[[वेतालपञ्चविंशतिकथाः Source: EB]]
[
[TABLE]
[TABLE]
वेतालपञ्चविंशतिः ।
<MISSING_FIG href="../books_images/U-IMG-1721795975line2.png"/>
उपक्रमणिका ।
अस्ति गोदावरीतटे प्रतिष्ठानाख्यो जनपदः। तत्र विक्रमसेनस्य भूपतेः पुत्रः शक्रपराक्रमः त्रिविक्रमसेनो नाम विख्यातकीर्त्तिरभून् नृपतिः। तस्य सभासीनस्य नृपस्य सेवार्थं प्रत्यहं क्षान्तिशीलो नाम भिक्षुः एकैकं फलमुपानयत्। सोऽपि तदादाय आसन्नचरस्य कोशाधिकारिणो हस्ते प्रतिदिनं न्यक्षिपत्। इत्थं द्वादशसु वर्षेषु गतेषु एकदा सभागतोऽसौ भिक्षुः
राज्ञे
यथायथं फलं दत्त्वा सभागृहात् निरगात्। राजा तु तस्मिन्नहनि दैवात् प्रविष्टाय रक्षिणां हस्तच्युताय क्रीड़ामर्कटपोताय तत् फलं प्रादात्। स मर्कटः यावत् तत् फलमश्नाति तावत् तस्मात् फलात् विदलितात् अनर्घम् उत्तमं रत्नं निरगात् । तद् दृष्ट्वा राजा तदादाय तं भाण्डागारिकं पप्रच्छ भिक्षुणा उपनीतानि यानि फलानि मया तव हस्ते दत्तानि, तानि त्वया सदा क्व स्थापितानि? तदाकर्ण्य कोशाध्यक्षः सभयेस्तं व्यजिज्ञपत्, देव! मया तानि अखण्डानि च गवाक्षतःक्षिप्तानि, यदि आदिशति देवः, तदा तानि साम्प्रतं गवेषये इत्वृचिवान्॥ स
राज्ञानुमतो गत्वा क्षणादेव प्रत्यावृत्य पुनः व्य
ज्ञापयत्, देव! तानि कोशे शीर्णानि फलानि तेषु च रश्मिज्वालाकुलान् रत्नराशीन् पश्यामि॥ तदाकर्ण्य सन्तुष्टः तान् मणीन् कोशरक्षिणे दत्त्वा अन्येद्युरागतं तं भिक्षुं पर्य्यपृच्छत्॥ भिक्षो ! कथमेवं धनव्ययेन नित्यं मां सेवसे? यावत् कारणं न वक्ष्यसि, तावत् ते फलं न ग्रहीष्ये, इत्युक्तवन्तं तं नृपं स भिक्षुः विजनं नीत्वाऽब्रवीत्- वीर! किमपि साधनं साचिव्यसापेक्षमस्ति, तत्र वीरेन्द्रेण त्वया क्रियमाणं साहाय्यमर्थये। इति श्रुत्वा राजा तथेति तस्य साहाय्याय प्रत्यपद्यत। ततः स श्रमणस्तुष्टः पुनस्तं नृपमवादीत्- प्रभो! अस्याम् आगामिन्यां कृष्णचतुर्दश्यां निशाममे इतो महाश्मशानं गत्वा वटतरोरधः स्थितस्य मे सकाशं त्वया गन्तव्यमिति। ततस्तेन रात्रा वाढमेवं करिष्यामीति अभिहिते स क्षान्तिशोलो भिक्षुः प्रहृष्टः स्वं निलयं ययौ ।
अथागतायां कृष्णचतुर्दश्यां स महासत्त्वो नरपतिः भिक्षोस्तां प्रार्थनां प्रतिपन्नां स्मरन् प्रदोषे नीलवसनेन समलङ्कृतशिराः खड्गपाणिरलक्षितः, तत् महाश्मशानमगात्। गत्वा इतस्ततोऽन्विष्यन् वटतरोरधः स्थितं तं मन्त्रन्यासं कुर्वाणं भिक्षुं दृष्ट्वा समुपेत्य च जगाद, भिक्षो! एषोऽस्मि आगतः किन्ते करवाणि वद। तदाकर्ण्य स भिक्षुर्नृपं दृष्ट्वा हृष्टः प्रोवाच, राजन्! यदि प्रसादस्ते कर्त्तव्यः, तदा इतो दक्षिणामुखं गत्वा एकाकी विदूरे यं शिंशपातरुं द्रक्ष्यसि, तस्मिन् प्रलम्बितो मृतः कोऽपि तिष्ठति, तमिहानीय मे साहाय्यं कुरु। तदाकर्ण्य स वीरो नृपतिस्तथेत्युक्ता सत्यसङ्गरः दक्षिणादिशमालम्बा तत्र प्रययौ। कथञ्चिच्च तेन श्मशानमार्गेण गच्छन् विदूरे तं शिंशपातरुं प्राप्य तदुपरि लम्बमानं शवमेकमद्राक्षीत् । दृष्ट्वा तं तरुमारुह्य छिन्नरज्जुं तं भूमौ अपातयत्। पातितश्च सः अकस्मात् जीवित इव भृशं चक्रन्द। ततोऽसौ राजा अवरुह्य कृपया तज्जीविताकाङ्क्षी यावत् तस्य अङ्गानि परामृषत् तावत् स शवः अट्टहासमकरोत् । ततः स राजा तं वेतालाधिष्ठितं मत्वा कथं हससि, एहि गच्छाव इति निर्भयं यावत्ब्रवीति, तावत् तं वेतालं न भूमौ समवैक्षत। ऐक्षत च तस्यैव तरोरुपरि यथापूर्वं लम्बमानं। ततो भूयोऽपि तरुमारुह्य स राजा यत्नतः तं शवमवारोहयत्, वीराणां चित्तं वज्रादपि अखण्डितम् अकम्पाम्। ततः तं वेतालाधिष्ठितं शवं स्कन्धमारोप्य मौनेन गन्तुमुपचक्रमे। यान्तञ्च तं शवाधिष्ठितो वेतालस्तंराजानमब्रवीत्, राजन्! अध्वविनोदाय कथामाख्यामि शृणु ।
<MISSING_FIG href="../books_images/U-IMG-1722351865LINE5.png"/>
अथ प्रथमकथा।
<MISSING_FIG href="../books_images/U-IMG-1722351890LINE6.png"/>
अस्ति वाराणसी नाम शङ्करवसतिः पुरी। या कैलासस्य स्थलीव पुण्यजनसेविता। हारयष्टिरिव यस्याः स्वर्गतरङ्गिणी विभाति। तस्यां प्रतापानलनिर्दग्धविपक्षकुलकाननः प्रतापमुकुटो नाम नृपतिः प्रतिवसति स्म। तस्य च वज्रमुकुटो नाम तनयःस्मरस्य च जनस्य च रूपशौर्य्ययोर्दर्पदलन आसीत्। तस्य राजपुत्रस्य सखा महामतिः मन्त्रिपुत्रः कश्चिदास्त। कदाचित् स नृपात्मजः तेन सख्या सह क्रीड़न्मृगयाप्रसङ्गेन अतिदूरमध्वानं जगाम। स तत्र सिंहानां मस्तकानां सटालानि शौर्य्यश्रीचामराणीव शनैश्छिन्दन् महावनमेकमाससाद। तत्र सरोवरमेकं दृष्ट्वा श्रान्तः स तेन सुहृदा मन्त्रिपुत्रेणतज्जलं पीत्वा प्रक्षालितकरच्चरणः कस्यापि तीरतरोर्मूले समुपाविशत्।
अत्रान्तरे कापि स्नानार्थमागता दिव्याकृतिः सुपरिच्छदा पूरयन्तीव लावण्यनिर्भरेण सरोवरं दृष्टिपातैः सृजन्तीव तत्रोत्पलवनानि, प्रत्यादिशन्तीव मुखेन जितेन्दुना अम्बुजानि कन्यका तेन ददृशे। दृष्टैव सा तस्य राजपुत्रस्य मनो जहार तत्क्षणम्। सोऽपि राजसूनुस्तस्या विलोचने अहार्षीत्। सा तु कन्या तद्दर्शनेन सञ्जातविकारा लज्जया किमपि वक्तुमशक्नुवाना हृद्गतमाकूतं सङ्केतेन बोधयन्ती एकमुत्पलं कर्णे गृहीत्वा दन्तरचनां विधाय पद्मं शिरसि कृत्वा हृदये करमदात्। राजपुत्रस्तु तस्यास्तां संज्ञां न विवेद, मन्त्रिपुत्र एव केवलं बुद्धिमान् सर्वं बुबुधे। क्षणेन च सा कन्या अनुगर्नीयमाना प्रययौ। गत्वा च स्वं गृहं पर्य्यङ्कनिषस्मा तस्थौ। चित्तन्तु तस्यास्तस्मिन् नृपात्मजे एव स्थितम्। सोऽपि राजसुतः कृच्छ्रेण स्वनगरीं गत्वा तया विना नितरां व्यथितो दिने दिने कृशतामवाप। सख्या च मन्त्रिपुत्रेण तेन रहसि तामदुष्प्रापां शंसता पृष्टस्त्यक्तधैर्य्यः प्रोवाच सखे! यस्या नाम न, ग्रामो न, अन्वयश्च नावबुध्यते सा कथं प्राप्यते, तन्मृषा मां किमाश्वासयसि? इति राजपुत्रेणोक्तो मन्त्रिपुत्रस्तमभ्यधात्, देव! किं न दृष्टं त्वया, यत् यत् तया संज्ञया सूचितम्। यत्तया कर्णे उत्पलं न्यस्तं तेन एतत् सूचितं कर्णोत्पलस्य राज्ञः राष्ट्र अहं निवसामीति। कृता च या दन्तरचना, तया एतत् सूचितं यथाहं तत्र दन्तघाटकस्य कन्येति। शिरसि पद्मं धृत्वा एतत् सङ्केतितं यथाहं नाम्ना पद्मावतीति। हृदयार्पित हस्तया च तया त्वयि मे प्राणाः स्थिता इति सङ्केतितम्। अस्ति च कलिङ्गदेशे कर्णोत्पलो नाम नृपः। तस्य चित्तप्रसादकः महासमृद्धिमान् दन्तघाटकः संग्रामवर्द्धनो नाम प्रतिवसति। तस्य कन्यारत्नमियं पद्मावती नाम प्राणाधिकप्रियम्। एतत्लोकमुखात् मया विदितम्। तस्मात् मया तस्या देशादिसङ्गिनी संज्ञा ज्ञाता। इति तेन मन्त्रिपुत्रेणोक्तो राजपुत्रस्तस्मै सुधिये तुतोष जहर्ष च लब्धोपायः।
अथ स तेन मन्त्रिपुत्रेण सम्मन्त्रा प्रियार्थी पुनर्मृगयाव्याजेन तत् सरोऽगमत्। अर्द्धमार्गे च वाताश्ववेगात् सैनिकान् पार्श्वचरानतीत्य तेनैव मन्त्रिपुत्रेण युतः कलिङ्गाभिमुखं ययौ। प्राप्य तन्नगरं कर्णोत्पलनृपतेः, अन्विष्य च दन्तघाटकस्य भवनं दृष्ट्वा च तददूरे वासार्थं कस्याश्चित् वृद्धाया योषितो गृहं तौ राजपुत्रमन्त्रिपुत्रौ प्राविशेताम्। तत्र च बाहौ यवससलिलैः पूरयित्वा गुप्तमवस्थाप्य मन्त्रिपुत्रः तां वृद्धामपृच्छत् वृद्धे! कच्चित् अस्मिन् नगरे कमपि दन्तघाटकनामानं वेत्सि? तदाकर्ण्य सा जरती सादरं तमभाषत वत्स। सुष्ठु वेद्मि, तस्याहं धात्रो अस्मि तेनैवाहं पद्मावत्याः स्वदुहितुः पार्श्वे स्थापिता, किन्तु अहं तत्राधुना अपहृताम्बरा न गच्छामि, जातु कुपुत्रः कितवो मे वस्त्रं दृष्ट्वैव सद्यः हरेदिति। एवमुक्तवतीं तां हृष्टः मन्त्रिपुत्रः स्वात्तरीयादिदानेन सन्तोष्य पुनरब्रवीत् मातस्त्वम् आवाभ्याम् यद् यद् कथ्यते तत्तत् सुगुप्तं कुरुष्व। तां दन्तघाटसुतां पद्मावतीं गत्वा वद यस्त्वया सरसीतटे राजपुत्रो दृष्टः, सोऽत्र आगतः, तेनार्थिताहंत्वदन्तिकं प्रणयादायाता। तदाकर्ण्य सा वृद्धा दानवशीकृता तदैव पद्मावतीपार्श्वं गत्वा अवसरं प्राप्य तां जगाद वत्से! तौ राजसुतमन्त्रिसुतौ त्वत्प्राप्तये अत्र समागतौ, साम्प्रतं करणीयमादिश। इत्यभिहिता सा तां निर्भर्त्स्य पाणिभ्यां द्वाभ्यां कर्पूरलिप्ताभ्यां द्वयोः कपोलयोराहत। ततः सा परिभवार्त्ता रुदती गृहमागम्य तावभाषत पुत्रौ! पश्यतं मुखे मे तया एता अङ्गुलिमुद्रा दत्ताः, एवं तयोक्ते नैराश्यविषयं तं राजसुतं स ममवुद्धिर्मन्त्रिसुतः जनान्तिकमवादीत् सखे! मा विषादं गमः, मन्त्रं रक्षन्त्या तया निर्भर्त्स्य यत् कर्पूरशुभ्रा अस्या मुखे दश स्वाङ्गुलयो निहिताः एतैरेतत् सूचितं यथा अस्मिन् शुक्ले पक्षे चन्द्रवतीरिमा दश रात्रीः सङ्गमानर्हाः प्रतोक्षस्व इति। इत्येवं राजपुत्रं समाखास्य स मन्त्रिसुतः गुप्तं हस्तस्थं काञ्चनं किञ्चिद् आपणे विक्रीय तया वृद्धया महार्हं भोजनं साधयामास। ततस्तौ द्वौ सह तया वृद्धया बुभुजाते। इत्थं दशाहानि नीत्वा पुनर्जिज्ञासार्थं स मन्त्रिपुत्रस्तां वृद्धां पद्मावतीपार्श्वं प्रेषितवान्। सापि मिष्टान्नपानादिलुब्धा तदनुरोधात् तस्या वासगृहं गत्वा प्रतिनिवृत्य च तौ जगाद वत्सौ! इतो गत्वाहं तत्पार्श्वे कियन्तं कालं तूष्णी स्थिता, तया तु युष्मत्कथापराधं स्वयमुद्गिरन्त्या पुनः सालक्तकाभिस्तिसृभिः कराङ्गुलिभिः उरसि हता तदन्तिकात् अपमानिता पुनरायाता। तदाकर्ण्य म मन्त्रिपुत्रः तं राजपुत्रं स्वैरमब्रवीत् सखे! मान्यथा शङ्कां कार्षीः, अस्या हृदये तया यदलक्तकाक्तम् अङ्गलिमुद्रात्रयं विन्यस्तं कौशलेन तेन रजस्वलास्तिस्रो निशाः स्थिताः इति सूचितम्। एवं राजसुतमाश्वास्य स मन्त्रिसुतः त्र्यहे गते पुनरपि तां वृद्धां पद्मावतोसकाशं प्राहिणोत्। सा तस्मिन् दिने गता तया समाहत्य भोजिता। पानादिभिश्च दिनं सर्वं विनोदिता। यावत् सा सायं गृहमागन्तुमिच्छति तावत् तत्र बहिः भयङ्करः कोलाहलः समुदभूत्। हा हा अयं मत्तहस्ती स्ववासात् भ्रष्टः जनान् मथून् प्रधावतीति जना आक्रदन्तः पलायमानाः शुश्रुविरे। ततः सा पद्मावती तां वृद्धासभाषत अम्ब! साम्प्रतं हस्तिरुद्धे पथि त्वया न गन्तव्यं तत्त्वां पीठिकां समारोप्य आलम्बनरज्जुभिर्बद्धा अनेन वृहता गवाक्षेण अत्र गृहोद्याने प्रक्षिपामि, ततो वृक्षमारुह्यवलङ्घय च प्राकारम् अन्येन वृक्षेण स्वगृहं व्रज इति। एक्मुक्त्वा सा चेटिभिस्तां वृद्धां रज्जुपीठिकया गवाक्षात् उद्याने प्रक्षेपयामास। सा च गृहं गत्वा तत् सर्वं ताभ्यां राजपुत्रमन्त्रिपुत्राभ्यां शशंस। तदा स मन्त्रिपुत्रस्तं राजपुत्रमभाषत सखे! सिद्धं ते अभिलषितं युक्त्या तया मार्गे दर्शितः, तदद्यैव प्रदोषे त्वम् एतेनैव पथा तत् प्रियामन्दिरं गच्छ। इत्युक्तस्तेनैव मन्त्रिपुत्रेण युतः स राजपुत्रः तेनैव पथा वृद्धयादर्शितेन तदुद्यानं ययौ। ददर्श च तत्र तां लम्बमानां सपीठिकां मार्गोमुखाभिश्वेटीभिरुपरिष्टादधिष्ठितां रज्जुम्। स च तां दृष्टैवयावदारोहति स्म तावत् ताभिः सखीभिः तथा रज्वा गवाक्षेणाक्रष्टः प्रियान्तिकं प्राविशत्। तस्मिंश्व प्रविष्टे स मन्त्रिपुत्रस्तमेव वृद्धावासं प्रायात्। राजपुत्रस्तु तां पद्मावतीं पूर्णेन्दुवदनां प्रसरत्कान्तिचन्द्रिकां कृष्णपक्षात् गुप्तं स्थितां राकाविभावरीमिव अद्राक्षीत्। सापि तं दृष्ट्वा तत्कालोचितैः कण्ठग्रहादिभिस्तैस्तैःप्रौढ़ाचारैरमयामास। ततस्तत्रगान्धवविधिना समूढ़या तथा सह कान्तया गुप्तं विहरन् कतिचित् दिनानि स्थित्वा कदाचित् तां प्रियामवदत् प्रिये! मम सखा मन्त्रिपुत्रः मयैव सहायातः अत्र वृद्धगृहे एकाको तिष्ठति, तद् गत्वा तं सम्भाव्य पुनरेष्यामि इति तदाकर्ण्य सा धूर्त्ता पद्मावतीतं प्रियमाह स्म नाथ! त्वामहं पृच्छामि मत्कृतास्तास्ताः संज्ञास्त्वया ज्ञाताः? उतते तेन मन्त्रिपुत्रेण? तयाभिदधतां तां राजपुत्त्रोऽत्रवीत् प्रिये! न ज्ञातं मया तत् सर्वं तेनैव मे मित्रेण दिव्यज्ञानवता सर्वं विदित्वा मे समाख्यातम्। एतदाकर्ण्य सा भामिनीविचिन्त्य तं प्रत्यभाषत नाथ! तर्हि अयुक्तं कृतं त्वया चिरात् तद्वात्तांकथयता, यस्तेसखा, स मे भ्राता, तस्य प्रथममेव मया ताम्बूलादिसमाचारेण सम्मानना कर्त्तव्यासीत्। इत्युक्तवत्या तयानुमतः राजपुत्रस्तेनैव पथा तस्यां निशि सख्यरन्तिकमागात्। अकथयच्च तत् सर्वं प्रियया कथितम् मन्त्रिपुत्रस्तु तदयुक्तमिति न तद् सादरमभ्यमन्यत। इत्थंपरस्परालपतोस्तयोः सा विभावरी पर्य्यगात्।
अथ तयोः सान्ध्ये विधौ निवृत्ते पक्वान्नताम्बूलहस्ता पद्मावतीसखी तत्रागात्। सा समागत्य तं मन्त्रिपुत्रं कुशलं पृष्ट्वा दत्तोपचारा युक्तितः राजपुत्रस्य भोजनं निषेद्धुं सा तव प्रिया भोजनादौ तदागमं प्रतीक्षमाणा आस्ते इति आवेद्य क्षणात् ततः प्रायात्। ततः स मन्त्रिपुत्रस्तंराजपुत्रमभाषत देव!कौतुकमेकं पश्य त्वां दर्शयामि। इत्युक्त्वा स तस्मादेकं पक्कान्नमादाय सारमेयाय तत्र स्थिताय प्रादात्। स भुक्तैव तत्क्षणात् व्यपद्यत। तदवलोक्य किमिदं चित्रमिति तं मन्त्रिपुत्रं राजपुत्रः पर्य्यपृच्छत्। स चैनं प्रत्यभाषत देव! संज्ञाप्रकटनेन मां धूर्त्तं विदित्वा हन्तुकामया त्वदनुरक्तया तया अस्मिन् सति राजपुत्रो मदेकायत्तचित्तो न भवेत् एतद्वशश्चमां विहाय स्वांनगरीं व्रजेदिति विचारयन्त्या मम भक्षणार्थं विषान्नं प्रहितम्। तस्मात् त्वमेतस्यां मन्धुं मुञ्च। अहं कामप्यत्र युक्तिंपर्य्यालोचयामि। इत्युक्तवन्तं मन्त्रिसुतं स राजपुत्रः सत्यं त्वं बुद्धिशरीरइति यावत् स्तौति तावत् सहसा दुःखाकुलजनैरुदीरितो हा धिक् राज्ञो बालः सुतो विपन्न इति रवः श्रूयते स्म। तदाकर्णनेन हृष्टः स मन्त्रिपुत्रस्तंनृपात्मनं जगाद, देव! अद्य पद्मावतीगेहं निशि व्रज, तत्र गत्वा तां तथा पाययेः, यावत् पानमदेन सा निःसंज्ञा नष्टचेष्टा गतजीवितेव स्यात्। ततस्तस्याः समिद्रायाः कटितटे शूलेन अग्नितप्तेन अङ्कंदत्वा आभरणानि गृहीत्वा गवाक्षेण तेनैव प्रकारेण आगच्छेः, ततःपरं यथा भद्रं भवेत् तथा करिष्यामीत्युक्ता कारयित्वा च त्रिशूलं तस्मैराजसूनवे प्रादात्। सोऽपि राजपुत्रस्तत् कुटिलकर्कशं कालायसदृढ़ंकान्तावयस्ययोश्चित्तमिव हस्ते गृहीत्वा पूर्ववत् रात्रौ पद्मावतोगृहमेत्य शुचैः स्वमन्त्रिणो वाक्यं प्रभूणामविचार्य्यमिति मत्वा तत्र मद्यपाननिचेष्टां तां जघने शूलेनाङ्कितां हृतालङ्करणाञ्च कृत्वा सख्युरन्तिकमागात्। अशंसच्चआभरणानि दर्शयित्वा तत् सर्वम्। ततः स मन्त्रिपुत्रः स्वं समोहितं सिद्धं मत्वा प्रातः श्मशानं गत्वा स्वयं तापसरूपभृदभवत् अकरोच्च राजपुत्रं शिष्यरूपिणम्। अब्रवीच्च त्वं इतोऽलङ्करणात् इमां मुक्तावलीं नीत्वा विक्रेतुम् आपणं व्रज, यदि त्वां पुररक्षिणो गृह्णीयुः तदा इत्थं ब्रयाः, यदियं मे गुरुणा विक्रयार्थं दत्तेति, इति सन्दिष्टः स राजसुतः आपणं गत्वा तथैव मुक्तावलीं विक्रेतुमतिष्ठत् अगृह्यत च तथाभूतः पुररक्षिभिः । ते च दन्तघाटसुताया अलङ्करणमोषान्वेषणार्थिनः तं राजसूतं तत्क्षणंनगराध्यक्षान्तिकं निन्युः। स च नगराध्यक्षस्तं तापसाकारं दृष्ट्वा सान्त्वेन पप्रच्छ, भगवन् कुत इयं मुक्तावली आसादिता, दन्तघाटकन्याया इदमाभरणंहृतम्। तदाकर्ण्यराजपुत्रस्तानवादीत् भद्राः! गुरुणा ममैषा विक्रेतुं दत्ता, तद्युष्माभिरेत्य स पृच्छ्यतामिति। ततस्तंसमुपेत्य नगराधिपः पप्रच्छ भगवन्! इयं मुक्तावली कुतस्तव शिष्यगता? एतदाकर्ण्य स धर्त्तोमन्त्रिसुतः तं रहसि अवादीत् भद्र! अहं तपस्वी सदा अस्मिन् इतस्ततो भ्राम्यामि, सोऽहं दैवात् अत्र श्मशाने स्थितो निशि समस्तं योगिनीचक्रंसमागतमपश्यम्। तासु चैकया योगिन्या राजपुत्र एकःउद्घाटितहृदयाम्भोजो भैरवाय निवेदितः। पानमत्ता च सा जपतो मे मोक्षमालिकांहर्त्तुं महामाया विविधविकारपूर्णमुखी यावत् प्रावर्त्तत तावत् अतिदर्पिता सा क्रुडेन मया जघनस्थले त्रिशूलेन मन्त्रप्रज्वलितास्त्रिणा पङ्किता, हृता च तस्या इयं मुक्तावली कण्ठात्। तदेषा तापसानहांविक्रयार्थं प्रेषिता। तदाकर्ण्य व नगराध्यक्षो गत्वा राजानं तत् सर्वं व्यजिज्ञपत्। भूपोऽपि आकर्ण्य तत् दृष्ट्वा च तां मुक्तावलीं प्रेक्षणप्रहिताया वृद्धाया आप्तवनिताया मुखात् दृश्यशूलाङ्कां जघने तां पद्मावतीं श्रुत्वा सत्यमेव ग्रस्तः सुतो मेऽनया डाकिन्या इति समुत्पन्ननिश्चयः स्वयं तस्य मन्त्रिपुत्रस्य तापसवेशिनोऽन्तिकं गत्वा तस्याः पद्मावत्या निग्रहं पृष्ट्वा च तस्य वचसा पितृभ्यां शोच्यमानायाः तस्याः पुरान्निर्वासनं दण्डं व्यधात्। सापि निर्वासिता अटवीस्था नग्नापि तत् सर्वं मन्त्रिपुत्रकृतं सम्भाव्य तनुं न जहौ। दिनान्ते तौ राजपुत्रमन्त्रिपुत्रौ तापसवेशं त्यक्त्वा अश्वारूढ़ौ शोचन्तींतां प्रापतुः। निन्यतुश्चअश्वमारोप्य स्वराष्ट्रम्। तत्र चागत्य स राजपुत्रस्तया साकंसुनिर्वृतस्तस्थौ। दन्तघाटस्तु अरण्येक्रव्याद्भिर्भक्षितां सुतां मत्वा शोकेन पञ्चत्वमगात्। भार्य्या च तस्य तमनुजगाम। इति कथामाख्याय वेतालस्तं नृपमपृच्छत्, राजन्! एतयोर्दम्पत्योर्बधात् राजपुत्रस्य मन्त्रिपुत्रस्य वा पद्मावत्याः पातकं भवेत्, त्वं हि वुद्धिमतां वरो दृश्यसे, तदत्र मे संशयं छिन्धि, यदि जानन्नपि मे तत्त्वं न वदिष्यसि, तदा ते मूर्द्धा निश्चितं शतधा स्फटिष्यति यदि च सदुत्तरं दास्यसि तदाह पुनस्तव स्कन्धात् तमेव शिंशपातरुमाश्रयिष्ये इति। इत्युक्तवन्तं वेतालं राजा त्रिविक्रमसेनस्तं प्रत्यवादीत्, योगेश्वर! किन्ते अज्ञातम्? तथापि वच्मि, एतेषां त्वयोक्तानां त्रयाणामपि नैव पातकं केवलं कर्णोत्पलस्य राज्ञएव तत् पातकं भवति। वेतालःप्राहस्म राज्ञः को दोषः, ते त्रयः तत्कारकाः हंसैःशालिषु जम्वेषु काकाः किमपराध्यन्ति। ततो राजाब्रवीत् ते त्रयोऽपि न दूष्यन्ति, मन्त्रिसुतस्य प्रभुकार्य्यमेव हितं, तदत्र सोऽपातको, पद्मावतीराजपुत्रौ हि कामशराग्निना निर्दग्धौ अविचारज्ञौतस्मात् स्वार्थसम्पादनाददोषौ, राजा तु नीतिशास्त्रेषु सुशिक्षितोऽपि चारैःप्रजासु तत्त्वमनन्विष्यन् धूर्त्तचरितानि च जानन् अविचारं कृतवानिति, स एवात्र पातकीति निशम्य सवेतालःतस्य राज्ञः दार्ढ्यं परीक्षितुं मायाबलात् तत्क्षणं तमेव शिंशंपातरुमशिश्रियत्। राजापि निःशङ्कःपुनरमुमानेतुं तत्रागात्।
<MISSING_FIG href="../books_images/U-IMG-1722356834LINE5.png"/>
अथ द्वितीयकथा।
<MISSING_FIG href="../books_images/U-IMG-1722356918LINE7.png"/>
अथ स राजा विक्रमसेनः पुनस्तं वेतालमानेतुं तं शिंशपातरुमूलमगमत्। यावत्तत्र प्राप्तः समन्तात् वीक्षते स्म तावत् तं वेतालं भूमौ कूजन्तं पतितं ददर्श। ततश्चतस्मिन् नृपे तं मृतदेहस्थं वेतालं स्कन्धमारोप्य जवात् तूष्णीमानेतुं प्रवृत्ते स्कन्धस्थितः स वेतालस्तमब्रवीत्, राजन्! महति अनुचिते क्लेशेपतितोऽसि तस्मात् तव विनोदाय पुनःकथामेकां कथयामि श्रूयताम्।
अस्ति कालिन्दीतटे ब्रह्मस्थलाभिधः कश्चिदग्रहारः। तत्र अग्निस्वामीति समभवत् कश्चित् वेदपारगो विप्रः। तस्य अतिरूपवती मन्दारवती नाम कन्यका अजनि। यां नवानर्घलावण्यां निर्माय विधिर्नियतं निजं स्वर्गनारीपूर्वनिर्माणकौशलं जुगुप्सते। तस्यां शैशवातिक्रान्तायां कान्यकुब्जात् समसर्वगुणोपेता- स्त्रयो ब्राह्मणदारकाः समाययुः। तेषामेकैकः आत्मार्थं तत्पितरं तामयाचत। वत्पिता प्राणव्ययेऽपि तामन्यस्मै दातुमनिच्छन् तन्मध्यादेकस्मै दातुंमतिमकरोत्। सा तु कन्या अन्ययोर्बाधात् भीता कियन्तं कालं न पाणिमग्राहयत्। ते च त्रयोऽपि तस्या मुखेन्दुनिक्षिप्तदृष्टयः चकोरव्रतमालम्ब्यदिवानिशं तत्रैव तस्थुः।
अथाकस्मात् समुत्पन्नेन ज्वरदाहेन आर्त्ता सा मन्दारवती पञ्चतामवाप। ततस्ते विप्रकुमारास्तां परासुं दृष्ट्वा शोकार्त्ताः कृतप्रसाधनां श्मशानं नीत्वा अग्निसादकुर्वन्। ततश्च तेषामेकः तत्र मठं निर्माय तद्भस्मशय्यायां भैक्ष्येण जीवन्नतिष्ठत्। द्वितीयोऽस्थीनि तस्या उपादाय भागीरथ्यां निक्षेप्तुं जगात्। तृतीयस्तु तापसो भूत्वा देशान्तराणि भ्रमितुमगात्। स तु भ्राम्यन् तापसः वज्रालोकाभिधं ग्रामं प्राप्य कस्यापि विप्रस्य गृहे अतिथिरभूत् तेन च गृहप्रतिमा पूजितो यावत् तत्र भोक्तुं प्रावर्त्तत, तावत्तस्य एकः शिशुः रोदितुं प्रवृत्तोऽभवत्। स च शिशुः सान्त्वामानोऽपि यदा न व्यरंसीत् तदास्य गृहिणी तं बाहावादाय ज्वलत्यग्नौ क्रुधा प्राक्षिपत्। क्षिप्त एव स कोमलाङ्गस्तत्क्षणात् भस्मसादभूत्। तदवलोक्य स तापसः सञ्जातरोमाञ्चः प्राब्रवीत्, हा धिक्! कष्टं प्रविष्टोऽहं ब्रह्मराक्षसवेश्मनि तस्मात् मूर्त्तं किल्विषमिदमन्नं नाधुना भक्षयामि। एवं वादिनं तमतिथिं स गृहस्थः प्रत्यवादीत्, ब्रह्मन्! पश्य मे पठितसिद्धस्य मृतसञ्जीवनीं शक्तिम्। इत्युक्त्वा पुस्तकमुद्घाट्य तां विद्यां बहिस्कृत्य अनुवाच्य च तस्मिन् भस्मनि जलमक्षिपत्। क्षिप्तमात्रे च जले स पुत्रस्तथैव जीवन्नदतिष्ठत्। ततः स तापसः सुनिर्वृतस्तत्र सहर्षं बुभुजे। गृहस्थोऽपि स नागदन्तके पुस्तकमवस्थाप्य भुक्तैवैतेन तापसेन सह रात्रौ शयनमभजत। अथ सुप्ते गृहपतौ स तापसः स्वैरमुत्थाय शङ्कितः स्वप्रियाया मन्दारवत्या जीवनार्थं तां पुस्तिकामग्रहीत्। गृहीत्वैव तस्मान्निर्गत्य रात्रिन्दिवं व्रजन् शनैस्तत् श्मशानमासदत्। अद्राक्षीच्च सहसा तं द्वितीयम् उपस्थितं यो हि गङ्गाम्भसि तदस्थि क्षेप्तुमगात्। प्राप्य च तत्रस्थं तस्या भस्मनि शायिनं तृतीयं निबन्धमठम्।
