लघुकथासङ्ग्रहः-१

[[लघुकथासङ्ग्रहः-१ Source: EB]]

[

अन्तिमा इच्छा

योगधनः नाम कश्चित् धनिकः स्ववार्धक्ये अकस्मात् केनचित् विषमरोगेण पीडितः अभवत्।

तस्य पत्नीपुत्रादयः न आसन्। तदीयः बन्धुः शुभदासः सर्वदा तस्य पार्श्वे एव तिष्ठति स्म यश्च उत्तराधिकारी भवितुम् अर्हः आसीत्।

कृष्णाचार्यःयोगधनस्य चिकित्सां करोति स्म। एकदा सः योगधनं सम्यक् परीक्ष्य शुभदासं पृथक् आहूय उक्तवान्– “भवतः बन्धोः आरोग्यं विषमितम् अस्ति। इदानीं तु मूर्छावस्थायाम् अस्ति। यदि सः जागरितः भवति तर्हि एतत् गुलिकाद्वयं खादयतु। यदि दैवबलं स्यात् तर्हि सः उज्जीवेत्” इति।

वैद्यस्य गमनानन्तरं योगधनः नेत्रे उन्मीलितवान्। शुभदासं समीपे आहूय उक्तवान् च– “पुत्र, ऐश्वर्यसम्पादनं महते कष्टाय। किन्तु सम्पादितस्य रक्षणं ततोऽपि कष्टकरः” इति।

तदा शुभदासः चिन्तापूर्ण स्वरेण उक्तवान्– “एतादृशः वार्तालापःकिमर्थम्? यदि भवतः अन्तिमा इच्छा कापि स्यात्, तां वदतु। तस्याः पूरणं मम कर्तव्यम्” इति।

योगधनः क्षणं विचिन्त्य उक्तवान्– “वैद्यः कृष्णाचार्यः मां परीक्ष्य गुलिकाद्वयं दत्तवान् किल? तत् इदानीं मम मुखे स्थापयतु। एतदतिरिच्य किमन्यत् प्रार्थयामि ?” इति।

एतत् श्रुत्वा शुभदासः स्तम्भितः जातः।

अनुशासनम्

इराकदेशस्य एकस्मिन् लघुपत्तने एकस्यां पाठशालायां हसन अब्दालिः अध्यापकः आसीत्। तस्य धारणा आसीत् यत् बालानां शिक्षणे अनुशासने च अहम् एव समर्थः इति।

कश्चित् बालकः एकनिमेषं यावत् विलम्बेनआगमिष्यति चेत् तस्मै चतुर्वारं वेत्रप्रहारः ! पाठनसमये कश्चित् क्षौति चेत् सर्वैः हस्तौ। बद्ध्वा उत्थातव्यम् आसीत्। अनन्तरं सर्वैः सामूहिकतया प्रार्थना करणीया आसीत्– “देवः सर्वान् क्षाम्यतु” इति।

अब्दालेः मित्राणि कदाचित् तं बोधितवन्तः– “अनुशासनस्य नाम्नि एवं कठोरदण्डनं न उचितम्। कठोरदण्डनेन प्रगतिः किं, बालाः पूर्वापेक्षया दुष्टाः भविष्यन्ति" इति। किन्तु अब्दालिः एतत्सर्वं नअङ्गीकरोति। सः स्वकीयं व्यवहारं समर्थयन् कथयति– “यदि वेत्रप्रहारस्य स्मरणं न भवति तर्हि बालाः श्रद्धयान पठन्ति एव।यदा एकः क्षौति तदा सर्वे उत्थाय हस्तौ बद्धवा तिष्ठन्ति। एतेन नियमेन सर्वेषु एकताभावः जागरितः भविष्यति" इति।

नूतनस्य एतस्य अध्यापकस्य शिक्षणपद्धतिं बहवः पालकाः प्रशंसितवन्तः। ते इच्छन्ति स्म यत् एतादृशः कश्चित् अध्यापकः बालकान्सर्वान् अनुशासनपूर्वकं पाठयतु इति।

केचन तदा तदा उच्चस्वरेण अब्दालिप्रशंसां कुर्वन्ति स्म– “एतस्य अध्यापकस्य पर्यवेक्षणेन पाठनेन च अस्मदीयाःबालकाः अल्पे एव काले पण्डिताः भविष्यन्ति। पूर्वम् अस्यां शालायां बहवः अध्यापकाः आसन्। ते सर्वे बालकान् केवलं पाठयन्ति स्म। अनुशासनपद्धतिम् एव ते न जानन्ति स्म। अनुशासनपूर्वकं पाठयितुं समर्थः कश्चित् अध्यापकः इदंप्रथमतया अत्र प्राप्तः" इति। एतत्सर्वं अब्दालिः अपि तदा तदा शृणोति स्म।

** प्रतिवर्षंसर्वे बालकाः सम्भूय विनोदयात्रार्थं नगरसमीपस्थम् उद्यानवनं गच्छन्ति स्म। एकदा एतादृशीं विनोदयात्रां समाप्य सर्वे बालकाः स्वगृहं प्रत्यागच्छन्तः आसन्। तदानीं अपराह्णः। तीव्रं सूर्यातपः बाधते। बहवः विद्यार्थिनः पिपासया पीडिताः आसन्। तेषां समीपे यत् जलपात्रम् आसीत् तत्र जलं समाप्तम् आसीत्।**

** अब्दालिः परितः स्वदृष्टिं प्रसारितवान्। समीपे एकः कूपः तेन दृष्टः। सः विद्यार्थिनः उक्तवान्– “पश्यन्तु। अत्र समीपे एव एकः कूपः दृश्यते। तत्र रज्जुः अपि दृश्यते। वयं तत्र गत्वा जलपात्रसाहाय्येन जलं स्वीकृत्य यथेष्टं पिबामः" इति। अनन्तरं सः विद्यार्थिनः कूपसमीपं नीतवान्।**

** सः कश्चन पुरातनः कूपः। कूपस्य अन्तः जलं तु आसीत्। किन्तु तत्र शिलाः यथेष्टं पतिताः आसन्। अतः महता प्रयत्नेन अपि जलपात्रद्वारा जलं प्राप्तुं तैः न शक्तम्।**

** तदा अब्दालिः विद्यार्थिनः उक्तवान्– “अहं कूपे अवतरामि। अधः गत्वा जलपात्रं पूरयामि। भवन्तः रज्जुसाहाय्येन तत् जलं उपरि आनयन्तु। अन्ते रज्जुसाहाय्येन अहम् अपि उपरि आगच्छामि" इति।**

** एवम् उक्त्वा सः रज्जुंस्वकटिप्रदेशे बद्धवान्। विद्यार्थिनः रज्जुसाहाय्येन तं क्रमशः कूपे अवतारितवन्तः। अब्दालिः कूपस्य अन्तः गत्वा दृष्टवान्–**

तत्र एका विशालशिला जलस्य मध्ये पतिता अस्ति। सः प्रयत्नेन तां शिलां पार्श्वेस्थापितवान्। जलपात्रं जलेन पूरितवान् च। अनन्तरं कटिप्रदेशे बद्धायाः रज्जोः ग्रन्थिं निष्कास्य तत्र जलपात्रं बद्धवान्। जलपूर्णं तत् पात्रं बालाः उपरि आकृष्टवन्तः।

एवं पञ्चवारम् अब्दालिःजलपात्रं पूरयित्वा दत्तवान्। सर्वे अपि बालाः यथेष्टं जलं पीतवन्तः।

अन्ते जलपात्रं विमोच्य केवलां रज्जुं कूपस्य अन्तः प्रेषितवन्तः।

अब्दालिःरज्जुं स्वकटिप्रदेशे सुदृढं बद्धवान्। बालकाः जागरूकतया उपरि आक्रष्टुम् आरब्धवन्तः। तटं प्राप्तुम् इतोऽपि किञ्चित् अन्तरम् अवशिष्टम् अस्ति। तावति काले विद्यार्थिषु कृतः कस्यचित् क्षुवशब्दःश्रुतः। पुनश्च किं वक्तव्यम् ! अध्यापकम् उपरि आनेतुं प्रवृत्ताः बालाः सर्वे क्षुवशब्दश्रवणमात्रेण हस्तौ बद्धवा स्थित्वा एककण्ठेन उक्तवन्तः -“देवः सर्वान् क्षाम्यतु" इति।

यद्यपि विद्यार्थिभिः आत्मना कृतं अविवेकयुतकार्यं तत्क्षणे एव ज्ञातम्। किन्तु तावति काले अध्यापकः कूपे पतितः आसीत्।

शिलाघर्षणेन अब्दालेःकटिप्रदेशे असह्या वेदना उत्पन्ना आसीत्।

अब्दालिः वेदनया पीडितः उच्चैः आक्रोशनम् आरब्धवान्। दिग्भ्रान्ताः बालाः पथिकान् साहाय्यम् याचितवन्तः। आक्रोशनं श्रुत्वा केचन तत्र आगतवन्तः। महता कष्टेन अब्दालिम् उपरि आनीतवन्तः।

चिकित्सार्थम् अब्दालिः चिकित्सालयं नीतः। एकमासपर्यन्तम् अब्दालिः चिकित्सालये स्थितवान्। तत्र औषधोपचारेण सः स्वस्थः जातः।

एतदनन्तरम् अब्दालिः अनुशासननाम्ना विद्यार्थिनां दण्डनं परित्यक्तवान्। सः ज्ञातवान्यत् अनुशासनं नाम कठोरदण्डनं न। अनुशासनभावना छात्राणां मनसि स्वयम्उत्पन्ना भवेत् इति।

असन्तृप्तिः

कस्मिंश्चित् ग्रामे केशवः नाम कश्चित् निरुद्योगी आसीत्। सः एकदा तत्रत्यधनिकस्यगृहं गत्वा उद्योगं प्रार्थितवान्। अनन्तरं प्रवृत्तेन वार्तालापेन सन्तुष्टःधनिकः– “भवान् वेतनत्वेन कति रूप्यकाणि इच्छति?” इति पृष्टवान्।

केशवः’भवतः इच्छा’ इति उक्तवान्। तदा धनिकः ‘तथा मास्तु। भवतः जीवनार्थं कति रूप्यकाणि आवश्यकानि इति वदतु’ इति पृष्टवान्। केशवः किञ्चिदालोच्य ‘द्विशतं रूप्यकाणि ददातु’ इत्युक्तवान्। ‘तथास्तु। श्वः प्रातः कार्यारम्भं करोतु’ इत्युक्तवान् धनिकः। तदा केशवः असन्तुष्टः सन् “मया द्विशतं पृष्टम्। त्रिशतं प्रष्टुमपि अवकाशः आसीत्। इदानीं पुनः गत्वा प्रष्टुं न शक्यते” इति चिन्तयन् बहुधा व्याकुलितः अभवत्।

परेद्युः केशवः धनिकस्य गृहं गत्वा कार्यं कर्तुम् अनुमतिंप्रार्थितवान्। तदा धनिकःम्लानेन मुखेन एवम् उक्तवान्– “भोः, अन्यथा मा भावयतु। एतानि दशरूप्यकाणि स्वीकृत्य गच्छतु। यतः पूर्वं यः कर्मकरः आसीत् स एव पुनः क्षमायाचनां कृत्वा कार्यं कर्तुम् आरब्धवान्” इति।

केशवः दशरूप्यकाणि स्वीकृत्य उक्तवान्– “भोः, भवतां गृहे कार्यं नास्ति इति श्रुत्वा मम बहु सन्तोषः अभवत्।”

‘किमर्थम्’ इति आश्चर्यचकितः धनिकः पृष्टवान्।

“कारणं न वदामि। किन्तु एकं विषयं निवेदयामि। कृपया इतःपरं भवता वेतनविषये कर्मकराः कदापि नैव प्रष्टव्याः। तेषां कार्यकुशलतां दृष्ट्वा भवान् एव तेषां वेतनं निश्चिनोतु’ इति केशवः उक्तवान्।

केशवेन किमर्थं तथा उक्तम् इति धनिकः ज्ञातुं न शक्तवान्।

अवमानः

कमलपुरस्य निवासी भूपालःस्वपुत्रीं गार्गेयपुरस्य वरप्रसादस्य पुत्राय दातुम् इच्छति स्म। वरप्रसादस्य परिवारसदस्याः सर्वे आगत्य वधूं दृष्टवन्तः। वधूं सर्वे अङ्गीकृतवन्तः। वरप्रसादस्य सम्पत्या भूपतिः अपि सन्तुष्टः।

अनन्तरं सः एकदा विवाहनिश्चयार्थं मित्रेण राघवेण सह वरप्रसादस्य गृहं गतवान्। वरप्रसादेन ग्रामीणाः त्रिचतुराःआहूताः आसन्। वरदक्षिणादिविषये वार्तालापः सञ्जातः। तावति काले वरप्रसादस्य पुत्री रुदती तत्र आगतवती। सा अपि विवाहयोग्या आसीत्।

वरप्रसादः पुत्रीं रोदनकारणं पृष्टवान्। सा अश्रुणि मार्जयन्ती उक्तवती– “यदा अहं देवालयतः आगच्छन्ती आसम् तदा नारायणः मम वेणीं गृहीत्वा आकृष्टवान्” इति।

“स च दुष्टः इति ख्यातः। भवती किमर्थम् एकाकिनी गतवती?” इति वरप्रसादः पुत्रीं तर्जितवान्।

“मया बहुवारम्उक्तम्। तथापि भवती एकाकिनी एव गतवती” इति वरप्रसादस्य पुत्रः अपि स्वभगिनींतर्जितवान्।

तदा “वरप्रसादमहोदय ! पुनः मिलामः” इति वदन् सर्वैः निषिध्यमानः अपि भूपालः प्रस्थितः एव।

मार्गे राघवः भूपालं पृष्टवान्– “भवान् किमर्थम् अकस्मात् उत्थय आगतवान्?” इति।

“स्वगृहस्य कन्यायाः अपमाने प्रवृत्ते अपि, सर्वे असहायाः इव तूष्णीं स्थितवन्तः। भविष्ये या स्नुषा भविष्यति तस्याः परिस्थितिः अपि एवमेव किल? अतः अहं मम पुत्रीं एतत्गृहाय दातुं न इच्छामि” इति उक्तवान् भूपालः।

बुद्धिमत्ता

केशवपुरस्य भूस्वामी अश्वारोहणे मृगयायां मल्लविद्यायां च अतीव आसक्तः आसीत्। सः स्वशासनान्तर्गतेषु ग्रामेषु मल्लशालाः व्यायामशालाः च स्थापितवान् आसीत्। किन्तु सामान्यविद्यादानार्थं काऽपि शाला न आसीत्।

** कदाचित् एषः पार्श्वग्रामस्य गोपपुरस्य भूस्वामिना मेलिंतु गतवान्। अनन्तरं तेन सह बहुषु ग्रामेषु अटितवान्। तेषु ग्रामेषु बालानां विद्याभ्यासार्थं गोपपुरस्य भूस्वामी अनेकाः पाठशालाः व्यवस्थापितवान् आसीत्। एतत्सर्वं दृष्ट्वा केशवपुरस्य भूस्वामी बहु प्रभावितः। स्वग्रामेषु अपि पाठशालाः आरम्भणीयाः इति सः निश्चितवान्।**

स्वग्रामम् आगत्य केशवपुरस्य भूस्वामी स्वसहायकं बृहस्पतिं गृहम् आगन्तुं सूचितवान्। अनन्तरम् उक्तवान् च– “अस्माकम् अधीने ये ग्रामाः सन्ति तेषु बालानां विद्याभ्यासार्थं पाठशालानां व्यवस्था करणीया। व्ययविषये चिन्ता मास्तु। भवान् शीघ्रतिशीघ्रं पाठशालाः उद्घाट्य अध्यापकान् नियोजयतु” इति।

बृहस्पतिः अपि भूस्वामी इव मृगयायां मल्लविद्यायां च अत्यासक्तः आसीत्। अतः पाठशालानाम् उद्घाटनविषये तस्य न तथा आसक्तिः। तथापि भूस्वामिनः आदेशः पालनीयः एव किल? अतः सर्वत्र गत्वा पाठशालानाम् आरम्भार्थं व्यवस्थां कृतवान्। किन्तु अध्यापकानां नियुक्तिविषये समस्या आगता। सर्वासां शालानां कृते एकदा एव अध्यापकाः कुतः लभ्येरन् ?

बृहस्पतिः एतद्विषये भूस्वामिनं पृष्टवान्। पर्यालोचनानन्तरं सर्वत्र घोषणा कृता यत्- इदानीं व्यायामशालायां ये अध्यापकाः सन्ति ते एव दिने पाठशालायां पाठयेयुः, सायं व्यायामशालायां पाठयेयुः इति।

एवं क्रमेण केशवपुरस्य भूस्वामी स्वाधीन—ग्रामेषु व्यवस्थां कृतवान्।एकवर्षानन्तरं शालानां परिवीक्षणार्थं बृहस्पतिं प्रेषितवान् च।

बृहस्पतिः प्रथमं गालवपल्लीं गतवान्। तत्र पाठशालायाः परिवीक्षणं कृतवान्। पाठशालायाः परिस्थितिः शोचनीया आसीत्। केचन विद्यार्थिनः क्रीडन्ति, केचन कोलाहलं कुर्वन्ति च। केचन निद्रां कुर्वन्ति ! अध्यापकः अपि आसन्दे उपविष्टः निद्रायां मग्नः आसीत्।

बृहस्पतिः शालायाः परिस्थितिं दृष्ट्वा कुपितः। सः साक्षात् गत्वा निद्रामग्नम् एकं बालकम् उत्थाप्य– “अये, निद्रां कर्तुम् अत्र आगतवन्तः वा भवन्तः?” इति वदन् तं मुष्टिप्रहारेण सम्यक् ताडितवान्। अनन्तरं पार्श्वेउपविष्टम् अन्यं बालकं पृष्टवान्– “भवतः परीक्षां करोमि इदानीम्। अये, वदतु, महाभारतं रामायणं च कः लिखितवान्?” इति।

बृहस्पतेः कोपमिश्रितवचनेन भीतः सः बालकः कम्पमानः उक्तवान्- “श्रीमन् ! क्षाम्यतु

माम्। मया तौ ग्रन्थौ न लिखितौ” इति।

एतेन उत्तरेण बृहस्पतेः कोपः प्रवृद्धः। सःअध्यापकस्य स्कन्धे ताडयन् तम् उत्थापितवान्, पृष्टवान् च– “अये ! छात्रान् भवान् किं पाठितवान्? अहम् एकं बालकं पृष्टवान् रामायणं भारतं कः लिखितवान् इति। सः वदति– मया न लिखितम् इति। किं एतत्?” इति।

अकस्मात् उपस्थितं बृहस्पतिं दृष्ट्वा अध्यापकस्य निद्रामदःअपगतः। सः करयोजनपूर्वकं प्रणम्य भयेन भक्त्या च उक्तवान्– “महानुभाव ! क्षाम्यतु भवान्। निद्रामग्नः सः किमपि जल्पितवान् स्यात्। मम तु विश्वासः यत् ग्रन्थद्वयं तेन एव लिखितं स्यात् इति। इतः परम् एवं न लेखनीयम् इति तम् अहं सूचयिष्यामि” इति।

एतेन उत्तरेण बृहस्पतेः कोपः पूर्वापेक्षया अधिकं जातः। सः कोपेन ज्वलन् इव प्रधानाध्यापकस्य प्रकोष्टं गतवान्। तत्र प्रवृत्तं सर्वम् उक्त्वा पृष्टवान्– “पाठशालायाः शिक्षणम् एतावत् दुर्बलं स्यात् इति मया ऊहितम् अपि

न। भवान् किं वदति एतद्विषये?” इति।

** प्रधानाध्यापकः भीत्या उक्तवान्– “श्रीमन्, भवान् अन्यथा न चिन्तयतु। अस्य ग्रामस्य जनाःन तथा बुद्धिमन्तः। भवता यः कठिनः प्रश्नः पृष्टः तस्य उत्तरम् एते मुग्धाः बालाः कथं वदेयुः? चिन्ता मास्तु। अहं बालान् एतद्विषये सम्यक् बोधयिष्यामि। रामायणं भारतं च भवता वा भूस्वामिना वा लिखितं स्यात् किल?” इति।**

** एतत् उत्तरं श्रुत्वा बृहस्पतिः न ज्ञातवान् यत् प्रतिक्रियारूपेण कोपः प्रदर्शनीयः, उत हासः प्रदर्शनीयः, अथवा रोदनं करणीयम् इति। “एतादृशशिक्षणेन का प्रगतिः साधयितुं शक्येत?” इति चिन्तयन् बृहस्पतिः केशवपुरं प्रत्यागतवान्। प्रवृत्तं सर्वंभूस्वामिने निवेदितवान् च– “श्रीमन् ! एकवर्षपूर्वं स्थापितानां शालानां परिवीक्षणं कर्तुम् इच्छन् अहं गालवपल्लीं गतवान्। तत्रत्या परिस्थितिः ‘अतीव शोचनीया अस्ति। अध्यापकस्य प्रधानाध्यापकस्य विद्यार्थिनां च बुद्धिस्तरः समानः अस्ति। अहं तत्र गत्वा पृष्टवान् यत् रामायणं महाभारतं च कः लिखितवान् इति। किन्तु एकः अपि रामः रामायणं लिखितवान्, भरतः महाभारतं लिखितवान् इति समीचीनं उत्तरं वक्तुं न शक्तः। कीदृशी दुरवस्था एषा !” इति।**

** भूस्वामी सहानुभूतिं प्रदर्शयन् उक्तवान्– “श्रेष्ठकवीनां रामभरतादीनां विषये अपि ते बालाः न जानन्ति इति तु खेदस्य विषयः। तथापि चिन्ता मास्तु। परीक्षासन्दर्भे साहाय्यार्थं शुनकानां पर्यवेक्षकं भैरवाचार्यं, अश्वरक्षणे दक्षं अश्वपतिं, अन्यं मल्लं च प्रेषयामि। भवता सह आगच्छन्तः एते अपि कुशलतापूर्वकं प्रश्नान् प्रष्टुं शक्नुवन्ति। एतत्कार्यार्थम् इतोऽपि लक्षरूप्यकात्मकं व्ययं कर्तुं मम अनुमतिः अस्ति” इति।**

** भूस्वामिनः वचने स्वसम्मतिं सूचयन् बृहस्पतिः सन्तोषपूर्वकं शिरः चालितवान्।**

धनस्यूतः

** कस्मिंश्चित् ग्रामे अब्दुलरसूलनामकः युवकः आसीत्। सः निर्धनिकदम्पत्योः पुत्रः आसीत्। रसूलस्य पिता परिश्रमेण किञ्चित् सम्पादयन् कुटुम्बपोषणं करोति स्म।**

** रसूलःयदा षोडशवर्षीयः जातः तदा तस्य माता दिवङ्गता। अनन्तरं षण्मासाभ्यन्तरे तदीयः पिता अपि दिवङ्गतः।**

** मातापित्रोः मरणानन्तरं ग्रामे निवसितुं रसूलः न अपेक्षितवान्। एकाकिता अत्र तं बाधते स्म। अपि च महता परिश्रमेण कार्ये कृते अपि उदरम्भरणार्थं कष्टम् अनुभोक्तव्यम् आसीत् एव। सः श्रुतवान् आसीत् यत् दूरे नगरे परिश्रमेण यथेष्टं धनं प्राप्नुवन्ति इति। अतः सः चिन्तितवान्– ‘यदि अहं नगरं गमिष्यामि तर्हि मम दैवम् अनुकूलकरं भवेत्’ इति। अतः सः स्वग्रामं त्यक्त्वा नगरं गतवान्।**

** नगरे सः प्रसिद्धवणिजः गृहे कार्यं प्राप्तवान्। नगरस्य अनेकमार्गेषु तस्य वणिजः आपणाः आसन्। रसूलस्य कार्यं तु आपणात् आपणं प्रति वस्तूनां प्रापणम्।**

** रसूलः श्रद्धया परिश्रमेण च कार्यं करोति स्म। सम्पादिते धने सञ्चयः कथं करणीयः इति सः सदा चिन्तयति स्म। आहारे अपि सः मितव्ययं करोति स्म। विरामादिदिनेषु मनोरञ्जनार्थं व्ययं न करोति स्म। एवं तस्य जीवनं अतीव सरलम् आसीत्। प्रतिमासं रसूलः वेतनरूपेण यत् धनं प्राप्तोति, तत्र व्ययम् अतिरिच्य अवशिष्टं धनं सर्वं सः एकस्य धर्मगुरोः हस्ते समर्पयति स्म। एवं क्रमेण दशवर्षेषु सः गणनीयप्रमाणेन धनं सङ्गृहीतवान्।तदा तस्य मनसि एकः विचारः आगतः– “मया किमर्थं वा ग्रामं गत्वा अल्पप्रमाणेन वाणिज्यम् नकरणीयम्” इति।**

** एवं चिन्तयित्वा सः धर्मगुरोः समीपं गतवान्। स्वकीयं विचारं निवेदितवान् च। धर्मगुरुः"भवान् कार्ये साफल्यं प्राप्नोतु” इति आशिषा अनुगृहीतवान्। तदीयं सञ्चितं धनं सर्वंप्रत्यर्पितवान् च।**

