारितवन्तः तस्य पिता समीपबन्धुःवा स्यात् सः । तं युवकं मारयन्तः वयम् एव स्वयम् आपदं स्वागतीकृतवन्तः। ज्योतिषिकेण राजकुमारस्य प्राणापायः अस्ति इति तु न उक्तम्। ‘हीनयोगप्राप्तिः अस्ति’ इति एतावदेव उक्तम् । अतः राजकुमारः पुनः अपि अस्माभिः प्राप्येत इति विश्वसिमः वयम्” इति ।**
** लवः मरणसमये षोडशवर्षीयः आसीत् । अतः मारणदेवःराजकुमारः यावत् षोडशवर्षीयः भवेत् तावत् तं पालितवान्। अनन्तरं राजपुत्रेण सह तोरणदेशं प्राप्य कस्याञ्चित् धर्मशालायां स्थितवान् । अनन्तरदिने राजकुमारम् उक्तवान् च— “पुत्र! एतां पेटिकां स्वीकृत्य गत्वा भवान् महाराजस्य दर्शनं प्राप्नोतु। यदा भवान् बालः आसीत् तदा भवतः अग्रजः अत्र आगतः आसीत्। तत्सन्दर्भे एषः तोरणदेशराजः तं विशेषतः सत्कृतवान् आसीत् अपि। तदर्थम् एषा पेटिका समर्प्यते इत्यपि वदतु भवान्” इति।**
** तदा सः राजपुत्रः आश्चर्येण — “मम अग्रजः अपि आसीत् वा ? इतः पूर्वं न उक्तवान् एव भवान् !” इति उक्तवान् ।**
** ‘मया यथा उक्तं तथा आचरतुभवान् । तदा भवान् स्वयम् एव अग्रजविषये सर्वं जानाति” इति उक्तवान् मारदेवः ।**
** राजकुमारः पेटिकां स्वीकृत्य महाराजस्य दर्शनार्थं गतवान् । महाराजं नमस्कृत्य— “महाराज! अहं मारदेवनामकस्य ऐन्द्रजालिकस्य पुत्रः अस्मि । बहुभ्यः वर्षेभ्यः पूर्वम् इन्द्रजालविद्यां प्रदर्शयितुम् आगतं मम अग्रजं भवान् सत्कृत्य पारितोषिकादीनि दत्तवान् इति श्रुतम् । तस्य प्रतिफलरूपेण मम पिता भवदर्थम् एतां पेटिकां प्रेषितवान्’**
इति उक्तवान् ।
** राजा पेटिकाम् उद्घाटितवान् । तत्र अदृश्यतां गतस्य राजकमारस्य बाल्यसम्बन्धीनि वस्त्राणि आभरणानि च आसन्। एतानि दृष्ट्वा राजा क्षणकालं स्तब्धः ।**
** अनन्तरं शोकातिरेकेण कोपेन च कार्याकार्यविवेकं विस्मृतवान् सः। क्रोधावेशेन खड्गम् आकृष्य यदा सः तं युवकं हन्तुम् उद्यक्तः तदा मन्त्री तं तस्मात्कार्यात् निवारयन् उक्तवान्— “प्रभो! त्वरा मास्तु। एतानि राजकुमारीयानि वस्तूनि इति तुसत्यम् एव । किन्तु ऐन्द्रजालिकः राजकुमारं वस्तुतः मारितवान् यदि स्यात् तर्हि तदा एव एतानि भवत्समीपम् अप्रेषयिष्यत् । एषः तरुणः तु राजकुमारः इव भाति किल” इति ।**
** अनन्तरं राजां शान्तः सन् पेटिकायां स्थितानि वस्तूनि एकैकशः बहिः आनीतवान्। तदा पेटिकायां सर्वेषां वस्तूनाम् अधः एका चिटिका आसीत् । तत्र लिखितम्आसीत् — “राजन्! एतस्याः चिटिकायाः प्राप्तितः पूर्वं भवान् स्वहस्ततः एव स्वपुत्रं मारितवान् भवेत्। भवान् मम पुत्रं यत् मारितवान् तस्य प्रतीकारः एवं साधितः मया” इति ।**
** ‘मन्त्रीमां निवारितवान् यदि न स्यात् तर्हि अहं मम पुत्रम् एव स्वहस्तेन मारितवान् स्याम् । तदा मारदेवः यथा चिन्तितवान् तथा एव अभविष्यत्’ इति चिन्तयतः महाराजस्य नेत्राभ्याम् आनन्दाश्रूणि आगतानि । सः पुत्रं प्रीत्या दृढम् आलिङ्गितवान् ।**
** अनन्तरं राजा सेवकान् सम्प्रेष्य धर्मशालायां स्थितं मारदेवम् आनायितवान्। “विधिलिखितम् अन्यथाकर्तुं प्रयतमानः अहं भवतः पुत्रम् अविवेकेन मारितवान्। मां क्षाम्यतु । तस्य फलरूपेण एतावत्पर्यन्तं पुत्रवियोगदुःखम् अनुभूतवान् अपि” इति वदन् मारदेवस्य क्षमां प्रार्थितवान् सः। राजकुमारस्य अपेक्षानुगुणं मारदेवं स्वकीये आस्थाने नियोजितवान् च ।**
अनिवार्यता
** श्रीरामपुरस्य शिवरामः श्रीनिवासस्य गृहं तदा तदा आगच्छति। सः कदलीफलानां विक्रयिकः। यदा सः श्रीनिवासस्य गृहम् आगच्छति तदा पञ्च कदलीफलानि दत्त्वा एकं रूप्यकं स्वीकृत्य गच्छति । शिवरामस्य कदलीवाटिका श्रीनिवासस्य गृहतः द्वियोजनदूरे अस्ति ।**
** एकदा कस्यापि शुभकार्यस्य निमित्तं अपेक्षितम् इत्यतः श्रीनिवासः शिवरामस्य वाटिकां गतवान् । समीचीनानि शतं कदलीफलानि स्वीकृतवान् च। तदर्थं विंशतिं रुप्यकाणि पृष्टवान् शिवरामः।**
** तदा श्रीनिवासः — आश्चर्येण “किं भोः शिवराम! योजनद्वयात् आगत्य भवान् मह्यं पञ्च कदीलफलानि दत्त्वा एक रूप्यकं स्वीकरोति स्म । इदानीम् अहम् एव भवतः वाटिकाम् आगतवान् अस्मि । इदानीम् अपि तावदेव मूल्यं वदति खलु ?” इति पृष्टवान् ।**
** तदा शिवरामः हसन् — “भवतः गृहम् आगत्य अहं यत् विक्रीतवान् तत्र मम अनिवार्यता आसीत्। भवतः इदानीम् अनिवार्यता अस्तीति कारणतः भवान् अत्र आगतवान्। अतः मूल्ये न्यूनतायाः प्रश्नः एव नास्ति खलु ?” इति उक्तवान् ।**
** हसन् शिरः चालितवान् श्रीनिवासः ।**
अनुभवबलम्
शिवगिरौ श्रीदत्तनामकः साधुस्वभावयुतः राजा आसीत् । यदा राजसभा भवति तदा सः अतीव खिन्नः भवति । महत्या शिरोवेदनया सः पीडितः भवति स्म । तत्र कारणं तु आस्थानपण्डितः अनिरुद्धः ।
अनिरुद्धः शुष्कैः श्लोकैः निरर्थकतर्केण, व्यर्थ-कथनेन न केवलं महाराजं, सभ्यान् सर्वान् अपि उद्वेजयति । तदीयाः पिताप्रपितामहादयः आस्थानपण्डितपदवीम् अलङ्कृतवन्तः आसन्। अतः राजा अनिरुद्धम् अप्रियं कथयितुं न शक्नोति ।
एकदा गौरीदत्तः नाम निर्धनः ब्राह्मणः महाराजस्य दर्शनं प्राप्य उक्तवान्— “महाप्रभो! पुरोहितवृत्त्या जीवन् अहं पत्नीपुत्रादीन् पोषयामि । दारिद्र्यात् अहं कदापि न खिन्नः । किन्तु इदानीं विचित्रा परिस्थितिः उत्पन्ना मम गृहे” इति ।
तदा राजा पृष्टवान्— “कीदृशी समस्या सा?” इति ।
गौरीदत्तः उक्तवान्— “समस्या अल्पा एव, किन्तु परिणामः तु घोरः । मम षड्वर्षीयः कश्चन बालः अस्ति । प्रातः आरभ्य शयनपर्यन्तं तस्य रोदनम् एव कार्यम् । प्रतिदिनम् एतत् श्रुत्वा अहं निर्विण्णः संवृत्तः । सुदूरं पलायनं करोमि वा इति भाति मम’ इति ।
गौरीदत्तस्य समस्यां श्रुत्वा राजा चिन्तितवान् यत् एषः बालकः अनिरुद्धस्य गले बद्धः चेत् समस्याद्वयम् अपि परिहृतं भविष्यति इति । अतः सः गौरीदत्तम् उक्तवान्— “भवान् भवतः पुत्रम् अत्र आनयतु । सः यावत् मम अधीने स्थास्यति तावत् भवान् प्रतिदिनं दश सुवर्णनाणकानि प्राप्स्यति” इति ।
अतीव सन्तुष्टः गौरीदत्तः अनन्तरदिने एव स्वपुत्रं शङ्करं महाराजस्य अधीने दत्त्वा प्रतिगतवान् ।
** महाराजः अनिरुद्धम् आहूय उक्तवान्— “पण्डितवर्य! भवता मम साहाय्यं करणीयम् । एषः शङ्करः कश्चन अनाथः बालकः । एतं भवान् पालयतु । योग्यं शिक्षणं यच्छन् स्वसमानं पण्डितं करोतु” इति ।**
** ‘महाराज! एतस्य रक्षणभारः मम उपरि भवतु । भवान् एव कालान्तरे वदेत् यत् अनिरुद्धस्य शिष्यः पाण्डित्येन गुरुम् अपि अतिशेते इति । समीचीनं शिक्षणम् अहं दास्यामि” इति उक्त्वा अनिरुद्धः बालं शङ्करं स्वगृहं नीतवान् ।**
** गृहप्राप्तिसमनन्तरम् एव शङ्करस्य रोदनम् आरब्धम्। बहुधा प्रयत्नेन अपि बालस्य रोदनं स्थगयितुं न शक्नोति अनिरुद्धः । एतस्मिन् प्रयत्ने व्यग्रः सः अनन्तरदिने राजसभाम् आगन्तुम् अपि न शक्तवान् । तद्दिने राजसभायाः कलापाः सम्यक् प्रवृत्ताः । राजा सभ्याः च तुष्टाः आसन्।**
** अनन्तरदिने अपि एवम् एव प्रवृत्तम् । उत्थानसमनन्तरम् एव शङ्करस्य रोदनम् आरब्धम् । ताडनेन द्विगुणितं भवति, लालनेन तु शान्तं न भवति । अतः एतद्दिने अपि अनिरुद्धः राजसभां न गतवान् ।**
** एवम् एव सप्ताहं यावत् प्रवृत्तम् । राज्ञा दत्तं कार्यं निर्वोढुं न शक्नोति अनिरुद्धः । ‘न शक्नोमि’ इति वक्तुम् अभिमानवशात् सङ्कोचः । अतः सः कमपि अनुक्त्वा राजधानीं त्यक्त्वा गतवान् ।**
** एवम् अनुरुद्धविषयिणी समस्या तु परिहृता । किन्तु अल्पे एव काले अन्या महती समस्या उपस्थिता ।**
** शिवगिरेः उत्तरेण सुन्दराचलं नाम सुविशालं राज्यम् अस्ति। तत्र प्रतिवर्षम् अपि क्षत्रियोचितानां विद्यानां प्रदर्शनं स्पर्धा च प्रचलति । तस्यां स्पर्धायां भागं ग्रहीतुं श्रीदत्तस्य पुत्रौ गौरवदत्तः सौरभदत्तः च गतवन्तौ । किन्तु तौ कौशलं प्रदर्श्य अपि प्रथमादिस्थानं प्राप्तुं न शक्तवन्तौ । सुन्दराचलस्य युवराजः प्रद्युम्नसिंहः एव**
अत्यधिकस्पर्धासु प्राथम्यं प्राप्तवान् ।
** एतेन उद्विग्नौ गौरवदत्तः सौरभदत्तः च सुन्दराचलस्य राज्ञः प्रसेनवर्मणः उपरि स्वजनपक्षपातम् आरोपितवन्तौ। स्पर्धासु महती वञ्चना इति उद्घोषितवन्तौ च । शिवगिरिराजकुमारयोः एतम् आरोपं श्रुत्वा प्रसेनवर्मा नितरां क्रुद्धः । क्रोधवशात् शिवगिरेः उपरि आक्रमणम् उद्घोषितवान् च।**
** इदानीं श्रीदत्तस्य पुरतः महती समस्या । एतस्मात् अपायतः मोक्षं प्राप्तुं कः उपायः इति सः सगम्भीरं चिन्तयन् अस्ति । शिवगिरेः अपेक्षया सुन्दराचलं तु त्रिगुणितं विशालम्। अन्यच्च सुन्दराचलस्य नद्यः एव शिवगिरेः जनानाम् जीवनाधारः । अतः सुन्दराचलेन सह युद्धं नाम पराजयप्राप्तिः एव। अकस्मात् जये प्राप्ते अपि क्षामः अङ्गीकरणीयः ।**
** राजा प्रजाप्रमुखानां सभाम् आहूय उपस्थितां समस्याम् उपस्थापितवान् । उपस्थितेषु एकैकः अपि स्वमत्यनुगुणम् एकं परिहारं सूचयति ।तेषु एकः अपि व्यावहारिकः न आसीत् ।**
** एतां वार्तां गौरीदत्तः अपि श्रुतवान् । महाराजस्य साहाय्यं करणीयम् इति बुद्ध्या सः राजसमीपम् आगतवान् ।**
** साहाय्यकरणबुद्ध्या उपस्थितं गौरीदत्तं पृष्टवान् महाराजः—‘भवत्कारणतः अनिरुद्धस्य पीडा अपगता इति तु सत्यम् एव। किन्तु इदानीम् उपस्थिता तु शासनसम्बन्धिनी समस्या । भवान् अत्रकीदृशं साहाय्यं कर्तुं शक्नुयात् ?” इति ।**
** “महाराज! एषा शासनसम्बन्धिनी समस्या, अहं शासनव्यवहारे अप्रवीणः इति उभयम् अपि सत्यम् एव । किन्तु एतादृश्यः एव समस्याः मम गृहे लघुरूपेण तदा तदा आगच्छन्ति । तदा अहं ताः अन्यसाहाय्यं विना एव परिहरामि” इति उक्तवान् गौरिदत्तः ।**
** “तत् कथम्?” इति पृष्टवान् राजा श्रीदत्तः ।**
** “महाराज! मम पुत्राः क्रीडासमये तदा तदा कमपि विवादम् उत्पादयन्ति । तेन क्रुद्धाः इतरबालकानां मातापितरः यदा मम गृहम्**
आगच्छन्ति तदा अहं न विवादं करोमि, न वा उद्विग्नः भवामि । शान्तः सन् विनयेन तान् विवेकं बोधयन् स्नेहेन विवादजनकपरिस्थितिं निवारयामि। भवतः समस्या अपि एतादृशी एव खलु ?” इति उक्तवान् गौरीदत्तः ।
** राजा श्रीदत्तः गौरीदत्तस्य वचनस्य तत्त्वं ज्ञातवान्। अनन्तरदिने एव सः सुन्दराचलदेशं गत्वा प्रसेनवर्माणं उक्तवान्— “अप्रबुद्धौ मम पुत्रौ किमपि उक्तवन्तौ स्याताम् । तदर्थं तयोः पिता अहं क्षमायाचनार्थम् उपस्थितः अस्मि। भवान् तु मम अग्रजतुल्यः । अग्रजेन सः कः वा युद्धं करोति? अथवा भवान् एव स्वयं युद्धार्थम् आगच्छति इत्येव चिन्तयेम, तदा अपि अहं प्रतिभटनं न करिष्यामि एव " इति ।**
** श्रीदत्तस्य विनयेन वचनेन च राजा प्रसेनवर्मा सन्तुष्टः जातः । युद्धविचारं परित्यक्तवान् अपि।**
** एवम् एव कानिचन वर्षाणि अतीतानि ।राजा श्रीदत्तः ‘राज्यभारं पुत्रयोः अन्यतराय दत्त्वा निवृत्तजीवनं यापनीयम्’ इति निश्चितवान्। किन्तु कस्मै राज्यं दातव्यम् इति समस्या ।**
** एतस्याः समस्यायाः परिहारार्थं महाराजः गौरीदत्तं स्वसमीपम् आनायितवान् ।**
** गौरीदत्तः महाराजस्य समस्यां श्रुत्वा उक्तवान्—“प्रभो! भवतः समस्यां श्रुतवतः मम नेत्रयोः पुरतः मिष्टखाद्यार्थं विवादं कुर्वतां मम पुत्राणां चित्रम् आगच्छति। यदा गृहं प्रति मिष्टखाद्यं नयामि तदा ते विवदन्ति । अतः अहं गृहप्राप्तितः पूर्वम् एव यावन्तः पुत्राः तावत्सु बन्धेषु पृथक् बद्ध्वा मिष्टखाद्यं नयामि” इति ।**
** मिष्टखाद्यवितरणस्य पृष्ठतः स्थितां नीतिं ज्ञातवान् महाराजः । अतः सः शिवगिरिं द्विधा विभज्य एकैकस्मिन् भागे एकैकं पुत्रम् प्रतिष्ठापितवान् । विशेषपारितोषिकेण गौरीदत्तं सम्मान्य तदीयं दारिद्र्यं निवारितवान् च ।**
औषधप्रभावः
न
वविवाहितः लक्ष्मणः पत्न्या सुभद्रया सह ग्रामात् बहिः लघुगृहे निवसति स्म।
निद्रायां तौ उभौ अपि शूरौ । प्रतिदिनम् अपि सूर्योदयः जातः चेदपि तौ जागरणं न प्राप्नुतः । अतः प्रातःकालीनं तयोः कृषिकार्यं सम्यक् न प्रचलति ।
लक्ष्मणः स्वकीयां परिस्थितिं स्वमित्राय नन्दीशाय उक्तवान् । नन्दीशः तु— “एषः कश्चन रोगः एव। एतदर्थं भवता प्रसिद्धः वैद्यः रामनाथः द्रष्टव्यः” इति सूचितवान् ।
वैद्यः रामनाथः लक्ष्मणेन उक्तं सर्वं श्रुत्वा— “एतावत् एव वा?” इति हसन् काश्चन गुलिकाः दत्तवान् । उक्तवान् च— “एताः गुलिकाः भवन्तौ उभौ अपि स्वीकुरुताम् । तेन रोगः स्वयम् एव शाम्यति। केनचित् जागरितौ इव भवन्तौ उषःकाले एव उत्तिष्ठतः” इति।
रात्रेः भोजनानन्तरं लक्ष्मणः सुभद्रा च वैद्येन दत्तां गुलिकां खादित्वा शयनं कृतवन्तौ । यदा तयोः जागरणं जातं तदा इतोऽपि प्रकाशः न व्याप्तः। शीघ्रम् एव अहम् उत्थितवान्’ इति सन्तोषम् अनुभवन् लक्ष्मणः प्रातर्विधिं समाप्य स्वकीयं शीघ्रोत्थानं सर्वान् सूचयितुम् इच्छन् गृहात् निर्गतवान् ।
मार्गे सम्मुखम् आगतः नन्दीशः पृष्टवान्— “किं भोः लक्ष्मण ? दिनत्रयतः न दृष्टः एव! कुत्रापि गतवान् आसीत् वा?” इति ।
लक्ष्मणः आश्चर्येण स्तब्धः! ‘औषधकारणतः दिनत्रयं यावत् अहं निद्रां कृतवान्’ इति वस्तुस्थितिं ज्ञातवान् सः। अतः किमपि अनुक्त्वा मौनं ततः निर्गतवान् ।
भाटकव्यवहारः
सुरपुरनामके ग्रामे सोमनाथः देवनाथः इति द्वौ स्नेहितौ आस्ताम् । तौ कर्मकरवृत्त्या जीवनं यापयतः । यः यत्कार्यार्थम् आह्वयति तत्कार्यार्थम् एतौ गच्छतः । अतः निर्दिष्टं कार्यं किमपि न आसीत् तयोः ।
** सोमनाथः अतीव सज्जनः मन्दमतिः च । देवनाथः तु महाचतुरः युक्तिमान् च । दरिद्रताकारणतः सः कदाचित् जनान् वञ्चयति । देवनाथस्य चातुर्यं तावत् आसीत् यत् तस्य वञ्चकत्वं जानन्तः अपि जनाः पुनः तेन वञ्चिताः भवन्ति स्म ।**
** एकदा सोमनाथः आत्मना वर्धितान् शाकादीन् नगरं नेतुं निश्चित्य दीननाथस्य समीपं गतवान्। दीननाथं प्रार्थितवान् च —“भोः, श्वः नगरं प्रति वस्तूनि नेतव्यानि सन्ति । भवान् एतदर्थं भवतः गर्दभं दातुं शक्नोति वा ?” इति ।**
** “मम गर्दभः ह्यः एव गृहात् निर्गतः इतोऽपि न प्रत्यागतः । अस्माकं ग्रामस्य सीमाप्रदेशे रामनाथः नाम कश्चित् अस्ति। तस्य समीपे अश्वः अस्ति । सः महाकृपणः । तथापि भवता पृष्टः चेत् अश्वं दद्यात्, पृच्छतु” इति उक्तवान् ।**
** रामनाथः साक्षात् सोमनाथस्य समीपं गतवान्। “एकस्य दिनस्य निमित्तं भवदीयम् अश्वं मह्यं दातुं शक्नोति वा”? इति पृष्टवान् च ।**
** तदा रामनाथः पृष्टवान्—“एकस्य दिनस्य भाटकार्थं भवान् कियत् ददाति ? " इति ।**
** “मम हस्ते एका वराटिका अपि नास्ति। निश्शुल्कं दद्यात् इति अहं चिन्तितवान्” इति उक्तवान् सोमनाथः ।**
** “निश्शुल्कं कथं दातुं शक्येत? एकस्य दिनस्य भाटकरूपेण पञ्चदश कूष्माण्डानि दातव्यानि” इति उक्तवान् रामनाथः।**
“मम समीपे तु पञ्च कूष्माण्डानि सन्ति । शिष्टानि दश कूष्माण्डानि सप्ताहानन्तरं दास्यामि । अस्तु वा?” इति पृष्टवान् सोमनाथः ।
“अस्तु तर्हि । इदानीं पञ्च कूष्माण्डानि दत्त्वा गच्छतु। यदा अवशिष्टानि कूष्माण्डानि आनयति तदा अश्वं नेतुम् अर्हति” इति उक्तवान् रामनाथः ।
मन्दमतिः सोमनाथः गृहं गत्वा पञ्च कूष्माण्डफलानि आनीय रामनाथाय दत्तवान् ।
अनन्तरदिने दीननाथः सोमनाथस्य गृहं प्रति गर्दभेन सह आगत्य —“ह्यः भवान् गर्दभं पृष्टवान् किल? एषः गर्दभः रात्रौ प्रत्यागतः । एतस्य साहाय्येन भवान् वस्तूनि नगरं नेतुम् अर्हति” इति सूचितवान् ।
“अहं तु तं रामनाथम् ‘अश्वं ददातु इति पृष्टवान् किल?” इति उक्तवान् सोमनाथः ।
“मम गर्दभः लब्धः खलु ? इतः परं कृपणस्य रामनाथस्य अश्वस्य आवश्यकता का?” इति पृष्टवान् दीननाथः ।
“अश्वनिमित्तं भाटकरूपेण पञ्चदशं कूष्माण्डफलानि दातुम् अहम् अङ्गीकृतवान् अपि । पञ्च कूष्माण्डानि एतावता दत्तानि । इदनीम् अहम् ‘अश्वः मास्तु’ इति यदि वदामि तर्हि सः कूष्माण्डानि न प्रत्यर्पयेत्” इति आतङ्कं प्रकटितवान् सोमनाथः ।
“कीदृशम् अकार्यं कृतं भवता?” इति तर्जनस्वरेण उक्तवान् दीननाथः ।
तस्मिन् एव समये युक्तिमान् देवनाथः तेन मार्गेण आगतवान्। एतौ प्रवृत्तं सर्वं निवेदितवन्तौ ।
‘अश्वस्य आवश्यकता नास्ति इति उक्त्वा कूष्माण्डानि प्रत्यानयतु। अश्वस्य उपयोगः एव न स्वीकृतः । अतः तेन कूष्माण्डानि प्रत्यर्पणीयानि एव’ इति सोमनाथम् उक्तवान् देवनाथः ।