अथ स तापसः प्रोवाच मठिका त्यज्यतां भ्रातः! प्रियां तामहमुत्थापयामीति। ततस्ताभ्यां निर्बन्धतः परिपृष्टः पुस्तिकामुद्घाट्य मन्त्रमनुवाच्च मन्त्रपूतानि जलानि तस्मिन् भस्मनि प्राक्षिपत्। क्षिप्तमात्रेषु जलेषु सा मन्दारवती जीवन्ती सहसा सभुत्तस्थौ। तदा सा कन्या वह्निंप्रणम्य निष्क्रान्तं पूर्वाधिकद्युति काञ्चनेनेव निर्मितं वपुर्बभार। तादृशीं तां पुनर्जीवितां निशम्य त्रयोऽपि ते स्मरातुराः तत्प्राप्तार्थमन्योऽन्यं कलहं चक्रुः। एकनोक्तम् इयं मन्मन्त्रबलात् जीविता ममैव भार्य्या। अपरोऽब्रवोत् मदीयेन तीर्थभ्रमणपुण्येन इयं जीविता, तदेषा ममैव भार्य्या। तृतीयेनाभिहितं मया भस्मानि रचितानि तत एवेयं जीविता, तस्मात् ममैवेयं प्रणयिनीति। हे महीपते! तेषां विवादनिर्णये त्वमेव शक्तः, तत् ब्रूहि कन्यासौकस्य एतेषां भार्य्या भवितुमर्हति? यदि जानन् मृषा वदिष्यसि तदा ते मूर्द्धा विदलिष्यति। इति वेतालादाकर्ण्यस राजा एवमभ्यधात् यः क्लेशेन मन्त्रमानीय एनमजोवयत् स खलु पितृकार्य्यकरणात् न पतिः। यश्चतस्याअस्थीनि गङ्गायां क्षेप्तुंगतः स पुत्रकार्य्यकरणात् न पतिः। यस्तु तद्भस्मशय्यां समाश्लिष्य तपश्चचार श्मशान एव, स एवास्याःप्रणयिकार्य्यकरणात् पतिर्भवितुमर्हतीति। इत्थंनृपात् त्रिविक्रमसेनादाकर्ण्य स वेतालस्तस्य स्कन्धादतर्कितः रूपदं प्रायात्। राजा च भिक्षुकार्य्यार्थं पुनस्तं प्राप्तुं मनो वबन्ध। प्राणात्ययेऽपि महासत्त्वाः प्रतिपन्नमर्थम् असाधयित्वा न निवर्त्तन्ते ।
<MISSING_FIG href="../books_images/U-IMG-1722418666line3.png"/>
अथ तृतीयकथा
।
<MISSING_FIG href="../books_images/U-IMG-1722440610LINE7.png"/>
अथ राजा पुनरपि तं वेतालमानेतुं तं शिंशपातरुमभ्यगच्छत्। प्राप्य च तत्रस्थंमृतदेहगतं तं स्कन्धे गृहीत्वैव तूष्णींगन्तुंप्रावर्त्ततI अथ प्रयान्तं तं स वेतालः पुनरवोचत्, राजन् ! निशि गमागमं कुर्वन् नितरां खिद्यसे, अतस्त्वां विनोदयन् पुनः वाथां वर्णयामि शृणु।
अस्ति पाटलिपुत्रं नाम भूमण्डलख्यातं नगरम्। पुरासीत् तत्र नृपतिः विक्रमकेशरी नाम। यं गुणानामिव रत्नानामाश्रयं विधिर्व्यधात्। तस्य विदग्धचूड़ामणिर्नाम दिव्यविज्ञानवान् सर्वशास्त्रवित् शापावतोर्ण एकः शुक आसीत्। तस्य नृपस्य आत्मजः शशी नाम शुकोपदेशेन मगधदेशनृवतिकन्यां चन्द्रप्रभां नाम उपयेमे। तस्या अपि राजपुत्राः तथाभूता ज्ञानविज्ञानशालिनी सोमिका नाम शारिकाभूत्। अथ तौ शारिकाशुकौएकपञ्जरस्थौ राजवेश्मनि आस्ताम्।
एकदा साभिलाषः स शुकस्तां शारिकामब्रवीत्, सुभगे! एकशय्यासनाहारविहारेषु मां भजेति। शारिकाब्रवीत् नाहं पुरुषसंसर्गंकर्त्तुमिच्छामि, यतः पुरुषा दुष्टाः कृतघ्नाश्च इति। ततः शुकेन न पुमांसो दुष्टाः, स्त्रिय एव दुष्टा नृशंसहृदयाश्चेति कथिते तयोर्विवादः समजनि। ततस्तौ पक्षिणौ क्रीतदासत्वक्रीतदासीत्वपणं कृत्वा परस्परं विवादनिष्पत्तये राजपुत्रमुपेयतुः। स राजपुत्रः पितुरास्थानगतः विवादपदं श्रुत्वा कथं पुरुषाः कृतघ्नाः, ब्रूहि तत्त्वमिति शारिकामपृच्छत्। ततः सा शृणोतु राजपुत्र इति समाख्याय स्वपक्षसमर्थनाय पुंदोषाख्यायिनींकथां कथयितुमुपचक्रमे।
अस्ति कामन्दकीनाम विख्याता नगरी तस्याम् अर्थदत्तो नाम महाधनो बणिक् प्रतिवसति स्म। कालेन तस्य धनदत्तो नाम तनयः समुदपद्यत। अथ पितरि स्वर्गते स युवा द्यूतादिसङ्गेन भृशमुच्छ्रङ्खलोऽभवत्। धूर्त्ताश्च मिलिताः, तं सर्वथा प्राभ्रंशयन्। दुर्जनसङ्गतिरेव व्यसनवृक्षस्य मूलम्। अचिरेण च व्यसनासक्ततया क्षीणसर्वस्वः दारिद्र्येण च लज्जितः स्वदेशं त्यक्त्वाभ्रमितुंदेशान्तराणि समाश्रयत्। गच्छंश्च चन्दनपुरं नाम नगरमाससाद। विवेश च भोजनार्थी कस्यापि वणिजः सदनम्। स च वणिक् कुमारं दृष्ट्वा पृष्ट्वा च कुलं ज्ञात्वा च कुलीनं सत्कृत्य च दैवयोगात् प्राप्तममन्यत अददाच्च तस्मै सधनांरत्नवतीं नाम सुताम्। ततः स धनदत्तः कृतविवाहस्तस्मिन्नेव श्वशुरवेश्मनि तस्थौ।
गच्छत्सु च दिनेषु सुखेन विस्मृतदुर्गतिः पुनर्व्यसनोत्सुकः स्वदेशं गन्तुकामोऽभवत्। ततः स शठः कथमपि श्वशुरंतं तन्मात्रापत्यम् अनुनीय तामलङ्कृतां भार्य्यां रत्नवतीमेकया वृद्धया स्त्रिया सहितां गृहीत्वा स्वदेशाय प्रतस्थे। क्रमेण अटवीं प्राप्य दूरात् तस्करभयमुक्त्वातस्या भार्य्यायाः सर्वाणि अलङ्करणानि स्वीचकार। पश्यतु युवराजः, द्यूतावेशादिव्यसनिनां कृतघ्नानां हृदयं निस्त्रिंशकर्कशम्। स च पापात्मा अर्थार्थंतां गुणवतीमपि भार्य्यां हन्तुंतया वृद्धया युतां क्वापि श्वभ्रेन्यक्षिपत्। क्षिप्तैव तस्मिन् प्रस्थिते दुरात्मनि सा वृद्धातस्मिन्नेव व्यपद्यत। सा तु रत्नवती कथञ्चित् तत्र तृणगुल्मादिकमालम्ब्यकरुणंक्रोशन्ती सशेषत्वादायुषः समुत्थिता विक्षताङ्गी पदे पदे मार्गं पृष्ट्वा यथागतेनैव पथाकृच्छ्रात् पितुः सदनमागमत्। कथमकस्मात् त्वमीदृशी प्रत्यावृत्तेति समम्भ्रमं मात्रा पित्रा च पृष्टा सा साध्वी एवमभाषत मुषिताः स्म पथि तस्करैः, मीतश्च बलात् स मे पतिः। वृद्धा सा श्वभ्रे निपत्य मृता, अहं पुनर्दैवात् प्राणिमि। केनचित् कृपालुना पथिकेनाहमुद्धृता श्वभ्रात्। एवमुक्तवती मात्रा पित्रा च शोचता समाश्वासिता सा भर्त्तृप्राणा रत्नवती तस्थौ।
अथ कालेनासौ धनदत्तः द्यूतेन च क्षपितसर्वधनः पुनरचिन्तयत् गच्छामि, पुनः श्वशुरगृहात् धनमानयामि, तत्र गत्वा तं श्वशुरं गृहे स्थिता कुशलिनी तव दुहितेति वक्ष्यामि। इति स मनसि सङ्कल्प श्वशुरसदनं पुनरवाप। आगतञ्च तं दूरात् सा पतिप्राणा भार्य्या अद्राक्षीत्। दृष्ट्वैव धावित्वा च सा तस्य पापस्य पादयोर्निपत्य तत् सर्वं पितृभ्यां मृषा निवेदितम् व्यजिज्ञपत्, दुष्टेऽपि पत्यौ साध्वीनां मानसं नान्यथावृत्ति भवति। ततः स दुरात्मा निर्भयः श्वाशुरं गृहं प्रविश्य तं पादयोः प्रणनाम। ततः स च तं जामातरं दृष्ट्वा अभ्यनन्दत अकरोच्च दिष्ट्यायं मे जामाता जीवन् चौरैर्मुक्त इति बन्धुभिः सह महोत्सवम्।ततः स धनदत्तः सुखेन श्वाशुरीं समृद्धिं भुञ्जानः तया रत्नवत्या पत्नया सह रेमे।
एकदा स पापीयान् रात्रौ यच्चकार तत् अवाच्यमपि कथाभङ्गभयात् कथ्यते। शृणु, राजपुत्र! असौ पापमतिः विश्वस्तसुप्तां तां रत्नवतीं निशि हत्वा तदाभरणसञ्चयं अपहृत्य अलक्षितः स्वदेशं प्रायात्। ईदृशाः पुरुषाः पापाः कृतघ्ना इति शारिकया कथिते राजपुत्रः हसन् त्वमिदानीं वदेति शुकमभाषत। ततः स शुकः प्राब्रवीत्, देव! स्त्रियः विषमसाहसा दुश्चरिताः पापास्तथाचात्र कथामेकां वर्णयामि शृणोतु कुमारः।
अस्ति हर्षवती नाम नगरी। तत्राभूत् धर्मदत्तो नाम बहुकोटीश्वरो बणिजासग्रणीः। तस्य वसुदत्ता नाम्नी रूपेण अष्टामाल्या प्राणेभ्योऽपि प्रियतमा कन्याभवत्। सा तु तेन समानधनयौवनकुलशालिने नेत्रचकोरामृतरश्मये समुद्रदत्ताख्याय वणिक्पुत्राय ताम्रलिप्तनिवासिने प्रदत्ता। कदाचित् सा स्वदेशस्थे पत्यौ, पितृगृहे स्थिता दूरात् कमपि पुरुषं युवानं कान्तविग्रहं ददर्श। दृष्ट्वैव सा चपला स्मरमोहिता गुप्तं सखीमुखेनानीतं प्रच्छन्नकामुकं तं भेजे। इत्थं प्रतिरात्रं सा तदेकासक्तमानसा तेन सह रममाणा सुखं बुभुजे।
अथैकदा स तस्याः पतिः स्वदेशात् आगतः श्वशुरयोः परां प्रीतिमवर्द्धयत्। दिने च उत्सवेनातिक्रान्ते सा वसुदत्ता मात्रा कृतभूषणा निशि वासगृहं प्रेषिता शय्यास्थायिनं पतिं भेजे। तेन च रतिं प्रार्थिता सा अन्यमानसा अलीकसुप्तिकामकरोत्। क्रमेण सोऽपि पतिः पानमत्तः अध्वश्रान्तश्च निद्रया जह्रे। ततः सर्वस्मिन् भुक्तपीतजने क्रमेण सुप्ते कश्चित् चौरः सन्धिं भित्त्वा तस्मिन् वासगृहे प्राविशत्। सा च बणिक्नन्दिनी तत्काले तमपश्यन्ती समुत्थाय स्वजारकृतसङ्केता निभृतं निरगात्। तदालोक्य स चोरः विघ्निताभिलाषो व्यचिन्तयत् येषामाभरणानामर्थे अहं प्रविष्टः, तैरेवाभरणैर्वृता एषा निशीथे निर्गता, तत् क्व गच्छतीति द्रष्टव्यमिति पयालोच्य निर्गत्य च स चौरः तां वणिक्सुतामनुययौ। सापि पुष्पादिसम्भारहस्तया सख्या संयुता गत्वा वाह्यमुद्यानं नातिदूरगं प्रविवेश। ददर्श च तत्र सङ्केतस्थानमागतं नगररक्षिभिश्चौरवुद्ध्या पाशं कण्ठे दत्त्वा निहत्य वृक्षे लम्बामानं तं प्रच्छन्नकामुकम्। सा तु तदवलोक्य विह्वला, हा! हतास्मीति वादिनो कृपणं विलपन्ती भूमौ पपात रुरोद च। अथ तं निजकामुकं वृक्षादवतार्य्य उपवेश्य च गतासुम् अङ्गरागैरलङ्कारैः पुष्पैश्चालञ्चकार। यावच्च सा तस्य मुखसुन्नमय्य कामार्त्ता परिचुम्बति, तावत् स निर्जीवः कामुकः वेतालानुप्रविष्टः सन् दन्तैस्तस्या नासिकां चिच्छेद। तेन सा विह्वला तस्मात् प्रदेशात् सव्यथा अपसृतापि अहो किंस्वित् जीवत्यसाविति पुनरेत्य यावत् पश्यति स्म तावत् तं वीतवेतालं निश्चेष्टं पतितं मृतं निश्चित्य सा भीता परिभूता च रुदती शनैः गृहं प्रत्याजगाम। स चालक्षितः प्रच्छन्नस्थितश्चौरः सर्वमेतत् व्यलोकयदचिन्तयच्च अहो! किमिदं पापया अनया कृतम्? हा स्त्रीणामाशयः कथमीदृक् भीषणः? तदिदानीमपि एषा किं नु कुर्य्यादिति विचिन्त्य कौतुकात् स चौरः भूयोऽपि दूरात् तामनुससार। सा च पापिनी गृहं प्रविश्यैव उच्चकैः प्ररुदती एवमब्रवीत् परित्रायध्वं माम् एतेन दुष्टेन भर्त्तृरूपेण शत्रुणा मम निरपराधाया नासिका छिन्नाः इति। तत रोदनमाकर्ण्य सहसा तत्परिजनाः सर्वे ससम्भ्रममुदतिष्ठन्। पतिश्च प्रबुबुधे। अथ तत्पिता समेत्य तां छिन्ननासिकां दृष्ट्वा क्रुद्धस्तं जामातरं बन्धयामास। स च इतिकर्त्तव्यविमूढ़स्तदानीं बध्यमानोऽपि मूकवदतिष्ठत् न किमपि प्राब्रवीत्। अथ क्रमेण सर्वेषु विवुद्धेषु शृण्वत्सु तस्मिंश्चचौरे सर्ववृत्तान्तज्ञे
तस्मादपसृते, गतायां शनैः शर्वर्य्यां स बणिक्सुतः तेन श्वशुरेण राजान्तिकं नीतः। सा च छिन्ननासा वसुदत्ता तत्रागता, राजा च सर्वं वृत्तान्तं श्रुत्वा अयं स्वदारद्रोहीति निर्णीय तस्य वणिक्सूनोर्वधं समादिशत्। ततस्तस्मिन् निरपराधे न किमपि विजानति वणिक्सुते सडिण्डिमं बध्यभूमिं नीयमाने स चौरः समुपगम्य राजपुरुषानभाषत अकारणमयं कथं बध्यभूमौ नीयते? यथावृत्तमहं सर्वं वेद्मि, मां राजान्तिकं नयत सर्वमहं वदिष्यामि। इत्युक्तवन्तं तं ते सर्वे राजपुरुषा राजान्तिकमनयन्। स च चौरः आमूलात् सर्वं रात्रिवृत्तान्तं
राज्ञेन्यवेदयत अब्रवीच्च देव ! न चेत् महचधि तव प्रत्ययः, तत् सा नासा तस्य शवस्य मुखे अद्यैव निरीक्ष्यताम् । तत् श्रुत्वा वीक्षितुं भृत्यान् प्रेष्य तेषाञ्च मुखात् सत्यमवेत्य च स राजा तं बणिक्पुत्रं बधदण्डात् विमुच्य तां दुष्टां वसुदत्तां कर्णावपि छित्त्वा देशात् निरवासयत्। तञ्च तत्पितरं बणिजं सर्वस्वमदण्डयत्। तुष्टश्च तं चौरं पुराध्यक्षमकरोच्च। राजपुत्र! इत्थं निसर्गविषमाः शठा योषित इति वदन्नेव शुकः चित्ररथो नाम गन्धर्वराजो भूत्वा इन्द्रशापक्षयात् दिव्यरूपमास्थाय दिवमगात्। सा च शारिका सपदि सुराङ्गना तिलोत्तमा भूत्वा तथैव क्षीणशापा दिवमुदपतत्। तयोस्तु तस्यां सभायां विवादो न निर्णीतः। इत्याख्याय स वेतालस्तं नृपमपृच्छत्। राजन्! वदतु भवान्, पापाः पुरुषाः उत योषितः? जानतस्ते अकथयतः शिरो खण्डशः पतिष्यतीति। एतत् स्कन्धवर्त्तिनो वेतालस्य वचनमाकर्ण्य स भूपतिस्तं योगीश्वरं वेतालमवादीत् वेताल! कोऽपि च तादृक् पुरुषः क्वचित् कदाचित् दुराचारः। स्त्रियस्तु प्रायशः पापा दृश्यन्ते श्रूयन्ते च इत्युक्तवतो नृपस्य स्कन्धात् प्राग्वत् स वेतालः क्वापि प्रनष्टोऽभूत्। राजा च पुनस्तदानयने यत्नमकरोत्।
<MISSING_FIG href="../books_images/U-IMG-1722842360line3.png"/>
अथ चतुर्थकथा ।
<MISSING_FIG href="../books_images/U-IMG-1722842389line2.png"/>
ततः स त्रिविक्रमसेनो नृपतिः पुनस्तस्य शिंशपातरोर्मूलं गत्वा निशि तं मुक्ताट्टहासं शवाधिष्ठितं वेतालं प्राप्य निष्कम्पः तथैव स्कन्धमारोप्य तस्य भिक्षोः सकाशमुदचलत्। तञ्च चलन्तम् असंस्थः स वेतालः पुनरब्रवीत् राजन्! दुराचारस्य अस्य भिक्षोः कृते कोऽयं ते प्रयासः? निष्फले अनुस्मिन् प्रयत्ने तव विवेको न दृश्यते? यद् भवतु, त्वद्भक्त्या तवाध्वश्रमविनोदिनीमपरामेकां कयां कथयामि श्रूयताम्।
अस्ति शोभावती नाम यथार्थनाम्नी कापि नगरी। तस्यामभूत् शूद्रको नाम प्रभूतपराक्रमो महाप्रतापो नृपतिः। यस्य जयिनः प्रतापनलोऽनवरतं वन्दीकृतारिवनिताधृतैश्चामरमारुतैः ज्वलति स्म। येन च अलुप्तधर्मचरणा स्फीता वसुन्धरा रामादीनपि भूपतीन् विसस्मार। कदाचित् तं महीपालं प्रियशूरं सेवितुं मालवात् कश्चित् वीरवरो नाम द्विजः समागात्। तस्य धर्मवती नाम भार्य्या, सत्यवरो नाम सुतः, वीरवतीनाम्नी कन्या चासीत्। सेवापरिच्छदस्तस्य त्रयमेव कट्यां कृपाणिका, करे तरवारिः, अपरे च करे चर्स, एतावन्मात्रपरिच्छदपरीवारः स प्रत्यहं तं राजानं दीनारशतपञ्चकं वेतनं प्रार्थयामास। राजा च तम् आकारसूचितोदारपौरुषं मत्वा तस्मै यथेप्सितां वृत्तिं ददाति स्म। स्थापयति स्म च कौतुकात् प्रच्छन्नं चारान् तत्पृष्ठतः, किमेभिः प्रभूतैर्वेतनैरेष किं करोतीत्यन्बेष्टुम्। स च वीरवरः प्रातः राजदर्शनं कृत्वा मध्याह्ने धृतायुधः तस्य सिंहद्वारे स्थित्वा च स्ववृत्तिलभ्यानां दीनाराणां शतं गार्हस्त्यनिर्वाहाय भार्य्याया हस्ते भोजनार्थं प्रादात्। अपरेण च शतेन वस्त्रम् अङ्गरागं ताम्बूलादीनि च क्रीणाति स्म। अपरञ्च शतं स्नात्वा विष्णोः शिवस्य च पूजार्थं विनियुयोज। अन्यच्च शतदयं विप्रेभ्यः कृपणेभ्यश्च दरिद्रेभ्यः प्रादात्। एवं विभज्य प्रत्यहं तानि पञ्चशतानि स व्ययोचकार। ततश्च अग्निकार्य्यादिकं विधाय भुत्वा च निशि एकाकी तदेव सिंहद्वारं धृतकृपाणचर्मा प्रत्यहं तस्थौ। एतत् सर्वं चारमुखात् श्रुत्वा राजा शूद्रकः भृशं तुतोष, निवारयामास च तान् चारान् पुनस्तस्य मार्गणे। मेने च विशेषपूजार्हं तं पुरुषातिशयम्।
अथ गच्छत्सु दिनेषु एकदा धारावर्षिणि दिवानिशं जलदपटले गगनमावृण्वति जनरहिते च समन्तात् राजमार्गे एकाकी स वीरवरस्तस्मिन् सिंहद्वारे एवातिष्ठत्। स च राजा दिनपतावस्तं गते तादृशे भीषणे तमसि विजृम्भिते सधारावर्षे तस्य वीरवरस्य भावं जिज्ञासुः निशि प्रासादाग्रमारुह्य जगाद कोऽत्र सिंहद्वारि स्थित इति, तदाकर्ण्य अहमेव स्थित इति वीरवरः प्रत्यवादीत् अहो महासत्त्वोऽयं वीरवरः मद्भक्तः तदेष मया अवश्यमेव महत् पदं प्रापणीयः। इति संचिन्त्य राजा प्रासादादवतीर्य्य अन्तःपुरं प्रविश्य शयनमगात्। अन्येद्युश्च तथैव मेघेषु धारासारान् वर्षत्सु निशायां भुवने कालतमसि विजृम्भिते राजा पुनश्च तद्भावं जिज्ञासुः प्रासादमधिरुह्य सिंहद्वारमभि कोऽत्र स्थित इति व्याजहार। वीरवरेण च अहं स्थितो देव इति प्रोक्ते स राजा भृशं विसिस्मिये। शुश्राव च तावदतिदूरे सहसा रुदतीं कामपि स्त्रियं वामस्वरेण। व्यचिन्तयच्च केयं विषादविकलेव सप्रलापकरुणं विरीति, राष्ट्रे च मम पराभवः नास्ति, न दरिद्रः नापि कश्चित् दुःखितः, तदेषा का इति। आदिदेश च करुणार्द्रचेताः तं वीरवरमधःस्थितं, भो वीरवर! शृणु, एषा दूरे कापि रोदिति किमर्थमसौ रोदिति, काचेयं त्वया गत्वा एतत् निरूप्यतामिति। तदाकर्ण्य स वोरवरस्तथेत्युक्त्वा निबद्धासिधेनुः करतलधृतकरबालश्च गन्तुं प्रावर्त्तत। नागण्यत् तत् स्थूलधारा-शिलावर्षि ज्वलविद्युदिलोचनं नवमेघान्धकारम्। तञ्च तादृश्यां निशायां प्रस्थितमेकाकिनं दृष्ट्वा करुणाकौतुकाविष्टो राजा प्रासादादवतीर्य्यगृहीतासि रेकाकी अनुपलक्षितः तमनुजगाम। स च वीरवरः रुदितमनुसरन् नगर्य्या बहिः सरोवरमेकं प्राप, ददर्श च तत्र हा शूर! हा कृपालो! हा वदान्य! त्वया शून्या कथमहंवत्स्यामीत्येवं रुदतींवारिमध्यवर्त्तिनींकामपि स्त्रियम् । स च वीरवरः का त्वं कथं वा रोदिषि, इति विस्मितः सत्तकितमपृच्छत् । सा अभ्यधात् भो वीरवर ! मां पृथिवीं जानीहि अस्याश्च मम इदानीं धार्मिकः शूद्रको नाम राजा भर्त्ता इतश्च तृतीये दिने तस्य राज्ञो मृत्युर्भविष्यति, तादृशमन्यं पतिं कथमवाप्नुयामिति शोकेन विधुराहं शोचामि इति एतदाकर्ण्य स वीरवरस्त्रस्त इव तामब्रवीत्, देवि ! अस्ति कश्चिदस्य प्रतीकारः ? येनास्य जगत्प्रभो रक्षा स्यात् ? इति तस्य वचनमाकर्ण्य सा वसुमतीप्रत्यभाषत, वत्स ! एक एवास्त्युपायः कर्त्तुञ्च शक्तो भवानिति । वीववरोऽवदत्, देवि ! तद्वद द्रुतं यावत् शीघ्रंतत् साधयामि । अन्यथा कोऽर्थः प्राणैरस्माकम् । तदाकर्ण्य धरित्री प्राब्रवीत्, वत्स ! त्वदन्यः कोऽन्यतो मम प्रवरःस्वामिभक्तः तदस्य उपायंशृणु, अस्य राजकुलान्तिके राज्ञानेन प्रतिष्ठापिता देवी चण्डिकास्ति, तस्यै चेत् सत्त्वरंपुत्त्रमुपहारीकरोषि तदा एष राजा न म्रियेत, अन्यत् शतंसमा जीवेत् । अद्यैव चेत् भवता एतत् क्रियते तदैव शिवं नान्यथेति पृथिव्या तथाभिहितः स वीरो वीरवरस्तदा यामि, देवि ! करोमि अधुनैव एतत् इति प्रत्यवादीत् । वसुन्धरा च भद्रं तेऽस्तु इत्यभिधाय तिरोदधे । गुप्तमनुसृतः स राजा तत् सर्वं शुश्राव । ततश्च गूढ़ेतस्मिन् राजनि तद्भावं जिज्ञासमाने गच्छति स वीरवर स्वरितं गृहमगात् । आगत्य च तत्र पत्नीं धर्मवतीं विबोध्य तत् सर्वं वसुन्धराप्रोक्तमर्थं प्राब्रवीत् । सापि तदाकर्ण्य तं स्वामिन माहस्म प्रभो ! शिवं भाव्यंचेत् तदा शिशुमेनं प्राबोध्य भवानेव ब्रवीतु ।ततः स वीरवर स्तं सुतं बालं सुप्तं प्राबोध्य वृत्तान्तमाख्याय समवोचत्, पुत्र ! त्वयि चण्डिकादेव्या उपहारीक्वते राजासौ जीवति, नोचेत् तृतीयेऽह्नि विपत्स्यते, तदाकर्ण्यबालोऽपि यथार्थं नाम दर्शयन् अकातरचित्तः सत्वरं पितरमवदत् तात ! यदि राजा मम प्राणैर्जीवेत् तदाहंकृतार्थः, भुक्तस्य च तदन्नस्य परा निष्कृतिः प्रदत्ता स्यात् तत् किं विलम्ब्यते, शीघ्रं मां नीत्वा भगवत्या उपहारीकुरुष्व, मज्जीवनेन राज्ञोऽमङ्गलशान्तिर्भवतु । इति तेनोक्तो वीरवरः सहर्षं साधु सत्यं त्वं मत्पुत्र इति तमभ्यनन्दयत् । तस्य भार्य्या धर्मवती कन्या वीरवती च तस्यां रात्रौ ताभ्यां वीरवरसत्यवराभ्यां सह चण्डिकागृहे ययतुः । राजापि छन्नवेशः तान् पृष्ठतोऽलक्षितः समनुससार । तत्र देव्याः पुरः पित्रा स्कन्धादवतारितः स सत्यवरःदेवीं प्रणम्य धैर्य्यराशिः कृताञ्जलिर्न्यवेदयत् देवि ! मम शिरस उपहारेण राजासौ अन्यत् शतंवत्सरान् जीवन् अकण्टकं राज्यं करोतु इत्येवंप्रार्थयतस्तस्य सूनोः सत्यवरस्य शिरश्छित्त्वा वीरवरः चण्डिकायै मत्पुत्रोपहारेण राजा जीवत्विति वदन् प्रददौ । तत्क्षणंअन्तरीक्षात् वागुदचरत् कस्त्वदन्यः स्वामिभक्तः भो वीरवर ! येन त्वया एकमात्रपुत्रेण तथाविधसत्पुत्त्रप्राणव्ययिना अस्य भूपतेःजीवनं राज्यञ्च दत्तमिति । तच्च सर्वं तस्मिन् नृपे पश्यति शृण्वति च तस्य वीरवरस्य कन्या वीरवती तस्य भ्रातुर्निहतस्य मूर्द्धानमाश्लिष्य शोकान्धा स्फ टितहृदया तत्क्षणात् व्यपद्यत । ततो भार्य्या धर्मवती वीरवर मब्रवीत् नाथ ! राज्ञस्तावत् श्रेयः कृतम् । इदानीमहं वदामि दृष्टा त्वया कन्यापि मे शोकात् मृता, तदिदानींनष्टापत्याया मे जीवितेन किम् ? प्रागेव मूढ़या मया राज्ञः श्रेयार्थं स्वशिरः उपहर्त्तव्यमासीत्, तदधुना अनुज्ञां देहि अहं शीघ्रम् अनलं प्रविशामि । इति आग्रहेण वदन्तींतां वीरवरोऽवदत् एवं कुरुष्व, अपत्यदुःखैकमये जीवितव्ये का प्रीतिः ? यच्च त्वयोक्तं किं दत्तो मयात्मा इति तदत्र व्यथां मा कुरु, यदि अन्यसाध्य मेतत् राज्ञः श्रेयो भवेत् तदाहमपि किं आत्मानं न दद्याम् । तत् प्रतीक्षष्व तावत् अमीभिर्दारुभि स्ते चितां सञ्चयामि, इत्युक्त्वाचितायां तेन प्रस्तुतायां ज्वलन्त्यां धर्मवती पत्यः पादयोः पतित्वा तां चण्डीं देवीं प्रणम्य व्यजिज्ञपत् देवि ! जन्मान्तरेऽपि अयमेव मे पति र्भूयात्, अस्य च प्रभोः शूद्रकस्य मदीयेनात्मजेन शिवमिति समुदीर्य्य तस्मिन्नेव ज्वालामालिनि अनले देहं न्यक्षिपत् । ततश्च स वीरवरश्चिन्तयामास निष्पन्नंमे राजकार्य्यंदिव्यवाण्या विज्ञातं भुक्तस्य च राजान्नस्य साम्प्रतमतृणोऽस्मिं तदिदानीमेकस्य मम केयं जीवनतृषा, भरणीयं सर्वं कुटुम्बकं व्ययीकृत्य एकमात्मानं जीवयन् मादृशो न शोभते । तत् किं आत्मोपहारेण अम्बिकां न प्रीणयामि, इत्यालोच्य स वीरवर स्तां देवीं प्रथमं स्तुत्या उपतस्थे, जयमहिषासुरमर्द्दिनि ! तारिणि ! दानवदारिणि ! त्रिशूलधारिणि ! विबुधोत्सवकारिणि ! भुवनत्रयधारिणि ! जय मातृवरे ! जगदर्च्चितचरणे ! शरण्ये! निःश्रेयसकारिणि ! भक्ताजनानां, कालि ! कपालिनि ! कङ्कालिनि ! शिवे ! नमोऽस्तु ते, प्रसीदेदानीं शुद्रकस्य नृपतेरनेन मदीयेन मस्तकोपहारेण, इति स्तुत्वा सवीरवरः सद्यः तरवारेण स्वं शिरश्चिच्छेद ।तदालोक्य स छन्नस्थितः शूद्रको नृपः व्याकुलः सदुःखः साश्चर्य्यश्च व्यचिन्तयत् अहो ! न मया ईदृशमन्यत्र दृष्टं वा श्रुतम्, साधुनानेन सपरिवारेण मदर्थे दुष्करं कृतम् । विचित्रेऽस्मिन् संसारे कोऽन्यः अनेन समो धीरः, प्रभोरर्थे यः पुत्रादीन् स्वच्च जीवितं प्रादात् एतस्य उपकारस्यसदृशमुपकारं यदि अहं न कुर्य्याम् तदा मे प्रभुत्वेन किं जीवितेन वा पशोरिव किं ? सत्त्वभ्रंशात् सर्वमेव मे अयशो भविष्यतीति संचिन्त्य स राजा कोशात् करवालमाक्वष्य समुपेत्य तां देवीं व्यजिज्ञपत् देवि ! सततमनुप्रपन्नस्य मम अधुना अनेन शरीरोपहारेण सुप्रीता सती अनुग्रहं कुरु। अयं नानागुणमुतो वीरवरः सपरिवारो मदर्थं त्यक्तकलेवरःसाम्प्रतं जीवतु इति उदीर्य्य असिना यावत् स्वंशिरच्छेत्तुं प्रावर्त्तत तावत् गगनाद्भारती उदभूत्, वत्स ! मा साहसं कृथाः अनेन ते सत्वेन परितुष्टास्मि, प्रत्युज्जीवतु अयं सापत्यदारो हिजो वीरवरः। इत्युक्त्वा तस्यामन्तरिक्षवाचि विरतायामेव स वीरवरः पुत्रेण दुहित्रा पत्नयाच सह अक्षतशरीरो जीवन्नुत्तस्थी। तदवलोक्य राजा पुनश्छन्नविग्रहः हर्षाश्रुपूरया दृष्ट्या तान् पश्यन् न तृप्तिमाययीसोऽपि वीरवरः सुप्तोत्थित इव तं पुत्रंपत्नीं दुहितरञ्च पश्यन् विभ्रान्तमानसः समभवत् अपृच्छच्चपृथङ्नामग्रहं तान्, कथं भस्मीकृता यूयं जीवन्तः पुनरुत्थिताः ?।किमयं मे विभ्रमः ? आहोस्वित् स्वप्नो माया वा ? उत देव्या अनुग्रहः?। एवं वदन् स दारापत्यैः देव्यानुग्रहेणैव वयं जीवाम इति निजगदे। ततः म वीरवर स्तथेति मत्वा तां देवीं प्रणम्य पुत्रदारानादाय कृतार्थो गृहं ययी। तत्र च तं पुत्रं ताञ्च भार्य्यां दुहितरञ्च प्रवेश्य तस्यामेव रात्रीराज्ञः सिंहद्वारमागमत्। राजा च शूद्रक एतत् सर्वं दृष्ट्वा अलक्षित एव गत्वा स्वंप्रासादमारुरोह पप्रच्छ च कोऽत्र सिंहद्वारे स्थित इति। वीरवरः प्रत्यवादीत्, प्रभो ! अहं वीरवरस्तिष्ठामि। देवादेशाच्च तां रुदतीं स्त्रियं प्रति गतश्चाहम्। सा कापि राक्षसी मम वचसा दृष्ट्वैव क्वापि प्रनष्टेति। एतत्तस्य वचः श्रुत्वा राजा नितरां विस्मितो दृष्टोदन्तो व्यचिन्तयत् अहो ! समुद्रगम्भीरधीरचित्ता मनस्विनः, ये अनन्य सामान्यं कर्म कृत्वापि नोद्गिरन्ति। इत्यालोच्य प्रासादादवरुह्य स राजा अन्तःपुरं गत्वा रात्रिशेष मत्यवाहयत्।