** रसूलः धनम् एकस्मिन् स्यूते स्थापयित्वा दृढं बद्ध्वा अपरस्मिन् दिने प्रातःकाले स्वग्रामं प्रति प्रस्थितः। मध्याह्नपर्यन्तं सः अविरतं गच्छन् एव आसीत्। यदा सूर्यातपस्य पीडा अधिका जाता तदा– ‘इतःपरम् एतं धनस्यूतं स्वीकृत्य पादाभ्याम् एव अग्रेगन्तुं न शक्यते एव’ इति भावना उत्पन्ना। किञ्चित् विश्रान्तिसुखम् अनुभोक्तव्यम् इति सः चिन्तितवान्। किन्तु मार्गस्य पार्श्वयोःकेवलं खर्जूरवृक्षाः ! छायासहितः एकः अपि विशालवृक्षः न दृश्यते। रसूलः खर्जूरवृक्षस्य अल्पच्छायायाम् एव उपविश्य स्वचर्मस्यूते विद्यमानं जलं पीतवान्।**

** तदा तेन एव मार्गेण आगच्छतं कञ्चित् अश्वारोहिणं सः दृष्टवान्। यदा अश्वारोही समीपम् आगतवान् तदा रसूलः पृष्टवान्– ‘मित्र ! भवान् कुत्र प्रस्थितः?" इति। अश्वारोही अश्वंस्थगयन् उक्तवान्– “समीपे विद्यमानस्य ग्रामस्य मार्गेण मदीयं नगरं गमिष्यामि। अहं तस्मिन् नगरे उद्योगी अस्मि" इति।**

** अश्वारोहिणः एतत् उत्तरं श्रुत्वा रसूलःबहु सन्तुष्टः। सः सन्तोषेण उक्तवान्–“अहो ! भाग्यम् एतत्। तस्मिन् ग्रामे विद्यमानस्य धर्मशालायाः स्वामी मम बन्धुः। भवान् एतं स्यूतं नीत्वा तस्य धर्मशालास्वामिनः हस्ते दातुं शक्नोति वा? यदि भवान् एवं करोति अहम् उपकृतः भविष्यामि। अहं सायङ्कालतः पूर्वं तत्र गत्वा एतं मम स्यूतं स्वीकरिष्यामि। एतं नेतुम् अहं कष्टम् अनुभवन् अस्मि" इति।**

** रसूलस्य वचनानि श्रुत्वा उच्चैः हसन् अश्वारोही उक्तवान्– “मित्र ! स्यूतनिर्वहणे भवान् कष्टम् अनुभवति किल? यदि अहं तत् स्वीकरोमि तदा मम अश्वःअपि कष्टम् अनुभवति। भवान् अन्यथा न चिन्तयतु।**

अहं भवदीयं कार्यं कर्तुं न शक्नोमि" इति एवम् उक्त्वा सः ततः त्वरया गतवान् च।

** रसूलःनिराशः। सः चिन्तितवान्– “कीदृशाः जनाः भवन्ति लोके? परोपकारस्य बुद्धिरेव नास्ति किल? अल्पसाहाय्यं कृतं चेत् किं नश्यति एतेषाम्?" इति।**

** अश्वारोही यदा किञ्चित् अग्रे गतवान् तदा तस्य मनसि एकः विचारः समुत्पन्नः– “अहं तस्य पथिकस्य स्यूतम् अस्वीकुर्वन् मूर्खताम् आचरितवान्। कदाचित् तस्मिन्स्यूते अमूल्यवस्तूनि अपि भवेयुः। विनाश्रमं धनं सम्पादयितुम् एषः एव सदवकाशः। मां कः वाअवरोद्धं शक्नोति" इति। एवं चिन्तयित्वा सः रसूलसमीपं प्रस्थितः।**

** एतस्मिन् एव समये रसूलस्य मनसि अपि विचारः उत्पन्नः- “कीदृशः मूर्खः अहम्! दशवर्षेषु परिश्रमेण यत् सम्पादितवान् तत्सर्वम् अपरिचितस्य कस्यचित् हस्ते अविचार्य एव समर्पयितुम् उद्युक्तः! यदि सः लोभवशंगतः धनं स्वीकृत्य पलायनं कुर्यात्, तर्हि अहं किं कर्तुं शक्नोमि? इतोऽपि काश्चन घण्टाः यावत् अहं स्यूतं वोढुं न शक्नोमि?” इति।**

** तावतिकाले अश्वारोही समीपम् आगत्य उक्तवान्– “मित्र! भवतः प्रार्थनाविषये अहं पुनरपि चिन्तितवान्। ‘भवतः उपकारः मम कर्तव्यम्’ इति अहं निश्चितवान्। अतः स्यूतं ग्रामं प्रापयामि। ददातु तावत्" इति।**

** अश्वारोहिणः मनोभावं रसूलः ज्ञातवान् एव। ‘मदीयं धनम् अपहर्तुम् एव एषः प्रत्यागतवान् अस्ति। अतः उपायेन एषः वञ्चकः निवारणीयः’ इति चिन्तितवान् रसूलः।**

** अतः सः मन्दहासं प्रकटयन् उक्तवान्– “मित्रवर! भवतः गमनानन्तरं मया अपि विचारः कृतः। स्वयं स्यूतस्य नयनम् एव सर्वरीत्या अपि हितकरम् इति निश्चित मया” इति।**

** उभौ अपि अपरस्य मनसि विद्यमानं भावं परस्परं ज्ञातवन्तौ। पुनश्च किं वक्तव्यम्? अश्वारोही मौनं स्वमार्गे गतवान्।**

गृहस्य रक्षणम्

राजपुरग्रामे शिवप्रसादः इति कश्चित् गृहस्थः आसीत्। सः ग्राममध्ये सुन्दरं सुदृढं च एकं विशालगृहं निर्माय तस्मिन् वसति स्म। सः कर्मकरैः सह स्वयम् अपि कर्मकरः इव कार्यं कुर्वन्, यौवनसमये बहुपरिश्रमपूर्वकं सम्पादितेन धनेन अतिजागरूकतया गृहनिर्माणं कारितवान्। अतः सः तत् गृहं स्वप्राणवत् भावयन् प्रीत्या तस्य रक्षणं करोति स्म।

एकदा शिवप्रसादस्य पत्नी सुन्दरवल्ली पतिम्– “अस्माकं ग्रामस्थाःकेचन परस्परं समालोच्य काशीयात्रार्थं व्यवस्थां कृतवन्तः सन्ति। यात्रासमये अनेकपुण्यक्षेत्राणां दर्शनं भविष्यति। अनेकदेवतानां सेवाभाग्यं लभ्यते।परिचितजनैः सह गमनेन प्रयाणं सुखकरं सन्तोषयुक्तं च भविष्यति। एतादृशः अवकाशः पुनः दुर्लभ एव। अतः आवाम् अपि गच्छावः वा?" इति पृष्टवती।

शिवप्रसादः औदासीन्येन “एतादृशं बृहद्गृहं त्यक्त्वा कीदृशी यात्रा भोः! काशीयात्रां समाप्य पुनः प्रत्यागमनार्थं न्यूनातिन्यूनं षण्मासाः अपेक्षिताः भवेयुः। तावत्पर्यन्तं गृहस्य रक्षणं कः करोति?” इति उक्तवान्।

पत्युः वचनं श्रुत्वा सुन्दरवल्ली क्रोधेन– “भवतः प्राणाः एव अस्मिन् गृहे प्रतिष्ठापिताः इति भाति। दूरनगरेषु उद्योगान् कुर्वन्तः पुत्राः तत्र तत्रैव स्थिरतया निवसन्ति। तेषां तु अस्य गृहस्य आवश्यकता एव नास्ति। ‘अस्माभिः सह एव तिष्ठतु’ इति ते पुनः पुनः आग्रहं कुर्वन्ति। ‘एतद् गृहं विक्रीय पुत्रैः सह वसावः’ इति अहम् अपि पुनः पुनः वदामि। भवान् तु बधिरः इव तिष्ठति। गृहस्य विक्रयणार्थम्एषः युक्तः कालः। गृहरक्षणस्य चिन्ता अपि परिहृता भवति। यात्रार्थं पर्याप्तं धनम् अपि लभ्यते। यात्रातः प्रत्यागमनानन्तरं पुत्रैः सह

निश्चिन्ततया स्थातुम् अपि शक्यते" इति उक्तवती। तदा शिवप्रसादः पत्नीम् उग्रदृष्टया पश्यन्– “किं वदति भवती? मम जीवितकाले गृहस्य विक्रयणं सर्वथा असाध्यम्” इति गर्जितवान्।

** तथापि सुन्दरवल्ली सुदृढं प्रतिवादं कुर्वती “अहं कियद्वारं भवन्तं यात्रार्थं याचितवती? भवान् तु सर्वदा गृहं गृहम् इति जपति। इदानीम् अपि एतादृशयात्रादिकं कृत्वा यत्किञ्चित् पुण्यसम्पादनं न कुर्वःचेत्, किं वृद्धावस्थायां कर्तुं शक्यते वा? यदि भवान् पृच्छति, तर्हि मम अनुजः आवयोः प्रत्यागमनपर्यन्तं गृहस्य रक्षणं न कुर्यात् वा? अथवा भवतः भागिनेयः अस्ति खलु? सः भवतः वचनं तिरस्करोति वा?" इति पृष्टवती।**

** शिवप्रसादः पत्नीं नेत्राभ्यम् एव दहन् इव पश्यन् “यदि अवश्यं गृहं त्यक्त्वा गन्तव्यं भवति, तर्हि तालेन कीलयित्वा गच्छामि। किन्तु कदाचित् अपि मम गृहे बन्धूनां पादस्पर्शस्य अपि अवकाशं न दास्यामि" इति उक्त्वा पुनः किमपि आलोचयन् “अस्तु, भवत्याः इच्छानुसारेण काशीयात्रार्थं गच्छावः" इति उक्त्वा, उत्तरक्षणे एव गृहतः बहिः निर्गतः कुत्रचित् गतवान्।**

** तदा सुन्दरवल्ली अपारं सन्तोषं प्राप्तवती। शिवप्रसादः गृहतः साक्षात् गच्छन् धनिकस्य वरदराजस्य गृहं प्राप्तवान्। “अहं काशीयात्रार्थं गच्छन् अस्मि। अतः मम गृहम्आधिरूपेण गृहीत्वा द्विसहस्ररूप्यकाणि ऋणरूपेण मह्यं ददातु" इति धनिकं शिवप्रसादः पृष्टवान्।**

** धनिकः वरदराजः मनसि अपारं सन्तोषम् अनुभवन् अपि, मुखे औदासीन्यं प्रकटयन् ‘एवम् आधिरूपेण ग्रहणं किमर्थं भोः? व्यर्थः वृद्धिभारः खलु? गृहस्य विक्रयणम् एव करोतु ! यदि भवान् इच्छति, तर्हि ग्रामस्य ज्येष्ठानां समक्षम् उपविश्य, तैः निर्धारितम् उचित मूल्यं दास्यामि" इति उक्तवान्।**

** शिवप्रसादः भ्रुकुटिपूर्वकम् उच्चैः “व्यर्थालापः मास्तु भोः। अहं केवलम् आधिद्वारा ऋणम् इच्छामि। भवान् इच्छति चेत् ददातु। नो चेत् अन्यत्र गच्छामि" इति उक्तवान्।**

** “यथा भवान् इच्छति तथैव अस्तु। किन्तु एकं विषयं सम्यक् लक्षयतु। काशीयात्रासदृशं दुःसाध्यं कार्यं गृहीतम् अस्ति। तादृशं बृहत्गृहम्आधिरूपेण स्थापितं खलु।अतः पञ्चसहस्रं रूप्यकाणि ददामि। केवलं प्रतिशतं द्वादशपरिमितां वृद्धिं ददातु। द्विसहस्रं रूप्यकाणि कथं पर्याप्तानि भवेयुः" इति वरदराजः अवदत्।**

** ‘तथा अस्तु’ इति अङ्गीकृत्य शिवप्रसादः व्यवहारपत्रे हस्ताङ्कनं कृतवान्।**


ततः निर्गत्य शिवप्रसादः स्वीयभागिनेयस्य रङ्गराजस्य गृहं गत्वा “कि भोः रङ्गराज ! कुशलं वा? गतसप्ताहे भवान् उक्तवान् आसीत् किल, यत् स्वीयकृषिक्षेत्रस्य पार्श्वस्थानि क्षेत्राणि क्रेतुम् इच्छामि। तदर्थं वरदराजतः ऋणं स्वीकरिष्यामि इति? तत्सर्वं सुकरतया समाप्तं वा?" इति पृष्टवान्।

** रङ्गराजः दुःखेन “मातुल, यदि तत्कार्यं तथा सलीलं समाप्तम् स्यात्, तर्हि भवन्तं न वदेयम् वा? तस्मिन् धनिके तावत् औदार्यं कथं स्यात्? सः प्रतिशतं चतुर्विंशतिमितां वृद्धिं पृच्छति। तया एव चिन्तया व्याकुलितः अस्मि" इति उक्तवान्।**

** “एवं वा? तर्हि एतानि पञ्चसहस्रं रूप्यकाणि स्वीकरोतु। अहं भवतः मातुलानी च काशीयात्रार्थं गच्छावः। मम प्रत्यागमनानन्तरम् एतत् ऋणं प्रतिशतं द्वादशवृद्धिसहितं प्रत्यर्पणीयम्" इति उक्त्वा शिवप्रसादः रङ्गराजाय तत् धनं दत्तवान्। रङ्गराजः बहु सन्तुष्टः।**

** एतत्सर्वं कृत्वा शिवप्रसादः गृहम् आगतवान्। ततः पत्नीम् आहूय काशीयात्रार्थं सज्जीकरोतु इति सूचितवान्। सा पत्युः मुखं संशयेन पश्यन्ती “किं भोः ! यात्रार्थम् आवश्यकं धनं कथं सङ्गृहीतम्? गृहस्य रक्षणार्थं कः नियोजितः ?" इति पृष्टवती।**

** “एकैकः विषयः अपि वक्तव्यः वा? अहं यत् यत् कार्यं करोमि, तत्सर्वं सम्यक् पर्यालोच्य एव करोमि" इति उक्त्वा शिवप्रसादः तत् स्थानं त्यक्त्वा अन्यत्र गतवान्।**

** अनन्तरं एकसप्ताहानन्तरं तौ दम्पती अन्यैःयात्रिकैः सह काशीं प्रस्थितवन्तौ।**

षण्मासाः अतीताः। शिवप्रसादःसुन्दरवल्ली च यात्रां समाप्य प्रत्यागतवन्तौ। सुन्दरवल्ली पत्युः मुखं दृष्ट्वा गृहं प्रदर्शयन्ती “किमिदं चित्रम्? षण्मासेभ्यः एतत् मनुष्यवासरहितं गृहम् इति उच्यते चेत्को वा विश्वासं कुर्यात्? गृहं दर्पणसदृशम् अस्ति ! कुत्रापि किञ्चिदपि धूलि वा अवकरः वा नास्ति" इति उक्तवती।

शिवप्रसादः मन्दहासं प्रदर्शयन् “एतत् सर्वंवरदराजस्य अनुग्रहः" इति उक्तवान्।

सुन्दरवल्ली आश्चर्येण“अस्माकं गृहस्य रक्षणं एतावत्या जागरूकतया कर्तुं तस्य कीदृशः उत्साहः स्यात्?" इति पृष्टवती।

“तस्य बलवत् कारणम् अस्ति। इदानीम् आवां वार्धक्यसमीपं आगतवन्तौ। सत्यं खलु? यदाकदाचित् आवां पुत्राणां गृहं गच्छावः इति सः चिन्तयन् अस्ति। अतः एव यदा द्विसहस्रं पृष्टवान् तदा सः पञ्चसहस्रंदत्तवान्। यथा कथञ्चित् आगच्छावः चेत् अपि वृद्धिसहितं तावत् बृहत् ऋणं प्रत्यर्पयितुम् आवाभ्यां न शक्यते इति कल्पयित्वा, सः अस्माकं गृहस्य रक्षणं बहु समीचीनं करोति इति निश्चयं कृत्वा अहं गृहस्य कुञ्चिकां तस्य हस्ते दत्तवान्” इति शिवप्रसादः हसन् उक्तवान्।

“तदस्तु तावत्। इदानीं भवान् तावत् ऋणं कथं प्रत्यर्पयति” इति पृष्टवती सुन्दरवल्ली।

“तेन यत् धनं दत्तं, तत् तथैव अस्ति। परिश्रमेण सम्पादितं सङ्गृहीतं च यत् धनम् आसीत् तदेव काशीयात्रार्थं व्ययीकृतम्। वरदराजेन दत्तं पञ्चसहस्रं मम भागिनेयाय रङ्गराजाय अहं दत्तवान्। सः एव वृद्धिं ददाति। श्वः रङ्गराजसमीपं गत्वा वृद्धि-सहितं पञ्चसहस्रं रूप्यकाणि आनयामि। अनन्तरं तदेव वरदराजाय दत्त्वा ममगृहं वशीकरोमि " इति शिवप्रसादः गर्वेण उक्तवान्।

गृहस्य रक्षणार्थम् एतावत् बृहत् नाटकम् अभिनीतवतः पत्युः चातुर्यं दृष्ट्वा सुन्दरवल्ली सन्तोषेण पतिं बहुधा श्लाघितवती।

हासकारणम्

बहुवर्षेभ्यः पूर्वं शिवपुरं स्वर्णपुरम् इति राज्यद्वयम् आसीत्। तयोः राज्ययोः मध्ये चिरकालतःपरस्परं द्वेषः आसीत्। द्वयोः राज्ययोः बलपराक्रमाः तु समाना एव आसन्।

गच्छता कालेन स्वर्णपुरम् आर्थिकदृष्ट्या बलहीनं जातम्। तस्य फलरूपेण सेनाशक्तेः अपि ह्रासः अभवत्। तदा स्वर्णपुरस्य महाराजः विष्णुसेनः चिन्तामग्नः। शिवपुरतः राज्यस्य उपरि आक्रमणं भवेत् इति तस्य भीतिः।

शिवपुरस्य महाराजः शिवसेनः। तस्य विवाहयोग्यः पुत्रः आसीत्। विष्णुसेनस्य रत्नमञ्जरी इतिएका रूपवती पुत्री। स्वपुत्रीं शिवसेनस्य पुत्राय दत्त्वा विवाहं कारयामि चेत्युद्धस्य अपायः एव नास्ति। एवं रीत्या आलोचयन् विष्णुसेनः ‘आवां बान्धवौ भवावः’ इति सन्देशं दूतद्वारा शिवसेनं प्रति प्रेषितवान्। किन्तु ततः पूर्वम् एव शिवसेनस्य कुमारः विजयः रत्नमञ्जर्याः अनुपमसौन्दर्यवार्तां श्रुत्वा तां प्राप्तुम् अतीव उत्कण्ठितः एव आसीत्। पुत्रस्य आशां शिवसेनः अपि जानाति स्म। अतः विष्णुसेनस्य सन्देशं श्रुत्वा हृष्टः शिवसेनः विवाहस्य अनुमतिं दत्तवान्।

विवाहसम्बन्धिनां विषयानां विचारणार्थं शिवसेनः एकं भोजनसमारम्भं परिकल्पितवान्। समारम्भार्थंं विष्णुसेनः, तस्य पत्नी जयन्तीदेवी पुत्री रत्नमञ्जरी च समागतवन्तः।

भोजनसमारम्भस्य आरम्भः अभवत्। दासीजनाः विविधानि भक्ष्याणि आनीय आनीय परिवेषयन्ति स्म। तस्मिन् समये मालती इति एका दासी भक्ष्याणि परिवेषयन्ती सहसा हसितवती। तस्याः हासस्य शब्दं श्रुत्वा तत्र उपस्थिताः सर्वे स्तब्धाः जाताः। तेषु एकैकस्य अपि स्तम्भनकारणम् एकैकं आसीत्।

शिवसेनः स्वपत्न्यासह वादविवादं

करोति स्म– विवाहकाले विष्णुसेनतः उपायनरूपेण कानि कानि वस्तूनि लब्धानि भवेयुः इति। “एतावती सम्पत्तिः अस्ति। तथापि महाराजस्य ईदृशी दुराशा वा? इति चिन्तयित्वा दासी हसितवती” इति शिवसेनः तर्कितवान्।

शिवसेनस्य पत्नी शारदादेवी। तस्याः समीचीना वाक्शुद्धिः न आसीत्। अतः सा जनानां वार्तालापमध्ये अप्रविश्य मौनं इतः ततः चलति स्म। एतं विषयं स्मृत्वा मालती हसितवती इति तस्याः भावना अभवत्।

विष्णुसेनस्य चिन्ता अन्या आसीत्। शिवसेनः बलिष्ठः। अतः युद्धस्य अपायः अस्ति एव। तादृशयुद्धकाले बलहीनःअहं +नंपराजयं प्राप्स्यामि एव। तत् निवारयितुं इदानीं बन्धुत्वं प्राप्तुम् आगतवान् अस्मि अहम्। कथञ्चित् सा दासी एतं विषयं ज्ञात्वा हसितवती स्यात् इति चिन्तयतः विष्णुसेनस्य मुखं वर्णहीनं जातम्। विष्णुसेनस्य पत्न्याः जयन्ती-देव्याः मस्तके केचन श्वेतकेशाः आसन्। तेषां गोपनार्थं सा प्रतिदिनं कृष्णवर्णलेपनं करोति स्म। अद्य समारम्भार्थम् आगमनसमये त्वरया अलङ्करणं कृतवती। समीचीनतया कृष्णवर्णस्य लेपनार्थं समयः न आसीत्। अतः स्वीयकेशानाम्अव्यवस्थां दृष्ट्वा सा तथा हसितवती इति तस्याः महती लज्जा अभवत्।

राजकुमार्याः रत्नमञ्जर्याः स्तम्भनस्य कारणं अन्यत् आसीत्। सा राजकुमारं विजयं चौर्येण पुनः पुनः पश्यति स्म। तत् दृष्ट्वा एव दासी हसितवती इति सा रत्नमञ्जरी मुखम्अन्यत्र परिवर्त्तीय स्थितवती।

राजकुमारः विजयः अपि स्तब्धवान्। सः राजकुमार्या सह एकान्ते वार्तालापं कर्तुम् इच्छन्, तदर्थं दूतरूपेण एकं मित्रं प्रेषयितुम् अवकाशं निरीक्षमाणः आसीत्। एतं वृत्तान्तं ज्ञात्वा एव दासी हसितवती वा?

शिवसेनस्य सचिवः सुधर्मा अतीव बुद्धिमान् आसीत्। यदा मालती हसितवती, तदा तस्याः हासप्रभावेण तेषु सर्वेषु युगपत् जातं स्तम्भनं सः दृष्टवान्। तत्र एकैकस्य अपि भिन्नं भिन्नं स्वीयमनोभावजातं कारणं स्यात्।

दास्याः हासस्य

तु यथार्थकारणम् अन्यत् एव स्यात् इति सः तर्कितवान्।

किञ्चित्कालानन्तरं भोजनसमारम्भः समाप्तः। सुधर्मा मालतीं स्वसमीपम्आहूय “किं भोः, परिवेषणसमये अकस्मात् भवत्याः हसनस्य कारणं किम्?" इति पृष्टवान्।

तस्मिन् समये सर्वे तत्रैव आसन्। मदीयं विषयम् एव सा वदेत् इति एकैकः अपि भीतः भूत्वा ताम् उग्रदृष्ट्या पश्यति स्म। किन्तु मालती सङ्कोचेन कारणं वक्तुम् अनिच्छन्ती तूष्णीम् एव स्थितवती।

तदा सुधर्मा “पश्यतु मालती, भवती तूष्णीं तिष्ठति चेत्, अत्र उपस्थिताः सर्वे भिन्नं भिन्नम्अनुचितं च कारणं चिन्तयेयुः। अहं तु एवं तर्कयामि यत्, भवती यत्किञ्चित् स्वीयं विषयं स्मृत्वा तथा सहसा हसितवती इति। भोजनार्थं आगतान् जनान् दृष्ट्वा हसितुं दास्याः भवत्याः धैर्यं कदापिन स्यात्। अतः यथार्थकारणं वदतु" इति उक्तवान्।

मालती लज्जया अवनतमुखीभूत्वा– “भवतः कल्पना यथार्था एव अस्ति प्रभो ! मम भर्ता अतीव विस्मरणशीलः। नूतनकङ्कणानि आनयतु इति बहुदिनेभ्यः वदन्ती अस्मि। एषः पुन पुनः विस्मरति। अतः केवलं वचनेन प्रयोजनं नास्ति इति चिन्तयित्वा, अद्य अहं मम पुरातनानि चत्वारि कङ्कणानि स्मारणार्थंतस्य हस्ते धारितवती। तथापि सः अद्यापि विस्मृतवान्। एवं हस्ते स्थितानि कङ्कणानि अपि विस्मृत्य, कङ्कणसहितः एव अत्र आगतवान् अस्ति" इति उक्त्वा तत्रैव स्थितं स्वपतिं मल्लं दृष्ट्वा पुनः हसनं यथाकथञ्चित्निवारयन्ती मुखं स्वहस्तेन पिहितवती।

मल्लस्य हस्ते कङ्कणानि दृष्ट्वा, दास्याः मालत्याःवचनानि श्रुत्वा च तस्याः हासस्य कारणं सर्वे ज्ञातवन्तः। तेन सर्वेषां संशयाः परिहृताः। ते सर्वे निर्मलचित्ताः जाताः। तदा ते सर्वे युगपत् सन्तोषेण हसितवन्तः। इदानीं तेषां हसनं निर्मलम् आसीत्।

कः श्रेष्ठः?