“तथा प्रष्टुं मम तु धैर्यं नास्ति” इति उक्तवान् सोमनाथः । “एवं तर्हि भवता सह अहम् अपि आगच्छामि। सः कुतः वा न प्रत्यर्पयेत् इति पश्याम तावत्” इति वदन् देवनाथः सोमनाथेन सह रामनाथस्य गृहं प्रति प्रस्थितवान् । दीननाथः अपि तौ
अनुसृतवान् ।
एतान् दृष्ट्वा रामनाथः पृष्टवान्— ‘आगमनस्य कः विशेषः ?” इति ।
“अश्वार्थं वयम् आगताः । अश्वः कुत्र?” इति पृष्टवान् देवनाथः ।
“तत्र अस्ति, पश्यन्तु। इतोऽपि दश कूष्माण्डानि दत्त्वा अश्वं नेतुम् अर्हन्ति भवन्तः” इति उक्तवान् रामनाथः ।
‘अश्वस्य नयनं दूरे तिष्ठतु। एषः अश्वः प्रयाणार्थं पर्याप्तः भवेत् वा न वा इति द्रष्टव्यम्” इति उक्तवान् देवनाथः ।
“अश्वस्य परीक्षा नाम किम् एतत् ? सर्वे अश्वाः समानाः किल? अन्यः अश्वः दृष्टः भवद्भिः ? तद्वत् एव भवति एषः अपि” इति उक्तवान् रामनाथः ।
“अस्माकं प्रयाणस्य विषये भवान् किं जानाति ?” इति वदन् देवनाथः वितस्ति-प्रमाणेन अश्वस्य दैर्घ्यं परिशीलयन् सोमनाथम् उक्तवान्— “भोः पश्यतु, वितस्तिद्वयपरिमाणके स्थले भवान् उपविशति । भवतः पृष्ठतः अहं सार्धैकवितस्तिपरिमाणके स्थले उपविशेयम्। मम पृष्ठतः मम पत्नी उपविशति । अतः भवतः पत्नी भवतः पुरतः वितस्तिद्वयपरिमाणके स्थले उपविशतु । भवतः पुत्री तु अल्पवयस्का सा अश्वस्य कण्ठस्य उपरि उपविशतु । शिशुः मातुः अङ्केउपवेष्टुम् अर्हति । इतः परं वस्तूनां स्थापनं कुत्रइति अस्माभिः चिन्तनीयम्” इति वदन् एव आसीत् देवनाथः ।
तदा तस्य वचनं स्थगयन् रामनाथः कोपेन पृष्टवान्—“भोः, भवतः बुद्धिः स्तिमिता अस्ति वा? अश्वस्य उपरि कियन्तः उपवेष्टुम् अर्हन्ति इति भवान् चिन्तयति?” इति ।
“यावान् अवकाशः तावति वयम् उपविशामः । उपविष्टनां भारं वोढुं शक्नोमि वा इति तु अश्वेन चिन्तनीयम् । कथञ्चित् अस्माभिः नगरसमीपस्थं तीर्थक्षेत्रं प्रति गन्तव्यम्” इति उक्तवान् देवनाथः ।
“एवं तर्हि अल्पव्ययेन तीर्थयात्रा-करणार्थम् एषः उद्यमः वा भवताम् ?” इति कोपेन पृष्टवान् रामनाथः ।
“आम्, तेन यद्यपि प्रयाणं कष्टकरं भवेत्, तथापि कथञ्चित् निर्वोढव्यं खलु?” इति शान्तस्वरेण एव उक्तवान् देवनाथः ।
“अहं मम अश्वम् आपदि पातयितुं न इच्छामि। अतः अश्वं भाटकार्थं न ददामि” इति उक्तवान् रामनाथः ।
“दत्तस्य वचनस्य भङ्गः महात्मनां लक्षणं न। दत्तं वचनं परिपालनीयम् एव” इति उक्त्वा देवनाथः सोमनाथम् उद्दिश्य वक्तुम् आरब्धवान्—” भोः, भवतः माता विस्मृता किल? तस्याः उपवेशनव्यवस्था का? कुक्कुटाः कथं नेतव्याः? अश्वस्य पार्श्वद्वये कण्डोलं बद्ध्वा तत्र स्थापयितुं शक्नुयाम” इति ।
तदा रामनाथः उन्मत्तः इव आक्रोशं कुर्वन् —“मम अश्वं मारयिष्यन्ति भवन्तः । भवद्भ्यः अश्वं भाटकार्थं सर्वथा न ददामि” इति उक्तवान् ।
“यदि दत्तं वचनं न परिपालयति तर्हि भवन्तं न्यायास्थानं नयामि । जागरूकः भवतु” इति सगम्भीरम् उक्तवान् देवनाथः ।
“सोमनाथेन दत्तानि पञ्च कुष्माण्डानि प्रत्यर्पयामि। तदा भवतां मम च कोऽपि सम्बन्धः न अवशिश्यते” इति उक्तवान् रामनाथः ।
“पञ्चदशकूष्माण्डात्मकं खलु भाटकं निश्चितम् आसीत् ? पञ्च कूष्माण्डानि प्रत्यर्पयामि इत्यस्य कः अर्थः ?” इति कोपेन पृष्टवान् देवनाथः ।
“किन्तु दत्तानि तु कूष्माण्डानि पञ्च एव” इति उक्तवान् रामनाथः ।
“भाटकार्थंदीयमानः अश्वः उपयुक्तः चेत् अस्माभिः पञ्चदश कूष्माण्डानि दातव्यानि अभविष्यन् खलु? एवं तर्हि अश्वदानं निराकृतं चेदपि तावन्ति एव कूष्माण्डानि भवता दातव्यानि । एकं न्यूनं चेदपि वयं स्वीकर्तुं न सिद्धाः” इति दृढस्वरेण उक्तवान् देवनाथः ।
रामनाथः कोपेन एव अन्तः गत्वा पञ्चदश कूष्माण्डानि आनीय दत्त्वा उक्तवान् —“हुँ, स्वीकृत्य गच्छन्तु इतः । भवतां मम च सम्बन्धः समाप्तः” इति।
रामनाथेन दत्तानि कूष्माण्डानि स्वीकृत्य ते त्रयः ततः प्रस्थितवन्तः । त्रयाणाम् अपि परमसन्तोषः जातः आसीत् ।
चतुरः तन्तुवायः
पूर्वं कश्चन राजा आसीत्। सः कदाचित् राजास्थाने उपविष्टः आसीत् । तदा अन्यदेशीयः कश्चन दूतः आगतवान्। सः सिंहासनं परितः सुधाखण्डेन एकां रेखां लिखित्वा तूष्णीं स्थितवान् ।
राजा मन्त्रिणः आहूय पृष्टवान्— “एतस्य उद्देशः कः स्यात् ?” इति ।
मन्त्रिणः एतस्य उत्तरं वक्तुं न शक्तवन्तः । एतेन कुपितः राजा “गच्छन्तु, एतस्मिन् क्षणे एव एतस्य उत्तरं वक्तुं समर्थं कञ्चित् पुरुषम् आनयन्तु” इति आज्ञापितवान्।
एतेन भीताः मन्त्रिणः समर्थम् आनेतुं स्वयं प्रस्थिताः । तेषु केचन एकं गृहं प्रविष्टवन्तः । तत्र कस्मिश्चित् प्रकोष्ठे एका आन्दोलिका स्वयं डोलायमाना आसीत् । अट्टे शोषणार्थं धान्यानि प्रसारितानि आसन् । तानि भक्षयितुम् इच्छन्तः पक्षिणः प्रतीक्षमाणाः आसन्। किन्तु उपरि व्यजनं चलत् आसीत् इत्यतः पक्षिणः धान्यानां समीपम् आगन्तुम् असमर्थाः आसन्।
मन्त्रिणः अन्यं प्रकोष्ठं प्रविष्टवन्तः । तत्र ते वेमायाः पार्श्वे उपविष्टं कञ्चित् तन्तुवायं दृष्टवन्तः ।
“किं भोः, एतत् विचित्रम् ? आन्दोलिका स्वयं डोलायमाना अस्ति। व्यजनम् अपि स्वयं चलत् अस्ति। कथम् एतत् ?” इति पृष्टवन्तः मन्त्रिणः ।
“तस्य सर्वस्य व्यवस्थम् अहम् एव कृतवान्। आन्दोलिकार्थं, व्यजनार्थं च एकैकं सूत्रं वेमायां बद्धवान् अस्मि। वेमया सह तौ अपि चलतः” इति उक्तवान् तन्तुवायः ।
“आश्चर्यकरम् एतत् ! भवादृशम् एव अन्विष्य आगताः वयम् । अस्माकम् एका समस्या अस्ति। तस्याः परिहारं वक्तुं
शक्नोति वा?” इति पृष्टवन्तः मन्त्रिणः ।
** “का सा समस्या ?” इति पृष्टवान् तन्तुवायः । मन्त्रिणः स्वकीयां समस्यां निवेदितवन्तः ।**
** तन्तुवायः किञ्चित्कालं विचिन्त्य “तत्र आगत्य एव मया परिहारः वक्तव्यः” इति वदन् वराटकद्वयं स्वीकृत्य महाराजस्य सभास्थानं गतवान् ।**
** तन्तुवायः महाराजं साष्टाङ्गं प्रणम्य सिंहासनं परितः विद्यमानां रेखाम् अवलोकितवान्। अनन्तरं अन्यदेशीयं दूतं पश्यन् स्वेन आनीतं वराटकद्वयं रेखायाः उपरि पातितवान् ।**
** दूतः स्वकीयकोशतः एकमुष्टिमितं यावानलधान्यं अधः पातितवान् ।**
** तन्तुवायः मन्दहासपूर्वकम् एकं कुक्कुटम् आनीय तत्र त्यक्तवान्। सः कुक्कुटः सर्वाणि धान्यानि खादितवान् । तत् दृष्ट्वा दूतः वेगेन ततः निर्गतवान् ।**
** “एतत् सर्वं किम् ? अहम् एकस्य अपि अर्थं न ज्ञातवान्” इति उक्तवान् राजा ।**
** “अत्र कोऽपि विशेषः नास्ति महाप्रभो! तस्य देशस्य राजा ‘भवतां देशस्य आक्रमणार्थम् आगच्छामि’ इति दूतद्वारा वार्तां प्रेषितवान्। ‘युद्धार्थं वयं सिद्धाः, उत शरणं गच्छेम?’ इति ज्ञातुं सः दूतः प्रतीक्षमाणः आसीत्। ‘युद्धे जयप्राप्तिः तु अस्माकम् अक्षक्रीडा इव’ इति अहं वराटकद्वारा सूचितवान् । अस्माकं महत् सैन्यम् अस्ति इति सूचयितुं सः यावानलधान्यं पातितवान् । युद्धे कोऽपि सैनिकः न अवशिष्येत इति अहं कुक्कुटद्वारा सूचितवान् । तेन दूतः निर्गतवान्” इति विवरणं दत्तवान् तन्तुवायः ।**
** ‘साधु! साधु! वस्तुतः भवान् एव बुद्धिमान्। इतःपरं भवतां तन्तुवायवृत्तिः करणीया नास्ति। भवान् अत्रैव तिष्ठतु। भवन्तं प्रधानमन्त्रिस्थाने नियोजयिष्यामि” इति उक्तवान् राजा सन्तोषेण ।**
** “हन्त! एवं न वदतु महाप्रभो । गृहे मम तु सहस्रशः कार्याणि सन्ति एव । एतादृशं कार्यम् अहं न इच्छामि। क्षाम्यतु” इति उक्त्वा सः तन्तुवायः ततः निर्गतवान् एव ।**
चतुरमतिः
पूर्वं चन्दनपुरे कश्चन दरिद्रः आसीत्। महता प्रयत्नेन अपि सः कटुम्बनिर्वहणं कर्तुं न शक्नोति । अतः सः महाराजसमीपं गत्वा साहाय्यं प्रार्थितवान् ।
महाराजः तस्य वचनं श्रुत्वा उक्तवान्— भवतः पुरतः चतुरः प्रश्नान् उपस्थापयामि। सर्वापेक्षया वेगेन कः गच्छति ? अतिशयेन बलवान् कः ? सर्वापेक्षया मृदु किम् ? महानन्ददायकं च किम्? श्वः सायङ्कालतः पूर्वम् एतेषां प्रश्नानाम् उत्तरं भवान् यदि वदेत् तर्हि अहं भवतः साहाय्यं निश्चयेन करिष्यामि” इति ।
दरिद्रः तान् प्रश्नान् पुनः पुनः उच्चरन् गृहं गतवान् । सामान्यः सः तेषाम् उत्तरं न जानाति । पञ्चदशवर्षीया पुत्री कुशला-नामिका पितरं पृष्टवती— “किं भोः, कस्याञ्चित् गाढालोचनायां मग्नः इति भाति भवान् ?” इति ।
“महाराजसमीपं साहाय्यम् इच्छन् गतवान् । महाराजः चतुरः प्रश्नान् श्रावयित्वा ‘एतेषाम् उत्तरं श्वः सायकालतः पूर्वं यदि वदेत् तर्हि साहाय्यं करिष्यामि’ इति सूचितवान्। एतेषां प्रश्नानाम् उत्तरम् अहं किं जानामि ?” इति खेदेन उक्तवान् सः निर्धनः ।
तदा कुशला तान् प्रश्नान् पृष्ट्वा ज्ञात्वा उक्तवती— “एतदर्थम् एतावती चिन्ता किमर्थम्? सर्वापेक्षया वेगगामी वायुः। अतिशयेन बलवती भूमिः । यतः महाप्राणिनः, महावस्तूनि, वृक्षादयः च भूमेः बलात् एव तिष्ठन्ति । सर्वापक्षया मृदुःहस्तः । यतः हंसतूलिकातल्पे शयानः अपि हस्तं शिरसः अधः स्थापयति । महानन्ददायिनी तु निद्रा । तीव्राणि दुःखानि अपि निद्राकारणतः
एव विस्मृतानि भवन्ति । निद्रया नवचैतन्यं लभ्यते” इति ।
** पुत्र्याः उत्तरैः सन्तुष्टः सः निर्धनः अनन्तरदिने राजसमीपं गत्वा पुत्र्या उक्तानि उत्तराणि एव श्रावितवान् ।**
** “एतानि उत्तराणि भवान् स्वबुद्ध्या वदति, उत कोऽपि एतानि भवते उक्तवान् ?” इति पृष्टवान् राजा।**
** “‘मम तावत् चातुर्यं कुत्र ? मम पुत्री एतानि उत्तराणि सूचितवती” इति मुग्धतया उक्तवान् निर्धनः ।**
** भवतः पुत्री तावच्चतुरावा? तर्हि एतं तन्तुं भवतः पुत्र्यै दत्त्वा एकदिनाभ्यन्तरेएतदाधारेण पट्टवस्त्रं निर्माय दातव्यम् इति सूचयतु” इति उक्त्वा राजा तस्मै दशाङ्गुलमितं तन्तुं दत्तवान् ।**
** निर्धनः चिन्तां कुर्वन् एव गृहं प्रत्यागतवान् । पितुः मुखं दृष्ट्वा पुत्री पृष्टवती— “भवतः उपरि महाराजस्य कृपादृष्टिः इतोऽपि न पतिता वा ?” इति ।**
** “तेन अन्या परीक्षा सूचिता अस्ति । एतस्य तन्तोः आधारेण एकदिनाभ्यन्तरे पट्टवस्त्रं निर्माय दातव्यम् इति वदति सः” इति उक्त्वा तस्यै तन्तुं प्रदर्शितवान् ।**
** “तत्र किमर्थं चिन्ता? भवान् एकां काष्ठशलाकां नीत्वा महाराजाय दत्त्वा तेन एकं वेमानं निर्माय दातव्यम् इति वदतु । यदा वेमा सिध्यति तदा एव पट्टवस्त्रम् अपि सिध्येत्” इति उक्तवती पुत्री कुशला ।**
** सः निर्धनः पुत्री यथा सूचितवती तथैव कृतवान् ।**
** राजा क्षणकालं मौनं स्थितवान्। अनन्तरं सः उक्तवान्— “भवतः पुत्री महाचतुराएव । अस्तु तावत् । भवते शतम् कुक्कुटाण्डानि दापयामि। श्वः सायङ्कालतः पूर्वं तेभ्यः शावकान् उत्पाद्य शावकाः अत्र प्रेषणीयाः इति तां वदतु” इति ।**
** ‘किमिदं पुनः पुनः परीक्षा !’ इति चिन्तयन् सः निर्धनः महाराजेन दापितानि कुक्कुटाण्डानि गृहं नीतवान् । पुत्री प्रवृत्तं सर्वं श्रुतवती । अनन्तरं तैः अण्डैः रुचिकरं सार-व्यञ्जनादिकं निर्माय पित्रे परिवेषितवती, स्वयं सन्तोषेण भुक्तवती च ।**
** अनन्तरं सा पितरं सूचितवती— “तात!**
महाराजसमीपं गत्वा वदतु यत् अण्डेभ्यः शावकाः उत्पन्नाः सन्ति इति । किन्तु ते इदानीम् आहारं न सेवन्ते । एकदिनाभ्यन्तरे एवं उत्पन्नानि धान्यानि केवलं खादन्ति ते । अतः तादृशानि धान्यानि प्रेषणीयानि । अन्यथा सर्वे शावकाः मृताः भवेयुः’ इत्यपि महाराजं वदतु भवान्” इति ।
** निर्धनः पुत्र्याः वचनानि तथैव महाराजाय श्रावितवान् । तत् श्रुत्वा महाराजः उक्तवान्— भवान् इदानीं गृहं गच्छतु। ‘महाराजः घण्टाद्वयाभ्यन्तरे द्रष्टुम् आगच्छति’ इति भवतः पुत्रीं सूचयतु” इति ।**
** एतां वार्तां श्रुत्वा निर्धनपुत्री सा कुशला गृहं सम्यक् अलङ्कृतवती । द्वारप्रदेशे रङ्गवल्लीं लिखित्वा द्वारे तोरणं बद्धवती । अनन्तरम् आत्मानम् अपि अलङ्कृत्य महाराजस्य प्रतीक्षायां स्थितवती ।**
** किञ्चित्कालानन्तरं महाराजः अश्वम् आरुह्य आगत्य तस्याः गृहस्य पुरतः अश्वं स्थगितवान्। किन्तु अश्वात् न अवतीर्णवान् । अश्वस्य खुरपुटध्वनिं श्रुत्वा बहिः आगन्तुम् उद्युक्ता कुशला अश्वस्य उपरि उपविष्टवन्तं महाराजं दृष्ट्वा तत्रैव स्थितवती । तस्याः एक पादः देहल्याः बहिः अपरः देहल्याः अन्तः च आसीत् ।**
** राजा कुशलां दृष्ट्वा पृष्टवान्— भद्रे! अहम् अश्वात् अवतीर्यभवत्याः गृहं प्रविशामि उत एवम् एव इतः अग्रे गच्छामि ?” इति ।**
** कुशला हसन्ती उक्तवती—“महाप्रभो! भवान् ज्येष्ठः, बुद्धिमान् च । व्यवहारज्ञानी अपि । अतः भवान् प्रथमं वदतु यत्अहम् अग्रिमपदं गृहात् बहिः स्थापयामि उत अन्तः? एतस्य उत्तरं श्रुत्वा भवतः प्रश्नस्य उत्तरं वदामि अहम्” इति ।**
** राजा अतीव सन्तुष्टः अभवत् । अश्वात् अवतीर्य तस्मै निर्धनाय धनस्य एकं महास्यूतम् एव दत्तवान्। अनन्तरकाले तां कुशलां परिणीय महाराज्ञीस्थाने स्थापितवान् च।**
चतुरः वेङ्कटरामः
** कस्मिंश्चित् ग्रामे वेङ्कटरामभट्टः आसीत् । प्रशंसाकरणे सः प्रसिद्धः । सम्भाषणसमये बहु चातुर्यं प्रदर्शयति । ग्रामे यत्र कुत्रापि शुभसमारम्भः भवति चेत् अपि एषः तत्र गच्छति । तत्र आगतानां प्रशंसां कुर्वन्, पद्यानि गायन् आगतान् सर्वान् सन्तोषयति च। सन्तुष्टाः तस्मै पारितोषिकं यच्छन्ति । एतादृशैः पारितोषिकैः एवं सः जीवनं यापयति। तस्मिन् काले शुभसन्दर्भेषु प्रशंसाकथनं सम्प्रदायः आसीत् ।**
** तस्मिन् ग्रामे सामान्यतः सर्वेऽपि तस्मैयत्किञ्चित् ददति, दत्तवन्तः वा । किन्तु तस्य ग्रामस्य अधिपतिः भूस्वामी वेङ्कटरामाय एकं नाणकम् अपि न ददाति । तावान् कृपणः सः । भूस्वामिनः गृहे यदा यदा ‘शुभकार्याणि प्रचलन्ति तदा एषः तत्र गत्वा प्रशंसावचनानि वदति, पद्यानि गायति च । किन्तु महाकृपणः भूस्वामी सर्वदा अपि “भोः! बहुसम्यक् प्रशंसापद्यं गीतवान् ।एतदर्थं प्रत्येकतया भवते समीचीनं पारितोषिकं दातव्यम्। अग्रिमविशेषसन्दर्भे आगच्छति किल? तदा पश्यामः!” इति वदति स्म ।**
यद्यपि भूस्वामिनः गृहे बहूनि शुभकार्याणि प्रचलन्ति, तथापि वेङ्कटरामः ततः किमपि प्राप्तुं न शक्नोति ।
** गच्छति काले, भूस्वामिनः पुत्र्याः विवाहः**
निश्चितः।
“एतत् महत् शुभकार्यम्।
अस्मिन् शुभकार्यसमये भूस्वामिनः सकाशात् अमूल्यं पारितोषिकं प्राप्तव्यम् एव” इति वेङ्कटरामः निश्चितवान् । तस्य गृहे समीचीना धेनुः न आसीत् । अतः क्षीरं प्राप्तुं अतीव कष्टम् अनुभवति स्म वेङ्कटरामः ।
** अस्मिन् सन्दर्भे भूस्वामिनः सकाशात् पारितोषिकरूपेण समीचीना एका धेनुः प्राप्तव्या इति चिन्तितवान् वेङ्कटरामः ।**
सः भूस्वामिनः पुत्र्याः विवाहं गतवान् । भूस्वामी बन्धुमित्रैः सह उपविश्य वार्तालापं कुर्वन् आसीत् ।
तदा वेङ्कटरामः वधूवरयोः आशीर्वादं कुर्वन् इव श्लोकान्, वचनानि, पद्यानि च उच्चारितवान्, उक्तवान् च “धर्मदाता भूस्वामी अस्मिन् मङ्गलकार्यसमये आत्मनः मनोभीष्टसिद्ध्यर्थम् अस्य दरिद्रस्य अपि मनोभीष्टसिद्धिं यथा कुर्यात् तथा भगवान् अनुगृह्णातु” इति ।
एतत्सन्दर्भे बन्धुमित्राणां मध्ये आसीत् इत्यतः केनापि व्याजेन पलायनं कर्तुं अशक्तः भूस्वामी “बहु समीचीनम्! भवतः इच्छा का?” इति वेङ्कटरामं पृष्टवान् ।
‘अहम् अतीव दरिद्रः। पत्नीपुत्राः अपि सन्ति । क्षीरयुक्ताम् एकां समीचीनां धेनुं दापयति चेत् वयं कृतार्थाः भवेम” इति उक्तवान् वेङ्कटरामः ।
भूस्वामी एकं सेवकम् आहूय रहस्यतया तस्य कर्णे एकस्याः धेनो परिचयम् उक्त्वा—“ताम् आनीय एतस्मै ददातु” इति उक्तवान् ।
सेवकः गत्वा एकां धेनुम् आनीतवान् । सा धेनुः अतीव वृद्धा आसीत्। तां दृष्ट्वा अतिथयः सर्वेऽपि आश्चर्यचकिताः । वेङ्कटरामः इदानीं किं वदेत् इति सर्वेषाम् अपि कुतूहलम् ।
वेङ्कटरामः किं करणीयम् इति न ज्ञातवान्। एषां धेनुः नीता चेदपि किमपि प्रयोजनं न भवति। न नीता चेत् भूस्वामिनः अवमाननं भवति। तां वृद्धां धेनुं निराकर्तुं वेङ्कटरामस्य एकः उपायः स्फुरितः ।
सः धेनोः समीपं गतवान्। तस्याः कर्णे किमपि वदन् इव नटनं कृतवान्। अनन्तरं तस्याः मुखसमीपं स्वस्य कर्णं नीत्वा तया यत् उच्यते तत् शृण्वन् इव अभिनयं कृतवान् । एतत् दृष्ट्वा सर्वेऽपि आश्चर्यचकिताः ।