अथ प्रातरास्थानसमये दर्शनार्थ मुपगते वीरवरे स्थिते दृष्टो राजा सर्वेभ्यो मन्त्रिभ्यः अन्येभ्यश्चतस्य तं रात्रिवृत्तान्त मवर्णयत्। सर्वे सविस्मया मोहिताश्च वीरवरगुणश्रवणेन तत्क्षणमभवन् प्रासशंसुश्च साधु साधु इति। ततो राजा वीरवरश्च अन्योन्यं तुल्यविभवौ सुखमासतां इतिकथा माख्याय वेतालस्तं विक्रमसेनं नृपमपृच्छत्, राजन् ! एतेषु कोऽधिकस्ते मतः ? यदि जानन्न वक्ष्यसि, तदा पूर्व एव स शापः सेत्स्यति। एतदाकर्ण्य स राजा तं वेतालमभाषत, देवयोने ! एतेषु सर्वेषु राजा शूद्रक एव समधिकः प्रवीर इति। वेतालोऽब्रवीत्, नृपते ! कथं वीरवरो न यस्य तुल्यः पृथिव्यां सेवको न विद्यते, तत्पत्नी वा कथंसमधिकेति न प्रशस्यते? या सूनोः पशूपहारतां प्रत्यक्षं दृष्ट्वापि न धैर्य्यात् प्रच्युतासीत् स वा पुत्रः सत्यधरः कथं नाभ्यधिकः? यस्य बालस्यापि सतस्तादृशः सत्त्वोत्कर्षः। तत् कथमेकं शूद्रकंनृपं त्वं प्रवरं भाषसे ? इत्युक्तवन्तं वेतालं स नृपः पुनरवादीत् कुलपुत्रोवीरवरस्तादृक् न, तस्य प्राणैः सुतैः दारैश्च स्वामिसंरक्षणं कार्य्यम्। तस्य च पत्नी कुलजा साध्वीपतिप्राणा भर्त्तृवर्त्मानुसरन्तीधर्ममेव पालितवती। सत्यधरोऽपि तयोर्जातस्तादृश एव, यादृशास्तन्तवः तादृश एव पटो जायते। येषां भृत्यानां प्राणैः नृपेण आत्मा रक्ष्यते, तेषामर्धंप्राणां स्त्यजन् शूद्रक एव सर्वेषु विशिष्यते, इति वचः समाकर्ण्य स वेतालः नृपतेरंसादलक्षितः सहसा निजावासं ययौ। राजापि तन्मायया अनुच्चलितोऽपि तस्यामेव निशि पुनस्तमानेतुं मतिमकरोत्।
अथ पञ्चमकथा।
<MISSING_FIG href="../books_images/U-IMG-1722922768n.png"/>
ततश्च स राजा विक्रमसेनः पुनः शिंशपातरोरन्तिकमभ्येत्य तथैव लम्बमानं नरशरीरगं तं वेतालमवतार्य्यतस्य बहुना वैकृतेनापि निर्भीकः सत्वरमागन्तुंप्रववृते। आगच्छन्तं तूष्णीं पथि पूर्ववत् स वेतालःप्रावदत्, राजन् ! अभिनिविष्टोऽसि, दृष्टिप्रियोऽसि च तत्तव चित्तविनोदाय कथामपरां कथयामि शृणु।
अस्त्युज्जयिनीनाम भुवनविश्रुता नगरी। तस्यां पुण्यसेनो राजा अभूत् तस्य प्रियोऽनुजीवी अमात्यो हरिस्वामीति सद्गुणालङ्घतो विप्रः प्रतिवसति स्म। तस्य गृहपतेरनुरूपायां भार्य्यायां सुसदृशः देवस्वामी नाम पुत्रोऽजायत। एका च असामान्यरूपलावण्यविश्रुता सोमप्रभा नाम अन्वर्थनाम्नीकन्या उदपद्यत। सा एकदा शैशवातिक्रान्ता रूपोत्कर्षाभिमानवती मातुर्मुखेन पितरं भ्रातरञ्च जगाद शूराय ज्ञानिने विज्ञानिने वा अहं देया, अन्यस्मै, दत्ताहं न जीवामीति। तदाकर्ण्य पिता तस्याः तादृशं वरं चिन्वन् यावत् चिन्तामलमापेदे, तावत् स पुण्यसेनेन राज्ञा दाक्षिणात्यस्य कस्यचित् नृपस्य अन्तिकं सन्धिविग्रहाय दौत्ये प्रहितः। तत्र च कृतकार्य्यं तं कश्चित् ब्राह्मणयुवा श्रुततद्दुहितृरूपसम्पद अभ्येत्य तां सुतामयाचत। स च तमब्रवीत् मत्सुता विज्ञानिनो ज्ञानिनो वा शूरात् अन्यं पतिं नेच्छति, तेषां मध्यात् भवान् कः, कथय इति। सब्राह्मणोऽवदत् अहं विज्ञानं जानामि। तर्हि तद् दर्शय इति तेनोक्तः स विज्ञानी स्वयुक्त्या खेचरं रथं कल्पयामास। दर्शयामास च तत्र मायायन्त्ररथे तं हरिस्वामिनमारोप्य नीत्वा
च स्वर्गादीन् लोकान्। अनिनाय च तुष्टं तं दाक्षिणात्यस्य नृपतेः कटकं यत्र स स्वकार्य्यार्थमायात इति। ततः स हरिस्वामी तस्मै तां सुतां प्रतिशुश्राव सप्तमेऽहनि च वैवाहिकलग्नं निश्चिकाय। तस्मिंश्च काले उज्जयिन्यां अन्येन द्विजकुमारेण तत् पुत्रो देवस्वामी तत् स्वसारमयाच्यत। तेनापि ज्ञानिविज्ञानिशूरेभ्यो नान्यं पतिं मे स्वसा कामयते इति विज्ञापितः स आत्मानं शूरमभ्यधात् ततो दर्शितशस्त्रास्त्रविद्याय तस्मै शूराय स देवस्वामी निजानुजां दातुं प्रतिपेदे। क्वतनिश्चयश्च मातुःपरोक्षं गणकवचनात् सप्तमेऽह्नि विवाहं निर्णिनाय च। एतस्मिन्नन्तरे हरिस्वामिभार्य्या च केनाप्यपरेण द्विजयूना सुतां याचिता प्राब्रवीत्, वत्स ! ज्ञानीविज्ञानी शूरो वा मम कन्यां वोढुमर्हति नान्य इति तत् त्वमेतेषु कः, उच्यतामिति। सोऽब्रवीत् अहं ज्ञानीति ततः सा भूतं भविष्यञ्च पृष्ट्वा ज्ञानिनं निश्चित्य तस्मै सुतां दातुं तद्भिने सप्तमेऽह्नि प्रत्यशृणोत्।
अन्येद्युश्च हरिस्वामीसमागत्य यथाकृतं सर्वं पत्न्यैपुत्राय च समाचख्यी। स च सा च स्वंस्वंकृतं तत् सर्वं पृथक् पृथक् तस्मै, अवोवत्। इत्थंस हरिस्वामी त्रयाणां वराणां निमन्त्रणात् नितरां व्याकुलः समपद्यत। अथ सप्तमे दिने आगते ते त्रय एव वराः हरिस्वामिनो गृहमाययुः। चित्र महो ! तत्कालं सा सोमप्रभा क्वापि गता।तदाकर्ण्य ज्ञानी अवदत् राक्षसेनापहृत्य धम्रशिखाख्येन विन्ध्याटव्यां निंजां वसतिं नीता। इति ज्ञानिनाभिहितो हरिस्वामी भीतः तं विज्ञानिनम् उपायं पप्रच्छ। स च पूर्ववत् सर्वास्त्रमंयुक्तं रथं कृत्वा तं हरिस्वामिनं तौच ज्ञानिशूरौतत्क्षणं बिन्ध्याटवीं प्रापयामास। तत्र ज्ञानिना समाख्यातां तस्य राक्षसस्य वसतिं प्राप्य स शूरः हरिस्वामिना सह तं राक्षसं क्रुद्धं ज्ञातवृत्तान्तनिर्गतं योधयामास। तदा तयोर्मानुषराक्षसयोश्चित्रास्त्रयोधिनोः रामरावणयोरिव स्त्यर्थं महद् युद्धमवर्त्तत। क्षणेन च स शूरः संग्रामदुर्द्धरस्यापि तस्यं रक्षसः शिरः अर्द्धचन्द्रेण बाणेनाच्छिनत्। अथ रक्षसि हते तत् स्थानात् प्राप्तां तां सोमप्रभामादाय विज्ञानिरथेन ते सर्वे ततः उज्जयिनीं प्रत्यागमन्।
अथ हरिस्वामिगृहप्राप्तानां तेषां त्रयाणां लग्ने संप्राप्ते महान् विवादः प्रादुरभूत्। ज्ञानी अवदत् यद्यहम् इमां ज्ञानबलेन न जानीयां तदा कथमियं गूढ़स्था प्राप्येत, अतः मह्यमेवैषा देयेति। विज्ञानी अवोचत् यद्यहं व्योमरथं न कुर्य्यां तदा देवानामिव तत्र गतागतं कथं तत्क्षणं स्यात्, कथं वा तेन रघिना रथयुद्धं स्यात् तस्मान्मह्यमेवेयं दातव्येति। शूरोऽब्रवीत् यद्यहं तं राक्षसं रणे न हन्यां तदा युवाभ्यां यत्ने कृतेऽपि क एनामानयेत्। तन्मह्यमेव कन्येयं दातव्येति तेषु विवदमानेषु हरिस्वामीक्षणमुग्धभ्रान्तमानसस्तूष्णीमासीत्। इति कथामाख्याय वेतालः राजानं पप्रच्छ राजन् ! एतेषु कस्मै सा देयेति भवान् वदतु, यदि जानन् न वदिष्यति, तदा ते मूर्द्धा शतधा स्फुटिष्यति इति वेतालवचः समाकर्ण्य राजा मौनं विहाय प्रत्यभाषत शूराय सा प्रदातव्या, येन देहपणोद्यमात् बाहुवलेन तं राक्षसंजित्वा कन्या समुपार्जिता, ज्ञानिविज्ञानिनौ तु विधात्रा अस्य सहायौ नियोजितौ। पश्य गणकतज्ञाणौ किं परोपकरणाय न ? इति मनुजपते र्वाचं निशम्य स वेतालः सपदि तस्य स्कन्धात् निजं निलयमगमत्। राजापि तमानेतुंपुनः कृतोद्यमस्तमेव शिंशपातरुमभिजगाम।
अथ षष्ठकथा।
ततः स राजा प्राग्वत् शिंशपान्तिकमुपेत्य वेतालञ्चादाय मौनीतथैव तं भिक्षुमुद्दिश्य प्रतस्थे। तावच्च स वेताल स्त भूपमवादीत्, राजन्! त्वं सुधीः सत्त्ववांश्च तेनासि मे प्रियः, तस्मात् त्वां विनोदयितुं पुनःकथामाख्यामि प्रश्नञ्च शृणु।
आसीत् पुरा यशःकेतुर्नाम नृपः पृथिव्याम्। तस्य शोभावतीनाम राजधानी तस्यामुत्तमं गौरीमन्दिरम- भवत्। तस्य च दक्षिणतः गौरीतीर्थं नाम सरः। प्रतिवर्षम् आषाढशुक्लचतुर्दश्यां तस्य यात्रायां नानादिग्भ्यो महाजनगणः स्नातुमायाति स्म। एकदा स्नानार्थं धवलो नाम कश्चित् रजकः ब्रह्मस्थलाच्च ग्रामात् तत्राजगाम। स युवा तत्र स्नातुमागतां शुद्धपटनाम्नः कस्यचित् सुतां मदनसुन्दरीं नाम ददर्श। तया तु इन्दोर्लावण्यहारिण्याहृतमानसः तत्र तस्या नामकुलमन्विप्य कामार्त्तोगृहमगात्। तत्र चागत्य अनवस्थः तया विना निराहारश्च तिष्ठन् मात्रा पृष्टो मनोगतं तस्यैसमाख्याय तथातस्थौ। सापि गत्वा विमलनाम्ने स्वभर्त्त्रे तन्न्यवेदयत्। सचाभ्येत्य तथावस्थंतं दृष्ट्वा समभ्यधात् पुत्र!किं विषीदसि,
एतत्ते अभीप्सितं न दुष्प्रापं स हि शुद्धपटो मया याचितः अवश्यमेव सुतां तुभ्यं दास्यति। वयं कुलेन अर्थेन कर्मणा च तस्मादन्यूनाः, अहं तं वेद्मि, स च मां वेत्ति, तदिदं न दुष्करम्। इति पुत्रमाश्वास्य भोजनादिकंकारयित्वा च तेन सह अन्येद्युरसौ विमलः शुद्धपटस्य गृहमगात्। अयाचत च तस्य धवलस्य पुत्रस्यार्थे तत् कन्याम्। स च सादरं तस्मै तां दातुं प्रतिशुश्राव।
अथ लग्नंसम्प्राप्य स शुद्धपट स्तस्मै धवलाय तुल्यां सुन्दरीं सुतां प्रादात्। स च कृतोद्वाहः दर्शनरक्तया तया भार्य्यया साकं कृतार्थः पितुर्गृहमागात्। कदाचित् सुखस्थितस्य तस्य श्वशुरात्मजः मदनसुन्दर्य्याः सहोदरः समागात्। स चागत्य सर्वैः पृष्टकुशलोदन्तः स्वस्रा च समाश्लिष्य अभिनन्दितः विश्रान्तःप्रावदत् अहं मदनसुन्दर्य्या जामातुश्च निमन्त्रणार्थं तातेन प्रेषितोऽस्मि, अस्माकं गृहे पूजोत्सवो वर्त्तते इति। ततस्ते सर्वे सम्बन्धिनः तस्य तद्वाक्यं श्रद्धाय यथोचितैः पानभोजनैः तं तदहः समुपाचरन्।
अथ प्रातः स धवलः तेन श्वशुरनन्दनेन मदनसुन्दर्य्या च सहितः श्वाशुरं गृहं प्रति प्रस्थितः। ताञ्च शोभावतींनगरीं प्राप्य महद् गौर्य्या निकेतनं ददर्श। निजगाद च तां मदनसुन्दरीं तद्भ्रातरञ्च अत्रैतां देवतां पश्याम इति। प्रथममहं तावत् व्रजामि, युवामत्रैव तिष्ठतम् इति उक्त्वाधवलः तां देवीं द्रष्टुं समुपागात्। मन्दिरं प्रविश्य च तां प्रणम्य अष्टादशदोर्दण्डखण्डितोच्चण्डदानवां पादपद्मतलाक्षिप्तमहिषासुरमर्दिनीं विभाव्य सहसा विधिनोत्पादितमतिरचिन्तयत् विविधैर्जीवोपहारैर्जनःइमां देवीमर्च्चयति, अहञ्च सिद्धये आत्मोपहारेण किं नैनां प्रीणयामि? इत्यालोच्यैव निर्जनात् गर्भगृहात् खङ्गमानीय स्वयमेव निजं शिरश्छित्त्वा भुव्यपातयत्। क्षणान्तरे कथमसीचिरयतीति तमन्वेष्टुं स श्वाशर्य्योऽपि तत्र देवीभवने प्राविक्षत्। प्रविष्टश्च तं छिन्नशिरसं भगिनीपतिं दृष्ट्वा शोकव्यामोहितः तथैव तेनासिना स्वं शिरश्चिच्छेद। अथ यावत् स नायाति तावत् सा मदनसुन्दरी समुद्भ्रान्तमानसा तत् देवीभवनमाययौ। प्रविश्य च पतिं भ्रातरञ्च तथाविधं दृष्ट्वा हा ! किमेवंहतास्मीति विलपन्तीभुवि न्यपतत्। क्षणेन चोत्थायतौअकाण्डहतौ शोचन्ती किं मे अनेन जीवितेनेति पर्य्यालोच्य देहत्यागोन्मुखी तां देवीं व्यजिज्ञपत् देवि! सौभाग्यचारित्रविधानैकाधिदेवते! माररिपुशरीरार्द्धहरे! अशेषललनाजनशरण्ये! दुःखहारिणि! एकपदे कथंमे भर्त्ता भ्राता च त्वया निहतः? न युक्तमेतत्ते, अहं हि त्वयि नित्यभक्ता, तदाश्रिताया मे शरणं भवतीएक करुणं वचः शृणोतु। एतां दौर्भाग्योपहतां तनुं त्यजामि अत्रैव, देवि! यत्र कुत्रापि जनिष्ये, परंतत्र तत्रैव जन्मनि एतौ मे भर्तृभ्रातरौ भूयास्तामिति संप्रार्थ्यस्तुत्वा नत्वा च तां देवीं तत्रस्थे अशोकपादपे पाशं विरचयामास। तत्र यावत् पाशे कण्ठमर्पयति तावत् तत्र गगनादशरीरिणी वागुदचरत् पुत्रि! मा साहसं कृथाः, बाला अपि ते अनेन सत्त्वोत्कर्षेण प्रीतास्मि पाशमेतं त्यज। संश्लेषय च स्वंस्वंशिरः भर्त्तृभ्रातृकबन्धयोः, एतौ जीवितौ ह्वावपि मत्प्रसादादुत्तिष्ठतामिति। एतदाकर्ण्यैव पाशं त्यक्त्वा सा हर्षादुपेत्य अतिरभसादविभाव्य भ्रान्ता मदनसुन्दरी भर्त्तृशिरो भ्रातृदेहेन भ्रातृशिरश्च भर्त्तृदेहेनायो- जयत्। ततश्च अक्षताङ्गौ तौ जीवन्तौ सुप्तोत्थिताविव उदतिष्ठताम्। अथ ते अन्योऽन्योदितस्वस्व- वृत्तान्ततोषिणः देवीं प्रणम्य यथेष्टं प्रययुः। यान्ती च सा मदनसुन्दरी तयोः स्वकृतं शिरोविनिमयं दृष्ट्वा उदुविग्ना किंकर्त्तव्यविमूढ़ा चासीत् इमामाख्याय कथां वेतालः प्रपच्छ राजन् ! ब्रूहि कः सङ्गीर्णयोरनयोरस्या भर्त्ता भवितुमर्हति? जानंश्चेत् न ब्रवीषि तदा पूर्वोक्त एव शापः स्यात्। इति समाकर्ण्य राजा तं वेतालमवादीत् यस्मिन् कलेवरे तत् पतिशिरः संस्थं स एवास्याः पतिर्भवेत् प्रधानं सर्वेषु अङ्गेषु शिरः तद्गता प्रत्यभिज्ञा च इत्युक्तवतो नृपतेः स्कन्धात् स वेतालस्तथैवातर्कितः सहसा प्रययौ। राजा च भूयस्तमानेतुं समुद्यतस्तत्रैव जगाम।
_____________________________
अथ सप्तमकथा।
<MISSING_FIG href="../books_images/U-IMG-1722927393n.png"/>
ततः स राजा पुनः शिंशपान्तिकमेत्य तथैव वेतालं स्कन्धमारोप्य प्रतस्थे। प्रस्थितञ्च तं वेतालः पथि समभांषत, राजन् ! पुनस्ते श्रान्तिविनोदिनीं कथामेकां कथयामि शृणु।
अस्ति पूर्वाम्बुधितटे ताम्रलिप्तीति पुरी। तस्याञ्च चण्डसिंहो नाम राजाभूत्। यः परस्त्रोषु परङ्मुखः परं संग्रामभूमिषु न। शत्रुसङ्घानां हन्ता, परद्रव्यसम्पदान्तु न। एकदा तस्य भूपतेः द्वारि दाक्षिणात्यः सत्त्वशीलो नाम जनप्रियः कश्चित् राजपुत्रः समभ्यगात्। तत्रागत्य स आत्मानमावेद्य नृपात् नैव काममवाप। ततश्च स यावत् यदि मे राजान्वये जन्म, तदीदृशं निर्धनत्वं किम्? निर्धनत्वे च धात्रा किं मे महेच्छता विहिता? अयं हि राजा सेवमानमेवं क्लिष्टपरिच्छदं चिरं क्षुधा अवसीदन्तं मां नाद्यापि पश्यति, इति ध्यायति तावत् स नृपः आखेटकार्थंनिरगात्। अग्रे च तस्मिन् कार्पटिके राजपुत्रे लगुड़वाहिनि धावति राजा प्रभूताश्वपादातयुतः प्रायात्। तत्र च मृगान् समन्विष्यन् आरात् महान्तं शूकरमनुधावन् अतिदूरंवनान्तरंप्रापत्। तत्र पर्णतृणच्छन्नमार्गतया शूकरं तमपश्यन् श्रान्तः स राजा तस्मिन् वनान्तरे दिङ्मोहमगमत्। एक एव स कार्पटिको राजपुत्रः प्राणानपेक्षो पदातिः क्षुत्तृषापरीतः वाताश्वपृष्ठगं तं राजानमनुससार। स राजा तं तथानुयान्तं दृष्ट्वा सस्नेहमवदत् भद्र ! कच्चित् यथागतं मार्गं वेत्सि ? तदाकर्ण्य स बद्धान्जलिःकार्पटिकोऽभ्यधात् देव ! वेद्मि परं इह क्षणं विश्राम्यतु देवः, एष खलु दिवो वध्वा मेखलामध्यमणिः स्फुरद्रश्मिजालोऽञ्जिनोनायकोऽतितरां देदीप्यते। एतदाकर्ण्यस राजा सनिर्बन्धं तमभाषत तर्हि क्वापीह भवता पानीयं दृश्यताम्। स च कार्पटिकस्तथेत्युक्त्वा तुङ्गं तरुमारुह्य समन्तात् पश्यन् नदीमेकां दृष्ट्वा अवरुह्य तं नृपं तत्र निनाय। नीत्वा च तदीयं वाहं विपर्य्याणीकृतं कृत्वा अम्बूनि शष्पाणि च दत्त्वा विगतश्रममकरोत्। ततश्च स कृतस्नानाय राज्ञे वसनाञ्चलात् प्रोन्मुच्य आमलकानि फलानि प्रक्षाल्य तस्मै हृद्यानि उपानयत्। एतानि कुतः प्राप्तानि ? इति पृच्छन्तं भूपतिं स कृताञ्जलिर्व्यजिज्ञपत्, देव! एतद्वृत्तिरहं नित्यं व्यतीतदशवत्सरः देवमाराधयन् अनैकान्तमुनिव्रतं चरामि। इति श्रुत्वा राजा सत्त्वशील ! त्वं सत्यनामा, किमुच्यते इति अभिधाय कृपाक्रान्तः लज्जितश्चाचिन्तयत् धिक् नृपान्, ये भृत्येषु क्लिष्टमक्लिष्टन जानन्ति। धिक् तत्परिवारान् ये प्रभुं तत्तत् न ज्ञापयन्ति, इति संचिन्त्य स राजा हेआमलके कार्पटिकहस्तात् कथञ्चिदनुबन्धतः प्रतिजग्राह। विशश्राम च ते भुक्त्वा अम्बु च निपीय क्षणं तेन जग्धामलकपीतजलेन कार्पटिकेन सह। ततः तेन कार्पटिकेन सज्जीकृतं वाहमारुह्य तस्मिन्नग्रेसरे गच्छति मार्गदर्शिनि राजाज्ञया हयस्य पश्चाद्भागासनस्थिते स राजा पथि सम्प्राप्तसैनिकः स्वां पुरीं प्रायात्। तत्रागत्य तस्य कार्पटिकस्य भक्तिं प्रख्याप्य वसुभिः कार्पटिकं पूरयित्वापि निष्कृतिं नामन्यत। ततः स कृतार्थः चण्डसिंहस्य भूपतेः पार्श्वचरः त्यक्तकार्पटिकाचारः सत्त्वशीलस्तस्थौ।
एकदा राजा तं शत्त्वशीलं सिंहलेश्वरसुतामात्मार्थं याचितुं सिंहलद्वीपं प्रैषयत्। ततश्च स गच्छन् अभीष्टदेवतामर्चयित्वा राजादिष्टैः द्विजैः सह प्रवहणमारुरोह। तस्मिंश्च प्रवहणे मध्यभागमशङ्गितं गते सहसा तस्मात् जलधेःअभ्रंलिहाग्रः सुमहान् जाम्बूनदविनिर्मितः विचित्रवर्णविचलद्वैजयन्तीविभूषितः गजः विस्मयं जनयन् उत्तस्थौ। तन्मिंश्च काले समुन्नद्धघनावली सहसा भृशं वर्षितुमारेभे, तीव्रोमारुतश्च ववौ। द्विपः वर्षवातैर्बलादाकृष्य आधोरणैरिव तस्मिन् प्रवहणध्वजस्तम्भे आसज्यत। तावच्च तस्मिन् वीचिविप्लुते वारिधौ स ध्वजस्तेन वहनेन समं मज्जितुंप्रावर्त्तत। ततस्ते द्विजाः तत्रस्थाश्चण्डसेनं स्वभूपतिमुद्दिश्यभयार्त्ताः अब्रह्मण्यमुदघोषयन्। तदाकर्ण्य स सत्त्वशीलः स्वामिभक्त्यतिशयात् असहिष्णुः निस्त्रिंशहस्तः बद्धोत्तरीयकः अनुध्वजमात्मानं निरपेक्षः वारणाशङ्कीउदधेः प्रतिविधित्सया प्रक्षिपत्। अथ तस्मिन् मग्नेवातोर्मिभिर्टूराक्षिप्तंतत् प्रवहणमभज्यत। तत्स्थाश्च सर्वे यादसां मुखे निपेतुः। स च सत्त्वशीलोऽम्बुधौ मग्नो यावत् निरीक्षते स्म तावत्तत्र दिव्यं पुरददर्श न वारिधिम्। तत्र मणिमयस्तम्भभास्वरे हेममन्दिरे सद्भिः रत्नैर्बद्धसोपानवापीके उद्यानशालिनि नानामणिशिलाभित्तिरत्नचित्रोच्छितध्वजंमेरुप्रोन्नतं कात्यायनी- मन्दिरंप्रविश्य तां तत्रस्थांदेवीं प्रणम्य स्तुत्वा अभ्यर्च्यच तदग्रतः किमेतदिन्द्रजालमिति सविस्मय- मुपाविशत्। तावच्च सहसा कापि दिव्या इन्दीवराक्षीचन्द्रवदना कुसुमस्मिता मृणालमृदुकलेवरा स्त्रीसहस्रपरिवारा सहसा कवाटमुद्घाट्य देवीगर्भगृहं सत्त्वशीलस्य च हृदयं समं विवेश। सा च तत्र देवीमभ्यर्च्य तस्मात् गर्भगृहात् निरगात् न पुनः सत्वशीलस्य हृदयात्। प्राविशच्चतत्रैव प्रभामण्डलकान्तारे। सत्त्वशीलोऽपि तामनुजगाम। ददर्श च अन्यत् उत्तमं सर्वासां भोगसम्पदां सङ्घेतोद्यानमिव भवनम्। तत्रान्तर्मणिपर्य्यङ्कनिषस्सां तां विलोक्य समुपेत्य तत्पार्श्वे समुपाविशत्। आसीच्च तन्मुखासक्तलोचनो लिखित इव। इत्थं सोत्कयुलकैरङ्गै र्वदनालोकनोत्सुकं तं स्मराविष्टंदृष्ट्वा कापि तदीया चेटी तदिङ्गितज्ञा तमब्रवीत् भद्र ! अतिथिस्त्वमिह प्राप्तः, तदस्मत्स्वामिन्या कृतम् आतिथ्यं भजस्व, उत्तिष्ठ, स्नाहि, भुङ्क्ष्व, तदाकर्ण्य स आशां कथञ्चित् तदुक्तितः सम्प्राप्य तया दर्शितामेकामुद्यानवापीमगात्। उदतिष्ठच्च तस्यां निमग्नस्तत्क्षणंताम्म्रलिप्यां चण्डसिंहस्य नृपतेर्वापीमध्यात्। तत्राकस्मात् प्राप्तमात्मानं वीक्ष्यसोऽचिन्तयत् अहो! किमेतत् क्व तदुद्यानं दिव्यं क्व च तत्र अमृतसारमयं तस्या दर्शनं, क्व चानन्तरमेव तद्विश्लेषमहाविषमिदम्। स्वप्नोऽयं न विनिद्रोऽहं नूनं तया चेट्या अहं विप्रलब्धः विमूढोऽस्मि। इति चिन्तयन् तां कन्यां विना सोन्माद इव तस्मिन्नुद्याने भ्रमन् कामार्त्तो विललाप।तदवस्थञ्च पिशङ्गैः पुष्परेणुभिर्वातोद्धृतैर्वियोगानलैरिवपरीताङ्गं तं दृष्ट्वा उद्यानपालः चण्डसिंहं महीपतिं गत्वा व्यजिज्ञपत्। स च तदाकर्ण्य उद्भ्रान्तः स्वयमेत्य तं ददर्श पप्रच्छ च सान्त्वयन् किमिदं ब्रूहि सखे ! त्वं क्व प्रस्थितः, क्व च प्राप्तः क्व आस्थाः, क्व च पतित इति तदाकर्ण्य स तस्मै सर्वं वृत्तान्तमशंसत्। राजा व्यचिन्तयत हन्त वीरोऽयं मत्पुण्यैः कामेनैष विडम्बितः, तदिदानीमस्यानृण्यं लब्धुमयमवसरो मया प्राप्तः। इति चिन्तयित्वा स राजा तं जगाद सखे! मुधा शोकं मुञ्च, अहं त्वां तेनैव मार्गेण नीत्वा तामसुरकन्यकां प्रापयामि इति उक्त्वास्नानादिना तं समाश्वासयत्।