** काशीराज्ये ब्रह्मदत्तस्य शासनसमयः आसीत्। तदा बोधिसत्वः काशीराजस्य पुत्ररूपेण अवतारं स्वीकृतवान्। सः तक्षशिलायाः विद्यापीठं गत्वा विद्यार्जनं कृतवान्। यदा सः षोडशवर्षीयः जातः, तदा सः राजनीतिशास्त्रपुराणादिषु समस्तविद्यासु पारङ्गतः अभवत्। जनकस्य मरणानन्तरं महाराजपदवीं प्राप्य, धर्मस्य किञ्चिदपि लोपम् अकुर्वन् शासनं कर्तुम् आरब्धवान्।**

** तस्य शासनकाले प्रजानां कष्टं वा दुःखं वा किञ्चिदपि न आसीत्। अशुभस्य वा अन्यायस्य वा अक्रमस्य वा कुत्रापि अवकाशः एव न आसीत्। जनाः सुखेन कालं यापयन्ति स्म। न्यायालयाःशून्याः जाताः। तेषाम् आवश्यकता एव न आसीत्। बहुवर्षाणि अतीतानि। राजास्थानं निष्क्रियं जातम्। प्रजासु परस्परं किञ्चिदपि वैमनस्यं न आसीत्। जनानां मध्ये कोलाहलः एव न दृष्टः। एतत्-सर्वंदृष्ट्वा राजा संशयग्रस्तः अभवत्। स्वीयशासनक्रमे यः कोऽपि दोषः भवेत् वा? जनाःमम विषये किं चिन्तयन्ति? न्यूनातिन्यूनं जनाः परस्परं कलहं कुर्वन्ति चेत्, तदा तेषाम्अभिप्रायान् ज्ञातुं शक्नोमि स्म। किन्तु प्रजासु एकः अपि राजास्थानस्य मार्गे अपि न चलति। एतस्यां परिस्थितौ महाराजस्थ प्रजानां च मध्ये सम्बन्धः एव नास्ति। एतत् तु न शुभलक्षणम्। किं करोमि?”**

** एवं रीत्या चिन्तयन् महाराजः स्वीयं रथम् आरुह्यकाशीनगरे सर्वत्र सञ्चरन् तत्र तत्र जनान् ‘मम शासनक्रमे यः कोऽपि दोषः अस्ति वा?" इति पृष्टवान्।**

** एवं क्रमेण सः अनेकस्थानेषु बहुजनान् पृष्टवान्। सर्वत्र अपि एकमेव उत्तरं लब्धम् “भवतः राज्ये वर्तमानाः वयं सर्वे परमसुखिनः**

स्मः। अस्माभिः कोऽपि दोषः न दृष्टः “इति।

एतावता महाराजः सन्तुष्टः न अभवत्। सः सर्वाणि राजचिह्नानि निष्कास्य सामान्यनागरिकवेषभूषणानि धृतवान्। अनन्तरम्एकं सामान्यरथम् आरुह्य नगरं त्यक्त्वा ग्रामतः ग्रामं सञ्चरितुम् आरब्धवान्। तत्र तत्र उद्यानेषु विपणिषु च प्रयाणं कुर्वन् स्वीयविषये प्रजानाम् अभिप्रायान् ज्ञातुं प्रयत्नं कृतवान्। इत्थं सः अनेकग्रामान् अटितवान्। बहुजनान् पृष्टवान्। किन्तु कुत्रापि किञ्चिदपि आक्षेपवचनं न श्रुतम्। अत्यन्तसमीचीनं शासनम् इत्येव सर्वे वदन्ति स्म।

अन्ते रथेन राज्यस्य सीमास्थानं प्राप्तम्। अनन्तरं राजा प्रत्यागमनमार्गम् अनुसृत्य ततः

प्रस्थितवान्। तदा मार्गमध्ये पुरतः अन्यः रथः आगच्छति स्म। तत्र मार्गः अतीव सङ्कुचितः आसीत्। द्वयोः अपि रथयोः युगपत् क्रमणार्थं पर्याप्तः अवकाशः तत्र न आसीत्। द्वयोः अपि पार्श्वयोः भित्तिसदृशाः शैलाः आसन्।

द्वौ अपि रथौ परस्परम्अभिमुखीकृत्य स्थितवन्तौ।

“भोः रथचालक, वयं पुरतः गन्तुम् इच्छामः। भवतः पृष्ठभागे मार्गः विशालः अस्ति। अहं प्रथमं मम रथम्अग्रे नयामि। तावत्पर्यन्तं भवतः रथं पृष्ठतः चालयित्वा पार्श्वेस्थापयतु” इति द्वितीयरथस्य सारथिः उक्तवान्।

“माम् आज्ञापयितुं भवतः कः अधिकारः अस्ति? भवान् एव भवतः रथं पृष्ठतः चालयतु। तत्रापि मार्गः विशालः अस्ति" इति शान्तस्वरेण काशीराज्यस्य सारथिः उक्तवान्।

“मम रथे कोसलमहाराजः अस्ति" इति द्वितीयरथस्य सारथिः क्रोधेन उच्चैः उक्तवान्।

काशिराज्यं यावत् विस्तृतम् आसीत्, तावदेव कोसलराज्यम् अपि विशालम् आसीत्। वयसा, विद्यया, ज्ञानेन च कोसलराजः मल्लिकः काशीराजः च समानौ। कोसलराजः अपि

वेषपरिवर्तनं कृत्वा स्वीयलोपदोषान् ज्ञातुं राजधानीतः प्रस्थाय सीमाभागपर्यन्तम् आगतवान् आसीत्।

“भवतः महाराजे अस्माकं महाराजापेक्षया गुणाधिक्यं किम् अस्ति?” इति काशीराजसारथिः पृष्टवान्।

तदा सद्यः एव कोसलराजमाथिःगीतरूपेण एवम् उक्तवान्– “दलहं दलहस्य खिपतिमल्लिको मुदुना मुदुल,साधुम्पि साधुना जेति असाधुम्पि असाधुना, एतादिसो अयं राजा मग्गा उय्याहि सारथि”

(अस्माकं मल्लिकमहाराजः दुष्टान् प्रति दुष्टः। सज्जनान् प्रति सज्जनः। सज्जनान् प्रीत्या सम्मानयति। क्रूरूपेण दुष्टनिग्रहं करोति।

तत् वचनं श्रुत्वाकाशीराजस्य सारथिः तेनैव गानरूपेण एवं रीत्या उत्तरं दत्तवान्– “अक्कोदेन जिने क्रोधं असाधुं साधुना जिने, जिने कदरियं दानेन सच्चेन अलिवादिनम्, एतादिसो अयं राजा मग्गा उय्याहि सारथि "

(अस्माकं महाराजः क्रोधं शान्त्या जयति। दृष्टान् अपि प्रीत्या वशीकरोति। बहुमानदानेन कृपणान् पराजयति। असत्यं सत्येन जयति।)

काशीराजस्य सारथेः वचनं श्रुत्वा तत्क्षणे एव कोसलराजः मल्लिकः त्वरया स्वीयस्थात् अवतीर्य आगत्य काशीराजं प्रणम्य “महात्मन्, इदानीम् अहं मम दोषंज्ञातवान्। तं लोपं समीकृत्य इतोऽपि अतिशयरूपेण धर्मेण राज्यपालनं करिष्यामि” इति उक्तवान्।

अनन्तरं काशीराजः स्वीयां राजधानीं प्रत्यागत्य, धर्मस्य सूच्यग्रमितम् अपि लोपम् अकुर्वन्, तदा तदा आत्मपरिशीलनं कुर्वन् अवतारसमाप्तिपर्यन्तं राज्यशासनं कृतवान्।

एषःस्वयं न्यायमार्गम् अनुसरन् अन्ये यथा न्यायमार्गात् च्युताः न भवेयुः तथा जागरूकः तिष्ठति स्म। तदीये शासनकाले समग्रं भूमण्डलं सुखपूर्णम् आसीत्।

कौमुदी-सोपानम्

श्रीकृष्णदेवरायः विजयनगरं परिपालयन् आसीत्। तदानीं तत्र कश्चित् प्रसिद्धः चोरः आसीत्। चोरस्य पीडा दिने दिने वर्धते स्म। ‘चोरः कथं ग्रहीतव्यः’ इति कृष्णदेवरायः अहोरात्रं चिन्तयति स्म। महाराजेन चोरग्रहणार्थं यावन्तः प्रयत्नाः कृताः ते सर्वे असफलाः एव आसन्।

कृष्णदेवरायस्य आस्थाने तेनालीरामकृष्णःकश्चित् चतुरः आस्थानिकः। ‘चोरः कथञ्चित् कारागारे स्थापनीयः’ इति रामकृष्णः चिन्तितवान्। अतः सः सर्वत्र वदति स्म यत्– ‘इदानीं मम चोरात् महती भीतिः। ‘कदाचित् सः मम गृहं प्रविशेत्’ इति मम आतङ्कः। मम गृहे पर्याप्ता सम्पत्तिः सङ्गृहीता अस्ति। एषा सम्पत्तिः कुत्र स्थापनीया इति अहं न जानामि।एतया चिन्तया इदानीं रात्रौ निद्रां कर्तुम् अपि न शक्नोमि। निद्राभावतः आरोग्यं क्षीणम्’ इति।

एवं रामकृष्णः सर्वत्र वदन् आसीत् किल। अतः ‘रामकृष्णस्य गृहे यथेष्टं धनसम्पत्तिः अस्ति’ इति वार्तां चोरः अपि ज्ञातवान्।

‘सम्पत्तिविषयं श्रुत्वा चोरः निश्चयेन चौर्यार्थंमम गृहम्आगमिष्यति’ इति रामकृष्णेन निश्चितम् आसीत्। अतः चोरः यदा आगमिष्यति तदा किं किं करणीयम् इति सः पूर्वम् एव पत्नीं सूचितवान् आसीत्।

यथानिरीक्षितं सः प्रसिद्धः चोरः एकदा रामकृष्णस्य गृहम् आगतवान्। चोरस्य निरीक्षायां रामकृष्णः जागरितः एव आसीत्। यदा गृहस्य उपरि सावधानं सञ्चरतः चोरस्य पादध्वनिः श्रुतः तदा रामकृष्णः पत्नीं संज्ञया सूचितवान्।

अनन्तरं सः कोपमिश्रितस्वरेण उच्चैः पत्नीम् उक्तवान्– “कीदृशी पीडा भवत्याः? तूष्णीं

शयनं करोतु तावत्" इति।

तदा पत्नी अपि कोपेन एव उक्तवती “कीदृशी निद्रा भवतः? निद्रासमये चोरः आगतः चेत् किं करणीयम्? मम तु भीतिः" इति।

“चोरः आगच्छतु नाम। सः आगत्य धनराशिं नयति, तावदेव किल। यदि एवं भविष्यति तदा चतुर्गुणितं धनम् आनेष्यामि चिन्ता मास्तु" इति उक्तवान् रामकृष्णः।

‘एतद्विषये प्रष्टव्यम् इति बहुकालतः चिन्तयन्ती आसम्। भवान् एवं रत्नानि सुवर्णं च आनयति किल? कुतः आनयति एतानि’ इति पृष्टवती पत्नी।

“अये, उच्चैः मा पृच्छतु। अहं चौर्येण एतानि सम्पादयामि। न्यायमार्गेण एतावत् कथं सम्पादयितुं शक्यम्?" इति पृष्टवान् रामकृष्णः।

“चौर्येण वा कुतः आनयति भवान् ! “इति पत्नी पुनः पृष्टवती। “तत्सर्वं किमर्थं भवत्याः? स्त्री रहस्यं गोपायितुं न शक्नोति। यद्यहं सत्यं वदामि तदा सा वार्ता सर्वत्र प्रसरेत्। तदा मम कारागृहवासः एव गतिः। अतः अहं किमपि न वदामि। भवती निद्रां करोतु तावत्” इति रामकृष्णः उक्तवान्।

“भवान् सर्वंवदति चेदेव अहं निद्रां करोमि। अन्यथा न। चौर्यसमये भवन्तंकोऽपि न पश्यति वा?" इति पृष्टवती पत्नी।

“स्वयं ब्रह्मा रुद्रः वा आगतः अपि मांबन्धयितुं न शक्नोति। अहं मन्त्रं जानामि किल” इति उक्तवान् रामकृष्णः।

पत्नी पुनः पृष्टवती– “कीदृशः मन्त्रः सः? वदतु तावत्" इति। रामकृष्णः उक्तवान्– “भवती तु साक्षात् पिशाची इव। गृहीतं चेत् न त्यजति एव। मन्त्ररहस्यं शृणोतु तावत्। राजभवने धनागारम् अस्ति किल? तत्र धनस्य उन्नतः राशिः एव अस्ति। धनागारे छदेःकिञ्चित् अधः मनुष्यप्रवेशयोग्यः गवाक्षः अस्ति। अहं कौमुदीयुक्तरात्रौ धनागारस्य उपरि गच्छामि। गवाक्षतः कौमुदी यावत् धनागारे न प्रसरति

तावत् प्रतीक्षां करोमि। कौमुदी यदा धनागारस्य अन्तः प्रसरति तदा “ओं भ्रान्तिः, ओं भ्रान्तिः, ओं भ्रान्तिः’ इति मन्त्रं जपामि। एतेन कौमुदी-किरणाःरज्जोः आकारं प्राप्नुवन्ति, सोपानाकारेण तिष्ठन्ति च। एतेषां साहाय्येन अहं धनागारं प्रविशामि। यावत्आवश्यकं तावत् धनं स्वीकृत्य, उपरि आगच्छामि। धनस्य चौर्यं कथं भवति इति कोऽपि न जानाति। एवं कौमुदीसोपानानाम् आधारेण अहं धनागारतः धनम् आनयामि। मां ग्रहीतुं कोऽपि न शक्नोति" इति।

“एवं वा?" इति उद्गारं प्रकटयन्ती रामकृष्णस्य पत्नी तृप्त्या निद्राम् आलिङ्गितवती। पतिपत्न्योः सम्भाषणं चोरः श्रुतवान्। सः चिन्तितवान्– “गृहस्य चौर्येण विशेषलाभः नास्ति। अतः महाराजस्य धनागारे एव चौर्यं करणीयम्" इति।

अनन्तरदिने एषः चोरः कथञ्चित् धनागारस्य छदिम् आरूढवान्। रामकृष्णेन उक्तः गवाक्षः तेन दृष्टः। सः कदा वा गवाक्षे चन्द्रकिरणाः प्रविशेयुः इति निरीक्षमाणः आसीत्। यदा किरणाः धनागारं प्रविष्टाः तदा चोरः त्रिवारम् ‘ओं भ्रान्तिः’ इति उच्चार्य गवाक्षे पादौ स्थापितवान्। किरणानां सोपानं स्मरन्धनागारे कूर्दितवान्।

तत्र वायुं विना किम् अन्यत् अस्ति ? चोरस्य प्रयत्नः विफलः जातः। पतनकारणेन चोरस्य हस्तौ पादौ च भग्नौ। अनन्तरदिने यदा धनागारस्य द्वारम् उद्घाटितं तदा चलितुम्असमर्थः चोरः तैः सैनिकैः दृष्टः। ते विनायासं चोरं बन्धितवन्तः। चोरेण पूर्वं यत्धनाधिकम् अपहृतम् आसीत् तत्सर्वं वशीकृतम्।

एतदनन्तरं रामकृष्णः राजसभायाम् चोरस्य ग्रहणे कृतम् उपायं सविस्तरं निवेदितवान्। तदा सभ्याः सर्वे उदरोपपीडं हसितवन्तः।

कुप्रसिद्धचोरस्य ग्रहणसाहाय्यं कृतवते रामकृष्णाय कृष्णदेवरायः अमूल्यानि बहुमानानि दत्तवान्।

लाभसहितं कार्यम्

वराहगुप्तः अतीवव्यवहारकुशलः। ग्रामे तस्य एकः अल्पः आपणः अस्ति।सः सर्वदा वार्तालापसमयेषु “यत् किमपि वा कार्यम् अस्तु, अहं वाणिज्यरूपेण एव करोमि। लाभरहितंकार्यम् अहं कदापि न करोमि” इति वदति।

गङ्गाधरः तस्य प्रातिवेशिकः। तस्य एकं कुतूहलम् आसीत् यत् कदा वराहगुप्तः एकं लाभरहितं कार्यं कुर्यात्, तथा कदा अहं तत् कार्यंपश्येयम् इति। किन्तु बहुकालपर्यन्तं तस्य इच्छासिद्धिः न अभवत्। तेन तस्य महती निराशा जाता। तदा सः यथाकथञ्चित् स्वयमेव प्रयत्नं कृत्वा, वराहगुप्तेन लाभरहितं कार्यम् कारयितव्यम् इति निश्चयं कृतवान्। अनन्तरं सः वराहगुप्तस्य गृहं गत्वा एकां सीवनसूचीं ददातु इति पृष्टवान्। वराहगुप्तः सूचीं दत्तवान्।

गङ्गाधरः छिन्नस्य स्वीयवस्त्रस्य सीवनकार्यं समाप्य, पुनः गत्वा वराहगुप्तय सूचीं प्रत्यर्पितवान्। वराहगुप्तः किमपि न उक्तवान्।

एवमेव अन्यदा गङ्गाधरः वराहगुप्तस्य मुद्गरं नीत्वा, दिनद्वयानन्तरं पुनः आनीय प्रत्यर्पितवान्। तदा अपि वराहगुप्तः किमपि न उक्तवान्।

तदा गङ्गाधरःतूष्णीं स्थातुम् असमर्थः सन् “वराहगुप्त ! भवता लाभरहितं कार्यद्वयम् अहं कारितवान्” इति गर्वेण उक्तवान्।

“अहं तु स्वप्ने अपि लाभरहितं कार्यं न करोमि” इति वराहगुप्तः हसन् उक्तवान्।

“भवतः सूचीम् अहं नीतवान्। तेन भवतः कः लाभः जातः?” इति पृष्टवान् गङ्गाधरः।

“प्रत्यर्पणानन्तरं सूच्यां किश्चित् सूत्रम् अवशिष्टम् आसीत्। तेन अहं मम वेष्टीं स्यूतवान्” इति उक्तवान् वराहगुप्तः।

गङ्गाधरः स्तब्धः। “तर्हि मुद्गरस्य को विशेषः?" इति पृष्टवान्।

“तस्य त्सरुः शिथिलः आसीत्। आलस्येन मया अद्यावधि तस्य समीकरणं न कृतम्। भवान् तंनीतवान्। इदानीं त्सरुः समीचीनः अस्ति" इति उक्तवान् वराहगुप्तः।

तदा गङ्गाधरः स्मृतवान् यत् यदा सः भित्तौ आणिं बद्धुंप्रवृत्तः, तदा त्सरुःअतीवशिथिलः आसीत्। तं स्वयमेव समीकृत्य अनन्तरं भित्तौआणिं योजितवान्।

महाबुद्धिमान्

शङ्करस्य वेङ्कटस्य च विश्वासः आसीत् यत् परस्परम् अहम् एव बुद्धिमान् इति। एतद्विषये एतयोः मध्ये प्रतिदिनं विवादः प्रचलति स्म।

मार्गे गच्छन् विमलदासः कदाचित् एतयोः कलहं दृष्ट्वा उक्तवान्– “अहं भवन्तौ एकं प्रश्नं पृच्छामि। यः उत्तरं ददाति सः बुद्धिमान्। यदि उभौ अपि उत्तरदाने असमर्थौ तर्हि मम एव बुद्धिमत्ता भवद्भ्यम् अङ्गीकरणीया" इति।

“अहम् अस्यां स्पर्धायां भागं न निर्वहामि” इति उक्त्वा वेङ्कटः ततः निर्गतः।

“पश्यतु। भक्तोः मध्ये वेङ्कटः एव बुद्धिमान्। मया अपि अज्ञातं प्रश्नम् अहं पृच्छेयम् इति चिन्तयन् सः इतः निर्गतः एव। प्रायः सः मम अभिप्रायं ज्ञातवान्" इति उक्तवान् विमलदासः।

अनन्तरं शङ्करः वेङ्कटस्य गृहं गत्वा प्रवृत्तं सर्वं निवेद्य उक्तवान्– “विमलदासः भवन्तम् एव बुद्धिमन्तं मन्यते” इति।

तदा वेङ्कटः आश्चर्यंप्रकटयन् उक्तवान्– “मित्र ! तत्र अकस्मात् उदरवेदना उत्पन्ना। अतः अहंमध्ये एव मौनं ततः निर्गतः। किन्तु एतेन एव विमलदासः मां बुद्धिमन्तं मन्यते किल?” इति।

“एतादृशी उदरवेदना मां सर्वदा पीडयति। किन्तु वराकी सा उदरवेदना समये न आगच्छति। पश्यतु,भवतः गमनतः किञ्चित्पूर्वंसा उदरवेदना मां यदि पीडितवती स्यात् तर्हि विमलदासः माम् एव बुद्धिमन्तम् अचिन्तयिष्यत्” इति शङ्करः खेदं प्रकटितवान्।

मन्त्रसिद्धिः

** महादेवशास्त्री इति कश्चित् पण्डितः एकं गुरुकुलं चालयति स्म। तत्र वृषभःनाम कश्चित् विद्यार्थी आसीत्। सः सर्वदा त्वराशीलः। सः चिन्तयति स्म यत् यावच्छक्यं तावत् शीघ्रं सर्वशास्त्राणि अधीत्य अन्येषां सहपाठिनाम् अपेक्षया अग्रे गन्तव्यम् इति।**

** वृषभः इच्छापूरणार्थं सर्वदा चिन्तयति स्म। किन्तु कोऽपि उपायः न स्फुरितः।**

** महादेवशास्त्रिणां गृहस्य अट्टे केचन ताडपत्राणां पुरातनग्रन्थाः आसन्। ग्रामीणानां विश्वासः आसीत् यत् ते ग्रन्थाः मन्त्रशास्त्रसम्बन्धिनः इति। ‘तेषु ग्रन्थेषु विद्यमानाः विषयाः ज्ञातव्याः’ इति वृषभस्य महती इच्छा। किन्तु एतदर्थं महादेवशास्त्रिणः अनुमतिः न आसीत्। अतः तत्रत्यछात्रेषु कोऽपि तेषां ग्रन्थानां बाह्यस्वरूपम् अपि न दृष्टवान् आसीत्। वृषभः तेषां ग्रन्थानां दर्शनेच्छाम् आत्मनि निरोद्धुं न शक्नोति स्म।**

** कदाचित् आचार्येण महादेवशास्त्रिणा राजधानीं प्रति गन्तव्यम् आपतितम्। एकसप्ताहानन्तरं प्रत्यागमिष्यामि इति उक्त्वा सः राजधानीं प्रति प्रस्थितः।**

** एषः एव सदवकाशः इति चिन्तयन् वृषभः महान्तं सन्तोषम् अनुभूतवान्।**

** तद्दिने रात्रौ सर्वे सहपाठिनः यदा निद्रामग्नाः आसन् तदा वृषभः मौनम् अट्टम् आरूढवान्। पेटिकाम् एकाम् उद्घाटय ग्रन्थम् एकं बहिः आनीतवान्। तस्य ग्रन्थस्य आरम्भे एव लिखितम् आसीत् यत् अत्रत्यमन्त्रस्य जपेन यः कोऽपि मनुष्य अपेक्षित रूपं प्राप्तुं शक्नोति इति। एतेन सन्तुष्टः वृषभः तं मन्त्रं त्रिचतुर्वारं पठन् कण्ठस्थीकृतवान्। अनन्तरं ग्रन्थं पेटिकायां यथापूर्वंस्थापयित्वा उत्साहेन अधः आगतवान्।**

** ‘अन्येषां सहपाठिनाम् अपेक्षया अहम् एव श्रेष्ठः’ इति चिन्तयतः तस्य सन्तोषस्य इदानीं सीमा एव न आसीत्।**

** अनन्तरदिने प्रातःकाले समिधः आनेतुं पूजार्थं पत्रपुष्पाणि आनेतुं च सर्वे शिष्याः अरण्यं प्रति प्रस्थिताः। आत्मना ज्ञातं मन्त्ररहस्यम्अन्तः निगूहितुम् अशक्तःवृषभः “अहम् अद्भुतमन्त्रं जानामि" इति सगर्वम् उक्तवान्। किन्तु तस्य वचने कस्य अपि विश्वासः न उत्पन्नः। सर्वे तं उपहासेन पीडयितुम् आरब्धवन्तः।**