“धेन्वा सह किं तत् रहस्यं सम्भाषणम् ?” इति भूस्वामी वेङ्कटरामं पृष्टवान् ।
“विशेषः कोऽपि नास्ति, महाप्रभो! अहम् अस्याः धेनोः सामर्थ्यं ज्ञातुं ‘भवती गर्भं धरति वा ?’ इति एतां पृष्टवान्। तावदेव” इति उक्तवान् वेङ्कटरामः ।
“धेनुः किम् उक्तवती?” इति भूस्वामी हसन् पृष्टवान् ।
“अहं कृतयुगे महिषासुरस्य समीपे आसम्। सः आदिशक्त्या मरणं प्राप्तवान् । कृतयुगं समाप्तं चेत् अपि अहं न मृता। त्रेतायुगम् आगतम्। रावणः जन्म प्राप्य रामेण मरणं प्राप्तवान्। तदपि मया दृष्टम् । अनन्तरं द्वापरयुगे कंसः जन्म प्राप्तवान् । कृष्णः आगत्य कंसं मारितवान्। तदपि अहं स्वयं दृष्टवती । तथापि मया मरणं न प्राप्तम्। इदानीं कस्मिन् अपि विषये मम आसक्तिः एव नास्ति । महता वैराग्येण भूस्वामिनः आश्रये अस्मि । अस्य गोशालायां विद्यमानाः सर्वेऽपि मम एव सन्तानाः । तादृशीं मां दृष्ट्वा गर्भं धरति वा?’ इति पृच्छति भवान्। मम अवमाननं करोति वा ? इति पृच्छति एषा गोमाता” इति उक्तवान् वेङ्कटरामः ।
तस्य वचनानि श्रुत्वा तत्र आगताः सर्वे उच्चैः हसितवन्तः ।
बन्धुमित्राणां मध्ये अपमानः जातः इति भूस्वामी किञ्चिदिव खिन्नः । तथापि समञ्जनं कुर्वन् अधिकार-वाण्या कोपेन सेवकम् उक्तवान्— “बुद्धिः नास्ति वा भवतः? समीचीनां धेनुम् आनयतु इति मया उक्तम् । एतादृशीम् आनीतवान् किल भवान्! एतां नीत्वा समीचीनाम् आनयतु” इति ।
सेवकः तां वृद्धां धेनुं नीत्वा समीचीनाम्, आनीतवान्। वेङ्कटरामः पुनः अपि प्रशंसा-पद्यानि गीत्वा सन्तोषेण धेनुं नीतवान् ।
चिरस्थायी
** पूर्वं शिवपुरग्रामे रामभद्रः नाम कश्चित् आसीत् । तस्य पुत्री शान्ता । शान्ता अतीव सुन्दरी महाबुद्धिमती च। यदा सा प्राप्तवयस्का जाता तदा रामभद्रः पुत्रीम् उक्तवान् यत् भवती भवत्याः इच्छानुरूपं वरं परिणयतु इति ।**
** ‘शान्ता परिणेतव्या’ इति नारायणः नाम युवकः, सागरः नाम युवकः च अतीव इच्छतः । सागरः धनिकस्य पुत्रः । नारायणः धनवान् न, अपि तु महाबुद्धिमान् ।**
** तौ उभौ अपि स्वकीयाम् इच्छां शान्तायै निवेदितवन्तौ । तदा शान्ता उक्तवती—“प्रथमं भवद्भ्यां मह्यम् एकैकम् उपायनम् आनीय दातव्यम् । यत् उपायनं मह्यं रोचते तत् मम समीपे एव स्थापयामि। यत् न रोचते तत् प्रत्यर्पयामि। यस्य उपायनं मम समीपे तिष्ठति तम् अहं परिणेतुम् इच्छामि इति तेन सिध्यति” इति ।**
** एतत् श्रुत्वा सन्तुष्टः सागरः ततः गत्वा अमूल्यैः रत्नैः युक्तं वज्रहारं कारयित्वा शान्तायै उपायनरूपेण दत्तवान् । नारायणः चतुर्षु दिनेषु महता प्रयत्नेन एकं ग्रन्थं विरचितवान् ।**
** तत्र सः धनं मनुष्यं सुखात् दूरं नयति इति, धने यः विश्वसिति सः कालान्तरे अपायात् ग्रस्तः भवति इति, धनम् अन्तःकलहस्य कारणं भवति इति च सम्यक् विशदीकृतवान् आसीत् । प्रेम्णः धनस्य च सम्बन्धः न कल्पनीयः इति विषयं प्रस्तुत्य उदाहरणरूपेण बह्व्यः पुराणकथाः अपि वर्णितवान् आसीत् सः ।**
** स्वकीयम् एतं ग्रन्थं शान्तायै समर्प्य— “निर्धनेन मया दीयमानम् अल्पम् उपायनम् एतत्” इति उक्तवान् नारायणः ।**
** शान्ता उपायनद्वयम् अपि एकं मासं यावत् स्वसमीपे स्थापितवती । अत्रान्तरे**
सागरस्य पिता पुत्रेण कृतं महत्कार्यं ज्ञातवान् ।
सः शान्तायाः समीपम्म् आगत्य आक्षेपस्वरेण उक्तवान्— “किं भोः, हावभावेन मम पुत्रं मोहयित्वा अमूल्यं रत्नहारं वशीकृतवती किल भवती ? अहं तु एतं विवाहं सर्वथा न अङ्गीकरोमि। तं वज्रहारं मह्यं प्रत्यर्पयतु भवती” इति ।
शान्ता यावत् उत्तरं दातुम् उद्युक्ता तावति काले सागरः तत्र आगतवान् । सः पितरं कोपेन उक्तवान्— “तात! भवान् अत्र आगतवान् इति ज्ञात्वा अहम् अपि आगतवान् । भवान् यदि शान्तायाः सकाशात् रत्नहारं प्रतिस्वीकरोति तर्हि अहं प्राणैः विमुक्तः भवेयम्” इति ।
सागरः पुत्रं विवेकं बोधयितुं बहुधा प्रयत्नं कृतवान् । अन्ते विफलः सः— “अस्तु तावत्, ललाटे यत् लिखितं तत् भविष्यति । भवान् यथा इच्छति तथा करोतु” इति उक्त्वा ततः निर्गतवान् ।
“एषा घटना मदनुकूलाय एव जाता । पिता अपि मम विवाहम् अङ्गीकृतवान्” इति उक्तवान् सागरः ।
“मदीयं निर्णयम् अद्य सायङ्काले कथयिष्यामि। भवान् आगमनसमये भवतः मित्रं नारायणम् अपि आनयतु” इति शान्ता सागरम् उक्तवती ।
तद्दिने सायङ्काले नारायणेन सह सागरः शान्तायाः गृहम् आगतवान् । शान्ता रत्नहारं सागराय प्रत्यर्पयन्ती— “भवदीयं प्रेम भवान् निरूपितवान् । किन्तु भवतः प्रेम
पुरस्कृत्य अहं यदि भवन्तं परिणयेयं तर्हि मम जीवनं सुखमयं न भवेत् । धनार्थं भवन्तं परिणीतवती इति जनाः वदेयुःअपि । धनविषये मम जुगुप्सा । नारायणेन दत्तस्य पुस्तकस्य पठनेन अहं जीवने धनस्य स्थानं “किमिति ज्ञातवती” इति उक्तवती ।
अनन्तरं सा नारायणाय पुस्तकं प्रत्यर्पयन्ती— “अहं सागरे आसक्ता भवेयम् इति विचिन्त्य भवान् एतं ग्रन्थं लिखितवान् इति भाति” इति उक्तवती ।
एतत् श्रुत्वा नारायणः उक्तवान् —“भवती माम् अन्यथा भावितवती । ‘यत् उपायनं भवत्याः समीपे चिरं स्थास्यति तस्य दातारम् अहं परिणेष्यामि’ इति उक्तवती किल भवती । अतः एव चिरस्थायिनं विषयं निरूप्य एतं ग्रन्थं लिखितवान् । भवती सागरं परिणयेत् चेदपि मम दुःखं नास्ति । किन्तु भवती तत् न अङ्गीकृतवती । ग्रन्थस्थः विषयः भवत्याः मनसि दृढं लग्नः । ग्रन्थं भवती प्रत्यर्पितवती चेदपि ग्रन्थस्थः विषयः भवत्याः अन्तरंगे अस्ति एव, चिरं स्थास्यति च । एवं मया दत्तं भवती स्वसमीपे स्थापितवती । अतः मां परिणेतुम् अर्हति भवती” इति ।
शान्ता तस्य वचनं श्रुत्वा उत्तरं दातुम् अशक्ता मौनं स्थितवती ।
तदा सागरः नारायणम् उक्तवान्— “मित्र! येन दत्तम् उपायनम् अहं मत्समीपे चिरकालं स्थापयिष्यामि तम् अहम् परिणेष्यामि इति शान्ता उक्तवती किल? अतः अहं धनेन तां वशीकर्तुम् इच्छन् तस्यै रत्नहारं दत्तवान्। अभिमानधनाः निर्लोभेन धनं प्रत्यर्पयितुम् अपि शक्नुवन्ति इति अहम् अद्य ज्ञातवान् । शान्तायाः वचनस्य अर्थं ज्ञात्वा भवान् तया प्रत्यर्पयितुम् अशक्यम् एव दत्तवान् । भवता यत् दत्तम् तत् चिरस्थायि । शान्तायै भवान् एव योग्यः वरः इति हृत्पूर्वकम् अहम् अङ्गीकरोमि। भवतोः जीवनं मङ्गलमयं भवतुइति आशासे” इति।
अनन्तरं शान्ता-नारायणयोः विवाहः सवैभवं सम्पन्नः ।
चोरः
अवन्तीमहाराजस्य महती राज्याकाङ्क्षा सः पार्श्वस्थानां राज्यानां महाराजैः सह बहुधा युद्धं करोति ।
युद्धकारणतः वणिजः अन्याय्यम् आरब्धवन्तः । प्रकृतिकारणं विना एव देशे कृतकः क्षामः उत्पन्नः।
आहारधान्यानाम् अभावतः देशे चौर्यम् अपि अधिकं जातम् । महाराजस्य धनभाण्डागारस्य चौर्यम् कर्तुम् प्रयत्नं कृतवान् इति कारणतः कश्चित् चोरः बद्धः ।
“तं त्यजन्तु” इति मन्त्री भटान् उक्तवान् । चोरस्य निर्गमनानन्तरं राजा मन्त्रिणं पृष्टवान्—“किमर्थं चोरः त्यक्तः ?” इति ।
“क्षम्यताम् प्रभो, तेन चौर्यं कृतं सत्यम्। किन्तु तादृशपरिस्थित्याः कारणीभूताः वयम् एव खलु” इति उक्तवान् मन्त्री ।
एतेन वचनेन महाराजस्य ज्ञानोदयः अभवत् । तद्दिनादारभ्य युद्धविषयं त्यक्त्वा सः देशे शान्तिभद्रतां रक्षितुम् आरब्धवान् ।
दर्पणः
ब
हुपूर्वं चीनादेशे कस्मिंश्चित् कुग्रामे वांग्नामकः कश्चित् निवसति स्म । तं ग्रामं गन्तुं मार्गः एव न आसीत् । तद्ग्रामीणाः सर्वे अतीव सरलाः निष्कपटिनः च ।
** एकदा प्रातःकाले वांग् अङ्गारपात्रं स्कन्धे आरोप्य नगरं प्रति प्रस्थितः । नगरे अङ्गारस्य विशेषमूल्यम् इति सः श्रुतवान् आसीत् । किन्तु वांग् अद्यावधि स्वग्रामपरिसरम् अतिक्रम्य कुत्रापि न गतवान् आसीत् ।**
** पतिं प्रेषयितुं ग्रामसीमापर्यन्तम् आगता तस्य पत्नी उक्तवती— “आगमनसमये मह्यम् एकां कङ्कतिकाम् अपि आनयतु’ इति । “कङ्कतिका!” इति उद्गारं प्रकटितवान् वांग्। यतः सः अद्यावधि ‘कङ्कतिका’ इति नाम न श्रुतवान् आसीत् । तेषु दिनेषु चीनादेशस्य स्त्रियः केशप्रसाधनार्थं यस्याः कङ्कतिकायाः**
उपयोगं कुर्वन्ति स्म सा काष्ठनिर्मिता वक्राकारका च भवति स्म । स्त्रियः केवलं तां जानन्ति स्म ।
** तस्य पत्नी पूर्वदिशि आकाशे दृश्यमानं क्षीणचन्द्रं प्रदर्श्य—“पश्यतु, कङ्कतिका स इव भवति” इति उक्तवती ।**
** चतुर्णां दिनानां प्रयाणेन वांग् नगरं प्राप्तवान् । नगरे द्वित्राणि दिनानि स्थित्वा आनीतान् अङ्गारान् युक्तेन मूल्येन विक्रीतवान्। रात्रौ यदा नगरमार्गे गच्छन् आसीत् तदा सः पत्न्या वचनं स्मृतवान् । किन्तु सः तया सूचितं नाम न स्मरति । सा तु ‘आकाशे यत् दृश्यते तत् इव अस्ति’ इति उक्तवती आसीत् किल ? अतः वांग् आकाशं दृष्टवान्। तत्र चन्द्रः दृश्यते स्म । वांग् झटिति आपणं प्रविष्टवान् । आपणस्थे दर्पणे सः चन्द्रबिम्बं दृष्टवान् । ‘पत्न्या एतत् एव आनेतुम् उक्तम्’ इति भावयन् सः, आपणिकः यावत् मूल्यं वदति तावत् दत्त्वा**
दर्पणं क्रीत्वा स्वग्रामं प्रति प्रस्थितवान् ।
** दिनचतुष्टयस्य प्रयाणेन वांग् गृहं प्राप्तवान्। गृहम् आगत्य वाणिज्यस्य विवरणं पत्न्यै वदन् आत्मना आनीतं वस्तु पत्न्याः हस्ते स्थापितवान् ।**
** वांग् पत्नी अत्यादरेण आवरणरूपेण स्थापितं वस्त्रं निष्कास्य दर्पणम् उन्नीय दृष्टवती । तत्र सा स्वप्रतिबिम्बं दृष्टवती । सा इतः पूर्वं दर्पणस्य नाम अपि न श्रुतवती किल? अतः सा चिन्तितवती यत् मम पतिः नगरात् अपरां पत्नीम् आनीतवान् इति रुदती सा मातृगृहं गत्वा स्वमातुः हस्ते दर्पणं दत्त्वा उक्तवती — “पश्यतु अम्ब! मम दौर्भाग्यं यत् भवत्याः जामाता नगरतः अन्यां पत्नीम् आनीतवान् अस्ति” इति ।**
** तस्मिन् प्रदेशे इतः पूर्वं कोऽपि दर्पणं न दृष्टवान् आसीत् । अतः सा माता दर्पणे स्वप्रतिबिम्बं दृष्ट्वा— “अरे! किम् एतत् ? भवत्सूचितया अन्यया पत्न्या सह काञ्चित् वृद्धाम् अपि आनीतवान् किल सः ?” इति उद्गारं प्रकटितवती ।**
** अत्रान्तरे तत्र पञ्चषाः स्त्रियः सम्मिलिताः । “एषः विषयः ग्रामाधिकारिणे निवेदनीयः” इति ताः सूचितवत्यः । ग्रामाधिकारी वांग्महोदयं तस्य पत्नीं पत्न्याः मातरं च न्यायास्थानं प्रति आनाय्य सर्वेषां सम्मुखे दर्पणं परीक्षितवान् । तत्र स्वसदृशः अन्यः एव ग्रामाधिकारी तेन दृष्टः ।**
** “अये! मम प्रतिस्पर्धिरूपेण अन्यम् एतम् आनीतवान् वा भवान् ? कीदृशी वञ्चना एषा ! अस्तु, भवन्तं सम्यक् दण्डयिष्यामि " उक्त्वा वादिपक्षीयान् प्रतिवादिपक्षीयान् च कशाप्रहारैः दण्डयितुंसेवकान् आदिष्टवान् सः ग्रामाधिकारी ।**
** इति न्यायाधिकारिणः एतादृशव्यवहारेण सर्वे क्रुद्धाः । ‘ग्रामाधिकारी असत्यं वदति’ इति वदन्तः ते त्रिचतुराः अपि युगपत् एव दर्पणं स्वदिशि आकृष्टवन्तः । एवं परस्पराकर्षणकोलाहले दर्पणः भूमौ पतितः, `शतधा भग्नः च । एतेन तेषां सर्वेषां कष्टानि अपि समाप्तानि ।**
धर्मसङ्कटम्
** इन्द्रपादग्रामं पूर्वं कदाचित् विश्वम्भरः नाम पण्डितः आगतवान्। सः धर्मशास्त्रविषये विशेषपाण्डित्यं प्राप्तवान् आसीत् । अतः एव ग्रामीणाः तं गौरवादरेण दृष्टवन्तः । उक्तवन्तः च यत् भवता शास्त्रेषु स्थिताः मुख्याः विषयाः वक्तव्याः इति । विश्वम्भरः एतत् अङ्गीकृतवान्। तस्य उपन्यासार्थं शिवालयस्य प्राङ्गणे व्यवस्था उपकल्पिता ।**
** एतत्कार्यक्रमार्थं बहवः सम्मिलिताः । जनाः प्रथमदिने विश्वम्भरः धर्मविषये विवरणं कुर्वन्—“न केवलं मद्यपानं महापापाय, ये मद्यपानिनां सम्पर्के भवन्ति, ये च तेषां साहाय्यम् आचरन्ति, प्रोत्साहयन्ति वा, ते अपि पापभागिनः भवन्ति” इति उक्त्वा धर्मशास्त्रस्य बहूनि उदाहरणानि प्रदर्शितवान् ।**
** अनन्तरदिने तस्यां सभायां सत्यविषये ,**
उपन्यासं कुर्वन् ‘यस्यां कस्यां परिस्थितौ अपि असत्यं न वक्तव्यम्’ इति उक्त्वा हरिश्चन्द्रस्य उदाहरणेन विषयं सविस्तरं प्रतिपादितवान् । सर्वे अश्रूणि स्रावयन्तः उपन्यासं श्रुतवन्तः ।
** एवं धर्मबोधनं समाप्य विश्वम्भरः ग्रामज्येष्ठस्य गौरवेशस्य गृहं प्रति प्रस्थितः, यतः तत्रैव तस्य वसतिः उपकल्पिता आसीत् ग्रामीणैः । मार्गे अनन्तनामकः कश्चित् आगत्य विश्वम्भरं नमस्कृत्य—“श्रीमन् ! भवान् बहून् धर्मसूक्ष्मान् सर्वे यथा सम्यक् अवगच्छेयुः तथा उक्तवान् । एतदनुगुणं मम व्यवहारे अपि परिवर्तनम् आनेतुं प्रयत्नं करिष्यामि इति उक्त्वा ततः गतवान् ।**
** तस्य वचनानि श्रुत्वा सन्तुष्टः विश्वम्भरः आत्मना सह आगच्छन्तं गौरवेशम् उक्तवान्— “पश्यतुभोः, वचसि अन्यत्, व्यवहारः अन्यः इति हि**
लोकस्थितिः । एवं स्थिते एतस्य अनन्तस्य चित्तशुद्धिः प्रशंसार्हा एव। मम उपन्यासश्रमः सार्थकः सञ्जातः” इति ।
** तदा गौरवेशः मन्दहासपूर्वकम् उक्तवान्— “भोः, एतम् अनन्तम् अहं बाल्यतः जानामि किल? महोद्धतः सः । एतादृशस्य अनन्तस्य अन्तरङ्गे परिवर्तनं जातम् इति अहं तु न विश्वसिमि । अहं चिन्तयामि — सः भवन्तं तोषयितुम् इच्छति इति । " इति ।**
** विश्वम्भरः क्षणकालानन्तरम् उक्तवान्—“सामान्यतः सर्वेऽपि पुरतः स्थितस्य प्रामाणिकताम् अल्पाम् एव भावयन्ति । एषा हि लोकस्थितिः । मम तु भाति अनन्तः मम बोधनम् अवगतवान् इति । अतः तस्य व्यवहारे कृतकतां न पश्यामि अहम्” इति ।**
** अनन्तरदिने विश्वम्भरः गौरवेशस्य गृहे उपविश्य कैश्चित् सह सम्भाषमाणः आसीत्। तदा अनन्तः तत्र आगत्य — “श्रीमन् ! अद्य प्रातःकाले एव अहं धर्मसङ्कटे पतितः । एतस्य परिहारमार्गः भवता एवं वक्तव्यः” इति ।**
** “किं तत् धर्मसङ्कटम्?” इति पृष्टवान् विश्वम्भरः ।**
** ‘अद्य प्रातःकाले अहं कृषिक्षेत्रतः आगच्छन् आसम् । तदा द्वौ पानशीलौ मां दृष्टवन्तौ । ‘मदिरापणं गन्तुं कः मार्गः ?’ इति तौ साग्रहं मां पृष्टवन्तौ। ‘ये पानशीलानां साहाय्यम् आचरन्ति ते अपि पापभागिनः भवन्ति’ इति भवतः वचनं स्मरन् अहं ‘मार्गं न जानामि भोः’ इति उक्त्वा आगतवान् । वस्तुतः तु मदिरापणं प्रति मार्गम् अहं जानामि । अनन्तरकाले ‘अहम् असत्यम् उक्तवान्’ इति भावना उत्पन्ना मम मनसि । अहं पापम् आचरितवान् खलु ?” इति उक्तवान् अनन्तः ।**
** विश्वम्भरः मृदु हसन्—“अत्र धर्मसङ्कटं किम् भवतः कोऽपि पापलेषः नास्ति। दुष्टकार्ये निरतानां निवारणे यः कोऽपि प्रयत्नः आचरितः चेदपि सः धर्मबद्धः एव” इति उक्तवान् ।**
** तदा अनन्तः विनयेन एव उच्चै पृष्टवान्— “भवान् कीदृशः पण्डितः,भोः ?**
मदिरापणं प्रति मार्गः सूचितःचेत् पानशीलौ प्रोत्साहितौ भवतः । मार्गं जानता अपि न उक्तं चेत् सः असत्यवादी भवति । एतादृशपरिस्थितौ किं करणीयम् इति शास्त्रग्रन्थेषु न लिखितं वा ? अथवा भवान् एव न पठितवान् स्यात् वा?” इति ।
** गृहस्य अन्तः स्थितः गौरवेशः अपि एतत् श्रुतवान् । ‘यथा मया चिन्तितं तथैव प्रवर्तते । विश्वम्भरम् अपमानयितुम् एव आगतवान् अस्ति अनन्तः’ इति चिन्तयन् गौरवेशः गृहात् बहिः आगतवान्। मार्गे गच्छन्तः केचन जनाः अपि तत्र सम्मिलिताः ।**
** गौरवेशं दृष्ट्वा अनन्तः उक्तवान्— “पश्यतु भोः, सामान्यधर्मसङ्कटपरिस्थितौ अपि परिहारं वक्तुं न शक्नोति एषः पण्डितः । एतादृशेन उक्तं सर्वं मेषेण इव विना विरोधम् अङ्गीकरणीम् इति वदन्ति किल भवन्तः ?” इति ।**
** तदा गौरवेशः शान्तस्वरेण — “एतद्विषये तं पण्डितं किमर्थं निन्दति भवान् ? भवदुक्तधर्मसङ्कटात् बहिः आगन्तुं मार्गः भवदधीनः एव अस्ति” इति उक्तवान् ।**
** “तत् कथम्? कः सः मार्गः ?” इति आश्चर्येण पृष्टवान् अनन्तः ।**
** भवान् एतत्क्षणे एव गत्वा मार्गे अटन्तौ तौ पानशीलौ अन्विष्य— ‘ग्रामे मदिरापणः कुत्र अस्ति इति अहं वस्तुतः जानामि । तदर्थं गन्तुं मार्गं तु अहं जानन् अपि वक्तुं न शक्नोमि । क्षम्यताम्’ इति उक्त्वा गृहं गच्छतु । तदा भवतः धमसङ्कटं परिहृतं भविष्यति” इति उक्तवान् गौरवेशः ।**
** तत्र सम्मिलिताः जनाः हसितवन्तः, करताडनं कृतवन्तः च । अनन्तः अपमानेन शिरः अवनमय्य ततः निर्गतवान् ।**
** अनन्तस्य गमनानन्तरं विश्वम्भरः गौरवेशम् उक्तवान्— “एतादृशानां धर्मसङ्कटस्य परिहारं वक्तुं शास्त्राणां ज्ञानं न, लोकज्ञानम् आवश्यकम्” इति ।**
** “मम सुदीर्घलोकज्ञानेन अहं निश्चितवान् यत् कुतर्किणः वितण्डवादिनः च कदापि समाधातुं न शक्यन्ते इति” इति हसन् उक्तवान् गौरवेशः ।**
कापालिकाकृपा