अथान्येद्युः स मन्त्रिविन्यस्तराज्यभारः तेन समं प्रवहणारूढ़ः तद्दर्शितेन अम्बुधिमार्गेण गच्छन् तन्मध्यभागे प्राग्वत् समुत्थितं सपताकं ध्वजं ददर्श। तदवलोक्य सत्वशीलो राजानमभ्यधात्देव ! सोऽयं दिव्यप्रभावो महाध्वजः समुत्थितः, मयि अत्र मग्ने देवेनानुध्वजं मज्जनीयम् इत्युक्ता अस्य निमज्जतो ध्वजस्य निकटं प्राप्य स सत्त्वशीलः पूर्वमात्मानं तत्र न्यक्षिपत्।ततोराजापि तमनु आत्मानं निचिक्षेप। अन्तर्मग्नौच तौतत्र तत् दिव्यं पुरमवापतुः। तच्च दृष्ट्वा राजा सविस्मयो देवीं तां पार्वतीं प्रणम्य सत्त्वशीलेन सममुपाविशत्। तावच्च तत्र सा कन्या सखीजनसमन्विता रूपिणी प्रभेव ततः प्रभामण्डलकात् निरगात्। इयं सा सुमुखीति सत्त्वशीले वदति स राजा तस्यामस्यानुरागो युक्त इत्यमन्यत। सापि तं राजानं दिव्यशारीरलक्षणं वीक्ष्याचिन्तयत् कोऽयमपूर्वः पुरुषातिशयः विवेश च अम्विकापूजार्थं तन्मन्दिरम्। सोऽपि नृपः तं सत्त्वशीलमादाय अवज्ञां प्रदर्शयन् उद्यानमाजगाम। क्षणेन च सा कन्यका कृतदेवीपूजा तस्या देव्याः सत्यतिलाभं याचित्वा तद्गृहाभ्यन्तरात् निर्गत्य सखीमेकां प्राब्रवीत् सखि ! क्वासौ वीक्ष्यतां यो मया इह दृष्टः, स महात्मा क्व तिष्ठति ? युष्माभिर्विचित्य आतिथ्यमेत्य गृह्यतां प्रसादो मे त्वया क्रियतामित्येवम् अभ्यर्थनीयः स हि पूज्यः कोऽपि उत्तमः पुमान्। एवं तयोक्ता सखीतं विचित्य उद्यानवर्त्तिनं स्वस्वामिनीनिदेशं प्रह्वा व्यजिज्ञपत्। तदाकर्ण्य स वीरो नृपः सावज्ञंतामुवाच भद्रे ! वचसैव कृतमातिथ्यंनान्यत् किमपि उपयुज्यते। एतदाकर्ण्य तया सख्या गत्वा सा असुरनन्दिनी श्राविता तदा उदारं तमसामान्यं कमपि अभ्यमन्यत। ततस्तेन मानुषायोग्येऽपि आतिथ्ये निःस्पृहेण तेन राज्ञा धैर्य्यपाशेनाकृष्यमाणा पत्यर्थपार्वतीसेवापरिपाकसमन्विता दैत्यकन्यका स्वयमुपेत्य उद्यानं प्राविशत्। प्रविश्यत्राजानं तमभ्येत्य प्रश्रयान्विता आतिथ्यग्रहणार्थं प्रार्थयामास। ततः स नृपस्तंसत्त्वशीलमुद्दिश्य तामुवाच भद्रे ! अनेन
कथितां देवीमिह द्रष्टुमहमागतः दृष्टा च सा गौरी परमाद्भुतकेतनं ध्वजपथं प्राप्य, तदनु त्वञ्च। तदाकर्ण्य सा कन्यका प्रत्यभाषत राजन्! तर्हि कौतुकात् त्रिजगदद्भुतं पुरं वीक्षितुमागम्यताम्। एवं वादिनीं तां स नृपो विहस्यावदत् तदपि अनेन मे कथितं यत्र सा स्नानवापी अस्तीति। कन्यकावादीत् देव! मैवमादिश, नाहं विढम्बनशीला पूज्ये विडम्बना का? विशेषतस्त्वहं युष्माकं सत्त्वोत्कर्षेण किङ्करी- कृतास्मि। तन्मम प्रार्थनाभङ्गंमा कुरुष्व, एतदाकर्ण्य स राजा सत्त्वशीलेन सहितः तथेत्युक्त्वा तया सह प्रभामण्डलोपान्तं ययौ। अथ अपावृतकवाटे तस्मिन् प्रविष्टः अपरं दिव्यं नित्यं सर्वर्त्तुकुसुमफल- शोभितंरत्नकाञ्चनैर्निर्मितमपरंमेरुपृष्ठमिव पुरं ददर्श। तत्र सा महार्हे रत्नासने राजानमुपवेश्य यथोचितं अर्घ्यादिकमानाय्य राजसुताब्रवीत् महाभाग! अहमस्मि असुरेन्द्रस्य महात्मनः कालनेमेः सुता। चक्रिणा स मम पिता स्वर्गं प्रापितः। इदञ्च मे पैतृकं पुरद्वयं विश्वकर्मणा कृतं सर्वकामदे अत्र न जरा न च मृत्युः बाधते। इदानीञ्च त्वं मे पिता सपुराया इति समर्पितात्मसर्वस्वां तामवादीत् स राजा। यदि एतत् तर्हि त्वं मम सुता अस्मै सत्त्वशीलाय सुहृदे वीराय बान्धवाय च मया दत्ता, एवं देवीप्रसादेन मूर्त्तेनैव नृपेण सा उक्ता गुणज्ञा विनता तं राजानं तथेति अन्वमन्यत। ततस्तस्याः पाणिग्रहं कृत्वा कृतार्थे तस्मिन् सत्त्वशीले राजा असुरैश्वर्य्यं सर्वं दत्त्वा तं सत्त्वशीलमुवाच सखे! भुक्तयोरामलकयोरेकमद्य मया तव संशोधितम् असंशोधितात् द्वितीयात् तेऽहं ऋणी तिष्ठामीति प्रणतं तमुक्त्वा तां दैत्यपुत्रीमब्रवीत् भद्रे! मार्गो मम दर्श्यतां येन स्वांपुरीं प्राप्नुयामिति ततः सा अपराजितं नाम खङ्गम् एकञ्च जन्मजरामृत्यहरंफलं दैत्यनन्दिनी तस्मै भूपाय प्रादात्।अथ स राजा ताभ्यां खड्गफलाभ्यामन्वितः तयोक्तायां तस्यामेव वाप्यां मग्नः स्वदेशतः समुत्थाय सर्वकार्य्यसिद्धिमानभूत्।स च सत्त्वशीलः दैत्यस्त्रीपुरराज्यंसुखेन शशास।इति कथामाख्याय वेतालो राजानमप्राक्षीत् राजन्। कोऽनयोर्हयोरब्धिपतने सत्त्वाधिक इति।तदाकर्ण्य राजा शापाद भीतः सदुत्तरमेव प्रत्यभाषत एतयोः सत्त्वशील एव अधिकः सत्त्ववान् मे प्रतिभाति, स हि पूर्वम् अविज्ञाततत्त्वःनिराश एवाम्बुधौ पतितः। राजा तु तत्त्वं विज्ञाय अम्भोधिमाविशत् इति समाकर्ण्य राज्ञो निरस्तमौनत्य वचनंस वेतालः स्कन्धात् पूर्ववत् अलक्षितः तमेव शिंशपातरुमगमत्।राजापि पूर्ववत् तमानेतुं पुनरुद्योगमकरोत्।नहि प्रारब्धे असमाप्ते धीराः शिथिलीभवन्ति।
_____________________________
अथ अष्टमकथा।
<MISSING_FIG href="../books_images/U-IMG-1722940010n.png"/>
ततश्च स राजा भूयः शिंशपामूलं गत्वा तं वेतालंतथैव प्राप्य स्कन्धे कृत्वा भिक्षुमुद्दिश्य प्रातिष्ठत।प्रयान्तञ्च तं स स्कन्धवर्त्ती वेतालः सम्बोध्य प्राब्रवीत् राजन्। श्रमविनोदाय पुनरिमां कथामाकर्णय।
अस्त्यङ्गदेशे महान् वृक्कघटाभिभः जनपदः।तत्र विष्णुस्वामीति महान् यज्वा महाधनीद्विजः प्रतिवसति।तस्य स्वानुरूपायां पत्न्यां क्रमात् त्रयः पुत्रा जज्ञिरे।कदाचित् ते तरुणा भोगवैदग्धप्रशालिनः कूर्महेतोः पित्रा प्रारब्धयज्ञेन प्रेषिताः भ्रातरः अम्बुधिं ययुः तत्र कूर्ममेकंप्राप्य ज्यायान् कनिष्ठावाहस्म युवयोरेकः कूर्ममिमं पितुः क्रत्वर्थं गृह्णातु अहमेनं विस्रं पिच्छिलञ्च ग्रहीतुं न शक्नोमि इत्युक्तवन्तं तं ज्येष्ठं कनिष्ठावूचतुः आर्य्य! तवात्र चेत् विचिकित्सा, तदावयोः कथं न स्यात्? तदाकर्ण्य स ज्येष्ठोऽवादीत् युवां कच्छपं गृह्णीतम् अन्यथा युवाभ्यां कृते पितुर्यज्ञलोपः स्यात्, ततो युवयोस्तस्य च पितुः ध्रुवं नरकपातः स्यात्। इति तेनोक्तावनुजौविहस्य तमवोचताम् आर्य्य! आवयोरेव समानं धर्मं वेत्सि, नात्मनः? ततो ज्येष्ठोऽवादीत् किं युवां मम भोजनचण्डतां न जानीथः अहंहि भोजनेषु चण्डः, कथमिमं जुगुप्सितं स्पृशामि? एतत्तस्य वचः श्रुत्वा मध्यमोऽब्रवीत् अहं हि अधिकश्चण्डः नारीषु विचक्षणः तत् कथमिमं स्पष्टुमर्हामि। एवं मध्यमेनोक्ते ज्येष्ठः कनीयसमवादीत् त्वंतावत् आवयोः कनीयान् कूर्मं गृहाण। ततः स कनीयान् भ्रुकुटिं विधाय ताववोचत् मूर्खौ! अहं हि विशेषेण तूलिकाचण्डः। इत्थंते कलहासक्तास्त्रयो भ्रातरः निर्णयाय अभिमानिनः तं कूर्मं विहाय प्रसेनजिदाख्यभूपतेर्नमरं विटङ्गपुरं ययुः। तत्र गत्वा प्रतीहारमुखेनावेद्य तेन च प्रवेशितास्तंनृपं तं वृत्तान्तं विज्ञापयामासुः। राजा च सर्वं श्रुत्वाब्रवीत् तिष्ठत यूयमत्र परीक्षिष्ये वः क्रमात् इति। ततस्तेतथेत्युक्त्वासर्वे तत्रावतस्थिरे। ततः स नृपः स्वाहारकाले तानानीय तेभ्यः अग्रवाणिआसनानि राजाहीणि च षड्रसानि स्वादूनि अन्नादीनि दापयामास। ततः सर्वेषु भुञ्जानेषु तेषामेको विप्रः भोजनचण्डो जुगुप्साकलिताननो न वुभुजे। कथं न भोजनं स्वादु सुगन्ध्यपि न भुङ्क्तेइति राज्ञा स्वयं पृष्टः स शनैर्जगाद, राजन्! अस्मिन् भक्तेशवधूमदुरामोदो वासते, तेनाहमिदं भोक्तुंस्वादु अपि नेच्छामि। इत्युक्ते तेन सर्वेऽपि नृपाज्ञया तदाघ्राय कलमशाल्यन्नमिदं सुगन्धि चेति शशंसुः।स तुभोजनचतुरः पिहितनासिकस्तन्नबुभुजे। ततःस राजा सञ्चिन्त्य क्रमात् यावदन्विष्यति तावन्नियोजितजनमुखात् तदन्नं ग्रामश्मशाननिकटक्षेत्रसम्भव- शालिजंबुबुधे। ततोऽतिविस्मितस्तुष्टश्च राजा तमभाषत ब्रह्मन्! सत्यं त्वं भोजनचण्डः तदन्यत् भुज्यतामिति।
ततो राजा कृताहारान् तान् वासगृहेषु विसृज्य स्वामेकां गणिकोत्तमाम् आनयामास।ग्राहिणोच्च निशि तां सर्वाङ्गसुन्दरीं कृतमण्डनां तस्मै द्वितीयस्मै नारीचण्डाय भ्रात्रे। सा च राजभृत्येनान्विता तस्य द्वितीयस्य वासगृहं प्रागात्। तस्याञ्च प्रभासितवेश्मनि प्रविष्टायां समुत्पन्नमोहःवामपाणिना संरुङ्घनासाग्रोऽसौ नारीचतुरो राजभृत्यानब्रवीत् निष्काश्यतामेषा, नो चेत् म्रियेऽहम्, अस्याश्छागलगन्धो निर्याति। इत्युक्ता राजपुरुषा समुद्विग्नाः सविस्मयाश्च ततो राजान्तिकं नीत्वा तं वृत्तान्तं तस्मै न्यवेदयन्। राजा तं नारीचण्डमानीय तदाब्रवीत् ब्रह्मन् ! येयं चन्दनकर्पूरकालागुरुभिः कृतदेहविलेपना दिक्षुप्रसरच्चारुसौरभा वर्त्तते, तस्या वारविलासिन्याश्छागलगन्धः कुतः ? इत्युक्तोऽपि स नारीचण्डः यदा न प्रतिपेदे तदा राजा विचारकुतुकोऽभवत् अवुध्यत च तां तस्या एव मुखेन शैशवे मातृवियोगात् अजाक्षीरविवर्द्धिताम्। ततो राजा अतिविस्मितस्तस्य नारीचण्डस्य चण्डतां बहु प्रशंसन् तस्मै तृतीयाय तूलिकाचण्डाय आशु शय्यामदापयत्। स च तूलिकाचतुरः पर्य्यङ्कोपरि सप्तसङ्खातूलिकायां शय्यायां धौतश्लक्ष्णपट- प्रच्छदवाससि सुष्वाप। रात्रेर्यामार्द्धएव गते स सहसा पाणिना अवष्टब्धपार्श्वःक्रन्दन् व्यथाकुलः तस्मात् शयनादुत्तस्थौ। तत्रस्थैश्च राजपुरुषैः तस्य पार्श्वे गाढ़लग्नस्य
केशस्य कुटिलारुणामुद्रा च अदृश्यत। तैश्च तत्क्षणं गत्वा निवेदितो राजा तानुवाच तूलिकानां तलेषु किञ्चित् स्यात् न वा वीक्ष्यताम्। ततस्ते गत्वा यावदीक्षन्ते एकैकंतूलिकातलं तावत् सर्वतले स्थितमेकंबालंप्रापुः, दर्शयामासुश्च तं नीत्वा तत्क्षणंराज्ञे स च राजा तं तूलिकाचण्डमानीय तस्याङ्गं तद्रूपमङ्गितं दृष्ट्वा परं विस्मयमवाप। सप्तभ्यस्तूलिकाभ्यः अस्य तनौ कथमयं बालो मग्नः इति चित्रीयमाणस्तां रात्रिमनैषोच्च। प्रातश्चोत्थाय राजा अद्भुतवैदग्धासौकुमार्य्या अमीइति परितुष्टः तेभ्यस्त्रिभ्योऽपि चण्डेभ्यो हेमलक्षत्रयं ददौ ततस्ते सुखिता विस्मृतकच्छ्पाः पितुर्यज्ञविघ्नेन उपार्जितपातकास्तत्र तस्थुः। इति अद्भुतां कथामाख्याय स्कन्धनिषण्णः स वेतालः तं राजानमपृच्छत् राजन्! पूर्वोक्तं शापं विचिन्त्य त्वं एषां त्रयाणां कोऽधिकश्चण्डः इति ब्रूहि। तदाकर्ण्य स धीमान् नृपतिस्तंवेतालंप्रत्यभाषत अहमेतं अकैतवं तूलिकाचण्डमधिकंमन्येयस्याङ्गे बालप्रतिबिम्बं प्रत्यक्षमुद्गतं दृष्टम्। इतराभ्यान्तु कदाचित् तत्पूर्वमवगतंसम्भवेत्। इत्युक्तवतो नरपतेः स्कन्धात् स वेतालः प्राग्वत् प्रययौ राजापि तमानेतुं पुनःशिंशपातरुमूले तमन्वगात्।
_______________________________________________
अथ नवमकथा।
<MISSING_FIG href="../books_images/U-IMG-1722942352n.png"/>
ततः स राजा पुनः शिंशपान्तिकं गत्वा तं वेतालं स्कन्धेनादाय प्रस्थितस्तेन वेतालेन प्राग्वदभ्यधायि राजन्! कथमस्मिन् श्मशाने निशि ते एतादृक् प्रयासःभूतसङ्कुलं रात्रिभीषणं चिताधूमैरिव ध्वान्तै- र्निरुद्धं पितृकाननंकिं नेक्षसे? तस्य
भिक्षोरनुरोधतः कथमीदृशा प्रयासेन आत्मानंस्वेदयसि? तदिमं मे प्रश्नंमार्गविनोदकं शृणु।
अवन्तीषु युगादौ देवनिर्मिता शैवी तनुरिव उद्दामभोगभूतिविभूषिता पद्मावती, भोगवती हिरण्यवतीति च कृतादिषु त्रिषु युगेषु पुरी क्रमशः आसीत्, कलौ च उज्जयिनोति पुरी अस्ति। तस्यामासीत् वीरदेवो नाम नृपतिः। तस्य पद्मरतिनाम्नी महादेवी आसीत्।
एकदा राजा तयासाकं मन्दाकिनीतटे पुत्रकाम्यया तपसा हरमाराधयामास, चिरञ्च तपश्चरन् कदाचित् परितुष्टशङ्करोदिताम् आकाशवाणीं शुश्राव राजन्! उत्पत्स्यते ते पुत्रः शूरः कुलोद्वहः। कन्या चैका लावण्येन जिताप्सराः। एतां नाभसीं वाणीं श्रुत्वां स भूपतिरभीष्टसिद्धिप्रहृष्टः महिष्या समं स्वनगरीमाययौ। तस्य प्रथमं पद्मरत्यां देव्यां शूरदेवो नाम पुत्रः, तदनु च अनङ्गरतिर्नाम अनङ्गमोहिनी कन्या समजायत। क्रमेण च तस्यां वृद्धिं गतायां स राजा सदृशं वरं प्रेप्सुःपृथिवीमण्डलस्थान् सर्वान् नृपतीन् पटलिखितानानाययत्। यदा तेषु एकोऽपि तस्याः सदृशो न प्रत्यभासत, तदा स राजा वात्सत्यात् तां सुतामभाषत वत्से! अहं तावत् ते सदृशंवरं न पश्यामि, तत् सर्वान् नृपान् समानाय्य स्वयंवरं कुरुष्व। एतत् पितृवचनमाकर्ण्य सा राजपुत्री जगाद तात! स्वयंवरमतिद्वेपणं, तदहं नेच्छामि, यो हि युवा सुरूपः केवलं पूर्णं विज्ञानं वेत्ति, तस्मै त्वया अहं देया, न्यूनाधिकेन मे नास्ति प्रयोजनम्। इति दुहितुर्वचः समाकर्ण्य यावत् स भूपतिस्तादृशं वरम् अन्विष्यति, तावत् तत् लोकमुखात् विदित्वा चत्वारो वीरा विज्ञानिनो भव्याः पुरुषा दक्षिणपथात् तं राजानमाययुः।ते च राज्ञा सत्कृताः एकैकशः स्वं स्वं विज्ञानं राजसमक्षं शशंसुः। तेषामेको जगाद अहं तावत् शूद्रः नाम्ना पञ्चफुट्टिकः। एकोऽहमन्वहं पञ्च अग्राणि वसनयुग्मानि करोमि, तेषामेकं देवाय प्रयच्छामि, एकं द्विजाय, एकमात्मनः कृते परिगृह्णामि, एकञ्च भार्य्यायै (या मे भवति) ददामि। पञ्चमञ्च विक्रीय आहारादिकं विदधामि। तदेवं विज्ञानिने मह्यम् अनङ्गरतिस्ते दुहिता दीयतामिति। द्वितीयोऽब्रवीत् अहंतावत् वैश्यः, भाषाज्ञो नाम, सर्वेषां मृगपक्षिणां रुतं वेद्मि, तदेषा राजपुत्री मह्यं दीयतामिति। ततस्तृतीयोऽभाषत अहं खङ्गधरो नाम भुजवीर्य्यशाली क्षत्रियः, स्वङ्गविद्याविज्ञाने अस्यां क्षितौ मे प्रतिमल्लो नास्ति। हे राजन्! तदेषा तनया ते मह्यंदीयतामिति। अतश्चतुर्थोऽब्रवीत् राजन्! अहं तावत् जीवदत्तो नाम विप्रः, मम चैतादृशं विज्ञानमस्ति यन्मृतानपि जन्तृन् आनीय आशु जीवतो दर्शयामि, तद्वीरचर्य्यासिद्धं माम् एषा ते तनया पतिं प्रपद्यतामिति। एवं ब्रुवतः तान् दिव्यवेशाकृतीन् पश्यन् राजा वीरदेवः सुतया दोलारूढ़ इवाभवत्। इति कथामाख्याय वेतालः राजानमप्राक्षीत् राजन् ! पूर्वोक्तंशापंस्मृत्वा ब्रूहि एतेषां कस्मै कन्यैषा देयेति। एतदाकर्ण्य राजा तं वेतालं प्रत्यवादीत् भवान् केवलं कालक्षेपाय मां मौनं त्याजयति अन्यथा कोऽयं गहनःप्रश्नस्वदुच्यतां शूद्राय कुविन्दाय कथं क्षत्रिया दीयते वैश्याय च, यच्च तद्गतं मृगादिभाषाविज्ञानं तत् कस्मिन् कार्य्ये उपयुज्यते? विप्रेणापि तेन स्वकर्मप्रच्युतेन ऐन्द्रजालिकेन पतितेन वीग्मानिना किम्? तस्मात् क्षत्रियायैव खङ्गधराय विद्याशौर्य्यशालिने सा देयेति। एतत्तस्य वचो निशम्य स वेतालःयोगबलात् स्कन्धदेशात् सहसा अलक्षितः क्वापि जगाम। राजापि तथैव तमनुययौ। सोत्साहघने हि वीरहृदये न जातु खेदोऽन्तरं लभते।
अथ दशमकथा।
<MISSING_FIG href="../books_images/U-IMG-1722943298n.png"/>
ततश्च स राजा पुनःशिंशपामूलं गत्वा तं वेतालं तथैव स्कन्धमारोप्य सत्वरं कृतमौनः समुच्चचाल। प्रयान्तञ्च तं स्कन्धवर्त्ती स वेतालस्तमपृच्छत् राजन् ! श्रान्तोऽसि, तदिमां श्रान्तिहारिणींकथां शृणु।
आसीत् वीरबाहुर्नाम सकलभूपालशिरःसमभ्यर्चितशासनः पाकशासन इवापरो नृपतिः। तस्यानङ्गपुरं नाम नगरवरमभवत्। तत्रार्थदत्तो नाम महाधनः सार्थवाहः प्रतिवसति स्म। तस्य धनदत्तो नाम ज्येष्ठः पुत्रः कनीयसी च कन्या मदनसेना नाम समजायत।
एकदा धर्म्मदत्तो नाम कस्यचित् बणिक्पतेस्तनयः तां लावण्यरसनिर्झरां कुचकुम्भाग्रबलित्रितयरञ्जितां यौवनद्विरदस्येव लीलामज्जनवापिकां वीक्ष्यसद्यः स्मरबाणौघपातापहृतचेतनः समपद्यत। अहो! मारेण धाराधिरूढेन अमुना रूपेण व्योतिता मल्ली मे हृदयं भेत्तुमिव निर्मिता। इत्येवं प्रासादाग्रमारूढां तां दृष्ट्वा चिन्तयतः चक्राह्वस्येव तस्य वासरोऽतिचक्राम। ततः सा मदनसेना चित्तञ्च तस्य धर्म्मदत्तस्य तद्दर्शनदुःखाग्निसन्तप्तंज्वलत् गृहान्तरं विवेश। भास्वांश्च तद्दर्शनजनितरागोऽपराम्बुधौ निपपात। ताञ्च सुमुखींनक्तम् अभ्यन्तरागतां दृष्ट्वा तन्मुखाच्चविनिर्जितश्चन्द्रः शनैरुदगात्। धर्मदत्तश्च तावत् गृहं गत्वा तामनुचिन्तयन् शयने चन्द्रपादाहतो लुठन् निपत्य तस्थौ। यत्नेन सखिभिर्बन्धुभिश्च पृच्छामानो न किञ्चित् कथयामास। निशि च कृच्छ्रात् प्राप्तनिद्रः तथैव तां पश्यन् अनुनयंश्च समुत्सुकः किमिव नाकरोत्। प्रातश्च प्रबुद्धो गत्वा रहसि स सखींप्रतीक्षमाणाम् उद्यानवर्त्तिनींमदनसेनां ददर्श। उपेत्य च परिष्वङ्गलालसः प्रेमपेशलैर्वचोभिश्वरणानतः उपच्छन्दयामास। साब्रवीत् अहं कन्या, साम्प्रतं ते परदाराश्च, यतोऽहं पित्रा समुद्रदत्ताय बणिजे वाचा दत्ता, कतिपयैरेव दिनैर्विवाहो मे भविता, तत् तूष्णीं गच्छ मा कश्चित् पश्येत् ततो दोषो भवेत्। इत्युक्तस्तया त्यक्तश्च स धर्म्मदत्तस्तां जगाद सुन्दरि ! यदस्तु, त्वां विना नाहं जीवेयम्। तदाकर्ण्यसा बणिक्सुता बलात्कारभयाकुला तमुवाच तर्हि विवाहो मे तावत् सम्पद्यतां पिता मे चिरकाङ्क्षितं कन्यादानफलं लभतां, ततोऽहं त्वां निश्चितं प्रणयेन समुपेष्यामि। तदाकर्णासोऽब्रवीत् अन्यपूर्वा मम प्रिया नेष्टा, परभुक्ते कवले विमलेऽपि किं रतिर्जायते? इति तेनाभिहिता सावादीत् तर्हि कृतोद्वाहैव पूर्वं त्वामुपयास्यामि, ततः पतिमिति। एवमुक्तवतीं तां बणिक्पुत्रींप्रत्ययार्थं शपथेन सत्येन स धर्म्मदत्तः सम्बबन्ध। ततस्तेनोज्झिता सा समुद्विग्ना स्वंमन्दिरं विवेश।
अथ प्राप्ते लग्नदिवसे निर्वृत्तोद्वाहमङ्गला सा गत्वा पतिगृहं नीत्वा च उत्सवेन वासरं निशि पत्या समं शयनीयगृहमध्यास्त। तत्र शय्यानिषस्यापि असम्मुखीसमुद्रदत्तस्य तस्य पत्युः परिष्वङ्गं न प्रत्यपद्यत। तेनानुनीयमानापि सा यदा उदश्रु बभूव तदा स नाहमस्या आभमताऽस्मीति हृदाकरोत्।अवादीच्च सुन्दरि! यदि तेऽहं नाभिमतः तत्ते योऽभिमतः तं सेवितुंगच्छ। तदाकर्ण्यसा नतमुखी शनैरवादीत् नाथ! त्वं मे प्राणाधिकः प्रेयान्, किन्तु मे विज्ञप्तिमेकां शृणु, सहर्षं मे अभयं प्रयच्छ, शपथञ्च कुरुष्व, आर्य्यपुत्त्र! अवक्तव्यमपि ते वदामि। एवमुक्तवती सा तथेति कृच्छ्रात् प्रतिपद्यमानं तं सविषादं सलज्जा सभयञ्चावादीत् नाथ ! एकदा एकाकिनीं गृहोद्याने मां दृष्ट्वा धर्मदत्तो नाम मम भ्रातुः सखा युवा स्मरातुरः मामरुणत्। मया परीवादं पितुः कन्यादानफलञ्च रक्षन्त्या हठप्रवृत्तस्य तस्य वाक्संयमः पूर्वं विवाहिता त्वामुपेष्यामि ततः पतिमिति। तत् प्रभो! मे सत्यं प्रतिपालय अनुमन्यस्व मां तदन्तिकगमनाय, तन्निकटं गत्वा क्षणेनागमिष्यामि, न हि आबाल्यसेवितं सत्यमतिक्रमितुं शक्नोमि, इति तस्या वचोवज्रपातेन सहसा हतः समुद्रदत्तः सत्येन बद्धःक्षणसचिन्तयत् अहो ! धिक् इयमन्यरक्ता, एतया ध्रुवमेव गन्तव्यम्। तत् कथं सत्यं हन्मि, यातु इयं कोऽस्याः परिग्रहः? इत्यालोच्य तां यथेष्टगमनाय अनुमेने। सापि सहसा समुत्थाय तस्माद् वेश्मनो निरगात्। अथ सा यान्ती मदनसेना निशि मार्गे एकाकिनी केनापि चौरेण प्रधाव्य वसनाञ्चलात् रुरुधे। ऊचे च बिभ्यती सा, का त्वं सुभ्रु! क्व यासीति? सावादीत् मुञ्च मां किं तवानेन प्रसङ्गेन, कार्य्यमस्ति मे। ततश्चौरोऽब्रवीत् सुन्दरि ! चौरात् मत्तः कथं त्वं मुच्यसे? तदाकर्ण्य सावदत् गृहाण मे आभरणानि, ततश्चौरोऽभ्यधात् शोभने ! किमेभिरुपलैः, चन्द्रकान्ताननां जगदाभरणभूतां भवतीं नैवाहं त्यजामि, इति तेनोक्ता विवशा सा बणिक्नन्दिनीनिजवृत्तान्तमाख्याय तमेवं प्रार्थयामास भद्र! क्षणं अपेक्षस्व यावत् सत्यमनुपालयामि, इहस्थस्यैव ते पार्श्वं सत्वरमेष्यामि, नाहमिमां गिरमुल्लङ्घयिष्यामि। एतदाकर्ण्यचौरस्तां सत्यसन्धां मत्वा मुमोच, तस्थौ च तत्र तदागमं प्रतीक्षमाणः। सापि तस्य धर्मदत्तस्य बणिजोऽन्तिकमा- जगाम। स च धर्मदत्तस्तामभीष्टां प्राप्तां दृष्ट्वा यथावृत्तं पृष्ट्वा विचिन्त्य च क्षणमब्रवीत् सुन्दरि! सत्येन ते तुष्टोऽस्मि, त्वया परस्त्रिया मे नास्ति प्रयोजनम्, यावत्त्वां कश्विन्नेक्षते तावत् यथागतं गम्यतामिति तेन त्यक्ता सा तथेति तद्वेहात् प्रत्यागमत्। अथ पथि चौरस्य प्रतिपालयतो निकटं प्राप्य ब्रूहि कस्ते वृत्तान्तस्तत्र गताया इति पृच्छते तस्मै सा तेन बणिजा यथोक्तंतत् सर्वमाख्यातवती।ततः चौरस्तामवादीत् यद्येवं तत् मयापि सत्यतुष्टेन विमुक्तासि, साम्प्रतं साभरणा गृहं व्रज इति। एवं तेनापि सन्त्यक्ता रक्षिता अनृणा अलुप्तशीलमुदिता पत्युरन्तिकमायो। तत्र गुप्तं प्रविष्टा प्रहृष्टेवागता पृष्टा तस्मै पत्ये तत् सर्वं यथावदवर्णयत्। सोऽपि अम्लानमुखकान्तिस्तामसम्भोगलक्षणां अनष्टचारित्रां सत्यपालनगतां अदुष्टमानसां सम्भाव्य अभिनन्द्य च तया सह स समुद्रदत्तः यथासुखं तस्थौ। इति कथामुक्त्वा स वेतालस्तं भूपं पृच्छति स्म राजन् ! पूर्वोक्तं शापमनुस्मृत्य ब्रूहि एषां चौरबणिजां मध्यात् कस्त्यागीति। तदाकर्ण्य स राजा मौनं विहाय तं वेतालमाह स्म एषां चौरस्त्यागी न पुनरुभौ तौ बणिजौ, यो हि पतिस्तां अत्याज्यां विवाह्यापि अजहात् स कुलजः सन् अन्यासक्तां भार्य्यांजानन् कथं वहति? योऽपि अपरःसभयात् अथवा कालेन जीर्णासक्तिवेगात् तमत्याक्षीत्। चौरस्तु गूढ़चारी निरपेक्षःपापी, प्राप्तं साभरणं स्त्रीरत्नंयदमुञ्चत् तेन स एव त्यागीति। तदाकर्ण्यैव स वेतालःपूर्ववत् स्वं पदमगात्. राजापि पुनस्तामानेतु सयत्नोऽभवत्।
____________________________
अथ एकादशकथा।
<MISSING_FIG href="../books_images/U-IMG-1723102526do.png"/>
ततः स राजा शिंशपासकाशं गत्वा तं वेतालं पुनः स्कन्धमधिरोप्य तं भिक्षुंप्रति आगन्तुमारेभे। गच्छन्तञ्च तं स्कन्धस्थितः स वेतालः प्राब्रवीत् राजन् ! विचित्रामेकां श्रमापहां कथां ते निवेदयामि शृणु।
पूर्वमासीत् उज्जयिन्यां धर्मध्वजो नाम नृपतिः। तिस्रः राजकन्यास्तस्यातिवल्लभा भार्य्या आसन्। तासामेका इन्दुलेखा, द्वितीया तारावली, तृतीया मृगाङ्कवती। ताभिःराज्ञीभिः सह विहरन् राजा जिताशेषरिपुः सुखमासाञ्चक्रे