** तदा उद्विग्नः वृषभः उक्तवान्–“यदि अहम् इच्छामि तर्हि मन्त्रद्वारा इदानीम् एव अपेक्षितं रूपं प्राप्तुं शक्नोमि” इति।**

** “एवं वा? महात्मा खलु भवान्? भवतः नाम वृषभः किल? अतः नाम्नः अनुगुणं वृषभरूपं प्राप्नोतु, पश्यामः" इति सहपाठिनः हसन्तः उक्तवन्तः।**

** वृषभः तत्क्षणे एव मन्त्रजपं कृतवान्। वृषभरूपं प्राप्तवान् च। एतेन विस्मिताः सहपाठिनः तदेकदृष्ट्या तं पश्यन्तः आसन्।**

** अत्रान्तरे समीपे एव व्याघ्रगर्जनं श्रुतम्। केचन प्राणिनः धावन्तः आगत्य ततः पलायिताः। एतत् दृष्ट्वा भीताः सन्तः सर्वे शिष्याः समीपस्थान् वृक्षान् आरूढवन्तः। वृषभरूपी वृषभः आत्मनः अविवेकितां ज्ञाप्तवान्। सः मन्त्रजपेन अपेक्षितं रूपं प्राप्तुम् उपायं जानाति स्म। किन्तु प्राणिरूपतः मनुष्यरूपं प्राप्तुं किं करणीयम् इति सः न जानाति स्म।**

** वृषभः ‘इदानीं किं करणीयम्?" इति चिन्तयन् आसीत्। तावति काले व्याघ्रः तत्र आगतः एव। व्याघ्रदर्शनेन भीतः वृषभः पृष्ठतः परिवृत्य धावितुम् आरब्धवान्। कथञ्चित् व्याघ्रमुखात् आत्मानं रक्षन् अरण्यसीमाम् अतिक्रम्य ग्रामं प्रविष्टवान्।**

** तदानीं तु मध्याह्नसमयः। बहुदूरं यावत् धावनेन वृषभः बुभुक्षया बहुधा पीडितः आसीत्। सः वृषभरूपेण आसीत् इति कृत्वा कोऽपि गृहस्थः भोजनं न ददाति किल?**

** अतः कथं बुभुक्षा निवारणीया? इति समस्या तं बाधते स्म। ‘बुद्ध्या अहं विपत्तिम् आहूतवान्। कीदृशम् अकार्यंकृतवान् अहम् ! ‘इति पश्चात्तापम् अनुभूतवान्।**

** अनिच्छन् अपि वृषभः समीपस्थं केदारं प्रविष्टवान्। अन्तः गत्वा सस्यानि खादितुम् आरब्धवान्। एतत् दृष्ट्वा कुपितः क्षेत्ररक्षकः दण्डं स्वीकृत्य धावन् आगतवान्। वृषभस्य उपरि यथेष्टं दण्डेन प्रहर्तुम् आरब्धवान् च। तदा वेदनाम् अनुभवन् वृषभःधावन् ग्रामं प्रविष्टवान्।**

** वृषभस्य कष्टम् एतावता अपि न समाप्तम्। सः ग्रामेषु मार्गे गच्छन् आसीत्। एतत् दृष्ट्वा कश्चित् दृप्तवृषभः आक्रमणं कृतवान्। तदा वृषभः पुनः धावितुम् आरब्धवान्। सः दृप्तवृषभः तु अनुधावितवान् एव। शृङ्गाभ्यां पीडयितुम् आरब्धवान् च।**

** दृप्तवृषभतः रक्षणार्थंमार्गेषु उपमार्गेषु च धावन् एषः वृषभः कथञ्चित् तस्य पीडातः मुक्तः अभवत्।**

** अनन्तरं सः कस्यचित् वृक्षस्य छायायां स्थित्वा धावनायासं परिहरन् आसीत्। तदा तद्ग्रामीणः महिषवणिक् भैरवः एतं वृषभं दृष्टवान्। एतस्य दर्शनेन एव सः ज्ञातवान् यत् एषः वृषभः अस्मदग्रामीणः न, अन्यस्मात् प्रदेशात् अकस्मात् आगतः इति।**

** भैरवः जागरूकतया वृषभसमीपम् आगत्य कदाचित् ताडयन् कदाचित् लालयन् च**

एतं वृषभं स्वगृहं नीतवान्। गोष्ठे दृढया रज्वा बद्धवान् च।

तद्दिने रात्रौ अपि वृषभः उपवासम् एव आचरितवान्। किन्तु अन्ते असहनया बुभुक्षया पीडितः अनिवार्यतया इतरगावः इव तृणानि भक्षितवान्। ‘वृषभजीवनं नरकतुल्यम्’इति सः चिन्तितवान्।

अनन्तरदिने भैरवः एतम्अन्यवृषभेण सह शकटकर्षणार्थंयोजितवान्। किन्तु एषः वृषभःअन्येन सह समवेगेन गन्तुं न शक्तवान्। भैरवः तु चतुःपञ्चदिनानि यावत् एतं शकटकर्षणं पाठयितुं प्रयत्नं कृतवान्। किन्तु सः असफलः। अन्ते निराशः सः वृषभम्अन्यस्मै विक्रीतवान्।

यः वृषभं क्रीतवान् सः एतस्य आकारेण बहु सन्तुष्टः। सः भैरवम् उक्तवान् यत् श्वः प्रातः आगत्य एतस्य नासिकायां रज्जुं योजयित्वा एतं नयामि इति।

नासारज्जुविषयं श्रुत्वा वृषभः भयेन कम्पितः। यतः सः पूर्वं स्वयं दृष्टवान् आसीत् यत् नासारज्जुयोजने कथं नासाछेदनं कुर्वन्ति, वृषभेण कीदृशी वेदना अनुभूयते च इति।

तद्दिने रात्रौ वृषभः सर्वशक्त्यारज्जुम् आकृष्टवान्। अन्ते महता प्रयत्नेन रज्जुं भञ्जयितुं सः शक्तवान्। सूर्योदयतः पूर्वं सः धावन् गुरुकुलं प्राप्तवान्।

गुरुकुलस्य आचार्यः महादेवशास्त्री राजधानीतः प्रत्यागतवान् आसीत्। सः शिष्याणां मुखतः अरण्ये प्रवृत्तं सर्वं वृत्तान्तं ज्ञातवान्। पशुरूपी वृषभः अश्रूणि मोचयन् यदा आचार्यसमीपम् आगतवान् तदा तत् दृष्ट्वा आचार्यः बहु खेदम् अनुभूतवान्। सः स्वकीयमन्त्रशक्त्या वृषभं पुनः मनुष्यरूपं प्रापितवान्।

मानवरूपं प्राप्तः वृषभः उच्चैः रोदनं कुर्वन् आचार्यस्य पादयोः पतितवान्। प्राणिरूपे अनुभूतं कष्टं सर्वंनिवेदितवान्।

एतदनन्तरं वृषभः पुनः कदापि तन्त्रशास्त्रस्य प्रस्तावं न कृतवान्। त्वराशीलतां त्यक्तवान् च।

नगरद्वयम्

पुरा एकः महान् समुद्रवणिक् आसीत्। तस्य समीपे वामाङ्गः इति एकः विश्वासार्हः दासः आसीत्। सः वामाङ्गःस्वस्वामिनः वाणज्यव्यवहारेषु नौकायानेषु च सहायकः आसीत्। तस्य सेवाद्वारा सः वणिक् स्वीयवाणिज्ये महतीं सम्पत्तिं प्राप्तवान्। तेन सन्तुष्टः सः एकां नौकां वामाङ्गाय उपायनरूपेण दत्त्वा “इतः परं भवान् स्वतन्त्रः, न मम दासः। भवान् स्वीयं वाणिज्यं करोतु। शुभं भवतु” इति शुभाशयपूर्वकं तं प्रेषितवान्।

किन्तु वामाङ्गस्य दौर्भाग्यम्। ‘प्रथमकवले मक्षिकापातः’ इतिवत् यदा सः नौकायां पण्यवस्तूनि सङ्गृह्यवाणिज्यार्थं प्रस्थितवान्, तदा प्रथमप्रयाणे एव समुद्रमध्ये सहसा उत्पन्नेन चण्डमारुतेन तदीया नौका नष्टा। सर्वे नाविकाः मृताः। सर्वाणि पण्यवस्तूनि नष्टानि। केवलं वामाङ्गः यथाकथञ्चित् तरन् कञ्चित् तीरप्रदेशं प्राप्तवान्।

सः एकः द्वीपप्रदेशः आसीत्। वामाङ्गः तीरतः द्वीपस्य अन्तर्भागं गच्छन्, एकं बृहत् नगरं प्रविष्टवान्।

नगरस्य मार्गेषु महान् जनसम्मर्दः आसीत्। ते सर्वे वामाङ्गं दृष्ट्वा एव समूहरूपेण आगच्छन्तः आसन्। यथा यथा सः गच्छति, तथा तथा ते तस्य समीपं आगच्छन्ति स्म। ‘जयतु अस्माकं महाराजः’ इति घोषवाक्यं ते सर्वे वदन्ति स्म। वामाङ्गः तु आश्चर्येण ‘एते मां दृष्ट्वा अन्यःइति भ्रान्ताः" इति चिन्तितवान्।

अल्पेएव काले तं परितः महान् समूहः सम्मिलितः। अलङ्कृतः एकः गजः तत्र आनीतः।

जनाः वामाङ्गं गजस्य उपरि अलङ्कृतपीठे उपवेशितवन्तः। अनन्तरं राजार्हसत्कारपूर्वकं

तं राजभवनं नीतवन्तः। ‘किमिदं भोः’ इति सः पुनः पुनः पृष्टवान्। किन्तु ते “तत् सर्वम् अनन्तरं वदामः" इति उक्तवन्तः।

राजभवने जनाः तस्य सर्वाणि वस्त्राणि अपनीय एकस्यां पेटिकायां स्थापितवन्तः। ततः स्नानलेपनादिकं भोजनं च कारितवन्तः। भोजनानन्तरं राजोचितः वस्त्रभूषणैः तम् अलङ्कृतवन्तः।

वामाङ्गः परितः स्थितान् जनान् दृष्ट्वा “भवन्तः किमर्थं मां राजयोग्यभूषणैः अलङ्कृतवन्तः वयं परस्परम् अपरिचिताः। प्रयाणसमये समुद्रमध्ये मम नौकाः नष्टा। दैववशात् अहम् एकाकी जीवन् तीरं प्राप्तवान्। एषा मम परिस्थितिः। उद्देशपूर्वकं अत्र अहं न आगतवान्" इति उक्तवान्।

तदा ते जनाः स्वदेशस्य विचारं सविस्तरं वर्णितवन्तः। द्वाविंशतिवर्षेभ्यःपूर्वं तस्मिन् शासनपरिपाटी न आसीत्। चिरकालतः अराजकता प्रसृता आसीत्। तदा कश्चित् प्रवासी तं द्वीपम् आगतवान्। सः शासनक्रमस्य प्रयोजनं बोधितवान्। एकः राजा राजशासनं करोति चेत्, प्रजानां जीवनक्रमः सुगमः भवति। सर्वरीतिभिः द्वीपस्य अभिवृद्धिः भविष्यति। एतादृशशासनक्रमेण अनेकेदेशाः अभिवृद्धिपथं नीताः। किन्तु राजा कदाचित् निरङ्कुशः भूत्वा प्रजाः पीडयति अपि। अतः एतदवारणार्थम्एकवर्षानन्तरं शासकः सः नृपः निष्कासनीयः। नूतनः

राजा भवतु। तादृशः राजा स्वीयः मास्तु। परकीयः राजा भवति चेत्, सः पक्षपातरहितं शासनं कर्तुं शक्नोति इति। एतैः विचारैः अत्र सर्वे जनाः आकृष्ठाः। तदारभ्य द्वीपस्थाः जनाः द्वीपम् आगतं परकीयम् एकं महाराजं कुर्वन्ति। सः एकवर्षपर्यन्तं शासनं कर्तुम् अवकाशं प्राप्नोति। वर्षानन्तरं तम् अधिकारच्युतं कृत्वा जनाः समीपस्थं द्वीपान्तरं नीत्वा परित्यजन्ति।

एवं क्रमेण तस्मिन् द्वीपे एतावत्पर्यन्तं द्वाविंशतिः महाराजाः अभवन्। इदानीं त्रयोविंशतितमः राजा।

वामाङ्गःसर्वंश्रुतवान्। सहसा प्राप्तां

राजपदवीं प्रति सन्तोषापेक्षया वर्षानन्तरं प्राप्तव्यम् अरण्यवासं प्रति भीतिः एव अधिका अभवत्। अतः सः कांश्चन भटान् गृहीत्वा द्वीपान्तरस्थितं तत् घोरारण्यं गन्तुम् अपेक्षितवान्। तत् अरण्यं जनरहितम् आसीत्। तं द्वीपं गन्तुं नौकाव्यवस्था आसीत्।

वामाङ्गः भटैः सह नौकाद्वारा तत् अरण्यं गतवान्। सप्ताहपर्यन्तं तत्रैव स्थित्वा सम्पूर्णम् अरण्यप्रदेशं परिशीलितवान्। सः प्रदेशः इदानीं मनुष्याणां वासयोग्यः न आसीत्। किन्तु तत्र बहवः फलपुष्पभरिताः वृक्षाः आसन्। भूमिः फलवती कृषियोग्या च आसीत्। तत्र कण्टकगुल्मादिकं नाशयित्वा एकं सुन्दरं नगरं निर्मापयितुं शक्यते इति वामाङ्कः निश्चितवान्।

वामाङ्गस्य प्रयत्नेन एकवर्षावधौ तत् अरण्यं फलपुष्पवटिकासहितनगररूपेण परिवर्तितम्।

तस्मिन् नगरे सुन्दराणि गृहाणि बृहद्भवनानि च निर्मितानि आसन्। तस्य नगस्स्य निर्माणार्थं ये परिश्रमं कृतवन्तः, ते सर्वे तत्रैव स्थातुम् अपेक्षितवन्तः। वर्षानन्तरं वामाङ्गः तत् अरण्यं गतवान्।

एतत्सर्वं दृष्ट्वा पुरातननगरस्य जनाः वामाङ्गेन अतीव आकृष्टाः। अतः द्वयोः नगरयोः अपि वामाङ्गः एवं शाश्वतः राजा भवतु इति ते सर्वे निर्धारं कृतवन्तः।

पापस्य फलम्

** पूर्वं ब्रह्मदत्तः काशीं परिपालयन् आसीत्। तेषु दिनेषु बोधिसत्वः सुशान्तनाम्ना दरिद्रकृषिकरूपेण जन्मंप्राप्तवान्। यदा सः युवकः जातः तदा गृहस्य सम्पूर्णम् उत्तरदायित्वं स्वीकृत्य मातापित्रोः पालनं कृतवान्। अल्पे एव काले तदीयः पिता दिवङ्गतः।**

** सुशान्तः यावत् सम्पादयति तत् तदीयकुटुम्बपोषणे अपर्याप्तं भवति स्म। तथापि सः कथञ्चित् दिनानि यापयति स्म।**

** तद्देशस्य महाराजस्य मृगयाविहारे महती आसक्तिः। सः तदा तदा अरण्यं गत्वा मृगयायां निरतः भवति स्म। एकदा राजा एकं हरिणम् अनुसृत्य धावन् बहुदूरं गतवान्। अन्ते बाणं प्रयुज्य हरिणं मारितवान्। महाराजेन सह कोऽपि अन्यः भटः न आसीत्। अतः राजा स्वयं हरिणं स्कन्धस्य उपरि आरोग्य राजधानीं प्रस्थितः।**

** मध्याह्नसमयः आसीत्। तीव्रः आतपः बाधते स्म। हरिणम् अनुसृत्य धावनेन राजा अतीव श्रान्तः आसीत्। मार्गे तेन एकः विशालः वटवृक्षः दृष्टः। वृक्षस्य अधःहरिणम् एकत्र संस्थाप्य राजा विश्रान्त्यर्थं स्वपादौ प्रसारितवान्।**

** तदा अकस्मात् काचन ब्रह्मराक्षसी प्रत्यक्षीभूय राजसमीपम् आगत्य उक्तवती– “अहं भवन्तं खादामि इदानीम्" इति।**

** “भवती का? मां खादितुं भवत्याः कः अधिकारः?" इति पृष्टवान् महाराजः।**

** “अहम् एका ब्रह्मराक्षसी। अस्मिन् वृक्षे निवसामि। अस्य वृक्षस्य अधः यः पादौ स्थापयति, अथवा छायाप्रदेशे वा आगच्छति तं खादितुं मम अधिकारः अस्ति” इति राक्षसी उक्तवती।**

** राजा तदा गम्भीरतावूर्वकं किञ्चित् चिन्ति**

तवान्। तदा तस्य मनसि एकः उपायः स्फुरितः। सः ब्रह्मराक्षसीम् उक्तवान्– “भवती केवलम् अद्यतनम् आहारम् इच्छति, उत प्रतिदिनम् अपि?”

“अहं तु प्रतिदिनम् अपि आहारम् इच्छामि" इति उत्तरं दत्तवती राक्षसी।

‘‘एवं स्थिते, अद्य भवती मां खादति चेत्भवत्याः आहारसमस्या कथं परिहृता भविष्यति? यदि अद्य भवती एतं हरिणं खादित्वा मां त्यजति, तर्हि अहं भवत्याः दैनान्दिनीम् आहारसमस्यां परिहरिष्यामि। अहम् अस्य देशस्य राजा अस्मि। अतः प्रतिदिनम् अपि पर्याप्तेन अन्नेन सह एकैकं पुरुषम् अपि प्रेषयितुं शक्नोमि" इति उक्तवान् राजा।

एतेन प्रस्तावेन सन्तुष्टा ब्रह्मराक्षसी उक्तवती– “तर्हि अहं भवन्तं त्यजामि। किन्तु एकः नियमः– यद्दिने अहं समये आहारं न प्राप्नोमितद्दिने स्वयम् आगत्य भवन्तं खादामि” इति।

अनन्तरं राजा हरिणं ब्रह्मराक्षस्याः वशे समर्प्य राजधानीं प्रत्यागतवान्। मन्त्रिणं सर्वं वृत्तान्तं निवेदितवान् च।

मन्त्री राजानम् उक्तवान्– “महाराज ! भवान् चिन्तां न करोतु। अस्माकं कारागारे बहवः बन्दिजनाः सन्ति। प्रतिदिनम् एकैकं ब्रह्मराक्षस्याः आहाररूपेण प्रेषयिष्यामि” इति।

तद्दिनात् आरभ्य मन्त्री एकैकं बन्दिजनम् अरण्यस्य तत् वृक्षस्य समीपम्, अन्नेन सह प्रेषितवान्। ब्रह्मराक्षसी तं पुरुषं खादितवती च। किञ्चित्कालं यावत् एषः एव क्रमः प्रचलन्आसीत्।

अल्पे एव काले कारागृहं रिक्तं जातम्। तदा मन्त्री भीतः। इदानीं किं करणीयम् इति सः न जानाति। सः राज्ये डिण्डिमघोषं कारितवान्– “यः आहारवस्तूनि स्वीकृत्य राक्षस्याः समीपं गच्छति तस्मै राजा एकसहस्ररूप्यकात्मकं पारितोषिकं ददाति" इति।

एतं डिण्डिमघोषं श्रुत्वा सुशान्तः चिन्तितवान्– “अरे ! कीदृशः सदवकाशः एषः! अहं तु महता परिश्रमेण कार्यं करोमि चेदपि चत्वारि नाणकानि सङ्ग्रहीतुं न शक्नोमि। किन्तु इदानीं ब्रह्मराक्षस्य आहारं नयामि चेत्

सहस्रं रूप्यकाणि ! "

एवं चिन्तयित्वा सुशान्तः मातुः समीपं गत्वा उक्तवान्– “अम्ब? अहं ब्रह्मराक्षस्य आहारं नयामि। एतत्कार्यार्थं सहस्रं रूप्यकाणि लभ्यन्ते। तेन धनेन भवत्याः जीवनं आजीवनं सुखमयं भविष्यति” इति।

“पुत्र ! इदानीं मम जीवने का न्यूनता अस्ति? धनार्थम् अहं पुत्रस्य बलिं ददामि वा? आहारं स्वीकृत्य यः गच्छति तं ब्रह्मराक्षसी खादिष्यति इति भवान् न जानाति वा?" इति पृष्टवती सुशान्तस्य माता।

“मातः ! मम काऽपि हानिः न भविष्यति। अहं सुरक्षितम् गृहं प्रत्यागमिष्यामि। चिन्तां न करोतु भवती" इति मातरम् उक्त्वा साक्षात्महाराजस्य समीपं गतवान् सुशान्तः।

सः महाराजम् उक्तवान्– “महाराज ! यदि भवान् भवदीयं छत्रं, खड्गं, पादरक्षायुगलम्, एकं सुवर्णपात्रं च मह्यं ददाति तर्हि अहं ब्रह्मराक्षस्याः कृते आहारं नयामि" इति।

राजा आश्चर्येण पृष्टवान्– “आहारवस्तूनि नेतुम् इच्छते भवते एतानि वस्तूनि किमर्थम्?"

“ब्रह्मराक्षसीं पराजेतुम्” इति दृढस्वरेण उक्तवान् सुशान्तः। अनन्तरं सुशान्तः महाराजेन दत्तां पादरक्षां धृत्वा, खड्गं कटौ बद्ध्वा, हस्तयोः छत्रं सुवर्णपात्रे अन्नं च गृहीत्वा, मध्याह्नसमये वृक्षसमीपं गतवान्। तत्र वृक्षस्य समीपे एव छत्रस्य छायायाः अधः उपविष्टवान्।

ब्रह्मराक्षसी बहुकालपर्यन्तं निरीक्षां कृतवती। किन्तु सुशान्तः वृक्षस्य छायायां न आगच्छति। राक्षसी किञ्चिदिव दिग्भ्रान्ता। सा सुशान्तम् उक्तवती– “भवान् बहुदूरतः आतपे आगतः। वृक्षस्य छायायाम् विश्रान्तिसुखम् अनुभवतु तावत्” इति।

“नैव, मया त्वरया गन्तव्यम् अस्ति। स्वीकरोतु, भवत्याः आहारम्" इति वदन्सुशान्तः सुवर्णपात्रं आतपे एकत्र स्थापितवान्। खड्गस्य साहाय्येन तत् पात्रं वृक्षस्य छायायां स्थापितवान् च।

तदा सा क्रोधमिश्रितस्वरेण गर्जितवती– “अहम् आहारेण सह तदानेतारं पुरुषम् अपि खादामि इति भवान् न जानाति वा?” इति।

“किन्तु भवती जानातु यत् मां खादितुं न शक्नोति भवती। अहं भवत्याः वृक्षस्य छायायां न आगतवान् एव। अतः मां खादितुं भवत्याः अधिकारः एव नास्ति" इति।

“एषा वञ्चना। महती वञ्चना। प्रतिदिनम् एकं पुरुषम् आहाररूपेण प्रेषयिष्यामि इति महाराजेन वचनं दत्तम् आसीत्। किन्तु इदानीं भवत्कारणतः तत् च वचनं भग्नम्। अत्र महाराजस्य पात्रं किमपि अस्ति वा, उत भवान् एव स्वविचारानुसारम् एवम् आचरन् अस्ति वा इति अहं न जानामि। अथवा भवता सह मंम कः व्यवहारः? वचनभङ्गेन किं भविष्यति इति अहं महाराजं ज्ञापयामि। इदानीं साक्षात् अहं राजधानीं गत्वा महाराजम् एव खादामि" इति राक्षसी आक्रोशनं कृतवती।

“अये महाभागे ! पूर्वजन्मनि कृतस्य पापस्य कारणतः भवती इदानीं राक्षसजन्मं प्राप्तवती अस्ति। इदानीम् अपि विवेकः न उदितः वा? स्वजीवनं सम्यक् परिशीलयतु। उत्तमं जन्मं प्राप्तुं कथं शक्यते इति प्रथमं चिन्तयतु। पापाचारेण इतोऽपि नीचतमं जन्मप्राप्यते इति स्मरतु" इति सुशान्तः सम्यक्उपदेशं दत्तवान्।

इदानीं ब्रह्मराक्षसी चिन्तायां मग्ना। सुशान्तस्य वचनैः सा प्रभाविता अस्ति। किन्तु विकासः कथं प्राप्तव्यः इति सा न जानाति। अन्ते व्यथापूर्णेन स्वरेण सा पृष्टवती– “मित्र ! मया किं करणीयम्? उत्तमं जीवनं प्राप्तुं कः मार्गः" इति।

“भवती इतः प्रस्थाय अस्माकं नगरस्य द्वारसमीपे निवसतु। तत्र अहं प्रतिदिनं भवत्याः कृते सात्विकस्य आहारस्य व्यवस्थां कारयामि। नरमांसभक्षणं भवती सर्वथा त्यजतु। जनहितकार्याणि किमपि कर्तुं शक्यते वा इति चिन्तयतु" इति उक्तवान् सुशान्तः।