“आफ़्रिकादेशस्य जनपदकथा”
आफ्रिकादेशे पर्वतप्रान्ते सहोदरौनिवसतः । तौ अरण्ये मृगयार्थं गच्छन्तौ, अपेक्षितान् आहारपदार्थान् सङ्गृह्णन्तौ जीवनं यापयतः स्म ।
** एकदा तौ सहोदरौ एकैकां रज्जुं चर्मस्यूतं च स्कन्धे आरोप्य धनुर्बाणादीन् गृहीत्वा मृगयार्थं प्रस्थितवन्तौ। किञ्चिद्दूरं गमनानन्तरं तौ गहनारण्यं प्रविष्टवन्तौ । तत्र मार्गः किं, सूर्यदर्शनम् अपि दुर्लभम् आसीत् ।**
** तौ अग्रे यदा गतवन्तौ तदा एकत्र पङ्क्तिक्रमेण अधोमुखतया स्थापितानि मृत्पात्राणि दृष्टवन्तौ ।**
** “किम् एतत् ! निर्जने प्रदेशे कथम् एतानि आगतानि ? केन किमर्थं वा एतानि स्थापितानि स्युः ?” इति आश्चर्येण अग्रजं पृष्टवान् अनुजः ।**
** “न जानामि एतेभ्यः कः अपायः आपतेत इति । कस्यापि मान्त्रिकस्य सम्बन्धः स्यात् अपि।अस्थाने किमर्थं कुतूहलम् अस्माकम् ?”इति उदासीनभावनया उत्तरितवान् अग्रजः ।**
** अग्रजः स्वभावतः भीरुः । किन्तु अनुजः तथा न । महत् धैर्यं तस्य । " तेषाम् अधः किम् अस्ति इति द्रष्टव्यम् एव” इति उक्तवान् सः ।**
** एकैकं पात्रम् उन्नीय उन्मुखीकृत्य पङ्क्तौ स्थापितवान् अनुजः । अग्रजः तु भीत्या दूरे स्थित्वा पश्यन् आसीत् ।**
** कस्यापि मृत्पात्रस्य अधः किमपि न आसीत् । किन्तु अन्तिमं यदा उन्नीतं तदा तस्य अधः स्थिता एका वामना वृद्धा कापालिका मण्डूकवत् उत्प्लुत्य बहिः आगतवती ।**
** बहिः आगता सा अनुजम् अपश्यन्ती दूरे स्थितस्य अग्रजस्य समीपं गत्वा —“किमर्थं**
तथा भीतः हरिणः इव मां पश्यति? अहं न अपायकारिणी । आगच्छतुमया सह । विचित्रम् एकं प्रदर्शयिष्यामि” इति उक्तवती ।
** किन्तु अग्रजः भीत्या कम्पमानः अविचलतया तत्रैव मौनं स्थितवान् ।**
** “ही, भीरुः शुनकः इव” इति निन्दन्ती सा अनुजस्य दिशि परिवृत्य आत्मना सह आगन्तुम् अनुजम् उक्तवती । सदासिद्धः अनुजः तस्याः वामनायाः कापालिकाया अनुसरणं कृतवान्।**
** किञ्चिद्दूरं गमनानन्तरं वृद्धा एकत्र स्थित्वा वस्त्रान्तरितं परशुं बहिः आनीय अनुजस्य हस्ते दत्त्वा “एतेन परशुना एतस्य वृक्षस्य छेदनं करोतु” इति आज्ञास्वरेण उक्तवती ।**
** अनुजः वृक्षमूले परशुना बलेन ताडितवान्। तदा वृक्षतः एका गौः बहिः आगता। एवं तस्य एकैकप्रहारतः अपि धेनुः वृषभः वा, अजः मेषः वा बहिः आगच्छति स्म। अल्पे एव काले तत्र एकः पशुसमूहः एव सिद्धः अभवत् ।**
** “एते पशवः भवतः एव । एतान् भवान् गृहं नेतुम् अर्हति। अहम् अत्रैव तिष्ठामि’ इति उक्तवती सा वृद्धा कापालिका ।**
** अनुजः कृतज्ञतावचनानि उक्त्वा पशुभिः सह अग्रजस्य समीपं गतवान् ।**
** “सा वृद्धा कापालिका एतत्सर्वं अनुगृहीतवती। सा यदा आहूतवती तदा भवान् न गतवान् एव” इति उक्त्वा अग्रजाय पशुप्राप्तिप्रकारं निवेदितवान् अनुजः । अग्रजः तु सर्वं मौनं श्रुतवान्, तावदेव ।**
** उभौ अपि पशुभिः सह ग्रामं प्रति प्रस्थितवन्तः ।**
** तदा तु ग्रीष्मकालः । मध्याह्ने महान् आतपः। सहोदरयोः महती पिपासा आसीत् । पशवः अपि जलार्थं तृणार्थं च आक्रन्दनं कुर्वन्तः आसन् ।**
** किञ्चिद्दूरं गमनानन्तरं अनुजःउच्चैः— “पश्यतु भोः जलम् !” इति उद्घोषितवान्।**
** तयोः पुरतः एकः अगाधः खातः आसीत् । खाते वृक्षाणां मध्ये वेगेन प्रवहन् जलप्रवाहः ताभ्यां दृष्टः । किन्तु खातस्य अन्तः गन्तुंं कोऽपि मार्गः न आसीत् । उभयपार्श्वे अपि**
पर्वतः !
“रज्जुसाहाय्येन माम् अधः अवतारयति वा? अहं पिपासां निवार्य उपरि आगच्छामि” इति उक्तवान् अग्रजः ।
ओम् इति अङ्गीकृत्य अनुजः अग्रजं खाते अवतारितवान्। रज्जुसाहाय्येन अधः गतः अग्रजः जलं पीत्वा प्रत्यागतवान् ।
‘अधः गमनं यद्यपि कष्टकरं, किन्तु जलं तु अमृतसमानम्” इति उक्तवान् अग्रजः ।
“एवं तर्हि माम् अपि एवम् एव अवतारयतु। अहम् अपि पिपासां निवारयामि” इति उक्तवान् अनुजः।
रज्जुसाहाय्येन अनुजम् अवतारितवान् अग्रजः । तदा तस्य मनसि काचित् दुर्भावना उत्पन्ना। यतः पशूनां दर्शनेन सः लुब्धः जातः आसीत्। रज्जोः अपरम् अन्तभागम् अपि खाते क्षिप्त्वा पशुसमूहेन सह सः गृहं प्रत्यागतवान्। “काचित् कापालिकाएतत् सर्वं दत्तवती” इति मातापितरौ उक्तवान् च।
“एवं वा? अनुजः कुत्र ?” इति पृष्टवन्तौ मातापितरौ ।
“सः इतोऽपि न प्रत्यागतवान् वा ? अहम् अग्रे चलितुं न शक्नोमि इति उक्त्वा मध्याह्ने एव प्रत्यागतवान् किल सः । अनन्तरम् अहं तं न दृष्टवान् एव” इति असत्यम् उक्तवान् अग्रजः ।
रात्रिः अतीता। तथापि अनुजः न प्रत्यागतवान्। ‘मृगयार्थंदूरं गतवान् स्यात्’ इति समाधानं प्राप्तवन्तौ मातापितरौ । तद्दिनम् एवं प्रतीक्षायाम् एव अतीतम् ।
अनन्तरदिने उषःकाले ग्रामीणाः स्त्रियः जलार्थं यदा गतवत्यः तदा ताः मार्गे मधुमक्षिकाणां गुञ्जनं श्रुतवत्यः। एवं गुञ्जनं श्रुतं चेत् ताः मधुमक्षिकाः अनुसरन्ति स्म ग्रामीणाः । यतः मधुमक्षिकाः अन्ते तत्रैव गच्छन्ति यत्र मधुसङ्गृहीतं भवति इति ते जानन्ति । पुरुषाः तत्र गत्वा मधु सङ्गृह्य आगच्छन्ति ।
अतः ताः स्त्रियः शीघ्रं गृहं प्रत्यागत्य पुरुषान् उक्तवत्यः— “शीघ्रं गच्छन्तु, मधुमक्षिकाः गुञ्जन्ति” इति ।
सहोदरयोः पिता, अन्ये केचन ग्रामीणाः
च मधुमक्षिकाः अनुसृतवन्तः । ताः मधुमक्षिकाः तान् बहुदूरं नीतवत्यः ।
** सामान्यतः एवम् अनुसरणेन अनतिदूरे एव मधु लभ्यते स्म। इदानीं तु बहुदूरं गतं चेदपि मधुदर्शनम् एव नास्ति ! अतः निराशाः केचन ग्रामीणाः ग्रामं प्रत्यागतवन्तः ।**
** सहोदरयोः पिता, अन्ये द्वित्राः च आरब्धं प्रयत्नं त्यक्तुम् अनिच्छन्तः गुञ्जनम् अनुसृत्य अग्रे गतवन्तः ।**
** मधुमक्षिकाः अग्रे गत्वा खाते अदृश्याः अभवन्। प्रवेष्टुम् अशक्ये खाते मधु दृष्टं चेत् किं प्रयोजनम् ? अतः सर्वे ते ग्रामीणाः निराशाः ।**
** सहोदरयोः पिता खाते दृष्टि प्रसारितवान्। तेन तत्र मधुमूलं न दृष्टम् । किन्तु कश्चित् पुरुषः तेन दृष्टः इव । क्षीणः कण्ठध्वनिः अपि तैः श्रुतः ।**
** “एषः मम पुत्रः ! निश्चयेन खाते स्थितः सः एव । हा! प्रियपुत्र !” इति उच्चैः क्रन्दितवान् पिता ।**
** चत्वारः ते महता प्रयत्नेन खाते रज्जुं क्षिप्त्वा तदाधारेण अनुजम् उपरि आनीतवन्तः ।**
** उपरि आगतः अनुजः कापालिकायाः दर्शनं, पशुप्राप्तिः, अग्रजस्य वञ्चना इत्यादिकं सर्वं सविस्तरं निवेदितवान् ।**
** पुत्रस्य वचनानि श्रुत्वा पिता उच्चैः रोदनम् एव कृतवान्। “मम ज्येष्ठः पुत्रः कीदृशीं क्रूरताम् आचरितवान् ! कल्पनाम् अपि कर्तुं न शक्नोमि । मधुमक्षिकाणां द्वारा भवतः अभिज्ञानं ज्ञातम्। अन्यथा न जाने भवतः का गतिः अभविष्यत् इति” इति प्रीतिं प्रदर्शयन् पुत्रम् उक्तवान् पिता ।**
** “सः महापापी! तस्य शूलारोपणं करणीयम्” इति तत्रस्थाः एककण्ठेन उक्तवन्तः ।**
** अनुजः उज्जीवितः इति वार्ताम् अग्रजः केन मार्गेण ज्ञातवान् इति तुन जानीमः । तेषां प्रत्यागमनतः पूर्वं सः ग्रामात् पलायितवान् आसीत् । पुनः कदापि तस्य नाम अपि न श्रुतम् ।**
काव्यपरीक्षा
विद्याभूषणः नाम युवकः विद्याभ्यासं समाप्य गुरुकुलतः स्वगृहं प्रत्यागतवान् । विद्यानुगुणम् उद्योगं प्राप्तुं सः न शक्नोति स्म । यतः तस्य मातापितरौ वृद्धौ । कृषि-कार्यम् एतेन एव परिशीलनीयम् आसीत् । विद्याभूषणः एतदपि दैवानुग्रहम् इति भावयन् श्रद्धया कृषिकार्ये लग्नः जातः ।
विद्याभूषणः स्वभावतः भावजीवी । कवितायां तस्य विशेषासक्तिः । श्रमेण सम्पादितं पाण्डित्यम् अपि अस्ति एव । अतः सः कृषिकार्यं कुर्वन् एव प्राप्ते समये काव्यं रचयति । एवं क्रमेण तेन बहवः श्लोकाः रचिताः । खण्डकाव्य-महाकाव्यादीनि अपि द्वादश रचितानि ।
विद्याभूषणस्य व्यवहारं तदीयः पिता सदा परिशीलयति । अविरतं कृषिकार्यं कुर्वता अपि पुत्रेण काव्यरचनं यत् कृतं तेन सः अतीव सन्तुष्टः । द्वादशकाव्यानां रचनं तु न काव्यपरीक्षा सामान्यः विषयः । अतः पिता वचनैः स्वकीयं सन्तोषं प्रकटितवान् अपि ।
पिता सहानुभूतिं प्रदर्शयन् विद्याभूषणम् उक्तवान्— “पुत्र ! राजमान्यता प्राप्ता चेत् काव्यस्य कवेः च विशिष्टं गौरवम् । अतः भवान् भवता रचितेषु उत्तमम् एकं काव्यं स्वीकृत्य राजधानीं गच्छतु । अस्माकं दृष्ट्या सर्वाणि अपि उत्तमानि इति भासेत । अतः उत्तमं किम् इति निर्णेतुम् अन्यस्य साहाय्यं स्वीकरोतु” इति ।
“मया लिखितानां तारतम्यभावं निर्णेतुम् अहं न शक्नोमि इति तु सत्यम् एव । किन्तु अत्र साहाय्यं दातुं समर्थः कः अन्यः अस्ति ?” इति पितरं पृष्टवान् विद्याभूषणः ।
‘अस्माकं ग्रामाधिकारी एव अस्ति खलु ?” इति सूचितवान् पिता ।
तस्मिन् ग्रामे काव्ये किञ्चिदिव आसक्तः नाम ग्रामाधिकारी एव इति तु सत्यम् एव ।
किन्तु सः चाटुश्लोकादीनां चित्रकाव्यादीनां वा रसम् आस्वादयेत् । ध्वनिकाव्यस्य आस्वादने उत्तमतानिर्णये वा सः सर्वथा असमर्थः। एतां वस्तुस्थितिं विद्याभूषणः अपि जानाति ।
** अतः सः पितरम् उक्तवान् — “ये उत्तमकाव्यस्य लक्षणम् एव न जानन्ति, ये च रसास्वादनम् इतः पूर्वं कदापि न कृतवन्तः तादृशाः काव्यस्य उत्तमाधमत्वं निर्णेतुं कथं वा शक्नुयुः ? सहृदयता काचित् अपेक्षिता खलु ? चाटुश्लोकपण्डिताः ध्वनिकाव्यं कथं वा जानन्ति ?” इति ।**
** विद्याभूषणस्य पितुः काव्यक्षेत्रे कोऽपि परिश्रमः नास्ति । तथापि लोकानुभवः पर्याप्तम् अस्ति एव ।**
** सः पुत्रम् उक्तवान्—“पुत्र ! युक्त्या किं वा असाध्यम् ? बुद्धिमन्तः लवणमयात् समुद्रजलतः अपि रुचिकरं पाकं कर्तुं शक्नुवन्ति । साधनानि न सन्ति इति खेदापेक्षया विद्यमानैः साधनैः एव कार्यस्य साधनं वरम् । ग्रामाधिकारिणः साहाय्यं स्वीकृत्य उत्तमकाव्यस्य निर्णयः कर्तुं निश्चयेन शक्येत इति भाति मम” इति ।**
** पितुः मार्गदर्शनानुसारं विद्याभूषणः ग्रामाधिकारिणः समीपं गतवान् । काव्यानि श्रावयितुम् आरब्धवान् च ।**
** प्रथमकाव्यस्य श्रवणेन एव सन्तुष्टः ग्रामाधिकारी उक्तवान् —“एतत् काव्यम् अपूर्वम्। महाराजस्य तोषणार्थम् एतत् एकम् एव पर्याप्तम्” इति।**
** तदा विद्याभूषणः— “श्रीमन्! एतत् उत्तमं स्यात् नाम । अत्र अविद्यमानाः उत्तमगुणाः कदाचित् इतरेषु भवितुम् अर्हति खलु ? अतः मदीयानि सर्वाणि काव्यानि श्रुत्वा अन्ते भवतः अभिप्रायं श्रावयतु” इति उक्त्वा इतराणि काव्यानि अपि श्रावितवान् ।**
** ग्रामाधिकारी आसक्त्या श्रद्धया च सर्वाणि काव्यानि श्रुतवान् ।**
** अन्ते प्रथमम् अभिप्रायम् एव दृढीकुर्वन् सः उक्तवान् —“सर्वेषाम् अपेक्षया प्रथमकाव्यम् एव श्रेष्ठम्। एतेषु एकं तु अतीव जटिलं नीरसं च” इति ।**
** ग्रामाधिकारिणः प्रतिक्रियां श्रुत्वा विद्या**
भूषणः मौनं स्वगृहम् आगतवान्। अनन्तरं स्वरचितानि काव्यानि स्वीकृत्य राजधानीं गतवान्। अदृष्टवशात् विनायासं राज-दर्शनम् अपि प्राप्तवान् सः ।
विद्यभूषणस्य काव्यं पञ्च दिनानि यावत् श्रुतवान् राजा । काव्यविषये अतीव सन्तुष्टः सः — “भवति महाकविलक्षणानि स्फुटं दृश्यन्ते । भवता अन्यत् किमपि काव्यं लिखितं वा ?” इति पृष्टवान् ।
“प्रभो! अन्यानि काव्यानि न लिखितानि इति न ।अभ्यासार्थं मया बहूनि काव्यानि लिखितानि । उत्तमं काव्यं भवतः पुरतः पठनीयम् इति मम इच्छा आसीत् । काकोऽपि स्वशिशुं सुन्दरम् एव मनुते खलु ? मया लिखितानि सर्वाणि उत्तमानि एव इति मम बुद्धिः वदति इति कृत्वा अहं ग्रामाधिकारिणः साहाय्यं स्वीकृतवान् । उत्तमं काव्यं निश्चित्य भवतः पुरतः पठितवान् अपि” इति उक्तवान् विद्याभूषणः ।
“एवं वा? भवतः ग्रामाधिकारी तावान् चतुरः वा, यत् सः काव्यस्य उत्तमत्वं निर्णेतुं साहाय्यं कर्तुं समर्थः ? तस्य सम्माननम् अवश्यं करणीयम्” इति वदन् राजा भटद्वारा तं ग्रामाधिकारिणं राजधानीं प्रति आनायितवान् ।
राजधानीम् आगतवन्तं ग्रामाधिकारिणां विशेषरूपेण सम्मान्य राजा विद्याभूषणस्य अभिप्रायं श्रावितवान् ।
तदा ग्रामाधिकारी असमाधानेन उक्तवान्—“प्रभो! विद्याभूषणः भवतः पुरतः यत्
काव्यं पठितवान् तत् मह्यं सर्वथा न अरोचत। मह्यं यत् काव्यम् अरोचत तदेव सः भवतः पुरतः यदि पठितवान् स्यात् तर्हि एतेन सम्मानेन अहम् अतीव सन्तुष्टः अभविष्यम् । किं करोमि, सः अप्रबुद्धः” इति ।
विद्याभूषणस्य ग्रामाधिकारिणः च वचने सङ्गतिः न दृष्टा महाराजेन । सः प्रतिक्रियां कामपि अप्रदर्श्य ग्रामाधिकारिणम् अतिथिगृहं प्रेषितवान् ।
विद्याभूषणम् आहूय पृष्टवान् च — “किं भोः? ग्रामाधिकारिणे यत् अरोचत तत् काव्यम् अन्यत् एव । भवान् तु अन्यत् एव काव्यं मह्यं प्रदर्शितवान् ! किम् एतत् ?” इति ।
तदा विद्याभूषणः हसन् उक्तवान् —“प्रभो! उत्तमकाव्यस्य चयने मया ग्रामाधिकारिणः साहाय्यं स्वीकृतम् इति एतावदेव उक्तम् ग्रामाधिकारिणे यत् अरोचत तत् काव्यं प्रदर्शितम् इति तु मया न उक्तं खलु ? काव्यक्षेत्रे ग्रामाधिकारिणः योग्यता का इति अहं सम्यक् जानामि । अर्थगाम्भीर्ययुक्तं रसपरिपुष्टं चमत्कृतिजनकं काव्यं तस्मै न रोचते । श्लेषाद्यलङ्कारं ज्ञातुम् आवश्यकं भाषापाण्डित्यम् अपि तस्य नास्ति । यदि तस्मै सर्वाणि काव्यानि अरोचेरन् तर्हि अहम् अत्र भवतः समीपं निश्चयेन न आगमिष्यम्” इति ।
उत्तमकाव्यचयने विद्याभूषणः ग्रामाधिकारिणः साहाय्यं कथं स्वीकृतवान् इति ज्ञातवान् महाराजः ।
सः सन्तोषेण विद्याभूषणम् उक्तवान् —“भवान् न केवलं प्रतिभावान् अपि तु व्यवहारचतुरः अपि । भवादृशैः मम आस्थानस्य गौरवं प्रतिष्ठा च वर्धते” इति ।
अनन्तरं विद्याभूषणम् आस्थानकवित्वेन नियोज्य तस्य वसत्यर्थं विशेषव्यवस्थां कृतवान् राजा ।
अतः विद्याभूषणः ग्रामस्य कृषिकार्यस्य दायित्वम् अन्यस्मिन् आरोप्य मातापितृभ्यां सह राजधान्यां सुखेन निवसन् बहूनि उत्तमकाव्यानि रचयन् उत्तमां कीर्तिं सम्पादितवान् ।
कायकल्पचिकित्सा
** विलासपुरनामकं नगरं पूर्वं श्वेतनन्दनः नाम राजा पालयन् आसीत् । एकदा सः दर्पणे स्वमुखं पश्यन् आसीत् । तदा सः स्वमुखे चर्मशैथिल्यजातां एकां रेखां दृष्टवान् ।**
** ‘अहो ! अहम् एतावता एव वार्धक्येन आक्रान्तः अभवम् । इतः परं के के विकाराः मयि भवेयुः इति न जानामि’ इति आलोचयन् बहुधा खिन्नः सः ।**
** तद्दिने एव सः वैद्यम् आहूयमुखं प्रदर्श्य ‘एतं विकारं निवारयितुं शक्यते वा ?’ इति पृष्टवान् ।**
** ‘निश्चयेन शक्यते’ इति वदन् वैद्यः विविधानि औषधानि यच्छन् अपारं धनव्ययं कारितवान् । राजा श्वेतनन्दनः तानि औषधानि श्रद्धया सेवितवान् । किन्तु मुखे स्थिताः रेखाः सङ्ख्यया प्रवृद्धाः, न तु न्यूनतां गताः ।**
** महाराजस्य एतां दशां दृष्ट्वा मन्त्रीमुकुन्दवर्मा उक्तवान्—” महाप्रभो! इतोऽपि भवान् पञ्चाशद्वर्षीयः अपि न जातः । एतावता एव भवतः का एषा चिन्ता ? एतादृशस्य निवारणे समर्थं सुवर्णनगरीयं मलयजनामकं वैद्यश्रेष्ठम् अहं जानामि । सः कायकल्पचिकित्सायां सिद्धहस्तः । तस्य औषधोपचारेण भवान् निश्चयेन नवयौवनं प्राप्नुयात्” इति।**
** तदा श्वेतनन्दनः असन्तोषेण उक्तवान्—“सुवर्णनगरस्य शासकः अस्माकं शत्रुः । अहं मलयजस्य औषधं स्वीकरोमि इति यदि सः जानीयात् तर्हि निश्चयेन कथमपि उपरोधं कुर्यात्” इति ।**
** “अस्मदीयं गमनं यथा कोऽपि न जानीयात् तथा वयं तत्र गच्छेम । धनिक-वणिग्वेषेण वयं सुवर्णनगरं गच्छेम । मलयजं दृष्ट्वा औषधं स्वीकृत्य आगच्छेम” इति सूचितवान् मुकुन्दवर्मा ।**
श्वेतनन्दनः एतत् अङ्गीकृतवान् ।
एतदनुगुणं तौ वेषान्तरं धृत्वा सुवर्णनगरं प्रति प्रस्थितवन्तौ । मार्गे ताभ्यां कश्चन वृद्धः दृष्टः । सः वृक्षस्य अधः उपविश्य किमपि मन्दस्वरेण गायन् आत्मसन्तोषे लीनः आसीत् ।
तस्य वृद्धस्य अङ्गानि सर्वाणि शिथिलानि आसन्। तथापि सः सन्तोषेण गायन् अस्ति । एतत् दृश्यं दृष्टवतः महाराजस्य तु महत् आश्चर्यम् !