एकदा तत्र वसन्तोत्सवे समुपस्थिते ताभिः प्रियाभिः सह स राजा क्रीडितुम् उद्यानमगात्। तत्र अलिमालामौर्वीकाः पुष्पानता लताः अनङ्गस्य सज्जिताश्चापयष्टीरिव पश्यन् तत्रत्यतरुपरिवर्त्तमानानां कोकिलानां गिरं सम्भोगैकरसस्य मनोजस्य आज्ञामिव शृण्वन् वासवोपमः स राजा अन्तःपुरिकाभिः साकं कन्दर्पजीवितस्यापि जीवितं मधु सिषेवे।तत्र तस्य राज्ञः
इन्दुलेखाया देव्याः केलिकचग्रहात् कर्णाग्रात् उत्सङ्गे उत्पलं पपात। तदभिघातेन च क्षते जाते अभिजाता सा महादेवी हा! हा! इत्युक्ता मुमूर्च्छ। तदवलोक्य विह्वलेन राज्ञा परिजनेन च शीताम्बुमारुतैः समाश्वासिता सा कथञ्चित् संज्ञामवाप। अथ राजा तां राजधानीं नीत्वा भिषजां शतैर्विविधौषधैः प्रियामुपाचरत्। ततः स राजा रात्रौ तां सुस्थितां दृष्ट्वा द्वितीयया तारावल्या सह चन्द्रप्रासादमारुरोह। तत्र तस्य राज्ञः क्रोड़सुप्तायां तस्यां गवाक्षमार्गेण हिमकरत्विषः तदङ्गेषु पेतुः। ततः क्षणात् प्रबुद्धा सा दग्धास्मीतिवादिनी सहसा शयनादुत्तस्थौ। अथ स राजा प्रबुद्धः किमेतदिति सम्भ्रान्तः समुत्थाय तस्या अङ्गेषु विस्फोटान् निर्गतानपश्यत्। किमेतदिति पृच्छन्तं तं तारावलीराज्ञीप्राहस्म नाम। अङ्गपतितैरिन्दोः किरणैरेतत् मे कृतम्। इत्युक्तवत्याः रुदत्यास्तस्यास्तामार्त्तिं दृष्ट्वा राजा विह्वलः परिजनमाह्वयत्, अकारयच्चतेन परिजनेन सजलैर्नलिनीदलैः शय्याम्, अदापयच्च अङ्गेषु आर्द्रश्रीखण्डविलेपनानि। तावच्चास्य तृतीया महिषी मृगाङ्कवती तत्पार्श्वमागन्तुमना निजमन्दिरात् निरगमत्। निर्गच्छन्ती च सा क्वापि निःशब्दायां तस्यां रजन्यां विदूरे सुव्यक्तं धान्यावघातजंमुषलध्वनिं शुश्राव। श्रुत्वैव सा हा ! मृतास्मीति वदन्ती करौ धुन्वती च व्यथिता च मार्गे एव उपाविशत्। ततः प्रतिनिवृत्यैव परिजनेन स्वमेवान्तःपुरं नीता सा बाला रुदती शयनं भेजे। तत्परिजनश्च किमेतदिति चिन्वन् साश्रुः आलीनभ्रमरौ पद्माविव किणाङ्कितौ तस्या हस्तौ ददर्श। उवाच च गत्वा तं वृत्तान्तं राज्ञे। सोऽपि राजा सम्भ्रान्तः समागत्य किमेतदिति तां प्रियां पप्रच्छ। सापि हस्तौ प्रदर्श्य व्यथिता प्रोवाच नाथ! मुषलध्वनौ श्रुतमात्र एव मे एतौ किणौ जाताविति। ततः स राजा दाहशमनमौषधं चन्दनविलेपनादिकं तस्या हस्तयोरदापयत्। एकस्या उत्पलेनापि पतता क्षतमाहितं, द्वितीयस्याः शशिकरैरपि अङ्ग दग्धम्। तृतीयस्याश्चास्याः श्रुतेन मुषलशब्देन हस्तयोरीदृशाः किणाजाताः। अहो! युगपत् एतासां मे प्रेयसीनां गुणोऽपि अभिजातत्वं दोषायैव जातः। इति चिन्तयतः अन्तःपुरेषु भ्रमतस्तस्य नृपतेः सा त्रियामा शतयामेव कृच्छ्रात् विरराम। प्रातश्च स राजा शल्यहर्तृभिर्भिषग्भिः सह तथा विधानमकरोत् यथा अचिरात् स्वस्थान्तःपुरनिर्वृतोऽभवत्। इत्थमेतां कथामाख्याय वेतालः पप्रच्छ राजन् ! एतासां का सुकुमारतरा? यस्याः मुषले अस्पृष्टेऽपि शब्देनैव किणा उद्गताः उत्पलेन्दुकरैः स्पर्शे जाते ययोर्व्रणविस्फोटा वृत्ताः, ते उभे तस्याः, समे न। इति राज्ञो वचनमाकर्ण्यस वेतालः यथास्थानमगात्, राजा च दृढ़निश्चयः पुनस्तमानेतुं सत्वरो बभूव।
अथ द्वादशकथा।
<MISSING_FIG href="../books_images/U-IMG-1723103618do.png"/>
अथ राजा तथैव तस्य शिंशपातरोरन्तिकं गत्वा तं वेतालं स्कन्धमारोप्य पुनर्गन्तुंप्रावर्त्तत। वेतालश्च भूयस्तमवादीत् राजन्! इत्यमनुद्विग्नः त्वं भृशंमे प्रियोऽसि, तदेतां हृद्यामाख्यायिकां ते श्रमविनोदाय कथयामि, शृणु।
आसीदङ्गदेशे यशःकेतुरिति युवा स्वाङ्गगुप्त्यर्थम् अदग्धस्तनुमाश्रितोऽपर इव स्मरो नरपतिः। बाहुवीर्य्येण पराजितवैरिकुलस्य तस्य शक्रस्येव वृहस्पतिः दीर्घदर्शी नाम मन्त्री अभूत्। कदाचित् स राजा वयोरूपमदात् निहतकण्टकं राज्यं तस्मिन् मन्त्रिणि विन्यस्य शनैः सुखासक्तः समजायत। केवलं निरन्तरं प्रमदास्पदे अन्तःपुरे तस्थौ, शुश्राव च तासां सानुरागगीतं न हितैषिणां वचनम्। रज्यति स्म स सततं जालवातायनेषु न पुनर्बहुच्छिद्रेषु राजकार्य्येषु कदाचिदपि। दीर्घदर्शी तु तं राज्यचिन्ताभारं समुद्वहन् दिवानिशमतन्द्रितस्तस्थौ।
अथ पौरेषु नृपं व्यसने प्रक्षिप्य महामन्त्री दीर्घदर्शी साम्प्रतं राज्ञः श्रियं स्वयं भुङ्क्तेइति जनवादे समुत्थिते स मन्त्री स्वगेहिनींमेधाविनीं प्राब्रवीत् प्रिये ! राजनि सुखासक्तेतद्भारं वहतोऽपि मे राज्यं भक्षितमनेनेति महदयशो मे समुत्पन्नं अनेषु। लोकवादो हि महतामपि दोषमावहति, रामोऽपि जनापवादेन जानकीं त्याजितो न किम्? तन्मया किं कर्त्तव्यमधुनेति मन्त्रिणाभिहिते भार्य्या मेधाविनीधीरा अन्वर्थनाम्नी तं पतिमभाषत नाथ ! तीर्थयात्रापदेशेन युक्त्या महीपतिमापृच्छस्व, कियन्तं कालं विदेशंगन्तुं मे वृद्धस्येदानीं युक्तं तदनुमन्यतामिति। एवं हि निःस्पृहस्य ते स जनवादो निवर्त्स्यते। त्वयि चास्थिते राजा स्वयं राजधुरामुद्वक्ष्यति। ततश्च शनैरस्य व्यसनित्वञ्च शान्तिमेष्यति। आगतस्य च पुनस्ते सा एव मन्त्रिता अनिन्द्या भविता। इति भार्य्ययानुशिष्टो महामन्त्री तथेति कथाप्रसङ्गेन तं नृपं यशःकेतुंव्यज्ञपयत् राजन्! अनुजानीहि मां कांश्चिदपि दिवसानहं तीर्थयात्रार्थमितो व्रजामि, धर्मो हि मे परमो मतः। तदाकर्ण्यस राजाब्रवीत् मन्त्रिन् ! मा मैवंतीर्थैर्विना अपरो दानादिः किं न धर्म्मः? स्वगृहेष्वपि तेन स्वर्गसाधनं किं न स्यात्? अथ मन्त्री तमवोचत् देव ! दानादौ अर्थशुद्धादिकं मृग्यते, तीर्थानि तु नित्यशुद्धानि, यावच्च यौवनं तावदेव धीमता गय्यानि, नोचेत् अविश्वास्ये अस्मिन् शरीरे कुतस्तैः सह सङ्गमः? इति तस्मिन् मन्त्रिणि वदति राज्ञि तत् निषेधति प्रविश्य प्रतीहारी तं राजानं व्यजिज्ञपत् देव! भगवानंशुमान् व्योमसरोमध्यमवगाहते, तदुत्तिष्ठ, स्नानवेला तेऽतिवर्त्तते। एतदाकर्ण्य राजा सहसा स्नातुमुदतिष्ठत्। यात्रोन्मुखः स मन्त्री च तं प्रणम्य गृहमगात्। तत्र तां भार्य्यामनुगन्तुमानसां निवार्य्य स्वभृत्यैरपि अतर्कितः स्वयुक्त्या यात्रामकरोत्। क्रमेण च एकाकीतान् तान् देशान् तीर्थानि च भ्रमन् औड्रविषयं प्रापत्। तत्राब्धेरदूरे एकं पत्तनं प्राप्य तत्र चैकं शैवं मन्दिरंप्रविश्य तत्प्राङ्गणे उपाविशत् तत्र तम् अर्ककरसन्तप्तं दूराध्वभ्रमणधूसरं निधिदत्तो नाम देवार्चनागतः कश्विद् बणिक् ददर्श। सं तं तथाविधं दृष्ट्वा सयज्ञसूत्रं सुलक्षणं द्विजश्रेष्ठं सम्भाव्य आतिथ्यार्थं स्वं गृहमनयन्। अपूजयच्चस्नानभोजनाद्यैः। अप्राक्षीच्चविश्रान्तं कस्त्वंकुत आयातः, क्व यासीति। सोऽब्रवीत् अहं दीर्घदर्शी नाम विप्रः, अङ्गदेशादिह आयातस्तीर्थयात्रार्थीति। ततः स महाबणिक् निधिदत्तस्त- मब्रवीत् अहं बणिज्यया सुवर्णद्वीपं गन्तुमुद्यतः, त्वं तावदस्मदगृहे तिष्ठ, यावदहम् आगमिष्यामि, तीर्थयात्रापरिश्रान्तोऽसि, अत्रकञ्चित् कालं विश्रम्य ततो यास्यसीति। तदाकर्ण्य स दीर्घदर्शी प्रत्यवादीत् ममेह स्थित्या अलं, त्वयैव सह तत्राहमपि गन्तुमिच्छामि। ततस्तेन साधुना एवमस्तु इति कथिते स मन्त्री चिरादपास्तशयनो निशां तामनैषीत्।
अथान्येद्युस्तेन बणिजा सार्द्धंवारिधिं गत्वा तद्भाण्डपूर्णं प्रवहणंसमारुरोह। तेन प्रवहणेन गच्छन् अद्भुतभीषणम् अम्भोधिंविलोकयन् क्रमेण तत् स्वर्णद्वीपमुपाययौ।तत्र च द्वीपे तेन क्रयविक्रयौ कुर्वता बणिजा निधिदत्तेन सह कञ्चित् कालमुवास। ततश्च तेन सह प्रत्यागच्छन् प्रवहणेन, तस्मात् सागरात् सहसा समुत्थितम् प्रबालैः शाखासुभगैः जाम्बूनदोज्ज्वलैः काण्डैःमणिमयैः फलैः कान्तैश्च कुसुमैः सुशोभितं कल्पवृक्षमद्राक्षीत्। तस्य च स्कन्धे सद्रत्नर्य्यङ्कोपरिस्थिताम् अत्यद्भुताकारां कमनीयां कामपि कन्यकामैक्षत। अहो! किमेतदिति स मन्त्री यावत् ध्यायतिस्म तावत् सा कन्या वीणापाणिः गातुमुपचक्रमे। येन यत् कर्मवीजमुप्तं स निश्चितं तत्फलं भुङ्क्ते, पूर्वकृतं हि कर्म विधिनापि अन्यथा कर्त्तुं न शक्यते, इति सङ्गीतार्थं प्रकटय्य क्षणादेव सा दिव्यकन्या कल्पद्रुमपर्य्यङ्कसहिता तत्रैव ममज्जकिमप्येतदपूर्वमद्य मयेह दृष्टं, क्वअब्धिः, क्व च दृष्टनष्टोऽयं दिव्याङ्गनासहितस्तरुः। यदि च अब्धेरीदृश एव शश्वदाकारः, तदा लक्ष्मीन्दुपारिजाताद्याः अस्मात् न किमुद्गताः इति सञ्चिन्तयन्तं दीर्घदर्शिनं विलोक्य विस्मयाविष्टं कर्णधारादयोऽब्रुवन् भद्र ! एवमेषा वरकन्यका सदैव इह दृश्यते, निमज्जति च क्षणेन, तव तु अस्या नवं दर्शनम् इति तैरुक्तः स मन्त्रीसविस्मयस्तेन निधिदत्तेन समं पोतात् सागरतीरमाससाद। तत्रोत्तारितभाण्डेन तेन बणिजा हृष्टभृत्येन सह स मन्त्री तद्गृहं गत्वा बह्वन् दिवसान् तत्र सुखेन स्थित्वा तं निधिदत्तमुवाच सार्थवाह! भवद्गेहे अहं चिरं सुखेन विश्रान्तः, इदानीं स्वदेशं गन्तुमिच्छामि, भद्रमस्तु इत्युक्त्वा तमनिच्छन्तमपि बणिक्पतिमामन्त्नास दीर्घदर्शी सत्त्वमात्रसहायस्ततः प्रतस्थे। क्रमेण नानादेशानतिक्रमन् निजम् अङ्गविषयं प्रायात्। तत्र यशःकेतुना राज्ञा तदन्वेषणाय नियुक्ताश्चारा वहिर्नगरमागतं तं ददृशुः। ततस्तैर्विज्ञप्तो राजा तद्विश्लेषसुदुःखितः स्वयं नगरात् निर्गत्य तमभ्यगात्। ततश्चोपेत्य परिष्वज्य अभिनन्द्य च अध्वश्रमक्षा- मधूसरं तम् अभ्यन्तरमनयत् अब्रवीच्च तं विश्रान्तं मन्त्रिन्! अस्मान् त्यक्त्वा त्वया किमर्थं यावच्छरीरं निःस्नेहपरुषामिमां दशां मानसं नीतम् अथवा भगवतो भवितव्यस्य गतिं विचित्रां को विज्ञातुमर्हति। येन अकस्मात् ते तीर्थादिभ्रमणे मतिरेषाभवत्। तद्ब्रूहीदानींके त्वयादेशा भ्रान्ताः किञ्च नवं वस्तु दृष्टमिति। ततः स क्रमाद्वर्णयन् सुवर्णद्वीपान्तमध्वानम्, अब्धौसमुत्थितां गायन्तीं त्रिजगत्सारभूतां कल्पतरुस्थितां तां दिव्यकन्यकां तस्मै यथावदकथयत्, राजा तु तत् श्रुत्वैव तथा स्मरवशोऽभवत् यथा तया विना राज्य जीविते निष्फले अमन्यत। अवदच्च तं मन्त्रिणं एकान्ते नीत्वा मन्त्रिन्! मयावश्यमेव सा द्रष्टव्या, नोचेत् मे जीवितं नास्तीत्यवधारय। भवितव्यतां प्रणम्य त्वदुक्तेन पथा गच्छामि, अहं ते न निवारणीयः नानुगम्यश्च, गुप्तमेकाको गच्छामि, राज्यन्तु मे त्वया रक्ष्यं इदञ्च मद्वचो नान्यथा कार्य्यं मया असुभिःशापितोऽसि इत्युक्त्वातत्प्रतिवादं निरस्य तं मन्त्रिणं विससर्ज्ज। तदा स दीर्घदर्शी अनल्पोत्सवेऽपि विमना इव आसीत्, स्वामिनि असाध्यव्यसनासक्ते सन्मन्त्रिणां कुतः सुखम्?
अथान्येद्युः स राजा तस्मिन् मन्त्रिणां वरे न्यस्तराज्यभारः निशि तापसरूपधरः यशःकेतुः स्वात् नगरात् प्रतस्थे। गच्छंश्च स पथि कुशं नाम मुनिमपश्यत् सोऽपि तं प्रणतं तापसकल्पं समादिशत् वत्स! लक्ष्मीदत्तेन बणिजा साकं पोतेन वारिधौगत्वा अभीष्टां कन्यां प्राप्स्यसि, निराकुलो व्रज इति तद्वचनं श्रुत्वा दृष्टः प्रणम्य च तं राजा गच्छन् देशान् नदीरद्रींश्चातिक्रम्य तमम्बुधिमाससाद। तस्य च तीरे मुनिप्रोक्तेन तेन लक्ष्मीदत्तेन स्वर्णद्वीपं यियासुना बणिजा सहसा अस्य सङ्गतिरजायत। तेन च चक्राङ्कपादमुद्रादिदर्शनात् प्रह्वेन सह नृपः प्रवहणमारुह्य अम्बुधौ प्रतस्थे। सम्प्राप्ते मध्यमब्धेस्तस्मिन् प्रवहणे, सहसा कल्पविटपिस्कन्धाधि- रूड़ा सा कन्यका उदगात्। यावत् राजा चकोरश्चन्द्रिकामिव तां पश्यति तावत् सा तथैव वल्लकीवाद्य- सङ्गतं गायति स्म। यत् कर्मवीजं येन प्रागुप्तं तत्फलं तेन निश्चितं भोक्तव्यं, पूर्वकृतं हि विधिरपि नान्यथा कर्त्तुं प्रभवति। तस्माद् यत्र यथावत् यस्य यत् दैवयोगेन भवितव्यं तत्र तेन भवितव्येनासौ जन्तुर्विवशो नीयते इति सूचितभाव्यर्थां गीतिकां गायन्तीं तां पश्यन् राजा तत्क्षणं स्मरशराहतः निस्पन्द एवातिष्ठत्। हे रत्नाकर! तुभ्यं नमोऽस्तु, येन त्वया इमां प्रच्छाद्यं श्रिया हरिर्विप्रलब्धः, तत् त्वां शरणं प्रपन्नोऽस्मि, त्वं मे इष्टसिद्धिं विधत्स्व। यावदित्थं स राजा समुद्रं स्तौति स्म। तावत् सा कन्यका सपादपा तत्र न्यमज्जत्। तदवलोक्यैव स राजा तामनु आत्मानं सिन्धौ प्राक्षिपत्। तद्वीक्ष्यस सज्जनः लक्ष्मीदत्तः तं विनष्टं मत्वा दुःखात् देहं त्यक्तुं समुद्यतोऽभवत्। मा तावत् साहसं कार्षीः मग्नस्यास्य अम्बुधौ भयं नास्ति एष राजा यशःकेतुर्नाम तापसरूपभृत्। अस्या एवकन्याया अर्थे समायातः, इयं हि अस्य पूर्वभार्य्या, एतां प्राप्य पुनरसौ अङ्गराज्यं गमिष्यति इति गगनादुहतया वाचा समाश्वासि- तोऽसौ सार्थवाहः यथाकाममिष्टं देशं स्वार्थसिद्धये जगाम। राजा यशःकेतुश्चअम्बुधौ मग्नः अकस्मात् दिव्यमेकं नगरमद्राक्षीत्। सविस्मयश्च तत् नगरं भास्वन्मणिमयस्तम्भैः काञ्चनोज्ज्वलभित्तिभिः मुक्ताजालगवाक्षकैः प्रासादैः विराजमानं नानारत्नशिलाबद्धसोपानवापिकैः कामदैः कल्पवृक्षाढ्यैरुद्यानै- रुपशोभितं दृष्ट्वा समृद्धेऽपि तत्र पुरे निर्जने गृहं गृहं प्रविश्य यदा तां प्रियां क्वापि न दृष्टवान् तदा विचिन्वन् उत्तुङ्गमेकं मणिमन्दिरमारुह्य तद्द्वारमुद्घाट्य तत्र प्रविवेश। प्रविश्य च तत्र सद्रत्नपर्य्यङ्कस्थितां वस्त्राच्छादितसर्वाङ्गां शयानाम् एककामैक्षिष्ट। किं स्यात् सैवेयम् इति सोत्कण्ठं यावत् तन्मुखसुद्घाटयति तावत् तामेव ईप्सितां कन्यकामद्राक्षीत्। तद्दर्शनेन चास्य तदा कापि अवस्था ग्रीष्मर्त्तुमरुपान्यस्य सरिद्दर्शनेनेवाभवत्। सापि उन्मीलितलोचना तं कल्याणाकृतिलक्षणं काम्यं प्राप्तं वीक्ष्यसम्भ्रमात् शयनमजहात्। ततश्च कृतातिथ्याआनतमुखी फुल्लेक्षणोत्पलन्यासैः पादयोः पूजयन्ती शनैरभ्यधात् महाभाग!को भवान्?कथमिदमगम्यं रसातलंप्रविष्टोऽसि ?राजलक्षणाङ्किततनोस्ते तापसव्रतं किमिदम्? महाभाग!यदि ते मयि प्रसादस्तदा एतदाख्याहि। एवं तस्या वचः श्रुत्वा स राजा तां प्रत्युवाच सुन्दरि! अहमङ्गराजः यशःकेतुर्नाम, आप्ताज्जनादिहाम्बुधौ दृश्यां त्वामश्रौषं ततस्त्वदर्थम् इमं वेशं कृत्वा राज्यं विमुच्य आगत्य च अनुमार्गेण इह प्रविष्टोऽस्मि, तन्मे कासि त्वं कथय इति तेनोक्ता सा सलज्जा सानुरागा च तमभ्यधात् महाभाग ! मृगाङ्कसेन इति श्रीमानस्ति विद्याधराधिपः। मां मृगाङ्कवतीं नाम तस्यात्मजां विद्धि। स पिता मामस्मिन् नगरे एकाकिनीं विमुच्य केन हेतुना सपौरजनः क्वापि गत इत्यहं न जाने। तेनाहं शून्यवसतेरस्मात् वारिधौ उन्मज्य कल्पद्रुमारुढ़ा भवितव्यतां गायामि। एवमुक्तवती सा तस्य मुनेर्वचः स्मरता तेन राज्ञा पेशलैः सुवचोभिः तथा अरज्यत यथा अनुरागविवशा तत्क्षणं तस्य वीरस्य भार्य्यात्वम् अङ्गीकृत्य समयमेकमभ्यधात् आर्य्यपुत्र! प्रतिमासं शुक्लकृष्णचतुर्दश्याम् अष्टम्याञ्च अनायत्ता चतुरो दिवसान् यत्र क्वापि दिनेषु गच्छन्तीअहं त्वया न निवार्य्या नापि द्रष्टव्या, अत्र हि कारणं विद्यते इति। ततस्तथेति प्रतिपद्य स राजा गान्धर्वेण विधिना तां परिणीय तत्र तया सह दिव्यं भोगसुखं वुभुजे।
एकदा सा मृगाङ्कवतीदिव्यसम्भोगसुखावस्थितं तं भूपं प्राह स्म। नाथ! त्वमिहैव प्रतीक्षस्व, कार्य्यार्थं क्वापि अहं यामि, अद्य सा कृष्णचतुर्दशी मम सम्प्राप्ता, आर्य्यपुत्र ! इहस्थश्च अमुं स्फाटिकं गृहं मास्म गमः। मा अत्र वाप्यां निपतितो भव, तर्हि भूलोकंतत्क्षणं गमिष्यसि। इत्युक्त्वातमामन्त्रा तस्मात् पुरात् सा वहिरगात्। राजापि गृहीतखड्गस्तां जिज्ञासुरन्वगमत्। अद्राक्षीच्च तमःश्यामव्यात्तवक्तविलं साकारमिव पातालमागच्छन्तं कमपि राक्षसम्। स च राक्षसःनिपत्यैव घोरं रवं कुर्वन् तां मृगाङ्कवतीं वक्ते निक्षिप्य निगीर्णवान्। तदवलोक्यैव स राजा अतिकोपेन सहसा ज्वलन् निर्मोकमुक्तभुजगश्यामलेन महासिना क्रोधाकष्टेन धावित्वा रक्षसस्तस्य सन्दष्टोष्ठपुटं शिरश्चिच्छेद। ततो मोहनिशान्धे विनष्टगतिके कान्तावियोगार्त्ते नृपे अकस्मात् मेघमलिनस्य तस्य रक्षसः अङ्गं भित्त्वा उद्योतितदिक्चक्रा विमला चन्द्रमूर्त्तिरिव सा मृगाङ्कवती जीवन्तीअक्षताङ्गी विनिर्ययौ! तां तथा सङ्कटोत्तीर्णां कान्तां दृष्ट्वा राजा एहि एहि इति वदन् प्रधाव्यैव आलिलिङ्ग। प्रिये! किमेतत् स्वप्नोऽयमुत मायेति तेन पृष्टा सा संस्मृत्य विद्याधरी प्रत्यभाषत आर्य्यपुत्त्र! शृणु नायं स्वप्नः नापि माया, अयं हि विद्याधरेन्द्रात् स्वपितुर्मम शापोऽभूत्। स मे पिता बहुपुत्रोऽपि इह वसन् वात्सल्यात् मया विना आहारं नाकरोत्। अहञ्च सर्वदा इह निर्जने शर्वपूजासक्ता चतुर्दश्याञ्चद्वयोरेव पक्षयोरागच्छम्।
एकदा चतुर्दश्यामिहागत्य चिरं गौरीं समर्चयन्त्या मे दैवात् समस्तंदिनमवसितम्। तस्मिन् दिने स मम पिता मत्प्रतीक्षःक्षुधितोऽपि मां प्रति कुपितः किञ्चिदपि नाभुङ्क्त नापि अपिवत्। ततो रात्र्यामुपेतायां सापराधां मामधोमुखीं भवितव्यताबलात् अस्नेहः शपति स्म। यथा त्वं मामवज्ञाय क्षुधार्त्तं सर्वं दिनं विस्मृतवत्यसि तस्मात् मासि मासि अष्टम्योश्चतुर्दश्योश्च हरार्च्चनरसात् पुरात् वहिर्यान्तीं त्वां कृतान्तसंत्रासो नाम राक्षसो निगरिष्यति। ततश्चास्य हृदयं भित्त्वा भित्त्वा निरेष्यसि, शापं ताञ्च निगरणव्यथां न स्मरिष्यसि। एकाकिनी च अत्र स्थास्यसि इति शापं ददत् स मयानुनीतः ध्यात्वा शापान्तमकरोत्। यदाङ्गपतिः यशःकेतुस्तव भर्त्ता भूत्वा राक्षसेन निगीर्णांत्वां दृष्ट्वा तं राक्षसं निहनिष्यति तदा त्वं तस्य हृदयान्निर्गता शापात् मोक्ष्यसे, संस्मरिष्यसि च शापादिसर्वा निजा विद्याः। इति शापान्तमुक्त्वाइह मामेकाकिनीं मुक्त्वासपरिच्छदो निषधाद्रिं गतः। अहं तदादेशेन शापमोहादिहावसम्। स शापश्चास्य मे क्षीणः, जाता च सर्वत्र स्मृतिः। तदद्य तातपार्श्वगमनाय निषधाद्रिं व्रजामि, शापान्ते स्वगतिं
प्राप्स्यामीत्येष मे नियमः। त्वमिहास्व व्रज वा स्वराष्ट्रं अत्र ते स्वातन्त्राम्। एवं तयोक्तो नृपतिर्दुःखित- स्तामभ्यर्थयामास सुन्दरि! सप्ताहानि त्वया न गन्तव्यं सुमुखि! प्रसीद, इह उद्याने त्वया सह क्रीड़न् औत्सुक्यं विनोदयामि, ततस्त्वं पितुः स्थानं गमिष्यसि, अहञ्चस्वस्थानं यास्यामि। ततः स तथेति प्रतिपन्नया तया कान्तया तस्मिन्नुद्याने सजलोत्पलनेत्रासु मा स्म याहि अस्मान् विहाय इति हंससारसनिचयैः रुवन्तोष्विव उत्क्षिप्तवीचिहस्तासु वापीषु षड़हं रेमे। ततः सप्तमेऽहनि स राजा युक्त्या यत्र भूलोकप्रापिणी द्वारवापिकास्ति तत्र गृहे तां कान्तामनयत् तत्र चागत्य तां कण्ठे गृहीत्वा तस्यां वाप्यां निपत्य सहसा तया स्वपुरोद्याने वापोमध्यादुत्तस्थौ। तत्र कान्तासमेतं प्राप्तं तं भूपं दृष्ट्वा उद्यानपालकाः प्रहृष्टा गत्वा मन्त्रिणं दीर्घदर्शिनं जगदुः। सोऽपि आगत्य पादयोः पतित्वा तमानीतेप्सिताङ्गनं सपौरोऽभ्यन्तरं प्रावेशयत्। अहो! कथं सैषा दिव्याङ्गना अनेन राज्ञा प्राप्ता, या व्योम्नि विद्युदिव क्षणदृश्या मया दृष्टा। धात्रा ललाटाक्षर- पङ्क्तिषु यस्य यल्लिखितं तत्तस्य असम्भाव्यमपि अवश्य उपतिष्ठते। इति तस्मिन् मन्त्रिमुख्ये अन्यस्मिंश्च जने ध्यायति सा मृगाङ्कवती तं भूपतिं स्वदेशागतं दृष्ट्वा पूर्णसप्ताहा वैद्याधरीं गतिं गन्तुमियेष। परं तदा उत्पतनो विद्या स्मृतौ नाविरासीत्। ततः सा मुषितेव परं विषादमगमत्। मेवं विषमासि? प्रिये! वद इति राज्ञाभिहिता सा विद्याधरो तमब्रवीत् अहं शापमुक्तापि यदियच्चिरं त्वत्स्नेहपाशसंयमिता स्थिता, तेन मम विद्या दिव्या गतिश्च नष्टा। तदाकर्ण्य राजा ममेयं विद्याधरो सिद्धेति प्रहृष्टः महान्तमुत्सवं चकार। तदवलोक्य स दीर्घदर्शी मन्त्रो निशि गृहं गत्वा शयनीयं प्राप्य च सहसा हृत्स्फोटेन व्यपद्यत। ततो राजा स्वयं धृतराज्यभारः तया मृगाङ्गवत्या सह चिरं स्वर्गसुखमनुभवन् तस्थौ। इति कथामाख्याय स वेतालः पर्य्यपृच्छत् राजन्! स्वामिनस्तथाभ्युदये सम्पन्ने तस्य महामन्त्रिणः हृदयं यत् स्फुटितं तस्य को हेतुः किं दिव्याङ्गना मया नाप्ता इति शुचा वा राज्यार्थिनः पुनः राजागमनजेन दुःखेन? यदि जानन्नपि एतत् मह्यं न वक्ष्यसि, तदा ते धर्मों विनङ्क्ष्यति, यास्यति च ते शिरः शतधा खण्डितम्। इत्याकर्ण्य राजा तं वेतालं अवादीत् योगीश्वर! नैतत् इयमपि शुभचरिते मन्त्रिवरे सम्भवति, किन्तु येन भूभुजा स्त्रीमात्रानुरागात् राज्यमुपेक्षितम् अधुना तु दिव्यस्त्रीरक्तस्य तस्य अत्र का वार्त्ता? तन्मे कष्टे कृतेऽपि प्रत्युत दोष एव समधिको जातः इति विभावयतस्तस्य मन्त्रिणो हृदयं स्फुटितमिति मन्ये इत्यभिहितो वेतालः स मायी तत्क्षणात् निजमेव निलयं जगाम। राजापि तमवाप्तुंपुनरुद्यतः तमेव शिंशपातरुमाससाद \।
——————
अथ त्रयोदशकथा
<MISSING_FIG href="../books_images/U-IMG-1722432730123456.png"/>
अथ राजा पुनः शिंशपामूलं गत्वा तं वेतालं स्कन्धमारोप्य पूर्ववत् प्रातिष्ठत। गच्छन्तञ्च तं पुनर्वेतालः प्राब्रवीत् राजन्! शृणु संक्षिप्तामेकां कथाम्।