ब्रह्मराक्षसी सुशान्तवचनम् अङ्गीकृतवती।

‘सुशान्तः सजीवं प्रत्यागतः’ इति ज्ञात्वा राजा आश्चर्यचकितः। सुशान्तः अरण्ये प्रवृत्तं सर्वं महाराजाय निवेदितवान्। परमानन्दितः राजा सुशान्तं सेनापतिस्थाने नियोजितवान्।

पण्डितस्य उन्नतिः

पुरा बाग्दादनगरम् अनेके खलीफाः पालितवन्तः। तेषु अलममून्खलीफः महान्पण्डितपोषकः इति ख्यातः आसीत्। नूतन पण्डितः वा भवतु, ख्यातः वा भवतु, तेषां योग्यतानुसारेण सर्वेभ्यः प्रशस्तिबहुमानादिकं दत्त्वा सत्कारं करोति स्म। एवं रित्या तान्प्रोत्साहयति स्म।

अलममून्खलीफः सप्ताहे एकवारं सभाम् आयोजयति स्म। तत्र न केवलं पण्डिताः, किन्तु चतुराः वाग्मिनः च भागं वोढुम् अर्हन्ति स्म। तत्र विविधविषयान् अधिकृत्य वादविवादाः प्रचलन्ति स्म। महान्तः पण्डिताः क्लिष्टसमस्याः गृहीत्वा चर्चां कुर्वन्ति स्म। तेन तत्र उपस्थितानां सामान्यजनानाम्अपि ज्ञानलाभः भवति स्म।

एकदा साप्ताहिकसभासमयः। अलममून्खलीफः सिंहासने उपविष्टः आसीत्। तदा नूतनः कश्चित् सभां प्रविश्य सामान्यजनानां समीपम् अगत्वा, साक्षात् पण्डितानां समीपंगत्वा, तेषां मध्ये उपविष्टवान्। सः कश्चित्पथिकः स्यात् इति सर्वे भावितवन्तः। सः एकः पण्डितः इति कस्य अपि कल्पना नासीत्। उपविष्टान् पुनः उत्थापयितुं न कोऽपि इच्छति स्म।

सभायाः कार्यक्रमाः आरब्धाः। वादार्थम्एकः विषयः खलीफेन निर्दिष्टः आसीत्। एकैकः पण्डितः उत्थाय सर्वेषां पण्डितपामराणाम् अपि यथा अर्थबोधः भवेत् तथा विषयं प्रतिपादयति स्म। एवं रीत्या अनेकैः विषयः प्रतिपादितः। तदा नूतनस्य पर्यायःसम्प्राप्तः। सः उत्थाय स्वच्छया भाषया सुस्पष्टेन उच्चारणेन च स्वाभिप्रायं बहुसमीचीनतया वर्णितवान्। तस्य प्रतिपादनरीतिं दृष्ट्वा सम्पूर्णसभा आश्चर्यचकिता अभवत्।

राजास्थानस्य श्रेष्टविद्वांसः सभायाः प्रथमपङ्क्तौ उपविष्टाः आसन्। इदानीं खलीफः नूतनम् अपि तस्यां पङ्क्तौ उपवेशनार्थं विज्ञापितवान्। तस्य आदेशानुसारेण नूतनः उत्थाय प्रथमपङ्क्तौ उपविष्टवान्।

अनन्तरं खलीफः वादार्थम् अन्यं विषयं सूचयित्वा चर्चायाः उपक्रमार्थं प्रार्थितवान्। तस्यां चर्चायाम् यदा नूतनस्य पर्यायः प्राप्तःतदा पूर्वापेक्षया अपि अद्भुततरं यथा स्यात्तथा विषयस्य अन्तरार्थं स्पष्टीकुर्वन् सर्वेषां विद्वज्जनानां सामान्यानां च मनांसि आकृष्टवान्। सर्वे सन्तोषेण हर्षोद्वारं कृतवन्तः।

इदानीं खलीफः नूतनं प्रधानसचिवानां मध्ये स्थानं ग्रहीतुम् आहूतवान्।

अनन्तरं पुनः अपरं विषयं अधिकृत्य तर्कः आरब्धः। तदा नूतनः स्वीयं लोकानुभावं, विवेकं, वाक्चातुर्यं च प्रकटयन् समस्तां सभां मन्त्रमुग्धां कृतवान्। खलीफः तु अत्यानन्देन तं समीपम् आहूय सिंहासनस्य पार्श्वस्थितेआसने उपवेशनार्थम् आदिष्टवान्।

सभा समाप्ता। अनन्तरं खलीफः पण्डितानां कृते भोजनसमारम्भम् आयोजितवान् आसीत्।

भोजनानन्तरं सर्वे राजभवनतः निर्गतवन्तः। नूतनः अपि गन्तुम् उत्थितवान्। तदा अलममून्खलीफः तं हस्तलाघवेन पुरकृत्य “क्षणं तिष्ठतु, किञ्चित्विशेषरूपेण भवतः सत्कारं कर्तुम् इच्छामि। आवां मिलित्वा द्राक्षारसं पिबावः" इति उक्तवान्।

अनन्तरं खलीफःद्राक्षारसम्आनेतुम् आज्ञापितवान्। उत्तरक्षणे एव अन्तःपुरस्य दास्यः रत्नखचितसुवर्णकलशेषु द्राक्षारसम् आनीतवत्यः। तदा खलीफःएकं पात्रं ग्रहीत्वा, अन्यत् पात्रं ग्रहीतुं नूतनपण्डितं सूचितवान्।

नूतनपण्डितः अत्यन्तविनयेन खलीफं दृष्ट्वा “प्रभो, मुख्यपण्डितानां पङ्क्तौ मह्यं भवान् स्थानम् अनुगृहितवान् खलु। कृपया तस्य कारणं वदतु” इति पृष्टवान्।

“भवतः विवेकः, वाक्चातुर्यं, विषयविभागक्रमः इत्यादयः मनोहराः आसन्। तैः अहं नितरां सन्तुष्टः जातः" इति उक्तवान् खलीफः।

अनन्तरं भवतः पार्श्वेस्थिते आसने उपवेशनार्थं कुतः विज्ञापितवान्?" इति पृष्टवान् नूतनः।

“विवेकेन वाक्चातुर्येण च भवत्सदृशः अन्यःनास्ति इति भावना जाता। अपि च ततोऽपि उन्नततरम् आसनम् अन्यत् नास्ति खलु ?" इति खलीफः उक्तवान्।

“एवं तर्हि मम विवेकः वाक्चातुर्यं च भवतः दयायाः अभिमानस्य च कारणद्वयम् इति सिद्धं जातम्। एवं हि सति इदानीं मां तस्मात् उन्नतस्थानात् पातयितुं भवान् किमर्थम् इच्छति?" इति नूतनः पृष्टवान्।

“किमर्थम् एवं वदति ! भवतः अभिप्रायः न अवगतः" इति उक्तवान् खलीफः।

“प्रभो, भवान् इदानीं यत् पानीयं मह्यंदातुम् इच्छति तत् मम शक्तिद्वयम् अपि अपहरति। मम सर्वनाशं करोति। मम शक्तीनां रक्षणं मया कर्तव्यं खलु? अतः कृपया एतत् पानीयम् अपीत्वा एव इतः निर्गतुं मह्यम् अवकाशं ददातु" इति प्रार्थितवान् नूतनः।

नूतनस्य वचनेन खलीफस्य महान् प्रमोदः जातः। सः सद्यः एव तस्मै पण्डिताय लक्षरजतनाणकानि, अमूल्यानि वस्त्राणि, जात्यश्वं च एकं बहुमानरूपेण दत्तवान्। अनन्तरं सर्वदा तस्मै ऊन्नतस्थानं दत्त्वा सत्कारं करोति स्म।

पर्वतसदृशं धैर्यम्

रात्रौ द्वितीययामः आसन्नः आसीत्। तदा चत्वारः पथिकाः नौकायाम् उपविश्य नागावलि-नदीं तीर्त्वा अपरं तीरं प्राप्तवन्तः। तैः इतोऽपि क्रोशचतुष्टयं गत्वा विक्रमपुरं प्राप्तव्यम् आसीत्। तदर्थम् एकः अश्वशकटः सज्जीभूतः अपि आसीत्।

चत्वारः अपि पथिकाः अश्वशकटम् आरुह्य तस्मिन् उपविष्टवन्तः। शकटःप्रस्थितः। घोरः अन्धकारः। अपि च भयङ्करम् अरण्यम्। मार्गमध्ये एकत्र एकः भल्लूकः तस्य द्वौ शावकौ च आगत्य शकटस्य पुरतः किञ्चित् स्थित्वा, ततः वेगेन पार्श्वस्थितवृक्षाणां मध्ये धावितवन्तः।

तान् दृष्ट्वा पथिकेषु एकः ‘अस्माकं भाग्यं समीचीनम् अस्ति। अतः एते भल्लूकाः अस्माकम् उपरि आक्रमणं न कृतवन्तः। एतादृशसमये प्रयाणापेक्षया मूर्खतमं कार्यम् अन्यत् किमपि नास्ति" इति उक्तवान्।

तस्य वचनसमनन्तरम् एव अन्यः पथिकः “शकटं स्थगयतु” इति आज्ञारूपेण उच्चैः गर्जितवान्। शकटः स्थगितः। झटिति सः शकटतः उत्प्लुत्य, अतितीक्ष्णं खग्डंनिष्कास्य, अन्येषां पुरतः प्रदर्शयन् “अस्य चित्रहिंसकस्य नाम श्रुतवन्तः किल? व्याघ्रापेक्षया अपि अतिभयङ्करः। अस्मिन् घोरे अरण्यभागे मम वचनस्य पुरतः प्रतिवक्ता एव नास्ति। मम आज्ञां श्रुत्वा झटिति यः धनभूषणादिकं समस्तं समर्पयति, तस्य किमपि कष्टं न भवति। ये विलम्बं कुर्वन्ति, ये च साहाय्यार्थम् आक्रोशं कुर्वन्ति ते सर्वे अस्य खड्गस्य आहारभूताः भवन्ति। सर्वम् अवगतं खलु? भवतां समीपे यत् यत् अस्ति तत्सर्वम् तूष्णीम्अत्र स्थापयन्तु" इनि उक्त्वा भूमौ एकं वस्त्रं प्रसारितवान्।

** त्रयः अपि पथिकाः भयेन कम्पमानाः**

स्वीयं धनं सुवर्णाभरणानि च दातुं प्रवृत्ताः। तदा शकटचालकः हस्तस्थितां कशां सशब्दं घूर्णयन्, तीव्रस्वरेण “रे ! मार्गलुण्टाकः चित्रहिंसकः भवान् एव वा? शकटारोहणसमये एव भवतः चोरदृष्टिम् अहं लक्षितवान्। अनन्तरम् अपि एतावत्पर्यन्तं परीक्षितवान्। भवन्तं ग्रहीतुं पार्वतीपुरस्य भूस्वामीना प्रेषितः गुप्तचरः अहम् इति भवान् न जानाति। तिष्ठतु! भवतः प्रतापेन अलम्। अस्यां रात्रौ प्रस्थिताः एते सामान्यनागरिकाः इति मत्वा भवान् वञ्चितः। इदानीं भवतः अवतारसमाप्तिः भवति" इति उक्त्वा शकटतः उत्प्लुत्य चोरसमीपं गतवान्।

‘भूस्वामिनः गूढचारः’ इति वचनं श्रुत्वा चोरस्य शरीरं कम्पितम्। यथाकथञ्चित् सः यावत् धैर्यम् अवलम्बितुं प्रयतितवान्, तावत् शकटचालकः स्त्रीयां कशां तस्य खड्गयुक्तहस्तस्य उपरि प्रक्षिप्तवान्। तस्मिन् एव समये अन्ये त्रयः अपि पथिकाः चोरम्आक्रम्य तस्य खड्गंवशीकृत्य तं सम्यक् ताडितवन्तः। शकटचालकः रज्ज्वा चित्रहिंसकस्य हस्तौ पादौ च बद्धवान्। अनन्तरं चत्वारः अपि सम्भूय तं शकटे संस्थाप्य विक्रमपुरं प्रति प्रस्थिताः।

मार्गे पथिकेषु एकः शकटचालकम् उद्दिश्य “मार्गलुण्टाकं एतं चित्रहिंसकं बन्धितुम् अस्मिन् अरण्ये भवता शकटचालकस्य वेषः गृहीतः। बहुसमीचीनम् अभिनीतं च। भवान् भूस्वामिनः गूढचारः इति वयं पूर्वं न जानीमः स्म” इति उक्तवान्। “किन्तु तदा एषः चित्रहिंसकः न

लभ्यते स्म। एतदर्थम् अन्यौ द्वौ सेवकौशकटम् अनुसर्तुं नियोजितौ। तौ कुतः न आगतवन्तौ इति चिन्तयन् आसम्। भाग्यवशात् भवतां साहाय्येन एतं बन्धितुम् अहं शक्तवान्" इति उक्तवान् शकटचालकः।

विक्रमपुरं प्राप्तम्। शकटचालकः ग्रामाधिकारिणः गृहस्य पुरतः शकटं स्थगितवान्। अनन्तरं द्वारं सशब्दं प्रहृतवान्। यदा द्वारम् उद्घाट्य ग्रामाधिकारी बहिः आगतवान्, तदा शकटचालकः अन्ये च चित्रहिंसकं तस्य पुरतः आनीय क्षिप्तवन्तः। “साधु साधु! भवतः शकटे आगताः एते बहुधीराः इति भासते। एतं महाचोरं ग्रहीतुम् अहं बहुधा प्रयतितवान्। भवन्तः साधितवन्तः" इति सः उक्तवान्।

ग्रामाधिकारिणः वचनं श्रुत्वा पथिकाः “आर्य, एतं ग्रहीतुम् अपेक्षितं धैर्यं सामर्थ्यंवा अस्मासु कथं स्यात्? पार्वतीपुरस्य भूस्वामिनः गूढचारः शकटचालकस्य वेषं धृत्वा एतत् कार्यंसाधितवान्।एषः नासीत् चेत् अस्माकं पर्वतसदृशं तादृशं धैर्यं कथं वा भवति स्म? अस्माकं धनाभरणादिकं सर्वम् एतेन रक्षितम्” इति सन्तोषेण उक्तवन्तः। तेषां वचनं श्रुत्वा ग्रामाधिकारी आश्चर्यंप्रकटयन् शकटचालकं दृष्ट्वा “रे लक्ष्मण! किमिदं भो? कदा आरभ्यभवान् भूस्वामिनः गूढचारः जातः” इति पृष्टवान्।

शकटचालकः प्रवृत्तं सर्वं वृत्तान्तं कथयित्वा “अहम् एकमेव सूत्रं जानामि। आपत्काले यदि एकः धैर्येण उत्तिष्ठति, तर्हि अन्ये अपि धैर्यं प्राप्नुवन्ति इति। वयं चत्वारः स्मः। सः एकः। अस्माभिः सः न गृह्यते चेत् लज्जास्पदं न भवति वा? अतः एव ‘अहं भूस्वामिनः गूढचारः’ इति ‘मया उक्तम्” इति उक्तवान्।

ग्रामाधिकारी शकटचालकं लक्ष्मणं बहु श्लाघितवान्। एतं वृत्तान्तं श्रुत्वा पार्वतीपुरस्य भूस्वामी अपि परेद्युःबृहत्सभायां लक्ष्मणस्य धैर्यं समयस्फूर्तिं च श्लाघितवान्। तथा बहुमूल्यं बहुमानम् अपि तस्मै दत्तवान्।

प्रामाणिकता

केतकी-कासारः इति ग्रामः। गोपराजः इति कञ्चित् ग्रामाधिकारी। अतीव बुद्धिमान् प्रामाणिकः च सः षष्टिवर्षपर्यन्तम् अधिकारे स्थित्वा ग्रामस्य उन्नतिं साधयन् ख्यातः अभवत्। एतादृशः सहसा दिवङ्गतः। तदा ग्रामस्थाः भूस्वामिनः समीपं गत्वा “भोः स्वामिन्! अस्माकं ग्रामाधिकारिणः गोपराजस्य उत्तराधिकारी नास्ति। अतः इदानीं भवान् कृपया तत्सदृशम् एव प्रामाणिकं चतुरं च अन्विश्य तस्मिन् स्थाने नियोजयतु" इति प्रार्थितवन्तः।

‘तथा अस्तु’ इति अङ्गीकृत्य भूस्वामी तान् प्रेषितवान्।अनन्तरं स्वसचिवम् आहूय ‘यः कोऽपि मनुष्यः प्रामाणिको वा अप्रामाणिको वा इति ज्ञातुं कः उपायः अस्ति? यदा सः अधिकारं प्राप्नोति, ततः परम्एव खलु तस्य स्वभावस्य परिचयः भवेत्? ततः पूर्वं कथम्?” इति तं पृष्टवान्।

“तत् तु सत्यम् एव” इति उक्त्वा सचिवः केतकीकासरग्रामं परितः एकम् उद्घोषणं कारितवान्– “केतकीकासारे ग्रामाधिकारिणः स्थानं प्राप्तुम् ये अर्हाः सन्ति, ते सन्दर्शनार्थम् आगच्छन्तु। सन्दर्शनतः पूर्वं ते सर्वे कोशाधिकारिणः दर्शनं कृत्वा आगच्छन्तु" इति।

एकसप्ताहानन्तरं दश अभ्यर्थिनः सन्दर्शनार्थम् आगतवन्तः। ते प्रथमं कोशाधिकारिणः समीपं गतवन्तः। सः तेषु एकैकं स्वप्रकोष्टं नीत्वा तेन सह वार्तालापं कृतवान्। एवं रीत्या तान् सर्वान् अपि पृथक् पृथक् दृष्ट्वा सर्वे परेद्युः प्रातः दशवादनसमये भूस्वामिनः गृहस्य समीपम् आगच्छन्तु इति सूचितवान्। तदनुसारेण ते सर्वे भूस्वामिनः गृहस्य समीपम् आगतवन्तः। तत्र सचिवः कोशाधिकारी च आगतवन्तौ।

तेषु अभ्यर्थिषु नागवर्मा अन्यतमः आसीत्। सः एव केतकीकासारस्य ग्रमाधिकारी भवति इति कोशाधिकारिणः सूचनानुसारेण भूस्वामी घोषितवान्।तदा अवशिष्टाः नव जनाः अपि “किं भोः एषःमहान् द्रोहः। भवतः एव उद्योगं दास्यामि इति पुनः पुनः उक्त्वा अस्मासु एकैकतः अपि शतदीनारान् एषः कोशाधिकारी गृहीतवान् !” इति उक्तवन्तः।

** तदा सचिवः “कोशाधिकारिद्वारा एषा परीक्षा मया एव आयोजिता आसीत्। अधिकारप्राप्त्यर्थंभवन्तः उत्कोचं दत्तवन्तः। एवमेव अधिकारप्राप्त्यनन्तरम् अपि भवन्तः उत्कोचं न स्वीकुर्वन्ति इत्यत्र किंप्रमाणम्? परन्तु नागवर्मा एकः एव उस्कोचं दातुं निराकृतवान्।अतः सः अर्हतमः इत्यत्र संशयः नास्ति " इति उक्तवान्।**

प्रतिभाप्रदर्शनम्

पुरा ललितसेनराजःप्लवङ्गराज्यं पालयति स्म। सः महान् कविषोषकःइति ख्यातः आसीत्। तस्य आस्थाने पञ्चरत्नानि इति प्रसिद्धाः पञ्चकवयः शोभन्ते स्म। तेषां पञ्चरत्नानां विषये महाराजस्य अपरिमितविश्वासः, अभिमानः, गौरवं च आसन्। अतः सः एकं विशेषनियमम् एव परिकल्पितवान्। यः कोऽपि वा नूतनकविः राजदर्शनतः पूर्वं पञ्चरत्नकवीनां दर्शनं प्राप्य, तेषां मनांसि तर्पयित्वा तदन्तरम् एव राज्ञः दर्शनार्थम् आगच्छेत् इति।

एकदा सायङ्काले ललितसेनः सचिवेन सह राजोद्याने विहरन् राजकार्यसम्बन्धिवार्तालापे मग्नः आसीत्। तदा पञ्चरत्नानाम्अनुमतिं प्राप्य द्वौ कवी राजदर्शनार्थं तत्र आगतवन्तौ।

अनन्तरम् महाराजस्य आज्ञानुसारेण तौ महाराजस्यतस्य शासनक्रमस्य च श्लाघनपराम् एकैकाम् आशुकवितां विरचय्य गीतवन्तौ। स्वरचितानि अन्यानि अपि पद्यानि महाराजस्य पुरतः पठित्वा प्रदर्शितवन्तौ।

ललितसेनः असहनां प्रकटयन् तत् कविद्वयं दृष्ट्वा “एकैकस्मै पञ्चाशत् दीनारान् दत्त्वा प्रेषयतु" इति पार्श्वस्थितं सेवकम् आदिष्टवान्।

तेषां गमनानन्तरं ललितसेनः सचिवम्–“एतस्य कविद्वयस्य कवितानां श्रवणानन्तरं कवित्वशक्तेः कीदृशः ह्रासः जातः अस्ति इति ज्ञातुं शक्यते। किन्तु वराकौ रिक्तहस्तौ न प्रेषणीयौ इति चिन्तितम्” इति उक्तवान्।

महाराजस्य वचनानि श्रुत्वा मन्त्री मुकुन्दवर्मा किमपि अनुक्त्वा तूष्णीं स्थितवान्। किञ्चित्कालानन्तरं पुनः ललितसेनः “किञ्चित् लेखनीग्रहणसामर्थ्यम् अस्ति चेत् तेनैव आत्मानं महाकवि मन्यमानाः एते यथेच्छं लेखितुम् आरभन्ते। अस्माकम् आस्थानम्

अलङ्कर्तुं योग्यान् प्रतिभाशालिनः एव प्रेषयन्तु इति पञ्चकविरत्नानि अहं सूचितवान् आसम्" इति खेदभावेन उक्तवान्।

“सत्यम्, एतं विषयम् अस्माकं राज्ये सर्वे जानन्ति महाराज ! तथापि ते पञ्चकवयः एतादृशजनान् कुतः भवतः समीपं प्रेषयन्ति इति ते एव न जानीयुः’ इति मन्दस्वरेण मन्त्री उक्तवान्।

सचिवस्य वचने किमपि गूढरहस्यम् अस्ति इति ललितसेनः तर्कितवान्। “तस्य एतदेव कारणं यत् एतादृशजनैः राजम्माननं न लभ्यते तर्हि तस्य कारणीभूताः एते पञ्चकवयः एव इति अपवादःभवेत्। अतः ते एतान्प्रेषयन्ति इति मन्ये।यद्यपि एतत् अस्माकं

पञ्चकविरत्नानां पक्षपातरहितगुणस्य निदर्शनं स्यात्, तथापि मम तु एतेन महान् क्रोधः। “इति उक्तवान् ललितसेनः।

मन्त्री मुकुन्दवर्मा मन्दं हसन् “अस्माकं प्लवङ्गराज्ये प्रतिभावतां कवीनाम् अभावः नास्ति। किन्तु ते सर्वे भवतः दर्शनं प्राप्तुं नैव शक्नुवन्ति” इति उक्तवान्।

ललितसेनः तीक्ष्णदृष्ट्या सचिवं पश्यन् “पञ्चकविरत्नानां विषये भवतः अविश्वासः अस्ति इति प्रतिभाति। महाकवीन् मम दर्शनतः ते वारयन्ति इति भवतः अभिप्रायः वा?" इति उक्तवान्। मुकुन्दवर्मा तूष्णीं स्थितवान्।

कतिपय दिनानन्तरं विशाखःनाम कविः महाराजस्य दर्शनार्थम् आगतवान्। सः स्वीयकाव्यस्य कांश्चन अंशान् महाराजस्य पुरतः पठित्वा प्रदर्शितवान्।

ललितसेनराजः विशाखकवेः प्रतिभां दृष्ट्वा मुग्धः जातः। “बहु समीचीनम् अस्ति। कविता नाम एषा एव। नूनं भवान् महाकवीनां पङ्क्तौ स्थातुम् अर्हः। किन्तु एतावत्दीर्घकालानन्तरं भवतः परिचयः जातः इति एतत् मम दौर्भाग्यम् एव" इति उक्त्वा पार्श्वस्थितं सचिवं “पश्यतु भोः, अस्माकं पञ्चकविरत्नानि कवीन्राजदर्शनतः निवारयन्ति इति भवतः संशयः आसीत् किल? यदि सः यथार्थः अस्ति, तर्हि विशाख-सदृशः महाकविः मम दर्शनार्थं

कथम्आगच्छति स्म ?" इति पृष्टवान्।

** मन्त्री विशाखं दृष्टवान्। तदा विशाखः महाराजं दृष्ट्वा “महाप्रभो! अहं प्रतिभावान् कविः इति पञ्चकवयः न जानन्ति। अस्मिन् विषये साहाय्यं कृतवन्तं सचिवंप्रति अहं कृतज्ञः अस्मि। किन्तु अहं पञ्चकवीनाम् अनुमतिम् अप्राप्य, भवतः नियमम् उल्लङ्घ्य भवतः दर्शनार्थम् आगतवान् इत्यपि न” इति उक्तवान्।**