राजा मन्त्रिणम् उक्तवान् —“पश्यतुएतं वृद्धम् ! सन्तोषेण स्थितम् एतं दृष्टवतः मम मनसि असूया उत्पद्यते । एतस्य सन्तोषस्य किं कारणम् इति तम् एव पृच्छाम चेत् वरं खलु” इति ।
उभौ अपि तस्य वृद्धस्य समीपं गतवन्तौ । राजा वृद्धं पृष्टवान् —“भवान् तु महावृद्धः । अङ्गानि शिथिलानि । तथापि तरुणः इव सन्तोषेण रागे लीनः अस्ति किल? एतस्य सन्तोषस्य किं कारणम् ?” इति ।
तदा सः वृद्धः तीक्ष्णदृष्ट्या पश्यन् महाराजम् उक्तवान् —“अहं महावृद्धः वा? केन आधारेण एवं वदति ?” इति । तदा श्वेतनन्दनः हसन् —“कः अन्यः आधारः अपेक्षितः ? शिथिलानि भवदीयानि अङ्गानि एव भवतः वृद्धत्वं प्रमाणयन्ति खलु? प्रत्यक्षदृष्टस्य प्रमाणान्तरं किमर्थम् ?’ इति पृष्टवान् ।
“मम अङ्गानि शिथिलानि? तथा भासन्ते वा ? वस्तुतः तु चत्वारिम्शद्वर्षेभ्यः पूर्वं यदा अहं षष्टिवर्षीयः आसं तदा मया दर्पणे मुखं दृष्टं स्मरामि । अनन्तरं कदापि दर्पणे आत्मानं न दृष्टवान् । अस्तु तावत्, यथा भवान् वदति तथा मम अङ्गानि शिथिलानि चेत् का हानिः ? कुतः सन्तोषेण न स्थातव्यम्?” इति पृष्टवान् सः वृद्धः ।
तदा राजा आश्चर्यं प्रकटयन् वृद्धम् उक्तवान् — “एवं तर्हि इदानीं भवान् शतवर्षीयः !” इति ।
वृद्धः ‘आम्’ इति वदन् शिरः चालितवान् ।
तदा राजा रहस्यम् उद्घाटयन् आत्मनः मन्त्रिणः च परिचयम् उक्त्वा आगमन— कारणम् अपि निवेदितवान् ।
सः वृद्धः हसन्— “प्रभो! कायकल्प—
चिकित्सार्थं भवता तावद्दूरं गन्तव्यं नास्ति । तं चिकित्साक्रमम् अहम् अपि जानामि” इति उक्त्वा महाराजं स्वसमीपम् आहूय तस्य कर्णे किमपि उक्तवान् ।
महाराजः श्वेतनन्दनः मन्दहासं प्रकटयन् कोषतः सुवर्णनाणकानि निष्कास्य वृद्धाय दातुम् उद्युक्तः ।
वृद्धः सुवर्णनाणकानां स्वीकारं निराकुर्वन् उक्तवान् — “प्रभो ! महात्मनः भवतः दर्शनेन एव अहं तृप्तः अस्मि । एतैः नाणकैः मम किं प्रयोजनम् ? नित्यतृप्तस्य मम काऽपि अपेक्षा नास्ति” इति ।
राजा अग्रे गमनविचारं परित्यज्य स्वनगरं प्रत्यागतवान् । मन्त्री अपि मौनम् तम् अनुसृतवान् ।
चिकित्सां विना एव महाराजस्य चिन्ता इदानीं महाराजः सन्तोषेण अपगता । उत्साहेन च राजकार्यं निर्वहति ।
एतत् परिवर्तनं दृष्ट्वा मन्त्री मुकुन्दवर्मा एकदा महाराजम् उक्तवान्—
“प्रभो! तद्दिने भवान् वृद्धस्य सकाशात् किमर्थं प्रत्यागतवान् इति मया न ज्ञातम् । वृद्धस्य दर्शनानन्तरं भवतः व्यवहारे महत् परिवर्तनं दृश्यते । एवं तर्हि सः वृद्धः कायकल्पचिकित्साक्रमं किं बोधितवान् ?भवान् एव वदेत् इति भावयन् एतावत्पर्यन्तम् अहं मौनम् आसम्’ इति ।
“वयः कारणतः शरीरे आगतं परिवर्तनम् एव सदा चिन्तयित्वा दुःखम् अनुभवामः चेत् तदेव वार्धक्म् । तत् अविगणय्य सन्तोषेण उत्साहेन च सदा तिष्ठामः चेत् तेन आयुः वर्धते । मनः एव सर्वस्य कारणम् । एतत् ज्ञातं चेत् कायकल्पचिकित्सायाः आवश्यकता न भवति । कायकल्पचिकित्सया अपि किमपि न सिध्यति इति सः वृद्धः सूचितवान्। सत्यं खलु तस्य वचनम् ? सर्वम् अपि मनः आधारीकृत्य अस्ति । वार्धक्यं यौवनं चापि मनः आधारीकृत्य एव, न तु शरीरम् आधारीकृत्य” इति उक्तवान् महाराजः ।
“तेन त्रैकालिकं सत्यम् एव उक्तम्” इति हसन् उक्तवान् मन्त्री मुकुन्दवर्मा ।
क्लेषकरी चिकित्सा
‘श्रेष्ठः वैद्यः’ इति विख्यातस्य वीराचार्यस्य सकाशात् सरलाचार्यः नाम तरुणः वैद्यविद्यां अभ्यस्यन् आसीत् । एकदा सः गुरुं वीराचार्यं पृष्टवान्—“आचार्य ! कीदृशस्य रोगिणः चिकित्सा अतीव क्लेशकरी? भवान् तु महान् अनुभवी । अनुभवबलात् भवान् एतत् चिकित्सारहस्यं जानीयात् एव” इति ।
तदा वीराचार्यः उक्तवान्—“मूर्खाणां मन्दबुद्धीनां च चिकित्सा अतीव क्लेशाय। अनुभवबलात् दर्शनमात्रेण तादृशानाम् अभिज्ञानं प्राप्तव्यम् । तैः सह जागरूकतया व्यवहरणीयं च । यतः वयम् किमपि वदामः चेत् ते अन्यथा अर्थं कल्पयन्तः आपदं स्वागतीकुर्वन्ति । तेषां सदा विपरीतचिन्तनम्’ इति ।
अत्रान्तरे पामरोगस्य कारणतः कण्डूतिम् अनुभवन् पालकनामकः कश्चित् आगत्य उक्तवान्— “भोः, वैद्यमहोदय! गतवर्षे भवान् पीनसनिमित्तम् औषधं यच्छन् स्नानं न करोतु इति सूचितवान् । तदारभ्य स्नानं परित्यक्तवान् अहम् । तेन पीनसः अपगतः, किन्तु इदानीं….. तत्कारणतः महती कण्डूतिः च। असह्या बाधा एषा । एतस्मात् कण्टकतः माम् उद्धरतु” इति ।
वीराचार्यः तस्मै औषधं दत्त्वा तं प्रेषितवान्। सरलाचार्यम् उक्तवान् च— “एषः पालकः मूर्खः मन्दबुद्धिः च । यावत् पीनसः न अपगच्छति तावत् स्नानं मास्तु इति तु मया उक्तम् एव । किन्तु एषः कदापि स्नानं न करणीयम् इति अर्थं कल्पितवान् । अतः एव ‘एतादृशानां विषये जागरूकता भवतु’ इति उक्तवान् अहम्” इति ।
** कोटीश्वरः**
पूर्वं काञ्चीपुरे कश्चन वणिक् आसीत्। सः निरन्तरवाणिज्येन यथेष्टं धनं सम्पादितवान् । तस्य कोटिशः सम्पादनं दृष्ट्वा जनाः तं ‘नवकुबेरः’ इत्येव वदन्ति स्म ।
तस्य पुत्राः पुत्र्यः चापि बहबः । सः स्वपुत्रान् तत्तद्योग्यतानुगुणं वाणिज्ये नियोजितवान्। जामातृन् अपि स्वगृहे एव स्थापयन् वाणिज्ये नियोजितवान् । एवं स्वबान्धवानां साहाय्येन वाणिज्यम् अभिवर्धितवान् । इदानीं तस्य गृहं राजगृहायते। गृहे राजवैभवं जनसङ्ख्याधिक्यं च’ अस्ति । भोगं निरातङ्कम् अनुभवन् सः बान्धवैः सह सुखेन जीवति ।
एषः नवकुबेरः स्वभावतः महाकृपणः । दानधर्मादिकं नाम्ना अपि न जानाति । तीर्थयात्रार्थं पुण्यसम्पादनार्थं वा सः एकां वराटिकाम् अपि न व्ययीकरोति ।
एकदा एतस्य नवकुबेरस्य गृहस्य पुरतः कोटीश्वरः कश्चन संन्यासी आगत्य स्थितवान् । भोजनदानार्थं प्रार्थितवान् च ।
“कः भोः भवान्? भोजनं पृच्छतः भवतः कियत् औद्धत्यम्? रे चोर ! गच्छतु इतः” इति नवकुबेरः तं तिरस्कारपूर्णवाण्या उक्तवान् ।
“यद्यहं चोरः स्याम् तर्हि किमर्थं वा एवं भिक्षायाचनम् अकरिष्यम्? युक्तायुक्तताविचारं विना कोऽपि आक्षेपः न करणीयः” इति उक्तवान् संन्यासी ।
अनन्तरं तयोः मध्ये एवम् एव किञ्चित्कालपर्यन्तं वादविवादः प्रवृत्तः ।
अन्ते क्रुद्धः नवकुबेरः—“भवान् मम समयं व्यर्थीकुर्वन् अस्ति” इति तर्जयन् सेवकद्वारा तं ततः निवारितवान् ।
सेवकद्वारा दूरं प्रेषितः अपि संन्यासी— “भोजनं यावत् न दीयते तावत् इतः न गच्छामि” इति वदन् गृहस्य पुरतः प्राकारात् बहिः उपविष्टवान् एव ।
** “भवान् तत्रैव मरणं प्राप्नोतु नाम । मम गृहात् भवान् भोजनं न प्राप्स्यति । कियत्पर्यन्तं भवान् तिष्ठेत् इति अहम् अपि पश्यामि " इति उक्तवान् नवकुबेरः ।**
** अनन्तरं दिनत्रयं यावत् सः संन्यासी निराहारं तत्रैव उपविष्टवान् आसीत् । ‘कुपितः सः शापं दद्यात्’ इति भाषितवन्तः बान्धवाः । तथापि नवकुबेरः अचलः एव सः मुखद्वारं पिधाय अन्यमार्गेण गमनागमनं कर्तुम् आरब्धवान्।**
** अत्रान्तरे संन्यासी ततः निर्गतवान् आसीत् । ‘अहं विजयं साधितवान्’ इति सन्तोषम् अनुभूतवान् कुबेरः । मुखद्वारम् उद्घाटितवान् च । किन्तु अनन्तरदिने एव पुनः सः संन्यासी तत्र उपस्थितः ।**
“किमर्थम् एषः संन्यासी मां वेतालः इव सदा पीडयति? सः पुनः किमर्थम् आगतः इति तं पृष्ट्वा आगच्छतु” इति उक्त्वा एकं सेवकं प्रेषितवान् नवकुबेरः ।
** “अहं किमपि याचितुं न आगतवान् । भवतः यजमानेन सह किञ्चित् वार्तालापं कर्तुम् इच्छामि, तावदेव” इति सेवकम् उक्तवान् संन्यासी ।**
** एतस्य प्रत्युत्तररूपेण— “इतः परं षण्मासपर्यन्तं मम समयावकाशः एव नास्ति” इति सेवकद्वारा वार्तां प्रेषितवान् नवकुबेरः । संन्यासी ततः निर्गतवान् ।**
** षण्मासानन्तरं पुनः उपस्थितः अभवत् संन्यासी । इदानीम् अपि किमपि किमपि व्याजम् उक्त्वा तं प्रतिप्रेषितवान् नवकुबेरः । सहनाशीलः संन्यासी नवकुबेरेण सूचिते समये पुनः अपि आगच्छति । एवम् एव एकं वर्षम् अतीतम् । ‘इतः परम् एतस्य पीडां सोढुं न शक्नोमि’ इति चिन्तयन् नवकुबेरः संन्यासिनं स्वसमीपम् आनायितवान् ।**
** “एकवर्षतः परिशीलनं कुर्वन् अस्मि । भवान् मायया वशीकृतः सन् पत्नी-पुत्र-बान्धवादीनां मोहजाले पतितः सन् अन्धः इव दिनानि यापयति । इतः परं वा विवेकं प्राप्नोतु भवान्” इति नवकुबेरम् उक्तवान् संन्यासी ।**
** “एवं वैराग्यं बोधयितुम् एव भवान् एकस्मात् वर्षतः मां पीडयन् आसीत् वा?” इति असमाधानेन पृष्टवान् नवकुबेरः ।**
** “मायया आवृतः भवान् एतान् सर्वान् स्वकीयान् भावयति । किन्तु तेषु कोऽपि भवन्तं स्वकीयं न भावयति । यावत् भवतः हस्ते धनं तिष्ठति तावत् एते भवन्तं सिहांसने आरोपयन्ति । यदा भवान् रिक्तहस्तः भवति तदा रक्तहीनं जलूकाः इव एते भवन्तं त्यजन्ति” इति बोधितवान् संन्यासी ।**
** “किमर्थं वृथा जल्पति ? भवतः वचनं प्रमाणैः निरूपयितुं शक्नोति वा भवान् ?” इति पृष्टवान् नवकुबेरः ।**
** संन्यासी एतत् अङ्गीकृत्य कमपि उपायं सूचयित्वा ततः निर्गतवान् ।**
** केषाञ्चित् दिनानाम् अनन्तरं नवकुबेरः भयङ्करेण रोगेण पीडितः इव अभिनयन् `शय्याम् आश्रितवान् । वेदनाम् अनुभवन् सः पत्नीम् आहूय उक्तवान्— “मम अन्तिमः क्षणः सन्निहितः । जीवने एतावत्पर्यन्तम् एकम् अपि पुण्यकार्यं न कृतवान् अहम् । एतत् मरणम् इतोऽपि एकवर्षानन्तरम् आगतं चेत् समीचीनम् अभविष्यत्” इति ।**
** सम्भ्रान्ता नवकुबेरस्य पत्नी झटिति वैद्यम् आनायितवती । तत्क्षणे एव आगतः वैद्यः सुपरीक्ष्य अपि रोगलक्षणं न ज्ञातवान् । अतः सः ‘रोगस्य कारणं सम्यक् अज्ञात्वा औषधं दत्तं चेत् दुष्परिणामः भवेत्’ इति भावयन् सामान्यम् एकम् औषधं दत्त्वा ततः निर्गतवान् । नवकुबेरः तु संन्यासिनः सूचनानुसारं श्वासं निरुध्य शवः इव स्थितः आसीत् ।**
** नवकुबेरम् आश्रित्य सामान्यतः द्विशतं**
जनाः निवसन्ति। ते सर्वे तं परितः उपविश्य रोदनम् आरब्धवन्तः ।
** तत्समये संन्यासी तत्र आगतवान् । तस्य हस्ते एकं क्षीरपात्रम् आसीत् । संन्यासी सर्वान् मौनं स्थातुम् उक्त्वा “वृथा रोदनं मास्तु । मम हस्ते यत् अस्ति तत् सिद्धौषधम् । एतस्य साहाय्येन मृतः अपि सजीवः भविष्यति” इति सूचितवान् ।**
** तदा नवकुबेरस्य पत्नी इतरे च संन्यासिनः पादयोः उपरि पतित्वा—“महानुभाव ! एतस्य सिद्धौषधस्य दानेन एतम् उज्जीवयतु । भवान् यत् अपेक्षते तत् दद्मः वयम्” इति प्रार्थितवन्तः ।**
** एतत् श्रुत्वा संन्यासी उक्तवान्— “भवतां भ्रान्तिः । यस्य आयुः समाप्तं तस्य पुनः आयुः प्राप्तिः न भवति । किन्तु अन्यः स्वकीयस्य आयुषः दानं तस्मै कर्तुम् अर्हति । यः एतत् मम हस्ते स्थितं सिद्धौषधं सेवते सः गतप्राणः भवति । तदीयम् आयुः मृते प्रविशति। तेन मृतः उज्जीवितः भवति । यःस्वकीयम् आयुः दातुम् इच्छति सः एतत् सिद्धौषधं पिबतु” इति ।**
** तदा सर्वे मौनम् आश्रितवन्तः । संन्यासी पुनः पृष्टवान्— “किम्, एतस्य महापुरुषस्य निमित्तं कोऽपि मरणं प्राप्तुं न इच्छति वा?” इति । प्रत्युत्तरं न आगतम् ।**
** ‘अहो विधिः! एषः एतेषां सर्वेषां कृते धनं व्ययीकुर्वन् जीविते पुण्यं सम्पादयितुम् एव न `शक्तवान्। किन्तु येन एते सर्वे उपकृताः तस्य निमित्तं कोऽपि प्राणान् दातुं न सिद्धः । कीदृशः स्वार्थमयः प्रपञ्चः एषः ! इति उद्गारं प्रकटितवान् संन्यासी ।**
** “इदानीम् अहं विवेकं प्राप्तवान् श्रीमन् ! " इति वदन् निद्रातः इव उत्थितवान् कुबेरः । एतत् दृष्टवतां सर्वेषाम् अत्याश्चर्यम् ।**
** नवकुबेरः तद्दिने एव परावलम्बिनः सर्वान् बन्धून् गृहात् प्रेषितवान् । वाणिज्यं समग्रतया पुत्राणां वशे अर्पितवान् । सम्पादितं धनं पुण्यकार्यार्थं व्ययीकुर्वन् शिष्टस्य आयुषः सार्थक्यं सम्पादितवान् सः ।**
कृपणः अनन्तः
अनन्तस्य यथेष्टम् ऐश्वर्यम् अस्ति, किन्तु सः कृपणः । एकदा सः विना व्ययं तीर्थप्रदेशान् सर्वान् द्रष्टुम् इच्छन् एकम् उपायं चिन्तितवान्। तदनुगुणं अन्धः इव पङ्गुः इव च अभिनयन् ‘मूकत्वम् अन्धत्वं च अस्ति’ इति लिखितं फलकं कण्ठे स्थापयित्वा गृहात् प्रस्थितवान् ।
एकदा सः कस्मिंश्चित् तीर्थक्षेत्रे भिक्षायाचनं कुर्वन् आसीत् । तदा तस्य ग्रामीणौगोपीनाथः, रामकृष्णः च तं दृष्टवन्तौ ।
तदा गोपीनाथः रामकृष्णम् उक्तवान्— “हन्त ! भवतः ग्रामः समग्रतया जले निमग्नः इति वयम् एतम् अनन्तं वदामः चेदपि सः श्रोतुं न शक्नोति” इति ।
तत् वचनं श्रुत्वा चकितः अनन्तः अन्धः मूकः च इति क्रियमाणम् अभिनयम् अपि विस्मृत्य सम्भ्रमेण — “किं? किम् उक्तम्? मम ग्रामः जले निमग्नः वा? मदीयं विशालं भवनं, गृहस्थानि धान्यादीनि च किं जले निमग्नानि? हा हन्त !” इति ।
एतावत्पर्यन्तं जनाः ‘एषः मूकः अन्धः च’ इत्येव चिन्तितवन्तः आसन् । इदानीं तु ते वस्तुस्थितिं ज्ञातवन्तः। अतः ते— “तादृशस्य महाधनिकस्य अपि एतस्य दुराशा ! भिक्षायाचनं करोति किल !! निर्लज्जः ! वञ्चकः !” इति निन्दन्तः सम्यक् ताडितवन्तः अपि ।
एतत् दृष्ट्वा उच्चैः हसन् गोपीनाथः ततः गतवान् । ‘मां पाठयितुम् एव गोपीनाथः तथा उक्तवान् आसीत्’ इति अनन्तः अपि अनन्तरं ज्ञातवान् ।
कृतककुञ्चिका
** शिवपुरे शिवरामः नाम कश्चित् निवसति स्म। तालसमीकरणे कृतककुञ्चिकानिर्माणे च सः सिद्धहस्तः ।**
** एकदा रामभद्रः नाम कृषिकः शिवरामसमीपम् आगत्य एकां कुञ्चिकां प्रदर्शयन्— “भोः, एतादृशीम् अपरां कुञ्चिकां निर्माय ददातु " इति उक्तवान् ।**
** “अस्तु, श्वः प्रातः आगत्य नयतु” इति उक्तवान् शिवरामः। अनन्तरदिने यदा रामभद्रः. शिवरामस्य आपणं गतवान् तदा कुञ्चिकाद्वयं दत्तवान् शिवरामः ।**
** रामभद्रः नूतनतया निर्मितां कुञ्चिकां परीक्षादृष्ट्या पश्यन् पृष्टवान्— “एषा कुञ्चिका समीचीना स्यात् खलु?” इति ।**
** तदा साभिमानम् उक्तवान् शिवरामः— “मम कार्यं सदा सुव्यवस्थितम् एव । मया निर्मितासु कुञ्चिकासु काऽपि अद्यावधि निष्फला न जाता " इति ।**
** तदा रामभद्रः— “अत एव खलु अहं भवतः समीपम् आगतवान्? एषा वराकी कुञ्चिका कार्यम् एव न करोति स्म। अतः अन्यां कर्तुम् उक्तवान् अहम्” इति आत्मना दत्तां कुञ्चिकां प्रदर्शयन् उक्तवान् ।**
लघुमेघः