अस्ति वाराणसी नाम पुरी। तत्र देवस्वामीति राजमान्यो द्विजः कश्चित् प्रतिवसति स्म। तस्य महाधनस्य हरिस्वामीति सुतोऽभवत्। तस्य लावण्यवती नाम उत्तमा पत्नी आसीत्। यां तिलोत्तमादिसुराङ्गनानिर्माणेन शिक्षितकौशलो विधिरनर्घरूपलावण्यैर्विनिर्ममे। कदाचित् स हरिस्वामी तया कान्तया चन्द्रांशुशीतले हर्म्येरतिश्रान्तो निद्रां ययौ। तस्मिंश्च काले कामचारी मदनवेगो नाम विद्याधरकुमारः तेन पथा नभसि सञ्चरन् तत्र समायात् अपश्यच्च तां लावण्यवतीं पत्युः पार्श्वे मुप्ताम्। स तु दृष्ट्वैव तां सुप्तामेव गृहीत्वा नभोमार्गेण प्रायात्। क्षणेन च प्रबुद्धो हरिस्वामी तां प्राणेश्वरीमपश्यन् ससम्भ्रमं शयनादुदतिष्ठत्। अहो! सा मम कान्ता क्व गता, कुपिता किं मयि, आहोस्वित् प्रच्छन्ना मच्चित्तं जिज्ञासुः क्वापि स्थिता परिहसति? इत्येवं बहु वितर्कयन् व्याकुलः समन्तात् हर्म्यप्रासादवलभोषु अन्विष्यन् निशि अभ्रमत्। परं आगृहोद्यानात् सर्वत्र चिन्वन् कुताऽपि तां न प्राप। ततः शोकाग्निसन्तप्तः सगद्गदं विललाप हा! चन्द्रमुखि! हा! ज्योत्स्नासिताङ्गि! हा प्रिये लावण्यवति! रात्र्या तुल्यगुणदेषात् अनया किं न सोढ़ामि ? त्वया कान्त्या जितो योऽयं चन्द्रः चन्दनशोतलैः करैः मामसुखयत् सोऽयं त्वया विना लब्धान्तर इव तैरेव ज्वलद्भिरङ्गारैरिव विषदिग्धैराशुगैरिव मां तुदति। इत्येवं विलपतस्तस्य हरिस्वामिनः सा निशा कृच्छ्रेण व्यरंसीत् न तु विरहव्यथा।
अथ प्रातः भास्वान् करैः विश्वस्य सन्तमसं बिभेद परं तस्य हरिस्वासिनो मोहान्धतमसं न भेत्तुं चक्षमे। तीर्णनिशैश्चक्राह्वैरिव वितोर्णस्तस्य करुणाक्रन्दितध्वनिः शतगुणत्वं भेजे। स स्वजनैः मान्त्यमानोऽपि वियोगानलदोपितः तां प्रेयसीं विना धृतिं न लेभे। इहानया स्थितं इह स्नातं इह प्रसाधनं कृतं इह च विहृतमिति इतस्ततः रुरोद। बन्धवः सुहृदश्च तमेवंप्राबोधयन् न तावत् सा मृता, कथं वा त्वया आत्मा हन्यते? तदवश्यं तामवाप्तासि, धैर्य्यमवलम्बख, तां गवेषय च, धीरस्य उद्यागिनोऽप्राप्यमिह नास्तीति। इत्येवं बोधितः स हरिस्वामी कृच्छ्रेण कैश्चित् दिनैः धृतिं बबन्ध। अचिन्तयच्च सर्वस्वं ब्राह्मणसात् कृत्वा तीर्थानि तावत् भ्रमामि, पापसञ्चयञ्च क्षपयामि, पापक्ष्ये जाते जातु तां प्रियां भ्राम्यन्नवाप्नुयाम्। इत्यालोच्य स समुत्थाय स्नानादिक- मकरोत्। अन्येद्युश्च सत्रे विविधान्नपानानि कृत्वा अवारितं दिजन्मनामभ्यवहारमकारयत् धनानि च तेभ्यः सर्वाणि प्रादात् ब्रह्मण्यमात्रवित्तश्च स्वदेशान्निर्गत्य प्रियां प्राप्तुं तीर्थानि भ्रमितुमगात्। भ्राम्यतश्च तस्य भीमो ग्रीष्मर्त्तुकेशरी प्रचण्डादित्यवदनो दीप्ततद्रश्मिकेशरः समाजगाम। समीरणश्च प्रियाविरहसन्तप्तानां पान्यानां निःश्वासमारुतैर्न्यस्तोष्मा इव अत्युष्णो वहति स्म। जलाशयाश्च शुष्यद्विपाण्डुपङ्काः घर्मलुप्ता- म्बुसम्पदः स्फुटितहृदया इव दृश्यन्ते स्म। पादपाश्च पक्षिणां चीत्कारमुखरास्तापम्लानदलाधराः मधुश्रीविरहिण इव समदृश्यन्त।
तस्मिंश्च काले अर्कतापेन कान्तावियोगेन क्षुधया तृषया अध्वश्रमेण चातीव क्लान्तो हरिस्वामी भोजनार्थी भ्रमन् कञ्चिद्ग्राममाससाद \। तत्र च पद्मनाभनाम्नः विप्रस्य गृहे बहून् विप्रान् भुञ्जानान् दृष्ट्वा द्वारशाखां समालम्ब्यनिःशब्दनिश्चलस्तस्थौ। तथा स्थितं तमालोक्य तस्य याज्ञिकस्य विप्रस्य गृहिणी साध्वी सञ्जातदया व्यचिन्तयत् अहो! क्षुत् नाम गुर्वी कस्य लाघवं न कुर्य्यात्? यदेष कोऽपि अन्नार्थी द्वारि अधोमुखस्तिष्ठति। दृश्यते चासौ दूरादभ्यागत इव स्नातः क्षीणेन्द्रियः। तदेषः अन्नदानपात्रमित्यवधार्य्य सा साध्वी परमान्नभृतं सघृतशर्करं पात्रमुत्क्षिप्य पाणिभ्यामानीय प्रश्रयवती तस्मै ददौ। जगाद् एनं भुङ्क्ष्व इह क्वचित् वापीतटे गत्वा। सोऽपि तथेति तदन्नपात्रं गृहीत्वा नातिदूरतो गत्वा क्वापि वापीतटे वटतरोरधः स्थापितवान्। ततः स तत्र वाप्यां पाणिपादं प्रक्षाल्य आचम्य च यावत् भक्षयितुं सहर्षः परमान्नमुपैति तावत् कश्चित् श्येनः कुतश्चित् चञ्च्वापादद्वयेन च एकं कृष्णसर्पं गृहीत्वा तस्मिन् तरावुपाविशत्। तेन पक्षिणा आक्रम्य उह्यमानस्य उत्क्रान्तजीवितस्य तस्य सर्पस्य आस्यात् विषलाला विनिर्ययौ। सा अधःस्थिते तस्मिन्नन्नपात्रे तदापतत्। हरिस्वामी तु तद्दृष्ट्वा क्षुधार्त्तः आगत्यैव तत् सर्वं भुक्तवान्। अथ तस्य भुक्तवत एव तीव्रा विषज्वाला प्रादुरभवत्। अहो विधौ विपर्य्यस्ते किमिव न विपर्य्येति? तत् सक्षीरघृतशर्करम् अन्नं मे विषोभूतमिति जल्पन् हरिस्वामी परिस्खलन् ता सत्रिणस्तस्य विप्रस्य गेहिनीं गत्वा प्राब्रवीत् ब्राह्मणि! त्वद्दत्तात् अन्नात् मे विषं जातं तत् क्षिप्रं कञ्चित् विषमन्त्रिणम् आनय, नोचेत् तव ब्रह्महत्या भविता। इत्याकर्ण्य सा साध्वो किमेतदिति विह्वलायावत् विषमन्त्रिणमानायितुं चेष्टते स्म तावत् स हरिस्वामी परावृत्तनेत्रः प्राणैर्व्ययुज्यत। ततः सा निर्द्दोषापि आतिथेयीअपि सत्रिणा तेन विप्रेण मिथ्यातिथिबधजनितकोपेन भार्य्या निष्कासिता शुभादपि कर्मणः समुत्पन्नमृषापवादा जातावमाना च तपसे तोर्थमशिश्रियत्। इति कथामाख्याय वेतालः पृच्छति स्म राजन्! एषां सर्पश्येनान्नदातृणां मध्ये कस्य विप्रबधोऽभूत्? अस्य वादो धर्मराजसकाशे अपि अभवत् परं न कोऽपि निर्णयः समजनि। तत् राजेन्द्र! त्वमेव ब्रूहि, कस्य ब्रह्महत्या जाता? मिथ्या ब्रुवतो जानतस्ते स एव शापः स्मर्त्तव्य इति। तदाकर्ण्यराजा समुज्झितमौनस्तं वेतालमब्रवीत् कस्य तत् पातकम्? सर्पस्य तावदबशस्य शत्रुणा भक्ष्यमाणस्य कोऽत्रापराधः? श्येनेनापि क्षुतितात्मना न किमपि दृष्ट तत्तस्यापि नात्रापराधः! अकस्मात् प्राप्तमतिथिं भक्ष्येण भोजयतोर्दम्पत्योरपि द्वयोर्वान्यतरस्य वा कथं दोषः ? यतस्तौ धर्मैकप्रवृत्तौ नेममपराधमर्हतः। अहं तावत् तस्यैवैषा ब्रह्महत्या इति मन्ये योऽविचार्यैव एषामन्यतरस्य तां ब्रूयादिति। इति वादिनो नृपस्य स्कन्धात् स वेतालस्तत्क्षणादलक्षितःतमेव शिंशपातरुमवललम्बे। राजापि तथैव तमानेतु समुद्योगी तमन्वधावत्।
—————
अथ चतुर्दशकथा
<MISSING_FIG href="../books_images/U-IMG-1722423569123456.png"/>
अस्ति अयोध्या नाम नगरो। या रक्षःकुलकृतान्तस्य रामस्य राजधानी आसीत्। तस्यां वीरकेतुर्नाम राजा महाबाहुः वसन् प्राकारो नगरोमिव इमां क्षौणीं ररक्ष। तस्मिन् महीपतौ शासति महीम् अस्यां पुर्य्यां रत्नदत्तो नाम कश्चित् महाबणिक् प्रतिवसति स्म। तस्य नन्दयन्तीति समाख्यायां पत्न्यां रत्नवती नाम देवाराधनलब्धा सुता समजायत। सा पितृवेश्मनि रूपलावण्यविनयैः सहजैः गुणैः सह दिने दिने वृद्धिमवाप। ताञ्च यौवनशालिनीं वीक्ष्य केवलं महान्तो बणिजो न, राजानोऽपि तत् पितरं ययाचिरे। सा तु मनस्विनीपुरुषद्वेषिणीवासवमपि भर्त्तारं न कामयते स्म। विवाहकथामपि श्रुत्वा प्राणान् त्यक्तुं यतते स्म। तेन तस्य पिता वात्सल्यदुःखितस्तूष्णीं तस्थौ। स च प्रवादस्तस्यामयोध्यायां सर्वत्र पप्रथे।
अत्रान्तरे चौरैर्मुष्यमाणाः समस्ताः पौराः सम्भूय तं नृपं वीरकेतुं व्यजिज्ञपन् प्रभो! प्रतिरात्रं चोरैरिह वयं मुष्यामहे, ते तु नास्माभिर्लक्ष्यन्ते। तदिदानीं देवः प्रमाणमिति पौरैर्विज्ञप्तो राजा तां पुरोमभितः तस्कराणामनुसन्धानाय छन्नान् रात्रिरक्षकान् आदिशत्। ते च यदा समन्विष्य न तान् चौरानवापुः, तदा राजा स्वयं निशि एकाकी गृहीतशस्त्रोभ्रमन् एकतः एकं प्राकारपृष्ठेन यान्तं निःशब्दप- दसञ्चारविचित्रगतिकौशलं सशङ्कलोलनयनं मुहुः पृष्ठतः पश्यन्तं कमपि पुरुषमपश्यत्। अयं स चौरो मे पुरीं मुष्णाति एकचरः। इति मत्वा स नृपस्तस्यान्तिकमुपययौ। ततः स चौरस्तं नृपं दृष्ट्वा कोऽसीति पप्रच्छ। राजापि चौरोऽहमिति तं चौरं प्रत्यवादीत्। तदाकर्ण्य स चौरः सानन्दं तमभ्यधात्। तर्हि दिष्ट्या त्वं मे सुहृत्, तत् एहि मम गृहं मित्राचारं तावत् करोमि इति। तदाकर्ण्य स राजा तथेत्युक्त्वा तेनैव चौरेण सह वनान्तः प्राकारवेष्टितम् अशेषभोगशोभाढ्यं भास्वद्रत्र विराजितं नवीनं वलिराजानधिष्ठितं पातालमिव तद्गृहंययौ। तत्र प्रविष्टे तस्मिन् कृतासनपरिग्रहे राजनि स तस्करःगृहाभ्यन्तरं प्रविवेश। क्षणे च तस्मिन् कापि दासी समेत्य तं नृपसवादीत् महाभाग! कथं त्वमिह मृत्युमुखे प्रविष्टः? एकचौरोऽसौ निर्गत्य त्वयि पापमाचरिष्यति। ध्रुवमयंविश्वासघाती तदितस्त्वरितं व्रज। इत्युक्तस्तया स राजा द्रुतं निर्गत्य राजधानीञ्च गत्वा निशि सैन्यानि असज्जयत्। ससैन्यश्चागत्य तस्य दास्याः तत् भूगृहं तैर्बलैररुणत् अथ गृहं रुद्धंदृष्ट्वा स चौरः वृत्तं प्रति भेदमवगत्य मरणे निश्चितमतिः शूरो युद्धाय निर्ययौ। निर्गतश्च रणे अमानुषं विक्रमं कुर्वन् करिणां करान्, वाजिनां जङ्घान्, भटानाञ्च शिरांसि एक एव खड्गचर्मभृत् चिच्छेद। ततस्तं क्षपितानीकं नृपः स्वयमभ्यधावत्। स राजा खड्गविद्याभिज्ञः करयुक्तिमवलम्ब्यतस्य हस्तात् निस्त्रिंशं क्षुरिकाञ्च जहार। ततोऽशस्त्रं तं मुक्तशस्त्रो नृपो बाहुयुद्धेन चौरं धरण्यां जीवग्राहमग्रहोत्। प्रातश्च नीयमानं शूलारोपणाय बध्यभूमिं तं सडिण्डिमं चौरं सा वणिक्कन्या हर्म्य पृष्ठतः रत्नवती ददर्श। तञ्च व्रणितं धूलिलिप्ताङ्गमपि दृष्ट्वा सा काममोहिता तत्क्षणं पितरमुपेत्य प्रोवाच तात! योऽयं बध्यभूमिं नीयते चौरः, अयमेव मया भर्त्ता वृतः, तदेनं नृपात् रक्ष, नोचेदहं एतमनुम्रिये। तदाकर्ण्य पिता तामवादीत् पुत्रि! किमिदं भाषसे? चौरोऽय पौराणां सर्वस्वहृत् राजपुरुषैः बधार्थं नीयते कथमेनमहं नृपतेर्मोक्षयामि, कोदृशी च ते प्रवृत्तिरियमिति निर्भर्त्स्यमानापि यदा सा निर्वन्धं न तत्याज तदासौ बणिक् दुहितृवत्सलः राजानं समुपेत्य सर्वस्वेनापि तं चौरं बधमोक्षमयाचत। राजा तु हेमकोटिशतैः प्रलोभ्यमानोऽपि तं स्वशरीरपणानीतं सर्वापहारिणं चौरं न तत्याज। ततः पितरि विमुखे प्रत्यावृत्ते सा बणिक्सुता बन्धुभिर्वार्य्यमाणापि अनुमर्त्तुंकृतस्नाना शिविकामारुह्य तस्य दस्योर्वध्य- भूमिमगात्। पितरौ बान्धवाञ्च रुदन्तस्तामन्वगच्छन्। तस्मिंश्च समये बधकैः स चौरः शूलमधिरोपितः गलत्प्राणस्तथागतां स्वजनान्वितां दृष्ट्वा कथयतो जनात् वृत्तान्तं शृण्वन् क्षणमश्रूणि मुक्ता हसन् प्राणान् जहौ। ततः शूलादवतारितं चौरकलेवरमादाय सा साध्वी बणिक्सुता चितामारुरोह। तस्मिंश्च क्षणे श्मशाने कृतनिवासःभगवान् भैरवः अदृश्यःअन्तरीक्षात् वाचमिमामुवाच पतिव्रते! अस्मिन् स्वयंवरपतौ तव अनया भक्त्या तुष्टोऽस्मि, तत् मत्तो वर प्रार्थयस्व। तन्निशम्य सा वरदं देवं प्रणम्य वर वव्रे। भगवन्! अपुत्रस्य मे पितुः पुत्रशतं भूयात् येनानन्यसुतोऽयं मां विना प्राणान् न जह्यात् इति कादिनीं तां साध्वीं देवः पुनरन्तरीक्षात् अव्रवीत् साध्वि! पितुस्ते पुत्रशतं भवतु, अन्यञ्च वरं वृणीष्व त्वादृशी दृढसत्त्वा एतावन्मात्रं नार्हति। तदाकर्ण्य सा अवादीत् देव! यदि मयि प्रसन्नोऽसि, तदैष मे भर्त्ता जीवतु धार्मिकश्च सदा भवतु इति। एवमस्तु अक्षतशरीरस्तव पतिःउत्तिष्ठतु, धार्मिकश्च भवतु राजा वीरकेतुश्चास्य तुष्यतु इति उक्तवति अदृश्यमूर्तौशर्वेःनभसि स्थितेः सहसा स चौरो जीवन्नक्षतशरीरः समुत्तस्थौ। ततो विस्मितहृष्टो रत्नदत्तो बणिक् तां रत्नवतीं चौरं जामातरञ्चादाय प्रहृष्टैर्बान्धवैः सार्द्धं निजमन्दिरं प्रविश्य लब्धपुत्रवरः स्वानन्दोचितमुत्सवमकरोत्। ज्ञातवृत्तान्ततुष्टश्च राजा तदैव तं चौरमेकवीरमानाय्य सेनापतिं व्यधात्। स च चौर्य्यात् निवृत्य तां बणिक्सुतां परिणीय धर्मरतः तया साकं सुखेन कालं निनाय। इति कथामाख्याय वेतालो दत्तपूर्वशापभयं भूपं पप्रच्छ राजेन्द्र! ब्रूहि सपितृकां समुपागतां तां बणिक् सुतां दृष्ट्वा चौरेण शूलपृष्ठवर्त्तिना रुदितं हसितञ्च किम्? राजा प्रत्यवदत् चौरेण अस्यां अकारण्बन्धोः बणिजः नानृण्यं लब्धमिति दुःखात् रुदितम्। किमियं कन्या नृपानपि विहाय चौरे मयि अनुरक्ता, अहो स्त्रीचित्तमतिविचित्रमिति सविस्मयेन हसितञ्च। इति वादिनस्तस्य महीपतेरंसात् स वेतालस्तत्क्षणमलक्षितः स्वं निलयं प्रत्यपद्यत। राजापि अविलुप्तधैर्य्यस्तमनुसरन् तं शिंशपातरु- माजगाम।
——————
अथ पञ्चदशकथा
<MISSING_FIG href="../books_images/U-IMG-1722433976123456.png"/>
ततो नृपः पुनस्तथैव गत्वा शिंशपामूलं, तं वेताल प्राग्वत् स्कन्धमारोप्य गन्तव्याभिमुखं गन्तुमारेभे। वेतालोऽपि यान्तं तं नृपं कथामेतामाचचक्षे।
आसीत् नेपालराज्ये शिवपुरं नाम नगरम्। तत्र पुरा यशःकेतुर्नामनृपः यथार्थनामा प्रतिवसति स्म। स मन्त्रिणि प्रज्ञासागरनामके राज्यभारं निवेश्य चन्द्रप्रभानाम्न्या महादेव्या समं भोगानसेवत। कालेन यच्छता तस्य तस्यां देव्यां शशिप्रभा नाम जगन्नेत्रशशिप्रभा कन्या समुदपद्यत। क्रमेण सा यौवनस्था कदाचित् मधुमासे सपरिच्छदा उद्याने यात्रोत्सवं द्रष्टुमगमत्। अत्रान्तरे कश्चित् आढ्यपुत्रो मनःस्वामी नाम द्विजयुवा यात्रादर्शनार्थमागतः तां कुसुमावचयोद्यताम् उत्क्षिप्तबाहुलतिकां लक्षितैकपयोधरां दृष्ट्वा मदनमोहितः तया हृष्टया सद्योहृतस्य मनसः स्वामी नैवाभवत्। किमियं मनोभुवो रतिः वसन्तसम्भृतानि पुष्पाणि स्वयम् उच्चिनुते? किं वा स्वयं वनदेवता माधवमर्च्चयितुमागता इति चिन्तयन्तं तं सा नृपनन्दिनी समपश्यत्। सा च दृष्टमात्रे साङ्गे नव इव स्मरे तस्मिन् समुत्सुका पुष्पाणि च साङ्गानि च नास्प्नरत्। इत्येवं यावत् तौ अन्योऽन्यानुरक्तौ चित्रलिखिताविवास्तां तावत् सहसा हाहेति रेवः समुदभूत्। किमेतदिति समुत्क्षिप्तकन्धरं पश्यतोस्तयोः उपलब्धान्यमदगन्धोत्थया रुषा भग्नानालो मत्तो द्विपः निर्गत्य मार्गद्रुमान् रुजन् पातिताधोरणो लम्बमानाङ्कुशस्तत्रागात्। ततश्च परिजने संत्रस्तविद्रुते स मनःस्वामी युवा ससम्भ्रमं प्रधाव्य तां राजपुत्रीम् अङ्गैः किञ्चित् कृताश्लेषां भयप्रेमत्रपाकुलां दोर्भ्यामादाय गजगोचरात् सुदूरमनयत्। अथ कथमपि प्राप्तपरिजना तं युवानं पश्यन्ती माराग्निपुटपाकपच्यमाना सत्वरं राजभवनमगात्। स तु युवा उद्यानात् तस्मात् स्वान्तःपुरप्रविष्टां तां दृष्ट्वा समुत्सुको व्यचिन्तयत् एतां विना नाहं क्षणमपि स्थातुं जीवितुं वा समुत्सहे। तन्मम श्रीमूलदेवो नामात्र सिद्धो धूर्त्तो गुरुर्गतिः
इति सञ्चिन्त्य कथमपि अवसिते तस्मिन् दिने प्रातस्तस्य गुरोर्मूलदेवस्यान्तिकमगात्। अपश्यच्च तं मित्रेण शशिना नित्यसङ्गतम्। ततश्च समुपेत्य तस्मै प्रणम्य तत् स्वमनीषितं न्यवेदयत्। सोऽपि विहस्य तत् साधयितुं प्रत्यपद्यत। ततः स धूर्त्तपतिः मुखे योगगुलिकां निक्षिप्य आत्मानं वृद्धब्राह्मणरूपमकरोत्। द्वितीयां गुलिकां, तस्य मनःस्वामिनो मुखे निक्षिप्य तं सुकान्तकन्यकारूपं व्यधाञ्च। अथ स धूर्त्तराजः तद्रूपं तं समादाय तं राजानमुपेत्य सभायां व्यजिज्ञपत् राजन्! एक एवास्ति मे पुत्रः तत्कृते दूरात् इयं कन्या याचित्वा आनीता परं स मे पुत्रः क्वापि गतः। तमन्वेष्टुमहं यामि, तदेषा कन्या त्वया रक्ष्यताम्। यावदहं सुतम् अन्वेषामि, त्वं हि विश्वास्यः रक्षिता। इति तच्छ्रुत्वा शापभयेन स भूपतिस्तथेति प्रतिपद्य सुतां शशिप्रभा मानाययामास जगाद च तां पुत्रि! कन्यामिमां स्वमन्दिरे रक्ष, स्वपार्श्वमेवास्याः शय्यां प्रकल्पय। इति पित्रादिष्टया तया स कन्यारूपः द्विजयुवा मनःस्वामी निजमन्तःपुरं नीतः।
अथ तस्मिन् मूलदेवे यथारुचि प्रयाते कन्यारूपः स मनःस्वामी प्रियान्तिके अहर्निशं तिष्ठन् कतिपयैः दिवसैः सखीमिव प्रीतिविस्रम्भशालिनीं विदित्वा एकदा विरहक्षामां शयनीयलुठत्तनुं तां राजसुतां रात्रौआसन्नशयनस्थितः पप्रच्छ सखि! किं त्वं दिने दिने पाण्डुरकान्तिः क्षीयमाणा कान्तिवियुक्तेव दुःखिता तिष्ठसि? ब्रूहि। स्निग्धमुग्धे सखीजने मयि कोऽविश्वासः? न चेत् मम वदिष्यसि तदाहं न भोक्ष्ये। तदाकर्ण्यसा विनिश्वस्य शनैरत्रवोत् सखि! किं मेत्वयि अविश्वासः शृणु कथयामि।
एकदाहं यात्रां द्रष्टुं मधूद्यानं गताभूवम्। अपश्यञ्च तत्र कञ्चित् सुभगं हिममुक्तेन्दुसश्रीकं दर्शनोद्दीपितस्मरं मधुमासमिवालङ्कृतकाननं ब्राह्मणपुत्रम्। यावदिमे समुत्स के तन्मुखेन्दुद्युतिसुधापायिनी लोचने मे चकोरायितुं प्रवृत्ते, तावत् मदस्रावी निरर्गलः अकालकालमेघनिभः महागजो गर्जन् अकस्मात् तत्रागात्। तत्सम्भ्रमाच्च परिजने भयविद्रुते भयविह्वला अहं तेन विप्रपुत्रेण दोर्भ्यामुत्क्षिप्य दूरतो नीता तदा श्रीखण्डलिप्तेव सुधासिक्तेव न जाने तदा कामपि तदङ्गस्पर्शेन दशामन्वभवम्। क्षणेन च परिजनेन मिलितेन अवशाहमिहानीता स्वर्गादिव भुवस्तले निक्षिप्तास्मि। तदा प्रभृति तैस्तैः सङ्कल्पैः कल्पितसङ्गमं तं प्राणदं प्रियं पार्श्वस्थमिव सदा पश्यामि, सुप्तापि तमेव आश्लिष्यामि किं बहुना तमेव सततं चिन्तयन्ती कालं हरामीति। तमेष मां प्राणेश्वरविरहानलः दिवानिशं दहति। इति तस्या वाक्सुधया पूरितश्रवणविवरः स मनःस्वामी सानन्दः आत्मानं कृतार्थं मन्यमानः आत्मप्रकाशनावसरोऽयमिति विविच्य मुखात् गुलिकां निष्कास्य स्वं रूपं प्रकटीचक्रे। जगाद सुन्दरि! स एवाहं यस्त्वया उद्याने दर्शनक्रीतश्विरदासतां नीतः। त्वद्विरहातुरोऽहमिदं कन्यारूपं गृहीत्वा त्वत्सकाशमागतोऽस्मि। तदिदानीॆ कामसन्तप्तं मां प्रसाददृष्ट्यानिर्वापय इति। एवं वदन्तं तं प्राणेश्वरं प्राप्तं विलोक्य सा राजसुता क्षिप्रं स्रेहाश्चर्य्यत्रपाकुला सहसा किंकर्त्तव्यविमूढ़ा समपद्यत। ततश्च गान्धर्वविवाहेन कृतमङ्गलौ तौ प्रेम्णा परमेण तत्र निभृतं तस्थतुः। ततः स मनःस्वामी तत्र द्विरूपभृत् तस्थौ। दिवा सगुलिकः कन्यारूपः, रात्रौ निष्कासितगुलिकः पुमान्।
अथ मच्छत्सु दिनेषु यशःकेतोर्नृपस्य श्यालको मृगाङ्गदत्तः मृगाङ्गदत्तां नाम निजां सुतां द्विजातये महामन्त्रिणः प्रज्ञासा— गरस्य सूनवे महाड़म्बरपुरःसरं प्रददौ। तस्मिन् मातुलपुत्र्याविवाहे सा राजपुत्री शशिप्रभा निमन्त्रिता मातुलगृहं प्रायात्। तया सह सोऽपि कन्यारूपी मनस्वी समायात्। तत्र तं कान्तं कन्यकारूपं मनःस्वामिनं दृष्ट्वा स मन्त्रिसुतः स्मरव्याधवाणैर्नितरां हतोऽभवत्। ततस्तया कपटकन्यया मुषितचित्तः स मन्त्रिसुतः स्वबधूसहितोऽपि शून्यमात्मानं मन्यमानः स्वगृहे जगाम। आगत्य च गृहं तन्मुखलावण्यध्यानासक्तो मोहमगात्। किमेतदिति सम्भ्रान्ते परिजने उत्सवोज्झिते स प्रज्ञासागरः पिता द्रुतं तत्रोपागमत्। तेन च पित्रा आश्वास्यमानः स मोहात् प्रवुध्य प्रलपन्निव सोन्मादं मनोगतमुज्जगार। तच्च पराधीनं मत्वा तत्पितरि नितरां व्याकुले विदितवृत्तान्तो राजा तत्रैवाययौ। स राजा तं तधाविधं दृष्ट्वा सप्तमों मदनावस्थां गतोऽयमिति मन्यमानो जगाद कथं ब्राह्मणनिक्षेपः कन्यास्मै दोयते तया च विना नियतमसो पश्चिमां दशां यास्यति। अस्मिंश्च विनष्टे अस्य पिता महामन्त्री अपि विनश्यति। अस्य च नाशे मे राज्यनाशः तदत्र का गतिः? इत्युक्ताः सर्वास्ताः प्रकृतयः प्राब्रुवन् राजन्! प्रजानां धर्मरक्षण राज्ञां परमो धर्मः, तस्य मूलं मन्त्रं विदुः स च मन्त्रिष्ववस्थितः। मन्त्रिनाशे मूलनाशात् कथं धर्म्मरक्षा? अस्य च सपुत्रस्य मन्त्रिणो द्विजस्य बधात् पापञ्च स्यात् तस्मादासन्नोऽयं धम्मविप्लवः भवता अवश्यं परिहर्त्तव्यः। सा विप्रन्यस्तकुमारिका मन्त्रिपुत्राय दातव्या, अथ कालान्तरे विप्रः आगमिष्यति, तदा तस्य प्रतिविधानं भविता इति एवं प्रकृतिभिरुक्तोनृपतिस्तथेति तां कूटकन्यां मन्त्रिपुत्राय दातुं प्रत्यपद्यत। अथ लग्नं निश्चित्य राजसुतागृहात् आनीतः कन्यारूपः स मनःस्वामी तं महीपतिं जगाद राजन्! अन्येन अन्यार्थमानीतां मां यदि अन्यस्मै ददासि, कामं तदस्तु, त्वं हि राजा, धर्माधर्मौ तवोचितौ। अहन्तु ईदृशेन समयेन विवाहमिच्छामि, तावदह बलात् पत्या एकशय्यां न नेतव्या, यावदसौ षण्मासान् तीर्थानि परिभ्रम्य न समायाति। नोचेत् दन्तैः कृत्तजिह्वां मामवधारय। इति तेन समये उक्ते राज्ञा सम्बोधितः स मन्त्रिपुत्रः प्राप्तनिर्वृतिस्तथेति प्रतिपद्य आशु तं परिणीय एकस्मिन् वासके वेत्रिरक्षिते तां मृगाङ्गदत्तां ताञ्च कूटबधूंस्थापयित्वा तीर्थयात्रायै प्रतस्थे। स च मनःस्वामी स्त्रीरूपस्तया मृगाङ्गदत्तया सह एकगृहे समानशयनाशनस्तस्थौ। तथास्थितं तं कदाचित् सा मृगाङ्गदत्ता निशि वहिःसुप्तपरिजने शय्यागृहे रहसि प्राब्रवीत् सखि! कामपि कथामाख्याहि मे निद्रा नास्ति। तदाकर्ण्यसस्त्रोरूपो युवा अस्यै कथामेकामकथयत् सखि! पूर्वमासीत् इला नाम राजा सूर्य्यवंशभवः। गौरीशापेन स्त्रीत्वं प्राप्तस्य तस्य विश्वैकमोहनं रूपमासीत् तदवलोक्य देवोद्यानग- तश्चन्द्रतनयो बुधस्तां चकमे। तयोश्च सङ्गात् पुरूरवाः समजायत। इति कथा॑ संक्षेपेणोक्त्वा स धूर्त्तः पुनरुवाच सखि! इत्यंदेवतादेशात् मन्त्रौषधिबलाच्च कदाचित् पुरुषः स्त्री कदाचन स्त्री च पुमान् स्यात्। तदेव महतामपि कासजाः संयोगा जायन्ते। श्रुत्वैतत् सा मुग्धा तरुणी मृगाङ्गदत्ता सहवासविस्रम्भात् प्राह सखि! श्रुत्वा ते इमां कथां मे अङ्ग सिमिसिमायते, हृदयञ्चेदं सीदतीव, तदेतत् किं ब्रूहि। तदाकर्ण्य अङ्गनारूपः सः युवा तां प्रत्यवादीत् सखि! एतानि ते अपूर्वाणि काम चिह्नानि, मया एतानि अनुभूतानि, अहं तव न निगुह्ये। इति तेनोक्ता सा पुनरवादीत् सखि! त्वं मे प्राणसमा, तदहं त्वां किं न वच्मि, अपि केनापि उपायेन इह पुंसः प्रवेशः स्यात्? एवमुक्तवतीं तां स धूर्त्तपतेः शिष्यो युवा विप्रः प्राह यद्येवं तत्ते वदामि, सखि!