** ललितसेनराजः आश्चर्येण सचिवस्य मुखं दृष्टवान्। तदा सचिवःविनयेन ‘प्रभो, कवीनां प्रतिभायाः परीक्षकः सम्मानकर्ता च भवान् एव। एवं हि सति, ततः पूर्वं पञ्चकवीनां पुरतः प्रज्ञाप्रदर्शनस्य का आवश्यकता? एषा शङ्का अस्माकं राज्ये कस्य अपि महाकवेः मनसि न उत्पन्ना इति प्रतिभाति। ते प्रथमं पञ्चकवीनां दर्शनं कुर्वन्ति। पञ्चकवयः तु, स्वापेक्षया अपि उत्तमतमाः इति यदा मन्यन्ते तदा तान् राजदर्शनतः वारयन्ति। एतां वस्तुस्थितिम् अहं जानामि। तथापि एतत् वक्तुं कालं निरीक्षमाणः आसम्" इति उक्तवान्।**

** “कथं कथम्? एवं भवति वा?” इति ललितसेनराजः आश्चर्येण पृष्टवान्।**

** मन्त्री विशाखं निर्दिश्य “ एषः महाकविः इति भवान् परीक्षितवान् किल? अस्य विषयं वदामि। कृपया श्रृणोतु। एतस्य गुरुःविकीर्णनामकः पण्डितः। किञ्चित्कालपूर्वं सः एतं मम समीपम् आनीय ‘एषः महाराजस्य**

आस्थानम् अलङ्कर्तुम् अर्हः महाकविः। पञ्चकविरत्नानां सम्पर्कं विना एतस्य राजदर्शनं कारयतु” इति प्रार्थितवान्। किन्तु नियमम् उल्लङ्घयितुं न शक्यते इति अहम् उक्तवान्।

“एवं तर्हि एषः विशाखः पञ्चकवीनां अनुमतिम् अप्राप्य एव अत्र आगतवान् खलु?" इति कुतूहलेन पृष्टवान् महाराजः।

तत्क्षणमेव विशाखः “न हि प्रभो, अहं पञ्चकवीनाम् अनुमति प्राप्य एव अत्र आगतवान्। किन्तु तेषां पुरतः मम कविताशक्तेः पूर्णतया प्रदर्शनं न कृतवान्, तावदेव।

अभ्याससमये मया रचितंसाधारणं कविता

द्वयं तेषां पुरतः पठितवान्। पूर्णतया प्रज्ञा प्रदर्शनं करोमि चेत्, भवतः दर्शनभाग्यं न लभ्यते इति अन्येषां कवीनाम् अनुभवं दृष्ट्वा अहं ज्ञातवान्। अतः एव अहं सामान्यकविः इवअभिनयं कृतवान्। तदा शीघ्रमेव भवतः दर्शनार्थम् अनुमतिं लब्धवान्" इति विनयेन उक्तवान्।

महाराजः महता क्रोधेन “अस्माकं पञ्चकविरत्नेषु प्रतिभा नास्ति इति न अहं वदामि। किन्तु तेषां हृदयेषु एतादृशं मात्सर्यं दृष्ट्वा महान्तं खेदेम् अनुभवामि। अस्माकं राज्ये स्वापेक्षया उत्तमतमः कविः एव नास्ति इति मां वञ्चयितुं ते इच्छन्ति इति सिद्धम् अभवत्। कीदृशी क्षुद्रता” इति उक्तवान्।

“सत्यं प्रभो! भवतः अभिप्रायः यथार्थः एव अस्ति। पूर्वम् एकवारं सर्वथा कविता-शक्तिहीनं कविद्वयं ते राजोद्यानं प्रेषितवन्तः आसन्। भवान् स्मरति वा?" इति पृष्टवान् मन्त्री मुकुन्दवर्मा।

ललितसेनः पञ्चकविरत्नानां यथार्थस्वरूपं ज्ञातवान्। सः विशाखम् आस्थानकवि कृतवान्। अनन्तरं पूर्वनियमं परित्यज्य, सर्वे अपि स्वस्य दर्शनार्थम् आगन्तुम् अर्हन्ति इतिउद्घोषणं कारितवान्। कालान्तरे उत्तमकविपोषकत्वेन कीर्तिं प्राप्तवान्।

राक्षसनीतिः

एकदा भक्तानां कश्चन समूहः काशीयात्रार्थं गच्छन् आसीत्।

मार्गमध्ये एकम् अरण्यम्। सर्वे भक्ताः तस्मिन् अरण्ये गच्छन्ति स्म। तदा तत्रस्थः एकः राक्षसः युगपत् एव बहु जनान् दृष्ट्वा एकं लघुविनोदं कर्तुम् अपेक्षितवान्।

सः एकं बृहदवृक्षम् आरूढवान्।अनन्तरं वृक्षतः उच्चैः गर्जनं कुर्वन् भक्तानां पुरतः कूर्दितवान्। एतेन सर्वेषां भक्तानां शरीरे कम्पनम् आरब्धम्।

राक्षसःतान् प्रति उक्तवान्— “ भीतिः मास्तु। भवत्सु यः कोऽपि स्वयम् आगत्य मम आहारः भवति चेत् अन्यान् सर्वान् अपि अहं मुञ्चामि।”

तेषु एकैकः अपि स्वस्य पार्श्वस्थः राक्षसस्य आहारः भवतु इति चिन्तितवान्। कोऽपि अग्रे न आगतवान्। तदा राक्षसः सर्वान् अपि हन्तुं सिद्धः अभवत्।

तेषु जनेषु सारङ्गपाणिः अपि एकः।सः कुटुम्बक्लेशैःपीडितः गङ्गायां प्राणान् त्यक्तुं इच्छन् अन्यैः सह आगतः आसीत्। सः अग्रे आगत्य उक्तवान्– “ अहं सिद्धः अस्मि।

भक्षयित्वा अन्यान् मुञ्चतु" इति।

राक्षसः स्मयमानः सारङ्गपाणिं त्यक्त्वा अन्यान् सर्वान् अपि हतवान्। अनन्तरं शनैःतान् सर्वान् खादितुम् आरब्धवान्।

साधकलक्षणम्

** चन्द्रपुरस्य भूस्वामिनः समीपे केशवस्वामी इति एकः सचिवः आसीत्। यदा सः वृद्धः जातः, तदा स्वयमेव सर्वाणि कार्याणि कर्तुम्अशक्तः अभवत्। अतः सः एकम् अनुचरम् अपेक्षितवान्। तदर्थं भूस्वामिनः अनुमतिम् अपि प्राप्तवान्। ततः समर्थस्य अनुचरस्य अन्वेषणार्थं प्रयत्नम् आरब्धवान्।**

** एतं वृत्तान्तं ज्ञात्वा रामभद्रः शिवचन्द्रः इति द्वौ भूस्वामिनः समीपम् आगतवन्तौ। द्वौ अपि अपेक्षितकार्यनिर्वहणे स्वीयं सामर्थ्यं निवेदितवन्तौ। तदा भूस्वामी केशवस्वामिनम् आहूयतयोः मध्ये एकं स्वीकर्तुम् आदिष्टवान्।**

** केशवस्वामी प्रथमं रामभद्रं स्वसमीपम्आहूय ‘‘पश्यतु भोः, सचिवालये विविधरूपाणि कार्याणि भवन्ति। प्रतिदिनम् अनेकसमस्याःपुरतः आपतन्ति।ताः समस्याः अपि भिन्नभिन्नरूपाः भवन्ति। एकस्याः समस्यायाः परिहारःअन्यसमस्यायाः परिहारसमये निष्प्रयोजकः भवति" इति उक्तवान्।**

** तदा रामभद्रः– “आर्य, अनेकेषु तादृशकार्यालयेषु कार्यं कृत्वा अहं पर्याप्तम् अनुभवंप्राप्तवान् अस्मि” इति उक्तवान्।**

** “सर्वे अपि सचिवालयाः समानरूपाः न भवन्ति किल? भवतः पूर्वानुभवेन अत्रप्रयोजनं भवति वा न वा अहं न जानामि। अहं तु मम सचिवालयस्य विषयं वदामि। अत्र दीर्घकालतः अवशिष्टानि बहूनि कार्याणि सन्ति। सर्वाणि तानि अस्तव्यस्तानि समस्याभरितानि च सन्ति। तानि कार्याणि क्रमषः योजयितुं भवान् कीदृशं मार्गम् अनुसरति इति वदति वा?" इति केशवस्वामी पृष्टवान्।**

** “अहं परिष्कारयोग्याम् एकैकां समस्याम्एवगृहीत्वा तस्याः साधकबाधकविषयान् सम्यक्परिशीलयामि। ततः तस्याः निर्वहणरीतिं**

निश्चित्य, अनन्तरम् एव कार्यस्य आरम्भं करोमि। एवंरीत्या सर्वेषाम् अपि कार्यणां परिष्कारसमये कोऽपि क्लेशः न भवति" इति उक्तवान् रामभद्रः।

तं प्रेषयित्वा अनन्तरं सचिवः केशवस्वामी शिवचन्द्रम् आहूय, पूर्ववत् एव सचिवालयस्य विषयान् एव विवृत्य भवान् कथं परिष्करोति’ इति अपि पृष्टवान्।

तदा शिवचन्द्रः “अहं यस्याः कस्याः अपि समस्यायाः परिष्कारतः पूर्वं तस्याः सम्बन्धे कांश्चन प्रश्नान् परिकल्पयामि। तेषां प्रश्नानां समुचितसमाधानानि अपि चिन्तयित्वा, अनन्तरम् एव कार्यस्य आरम्भं करोमि। यदि कार्याणि बहूनि सन्ति, तर्हि तेषु कस्य प्राथम्यम् इत्यादिक्रमम् अपि निर्धार्य अनन्तरं कार्यं ग्रहीष्यामि" इति उक्तवान्।

तम् अपि प्रेषयित्वा केशवस्वामी भूस्वामिनः समीपं गत्वा द्वयोः अपि कथनक्रमं वर्णितवान्। तदा भूस्वामी संदेहं प्रकटयन् ‘किं द्वौ अपि

समानौ वा?" इति पृष्टवान्। “तथा न प्रभो ! अस्मिन् उद्योगे नियोजयितुं शिवचन्द्रः एव अर्हः अस्ति। उत्तरोत्तरं सः समर्थः सचिवः भविष्यति" इति उक्तवान् केशवस्वामी।

‘‘एवं वा? अत्र शिवचन्द्रः एव अर्हः इति कथं निर्णीतः? तादृशवैशिष्ट्यं तस्मिन् किम् अस्ति?" इति पृष्टवान् भूस्वामी।

“वैशिष्टयम् अस्ति। कार्यस्य आरम्भसमये कस्य प्राथम्यम् उचितम् इति सम्यक् समालोच्य तस्य साधकबाधकविषयान् तर्कयित्वा, तत्सम्बन्धिप्रश्नान् स्वयम् उत्थाप्य, तेषां समाधानानि अपि चिन्तनीयानि। एतत् एव समर्थकार्यसाधकस्य लक्षणम्। यदि वयं स्वयम् एव प्रश्नान् चिन्तयामः, तर्हि तेषां समाधानानांअन्वेषणे अपि क्लेशः न भवति। शिवचन्द्रे एतादृशलक्षणानि सन्ति। अतः सः एव अर्हः इति भावयामि" इति उक्तवान् केशवस्वामी।

वृद्धसचिवस्य वचनं श्रुत्वा भूस्वामी शिवचन्द्रम् एव तस्य सहायकरूपेण नियोजितवान्।

साहाय्यधनसङ्ग्रहः

वीरपुरे लक्ष्मीशः नाम कश्चित् धनिकः आसीत्। सः महाकृपणः। यदा कदापि तस्य नामोच्चरणं करणीयं चेत् जनाः’महाकृपणःलक्ष्मीशः’ इत्येव वदन्ति स्म।

एकदा ग्रामीणैः’एका धर्मशाला निर्मातव्या’ इति निश्चयः कृतः। एतदर्थं धनसङ्ग्रहकार्यम् आरब्धम्। ‘लक्ष्मीशतः कथं धनं स्वीकरणीयम्’ इति ग्रामीणाः चिन्तयन्तः आसन्।

तस्मिन् ग्रामे कमलानाथः नाम कश्चित् युवकः आसीत्। सः बहुबुद्धिमान् वाग्मी च। कार्यसाधने सः अतीव कुशलः। अतः ग्रामवासिनः तं ‘कार्यसाधकः’ इति आह्वयन्ति स्म।

एकस्मिन् दिने कमलानाथः मित्रद्वयेन सह लक्ष्मीशस्य गृहं गतवान्। धर्मशालायाः निर्माणविषये उक्त्वा धनं पृष्टवान्।

तदा लक्ष्मीशः हासं प्रकटयन् उक्तवान्– “किम् उक्तम्? धनं दातव्यम् इति? तदपि मया ! अहम् अद्यावधि कस्मै अपि साहाय्यधनं न दत्तवान्। भवतः अपेक्षया बुद्धिमन्तः अपि आगत्य रिक्तहस्तेन एव निर्गताः” इति।

तदा कमलानाथः मन्दहासपूर्वकम्उक्तवान्– “महोदय ! ते यथा तथा अहं मूर्खः न। सर्वे मां कार्यसाधकनाम्ना आह्वयन्ति। प्रतिवक्ता किञ्चित् बुद्धिमान् विवेकी वा यदि स्यात् तर्हि सः यथा धनं दद्यात् तथा करोमि अहम्” इति।

पुनश्च किं वक्तव्यम्? कृपणः विना प्रतिरोधं साहाय्यधनं दत्तवान्।

सञ्चयप्रवृत्तिः

** कमलायाः नारायणत्य च परस्परम् अनुरूपं दाम्पत्यम्। एकदा उभौ अपि बन्धुगृहस्य मङ्गलकार्यस्य निमित्तं पार्श्वग्रामं गतवन्तौ। प्रत्यागमनसमये मार्गे एका विपणिः दृष्टा। विपण्यां तद्दिने विशेषवाणिज्यम्। तत्र कदलीफलानां महागुच्छाःविक्रीयन्ते स्म। एतत् दृष्ट्वा कमला एकं महागुच्छं स्वीकर्तुम् इच्छां प्रकटीकृतवती।**

** सा पतिम् उक्तवती- ‘‘अत्र कदलीफलानि अल्पमूल्येन लभ्यन्ते। एकं महागुच्छं क्रीत्वा गृहं नयामः " इति।**

** “सम्पूर्णं महागुच्छं स्वीकृत्य किं करोति भवती? गृहे तु अहं भवती च, उभौ एव। न पुत्राः, न बान्धवाः” इति उक्तवान् नारायणः।**

** यदि वयम् अर्धपक्वानि फलानि क्रेष्यामः तर्हि पञ्चदशदिनपर्यन्तं स्थापयितुं शक्ताः भविष्यामः। महागुच्छस्य अत्र चत्वारि रूप्यकाणि। तस्यैव मूल्यम् अस्माकं ग्रामे दश रूप्यकाणि। अतः अत्रक्रयणेन महान् लाभःकिल?" इति उक्तवती कमला।**

** नारायणः तस्याः वचनम् अङ्गीकृतवान्। सा एकं महागुच्छं क्रीतवती। अनन्तरं तत् पत्युः स्कन्धे स्थापितवती।**

महता कष्टेन सः अर्धमार्गं यावत् तत् नीतवान्। अनन्तरं ‘मया न शक्यते’ इति वदन् तत् भूमौ स्थापितवान्।

** अर्धमार्गपर्यन्तं नारायणः आनीतवान् किल? अतः कमला सन्तुष्टा। यदि विपण्याम् एव भारवाहः स्वीक्रियते तर्हि रूप्यकद्वयस्य व्ययः भवति स्म। इदानीं तु एकरूप्यकात्मकेन व्ययेन तत् गृहं प्रापयितुं शक्यते स्म।**

** भारवाहद्वारा महागुच्छः गृहं प्रापितः। भारवाहाय एकं रूप्यकं दत्तं च। तथापि एकरूप्यकस्य सञ्चयः जातः इति सा कमला बहु**

सन्तुष्टा।

अनन्तरदिनात् आरभ्य महागुच्छस्य फलानि एकैकशःपक्वानि। फलानि रुचिकराणि आसन्। अतः पतिः पत्नी च यथेष्टं फलानि खादितवन्तौ। एकविधम् एव फलम् कियत् खादितुं शक्यते? तथापि पुनरपि खादितवन्तौ। अतःबुभुक्षा मन्दा जाता।

तदा कमला पतिम् उक्तवती– “पश्यतु, कदलीफलानां कारणतः पाकव्ययः अपि न्यूनः जातः" इति।

कदलीफलानि खादन् नारायणः कष्टम् अनुभवन् आसीत्। अतः सः असहनयाः उक्तवान् एतावता कालेन यः सञ्चयः कृतः तावदेव पर्याप्तम्। यानि कदलीफलानि अवशिष्टानि सन्ति तानि सर्वेभ्यः बालकेभ्यः वितरामः" इति।

किन्तु कमला नारायणस्य वचनानि न अङ्गीकृतवती। सा उक्तवती– “तावद्दूरेण महता श्रमेण धनं दत्त्वा च एतानि फलानि आनीतानि। एतानि कथं वा अन्येभ्यः वितरितुं शक्यते?" इति।

द्वित्रेषु दिनेषु महागुच्छे स्थितानि सर्वाणि फलानि युगपत् एव पक्वानि। एतत् दृष्ट्वा कमला उक्तवती–“प्रातः मध्याह्ने सायं-त्रिवारम् कदलीफलानि एव खादामः” इति।

वस्तुतः कमला एकम् अपि कदलीफलम्अन्येभ्यः दातुं न इच्छति स्म। अतः उभौ अपि दिनत्रयपर्यन्तं केवलं कदलीफलानि एव

खादितवन्तौ। एतावता आनीतानि सर्वाणि फलानि समाप्तानि।

किन्तु एतस्य परिणामःविपरीतः जातः। उभौ अपि असह्यया उदरवेदनया पीडितौ।

नारायणः पत्नीं निन्दन् उक्तवान्– “पश्यतु, भवत्याः सञ्चयप्रवृत्तेः फलम् एतत्। एतादृशसञ्चयेन किं प्रयोजनम्, येन वयं रोगपीडिताः। इदानीम्औषधार्थं धनव्ययः करणीयः एव। सञ्चयापेक्षया औषधव्ययः अधिकः जातः। उदरवेदना अपकीर्तिः च अवशिष्टा, तावदेव” इति।

“अस्तु नाम। इदानीम् अवशिष्टः परिहारः एकः एव। उदरवेदनासमाप्तिपर्यन्तम् उपवासःकरणीयः।"

“उपवासकारणतः पुनः अशक्तिः उत्पद्यते। तदानीं तन्निवारणार्थं द्विगुणितः व्ययः करणीयः भविष्यति। इदानीम् अहम् एताम् उदरवेदनां सोढुं न शक्नोमि” इति उक्त्वा नारायणः वैद्यगृहं प्रति धावितवान्।

वैद्यः रूप्यकद्वयं स्वीकृत्य काश्चन गुलिकाःदत्तवान्। ‘प्रतिदिनं प्रातः सायं च एकैका स्त्रीकरणीया’ इति उक्तवान्।

गुलिकायाःस्वीकरणेन दिनद्वये एव नारायणस्य उदरवेदना दूरगता। कमलयाः उदरवेदना तु प्रतिदिनं वर्धिता एव।

अन्ते नारायणः वैद्यं स्वगृहम् आनीतवान्। कमलायाःचिन्तनं श्रुत्वा वैद्यः मनसि एव हसितवान्। अनन्तरम् काश्चन गुलिकाः यच्छन् कमलाम् उक्तवान्– “अहम् एताः गुलिकाः निश्शुल्कं ददामि। मम सूचनानुसारं गुलिकाः स्वीकरोति चेत् शीघ्रम् एव उदरवेदना न्यूना भविष्यति" इति।

बहिः आगत्य वैद्यः नारायणम् उक्तवान्– “निश्शुल्कं प्राप्तम् एव सा उचितानुपातेन स्वीकुर्यात्। अतः भवान् ताम् एताः गुलिकाः निश्शुल्कं प्राप्ताः इत्येव वदतु" इति। वैद्यसूचनानुसारं कमला औषधं स्वीकृत्य शीघ्रम् एव स्वस्था जाता।

श्रमेण सम्पादनम्

गणपतिः बाल्यात् आरभ्य परिश्रमेण धनं सम्पादितवान् आसीत्। किन्तु सः व्ययविषये बहु जागरूकः। अतः सर्वे तं मितव्ययी गणपतिः इत्येव आह्वयन्ति स्म।

इदानीं गणपतिः षष्टिवर्षीय वृद्धः। तथापि सः स्वकीयानि कार्याणि स्वयं करोति स्म। कदापि अन्यस्य उपरि स्वकीयं भावं न आरोपयति स्म। तदीया पत्नीअपि पत्यनुगुणा आसीत्। किन्तु तदीयाः त्रयः पुत्राः तु अलसाः। ते कदापि पितुः वचनानि न पालयन्ति स्म।

गणपतिसमीपे विशाला कृषिभूमिः आसीत्। तत्र जलव्यवस्था अपि उत्तमा एव। वार्धक्यकारणतः गणपतिः सर्वेषां कार्याणां परिवीक्षणं स्वयं कर्तुं न शक्नोति स्म। अतः सः पुत्राणां साहाय्यं याचितवान्। अलसाःपुत्राःकार्यं
कर्तुम् अनिच्छन्तः भूमिम् अन्यस्य वशे समर्पितवन्तः। सः कृषिकः तु सम्पादिते धान्ये अधिकभागं स्वसमीपे संस्थाप्य किञ्चिदेव गणपतये ददाति स्म।

गणपतिः अन्येभ्यः ऋणम् अपि ददाति स्म। वस्त्रवाणिज्यम् अपि करोति स्म। यदा सः ऋणदानादिव्यवहारं सर्वंस्वयं द्रष्टुं न शक्तवान् तदा कञ्चित् लिपिकारं साहाय्यार्थं स्वीकृतवान्। एवमेव वस्त्रवाणिज्यम् अपि व्यवहारदक्षस्य कस्यचित् हस्ते समर्पितवान् यावान् लाभांशः तैः दीयते तावन्तं विनाविरोधं स्वीकरोति स्म गणपतिः।

यदि तदीयाः पुत्राः एकैकस्य कार्यस्य

पर्यवेक्षणं स्वयं कुर्युः तर्हि कोऽपि क्लेशः न अभविष्यत् एव। किन्तु ते पुत्राः धनव्यये केवलम् आसक्ताः आसन्। सम्पादनस्य विषये तेषां काऽपि चिन्ता एवन आसीत्। अतः गणपतेः चिन्ता प्रतिदिनं वर्धते स्म।

गणपतेःगृहं परितः विशाला भूमिः रिक्ता आसीत्। यदा कृषिवाणिज्यादिव्यवहाराः न्यूनाः जाताः तदा गणपतिः परितः विद्यमानायांभूमौशाकानि आरोपयितुम् आरब्धवान्। अल्पे एव काले गृहं परितः रमणीयम् उद्यानं निर्मितम्।

सस्यानां कृते कुल्यादीनां निर्माणे जलसेचने वा तदीयाः पुत्राः किञ्चिदपि साहाय्यं न कुर्वन्ति स्म। “अस्मिन् अन्तिमे वयसि अपि एषः सम्पादनव्यामोहं न परित्यक्तवान्" इति पितरम् एव उपहसन्तः परस्परं सन्तोषम् अनुभवन्ति स्म।

गणपतेः उद्यानतः यथेष्टं धनसम्पादनं

भवति स्म। ततः उपलभ्यमानानि शाकानि पुष्पाणि वा विनाश्रमेण विक्रीयन्ते स्म। एवं स्थिते कदाचित् अनिरीक्षिता आपत् आपतिता।

गणपतेः पार्श्वस्थिते भाटकगृहे सोमनाथनामकः कश्चित् नवीनतया आगत्य वासम् आरब्धवान्। सः क्षीरविक्रयणं करोति स्म। तस्य समीपे २०-२५ अजाः आसन्। मार्गेषु यत् लभ्यते तदेव अजानाम् आहारः। अतः स्वाभाविकतया अजानां दृष्टिः हरिद्वर्णेन शोभमानस्य गणपतेः उद्यानस्य उपरि पतिता। ताः अजाःप्रतिदिनं कथञ्चित् अवकाशं सम्पाद्य उद्यानं प्रविशन्ति स्म। प्राणसमस्य उद्यानस्य दुरवस्थां दृष्ट्वा गणपतिः बहु खिन्नः। अतः सः ‘उद्यानस्य रक्षणव्यवस्थां कुर्वन्तु’ इति पुत्रान् पुनः पुनः प्रार्थितवान्। किन्तु ते पुत्राः एतत् न श्रुतवन्तः एव।

इदानीं गणपतिः उद्यानं परितः दृढां वृतिं निर्मितवान्। तथापि अजाः कदाचित् वृत्तिं छिद्रीकृत्य उद्यानं प्रविशन्ति स्म एव। गणपतिः तु प्रयत्नशीलः। अतः सः उद्यानं परितः कण्टकानि आनीय स्थापितवान्। सुरक्षणदृष्टया द्वारे काष्ठनिर्मितं कवाटं योजितवान्।