** त्रिगर्तः कृषिप्रधानः देशः । तस्मिन् देशे सस्यानां फलानां च समृद्धिः । क्षीरादीनां समृद्धौ अपि न न्यूनता । अतः तत्रत्याः जनाः सुखेन जीवन्ति स्म । किन्तु तेषां कृषिः वृष्ट्याधारिता आसीत् । सौभाग्यवशात् वृष्टिकारकः वायुः काले वाति । अतः वृष्टिः अपि काले भवति ।**
** त्रिगर्तदेशस्य कृषिकाः विविधान् देवान् पूजयन्ति स्म । किन्तु वृष्टिकारिणीं देवतां मेघान् वा ते न पूजयन्ति । पूजनं किं, कृतज्ञतापूर्वकं मेघाः नमस्करणीयाः इत्यपि ते न चिन्तयन्ति ।**
** बहुकालतः एवम् एव प्रवर्तते । कृषिकाणां एतं व्यवहारं दृष्टवतां मेघानां तु असमाधानम् ।**
** एकदा ते मेघाः सुदूरे प्रान्ते सम्मिलिताः । ‘कृतघ्नानां वासभूमौ त्रिगर्ते एकः अपि जलकणः केनापि न पातनीयः’ इति ते लघुमेघः निश्चितवन्तः ।**
** एतस्य परिणामतः तस्मिन् वर्षे त्रिगर्तदेशे वर्षऋतौ अतीतायाम् अपि वृष्टिः न जाता । वर्षाकालः ग्रीष्मकालः इव दृश्यते। तदा त्रिगर्तदेशीयाः कृषिकाः आशादृष्ट्या दैन्यपूर्वकम् आकाशं द्रष्टुम् आरब्धवन्तः । आकाशे अल्पः अपि मेघः न दृश्यते । कृषिकाणां कष्टं वर्णनातीतं जातम् ।**
** एवं स्थिते कदाचित् मेघानां सन्तोषस्य अन्त्यं संवृत्तम् । यतः कश्चन लघुमेघः इतरमेघान् अनुक्त्वा एव त्रिगर्तदेशम् अगच्छत् । कांश्चन जलकणान् पातयित्वा प्रत्यागच्छत् च।**
** ‘वृष्टिः आरब्धा’ इति चिन्तयन्तः त्रिगर्तदेशीयाः कृषिकाः गृहे संरक्षितानि धान्यानि क्षेत्रं नीत्वा बीजावापं कृतवन्तः । उत्साहेन इतराणि कृषिकार्याणि समारब्धवन्तः च ।**
** एतत् दृष्ट्वा महामेघाः तं लघुमेघं तर्जितवन्तः— “किं भोः, भवतः कुचेष्टा ? त्रिगर्तदेशे जलकणाः केनापि न पातनीयाः इति निर्णयं किं भवान् न जानाति ? अस्मान् अनुक्त्वा भवान् किमर्थं तत्र गतवान्? कार्याकार्यविवेकः किञ्चिदपि नास्ति भवतः” इति ।**
** “भवतां विवेकम् अहं जानामि । वस्तुतः मम कार्यं दृष्ट्वा सन्तोषः प्रकटनीयः आसीत्। पश्यन्तु तावत् । बीजत्वेन संरक्षितानि धान्यानि सूर्यतापेन यथा दग्धानि भवेयुः तथा कृतवान् अहम्। एतदर्थं भवद्भिः साधुवाक्यानि वक्तव्यानि आसन्” इति उक्तवान् सः लघुमेघः ।**
** ‘त्रिगर्तदेशीयानां परिस्थितिः द्रष्टव्या’ इति कुतूहलम् उत्पन्नं तेषां मेघानां मनसि । अतः ते त्रिगर्तदेशसमीपं गतवन्तः । तत्र जनाः दुःखेन तप्यमानाः आसन्। ‘लघुवृष्ट्या सन्तुष्टाः ते कृषिकार्यं तु आरब्धवन्तः आसन्। किन्तु इदानीं सर्वाणि बीजानि नष्टप्रायाणि जातानि ।**
** एतत् दुःखं सोढुम् अशक्ताः जनाः सन्तापेन ‘मेघदेव! रक्षतु अस्मान्’ इति प्रार्थयन्तः आसन् ।**
** प्रार्थनामग्नं कृषिकाणां समूहं दृष्ट्वा सर्वे मेघाः सन्तुष्टाः । ते तं लघुमेघम् उक्तवन्तः—“भोः, इतः परं ज्येष्ठानाम् अनुमतिं विना एवं न आचरतु। वयं कृषिकाणां कृतज्ञताभावं केवलम् इच्छामः । न तुतेषां बीजानां नाशम्” इति। अनन्तरं ते धाराकारेण जलवर्षणं कृतवन्तः ।**
** ‘अस्माकं प्रार्थनया सन्तुष्टाः मेघाः जलवर्षणं कृतवन्तः’ इति त्रिगर्तस्य कृषिकाः ज्ञातवन्तः। अतः ते प्रतिवर्षम् अपि मेघान् प्रार्थयितुम् आरब्धवन्तः । ततः आरभ्य त्रिगर्तदेशे पुनः अपि समृद्धिः । कदापि तत्र क्षामः न आगतः ।**
** लघुमेघेन विनोदार्थं कृतं कार्यं लोकोपकारकम् एव सञ्जातम्। इतरे महामेघाः एतां वस्तुस्थितिं न ज्ञातवन्तः एव । इदानीम् अपि लघुमेघकुले उत्पन्नाः मेघाः वायुनासह क्रीडन्तः सर्वत्र सञ्चरन्तः लोकस्य परिस्थितिं महामेघान् निवेदयन्ति ।**
मानवता
** पूर्वम् एकस्मिन् राज्ये क्षयरोगिणां सङ्ख्या दिने दिने प्रवृद्धा ।**
** सकलेभ्यः प्रान्तेभ्यः राजोद्योगिनः, ग्रामप्रमुखाश्च द्वित्रवारम् एतद्विषये निवेदनपत्रं प्रेषितवन्तः ।**
** किन्तु राजा एतत्सर्वं पश्यन् अपि मौनम् आसीत् । अन्ते एषः रोगः राजधानीम् अपि प्राविशत्। राजधान्यां बहवः क्षयरोगेण पीडिताः अभवन् ।**
** इदानीं जागरितः राजा क्षयरोगनिवारणार्थम् एकं सुविशालं चिकित्सालयं निर्मापितवान् । ‘कुलगुरोः अमृतहस्ततः एतस्य प्रारम्भोत्सवः कारणीयः’ इति सङ्कल्पितवान् राजा। किन्तु कुलगुरुः तपसः निमित्तम् अरण्ये निवसति स्म।**
** राजा सपरिवारं गत्वा कुलगुरुं साष्टाङ्गंनमस्कृत्य राज्यस्य परिस्थितिं च निवेद्य— “चिकित्सालयस्य प्रारम्भोत्सवः भवत्सन्निधाने एव भवतु” इति प्रार्थितवान् ।**
** तदा कुलगुरुः— “राजन्! क्षयव्याधिनिमित्तं निर्मितस्य एतस्य चिकित्सालयस्य प्रारम्भोत्सवनिमित्तं न, अपि तु पिधानोत्सवनिमित्तम् आगमिष्यामि” इति उक्त्वा पुनः अपि ध्याने मग्नः अभवत् ।**
** “क्षयरोगः यावत् राज्यतः समूलं न निर्गमिष्यति तावत् अहं राज्यप्रवेशं न करिष्यामि” इति सूच्यरूपेण उक्तवतः गुरोः वचनस्य श्रवणेन महाराजे विवेकः उदितः । सः तद्दिने एव समग्रे राज्ये तीव्रचिकित्सार्थं व्यवस्थां कारितवान्।**
मन्त्रिणः युक्तिः
अनेकवर्षेभ्यः पूर्वं मणिपुरस्य राजा स्वपुत्र्याः माणिक्यदेव्याः जन्मदिननिमित्तम् एकं नवरत्नहारं कारितवान्। विशिष्टः एषः हारः कदाचित् रात्रौ चोरितः अभवत् ।
** अन्तःपुरे बाह्यः चोरः प्रवेष्टुं सर्वथा न शक्नोति । राजभवनस्थेन एव केनचित् एतत् चौर्यं कृतम् आसीत् ।**
** ‘एतस्य चौर्यस्य अन्वेषणं कथं करणीयम् ? एकैकशः सेवकान् आहूय पृष्टं चेत् वस्तुस्थितिः न ज्ञायेत एव। एकैकम् अपि ‘भवान् एव चौर्यं कृतवान्’ इति वदामः चेत् तत् प्रश्नकर्ताः असामर्थ्यम् एव प्रकटीकरोति । यः चौर्यं करोति सः धृष्टः भवति एव । अतः उत्तरदातुः मुखभावं दृष्ट्वा चोरं ज्ञातुं न शक्नुमः ।**
** एवं बहुधा चिन्तनानन्तरं मन्त्रिणः मनसि एकः उपायः स्फुरितः । सः मध्याह्नतः पूर्वम् एव विश्वासार्हान् त्रीन् मन्त्रिणः युक्तिः सेवकान् समीपम् आहूय अग्रे किं करणीयम् इति बोधितवान् ।**
** मध्याह्नानन्तरं मन्त्री सर्वान् सेवकान् राजभवनस्य पुरतः प्राङ्गणे समावेशितवान् । “ह्यः रात्रौ अस्मासु एव कश्चित् राजकुमार्याः कण्ठे स्थितं नवरत्नखचितं हारं चोरितवान् । चोरः इदानीं यदि स्वयम् अग्रे आगत्य अपराधम् अङ्गीकरोति तर्हि क्षाम्यामि । अन्यथा सः कठोरं दण्डनं महान्तम् अनुतापं च अनुभविष्यति । हूँ चोरः अग्रे आगच्छतु। रत्नहारं समर्पयतु” इति उक्तवान् च ।**
** तदा सर्वत्र मौनम् । कोऽपि अग्रे न आगतवान्। अत्रान्तरे पिशाचोच्छाटकः कश्चन मान्त्रिकः राजभवनं प्रविष्टवान् ।**
** तदा मन्त्री— “आगच्छतु महाभाग ! इदानीं भवतः मन्त्रदण्डप्रयोगस्य एव आवश्यकता अस्ति” इति वदन् मान्त्रिकं गौरवपूर्वकं स्वागतीकृतवान् ।**
** तत्समये वणिग्वेषधारी कश्चित् धावन् आगत्य — “महामन्त्रिन् ! रक्षणीयः अहम् । गतरात्रौ चोरः कश्चन मम गृहम् आगत्य दशसहस्रं रूप्यकाणि अपहृत्य गतवान् । कथञ्चित् चोरम् अन्विष्य मदीयं धनं मह्यं दापयतु कृपया” इति मन्त्रिणः पादयोः पतितवान् ।**
** तदा मन्त्री मान्त्रिकं पश्यन्— “श्रीमन्! एतस्य गृहे चौर्यं केन कृतम् इति प्रथमं ज्ञात्वा सूचयतु। अनन्तरम् अत्रत्यचोरस्य विषये चिन्तयिष्यामः” इति उक्तवान् ।**
** “यथाज्ञापयति भवान्” इति वदन् मान्त्रिकः कमण्डलुतः जलं स्वीकृत्य “ह्रां, ह्रीम् " इति मन्त्रं पठन् तत्र स्थितानां सर्वेषां सेवकानाम् उपरि प्रोक्षणं कृतवान् ।**
** तदा सेवकेषु कश्चित् उच्चैः आक्रन्दनं कुर्वन् भूमौ इतस्ततः लुठन्— “हन्त! मृतः अहम्। तापः तापः !” इति रोदनं कर्तुम् आरब्धवान् । रोदनं कुर्वन् एव— “मां न मारयतु। अहम् एव वणिग्गृहे चौर्यं कृतवान् । चोरितं धनं प्रत्यर्पयिष्यामि " इति उक्तवान् च।**
** “अत्रत्यः चोरः एव बहिः गत्वा चौर्यं कृतवान् इति इदानीं ज्ञातम् । एषः एवम् एव किञ्चित्कालं वेदनाम् अनुभवतु । इदानीं रत्नहारं चोरितवतः चोरस्य अन्वेषणं करोतु । कदाचित् एषः एव अत्रापि चौर्यं कृतवान् स्यात् अपि” इति मान्त्रिकम् उक्तवान् मन्त्री ।**
** भूमौ पतितः सः “श्रीमन् ! सत्यं वदामि । अत्र चौर्यम् अहं न कृतवान्” इति उक्तवान् ।**
** अत्रान्तरे अन्तःपुरस्य दासी काचित् कम्पमाना आगत्य — “प्रभो! अहं क्षन्तव्या । अविवेकिनी अहम् एव रत्नहारं चोरितवती । मां रक्षतु कृपया” इति वदन्ती रत्नहारं समर्पितवती ।**
** तदा यः भूमौ पतित्वा लुठन् आसीत् सः हसन् उत्थितवान् । मान्त्रिकः वेषं निष्कास्य स्ववेषेण स्थितवान्। एवम् एव वणिक् अपि । वस्तुतः ते त्रयः अपि मन्त्रिणः सेवकाः एव। मन्त्रिणा आयोजितस्य रूपकस्य कारणतः रत्नहारः विना क्लेशं प्राप्तः ।**
मौनव्रतभङ्गः
** पूर्वं स्रवन्तीराज्यं कल्याणवर्मा नाम महाराजः पालयति स्म । तस्य शोभावती नाम एका पुत्री, सा जगदेकसुन्दरी ।**
** एतां स्नुषात्वेन स्वीकर्तुं बहवः राजानः इच्छन्ति स्म। केचन तु दूतद्वारा एताम् इच्छां कल्याणवर्मणे निवेदितवन्तः आसन् अपि । विवाहविषये पुत्र्याः निर्णयः एव अन्तिमः इति तेभ्यः वार्तां प्रेषितवान् आसीत् कल्याणवर्मा ।**
** शोभावती यदा कमपि राजकुमारं न इष्टवती तदा राजा पुत्रीं पृष्टवान् — “वत्से, भवती कीदृशं परिणेतुम् इच्छति ? स्पष्टं वदतु” इति ।**
** “मां यः परिणयेत् सः साहसी बुद्धिमान् चतुरः च भवेत्” इति उक्तवती राजकुमारी ।**
** “एतेषां गुणानां परीक्षणार्थं कः उपायः आश्रयणीयः ?” इति पुत्रीं पृष्टवान् कल्याणवर्मा ।**
** “तदर्थम् अपि एकः उपायः चिन्तितः अस्ति मया । अहं मौनव्रतम् अवलम्ब्य तिष्ठामि । यः स्वबुद्धिमत्तया मम मौनं भञ्जयति, यदि तस्य साहसगुणः प्रसिद्धः च, तर्हि अहं तं परिणेष्यामि इति उक्तवती शोभावती । कल्याणवर्मा पुत्र्याः वचनैः सन्तुष्टः अभवत् । सः तद्दिने एव सर्वत्र पुत्र्याः विवाहनियमम् सडिण्डिमघोषम् उद्घोषितवान् । राजकुमारी परिणेतुम् इच्छन्तः बहवः राजकुमाराः मौनव्रतं भञ्जयितुं बहुधा प्रयत्नं कृतवन्तः । किन्तु अन्ते परजयम् अङ्गीकृत्य प्रतिगतवन्तः च । एतस्मिन् एव समये हेमन्तपुरस्य राजकुमारः आनन्दवर्धनः देशाटनं कुर्वन् स्रवन्तीपुरम् आगतवान् । तत्र सः शोभावत्याः विवाहनियमम् श्रुतवान् । शोभावती महाबुद्धिमती जगदेकसुन्दरी च इति आनन्दवर्धनः जानाति एव । तस्याः परिणये एतस्य अपि इच्छा जाता। अतः सः**
योग्यम् उपायं निश्चित्य राजभवनं गतवान् ।
** महाराजस्य दर्शनं प्राप्य आत्मनः परिचयं निवेद्य —“शोभावत्याः मौनभङ्गार्थम् आगतवान् अस्मि” इति उक्तवान् सः । आनन्दवर्धनस्य शौर्यसाहसादिकं तावता एवसर्वत्र प्रसिद्धम् आसीत् । तत् स्मरन् कल्याणवर्मा उत्साहेन तं पुत्र्याः समीपं नीतवान् ।**
** शोभावतीं दृष्ट्वा आनन्दवर्धनः — “अये एषा एव मम पत्नी” इति उद्गारं प्रकटितवान् ।**
** तत् श्रुत्वा महाराजः कल्याणवर्मा, तत्र स्थिताः अन्ये च आश्चर्यचकिताः ।**
** तदा आनन्दवर्धनः महाराजम् उक्तवान्— “महाराज! केभ्यश्चित् दिनेभ्यः पूर्वम् अहं देवालयसमीपे एतां चोरेभ्यः रक्षितवान्। तदा मम उपकारं कृतज्ञतापूर्वकम् आभिनन्दितवती एषा । परस्परानुरागकारणतः अहम् एतस्याः हस्तं गृहीतवान् । गान्धर्वविधिना आवयोः विवाहः तदा एव जातः अपि । आवश्यकं चेत् एताम् एव पृच्छतु भवान्” इति ।**
** महाराजः प्रश्नार्थकदृष्ट्या पुत्र्याः मुखं दृष्टवान् । किन्तु मौनव्रतकारणतः शोभावती किमपि न उक्तवती ।**
** तस्याः मौनं दृष्ट्वा आनन्दवर्धनः पुनः उक्तवान्— “महाराज! सा लज्जाकारणतः किमपि वक्तुं न शक्नोति । ‘मौनं सम्मतिलक्षणम्’ इति भवान् जानाति एव । अचिरात् एव भवतीं नेष्यामि इति एताम् उक्तवान् आसम् अहम्। अतः आगतः अस्मि । इदानीम् एतां मया सह प्रेषयतु भवान्” इति ।**
** एतत् वचनं श्रुत्वा अतीव कुपिता शोभावती “एषः असत्यं वदति । एतस्मिन् मा विश्वसितु” इति उच्चैः उक्तवती ।**
** अनायासेन तस्याः मौनभङ्गः जातः आसीत् । अतः आनन्दवर्धनः सन्तोषेण हसितवान् । आनन्दवर्धनस्य बुद्धिमत्तां दृष्ट्वा कल्याणवर्मा अतीव सन्तुष्टः ।**
** शोभावती मन्दहासं प्रकटयन्ती मुखम् अवनमय्य स्थितवती । अनन्तरं शुभे मुहूर्ते आनन्दवर्धन-शोभावत्योः विवाहः सवैभवं सम्पन्नः।**
मूर्खः ज्योतिषिकः
कस्मिंश्चित् अरण्ये पूर्वं सप्त चोराः आसन् । एकदा ते चौर्यं समाप्य प्रत्यागच्छन्तः आसन् । तत्समये कश्चन ज्योतिषिकः सम्मुखम् आगतवान्। वामनं शरीरं तस्य । खल्वाटस्य तस्य शिरसि अल्पा शिखा । कक्षे व्यजनम् । हस्ते कलशः पञ्चाङ्गं च। ललाटे उदरे इतरत्र च स्फुटतया दृश्यमानाः भस्मरेखाः ।
एतस्य ज्योतिषिकस्य वेषभूषादिकं दृष्ट्वा चोराः हसितवन्तः । एतान् सप्त चोरान् अपि नखशिखान्तं दृष्टवान् सः ज्योतिषिकः । ‘एते चोराः’ इति सः दर्शनमात्रेण एव ज्ञातवान् । ‘इदानीम् अहं सङ्कटे पतितः अस्मि । एते मम शिखां गृह्णन्तः कलशं स्वायत्ती-कुर्वन्ति चेत् न तत्र आश्चर्यम् । एते यत्किमपि कर्तुं समर्थाः’ इति चिन्तितवान् ज्योतिषिकः ।
इदानीं ज्योतिषिकस्य मनसि कश्चन उपायः स्फुरितः । सः उत्साहं प्रकटयन् चोरान् समीपम् आहूय— “भोः, भवन्तः के इति अहं जानामि । एवं भवन्तः यदा कदापि यत्र कुत्रापि गच्छन्ति चेत् कोऽपि लाभः न भवेत्। अहं पञ्चाङ्गं दृष्ट्वा उत्तमं मुहूर्तं सूचयितुं शक्नोमि । मया यथा उच्यते तथा आचरन्ति चेत् भवन्तः यथेष्टम् ऐश्वर्यं सम्पादयन्ति” इति उक्तवान् । चोरनायकस्य ज्योतिषे महान् विश्वासः । अतः सः सन्तोषातिरेकेण— “भवान् मुहूर्तं निश्चित्य वदति चेत् वयम् उपकृताः भवेम । इति उक्तवान् ।
“अस्तु तावत्” इति उक्त्वा ततः निर्गतवान् ज्योतिषिकः ।
एवं ज्योतिषिकः चोरान् मूहूर्तं सूचयति स्म। तदनुगुणं ते चौर्यं कुर्वन्तः यथेष्टं सम्पादयन्ति स्म । प्राप्ते धने दश नाणकानि ज्योतिषिकाय गुरुदक्षिणारूपेण समर्पयन्ति
स्म । एवं ज्योतिषिकस्य अपि अल्पश्रमेण अधिकलाभः। अतः तेषां मध्ये मैत्री प्रवृद्धा ।
एवम् एव दिनानि अतीतानि । एकदा ज्योतिषिकस्य मनसि कश्चन विचारः उत्पन्नः। “एते गुरुदक्षिणारूपेण यत् यच्छन्ति तत् अल्पम् एव । एतदपेक्षया तैः सह चौर्यकार्ये भागं गृह्णामि चेत् अधिकं भागं प्राप्तुं शक्नुयाम् । एतेन सम्पादनेन पुत्रस्य विवाहं सवैभवं निर्वर्तयितुं शक्नोमि । प्रयत्नेन विना धनं न लभ्यते । अतः अहम् अपि तैः सह गमिष्यामि " इति चिन्तितवान् सः ।
स्वकीयाम् इच्छां चोरनायकाय निवेद्य— “भवद्भिः सह अहम् अपि आगमिष्यामि । प्राप्ते ऐश्वर्ये मह्यम् अपि कश्चन भागः भवतु” इति उक्तवान् ज्योतिषिकः ।
तदा चोरनायकः विनयेन उक्तवान्— “आचार्य ! भवतः किमर्थं चौर्यश्रमः ? भवता चौर्यार्थं न आगन्तव्यम्। चौर्यं दुष्टकार्यम् इति वयं जानीमः। वयं तु पूर्वजन्मनः पापवशात् चौर्यं कुर्मः । सज्जनस्य भवतः किमर्थं तत्र प्रवृत्तिः ? पुत्रस्य विवाहार्थं वयम् एव सहस्रं सुवर्णनाणकानि समर्पयामः । पुत्रविवाहः सवैभवं प्रचलतु” इति ।