अस्ति मे वैष्णवः प्रसादः, येनाहं स्वेच्छया निशि पुरुषः स्यां तदेषः अद्य त्वत्कृते पुमान् भवामि। इत्युक्त्वा स मनःस्वामी मुखात् गुलिकामवतार्य्य परमसुन्दरस्वरूपं तस्यै प्रदर्शयत्। ततस्तयोस्तत्कालोचितरसः कोऽपि रतोत्सवः प्रावर्त्तत। ततश्च स तथा मन्त्रिसुतभार्य्यया साकं दिवा नारी रात्रौ पुमान् भूत्वा कञ्चित् कालमनयत्।
अथ तं मन्त्रिसुतमासन्नागमनकालं बुद्ध्वातां तद्भार्य्यामादाय निशि स्वैरं पलाय्य कापि प्रायात्। ततश्च तं वृत्तान्तं विदित्वा स मूलदेवः पुनः वृद्धद्विजाकृतिः शशिना मित्रेण सम्भूय तं यशःकेतुमुपेत्य सविनयमब्रवीत् देव! आनीतोऽयं मया पुत्रः, तद्देहि मे तां स्नुषामिति। ततः स नृपः सन्मन्त्रा शापभीतः समभ्यधात् ब्रह्मन्! न जाने सा ते स्नुषा क्व गता? तत् क्षमस्व, अस्माञ्चापराधात् स्वसुतां तव सुताय ददामि। इत्युक्त्वातं धूर्त्तराजं क्रोधनिष्ठुरं विब्रुवाणं जरद्विप्ररूपं कथञ्चिदनुनीय तत्सख्ये कृततत्पुत्त्रव्यपदेशाय शशिने तां तनयां शशिप्रभां यथाविधि प्रादात्। ततः स मूलदेवः तथाभूतौ बधूवरौ नीत्वा स्वं निलय प्रायात्। तत स्तस्मिन् मनःस्वामिनि उपस्थिते तस्य मूलदेवस्य अग्रतः तस्य शशिनश्च महान् विवादः समजायत। मनःस्वामी अब्रवीत् एषा शशिप्रभा मह्यं दीयतां कन्यैवासौमया गुरोरनुग्रहात् प्राक् परिणीता इति। शशी प्रोवाच मूर्ख! कोऽस्यास्त्वं ममैवैषा भार्य्या। अग्निसाक्षिकमेषा पित्रा मह्यं दत्ता। इत्थं मायाबलप्राप्तराजपुत्त्रीनिमित्तं विवदमानयोस्तयोः कोऽपि निर्णयः नासीत्। तद्राजन्! त्वं मम ब्रूहि, कस्येयं भार्य्या उपपद्यते? एतं मे संशयं छिन्धि, समय त्वया मम स्मर्य्यतामिति। इति वेतालवचः श्रुत्वा राजा तं प्रत्यभाषत मन्येऽहं शशिन एवासौ न्याय्या भार्य्या, यस्मैतत्पित्रा सर्वजनसमक्षं अग्निसाक्षिकञ्च धर्म्येण वर्त्मना दत्ता। मनःस्वामी तां चौर्येण गान्धर्वधर्मतो भेजे। चौरस्य परस्वेषु स्वत्वं नैव कदाचित् न्याय्यमिति। एतत् राज्ञो वचनं निशम्य स वेतालः पुनस्तथैव स्वं निलय प्राप। राजापि दृढ़प्रयत्नः पुनस्तत्र मत्वा तं स्कन्धमधिरोप्य गन्तुं प्रवहते।
——————
अथ षोड़शकथा
<MISSING_FIG href="#"/><MISSING_FIG href="../books_images/U-IMG-1722437338123456.png"/>
अथ राजा तं वेतालं नीत्वा गच्छति स्म। वेतालश्च तमब्रवीत् राजन्! शृणु अपूर्वामेकां कथाम्।
अस्ति हिमवान् नाम सर्वरत्नभूमिर्नगेन्द्रः। यो हि गौरीगङ्गयोः हरभार्य्ययोस्तुल्यप्रभवः। यश्च कुलभूभृताम् अग्रणीः सूर्य्येणाप्यदृष्टपृष्ठदेशः अभिमानोन्नतः सर्वत्र गीयते। तस्य सानोरुपरि काञ्चनपुरं नाम पुरं रविणा न्यासीकृतं रश्मिवृन्दमिव विभाति। तत्र जीमूतकेतुरिति श्रीमान् विद्याधरपतिः पुरन्दर इव मेरौ समध्युवास। तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः। स राजा जीमूतकेतुः तं देवस्वरूपं कल्पतरुमाराध्य तत्प्रसादात् जातिस्मरंबोधिसत्त्वां शसम्भवंदानवीरंमहासत्त्वं सर्वभूतानुकम्पिनं गुरुशुश्रूषणपरं जीमूतवाहनं नाम पुत्रं प्राप।
कालेन सम्प्राप्तयौवनं तं स राजा सद्भिस्तद्गुणैः सचिवैश्च प्रेरितः यौवराज्ये अभिषिक्तवान्। कदाचित् यौवराज्यस्थितः स जीमूतवाहनः हितैषिभिः पितृमन्त्रिभिरुपेत्य जगदे युवराज! योऽयं कल्पतरुः सर्वकामदः सर्वभूतानामधृष्यश्च तवोद्याने तिष्ठति, अयं तव सदायूज्यः। अस्मिन् अनुकूले स्थिते शक्रोऽपि नास्मान् बाधितुं शक्नुयात् किमुतापरः?एतदाकर्ण्य स जीमूतवाहनोऽन्त- रचिन्तयत् अहो! वत ईदृशममरपादपं प्राप्यापि पूर्वैः पुरुषैरस्माकं तादृशं फलं किमपि नामादितं केवलं कैश्चिदपि कृपणैस्तैः कञ्चिदपि अर्थमर्थितः, तेन चात्मा च महात्मा चैषः उभौ लाघवं नीतौ। तदहमस्मात् मनोरथमभीष्टं साधयामि, इत्यालोच्य स महात्मा पितुरन्तिकमाजगाम। आगत्य च विहिताशेषशुश्रूषया परितोषितं सुखमासीनं पितरमेकान्ते व्यजिज्ञपत् तात! त्वमेव जानासि यदेतस्मिन् संसारसागरे आशरीरसिटंसर्वं धनं वीचिविभ्रमचञ्चलं विशेषेण अचिरस्थायिनीप्रकाशपलायिनी सन्ध्याविद्युदिव चला लक्ष्मीः न कुत्रापि कदापि स्थिरा। एकः परोपकार एवास्मिन् संसारे अनश्वरः युगान्तशतसाक्षिणी धर्मयशसी प्रसूते। तात! तत् क्षणिकेषु एषु सर्वेषु अस्माभिरीदृशः कल्पतरुः किमर्थं रक्ष्यते यैश्च पूर्वैरयं मम ममेति आग्रहेण रक्षितः, तैरिदानींकुत्र गतम्? तेषां कस्यायम् अस्य वाते के? तस्मात् परोपकारैक- फलसिद्धये त्वदाज्ञया इमं कामदं काल्पपादपम् आराधयामि।
अथ पित्रा तथेति अभ्यनुज्ञातः स जीमूतवाहनः कल्पतरुं गवा उवाच देव! त्वया अस्मत्पूर्वेषामभीष्टाः कामाः पूरिताः. तन्ममैकमनन्यं कामं परिपूण्य। यथा पृष्वपदरिद्रां पश्यामि तथा करोतु देवः। भद्रमस्तु ते, ब्रज, लोकाय अर्थिने त्वं मया दत्तोऽमि। इति वादिनि कृताञ्जलौ जोमूतवाहने त्वक्तस्त्वया एषोऽहं यातोऽस्मि इति वाक् तस्मात्तरोरुदभूत्। क्षणेन च स कल्पतरुर्दिवः समुत्पत्य भुत्रि तया वसूनि अवर्षत् यथा न कोऽपि दुर्गत आसीत्। ततस्तस्य तया सर्वजीवानुकम्पया त्रैलोक्ये यशः पप्रथे।
अथ तदुगोत्रजाः सर्वे मात्सर्य्यात् असहिष्णवः कल्पपादपरहितं तं जीमूतवाहनं सपिटकं सुजयं मत्वा सम्भूय च तस्य राज्यापहरणाय योद्धुंसमनह्यन्त। तदवलोक्य जीमूतवाहनः पितरमवादीत् तात! धृतायुधेन त्वया योद्धुं कस्य शक्तिरस्ति? किन्तु अस्य पापस्य विनाशिनः शरीरस्य कृते बन्धून् हत्वा कोऽकृपणो राज्यमाकाङ्क्षति? तत् किं नो राज्येन, अन्यत्र कचिद् गत्वा वयं धर्ममेव आचरिष्यामः। येन लोकयोरुभयोः सद्गतिः स्यात्। कृपणा एते दायादा राज्यलोलुपा मोदन्ताम्। इति वादिनं तं जीमूतकेतु- रब्रवीत् पुत्र! अहं त्वदर्थं राज्यमिच्छामि, त्वञ्चेत् कृपया तत् जहासि, तदा वृद्धस्य मे तेन किम्? इत्यं कृताभ्यनुज्ञेन पित्रा मात्रा च समन्वितः स जीमूतवाहनः राज्यं विहाय मलयाचलमगात्। तत्र स रचिताश्रमः पितरौ शुश्रूषमाणस्तस्थौ।
एकदा स इतस्ततो भ्रमन् विश्वावसुनाम्नः सिद्धराजस्य तत्र निवासिनः पुत्रं मित्रावसुं नाम दृष्ट्वा सम्भाष्य च मित्रमकरोत्। ततश्चैकदा स जीमूतवाहनः उपवने स्थितं देव्या गौर्य्या आयतनं दृष्ट्वा प्रविवेश। ददर्श च तत्र उपवीणयन्तीं सखीजनपरिवृतां शैलबालाराधनार्थं स्थितां लोचनलावण्यदर्शनेन लज्जितैरिव निश्चलै- र्मृगैराकर्ण्य मानसङ्गीतवीणारवाम् अञ्जनेन कृष्णां कर्णमूलं विमथ्नतींपाण्डवचमूमिव तारकां बिभ्रतींपरस्परोपमर्देन मुखेन्दोरिव दर्शनमतृप्तमभिवाञ्छन्तो उन्मुखौ स्तनौ दधतीं धातुः सृष्टवतो मुष्टिग्रहेणेव निपीड़िते वलोमग्नाङ्गलीमुद्रे मध्ये, क्षाममनोरमां कामपि कन्यकाम्। तया च दृष्टया तन्वया स जोमूतवाहनः सद्यो दृष्टिमार्गप्रविष्टया मुषितचित्तोऽभूत्। सापि तं भूषितोद्यान उत्कण्ठा विकारप्रदं कामाङ्गदाहवेराग्यात् वनमाश्रितं मधुमिव दृष्ट्वा अनुरागविवशा तथा विहस्ततां भेजे यथा सखीनां व्याकुलतामधात्। ततः स जीमूतवाहनस्तस्याः सखीमपृच्छत् भद्रे! तव संख्याः किं धन्यं नाम, को वा वंशोऽनया अलङ्कृतः? तदाकर्ण्य सखी प्राब्रवीत् महाभाग! इयं हि नाम्ना मलयवतीमित्रावसोः स्वसा सिद्धराजस्य दुहिता। एवमुक्त्वासा सखी सहृदया तं जीमूतवाहनं, सहागतं मुनिपुत्रं अस्य नामान्वयौ पृष्ट्वा तां मलयवतीं स्मितमिताक्षरमवादीत् सखि! विद्याधरेन्द्रस्यास्य किमातिथ्यं न करोषि? जगत्पूज्य एषः अतिथिः प्राप्तः इति तयोक्ते सा सिद्धराजसुता तूष्णीं लज्जावनतानना अभूत्। ततः सखी लज्जावतीयं मत्तोऽर्च्चां गृह्यतामिति वादिनी तस्मै साध्यां मालामुपानयत्। स च जीमूतवाहनः प्रेमनिर्भरः तां मालामादाय तस्या मलयवत्याः कण्ठे समर्पयत्। सापि तिर्य्यक्प्रसृतया स्निग्धया दृशा नीलोत्पलमयीमिव मालां तस्मै प्रत्यर्पयत्। इत्येवमन्योन्यकृताशब्दस्वयं वरयोस्तयोरेका सिद्धराजसुतां कापि चेटी समागत्य जगाद राजपुत्रि! जननी त्वां स्मरति, शीघ्रमागच्छ। तदाकर्ण्य सा कामेषुकीलितामिव सोत्कां दृष्टिं प्रियमुखात् कथञ्चित् आकृष्य कृच्छ्रेण गृहमगात् जीमूतवाहनोऽपि तद्गतात्मा स्वमाश्रममयासीत्। अथ सा प्राणेशविरहातुरा स्वां जननीं दृष्ट्वा शयनीयं गत्वा आशु तत्र पपात।
अथ सा अन्तर्गतकामाग्निधूमेनेव आविलनेत्रा सन्तापक्वथिताङ्की अश्रूणि प्रमुञ्चन्तीसखीभिश्चन्दनैर्लिमा पद्मिनीदलैश्व वीजिता शयने सख्या अङ्के भूतले च न शर्म लेभे। ततश्च वासरे रक्तया सन्ध्यया सह क्वापि गते, चन्द्रे च हसन्त्याः प्राच्यामुखं समाक्रम्य चुम्बति सा स्मरेणापूर्य्यमाणापि जीवितस्मृहाशून्या दूतीसम्प्रेषणादिकं लज्जया कर्त्तुं नाशकत्। निनाय च कृच्छ्रेण निशाम्। जीमूतवाहनोपि तद्वियोगार्त्तः शयनस्थोऽपि कामस्य हस्ते पतितः, नूतनोद्भिन्नरागोऽपि प्रोन्मिषत्पाण्डुरकान्तिः लज्जामूकोऽपि कामजां पीड़ां वदन् निशामनैषीत्। प्रातश्चोत्थाय नितान्तमुत्सुकः गौर्य्या मन्दिरमगात्। तत्र तेन सख्या मुनिपुत्रेण पृष्ठतः आगत्य यावदसौ समाश्वास्यते तावत् मदनानलविह्वला सा मलयवती विरहासहा एकाकिनी गृहान्निर्गत्य गुप्तं प्राणत्यागाय तत्र निर्जने समायात्। सा पादपान्तरितं कान्तमलक्षयन्तो उदश्रुलोचना देवीं गौरीं व्यजिज्ञपत् देवि! तव प्रसादात् अस्मिन् जन्मनि यदि मे जीमूतवाहनः पतिः न लब्धः, तदा अन्यस्मिन्नपि जन्मनि यथा स एव मे पतिर्भूयात् तथा प्रसादः क्रियतामित्युक्त्वा सा स्वोत्तरीयेण तत्क्षणम् अशोकतरुशाखायां तस्या एव देव्या अग्रतः हा नाथ! जीमूतवाहन! विश्वविख्यातकरुणेनापि त्वया कथमस्मि न परित्राता इत्युक्ता यावत् गले पाशं नियच्छति तावत् दिवि उदीरिता भारती अन्तरीक्षात् समुच्चचार। पुत्रि! मा साहसं कार्षीः, भाविविद्याधरचक्रवर्त्ती जीमूतवाहनस्ते पतिर्भविष्यति। इति दैवीवाचमाकर्ण्य सवयस्यः जीमूतवाहनः हृष्टां तां प्रियामुपाजगाम। एष ते देव्या वरः प्रदत्तः सत्यमेव इति तन्मित्रे मुनिपुत्रे तां बालां जल्पति जीमूतवाहनस्तत्तत् पेशलं ब्रुवन् स्वहस्तेनैव तस्याः कण्ठात् पाशममोचयत्। ततोऽकस्मात् तव पुष्पाणि चिन्वतो कापि सखी तं व्यापारमवलोकयन्ती हृष्टा समेत्य तां सम्रोड़या दृशा भुवं लिखन्तीं जगाद सखि! दिष्ट्या वर्द्धसे अभीष्टसिडितः, अद्यैव महाराजो विश्वावसुस्ते पिता मम सन्निधौ कुमारेण मित्रावसुना विज्ञप्तः तात! जग
न्मान्यः कल्पतरुप्रदः योऽयं विद्याधरेन्द्रतनयो जीमूतवाहन इहागतः, सः अतिथित्वेन नः पूज्यः, तादृशश्चान्यो वरः न दृश्यते, तस्मादसौ मलयवत्या कन्यारत्नेन पूज्यताम्। तथेति राज्ञा श्रद्धिते भ्राता ते मित्रावसुः अस्य महाभागस्य आश्रममद्यैव गतः। मन्ये सद्य एव ते विवाहोभविता तत् स्वं मन्दिरमागच्छ, एष च महाभागः स्वमाश्रमं यातु। इति तथा सख्याभिहिता सा शनैः प्रहृष्टा समुत्सुका च प्रायात्। जीमूतवाहनोऽपि शीघ्रमाश्रममाजगाम। आगत्य च मित्रावसो यथाभीष्टं कार्य्यं श्रुत्वा अभिनन्द्य च स्वां जातिं पूर्ववृत्तान्तञ्च तस्मै समाचचक्षे। ततो मित्रावसुः प्रीतः परितुष्टयोस्तत्पित्रारावेद्य गत्वा स्वगृहं पितरौ तद्वार्त्तावर्णनेन समनन्दयत्। अनयच्च तस्मिन्नेव दिने स्वं गृहं जीमूतवाहनम्। ततश्च यथायथं महोत्सवं विधाय तत्रैव शुभे दिवसे तस्य विद्याधरेन्द्रस्य मलयवत्याश्च विवाहविधिं निरवर्त्तयत्। ततो जीमूतवाहनः सिद्धमनोरथः तया नवोढ़या मलयवत्या सह तत्रैव कियन्तं कालं तस्थौ।
एकदा कौतुकाक्षिप्तचित्तःस मित्रावसुना सह मलयाद्रिंभ्राम्यन् समुद्रवेलामाससाद। तत्रस्थिसङ्घातान् पतितान् दृष्ट्वा स तं मित्रावसुं केषामेते अस्थिसङ्घाः प्राणिनामिति पप्रच्छ। ततः श्यालको मित्रावसुः तं कारुणिकमब्रवीत् सखे! शृणु अत्र वृत्तान्तं संक्षेपेण ते कथयामि।
पुरा नागमाता कद्रुः तार्क्ष्य मातरं सपत्नीं विनतां सकपटपणनिर्जितां दासतामनैषीत्। तेनैव वैरेण तार्क्ष्यस्तां मातरं दास्यान्मोचयित्वापि बलात् नागान् कद्रुपुत्रान् सदा पातालं प्रविश्य भक्षयितुं कांश्चित् जघान, कांश्चित् ममर्द्ध च। इत्थं क्रमेण सर्वनागेषु व्यापन्नेषु सर्वक्षयमाशङ्क्यनागराट् वासुकिः प्रार्थनापूर्वं तार्क्ष्येण समयं व्यधात्। खगेन्द्र! एकमेकं नागं ते आहारार्थं प्रत्यहं प्रेषयामि अत्र दक्षिणोदधेः पुलिने, त्वया तु पुनः कदाचन पातालं न प्रवेष्टव्यं, सर्वेषु नागेषु एकपदे निहतेषु तव कः स्वार्थः इति नागराजेनोक्ते स गरुड़ः स्वार्थदर्शी तथेति प्रत्यपद्यत। तदा प्रभृति दिने दिने असौ गरुत्मान् वासुकिप्रेषितमेकैकं नागं अस्मिन् अम्बुधेः पुलिने भुङ्क्ते, एते च तेषां भक्ष्यमालाणानां नागानाम- स्थिसञ्चयाः कालक्रमात् गिरिशृङ्गनिभाः समपद्यन्त। इति मित्रावसोर्मुखादुपश्रुत्य सान्तर्दुःखःस जीमूतवाहनः निजगाद सखे! शोच्यः स राजा वासुकिः यः स्वहस्तेन स्वाः प्रजा विद्विषे उपहारीकरोति, स क्लीवः धृताननसहस्रोऽपि एकेन आननेनापि मामग्रतः भुङ्क्ष्व गरुत्मन्! इति भाषितुं नाशकत्। कथं वा निःसत्त्वः स्वकुलक्षये तार्क्ष्यमभ्यर्थयामास, कथं वा ताक्ष्यः कश्यपसुतो वीरः कृष्णवाहनः ईदृशं पापं कुरुते, अहो मोहस्य प्रागल्भ्यम्? इति उक्ता स महासत्त्वः असारेण देहेन अद्य एकस्यापि नागस्य जीवितरक्षणं कुर्य्यामिति मनसि सङ्कल्प्यस्थिते तस्मिन् जोमूतवाहने मित्रावसोः पितुराज्ञया कश्चित् प्रतीहारः तयोराह्वानार्थमाजगाम। स तु जीमूतवाहनः व्रज त्वमग्रतः, अहं पश्चाद् यास्यामीति तं मित्रावसुं विसृज्य स्वयं तत्रास्थात्। तस्मिंश्च गते जीमूतवाहनः तत्र वाञ्छितार्थोन्मुखो भ्रमन् दूरात् करुणं रुदितमशृणोत्। गत्वा च कियद्दूरं उत्तुङ्गशिलातलसमीपगं एकं दुःखितं युवानं सुन्दराकृतिं राजभटेनेव पुंसा आनीय तत्क्षणं त्यक्तं रुदतीं वृद्धां मातरं सानुनयं निवर्त्तयन्तं पुरुषमद्राक्षीत्। अथ कोऽयमितिजिज्ञासुः स यावदत्र करुणार्द्रचेताश्छन्नः शृण्वन् जीमूतवाहनस्तिष्ठति स्म तावत् सा वृद्धा दुःखभारातिपीड़िता स्त्रीयुवानं तं अनुशोचितुं प्रावर्त्तत हा शङ्खचूड़! हा दुःखशतलालित! हा गुणिन्! हा कुलैकतन्तो! पुत्र! क्वाहं त्वां पुनद्रक्ष्यामि, वत्स! त्वन्मुखचन्द्रे गते स तव पिता शोकान्धकारपतितः वृद्धःकथं जीविष्यति, अर्ककरस्पर्शादपि यत्तव अङ्ग दूयेत, कथं तत् तार्क्ष्यभक्षणजां रुजां सोढ़ुं शक्ष्यति। विस्तीर्णनागलोकेऽपि विधात्रा नागाधिपेन च अभव्याया मे एकसुतस्त्वं विचित्य किं लब्धः? इति विलपन्तीं तां सयुवा तनयः प्राब्रवीत् मातः! दुःखार्त्तमपि मां किं भृशं दुःखयसि? गृहानेव निवर्त्तस्व, एष ते पश्चिमः प्रणामः। अगमनवेला चेयं गरुत्मतः। तदाकर्ण्य हा हतास्मि को मे पुत्रमिह पास्यतीति सा वृद्धा दिक्षु प्रक्षिप्तार्त्तलोचना भृशं चक्रन्द।
एतत् सर्वमाकर्ण्यं बोधिसत्वांशसम्भवः स जीमूतवाहनः दृष्ट्वा श्रुत्वा च सर्वं गाढ़करुणो व्यचिन्तयत् हन्त! अयं शङ्खचूड़ो नाम नागः वासुकिना आहाराय तार्क्ष्याय ग्रहितः, इयञ्चास्य जननी स्नेहेनान्वागता, एकसुता चेयं दुःखिनो नितान्तमार्त्ता विलपति। तदेनमेवमार्त्तम् एकान्तनाशिना देहेन यदि न रक्षामि साम्प्रतं तन्मे निष्फलं जन्म धिक्। इत्यालोच्य मुदा समुपगम्य जीमूतवाहनः बृद्धां तामुवाच। नागमातः! अहं ते पुत्रं रक्षामि मा रुद। इति श्रुत्वा सा बृद्धा गरुड़शङ्किनी सन्त्रस्ता, तार्क्ष्य! मां भुङ्क्ष्व इति जगाद। शङ्खचूड़ः प्राब्रवीत् मातः! नैषःतार्क्षयःमा त्रासं कार्षीः क्वाय चन्द्र इवान्तरिन्द्रियमाह्लादयति क्व चासौ तार्क्ष्यःभयमुत्पादयति। इति शङ्खचूड़ेनोक्ते जीमूतवाहनोऽब्रवीत् अम्ब! अहं विद्याधरः ते सुतं रक्षितुमा- यातः स्वमेतत् शरीरं वस्त्रच्छन्नं गरुत्मते क्षुधिताय दास्यामि त्वमेतं सुतं नीत्वा गृहंव्रज। तदाकर्ण्य बृद्धा अवदत् मा मैवं त्वं मम अधिकः पुत्रः यस्य ईदृशेषु अस्मासु ईदृशी कृपालुता। एतदाकर्ण्य स जीमूतवाहनः पुनस्त्रवीत् मातः! न त्वमस्य मे मनोरथस्य भङ्गं कत्तुमर्हसि। आग्रहेण एवं ब्रुवन्तं तं शङ्खचू- ड़ोऽवादीत् महासत्त्व! त्वया सत्यं कृपालुता दर्शिता, नाहन्तु त्वच्छरीरेण स्वशरीरं रक्षितुमिच्छामि। रत्नव्ययेन को हि पाषाणं रक्षति? मादृशैः स्वमात्रानुकम्पिभिर्विश्वमापूर्णं, येषां जगदनुकम्प्यंतादृशा भवादृशा अतिविरलाः। हे साधो! अहं कलङ्गः शशिविम्बमिव शङ्खपालकुलं शुचि कलङ्कयितुं न च शक्ष्यामि। इति तं प्रतिषिध्यैव शङ्खचूड़ः मातर पुनर्जगाद अम्ब! अस्मात् कान्तारात् निवर्त्तस्व, अत्रैतत् नागानामसृक्भिरुक्षितं कृतान्तस्लोलापर्य्यन्तरौद्र बध्यशिलातलं किं न पश्यसि? अहमिदानीम् अब्धितटं गत्वा गोकर्णाख्यमीश्वरं नत्वा द्रुतमागच्छामि, यावत् तार्क्ष्यो नागच्छति। इत्युक्त्वा मातरम् आपृच्छा च स शङ्खचूड़ो गोकर्णप्रणामार्थमगात्। अस्मिंश्चेत् समये तार्क्ष्यआगच्छेत् तदा मे मनोरथः सिद्धः स्यात् इति जीमूतवाहनो यावत् मनस्यकरोत् तावत् श्रामन्त्रपक्षीन्द्रस्य पक्षपवनान्दोलितान् निवारणपरानिव तरूम् वीक्ष्यगरुडागमनवेलेयमिति मत्वा जीमूतवाहनः परार्थप्राणदित्सया तां बध्यशियामारुरोह। आरुढमेव तं महासत्वं गरुड़ः सत्रमा निपत्य तस्मात् शिलातलात् चञ्च्वाजहार। जवाच्च स्रुतशोणितधारम् उत्खातशिरारत्नं तं नीत्वा मलयाद्रेः शृङ्गे भक्षयितुमारेभे। एवमेव प्रतिजन्म मे परार्थो देहः स्यात्, परोपकृतिरहितौ स्वर्गमोक्षौ मा भूतामिति तार्क्ष्येणभक्ष्यमाणस्य तस्यानुध्यायतः विद्याधरेन्द्रस्योपरि नभस्तलात् पुष्पवृष्टिः पपात। अत्रान्तरे स रक्तधाराक्तशिरोमणिः नत्पत्न्यामलयवत्याः पुरोऽपतत्। तत् चूड़ारत्नं दृष्ट्वा सुविह्वलाश्वशुरयोरन्तिकस्था सास्त्रं ताभ्यामदर्शयत्। तौ च दम्पतीसूतोस्तं चूड़ामणिं विलोक्य सहसा किमेतदिक्षिसम्भ्रान्तौ बभूवतुः। ततः स्वविद्यानुभावात् यथावृत्तमवेत्य राजा जीमूतकेतुः राज्ञी च बध्वा मलयवत्या सह द्रुतं तत्र यावत् गन्तुं प्रावर्त्तेतां तावत् स शङ्खचूड़स्तं गोकर्णशिवं प्रणम्य तत्राययौ। ददर्श च तत् शिलातलं रुधिराद्रम्। दृष्ट्वैव हा हतोऽस्मि महापापः, ध्रुवं तेन महात्मना कृपालुना मत्कृते गरुत्मते आत्मा दत्तः, तदन्वेषामि स महात्मा शत्रुणा क्व नीतः, तञ्चेत् जीवन्तमाप्नयां तदा अयशःपङ्के न मज्जेयम्। इति उदश्रुर्वदम् स निरन्तर सान्द्रां पतितां रक्तधारामनुसरन् ययौ।
अत्रान्तरे तं जीमूतवाहनं भक्षयन् गरुडस्तं हृष्टं विलोक्य व्यचिन्तयत् अहो! अपूर्वः कोऽपि अयं महासत्त्वः, मया भक्षमाणोऽपि प्रहृष्यति, न तु प्राणैर्वियुज्यते, बिभर्त्ति च लुप्तशेषेऽपि गात्रे रोमाञ्चकञ्चुकम्। किञ्चास्य उपकारिणीव दृष्टिर्मयि प्रसीदति। तदेषः न नागः, कोऽप्येष महापुरुषः, तदेनं पृच्छामि, न पुनर्भक्षयामि। इति विमृषन्तं तं ताक्ष्यजीमूतवाहनः प्राह पक्षिराज! किं निवृत्तोऽसि, अद्यापि मे देहे मांसशोणितं वर्त्तते, न च ते तृप्तिं पश्यामि, तत् पुनर्भुङ्क्ष्व। एतदतिविचित्रमाकर्ण्य स पक्षिराट् तं पप्रच्छ महात्मन्! नैव त्वं नागः, तद् ब्रूहि को भवानिति। नाग एवास्मि, कोऽयं ते प्रश्नः, प्रकृतमनुसर, को हि बालिशः प्रस्तुतार्थविरुद्धमाचरेत्? इत्थं जीमूतवाहने तार्क्ष्यं प्रेरयति समुपेत्य स शङ्खचूड़ः टूरात् तमुवाच विनतानन्दन! मा महापापं साहसञ्च कृथाः कोऽयं ते भ्रमः? न होप नागः, नागोऽहमस्मि। इत्युक्ता द्रुतमेत्य तयोर्मध्ये विभ्रान्तं तार्क्ष्यं पुनः शङ्खचूड़ोऽब्रवीत् गरुत्मन्! कस्ते भ्रमः, मे फणं हे च जिह्वे न पश्यसि? किञ्चास्य सौम्या माकृतिंन पश्यसि? इत्यं शङ्खचड़े वदति सा भार्य्या मलयवती पितरौ च सर्वेऽत्र सत्वरमाययुः। तञ्च विलुप्ताङ्गं पुत्रं दृष्ट्वास्य पितरौ हा पुत्र! हा जोमूतवाहन! हा कारुणिक! हा वत्स! हा परार्थप्रदत्तजीवित! इति विलपन्तौ भृशं रुरुदतुः। हा वैनतेय! त्वया कथमिदमविमृष्य समाचरितम्। इति श्रुत्वा तार्क्ष्यो भृशमनुतप्तो व्यचिन्तयत् हा! कथं बोधिसत्त्वांशसम्भवो मया मोहात् भक्षितः? सोऽयं जीमूतवाहनः परार्थप्राणदाता, यस्य कृत्स्नेऽत्र जगति कीर्त्तिघोषणा भ्रमति। तदस्मिन् मृते पापस्य मे अग्निप्रवेशनं युक्तम्। अधर्मविषवृक्षस्य स्वादु फलं किं पच्यते? इत्येवं चिन्ताकुले तार्क्ष्यो स जीमूतवाहनः बन्धून् समागतान् दृष्ट्वा निपत्य व्रणव्यथया पञ्चत्वमवाप। ततस्तत्र शोकदीनयो- स्तत्पित्रोर्हाहेति विलयतोः शङ्खचूड़े च आत्मानं निन्दति सा मलयवती अश्रुगद्गदंनभो दृष्ट्वा पूर्वप्रसन्नां तां वरदां देवीमम्बिकामिति उपालभत, मातः! विद्याधर चक्रवर्त्ती, ते पतिर्भविता इत्यहं त्वयादिष्टा तन्मम भाग्येन त्वं मिष्यावादिनी जातासि इत्युक्तवत्यां तस्यां सा गौरी प्रत्यक्षीभूय, पुत्रि! न मे वचो मृषा इत्युक्त्वाकमण्डलोरमृतेन तं जीमूतवाहनं सिषेच। तेन च सः अक्षतसर्वाङ्गः पूर्वाधिकतरद्युतिर्जीवन् सद्यः समुत्तस्थौ। अथ सा देवी सर्वेषु प्रणमत्सु उत्थितं प्रणतं तं जीमूतवाहनं प्राब्रवीत् पुत्र! तुष्टास्मि ते अनेन देहदानेन, तदेषाहं निजेन पाणिना विद्याधरचक्रवर्त्तिपदे त्वामभिषिञ्चामि। एवं वदन्ती देवी कलसाम्बुभिः तं जीमूतवाहनमभ्यषिञ्चत्, तेन च पूजिता तत्क्षणात् तिरोदधे। अस्मिंश्च समये नभसः दिव्याः कुसुमवृष्टयः पेतुः, नेदुश्च सहर्षं दिवि देवदुन्दुभयः।
अथ गरुत्मान् विनतस्तं जीमूतवाहनमुवाच चक्रवर्त्तिन्! अहं पुरुषातिशये त्वयि अतिप्रीतोऽस्मि येन अपूर्वोदारमतिना त्वया विजगत् कौतुकावहं ब्रह्माण्डभित्तिलिखितम् इदं चित्रं कृतम्। तन्मामाज्ञापय, मत्तश्चाभिमतं वरं वृणीष्व।इति वादिनं गरुडं स महासत्त्वः प्रावदत् गरुत्मन्! सामुतापेन त्वया पुनर्नागा न भक्ष्याः, ये चास्थिशेषाः पूर्व त्वया भक्षितास्ते जोवन्तु इति। एवमस्तु न भोक्ष्येऽहमतः परं नागान् ये च प्रागभुक्तास्ते च जीवन्तु इति तेन वरे दत्ते ये नागा अस्थिशेषाः पूर्वभक्षितास्ते च सर्वे सद्यः समुत्तस्थुः। ततः सर्वेषु सुरनागमुनिगणेषु सानन्देषु मिलितेषु स मलयाचलः लोकत्रयभूम्याख्यां लेभे। तस्मिंश्च काले गौर्य्याः प्रसादात् सर्वे विद्याधरेश्वराः तमद्भुतं जीमूतवाहनोदन्तं विविदुः। ततश्च ते सर्वे समेत्य चरणावनताः तं मुदितबन्धुसुहृत्समेतं गौरीस्वकरकृतमहाभिषेकं हिमाद्रिं निन्युः। तत्र गत्वा स जीमूतवाहनः पित्रा मात्रा भार्य्यया मलयवत्या मित्रावसुना लोकोत्तरचरितेन शङ्खचूड़ेन च समं बहुरत्नशोभितां विद्याधरचक्रवर्त्तितां भुञ्जानः सुखमध्युवास। इति महतींविचित्रां कथामाख्याय वेतालः पर्य्यपृच्छत् राजन्! ब्रूहि शङ्खचूड़—जीमूतवाहनयोः कोऽधिकः सत्त्वेन? यदि जानन्नपि न वदसि, तदा पूर्वमेव दत्तः शापः सम्भविता इति। राजा अब्रवीत् बहुजन्मसिद्धमेतत् जीमूतवाहनस्य न चित्रं, श्लाघ्यस्त्वत्र शङ्खचूड़ः, यो मरणादुत्तीर्णोऽपि अन्यं प्राप्य सुदूरं गताय शत्रवे तार्क्ष्याय पश्चात् धावन् स्वं देहमुपानयत्। एतत्तस्य नृपस्य वचनं निशम्य वेतालः शिंशपान्तिकमगात्। राजापि तमानेतुं पुनः प्रययौ।