कानिचन दिनानि यावत् एषः उपायःफलकारी इव दृष्टः। किन्तु अनन्तरकाले अजाः शृङ्गसाहाय्येन चातुर्यपूर्वकं काष्ठमयं तत्द्वारम् उद्घाटयितुं ज्ञातवत्यः एव।

अन्ते विवशःगणपतिः सोमनाथसमीपं गत्वा स्वकीयां परिस्थितिं निवेदितवान्, उक्तवान् च– “मित्र ! भवान् कथञ्चित् भवतः अजाः नियन्त्रयतु। ताः प्रतिदिनम् आगत्य मदीयं रमणीयम् उद्यानं नाशयत्यः सन्ति। तासां निवारणार्थम् अहं बहुधा प्रयत्नं कृतवान्। किन्तु अहम् असफलः" इति।

“किं वदति भवान्? भवतः त्रयः पुत्राः अपि एतासां नियन्त्रणे असमर्थाः। एवं स्थिते किम् अहम् एकाकी ताः नियन्त्रयितुं शक्नोमि वा? वस्तुतः मम अजाः साधुस्वभावाः। अद्यावधि कस्य अपि आक्षेपः न श्रुतः एव। केवलं भवतः मुखात् आक्षेपः श्रुतः" इति सोमनाथः उक्तवान्।

‘सोमनाथस्य वचनं सत्यम्’ इति गणपतिः अङ्गीकृतवान्। अतः अन्यः उपायः अन्वेष्टव्यः’ इति सः चिन्तितवान्।

बहुधा आलोचनं यदा कृतं तदा उपायः कश्चन स्फुरितः। गणपतिः उद्यानस्य अन्तः द्वारस्य पार्श्वेएकं विशालं गर्तंनिर्मितवान्। तन्मध्ये मार्गे तिर्यगुरूपेण वृत्ताकारकान् त्रीन्नालान् परस्परसंलग्नतया स्थापितवान्। गोलाकारेण स्थितानां नालानाम्उपरि अजानां पादाः स्थिरं न तिष्ठन्ति किल? अतः अजाः द्वारम् उद्घाटयितुं शक्नुवन्ति चेदपि अग्रे गन्तुं न शक्नुवन्ति स्म।

कानिचन दिनानि अतीतानि। अजानां पीडायाः अभावात् गणपतिः निश्चिन्तः आसीत्। किन्तु एतत् समाधानं दीर्घकालं न स्थितम्। यतः पुनः कदाचित् अजा काचित् आगत्य तान् नालान् अतिक्रम्य उल्लङ्घयितुं प्रयत्नं कृतवती। किन्तु नालयोः मध्ये सा पतिता। तस्याः परिस्थितिं दृष्ट्वा खिन्नः गणपतिः दयया ताम्उन्नीय बहिः त्यक्तवान्।

सा अजा न निराशा। सा पुनः द्विवारं प्रयत्नं कृत्वा अन्ते नालान् उल्लङ्घ्य उद्यानं प्रविष्टवती एव।

साफल्येन तृप्ता अजा सन्तोषपूर्वकं खादन्ती आसीत्। तदा गणपतिः तत्र आगतवान्। सस्यानि नाशयन्तीम् अजां दृष्ट्वा

अपि सः मौनं स्थितवान्। यतः उद्यानरक्षणे तेन कृताः सर्वे प्रयत्नाः असफलाः आसन्। सः तत्रैव स्थित्वा अजायाः कार्यं पश्यन् आसीत्।

अत्रान्तरे गणपतेः त्रयः पुत्राः अपि तत्र आगतवन्तः। ते आश्चर्येण पृष्टवन्तः च– “तात, प्राणप्रियम् उद्यानम्अजा नाशयन्ती अस्ति। तथापि भवान् तूष्णीं स्थितवान् किल? सर्वप्रयत्नानाम् असाफल्यं दृष्ट्वा किं भवान्हताशः?” इति।

गणपतिः किञ्चित्कालं मौनं स्थित्वा पुनः उक्तवान्– “अये, नाशयतु नाम। तस्याः कृते एव मया उद्यानं निर्मितम्। तस्याः खादनेन मदीयं पापं निवृत्तं भवेत्, पुण्यसम्पादनम् अपि किञ्चित् भवेत्” इति।

तदा पुत्राः आश्चर्येण पृष्टवन्तः– “तात ! किं वदति भवान्? भवतः वचनस्य तात्पर्यं न ज्ञातवन्तः वयम्" इति।

“स्वकीयम् आहारं सम्पादयितुम् एषा अजा प्रयत्नेन तावद्दूरम् उल्लङ्घितवती। निरुपयुक्तान् पुत्रान् पालयन् अहं पापभाक्। तच्च पापं परिश्रमं कुर्वत्याः अजायाः आहारदानेन क्षालितं भविष्यति। अद्य मया निश्चितं यत् यः परिश्रमेण जीवति तस्मै एव मदीया सम्पत्तिः दातव्या इति। परिश्रमम् अहं पुरस्करोमि" इति उक्तवान् गणपतिः।

एतत् श्रुत्वा ते पुत्राः लज्जाम् अनुभूतवन्तः। ते आलोचितवन्तः “स्वकीयम्आहारं सम्पादयितुम् पशुः अजा अपि परिश्रमं करोति। स्वजीवनार्थम् मानवैः अस्माभिः तावान् अपि परिश्रमः न कृतः। अद्य पिता अजायाः उपरि दया प्रदर्शयन् अस्ति। एवम् एव कालान्तरे सः दरिद्राय कस्मैचित् समग्रां सम्पत्तिं दद्यात् अपि" इति।

एतया आशङ्कया पीडिताः ते आलस्यं त्यक्त्वा कार्यम् आरब्धवन्तः।

त्रयः अपि पितुः मार्गदर्शनस्य अनुसारं कार्यं कुर्वन्तः तदीयां प्रीतिं सम्पादितवन्तः।

स्नेहस्य मौल्यम्

राजपुरम् इति कश्चित् ग्रामः। तत्र प्रायः सर्वेऽपि तन्तुवायाः। राजपुरस्य पटाः बहु समीचीनाः इति सर्वत्र प्रसिद्धाः। अतः सर्वे अपि तानेवपठान् क्रीणन्ति स्म। तस्मिन् ग्रामे गणपतिः केशवः च प्रतिवेशिनौ स्नेहितौ च।

वेमया उत्कृष्टानि वस्त्राणि प्रवाय तानि वस्त्राणि नगरं प्रति ताभ्यां नीयन्ते।तत्र नगरे वणिजः तानि वस्त्राणि क्रीणन्ति। तयोः वस्त्राणि क्रेतुं बहवः ग्राहकाः सन्ति।

गणपतेः स्वीयं शकटम् आसीत्। सः तस्मिन् एव शकटे वस्त्राणि नीत्वा क्रीणाति। केशवस्य गृहे बहुवः जनाः। गृहे व्ययोऽपि अधिकः। अतः सः एकं शकटं क्रेतुं न शक्तवान्। शकटस्य आवश्यकता अस्ति चेत् सः भाटकशकटेन नगरं गच्छति। शकटं न लभ्यते चेत् वस्त्राणि स्वयं शिरसा एवनयति।

गणपतिः कदापि अन्येषां साहाय्यं न करोति। सर्वदा स्वस्य कुटुम्बस्य विषये एव तस्य प्रवृत्तिः। एषः तस्य स्वभावः। यद्यपि गणपतिः केशवश्च स्नेहितौ। तथापि गणपतिः केशवाय शकटं दातुं न अभिलषति। अपि च केशवस्य दारिद्र्यम् अजानन् इव तस्य समीपे गणपतिः एवं वदति–“भोः केशव ! भवान् भाटकशकटेनैव कियत् दिनपर्यन्तं जीवनं निर्वहति? वाणिज्यार्थम् एकं शकटम् आवश्यकमेव। स्वीयं शकटम् अस्ति चेत् लाभोऽपि भवति" इति। एतादृशानि वचनानि श्रुत्वा अपि केशवः किमपि अवदन् विहस्य तूष्णीं भवति।

तस्मिन् ग्रामे राघवः नाम कश्चित्। सः राघवः गणपतिकेशवयोः उभयोरपि स्नेहितः। राघवः विद्यावान्। तथापि तेन कोऽपि उद्योगः न लब्धः। सः उद्योगार्थं प्रयत्नं तु कुर्वन् एव आसीत्। उद्योगप्राप्तिपर्यन्तं ग्रामे एव पितुः

कृषिविषये साहाय्यं कुर्वन् आसीत्।

अन्ते तस्य बान्धवानां साहाय्येन नगरे एव उद्योगः प्राप्तः। अतः सः पत्न्या पुत्रैश्च साकं नगरे एव वासं कृतवान्।

विक्रयणाय यदा गणपतिः केशवः वा नगरं गच्छतः तदा राघवस्य गृहं प्रति गच्छतः। यतः राघवस्य माता एतयोः द्वारा पुत्राय दातुं किमपि भक्ष्यं प्रेषयति।

अतिथीनां विषये राघवस्य महान् आदरः। तस्य पत्नी अपि तादृशी एव। अपि च सा स्वादुतमं पाकं करोति। गृहं यः कोऽपि आगच्छति चेत् राघवः भोजनम् अपरिविष्य न प्रेषयति।

किन्तु केशवः कदापिराघवस्य गृहे भोजनं न करोति। केनापि व्याजेन भोजनम्अकृत्वा एव नगरे कार्यं सामाप्य ग्रामं प्रत्यागच्छति।

गणपतिस्तु न तथा। नगरं गच्छति चेत् राघवस्य गृहे एव भोजनं करोति। यतः पूर्वं नगरे भोजनविषये एव तस्य समस्या आसीत्। इदानीं तु सा समस्या परिहृता इति सर्वदा राघवस्य गृहे एवं भोजनं करोति।

गच्छति काले, एकदा गणपतेःसंशयः उत्पन्नः। ‘मम विषये राघवस्य गृहे सर्वेषाम् अनादरः उदभूत्’ इति। यतः राघवस्य पत्नी सुमती, तथा पुत्राश्च गणपतेः विषये उदासीनतां प्रदर्शयन्ति। केशवं बहु श्लाघयन्ति अपि। केशवस्य विषये तेषां महान् आदरः।

एकस्मिन् दिने गणपतिःकेशवस्य गृहंगत्वा वाणिज्यविषयं किञ्चित् समालोच्यकेशवं प्रति एवम् उक्तवान्– “भोः, एषः विषयःभवता अपि ज्ञातः इति मन्ये। यत् ग्रामीणाःएव मैत्र्याः याथार्थ्यंजानन्ति। नगरजीवनम्अन्यत् एव। उदाहरणार्थं नगरे राघवः अस्तिकिल? तस्य, तस्य पत्न्याः, पुत्राणां च रीतिःएवइदानीं भिन्ना जाता। ते इदानीं पूर्ववत् आदरं न प्रदर्शयन्ति" इति।

आश्चर्यचकितः केशवः एवम् उक्तवान्– “अहं तु न तथा भावयामि। यतः ते इदानीम्अपि मम विषये आदरं प्रदर्शयन्तः एव सन्ति।”

गणपतिः उपहस्य “सत्यम्। बहुधा ते भवन्तः स्तुतिं कुर्वन्ति। मया अपि तत् श्रुतम्। तत्र रहस्यं किमिति देवः एव जानाति” इति उक्तवान्।

“तत्र रहस्यं किमपि नास्ति। केवलसम्भाषणे यावान् आदरः भवति तावान् आदरः सर्वदा भोजनकरणे न भवति। यदि अस्मत्

कारणतः तेषां व्ययः वर्धते तर्हि ते क्रमशः अस्मान् अगौरवेण पश्यन्ति। एतत् तु सहजम्” इत्युक्तवान् केशवः।

तत् श्रुत्वा गणपतेः चपेटिकानुभवः अभवत्। केशवस्य विषये किमर्थं राघवस्य गृहे तादृशम् आदरं प्रदर्शयन्ति इति इदानीं सः ज्ञातवान्।

‘पत्न्या पुत्रैश्च साकं राघवः नगरे वसति। तेन अधिकं वेतनम् अपि न लभ्यते। तादृशस्य राघवस्य गृहे भोजनप्रियः अहं गत्वा सर्वदा भोजनं करोमि चेत् तेषां बहुकष्टं भवेत्। ‘इति चिन्तितवान् गणपतिः।

ततः प्रभृति सः बहुपरिवृत्तः। अन्येषां सुखदुःखानि ज्ञात्वा तेषां साहाय्यमपि करोति। अपि च केशवस्य यदा शकटस्य आवश्यकता भवति तदा स्त्रीयं शकटमेव तस्मै ददाति। नगरं गच्छति चेत् राघवस्य पुत्राणां हस्ते क्रीडनकादिकं दत्त्वा भोजनम् अकृत्वा एव ग्रामं प्रत्यागच्छति।

सुखी कः?

प्राचीनकाले मालवदेशे पुष्करनामकः राजाशासनं करोति स्म। यद्यपि एषः महाराजः, किन्तु भोगविलासेषु अत्यासक्तः। स्तुतिपाठकाःसर्वदा तस्य पात्रे भवन्ति एव। ते पारितोषिकलाभार्थं मिथ्याप्रशंसां कुर्वन्ति स्म–“महाराज ! भवतः ऐश्वर्यम् इन्द्रस्य ऐश्वर्यम् अपि अतिशेते। भवतः कोषागारस्य तुलनया कुबेरस्य धनागारम् अल्पम् एव। ‘जगति सुखी कः’ इति प्रश्नस्य उत्तररूपेण भवतः नाम एव प्रथमं गणनीयम्। अनन्तरम् अन्येषां
नाम गणनीयम्…" इत्यादि।

एवं मिथ्याप्रशंसां कुर्वन्तः ते स्वार्थं सम्पादयन्ति स्म। तेषां प्रशंसया उन्मत्तः राजा चिन्तयति स्म यत् प्रायः मादृशः भोगी सुखी च अन्यः कोऽपि नास्ति इति।

एकदा ज्ञानधनः नाम एकः महात्मा तस्य आस्थानम् आगतवान्। तस्य योग्यताविषये राजा पूर्वम् एव श्रुतवान् आसीत्। अतः सः ज्ञानधनम् उक्तवान्– “महात्मन् ! भवतः आगमनेन मम राज्यं पवित्रीकृतम्” इति। एवम् उक्त्वा राजा अर्घ्यपाद्या दिसत्कारपूर्वकं सन्यासिनः आतिथ्यं कृतवान्। तद्दिने सङ्गीतसमारोहम् अपि आयोजितवान्। कवीनां द्वारा काव्यगोष्ठीं, नर्तकैः द्वारा भव्यं नृत्यप्रदर्शनम् अपि समायोजितवान्।

ज्ञानधनः एतत्सर्वं दृष्ट्वा अपि मौनं स्थितवान् आसीत्। महाराजस्य निरीक्षा आसीत्यत् इतरे इव एषः अपि मम वैभवस्य प्रशंसां करोतु इति। किन्तु ज्ञानधनस्य मौनं दृष्ट्वा महाराजस्य उत्साहः स्वयं शान्तः। अन्ते राजा एव स्वयं पृष्टवान्– “महात्मन् ! भवान् अनेकदेशेषु सञ्चारं कृतवान् किल? माम अतिरिच्य सुखी कोऽपि भवता कुत्रापि दृष्टः वा?” इति।

तदा ज्ञानधनः उक्तवान्– “अस्माकं ग्रामे

प्रतापः नाम एकः आसीत्। सः सर्वापेक्षया अधिकं सुखी इति वक्तुं शक्यते” इति।

“प्रतापः? कः सः? अद्यावधि मया नाम अपि न श्रुतम्। एतादृशः अज्ञातः कश्चित् मम अपेक्षया अधिकं सुखी कथं भवेत् ? एतत् तु आश्चर्यस्य विषयः एव" इति उक्तवान् राजा।

“प्रतापः भवान् इव कीर्तिमान् न इति तु सत्यम् एव। किन्तु सः सुखी इत्यत्र संशयः नास्ति। सः परिश्रमेण धनं सम्पाद्य पत्नीपुत्रादीनां पोषणं कृतवान्। पौत्रान् अङ्केषु उपवेश्य लालितवान् \। उन्नतिम् अवततिं च विना समरसं जीवनं यापितवान् सः। अन्ते षष्टितमे वयसि सः स्वमातृभूमिनिमित्तके युद्धे सद्गतिंप्राप्तवान्" इति उक्तवान् ज्ञानधनः।

“अस्तु नाम, प्रतापानन्तरं वा अहं गणनायां प्रविशामि किल?” इति राजा किञ्चित् असमाधानेन पृष्टवान्।

“नैव श्रीमन्, प्रतापानन्तरं तदीयौ सहोदरौ गणनीयौ। तौ अपि ग्रामवासिनौ एव। दृढं शरीरम् आसीत् तयोः। सहृदयौ परोपकारिणौ च तौ अन्तिमकाले कामपि यांचनां विना हसन्तौ मरणं स्वागतीकृतवन्तौ। अतः द्वितीयं तृतीयं स्थानं तयोः” इति ज्ञानधनः उक्तवान्।

एतेन राजा कुपितः। सः कोपेन उक्तवान्– “भवान् एकः महान् पुरुषः इति चिन्तयन् अहं भवतः अभिप्रायं पृष्टवान्। किन्तु भवतः मुखतः एतादृशानि लघुवचनानि ! भवतः व्यक्तित्वस्य अनुचितम् एतत्। निर्धनिकाः कदाचित् मम अपेक्षया अधिकं सुखेन जीवेयुः वा ? श्रोतारः उपहसेयुः” इति।

ज्ञानधनः मन्दहासं प्रकटयन् उक्तवान्– “राजन् ! कोपः किमर्थं? ऐश्वर्यम्, वैभवम्, इत्यादिकं सद्यःकाले सुखं यच्छति इति तु सत्यम् एव। किन्तु भवता एतत् न विस्मर्तव्यम् यत् एतानि न हि शाश्वतितिकानि। भवान् एवम् एव कति दिनानि यावत् सुखम् उपभोक्तुं शक्नोति इति कः वदति? अन्तिमसमयपर्यन्तम् अपि भवतः जीवनं सुखमयम् एव भवेत् इत्यत्र कः निश्चयः? सर्वं देवाधीनम्” इति। अनन्तरं सः ज्ञानधनः ततः

निर्गतः।

“प्रभो! वृद्धस्य तस्य वेषेण भवान् वञ्चितः। अतः एव बहु आदरं प्रदर्शितवान्।भवतः वैभवस्य सुखस्य च विषये सः सन्यासी किं वा जानीयात्? प्रपञ्चे परमसुखी भवान् एव, न अन्यः। महाराजः पुष्कलः जयतात् ! “इत्येवं वदन्तः आस्थानिकाः स्तुतिपाठकाः इव महाराजं सन्तोषितवन्तः। ज्ञानधनस्य वचनं स्वप्नं मन्यमानः महाराजः अपि तत् प्रकरणं क्रमशः विस्मृतवान्।

एकवर्षम् अतीतम्। एकस्मिन् दिने पुष्कलः गाढनिद्रायां निमग्नः आसीत्। तदा “शत्रवः अन्तः पुरं प्रविष्टाः सन्ति। शत्रवः आगताः” इति कोलाहलः कश्चन श्रुतः। तेन सर्वे आश्चर्यचकिताः। तदा राजभटः कश्चन धावन् आगत्य उक्तवान्– “प्रभो ! माण्डलिकः राजा महाबलःसेनया सह आगत्य दुर्गम् आक्रान्तवान् अस्ति” इति।

अपरक्षणे “राजा महाबलः जयतात्" इति वदन्तः दुर्गस्य अन्तः प्रविष्टाः शत्रुसैनिकाः पुष्कलेन दृष्टाः।

पुष्कलः चिन्तितवान्– ‘एकक्षणस्यापि विलम्बेन प्राणहानिः एव स्यात्’ इति। एवं चिन्तयन् सः राजोचिंत वेषं निष्कास्य साधारणं वस्त्रं धृतवान्, पलायनसूत्रं पठितवान्च। तावति काले शत्रुसेनापतिः उच्चैः उक्तवान्– ‘कश्चित् पलायमानः अस्ति। तं गृह्णन्तु’ इति। एतन्मध्ये कश्चित् शत्रुसैनिकः एतं साधारणं सैनिकं मत्वा एतस्य शिरः छेतुं खड्गं स्वीकृत्य उद्युक्तः। तदा पुष्कलः शत्रुसैनिकस्य पुरतः आगत्य उक्तवान्– “मां मारयति? पश्यामः तावत् भवतः शौर्यम्” इति।

तस्मिन् समये महाराजस्य पार्श्वेतदीयः पुत्रः आसीत्, यश्च जन्मतः मूकः। सः पितरम् आपदा ग्रस्तं ज्ञात्वा उच्चैः उक्तवान्– “एषः मम पिता पुष्कलमहाराजः। एतं न मारयतु " इति। एतत् अत्याश्चर्यकरम् आसीत् यत् भीत्या, मूकस्य राजकुमारस्य मुखतः शब्दाः निर्गताः आसन्। महाराजस्य वधार्थम् उद्युक्तः सैनिकः शान्तः जातः। सः महाराजं बन्दीकृत्य स्वराजस्य महाबलस्य समीपं नीतवान्।

महाबलःचिन्तितवान्– ‘यदि शत्रुः सजीवं तिष्ठति तर्हि तत् अपायकरम् एव’ इति। अतः सः स्वसैनिकान् आज्ञापितवान्– ‘एतं सजीवं ज्वालयित्वा मारयन्तु’ इति।

महाबलस्य आदेशानुसारं तदीयाः सैनिकाः शुष्ककाष्ठानि यथेष्टं सङ्गृहीतवन्तः, एकत्र राशीकृतवन्तः च। एतन्मध्ये महाराजं पुष्कलं स्थापितवन्तः। एतत् दृश्यं द्रष्टुम् बहवः जनाः सम्मिलिताः आसन्, ये पुष्कलस्य प्रशंसाम् अहोरात्रं कुर्वन्तः आसन्।

पुष्कलः चतसृषु दिक्षु एकवारं स्वदृष्टिं प्रसारितवान्। दुर्गम् अन्तःपुरम्, भवनानि, उद्यानवनम्, इत्यादिकं सर्वं तस्य मनःपटले चलनचित्रे इवआगत्य गतानि। एतद्विषये चिन्तयतः तस्य नेत्रतः अश्रूणि निर्गतानि।

“इदानीं किमपि वस्तु मदीयं न। अल्पे समये अविचिन्तितं परिवर्तनम् ! महाराजस्य वैभवपूर्णजीवनं यापयतः मम अन्तिमकाले एतादृशं घोरं मरणं सन्निहितम्। ज्ञानधनः सत्यम् एव उक्तवान् यत् जगति किमपि शाश्वतं न इति। ज्ञानधनस्य वाक्यानि सुवर्णाक्षरेषु लेखितुं योग्यानि" इति राजा चिन्तयन् आसीत्। तावति एव काले काष्ठेषु अग्निस्पर्शः कृतः।

उद्गच्छन्तं दुःखं राजा निरोध्दुंनैव शक्तः। सः उच्चैः आक्रोशनं कृतवान्– ‘अये ज्ञानधन ! ज्ञानधन !” इति। एतं शब्दं श्रुत्वा महाबलः पृष्टवान् ‘ज्ञानधनः कः?" इति।

तत्र उपस्थिताः जनाः पूर्वतनं सर्वंवृत्तान्तं महाबलाय निवेदितवन्तः। तदा महाबलः चिन्तयितुम् आरब्धवान्– “एतत् तु सत्यम्। कस्य गतिः कदा का भविष्यति इति कः वा जानाति? इदानीम् अहम् आत्मानं महान्तं चिन्तयन् अस्मि। ‘भविष्ये मम गतिः का?” इति अहं न जानामि एव। वस्तुतः एतस्य पुष्करस्य मरणदण्डनं दातुम् अहं कः?" इति। एवं चिन्तयन् महाबलःपुष्कलस्य प्राणान् रक्षितवान्।

वास्तविकं रहस्यम्

** समुद्रगुप्तः धनगुप्तः चसिरिपुरस्य वणिजौ। चिरकालतःतयोः परस्परं मैत्री आसीत्। तौ तदा तदा वाणिज्यार्थं नौकायानेन देशान्तरेषु सञ्चारं कुरुतः स्म।**

** एकदा तौ देशान्तरेषु वाणिज्यं समाप्य सिरिपुरं प्रति प्रस्थितौ। समुद्रमार्गमध्ये धनगुप्तः स्वीयं वज्रद्वयं प्रदर्श्य समुद्रगुप्तं “इदं प्रथमतया अहं मदीयं सर्वधनं दत्त्वा एतत् वज्रद्वयं क्रीतवान्। किन्तु इदानीं सहसा मम मनः समुद्रचोरेभ्यः भीतम् अस्ति। किं वा करोमि?” इति पृष्टवान्।**