ज्योतिषिकः एतत् निराकुर्वन् पञ्चाङ्गं दृष्ट्वा मन्दहासं प्रकटयन्— “श्वः एकादश्यां तिथौ उत्तमः मुहूर्तः अस्ति । द्वादशवादनानन्तरं द्विवादनतः पूर्वं कार्यं समापनीयम्। अहम् अपि भवद्भिः सह आगमिष्यामि” इति उक्तवान् ।
चोरनायकः ज्योतिषिकस्य आगमनं निवारयितुं बहुधा प्रयत्नं कृतवान् । ‘यथेष्टम् ऐश्वर्यम् आनीय समर्पयामि’ इति उक्तवान् अपि । तथापि ज्योतिषिकः न अङ्गीकृतवान्। चोरैः सह प्रयाणम् आरब्धवान् एव ।
निश्चिते समये कौमुदीमय्यां रात्रौ सप्त चोराः ज्योतिषिकः च उत्तरदिशम् अनुसृतवन्तः । धनिकस्य रङ्गनाथस्य गृहं लुण्ठयितुं निश्चितवन्तः च ।
भित्तौ रन्ध्रंकृत्वा सर्वे अन्तः प्रविष्टवन्तः । चोराः जागरूकतया इतस्ततः गच्छन्तः यथेष्टं धनम् आभरणानि च सङ्गृहीतवन्तः ।
** तद्दिने एकादशी खलु ? अतः रङ्गनाथस्य गृहे सर्वे उपवासम् आचरितवन्तः आसन् । ‘अनन्तरदिने द्वादश्यां प्रातः एव द्वादशीपारणा करणीया’ इति पाकवस्तूनि सर्वाणि सज्जीकृत्य स्थापितवन्तः आसन् गृहसदस्याः। ज्योतिषिकः गृहे अटन् एतत्सर्वं दृष्टवान् । भूरिभोजनं स्मरन् पाकं कर्तुम् आरब्धवान् च ।**
** किञ्चित्कालानन्तरं चोराः अमूल्य-वस्तूनि अन्विष्यन्तः यदा पाकशालाम् आगतवन्तः तदा ज्योतिषिकः तान् दृष्ट्वा आतङ्केन संज्ञापूर्वकं सूचितवान्— “अग्रे न आगच्छन्तु। पावित्र्यं नश्यति” इति ।**
** तदा चोराः मन्दस्वरेण सूचितवन्तः — “आचार्य ! आगच्छतु। चौर्यार्थम् आगताः वयं, न तु भोजनार्थम्। यावच्छीघ्रम् इतः बहिः गन्तव्यम् अस्माभिः " इति ।**
** “तिष्ठन्तु भोः! अहं जानामि, द्विवादनतः पूर्वम् इतः गतं चेत् पर्याप्तम् । तावत् कोऽपि अपायः न भवति । पाकः सिद्धः इव । भोजनं कृत्वा एव गच्छेम । उपविशन्तु” इति साग्रहम् उक्तवान् ज्योतिषिकः ।**
** पूजार्हस्य ज्योतिषिकस्य वचनं तिरस्कर्तुं न शक्तवन्तः ते चोराः । अतः मौनं स्थितवन्तः । भोजनार्थं कदलीपत्रम् अन्वेष्टुं गतः ज्योतिषिकः पूजामन्दिरं प्रविष्टवान् । ‘नैवेद्यम् अकृत्वा भोजनं कथं वा कर्तुं शक्येत ?’ इति चिन्तयन् सः त्वरया पूजाम् आरब्धवान्। तत्सन्दर्भे अजागरूकतया घण्टानादं कृतवान् च ।**
** घण्टानादं श्रुत्वा गृहसदस्याः सर्वे जागरणं प्राप्तवन्तः । चोरान् दृष्ट्वा प्रवृत्तं सर्वं तर्कयित्वा प्रथमं चोरान् बद्धवन्तः । अनन्तरं कोपेन ज्योतिषिकं पृष्टवन्तः च — “किं भोः, कः भवान् ? किम् एतत् सर्वम्?” इति ।**
** मुग्धः ज्योतिषिकः प्रवृत्तं सर्वं निवेदितवान् । तत् श्रुत्वा ज्योतिषिकस्य मूर्खतां स्मृत्वा हसन् गृहस्वामी — “कीदृशः मूर्खः भवान् ! चौर्यम् एव दोषाय ! चौर्यसन्दर्भे अपि भोजनेच्छा! तत्रापि पूजायां घण्टानादः !!” इति वदन् दश नाणकानि दत्त्वा ज्योतिषिकं प्रेषितवान् च ।**
नैजं स्वरूपम्
** एकस्मिन् नगरे श्रीमुखनामकः कश्चित् महाधनिकः आसीत्। यदा सः चत्वारिंशद्वर्षीयः आसीत्, तदा तस्य पत्नी दिवङ्गता । तावत्पर्यन्तम् अपि तौ सन्तानहीनौ एव आस्ताम् । पत्न्याः उपरि धनिकस्य महती प्रीतिः आसीत् । श्रीमुखः ताम् एव निरन्तरं स्मरन्, पुनर्विवाहस्य आलोचनाम् अपि अकुर्वन् कालं यापितवान् । एवंप्रकारेण एव सः अशीतिवर्षीयः वृद्धः अभवत् ।**
** तस्य गृहे गतविंशतिवर्षेभ्यः गोपालः मालवी च इति पतिपत्न्यौ श्रीमुखस्य सेवां कुरुतः स्म । तौ द्वौ अपि गृहस्य बाह्याङ्गणे निर्मिते कुटीरे वसन्तौ स्वजनकस्य इव श्रीमुखस्य सेवां कुरुतः स्म ।**
** एवं हि सति कम्मिश्चित् सुदूरग्रामे स्थितः श्रीमुखस्य भागिन्यः नारायणः, तस्य पत्नी मालती च श्रीमुखं द्रष्टुम् आगत्य, तत्रैव कानिचन दिनानि स्थितवन्तौ । गच्छति काले तौ द्वौ अपि गोपालस्य मालव्याः च उपरि अनेकान् दोषान् आरोपितवन्तौ । तौ गृहकार्याणि सकाले समीचीनतया न कुरुतः, चौर्यं कुरुतः इत्यादिकं मिथ्यारोपं कृत्वा, श्रीमुखस्य मनसि दुर्भावनाम् उत्पादितवन्तौ ।**
** पुनः पुनः नारायणस्य मालत्याः च मिथ्यावचनानि श्रुत्वा श्रुत्वा तयोः वचनेषु श्रीमुखः विश्वासं प्राप्य एकस्मिन् दिने गोपालं मालवीं च गृहं त्यक्त्वा गन्तुम् आज्ञापितवान् । तदारभ्य तस्य गृहस्य सम्पूर्णव्यवहाराः मालतीनारायणयोः अधीनाः अभवन् ।**
** अनन्तरं तौ श्रीमुखं— “भवतः एतस्यां वृद्धावस्थायाम् अस्मत्सदृशानां बन्धूनां महती आवश्यकता अस्ति । भवतः सुखदुःखयोः आवां सहयोगं दद्वः” इति सम्यक् बोधितवन्तौ । सन्तानहीनः श्रीमुखः इतः पूर्वम् अपि स्वीयां सम्पत्तिं भागिनेयाय**
नारायणाय एवं दातुं निश्चितवान् आसीत्। इदानीं नारायणस्य मृदुभाषणेन भ्रान्तः सः स्वीयां सम्पत्तिं नारायणः एव यथा प्राप्नुयात् तथा मृत्युपत्रम् अपि लिखितवान् ।
** एवंरीत्या धनिकस्य सम्पत्तेः अपहरणम् एव मालतीनारायणयोः तत्र आगमनस्य मूलकारणम् आसीत् । अतः इदानीं तौ श्रीमुखस्य विचारे अश्रद्धां प्रदर्शयितुम् आरब्धवन्तौ । एषः वृद्धः शीघ्रातिशीघ्रं मरणं प्राप्नोतुइत्येव तयोः आशयः आसीत् ।**
** श्रीमुखस्य यथाकालं भोजनप्राप्तिः अपि दुर्लभा अभवत् । प्राप्ते भोजने अपि श्रीमुखस्य अप्रियाः खाद्यपदार्थाः एव आसन् । श्रीमुखः पृच्छति चेत्, ‘एते एव भवतः स्वास्थ्यकृते अनुकूलाः पदार्थाः’ इति उत्तरं लभ्यते । एतेन कारणेन शीघ्रम् एव श्रीमुखः दुर्बलः व्याधिग्रस्तः च अभवत् ।**
** एतस्याम् अवस्थायां श्रीमुखः स्वीयं वैद्यमित्रं कोदण्डपाणिं द्रष्टुम् इच्छन् गृहम् आगच्छतु इति वार्तां प्रेषितवान् । कोदण्डपाणिः आगत्य श्रीमुखं परीक्ष्य— “कतिदिनेभ्यः एषः ज्वरः भवन्तं बाधते ? कदा आरभ्य एतत् पाणिपादकम्पनम् ? " इति पृष्टवान् ।**
** “दिनचतुष्टयात् महत् कष्टम् अनुभूतम् । इदानीं सोढुम् अशक्तः भूत्वा नारायणं प्रेषयित्वा भवन्तम् आनायितवान्” इति उक्तवान् श्रीमुखः ।**
** आश्चर्यचकितः कोदण्डपाणिः—“किम् उक्तम् ? दिनचतुष्टयात् भवतः एतादृशी अवस्था अस्ति ! सर्वं पश्यन् अपि नारायणः तूष्णीं स्थितवान् वा ? वैद्यमित्रं माम् अपि विस्मृतवान् वा?” इति पृष्टवान्।**
** श्रीमुखः किमपि वक्तुकामः एव आसीत्, तदा नारायणः द्वारम् उद्घाट्य तत्र आगतवान्— “एतस्मिन् समये औषधैः मातुलस्य किमपि प्रयोजनं भवेत् इति मम तु विश्वासः नास्ति । अस्माकं व्यर्थपरितापेन किं वा भवेत्?” इति उक्तवान् च ।**
** कोदण्डपाणिः स्वमनसि उद्भूतं क्रोधं तत्रैव स्थगयन्, “बलवत्तरः मानवप्रयत्नः अपि अस्ति किल भो? पश्यामः !” इति ‘उक्त्वा स्वीयपेटिकातः एकाम्**
औषधकूपिकां गृहीत्वा —“श्रीमुख, इतः परं— किमपि भयं नास्ति । एतत् औषधं दिने कतिवारं कियत्प्रमाणकं दातव्यम् इत्यादिकं सर्वं भवद्भागिनेयं तस्य पत्नीं च सूचयामि’ इति वदन् प्रकोष्ठात् बहिः आगतवान् ।
** " नारायणः मालती च तम् अनुसृतवन्तौ । कोदण्डपाणिः औषधस्य कूपिकां ताभ्यां दत्त्वा, तत् औषधं दिने कतिवारं, कियत् दातव्यम् इत्यादिकं सर्वम् उक्त्वा ततः निर्गतवान् ।**
** दिनत्रयानन्तरं श्रीमुखः सम्पूर्णरूपेण व्याधिमुक्तः अभवत् । अनन्तरं कदाचित् श्रीमुखः कोदण्डपाणिं द्रष्टुं गत्वा— “हे कोदण्डपाणे! भवता दत्तेन औषधेन सञ्जीविनीतः इव महत् प्रयोजनं लब्धम् । इदानीम् अहं स्वस्थः अस्मि । पूर्वापेक्षया अधिकशक्तिमान् अपि अस्मि भोः” इति उक्तवान्।**
** “महान् प्रमोदः, श्रीमुख ! मया दत्तम् औषधं मालतीनारायणौ दिने कतिवारं दत्तवन्तौ ?” इति पृष्टवान् कोदण्डपाणिः ।**
** “मह्यं दिने त्रिवारं दत्तवन्तौ । एकस्मिन् काले षट्चमसान् निर्दिष्टसमये विना विस्मरणं दत्तवन्तौ भोः । महत्या जागरूकतया मम सेवां कृतवन्तौ तौ ” इति उक्तवान् श्रीमुखः।**
** कोदण्डपाणिः क्रोधेन— “एवम् अस्ति वा विचारः ! एतत्क्षणे एव भवता तौ ग्रामं प्रेषयितव्यौ । तथा न करोति चेत् भवतः प्राणापायः भवेत् । तौ भवतः सम्पत्तिं केवलम् इच्छतः, न तु भवन्तम् । तत् औषधं दिने त्रिवारं देयम् । एकस्मिन् समये केवलं**
चमसत्रयमितं देयम्। तदपेक्षया अधिकं दीयते चेत्, प्राणापायः भवेत् इति तौ जागरितवान् आसम् अहम्” इति उक्तवान्।
** “एवं वा!” इति श्रीमुखः आश्चर्यम् अनुभवन्— “एवं तर्हि भवता सूचितापेक्षया अधिकस्य औषधस्य सेवनेन अपि मम कोऽपि अपायः न अभवत् किल? एतत् कथम्?” इति पृष्टवान् ।**
** तदा कोदण्डपाणिः स्मयमानः —“वस्तुतः तस्य औषधस्य अधिकाधिकसेवनेन अधिकप्रयोजनम् एव भवति, न तु कोऽपि अपायः । तयोः वास्तविकस्वरूपं ज्ञातुम् एव अहं तथा तौ उक्तवान् । नारायणस्य वचनेन मम तदा एव संशयः उत्पन्नः । तौ किमर्थं भवतः गृहम् आगतवन्तौ इति इदानीं भवान् ज्ञातवान् वा?” इति उक्तवान् ।**
** कोदण्डपाणेः वचनं श्रुत्वा श्रीमुखस्य मालवीगोपालयोः स्मरणं जातं, यौ विंशतिवर्षेभ्यः तं सेवितवन्तौ ।**
** “मम भागिनेयस्य तथा तस्य पत्न्याः धूर्तस्वभावेन अत्यन्तविश्वसनीयौ मालवीगोपालौ मया वृथा परित्यक्तौ । तौ पुनः आगच्छतः चेत्, कियत् सौभाग्यं भवेत् ! तादृशयोः प्राप्तिः पुनः कथं वा भवेत् ? " इति उक्तवान् श्रीमुखः।**
** कोदण्डपाणिः तस्य भुजम् आस्फाल्य—“तौ द्वौ अपि मम समीपे एव स्तः भोः । भवतः रोगविचारं श्रुत्वा तौ महत् दुःखं सङ्कटं च अनुभूतवन्तौ । इदानीम् एव कानिचन औषधमूलानि आनेतुं औषधमूलानि गतवन्तौ । तयोः आवश्यकता अस्ति चेत्, भवतः गृहं प्रेषयिष्यामि” इति उक्तवान् ।**
** “आवश्यकता नाम किम् ? तौ द्वौ अपि मम पुत्रस्नुषयोः तुल्यौ भोः । इदानीं तयोः मूल्यंज्ञातम् । अस्तु पाणे, अहम् आगच्छामि” इति उक्त्वा ततः निर्गत्य गृहं गतवान्। परेद्युः प्रातः एव नारायणं तस्य पत्नीं च गृहात् निष्कासितवान् । तयोः नाम्नि लिखितं मृत्युपत्रम् अपि निर्मूलं कृतवान्।**
** अनन्तरं गोपालः मालवी च पुनः पूर्ववत् श्रीमुखस्य गृहं समागत्य, वृद्धस्य श्रीमुखस्य सेवां कुर्वन्तौ आस्ताम् ।**
नरकभयम्
** सिंहपुरे शिवरामः केशवः इति नामकौ स्नेहितौ आस्ताम् । विद्याभ्याससमाप्तेः अनन्तरं तौ चिन्तितवन्तौ यत् उद्योगः नाम दास्यम्, अतः स्वशक्त्या वाणिज्यम् एव करणीयम् इति । अतः तौ नगरे पृथक् पृथक् वाणिज्यम् आरब्धवन्तौ ।**
** वाणिज्यारम्भस्य अनन्तरं कदाचित् तौ परस्परं मिलितवन्तौ । तदा शिवरामः केशवम् उक्तवान्— “आवां वाणिज्यम् आरब्धवन्तौ। एकवर्षाभ्यन्तरे अस्माकं मूलधनं द्विगुणितं भविष्यति चेत् तदा वाणिज्यप्रयत्नः सफलः इति वक्तुं शक्यते । इदानीं वाणिज्ये दुर्मिश्रणं, तोलने वञ्चनं, अन्यथा गणनाप्रदर्शनम् इत्यादिकं सहजं जातम् । नगरे ये प्रसिद्धाः वणिजः सन्ति ते एतादृशं मार्गम् अनुसृतवन्तः इत्यतः एव एतादृशीं प्रसिद्धिं प्राप्तवन्तः । यदि अल्पे एव काले धनं सम्पादनीयं तर्हि आवाभ्याम् अपितादृशः एव मार्गः अनुसरणीयः” इति।**
** तदा केशवः हसन् उक्तवान्— “दुर्मिश्रणादिकम् अकृत्वा न्यायमार्गेण वाणिज्यं कुर्मः चेदपि यत् प्राप्तव्यं तत् प्राप्यते एव । वाणिज्ये लाभांशः भवति एव खलु ? दुराशा कदापि न उचिता । अन्यायेन सम्पादितं धनं कदापि स्थिरं न तिष्ठति’ इति ।**
** तदा शिवरामः असमाधानेन उक्तवान्— “वस्तुतः तादृशं कार्यं कर्तुं भवादृशानां धैर्यं नास्ति । अतः एवम् उपदिशन्ति भवन्तः । एतादृशं कार्यं कुर्मः चेत्मरणानन्तरं नरकलोकः प्राप्येत इति भीतिः भवताम् । वस्तुतः स्वर्गनरकादयः स्युः वा न वा इति कोऽपि न जानाति । अर्थहीनानाम् एतादृशानाम् अन्धविश्वासानां पालनम् एव नरकायते” इति ।**
** “किमर्थं वादः ? सर्वम् अपि तत्तस्य**
भावानुगुणम् अस्ति” इति वदन् चर्चां समापितवान् केशवः ।
** एतदनन्तरं पुनः कदाचित् तौ वस्तूनां क्रयणार्थं नगरं गतवन्तौ। आवश्यकतानुगुणं वस्तूनि क्रेतुं तौ पृथक् जातौ ।**
** तेषु दिनेषु तीव्रः आतपः आसीत् । निरन्तरम् अटनेन, तापकारणतः च महती श्रान्तिः शिवरामस्य । सः विश्रान्त्यर्थं छायाम् अन्विष्यन् मन्दं गच्छन् आसीत्। आतपाधिक्यं सोढुम् अशक्तः सः मूर्च्छया मार्गे एव पतितः ।**
** समीपे लोहशालायां कार्यं कुर्वन् लोहकारः कोदण्डः शिवरामस्य पतनं दृष्टवान् । क्रियमाणं कार्यम् अर्धे एव त्यक्त्वा आगत्य शिवरामम् उन्नीय लोहशालां नीतवान् ।मुखं जलेन सिक्तवान् ।**
** किञ्चित्कालानन्तरं शिवरामः सचेतनः जातः । समीपे एव भयङ्कराकारः कृष्णवर्णीयः कोदण्डः उपविष्टः आसीत्। तस्य पार्श्वे ज्वलताम् अङ्गाराणां मध्ये अयः शलाका, लवित्रम्, परशुः इत्यादयः आसन् ।**
** एतत् दृश्यं दृष्ट्वा शिवरामः चिन्तितवान् यत् अहं मरणं प्राप्य नरकम् आगतवान् अस्मि इति । अतः सः भीत्या उच्चैः आक्रोशनं कृतवान् ।**
** लोहकारः कोदण्डः झटिति शिवरामस्य समीपम् आगत्य आक्रोशनस्य कारणं प्रष्टुम् उद्युक्तः । तं यमदूतं मन्यमानः शिवरामः इतोऽपि भीतः।**
** भयात् उत्थाय उपविश्य नमस्कारं कुर्वन् सः कोदण्डं पृष्टवान्— “मां किमर्थम् अत्र आनीतवान् भवान् ?” इति ।**
** एतत् दृष्ट्वा कोदण्डः चिन्तितवान् यत् एषः हस्तौ बद्ध्वा कृतज्ञतां प्रकटयन् अस्ति इति । अतः सः— “नमस्कारस्य का आवश्यकता? अहं मम कर्तव्यपालनं कृतवान्, तावदेव” इति उक्त्वा पुनः अपि अग्निसमीपं गतवान् । अग्नौ स्थिताम् अयःशलाकां उन्नीय परीक्षितुम् आरब्धवान् च।**
** तप्तायःशलाकां दृष्ट्वा शिवरामः चिन्तितवान् यत् एषः यमदूतः इदानीम् तप्तायःशलाकया मां दहति इति । अतः सः भीत्या कम्पमानः उच्चस्वरेण विलपितुम् आरब्धवान्— “भोः ! तप्तायःशलाकया मां न दहतु । मया किमपि पापं न आचरितम् । मां न पीडयतु कृपया " इति ।**
** शिवरामस्य आक्रन्दनं विलपनं च श्रुत्वा मार्गे गच्छन्तः जनाः लोहशालायाः पुरतः सम्मिलितवन्तः । सर्वेषां मुखतः प्रश्नाः— “किम्? किं प्रवृत्तम् ?” इति ।**
** तदा कोदण्डः तान् उद्दिश्य उक्तवान्— " एषः महानुभावः कः इति अहं तु न जानामि । “एषः मार्गे मूर्च्छया पतितम् एतम् अत्र आनीय उपचरितवान्। चेतनतां प्राप्य एषः यमलोकं प्रविष्टवान् इव भ्रान्त्या ‘मां तप्तायः शलाकया न दहतु’ इति उच्चैः आक्रोशनं कुर्वन् अस्ति” इति ।**
** तत्समये केशवः शिवरामम् अन्विष्यन्**
तत्र आगतवान्। सः लोहकारं कोदण्डम् उक्तवान्— “भोः, आतपकारणतः पित्थविकारेण एषः एवं जल्पति इति भाति । भवान् अन्यथा न चिन्तयतु। एषः मम स्नेहितः । आवां वाणिज्यनिमित्तं नगरम् आगतवन्तौ " इति ।