** “भीतिःमास्तु। कटिबन्धनवस्त्रम् अस्ति किल? तस्मिन् वस्त्रे तम्वज्रद्वयं स्थापयतु" इति समुद्रगुप्तः सूचितवान्।**

** परेद्युःधनगुप्तस्य भीतिः यथार्था जाता। समुद्रचोराः नौकाम् आक्रम्य तयोः समीपम् आगतवन्तः। चोराणां नायकः तयोः पुरतः खड्गं प्रदर्शयन् “वृथा दुर्मरणस्य इच्छा नास्ति खलु ? भवत्समीपे यानि यानि अमूल्यवस्तूनि सन्ति तानि सर्वाणि यच्छन्तु" इति गर्जितवान्।**

** समुद्रगुप्तः धनगुप्तः च निरुपायौ जातौ। अनेकेषु स्यूतेषु पेटिकासु च स्थापितानि सर्वाणि वस्तूनि चोरेभ्यः समर्पितानि। “सर्वंदत्तं खलु ? अथवा इतोऽपि यत्किञ्चित् गुप्तरूपेण स्थापितं वा?" इति पृच्छन् चौरनायकः तयोः समीपम् आगन्तुं प्रवृत्तः।**

** तदा समुद्रगुप्तः धनगुप्तं– “प्राणानाम् अपेक्षया प्रियतरं किं वा अस्ति? तत् वज्रद्वयम् अपि ददातु” इति उक्तवान्।**

** तदा समुद्रगुप्तः कटिभागे गुप्तरूपेण स्थापितं वज्रद्वयम् अपि चोराणां नायकाय दत्तवान्। सर्वे चोराः ततः निर्गताः। अनन्तरं धनगुप्तः समुद्रगुप्तं कोधेन पश्यन् “भवान् एतादृशः विश्वासघातकः इति अहं पूर्वं न ज्ञातवान्” इति निन्दितवान्।**

** समुद्रगुप्तः स्वीयकटयां बद्धां चर्मपट्टिकाम् अपनीय प्रदर्शितवान् उक्तवान् च “अत्र पश्यतु। अत्र विंशति वज्राणि सन्ति। तेषु प्रत्येकस्य अपि वज्रस्य भवतः वज्रयोः अपेक्षया अधिकं मूल्यं भवति। चत्वारि वज्राणि भवान् स्वीकरोतु। चोराणां नायकस्य पुरतः अहं यत् उक्तवान् तस्य वास्तविकरहस्यम् एतत् एव। यदि अहं तथा न वदेयम्, तर्हि सः मम शरीरम् अपि सम्यक् परीक्षेत तदा आवयोः द्वयोः अपि सर्वाणि वज्राणि अपहृत्य-गच्छेत् खलु” इति।**

वरदक्षिणा-पिशाचः

सीतापुरग्रामे गोविन्दः एकः सामान्यः गृहस्थः। तस्य एकमात्रं पुत्री सुभाषिणी। सा सुशीला सुन्दरी च।

यदा सुभाषिणी प्राप्तवयस्का जाता तदा गोविन्दः तस्याः विवाहार्थंप्रयत्नम् आरब्धवान्। किन्तु सर्वे वरपक्षीयाः सहस्रशः रूप्यकाणि वरदक्षिणारूपेण पृच्छन्ति स्म। एतेन गोविन्दः चिन्ताक्रान्तः। सहस्रशः रूप्यकाणि दत्त्वा पुत्र्याः विवाहं कर्तुं सः न समर्थः।

तेषु एव दिनेषु गोविन्दस्य बाल्यस्नेहितः सुदर्शनः तदीयम् गृहम् आगतवान्। सुदर्शनः नगरे वणिक् आसीत्। वार्तालापं कुर्वन् गोविन्दः स्वपुत्र्याः विवाहसम्बन्धिनीं समस्याम् अपि निवेदितवान्।

तदा सुदर्शनः उक्तवान्– “मित्र ! ‘वरदक्षिणा दातुं न शक्यते’ इति चिन्तयन् भवान्कियन्तं कालं यापयितुं शक्नोति? सुभाषिणी इदानीं विंशतिवर्षीया किल? कश्चित् उत्तमं सम्बन्धयोग्यं वरम् अन्विष्यतु। अहं पञ्चसहस्ररूप्यकाणि दातुं शक्नोमि। प्रत्यर्पणविषये अनन्तरं चिन्तयामः” इति।

मित्रस्य आश्वासनेन प्रेरितः गोविन्दः विशेषोत्साहेन उत्तमं युवकं अन्वेष्टुं प्रवृत्तः। अन्ते दूरग्रामस्थम् एकं युवकं सम्बन्धयोग्यत्वेन निश्चितवान्। वरस्य मातापितरौ वरदक्षिणारूपेण त्रिसहस्ररूप्यकाणि इष्टवन्तौ।

विवाहसिद्धतायां व्यग्रः गोविन्दः विवाहतः पञ्जदशदिनेभ्यः पूर्वं नगरं गत्वा मित्र सुदर्शनं दृष्टवान्। पुत्र्याः विवाहविषयम् उक्त्वा तदीयम् आश्वासनं स्मारितवान्।

तदा आश्चर्यं प्रकटयन् सुदर्शनः उक्तवा– “पञ्चसहस्ररूप्यकाणि दीयन्ते इति मया उक्तम् आसीत् वा? तदहं सम्यक् न स्मरामि किल? तत् यत् किमपि अस्तु, इदानीं वस्तुस्थितिः तु

एवम्– इदानीं वाणिज्यं सम्यक् न प्रचलति। महतीं हानिम् अनुभवन् अस्मि अहम्" इति।

एतत् श्रुत्वा गोविन्दः स्तम्भीभूतः। सुदर्शनस्य वचने विश्वस्य एव वरः निश्चितः। इदानीं सुदर्शनःएव स्वकीयम् आश्वासनं विस्मृतवान् अस्ति। उद्गच्छन्तं कोपं कथञ्चित्निगृह्य गोविन्दः मौनं ततः निर्गतः।

इदानीं गोविन्दस्य पुरतः एकः एव मार्गः स्फुरति “वस्तुस्थितिं निवेद्य निश्चितः विवाहमुहूर्तः व्याक्षेप्तव्यः। एतन्मध्ये कथञ्चित्धनराशिं सङ्गृह्य पुनः विवाहदिनं निश्चेतव्यम्” इति।

एवं निश्चित्य सः एकस्मिन् दिने सायङ्काले भाविनः वरस्य गृहं प्रस्थितवान्।

सन्ध्यासमये गोविन्दः एकस्य अरण्यस्य समीपं गतवान्। त्वरया गन्तुं प्रवृत्तः च। अरण्यमार्गे जनानां शकटानां च सञ्चारः आसीत्। अतः सः अन्धकारतः न भीतः। अरण्यमध्ये कस्यचित् वृक्षस्य शाखातः कश्चन शब्दः श्रुतः। गोविन्दः शिरः उन्नीय उपरि दृष्टवान्। तदा काचित् कृष्णवर्णीया आकृतिः शाखातः अवतीर्य तस्य पुरतः स्थिता। तथा गोविन्दः पृष्टः च– “अस्मिन् अन्धकारे भवान् एकाकी गच्छन् अस्ति किल? भवतः भीतिः नास्ति वा? " इति।

गोविन्दःजन्मतः धैर्यवान्। अतः सः न भीतः। ‘पुरतः आगत्य स्थितः एषः कश्चन पिशाचः एव’ इति सः ज्ञातवान्। ‘पिशाचाः भीरून् एव पीडयन्ति न तु अन्यान्’ इति चिन्तयन् गोविन्दः पिशाचं तीक्ष्णदृष्ट्या पश्यन् उक्तवान्– “भीतिः किमर्थम्? समीपग्रामे किञ्चित् कार्यम् अस्ति। अतः गच्छन् अस्मि’ इति।

“किं कार्यम् इति वदतु। अन्यथा भ॑वन्तं न त्यजामि” इति उक्तं पिशाचेन।

“सर्वान् अपि कथां श्रावयन् अहं श्रान्तः। भवन्तम् अपि श्रावयामि तावत्” इति वदन् गोविन्दः सर्वं वृत्तान्तं निवेदितवान्। अन्ते दीर्घं निश्वसन् उक्तवान्– “मम पुत्र्याः विवाहभाग्यम् अस्ति वा नवा इति भगवान्

एव जानाति” इति।

“किमर्थं चिन्ता? पूर्वनिश्चिते मुहूर्ते एव भवतः पुत्र्याः विवाहः भविष्यति। त्रिसहस्ररूप्यकाणि अहं ददमि” इति उक्तं पिशाचेन।

गोविन्दः आश्चर्यचकितः सन् पश्यन् आसीत्। अनुक्षणम् एव गत्वा पिशाचः वृक्षकोटरतःधनम् आनीय प्रत्यागत्य अवदत्– “एतस्य स्यूतस्य अन्तः त्रिसहस्रं रूप्यकाणि सन्ति। एतत् स्वीकृत्य भवतः पुत्र्याः विवाहं कारयतु” इति।

गोविन्दस्य इदानीम् अतीवः आनन्दः। “एवं सुलभतया समस्या परिहृता भवेत्" इति गोविन्दः कदापि न चिन्तितवान्। भगवन्तं कृतज्ञतापूर्वकं स्मरन् सः गृहं प्रत्यागतवान्। निश्चिते मुहूर्ते तस्य पुत्र्याः सुभाषिण्याः विवाहः सम्पन्नः। वरदक्षिणारूपेण प्राप्तं धनं वरपक्षीयाः सुरक्षितं स्थापितवन्तः।

दिनत्रयानन्तरं वरस्य पिता स्नुषया सह भाकटशकटम् आरुह्य स्वगृहं प्रस्थितः। यदा ते अरण्ये पिशाचवृक्षसमीपम् आगतवन्तः तदा पिशाचः वृक्षात् अवतीर्य अवदत्– “अरे पिशाच ! भवन्तम् इदानीम् अहं मारयामि " इति।

पिशाचं दृष्ट्वा शकटे उपविष्टानां सर्वेषां शरीरेषु कम्पः उत्पन्नः। तेषु अन्यतमः किञ्चिदिव धैर्येण उक्तवान्– “वयं तु मनुष्याः, न तु पिशाचाः। पुत्रस्य विवाहं समाप्य वयम् आगच्छन्तः स्मः।”

वरस्य माता पृष्टवती– " किं, मिष्टान्नम् इच्छति? अत्र बहूनि मिष्टभक्ष्याणि सन्ति। यत् इच्छति तत् स्वीकरोतु" इति।

“शकटस्य अन्तः विद्यमानः पिशाचः सम्यक् दृश्यते। अहं तं मारयामि” इति वदन् पिशाचः समीपम् आगतः।

वरस्य माता भीत्या उक्तवती– “एषा पिशाची न। अपि तु अस्मदीया स्नुषा। सुभाषिणि ! भवत्याः मुखं सम्यक् प्रदर्शयतु तावत्" इति।

एतत् श्रुत्वा अट्टहासं कुर्वन् पिशाचः अवदत्– “भवत्याः पत्युः वस्त्रेषु सुरक्षितः

वरदक्षिणापिशाचः मया स्पष्टं दृष्टः। तम् अहं मारयामि" इति।

वरस्य पिता त्वरया धनस्य स्यूतं प्रदर्शयन् उक्तवान्– “एषःवरदक्षिणारूपेण प्राप्तः धनस्यूतः। अत्र त्रिसहस्ररूप्यकाणि सन्ति, स्वीकरोतु" इति।

पिशाचः धनस्यूतम् एकवारं संस्पृश्य घृणां प्रदर्शयन् अवदत् ! “भवन्तः विवाहादिपवित्रकार्येषु किमर्थं एतस्य पिशाचस्य स्मरणं कुर्वन्ति? एतस्य पिशाचस्य कारणेन अनेके मानवाः पिशाचानाम् अपेक्षया अधिकं दुष्टतापूर्णं व्यवहारं कुर्वन्ति।" एवं वदन् पिशाचः धनस्यूतं स्वीकृत्य वृक्षम् आरूढवान्।

तदा सुभाषिणी दैन्यं प्रकटयन्ती स्वश्वश्रूम् उक्तवती– “वरदक्षिणाप्राप्तिं विना विवाहः न प्रचलिष्यति इति भवन्तः उक्तवन्तः आसन्। इदानीं वरदक्षिणाधनं पिशाचेन नीतम्। इतःपरं मम का गतिः?”

तदा सुभाषिण्याः श्वश्रूः सुभाषिण्याः हस्तद्वयं स्वहस्तेन गृह्णन्ती उक्तवती- “पिशाचस्य व्यवहारेण अस्माकम् अज्ञानं दूरंगतम्। भवती वरदक्षिणाविषयं विस्मरतु” इति।

सुभाषिण्याः श्वशुरः उक्तवान्– “सुभाषिणि !एषः पिशाचः वरदक्षिणापिशाचं नीतवान्। भवती दुःखिता न भवतु। भवत्याः कृते त्रिसहस्ररूप्यकात्मकानि आभरणानि कारयामि। भवत्याः पितरं क्षमां प्रार्थयामि” इति।

एतेन वचनेन सुभाषिणी बहु सन्तुष्टा। वरदक्षिणाधनं पिशाचेन नीतम् इति कृत्वा श्वश्रुश्वशुरौ पतिः च मां बहुपीडयेयुः, मां मातृगृहं प्रेषयेयुः" इति सा चिन्तितवती आसीत्। इदानीं श्वशुरवचनेन सा चिन्ता परिहृता।

एतत् सम्भाषणं श्रुत्वा वृक्षस्य उपरि स्थितः पिशाचः हस्ततालपूर्वकं स्वकीयं सन्तोषं प्रकटी कृतवान्।

अनन्तरं सुभाषिण्याः श्वशुरः मनसि एवं चिन्तितवान्– ‘अहो ! मानवानाम् अपेक्षया अपि पिशाचाः एव वरम्।’

विमर्शकः

एकं राज्यम्। तत्र अतिकुशलाः पाञ्चालिकाकाराः आसन्। ते पक्षिणां वास्तविकपिच्छानि प्राणिनां नखानि चर्माणि च पाञ्चालिकासु योजयन्ति स्म। तेन ताः पाञ्चालिकाः वास्तविकप्राणिनः इव दृश्यन्ते स्म। एकदा तस्य राज्यस्य राजा सहजवातावरणयुक्ते उद्यानवने पाञ्चालिकाप्रदर्शनीं समायोजितवान्।

ताः पाञ्चालिकाः द्रष्टुं बहवः जनाः आगत्य तत्र सम्मिलितवन्तः। तेषु एकः विमर्शकः अपि आसीत्। सः तासां पाञ्चालिकानां समीपे स्थित्वा, पार्श्वस्थितजनान् उद्दिश्य विमर्शं कर्तुम् आरब्धवान्। पाञ्चालिकानां सहजताविषये सः व्याख्यानं करोति स्म।

अन्ते सः विमर्शकः एकस्य आम्रवृक्षस्य समीपम् आगतवान्। तस्य वृक्षस्य शाखायाम् एकत्र शुकद्वयम् उपविष्टम् आसीत्।

तत् शुकद्वयं दृष्ट्वा सः “शुकस्य चञ्चुवर्णः नाम कियान् मनोहरः भवति ! कुत्रापि एवं भवति वा ? वर्णानां मिश्रणज्ञानम् अपि नास्ति। तादृशः अज्ञः एतद् शुकद्वयं निर्मितवान् अस्ति। शुकयोःनेत्रस्थानेषु समीचीनानि काचनेत्राणि योजयितुम् अपि सः जानाति। एते पक्षाः वा ? एताः अङ्गुल्यः वा ?” इति उक्तवान्।

अत्रान्तरे तयोः शुकयोः मध्ये एकः स्वीयं पक्षद्वयं पटपडाकृत्य आकाशं प्रति उड्डीय गतवान्। तस्य पक्षस्य स्पर्शतः अन्यः पाञ्चालिकाशिशुकः अधः पतित्वा छिद्रीभूतः जातः।

तावत्पर्यन्तं विमर्शकस्य व्याख्यानं श्रुण्वन्तः तत्र स्थिताः उच्चैः हसितवन्तः।

विमर्शकः लज्जया नतमस्तकः भूत्वा ततः निर्गतवान्।

वृत्तिधर्मः

शिवपुरग्रामे रामनाथः नाम वैद्यःआसीत्। सः दरिद्राणां चिकित्सां निश्शुल्कं करोति स्म। धनिकाः अपि यावत् यच्छन्ति तावदेव स्वीकरोति स्म। दरिद्राः यदि कदाचित् अधिकं यच्छन्ति तर्हि तान् तर्जयति स्म एषः।

एकदा रामनाथः रात्रौ निद्रामग्नः आसीत्। तदा कश्चित् आगत्य द्वारशब्दं कृतवान्।रामनाथः उत्थाय द्वारम् उद्घाटितवान्। द्वारे एकःयुवकः एकः वृद्धः च दृष्ठौ। युवकः पार्श्वग्रामीणः। तदीया भगिनी तीव्रया उदरवेदनया पीडिता आसीत्। वृद्धः तु शिवपुरीयः एव। तदीया पौत्री विषमज्वरेण पीडिता अस्ति।

रामनाथः तौ पृष्टवान्– “भवतोः कः चिकित्सार्थं धनं व्ययीकर्तुंसिद्धः अस्ति?” इति। युवकः झटिति उक्तवान्– “अहं तु धनिकः। अतः भवान् यावत् इच्छति तावत् दातुं समर्थः” इति।

वृद्धः तु मौनं स्थितवान् आसीत्। तदा रामनाथः युवकम् उक्तवान्– ‘पार्श्वमार्गे कृष्णाचार्यः नाम प्रसिद्धः वैद्यः अस्ति। सः धनं विना चिकित्सां न करोति। भवतः आर्थिकपरिस्थितिः तु उत्तमा। अतः भवान् कृष्णाचार्यं नयतु। अहं भवता सह आगच्छेयम्। किन्तु कृष्णाचार्यः एतेन सह गन्तुं सिद्धः न भवेत् किल? अतः भवान् अन्यथा न चिन्तयतु’ इति। अनन्तरं सः वृद्धेन सह प्रस्थितः च।

व्यवहारकौशलम्

** पूर्वं भद्रशीलःनाम कश्चित् धर्मज्ञानी आसीत्। सः ग्रामेषु सञ्चरन् सरलया शैल्या सत्यस्य धर्मस्य च विषये जनान् उपदिशति तस्य उद्बोधकम् एतम् उपन्यासं श्रोतुं जनाः अपि अधिकसङ्ख्या सम्मिलन्ति स्म।**

** भद्रशीलस्य द्वौ शिष्यौ– कङ्कणः लोहकः च इति। वार्धक्यकारणतः भद्रशीलः तदा तदा अस्वस्थः भवति स्म। तत्सन्दर्भे सः उपन्यासभारं कङ्कणे निक्षिपति स्म। कङ्कणः गुरुः इव उपन्यासे समर्थः। कङ्कणः उपन्याससमये गुरुः इव सुन्दराणि उदाहरणानि यच्छति। मध्ये मध्ये च गम्भीरं विषयम् अपि किञ्चित् निरूपयति। तथापि कुत्रापि कठिनशैलीं न आश्रयति। नीरसविषयं न स्पृशति। धर्मशास्त्रे निरूपितान् विषयान्साररूपेण कथयति, न तु वाक्यार्थरूपेण। विषयविवरणार्थं कदाचित् लघुकथाः अपि कथयति स्म।**

** “गुरुः उपन्यासार्थं मम कृते कदापि अवकाशं न ददाति किल?” इति लोहकः बहुधा खिद्यति स्म।**

** एकदा लोहकः गुरुं पृष्टवान्– “गुरुवर्य ! उपन्यासार्थं भवान् मम कृते एकवारम् अपि अवकाशं न दत्तवान्। एतस्य किं कारणम्? धर्मशास्त्रविषये मम ज्ञानम् अपूर्णं वा? अथवा भवतः सेवायां मया कोऽपि लोपः आचरितः वा? कङ्कणविषयकपक्षपातेन अपि भवान् एवम्आचरितवान् स्यात्। अहं वास्तविकं कारणं ज्ञातुम् इच्छामि। कृपया तत्निवेदयतु, येन अहं मदीयं दोषं निवारयितुं शक्नोमि” इति।**

** भद्रशीलः मन्दं हसन् उक्तवान्– “धर्मशास्त्र-विषये भवतः विशेषपाण्डित्यम् अस्ति इति अहं जानामि। वस्तुतः एतद्विषये भवान्**

यावत् जानाति तावत् कङ्कणः न जानाति"इति।

गुरुवर्यस्य एतद्वचनेन लोहकः बहु सन्तुष्टः। भद्रशीलःअग्रे उक्तवान्– “सामान्याः जनाः अपि यथा सुलभतया जानीयुः तथा सरलशैल्या धर्मशास्त्रविषयाः बोधनीयाः। अन्यथा जनाः विपरीतम् अर्थं कल्पयन्तः विरुद्धाचरणं कुर्युः। भवान् तु सूक्ष्मविवेचने सिद्धहस्तः। अतः भवान् उत्तमविमर्शकः व्यख्याकारः च भवितुम् अर्हति इति मम आशयः। अतः एव उपन्यासार्थम् अवकाशं न दत्तवान्” इति।

तदा लोहकः खिन्नः सन् उक्तवान्– “आचार्य ! कदाचित् अपि अवकाशम् अदत्त्वा मद्विषये एवं निर्णयं स्वीकृतवान् किल भवान्? एतत् मम दौर्भाग्यम्” इति।

भद्रशीलः किञ्चित् विचार्य उक्तवान्– “अस्तु नाम, भवतः मनसि विद्यमानम् अन्यथाभावं निवारयितुम् अहम् एकम् अवकाशं कल्पयामि। अद्य रात्रौ शिवपुरे ईश्वरमन्दिरे मम भाषणम् अस्ति। अहं कण्ठदोषव्याजेन तूष्णीम् उपविशामि। भवान् एव अद्य भाषणं करोतु तावत्” इति।

आचार्यस्य वचनेन लोहकः बहु सन्तुष्टः। तद्दिने सायङ्काले सः आचार्येण सह शिवपुरं गतवान्। तत्र ईश्वरमन्दिरे ग्रामवासिनां पुरतः स्थित्वा भाषणम् आरब्धवान् च। ‘धनमूलम् इदं जगत्’ इत्येतं विषयं खण्डयन् सः विषयप्रस्तावं कृतवान्।

“सुखपूर्वकजीवने धनं प्रधानकारणं न" इति एकघण्टां यावत् निरन्तरं भाषणं प्रवृत्तम्। तस्य भाषणे न केवलं ग्रामीणाः, भद्रशीलः अपि अस्वारस्यम् अनुभूतवान्।

अनन्तरं लोहकः एकक्षणं मौनं स्थित्वा पुनः जनान् उद्दिश्य उक्तवान्– “धनेन सर्वम् साधयितुं न शक्यते इत्येषः अंशः सर्वैः सम्यक्ज्ञातः स्यात् किल?" इति !

“आम्, आम्। सम्यक् ज्ञातम्” इति वदन्तः जनाः ‘भाषणं समापयतु’ इति भावं प्रकटयन्तः करताडनं कर्तुम् आरब्धवन्तः।

एतत् अविगणयन् लोहकः उत्साहेन वक्तुम् आरब्धवान्– “धनेन किं वयं सन्तोषं क्रेतुं शक्नुमः वा प्रेमभावस्य मूल्याङ्कनं किं शक्यं वा?" इति। समीपे उपविष्टं कञ्चित् बालकम् उत्थाप्य पृष्टवान् च– “बालक ! सहस्रं रूप्यकाणि दत्त्वा ‘मातापित्रोः निन्दां करोतु’ इति अहं वदामि चेत् किं भवान् तथा कर्तुं शक्नोति?” इति।

बालकः ‘किं वक्तव्यम्’ इतिअजानन्तूष्णीं स्थितवान्। तदा पार्श्वेस्थितः एकः ज्येष्ठः उत्थाय उक्तवान्– “यदि मातुलविषये जुगुत्सा प्रदर्शनीया इति भवान् वदति तर्हि अहं निश्चयेन तथा करोमि। तदर्थं कियत्धनं ददाति भवान्?” इति।

एतत् श्रुत्वा सभायां स्थिताः सर्वे उच्चैः हसितवन्तः। एकैकशः उत्थाय गतवन्तः च। लोहकः तु स्तम्भवत् स्थितवान्।

तदा भद्रशीलः तदीयस्कन्धस्य उपरि हस्तं स्थापयन् उक्तवान्– “पुत्र लोहक ! भाषणार्थं किमर्थम् अवकाशः न दत्तः आसीत् इति भवान् ज्ञातवान् किल इदानीम् भवतः विषये मया यत् चिन्तितम् आसीत् तथैव प्रवृत्तम्” इति।

लोहकः शिरः अवनमय्य मौनं स्थितवान्। एतदनन्तरं सः भाषणकार्ये कदापि इच्छां न प्रकटितवान्। धर्मशास्त्रग्रन्थानां व्याख्यानानि लिखन् सः कालान्तरे प्रसिद्धः जातः।

]