** एतत्सर्वं श्रुत्वा जनाः हसन्तः एकैकशः ततः निर्गतवन्तः । जनानां निर्गमनानन्तरम् एतौ कोदण्डाय कृतज्ञतां समर्प्य स्वग्रामं प्रति प्रस्थितवन्तौ ।**
** मार्गे गच्छन् शिवरामः केशवम् उक्तवान्— “मित्र! स्वर्गनरकादिषु मम विश्वासः सर्वथा नास्ति । तथापि अहं लोहकारं कोदण्डं यमदूतं मन्यमानः, ज्वलतः अङ्गारान्, तप्तायःशलाकां च दृष्ट्वा यमलोकभ्रान्त्या किमर्थं तथा भीतः ? किं मयि पापभीतिः सुप्ता आसीत् वा?” इति ।**
** “शिवराम! कुकार्याणि कृतानि चेत् पापसञ्चयः भवति इति भावना सर्वेषु भवति एव । केषाञ्चित् मनसि साजागरिता, पुनः केषाञ्चित् मनसि सा सुप्ता । दुर्मिश्रणादिकं कुर्वतः भवतः मनसि अपि तादृशी पापभीतिः सुप्ता आसीत् एव । अतः नरकं प्रविष्टवान् । इति भावना भवतः मनसि आगता । मनसः वास्तविकं रूपं प्रकटितम् अभवत्” इति उक्तवान् केशवः ।**
** आलोचनायां मग्नः शिवरामः अङ्गीकारपूर्वकम् उक्तवान्—“भवतः वचनं सत्यम् एव स्यात्” इति ।**
** “एतत् तुसत्यं यत् मरणानन्तरं कः कुत्र गच्छति इति कोऽपि स्वयं न दृष्टवान् इति । पापनरकादीनां भीत्या पुण्यसम्पादनेच्छया च जनाः लोके सम्यक् व्यवहरन्ति । पापपुण्यादीनां कल्पनातः सत्फलं तु अस्ति एव । केचन तु भ्रान्तिवशात् नरकादिफलम् अत्रैव अनुभवन्ति” इति उक्तवान् केशवः ।**
** केशवस्य वचनेषु युक्ततां पश्यन् शिवरामः अनन्तरकाले न्यायमार्गेण वाणिज्यं कुर्वन् सज्जनः इति कीर्तिं सम्पादितवान् ।**
निर्णयकौशलम्
सुवर्णगिरिराज्यं सुन्दरवर्मा नाम राजा पालयति स्म । सः धर्मपरायणः न्यायनिष्ठुरः च। ‘असामान्यः विवेचनशीलः’ इति तस्य प्रसिद्धिः अपि आसीत् ।
** निर्णयार्थम् आगताः सर्वाः अपि समस्याः सः स्वबुद्धिकौशलेन सम्यक् विविच्य समीचीनं मार्गम् आश्रित्य शीघ्रम् एव परिहरति स्म ।**
** एकदा राजभटाः द्वौ पुरुषौ राजसमीपम् आनीतवन्तः । भटानां हस्ते एकः धनस्यूतः आसीत् ।**
** ‘एतस्य स्यूतस्य विषये अनयोः महान् विवादः’ इति निवेदितवन्तः ते ।**
** सुन्दरवर्मा तौ परीक्षादृष्ट्या दृष्टवान्। ‘अनयोः मध्ये वञ्चकः कः इति निर्णयः क्लेशकरः एव’ इति ज्ञातवान् सः ।**
** सुन्दरवर्मा क्षणकालम् आलोच्य मनसि एव किमपि निश्चित्य — “भवतोः मध्ये निर्णयकौशलम् स्यूतस्य स्वामी कः इति मया ज्ञातम् इदानीम् । सः स्वामी आगत्य एतं स्यूतं नयतु” इति उक्तवान् ।**
** तदा तयोः अन्यतरः आगत्य स्यूतं स्वीकृतवान्।**
** अन्यः चोरः इति निश्चयः जातः । महाराजेन यदा अधिकारवाण्या पृष्टं तदा सः स्वकीयं चोरत्वम् अङ्गीकृतवान् अपि । राजा तं कारागारे स्थापयितुम् आदिष्टवान् ।**
** धनस्यूतस्य स्वामी महाराजं कृतज्ञतापूर्वकं नमस्कृत्य ततः निर्गतवान् । भटाः अपरं तं चोरं कारागारं नीतवन्तः ।**
** सुन्दरवर्मणः न्यायनिर्णयक्रमं दृष्ट्वा न केवलं सभ्याः, मन्त्रिणः अपि आश्चर्यचकिताः ।**
** मन्त्री राजानं पृष्टवान् — “प्रभो! तयोः मध्ये चोरः कः इति भवान् कथं ज्ञातवान् ? यतः भवान् कमपि किमपि न पृष्टवान् एव**
खलु?” इति।
“चोरस्य अभिज्ञानार्थं मया काचित् परीक्षा उपस्थापिता। धनस्यूतस्य विषये आसीत् खलु तयोः विवादः ? ‘यः स्यूतस्य स्वामी सः अग्रे आगत्य स्यूतं नयतु’ इति मया यदा सूचितं तदा उभाभ्याम् अपि अग्रे आगन्तव्यम् आसीत्। किन्तु चोरः किञ्चित् बुद्धिमत्तां प्रदर्शितवान् । ‘त्वरया अग्रे आगतवन्तं चोरं निश्चित्य स्यूतं मह्यं यच्छन्ति’ इति तस्य अभिप्रायः आसीत् । अतः स्यूतस्य स्वामी निस्सङ्कोचम् अग्रे आगत्य स्यूतं स्वीकृतवान्” इति उक्तवान् राजा ।
महाराजस्य विवरणेन मन्त्रिणः सभ्यानां वा तृप्तिः न जाता ।
एतम् अंशं ज्ञात्वा सुन्दरवर्मा सभाम् एकवारम् दृष्ट्वा पृष्टवान्— “भवताम् इतोऽपि कोऽपि सन्देहः अवशिष्टः इव भाति” इति ।
“आं महाप्रभो! अस्माकम् इतोऽपि समाधानं न जातम्। सभासदः अपि सन्देहात् न मुक्ताः” इति उक्तवान् मन्त्री ।
राजा मन्दहासं प्रकटयन्— “कः सन्देहः सः ? पृच्छन्तु। कस्मिन् अंशे सन्देहः भवताम् ?” इति पृष्टवान् ।
“भवतः तर्कः युक्तः एव इत्यत्र कः आधारः आसीत्? यः कारागारं प्रति प्रेषितः तस्यैव स्यूतः कुतः न स्यात् ? भवतः निर्णयस्य साक्ष्याधारः कोऽपि नास्ति खलु ?” इति पृष्टवान् मन्त्री।
“आं, भवान् युक्तम् एव प्रश्नं पृष्टवान्” इति उक्त्वा सुन्दरवर्मा क्षणकालानन्तरं पुनः उक्तवान्— “मया यः कारागारं प्रति प्रेषितः तस्यैव यदि स्यूतः स्यात् तर्हि सः आर्तस्वरेण आक्रन्दनम् अकरिष्यत् । यतः श्रमेण सम्पादितं धनं परहस्तगतं जायमानं दृष्ट्वा कोऽपि मौनं न तिष्ठति । सः वस्तुतः चोरः एव आसीत् । अतः एव ‘मम चौर्यम् एतैः कथम् अपि ज्ञातम्’ इति चिन्तयन् सः मौनं स्थितवान्” इति।
महाराजस्य विवरणेन सभ्याः मन्त्री च समाहिताः अभवन्। ते महाराजस्य निर्णयकौशलं मुक्तकण्ठेन श्लाघितवन्तः ।
ज्ञानार्थं वादः
** हिमालयपर्वतप्रान्ते चम्पकवननामके प्रदेशे ज्ञानसूर्यः नाम पण्डितः आसीत् । सः गुरुकुलं चालयन् जीवनं यापयति स्म । वेदपठने, वेदार्थनिरूपणे उपनिषत्तत्त्वनिर्णये च तस्य अद्वितीयं स्थानम् आसीत् । देशविदेशात् आगताः विद्यार्थिनः तस्य गुरुकुले विद्याभ्यासं कुर्वन्तः आसन् ।**
** एकदा प्रातःकाले ज्ञानसूर्यः आश्रमस्य पुरतः वटवृक्षस्य अधः उपविश्य शिष्यान् पाठयन् आसीत् । तदा दक्षिणदेशात् चक्रतीर्थः नाम पण्डितः तस्य दर्शनार्थम् आगतवान् ।**
** चक्रतीर्थः ज्ञानसूर्याय आत्मनः परिचयं निवेद्य उक्तवान्— “अहं देशविदेशेषु सञ्चारं कुर्वन् सर्वान् महापण्डितान् वादे जितवान् अस्मि । भवतः कीर्तिं पाण्डित्यं च श्रुतवान् अस्मि । वादेन भवान् जितः चेदेव मम अद्वितीयत्वं सिध्येत् इति मम विचारः । अतः वादार्यं भवतः समीपम् आगतवान्’ इति ।**
** चक्रतीर्थस्य अहङ्कारपूर्णम् एतत् वचनं श्रुत्वा मन्दहासपूर्वकम् पृष्टवान् ज्ञानसूर्यः—“एवं तर्हि पाटलीपुत्रे निवसन्तं मम शिष्यं सरलाचार्यं पराजित्य एव भवान् अत्र आगतवान् स्यात् खलु ?” इति ।**
** तदा चक्रतीर्थः आश्चर्येण— “अहं पाटलीपुत्रस्थान् सर्वान् प्रसिद्धपण्डितान् जितवान् अस्मि । सरलाचार्यनामकः मया तत्र न दृष्टः, न वा श्रुतः च” इति उक्तवान् ।**
** “एतत् स्यात् अपि । सः सरलाचार्यः स्वभावेन अतीव शान्तः । गर्वरहितः, आडम्बरशून्यः च । स्वकीयं पाण्डित्यं कस्यापि पुरतः प्रदर्शयितुं न उद्युक्तः स्यात् सः। अतः एव पाटलीपुत्रीयाः बहवः तस्य नाम न जानन्ति । मम एकः नियमः यत् यदि**
भवान् मया सह वादं कर्तुम् इच्छति तर्हि भवता प्रथमं मम शिष्यः सः सरलाचार्यः जेतव्यः” इति उक्तवान् ज्ञानसूर्यः ।
तदा चक्रतीर्थः कोपेन— “मया सह वादं कर्तुम् अनिच्छन् भवान् एवं वदति इति मन्ये । यदि शक्तिः स्यात् तर्हि वादार्थं सिद्धः भवतु । निरर्थकः नियमः किमर्थम् ? " इति पृष्टवान् ।
तदा ज्ञानसूर्यः शान्तस्वरेण एव चक्रतीर्थम् उक्तवान्—“मया सह वादः करणीयः इति भवान् एव आगतवान् ! अतः मया सूचितः नियमः भवता अङ्गीकरणीयः एव । प्रथमं सरलाचार्यं पश्यतु” इति । प्रतिवचनं किमपि वक्तुम् अशक्तः चक्रतीर्थः मौनं ततः निर्गतवान् ।
केषाञ्चित् दिनानाम् अनन्तरं चक्रतीर्थः पाटलीपुत्रं प्राप्तवान्। सरलाचार्यम् अन्विष्य तस्य गृहं गतवान्। तदा सरलाचार्यः शिष्यं पाठयन् आसीत्।
स पाठः चर्चारूपेण प्रचलन् आसीत् ।
पाठसमाप्तिपर्यन्तं तूष्णीम् उपविश्य समाप्तेः अनन्तरं स्वपरिचयं कथयित्वा उक्तवान् चक्रतीर्थः— “इदानीम् अत्र प्रवृत्तं सर्वं श्रुतवान्। किन्तु मम तु संशयः— भवान् शिष्यं पाठयति, उत शिष्यः एव भवन्तं पाठयति ? इति । किमिदं शिक्षणम् ? " इति ।
तदा सरलाचार्यः मन्दहासपूर्वकं—“गुरुः केवलं यत् कथयति तत् शिक्षणं न । अन्यच्च मम शालायां गुरुशिष्ययोः मध्ये न तथा अन्तरम्” इति उक्तवान् ।
“अये! कीदृशः गुरुः भवान्! ‘मम शिष्यः वादेन जेतव्यः’ इति भवतः गुरुः मां किमर्थम् उक्तवान् इत्येव न ज्ञायते । अस्तु तावत्, वादार्थं सिद्धः भवतु” इति उक्तवान् चक्रतीर्थः ।
सरलाचार्यः चक्रतीर्थं परीक्षादृष्ट्या पश्यन्—“वादः ! अहं केनापि सह वादं न करोमि इति मम गुरुः जानाति एव । तादृशः सः भवन्तं वादार्थं मत्समीपं प्रेषितवान् इत्येतत् विश्वसितुम् एव न शक्यते” इति उक्तवान् ।
तदा चक्रतीर्थः तिरस्कारपूर्णस्वरेण—“अहो ! एवं वा? भवतः गुरुः भवान् च वादप्रसङ्गतः विमोचनम् एव इच्छतः । अतः
एव एवं व्यवहारः । यदि वादं कर्तुं सामर्थ्यं नास्ति तर्हि पराजयम् अङ्गीकुर्वन्तु भवन्तः” इति गर्जितवान् ।
तदा सरलाचार्यः शान्तस्वरेण उक्तवान्— ‘अहं भवता सह वादार्थं न आगच्छामि इति एतावदेव उक्तवान्। शास्त्रीया चर्चा मया कदाचित् अपि व निराकृता। अतः पराजयाङ्गीकारस्य प्रश्नः एव नास्ति अत्र” इति ।
“तया चर्चया मम कः लाभः ?” इति असमाधानेन पृष्टवान् चक्रतीर्थः ।
सरलाचार्यः पुनः अपि शान्तस्वरेण अपि शान्तस्वरेण उक्तवान्— “समानस्तरीयेण सह चर्चया एव ज्ञानवर्धनार्थम् अवकाशः लभ्यते । किन्तु वादार्थं चर्चा न स्यात् । यदि चर्चा वादार्थं स्यात् तर्हि अन्यस्य मुखभङ्गः एव लक्ष्यं भवति । तदा चर्चया ज्ञानस्य प्रकाशनं न, अज्ञानस्य अहङ्कारस्य च प्रदर्शनं भविष्यति । अतः एव अहं वादार्थं न सिद्धः । यदि ज्ञानवर्धनार्थम् इच्छा स्यात् तर्हि चर्चा उत्तमः मार्गः” इति ।
चक्रतीर्थः क्षणकालं मौनं स्थित्वा सरलाचार्यस्य अनुमतिं प्राप्य चम्पकवनस्थस्य ज्ञानसूर्यस्य समीपं गतवान् ।
प्रत्यागतवन्तं चक्रतीर्थं पृष्टवान् ज्ञानसूर्यः— “सरलाचार्यं दृष्टवान् वा ? वादेन तं जितवान् वा ?” इति ।
चक्रतीर्थः ज्ञानसूर्यस्य पादयोः प्रणम्य—‘ज्ञानं निरवधिकम् । तत् कस्यापि एकस्य न’ “इति सरलाचार्यस्य वचनं श्रावयित्वा उक्तवान्— “एषः अंशः मया ज्ञातव्यः इति उद्देशेन एव भवान् मां सरलाचार्यसमीपं प्रेषितवान्। अहम् अपि सरलाचार्यः इव पण्डितः भवितुम् इच्छामि । अतः शिष्यत्वेन अङ्गीकृत्य माम् अनुगृह्णातु” इति ।
ज्ञानसूर्यः तं वात्सल्येन उत्थाप्य प्रीत्या आलिङ्गितवान् । तं शिष्यत्वेन अङ्गीकृतवान् च। अनन्तरं केषुचित् वर्षेषु चक्रतीर्थः विशेषपाण्डित्यं प्राप्य शाश्वतकीर्तिं सम्पादितवान् ।
पणः
रत्नपुरराज्यं अशोकगुप्तः परिपालयति स्म। तस्य आस्थाने चिदानन्दः नाम विदूषकः आसीत् । सः चतुरोक्तिभिः महाराजस्य इतरेषां च मनोविनोदं जनयति स्म । तेनैव सह महत्त्वपूर्णेषु विषयेषु निर्णयार्थं महाराजस्य साहाय्यं करोति स्म अपि । स्वामिभक्तिः, दक्षता, स्नेहः, हास्यप्रियता इत्यादिभिः गुणैः सः महाराजस्य आन्तरङ्गिकेषु अन्यतमः आसीत् ।
चिदानन्दस्य श्यालः मोहनः सुदूरे स्थिते ग्रामे निवसति । सः इच्छति स्म यत् चिदानन्दस्य प्रभावबलात् राजास्थाने किमपि उद्योगस्थानं प्राप्तव्यम् इति ।
अतः सः कदाचित् राजधानीम् आगत्य चिदानन्दं दृष्ट्वा तस्मै स्वीयाम् इच्छां प्रकटितवान् ।
चिदानन्दः मोहनस्य वचनानि मौनं श्रुतवान् । मोहनस्य बुद्धिमत्तायाः व्यवहारकौशलस्य च विषये चिदानन्दस्य विश्वासः नास्ति ।
अतः सः मोहनम् उक्तवान्— “भोः, मम वचनानि श्रुत्वा महाराजः उद्योगं न ददाति । राजास्थाने तादृशाः एव उद्योगं प्राप्नुवन्ति येषु च सामर्थ्यं, समयप्रज्ञा, बुद्धिमत्ता इत्यादयः भवन्ति” इति ।
“भवान् यान् गुणान् वदति तान् अहं महाराजस्य पुरतः एव प्रमाणीकरिष्यामि । भवान् कथञ्चित् महाराजस्य दर्शनम् एकवारं कारयतु, पर्याप्तम्” इति उक्तवान् मोहनः ।
“महाराजस्य दर्शनकारणे मम क्लेशः कोऽपि नास्ति । किन्तु भवान् महाराजस्य पुरतः स्वबुद्धिमत्तां प्रमाणीकुर्यात् इत्यत्र मम विश्वासः नास्ति” इति उत्तरितवान् चिदानन्दः ।
चिदानन्दस्य वचनेन मोहनस्य
अत्माभिमानस्य घातः जातः । सः कोपमिश्रितस्वरेण पृष्टवान् —“यदि अहं महाराजस्य पुरतः मम बुद्धिमत्तां प्रमाणीकुर्यां तर्हि भवान् किं ददाति ?” इति । एवम् उक्त्वा एकं विचित्रं पणं चिदानन्दस्य पुरतः उपस्थापितवान् च ।
** एतं पणं श्रुत्वा चिदानन्दः आश्चचकितः । यतः सः एतादृशं पणम् इतः पूर्वं कदापि न श्रुतवान् आसीत्। मोहनस्य आत्मविश्वासपूर्णं वचनं श्रुत्वा चिदानन्दः मौनम् तत् अङ्गीकृतवान् ।**
** अनन्तरदिने मोहनेन सह चिदानन्दः राजास्थानं गतवान् ।**
** तत्समये महाराजः सेवकस्य हस्ततः क्षीरं स्वीकुर्वन् आसीत् । चिदानन्दः महाराजं नमस्कृतवान् । मोहनस्य परिचयं कारितवान् च।**
** मोहनः महाराजं प्रणम्य पृष्टवान्— “महाराज ! किं भवान् क्षीरपानं मुखेन एव करोति ? " इति ।**
** एतत् प्रश्नं श्रुतवन्तः महाराजस्य आश्चर्यम् असमाधानं च। सः कोपेन एव पृष्टवान्—“क्षीरं मुखेन विना किं नासिकया पातुं शक्यते वा ?” इति ।**
** “क्षाम्यतु महाराज ! नासिकया अपि पातुं शक्यते । यदि कोऽपि पणः निश्चितः स्यात् तर्हि तथा पीत्वा प्रदर्शयामि अहम्” इति उक्तवान् मोहनः ।**
** एतत् तु अपूर्वं वचनम् । अतः राजा मन्दहासपूर्वकम् उक्तवान्—“विचित्रं एतत् । वदतु, पणत्वेन कीदृशं वस्तु धनं वा निश्चेतव्यम्?” इति ।**
** मोहनः विनयेन उक्तवान् —“महाराज! अहं निरुद्योगी । मम समीपे एकं रजतनाणकम् अस्ति । तदेव पणत्वेन स्थापयामि” इति ।**
** राजा एतत् अङ्गीकृतवान् । स्वहस्ते स्थितं क्षीरपात्रं मोहनस्य हस्ते दत्तवान् च ।**
** मोहनः समग्रं क्षीरं मुखेन एव पीतवान् । ‘महाराज ! अहं पराजितः अस्मि” इति उक्त्वा, एक रजतनाणकं महाराजस्य पुरतः स्थापितवान् च ।**
** एतत् दृष्ट्वा अशोकगुप्तः उच्चैः हसितवान् । विदूषकः चिदानन्दः मोहनस्य स्कन्धे प्रीत्या हस्तं स्थापयन् “साधु, मोहन साधु! वस्तुतः अपि भवान् महाचतुरः” इति उक्तवान् ।**
** आश्चर्यचकितः अशोकगुप्तः प्रश्नार्थक-दृष्ट्या चिदानन्दं दृष्टवान् । तदा चिदानन्दः विनयेन उक्तवान् —“महाराज! भवान् मां यदि क्षाम्येत् तर्हि अहं भवतः पुरतः किञ्चित् निवेदयितुम् इच्छामि’ इति ।**
** “वदतु, का वार्ता सा ?” इति विस्मितः राजा पृष्टवान् ।**
** चिदानन्दः राजधानीं प्रति मोहनस्य आगमनप्रयोजनम् उक्तवान् । निवेदितवान् च —“महाराज! अहं मोहनम् उक्तवान् आसम् —‘राजास्थाने उद्योगं प्राप्तुं कस्यापि परिचयादिकं साहाय्यं न करोति । स्वबुद्धिमत्तया समयस्फूर्त्या च तत्र व्यवहारः करणीयः इति । तदा मोहनः उक्तवान् — ‘दर्शनसमये महाराजः यदि किमपि पानीयं पिबन् स्यात् तर्हि अहं तत् एकस्य रजतनाणकस्य प्रतिफलरूपेण पिबामि’ इति ।**
** ‘महाराजः स्वहस्तेन एव तत् पानीयं यदि दद्यात् तर्हि एव पणः प्रमाणितः भवेत्’ इत्यपि नियमः आसीत् । एषः मोहनः एव अत्र जयं प्राप्तवान्” इति ।**
** राजा मन्दहासपूर्वकम् उक्तवान्—“भवतः श्यालः महाबुद्धिमान् बुद्धिमत्तया यत्किमपि साधयितुं शक्यते इत्येतत् सः प्रमाणीकृतवान्” इति ।**
** तद्दिने एव मोहनं युक्ते उद्योगे नियोजितवान् महाराजः ।**
]