——————
अथ सप्तदशकथा
<MISSING_FIG href="../books_images/U-IMG-1722448272123456.png"/>
अथ राजा पुनः शिंशपामूलमुपेत्य वेतालञ्च तं तथैव स्कन्धमारोप्य चलितुमुपचक्रमे। वेतालश्च तं पुनरब्रवीत् राजन्! श्रमविनोदाय पुनरहमेकामाख्यायिकां कथयामि शृणु।
पुरा गङ्गाकूले कनकपुरं नाम पुरमेकमासीत्, यस्मिन् धर्मस्य एकोऽपि पादः कलिना न विहतः। तत्राभवत् यशोधराख्यो यथार्थनामा महीपतिः। यो हि धीरो वेलाद्रिरिव क्षितिं विप्लवात् ररक्ष। यश्च जगदाह्लादकश्वण्डप्रतापोऽखण्डमण्डलश्च विधिना चन्द्रार्कावेकीकृत्येव विनिर्मितः। जनता यं पापभीरुं यशोलुब्धं परस्त्रीषु षण्डं शौर्यौदार्य्यमयं विदन्ति। तस्य राज्ञः पुरे कश्चित् महाबणिक् प्रतिवसति स्म। तस्यउन्मादिनो नाम कन्याभवत्। यस्तामद्राक्षीत् स मदनबाणहतः उन्मादवानेवाभूत्। तस्यां यौवनस्थायां स बणिक् नीतिविज्ञः तं यशोधरं राजानमुपेत्य व्यजिज्ञपत् प्रभो! त्रैलाख्यरत्नभूता मे कन्यैका प्रदेयास्ति, तां देवस्य अनावेद्य अन्यस्मै न दातुमुत्सहे। अस्मिंश्च भूमण्डले देव एव सर्वरत्नानां प्रभुः, तत् तां स्वीकृत्य मामनुगृह्णातु देवः। इति तस्य वचनमाकर्ण्य स राजा निजान् ब्राह्मणान् तस्या लक्षणानि परोचितुं व्यसृजत्। ते ब्राह्मणा गत्वा तां त्रिलोकसुन्दरीं दृष्ट्वा सद्यः क्षोभमगमन् व्यचिन्तयंश्व यदि राजा इमां परिणयेत् तदा राज्यमवसीदेत्, एतस्यामासक्तचित्तः स कदापि न हि राज्यमवेक्षिष्यते। तस्मादेषा सुलक्षणेति राज्ञे नास्माभिः कथनीयेति। इत्येवं मनसि सङ्कल्प्यते राजान्तिकमाजग्मुः ऊचुश्च देव! सा कुलक्षणेति, तेन च स राजा तां बणिक्सुतां न स्वीचकार। ततस्तदाज्ञया स बणिक् तां कन्यां बलधराख्याय सेनापतये प्रददौ। सा भर्तृगृहे तेन भर्त्ता सुखेनास्थात्।
अथ गच्छति काले हेमन्तहस्तिनं प्रफुल्लकुन्दलतादन्तं मथिताम्बुजिनीवनं हत्वा लसत्पुष्यमष्जरी- केसरावलिः चूताङ्कुरनखः कानने क्रीड़न् मधुकेसरी समाजगाम। तस्मिंश्च काले वसन्तोत्सवं द्रष्टुं स राजा यशोधरः गजारूढ़ः निर्जगाम। तद्रूपेण सम्भाव्यविप्लवाः कुलयोषितः अपसारयितुं तदा उदघुष्य दत्तं डिण्डिमं श्रुत्वा सा उन्मादिनी परित्यागावमानिता स्वगृहहर्म्यतः तस्मै राज्ञे आत्मानमदर्शयत्। स च राजा सन्धुक्षितस्य मधुना मलयानिलैः कामाग्नेः ज्वालामिवोद्गतां तां दृष्ट्वा चुक्षुभे। तस्याश्च रूपं मनोभुवो जैत्रमस्त्रमिव हृदये गाढं प्रविष्टं निर्वर्णयन् क्षणात् मोहमगात्।
अथ स भृत्यैराश्वासितो राजधानीं प्रविश्य पृष्टेभ्यस्तेभ्यस्तां प्रागुपनतोज्झिताम् उन्मादिनीं बुबुधे। ततः स राजा तान् कुलक्षणेयमिति वादिनो विप्रान् देशान्निर्वास्य अनुदिनं तामेव समुत्सुको दध्यौ। अहो! जगन्निष्कलङ्के तस्या मुखे सति निर्लज्जो जड़ात्मा श्रयं शशो नित्यमुदेति। कठोरौ हेमकलसौ गजकुम्भौ च कर्कशौ अस्याः पीनयोस्तुङ्गयोः पयोधरयोः सादृश्यं न लभेयाताम्। काञ्चीनक्षत्रमालया विराजितम् अस्या जघनस्थलं कन्दर्पमातङ्गमस्तकनिभं कं न विलोभयेत्। इत्येवं तामन्तश्चिन्तयन् राजा कामाग्निपुटपाकेन पच्यमानः दिवानिशं क्षीयते स्म। हिया निगूहमानश्च पृच्छदभ्यः आप्तेभ्यः तत् पीड़ाकारणं पप्रच्छ। अलं सन्तापेन, स्वाधीनां तां किं न भजसे? इति तैरभिहितः स धार्मिकः नरपतिः नैव तदनुमेने। ततो बलधरो नाम सेनापतिः तद् विदित्वा उपेत्य च चरणानतः प्रभुमभ्यर्थयामास। देव! दासस्त्री सा तव दास्येव, न पराङ्गना। अहञ्च स्वयं प्रयच्छामि, तदेनां मे भार्य्यां गृहाण, अथवाह तां इह देवकुले त्यजामि, तर्हि तस्या ग्रहणे न दोषः, इति सेनापतिना निर्बन्धेन अभ्यर्थमानोऽपि सान्तःकोपं तमुवाच अहं राजा भूत्वा कथमीदृशमधर्मं कुर्य्याम्। मयि धर्ममतिक्रामति कः स्ववर्त्मनि तिष्ठेत्? भक्तोऽपि त्वं कथं मां पापे परलोकमहादुःखहेतौ क्षणमुखावहे नियोजयसि? यदि त्वं धर्मपत्नीं विहास्यसि तदा त्वां न क्षमिष्ये। मादृशः को हि तादृशं धर्मविप्लवं सहेत? तद्वरं मृत्युरिति उक्त्वा स राजा तं निषिषेध। उत्तमसत्वा हि प्राणानपि त्यजन्ति न सत्पथम्। तथैवार्थयमानान् सर्वानपि पौरजानपदान् मिलितानपि स राजा सुदृढ़निश्चयो निराचकार। ततः क्रमेण तेनैव स्मरज्वरभवोष्मणा अभीक्ष्णं प्रक्षीणदेहः स राजा यशोधरः यशःशेषतां प्रययौ। सेनापतिश्च प्रभोस्तथा विलयमसहिष्णुः अग्निं विवेश, अनिर्वचनीयं हि भक्तचेष्टितम्। इति कथामाख्याय स्कन्धस्थितो वेतालः तं पप्रच्छ राजन्! एतयोः सेनापतिमहीभृतोः कोऽधिको मतः? त्वया पूर्वदत्तशापमनुस्मृत्य वक्तव्यम्। राजा अवदत् अहं राजानमधिकं मन्ये। तदाकर्ण्य वेतालः साक्षेपमब्रवीत्, राजन्! सेनापतिः कथं नाभ्यधिकः? यः स्वामिने तथाविधां स्वभार्य्यां सुचिरेण ज्ञाततद्भोगसुखास्वादोऽपि समुपानयत् प्रभौ च पञ्चत्वमागते तद्भक्त्या आत्मानमग्निसादकरोच्च, राजा तु अनास्वादिततदभोगस्तस्य भाय्यां जहौ। वेतालेनैवमुक्तः स राजा विहस्य पुनरब्रवीत् यद्यप्येतत् तदपि नातिचित्रं तत्कुलपुत्त्रो हि सेनापतिः, स भक्त्या यत्तथाकरोत्। प्राणैरपि भृत्यानां स्वामिरक्षण व्रतम्। राजानस्तु मदाध्माता गजा इव निरङ्कुशा विषयोन्मुखा धर्ममर्य्यादाशृङ्खलां छिदन्ति। तेषां हि उद्रिक्तचित्तानां अभिषेकाम्बुभिः समं विवेको विगलति। चलञ्चामरमारुतैरुद्धूय तेषां वृद्धोपदिष्टशास्त्रार्थरजांसि उत्क्षिप्यन्त इव। आतपत्रेण च सत्यं सूर्य्यालोक इव निवर्त्त्यते। विभूतिवात्यया चोपहता दृष्टिः मार्गं नेक्षते। जगद्विजयिनोऽपि ते ते नहुषादयो राजानः मारमोहितचेतसः तां तां विपदं प्राप्तवन्तः। एष राजा पृथिव्यामेकच्छत्रोऽपि यत्तया उन्मादिन्या चपलया लक्ष्म्याइव विमोहितोऽपि प्राणानपि तत्याज न पुनः अमार्गे पदं निदधे, तेनासौ वीरः मे अधिको मतः। इत्याकर्ण्य नृपतेर्वाक्यं स वेतालः स्कन्धवर्त्ती पुनः स्वमेव पदं मायया प्रायात्। राजापि अचलचित्तस्तं तथैवानुससार। आरब्धे सुदुष्करेऽपि महतां मध्ये विरामः कुत एव इति।
——————
अथ अष्टादशकथा
<MISSING_FIG href="../books_images/U-IMG-1722478976123456.png"/>
ततः स राजा क्रव्याद्भिः परिवृते ज्वालावित्वोलरसनैर्भूतैरिव चिताग्निभिः समन्तादतिरौद्रे तस्मिन् पितृवने तस्यां क्षपायां तं शिंशपातरुमुपेत्य तत्र वेतालविकृतान् सदृशाकृतीन् तस्मिन् तरौ लम्बमानान् सुबहून् प्रेतकायान् अशङ्कितमद्राक्षीत्। अहो! किमेतत् किंवा अयं मायी वेतालो मे कालं क्षिपति, येन इह भूयसां एषां कं ग्राह्यं न वेद्मि, यदि असिद्धार्थस्य मे रात्रिरियं गच्छति, ततोऽहं वह्निं प्रवेक्ष्यामि, न तु हास्यतां सहिष्ये। इति चिन्तयतस्तस्य राज्ञो निश्चयं ज्ञात्वा सत्त्वतुष्टः स वेतालः तां मायां संजहार। ततोऽसौ एकमेव नरकलेवरे स्थितं वेतालं दृष्ट्वा तथैवावतार्य्य अंसेन गृहीत्वा पुनः प्रतस्थे। प्रस्थितञ्च तं स वेतालः प्राब्रवीत् राजन् न विरज्यसि चेत् तदिमां कथां कथयामि शृणु।
अस्ति गौर्य्या तपसा परितुष्टकृतेन शम्भुना असामान्यगुणोत्कर्षलुब्धेनेव स्वयं निर्मिता भोगवत्यमरावत्योस्तृतीया उज्जयिनी नाम पुरी। यस्यामुदारसुकृतिनः नानाभोगेन उपहिताः स्वर्गमपि न कामयन्ते। यस्यां वरयोषितां कुचेषु कार्कश्यं, लोचनेषु चापलं, भ्रूषु भङ्गिः। यस्वाञ्च निशासु तमः, कविवक्रोक्तिषु वक्रत्वं, दन्तिषु मदो, मुक्ताचन्दनशशाङ्गेषु जाड्यमासीत्। तस्याञ्च चन्द्रप्रभो नाम राजा अभवत्। देवस्वामीति विश्रुतो बहुधनसम्पन्नः बहुयज्ञः बहुश्रुतश्च कश्चिद्विप्रः तस्य अमात्य आसीत्। तस्य तनयश्चन्द्रखामी नाम कदाचित् कामपि विक्षिप्तैः कृष्णसाराभैर्नेत्रैरिवाक्षैर्निरन्तरम् अत्र कम् आश्लिष्याम इति विपद्भिरिव वीक्षितां कोऽसौ अस्ति, यस्य अलकापतेरपि श्रियं न हरामि इति द्यूतकृतां कलहस्वनैरुच्चैर्वदन्तीमिव द्यूतकारमहागोष्ठीं द्यूतेन क्रीडितुं ययौ। तां प्रविश्य स क्रमात् तैः कितवैरक्षैर्दीव्यन् वस्त्रादिकं हारयित्वापि अन्यत् धनमहारयत्। यदा तु तद्धनं तैर्याच्यमानं नादात् तदा सभिकेन सोऽवष्टभ्य लगुड़ैरताड्यत। लगुड़ाहतसर्वाङ्गः स विप्रसुतः पाषाणमिव निश्चलम् आत्मानं मृतमिव कृत्वा तस्थौ। तथैव च द्वित्रान् दिवसान् तस्मिन् तत्र अवस्थिते क्रूरः स सभिकः तान् कितवानभाषत अनेन पाषाणकं श्रितं, तदेनं क्वचित् अन्धकूपे नीत्वा क्षिपत, अहं युष्माकं एतद्देयं धन दास्यामि। इति तेनोक्ताः कितवास्तं चन्द्रस्वामिनम् उत्क्षिप्य कूपगवेषिणः दूरम् अरण्यं निन्युः। तत्रागत्य कश्चित् बृद्धः कितवस्तानन्यान् एवमब्रवीत् अयं तावत् प्रायशो मृतः तत् किमनेनाधुना कूपे क्षिप्तेन, तदिहैव एनमुञ्झित्वा गत्वा कूपे उज्झितं वक्ष्यामः। इति तस्य वचस्ते सर्वे तथेति प्रतिपद्य तथैव तं त्यक्त्वा गताः।
अथ गतेषु तेषु कितवेषु स चन्द्रस्वामी समुत्थितः तत्र शून्यमेकंं शिवमन्दिरं विवेश। तत्र किञ्चित् समाश्वस्य सुदुःखितश्चिन्तयामास हा कष्टं! विश्वस्तोऽहं धूर्तैः कितवैः मायया मुषितः, तदीदृशः नग्नः पांशुधूसराङ्गः क्व यामि, पिता बन्धुः सुहृद्वापि दृष्ट्वा किं मां वदेत्। तदिहैव साम्प्रतं स्थितोऽस्मि, नक्तञ्च क्षुत्प्रशान्तये निर्गत्य कथमपि भोजनं प्रति यतिष्ये। इत्यालोचयतस्तस्य क्लान्तस्य दिगम्बरस्य मन्दोकृतातपो रविस्त्यक्ताम्बरो अस्ताचलमगात्। तावच्च भूतिलिप्ताङ्गः महाव्रती शूलधरो हर इवापरः कश्वित्तापसः तत्राजगाम। स चन्द्रस्वामिनं दृष्ट्वा कोऽसीति पृष्ट्वा तस्मात् वृत्तान्तं श्रुत्वा च प्रणतं तमवादीत् भद्र! त्वं ममाश्रमं प्राप्तः क्षुत्क्लान्तोऽतिथिः, तदुत्तिष्ठ कृतस्रानो मम भिक्षाभागमाहर। इति तेनोक्त- श्चन्द्रस्वामी तमब्रवीत् भगवन्! विप्रोऽहं कथं तव भिक्षाभागं भोक्ष्ये? तदाकर्ण्य स सिद्धस्तापसः निजां मठिकां प्रविश्य अतिथिवात्सल्येन इष्टसम्पादिनीं विद्यां सस्मार \। स्मृतोपस्थिताञ्चतां किं करोमीति वादिनीम् श्रमुष्य अतिथेरातिथ्यं कुरुष्वेति शशास। तथा तथेत्युक्ते सहसा तत्र सोपवनम् अङ्गनाजनसहितं सौवर्णं पुरमुत्पन्नं स चन्द्रस्वामी ददर्श। विस्मितं तञ्चाभ्येत्य तस्मात् पुरात् विलासिन्यः तं भद्र! उत्तिष्ठ, एहि स्नाहि भुङ्क्ष्व भज नः स्वामिनीम्। इति उक्त्वा अभ्यन्तरं नोत्वा स्नापयित्वा अनुलिप्य परिधाप्य च अन्यत् वासमन्दिरं निन्युः। तत्र च प्रविश्य स युवा एकां सर्वाङ्गसुन्दरीं धात्रा कौतुकादिव निर्मितां कामपि वरारोहां ददर्श। तया च समुत्थाय अर्द्धासनोपवेशितः दिव्यमाहारं विविधानि फलानि भुक्त्वा गृहीतताम्बूलः पर्य्यङ्कशय्यायां तत्सम्भोगसुखेन निशामनयत्। प्रातः प्रबुद्धश्च तत्र तमेव शिवालयं ददर्श, न तां दिव्याङ्गनां, नापि पुरं तत् तथाविधपरिच्छदयुतम्। ततः स समुद्विग्नो निर्गत्य मठिकायां स्मिताननं पृष्टरात्रिवृत्तान्तं तं तापसं व्यजिज्ञपत् भगवन्! त्वत्प्रसादात् रजन्यामहं सुखमुषितः, किन्तु तया दिव्याङ्गनया विना मे प्राणा यास्यन्तीति। तदाकर्ण्य स तापसो हसन्नत्रवोत् इहैव तिष्ठ, पुनर्नक्तं तथैव ते सुखं भविष्यति। इति तेन व्रतिना अभिहिते स चन्द्रस्वामी तस्य तापसस्य प्रसादात् प्रतिक्षपं तान् तान् भोगान् अभुङ्क्त। शनैश्च तस्य तं विद्याप्रभावं विदित्वा विधिचोदितः स चन्द्रस्वामी तं तापसं प्रसाद्य एकदा ययाचे भगवन्! यदि सत्यं शरणागते मयि ते कृपा जाता, तदेतां विद्यां मे देहि, यस्या अयमीदृशः प्रभावः। इति निर्बन्धात् प्रार्थयमानं तं स तापसः प्रत्यवादीत् भद्र! एषा विद्या तव असाध्या, असी अन्तर्जले साध्यते। तत्र चैषा जपतः साधकस्य विमोहाय तथा मायाजालं सृजति, यथा स सिद्धिं न लभेत। स हि जापकस्तत्र पुनर्जातं बालकमात्मानम् ईक्षते, ततो युवानं कृतदारं जातात्मजम्। ततः सुहृदयं मे, शत्रुरयं मम इति मिथ्या प्रणश्यति। न च इदं जन्म, नापि विद्यासाधने प्रवृत्तिं स्मरति यस्तु चतुर्विंशतिवर्षं तथा जपन् जन्म स्वं स्मृत्वा तत्तत् मायाविजृग्जितं विदित्वा तदवशोवह्निप्रवेशं कुरुते स एव परमार्थतो जलोत्तीर्णः सिद्धविद्यां पश्यति। एषा च सुशिष्यस्यैव सिध्यति, अस्थानार्पणात् गुरोरपि विनश्यति। मत्सिद्धैव ते फले सिद्धे किं ते अमुनाग्रहेण। मम सिद्धिहानौ एषा तदैव विनङ्क्ष्यति। एवं तपस्विनोक्तोऽपि स चन्द्रस्वामी शक्ष्यामि सर्वं मा तावदत्र भगवन्! चिन्ताभूः, इति तं तापसमब्रवीत्। ततः स तापसः तस्मै तां विद्यां दातुं प्रतिपेदे। आश्रितानुरोधेन किं हि न कुर्वन्ति साधवः। ततो नदीतीरं गत्वा स तापसस्तमब्रवीत् बत्स! विद्यां जपन् यदा तां मायां द्रक्ष्यसि, तदा मम विद्यया बोधितो मायाग्निमेव प्रविशेः। अहं हि तवैव जपतो नदीतटे स्थास्यामि तावत्। इत्युक्ता शुचिस्तमाचान्तं शुचिं चन्द्रस्वामिनं तां विद्यामध्यापयामास। ततस्तस्मिन् गुरौ तीरस्थिते स चन्द्रस्वामी तं मूद्धाप्रणम्य सरभसं तां नदीमवततार। अवतीर्णश्च तस्यामन्तर्जले तां विद्यां जपन् सहसैव तन्मायया विमोहितो मिथ्या सर्व जन्मवृत्तान्तंविस्मृत्य अन्यस्यां पुरि कस्यापि विप्रस्य पुत्रत्वेनोत्पन्नः शनकैर्बृद्धिं गतः कृतोपनयनोऽधी- तविद्यः कृतदारश्च दुःखसुखसम्भिन्नः क्रमात् सञ्जातापत्यः समभवत्। ततश्चात्र पुत्रदारस्नेहास- क्तस्तत्तदाचरन् बहरतिः पितृभ्यां बान्धवैश्व सह कियन्तं कालं तस्थौ। इत्थं मिथ्याजन्मान्तरक्ते शमनुभवतस्तस्य कालप्रबोधिनीं विद्यां कारुणिको गुरुरसौ प्रायुङ्क्त। स चन्द्रस्वामी जन्मान्तरगतः तद्विद्याप्रयोगेण सद्यः प्रबोधितः आत्मानं तञ्च गुरुं स्मृत्वा तच्च मायाजालमवेत्य विद्यासाध्यफलमाप्तुम् अग्निप्रवेशाय उद्यतस्तैनिषेधद्भिर्विद्धाप्तगुरुबन्धुभिः पर्य्यवारि। तैश्च बहुधा वार्य्यमाणोऽपि दिव्यसुखलोलुपः स सबान्धवः सज्जितचितं नदीतीरमगात्। तत्रागत्य च बृद्धौ पितरौ भार्य्यां बालापत्यानि च रुदन्ति दृष्ट्वा मोहात् पुनरचिन्तयत् कष्टं अनलं विशतो मे सर्वे इमे स्वजना म्रियन्ते, न च गुरोस्तद्दचनं सत्यं वा मृषा जानामि, तत् किं अग्निं प्रविशामि उत गृहम्? अथवा गुरोस्तद्वचः कथं मिथ्या तादृशप्रभावशालिनः? तदग्निमेव प्रविशामि काममिति पर्य्यालोच्य स चन्द्रस्वामी अग्निमेव प्राविशत्। प्रविश्य च अनुभूतहिमस्पर्शो विस्मितः वह्नेः शान्तभयः तस्मात् नदीतोयात् उत्थाय तटमवाप। तत्रोत्थाय स्थितं तं गुरुं दृष्ट्वा पादयोर्निपत्य पृच्छन्तं तं अग्निशैत्यान्तं सर्वं वृत्तान्तमवर्णयत्। ततः स गुरुस्तमुवाच वत्स! मन्ये त्वया कश्चिदत्र अपचारः कृतः, अन्यथा अग्निः कथं ते शीतो जातः? एतस्या विद्यायाः साधने एतहिअदृष्टम्। तदाकर्ण्य स चन्द्रस्वामी प्रावदत् भगवन्! नात्र कश्चिन्मया- पचारः कृतः स्मर्य्यते। ततः स तद्गुरुः जिज्ञासुस्तां विद्यां सस्मार। न च सा तस्य वा तच्छिष्यस्य आविरभूत्। अथ तौ नष्टविद्यौ विषस्मौततो जग्मतुः। इति कथामाख्याय वेतालस्तं भूपं पप्रच्छ राजन्! संशयमेतं मे छिन्धि केन हेतुना विहितेऽपि यथोद्दिष्टे कर्मणि विद्या तयोर्नष्टा? एतदाकर्ण्य स राजा तं वेतालं प्रत्यवोचत् योगेश्वर! जाने, भवान् मे कालं एवं क्षिपति, तदपि ते ब्रवीमि। दुष्करेणापि कर्मणैव पुरुषस्य न सिद्धिर्लभ्या, शद्धेनैव कर्मणा। तत्रास्य मन्दस्य विप्रयूनश्चित्तं प्रबोधितमपि यत् विकल्पते स्म, तेनास्य विद्या सिद्धिं न गता, अस्थानदानाच्च गुरोर्विनष्टा। इति तस्य नृपस्य वाचं निशम्य स वेतालः पुनः स्वं निलयं प्रत्यपद्यत। राजापि अशिथिलयत्नः तमन्वेष्टुं धावति स्म।
——————
अथ ऊनविंशकथा
<MISSING_FIG href="../books_images/U-IMG-1722529237758.png"/>
अथ राजा पुनः शिंशपातलं गत्वा वेतालं स्कन्धे आरोप्य तथैव प्रातिष्ठत, वेतालोऽपि तं गच्छन्तं न्यगादीत् राजन्! अपरां हृद्यां कथां ते आख्यामि श्रूयताम्।
अस्ति वक्रोलकं नाम सुरपुरोपमं पुरम्। तस्मिन् सूर्य्यप्रभो नाम इन्द्रसमः भूपतिरासीत्। यः सौकर्य्योद्यतया मूर्त्त्या दत्तानन्दो हरिरिव वसुन्धरामिमां समुद्धृत्य चिरं भुजे बभार। अस्य च प्रभोः धूमासङ्गेषु अश्रुपातः शृङ्गारे मारसंलापः द्वास्थेषु हेमदण्डाः राष्ट्रेषु आसन्। इत्थं सर्वसम्पदाधारस्य तस्यैका अनिर्वृतिरासीत् यदन्तःपुरिकासु स्थितास्वपि पुत्रो नोदपद्यत। अत्रान्तरे ताम्रलिप्त्यां पुरि धनपालो नाम धनवतामग्रणीर्महाबणिक् प्रतिवसति स्म। तस्य धनवती नाम एका कन्या विद्याधरीव शापात् सुरलोकाद्विच्युता समजनि। तस्यां यौवनस्थायां स बणिक् पञ्चतामवाप। तद्धनं सर्वं राजसाहाय्यात् तत्गोत्रजैराक्रान्तम्। ततो हिरण्यवती नाम तस्य बणिजो गेहिनी अप्रकटस्थितानि रत्नाभरणानि गृहीत्वा तया दुहित्रा धनवत्या साकं दायादभयात् पलाय्य गुप्तं निशि गृहात् निर्ययौ। सा बहिरन्तश्च ध्वान्तेनान्धकारिता सुताहस्तावलम्बिनी कृच्छात् पुरात् बहिः प्रायात्। तत्र सन्तमसे यान्ती विधियोगात् अलक्षितं शूलाग्रारोपितस्थितं चौरम् अंसेन अताडयत्। स चौरः मम जीवस्त्वदंसाग्रघट्टनया अधिकपीड़ितः, हा! क्षते क्षारमेतन्मे केन दत्तमित्यभाषत। ततः सा बणिग्बधूः कोऽसीति भयात् पप्रच्छ। ताञ्च चौरः प्रत्युवाच अहं चौर इति सूचितः। अद्यापि शूले स्थितस्यापि पापस्य मे असवः नोत्क्रामन्ति। यदार्य्ये! ब्रूहि मे का त्वं क्व च प्रयासीति। तदाकर्ण्य सा बणिक्पत्नी सर्वं स्वोदन्तं तमाह स्म। तावच्च भगवान् श्वेतभानुः प्राचीमुखमुदभासयत्। ततो दिक्षु प्रकाशासु स चौरस्तां बणिक्सुतां धनवतीं दृष्ट्वा तां तम्मातरमुवाच आर्य्ये! शृणु मे एकां प्रार्थनां काञ्चनसहस्रं ते दास्यामि, त्वमिमां ते सुतां मह्यं देहि। किमेतया दत्तया ते इति सस्मितं वदन्त्या तया अभिहिते स चौरः पुनरब्रवीत् नास्ति मे गतायुषः पुत्रः, न चापुत्रो लोकानश्नुते, तदेषा मदाज्ञया कुतश्चित् पुत्रं जनयेत्, स मे क्षेत्रजः पुत्रो भविता। इत्यहमेतां प्रार्थये, तन्मे मातः! सफलयाभीप्सितम्। तदाकर्ण्य सा वणिग्योषित् लोभात् तथेति प्रतिपद्य कुतोऽपि सलिलमानीय चौरस्य तस्य पाणौ सुतेयं मे तुभ्यं दत्तेति अपातयत्।
अथ स तद्दुहितरि यथोक्तामाज्ञां दत्त्वा तां बणिग्योषितमवादीत् गच्छ मातः! अमुष्य वटस्य अधःखनित्वा तन्मे रक्षितं स्वर्णसहस्रं गृहाण। गतासोश्च मे देहं युक्त्या दाहयित्वा अस्थीनि तोर्थे निक्षिप्य च ससुता वक्रोलकं पुरं व्रज, तत्र सूर्य्यप्रभे राजनि सौराज्यसुखिते जने निरुपद्रवनिश्चिन्ता यथेच्छं स्थास्यसि। इत्युक्त्वा तृषितः तयोपाहृतं जलं पीत्वा शूलव्यथया समुत्क्रान्तजीवितः समभवत्। ततः सा बणिक्पत्नी गत्वा तस्मात् वटवृक्षतलात् स्वर्णं गृहीत्वा ससुता सुगुप्तं भर्त्तुः सुहृदो गृहमगात्। तत्र स्थित्वा च युक्त्या तच्चौरकलेवरं दाहयित्वा तदस्थीनि च तीर्थेषु क्षेपयामास।
अथान्येद्युर्गृहीतगुप्तार्था ससुता प्रयान्ती क्रमेण वक्रोलकं पुरमाससाद। तत्र वसुदत्तनाम्नो बणिजः सकाशात् गृहमेकं क्रीत्वा तया धनवत्या सुतया सह तस्मिन्नुवास। तस्मिंश्चावसरे विष्णुस्वामीति कश्चिदुपाध्यायस्तत्र वसति स्म। तस्य मनःस्वामी नाम अतिरूपवान् कश्विद् विप्रः शिष्योऽभवत्। स विद्याभिजनसम्पन्नोऽपि यौवनमत्तः तत्रत्यां हंसावलीं नाम विलासिनीं चकमे। सा च सौवर्णदीनारशतपञ्चकं भाटिम् अन्वहमग्रहीत्। तावन्ति च धनानि अप्राप्य असौ विप्रयुवा नितरां क्षामवपुचिन्ताकुलोऽभवत्। एकदा सा बणिक्सुता हर्म्यस्था तादृशं क्षामकलेवरमपि अभिरामं तं युवानं दृष्ट्वा तद्रूपेणाकष्टचित्ता भर्त्तुश्चौरस्य आदेशं स्मरन्ती मातरमुवाच अम्ब! विप्रसुतस्यास्य रूपयौवने विश्वस्य नयनामृतवर्षिणी पश्य। एतदाकर्ण्य सा तस्मिन् बह्वभावां तामवेत्य सा बणिक्पत्नी व्यचिन्तयत् दुहित्रा मे भर्त्तुराज्ञया कश्चित् सुतार्थं वरणीयः, तस्मादेष एव किं नाभ्यर्ष्यते? इत्यालोच्य कामपि चेटीं तमानेतुं व्यसृजत्। सा च चेटी विजने गत्वा तस्मै तत्सन्देशं शशंस। स च द्विजयुवा व्यसनी तदाकर्ण्य तामभाषत यदि हंसावलीहेतोः दीनारशतपञ्चकं मह्यं दीयते, तदा एकां यामिनीं गच्छामि। इति तेनोक्तया चेट्या आगत्य तथैवोक्ता बणिकस्त्री तस्या हस्तेन तस्मै तद्धनं प्राहिणोत्। तदादाय मनःस्वामी तस्या दुहितुरावासं ययौ। आगत्य च स चकोर इव ज्योत्स्रां तां ददर्श ननन्द च। तया समं सम्भोगलीलया तां रात्रिं नीत्वा प्रातः सुगुप्तं निर्गत्य यथागतमगात्। सापि बणिक्सुता तस्मात् सगर्भाभूत्।
अथ कालेन सा सुलक्षणं पुत्रमसूत। तां सुतोत्पत्त्या परितुष्टां समातृकां निशि हरः स्वप्ने प्रदर्शितवपुरादिदेश हेमसहस्रेण युक्तम् इमं शिशुं राज्ञः सूर्य्यप्रभस्य द्वारि नीत्वा मञ्चस्थं कृत्वा त्यज। एवं ते क्षेमं भवितेति समादिष्टा हरेण सा बणिक्सुता तन्माता च प्रबुध्य अन्योन्यमूचतुः तत्यजतुश्च भगवत्प्रत्ययात् तं राजद्वारंनीत्वा बालकम्। तावच्च तमपि सूर्य्यप्रभं पुत्रचिन्तासमुत्सुकं नृपं स्वप्ने भगवान् वृषध्वजस्तथैव समादिशत् राजन्! उत्तिष्ठ सिंहद्वारि सकाञ्चनो बालकः तिष्ठति केनापि स्थापितोऽति- सुलक्षणः मञ्चस्थितः। तं द्रुतं गृहाण। इति शम्भुनादिष्टः स राजा प्रातः प्रबुध्य तथैव दास्थैः प्रविश्य विज्ञप्तः स्वयं निर्ययौ। दृष्ट्वा सिंहद्वारे सहेमचयं मञ्चस्थं शिशुं ध्वनाङ्गपाणिरेखाच्छत्रपादं शुभाकृतिं शम्भुना दत्तोऽयं समुचितः पुत्र इति सानन्दं ब्रुवन् स्वयं बाहुभ्यां गृहीत्वा अन्तःपुरं विवेश। महोत्सवं कृत्वा च द्वादशेऽहनि पुत्रं नाम्ना चन्द्रप्रभमकरोत्। इत्थं स राजपुत्र- श्चन्द्रप्रभः क्रमेण वपुषेव गुणौघेनापि आश्रितानन्ददायिना सर्वान् समनुरञ्जयन् शनैर्युवा सन् शौर्यौदार्य्य- श्रुतादिभिरावर्जितप्रकृतिमण्डलः पृथिवीभारवहनक्षमः समजायत।
अथ सूर्य्यप्रभः पिता तादृशं तं दृष्ट्वा राज्ये अभिषिच्यैव वृद्धो वाराणसीं ययौ। ततश्च तस्मिन् नयशालिनि तनये पृथ्वीं शासति स राजा तत्र वाराणस्यां ती.व्रतपसा तनुमजहात्। ततः स धार्मिको नरपतिः चन्द्रप्रभः पितृनिधनं श्रुत्वा अनुशोच्य कृतक्रियः सर्वान् सचिवान् अभ्यधात् तातस्य केनापि नाहमनृणो भवितुं क्षमः, तथापि स्वहस्तेन अस्य एकां निष्कृतिं ददामि, गङ्गायामस्य अस्थीनि नीत्वा क्षिपामि, गयाञ्च गत्वा सर्वपितृभ्यः पिण्डं ददामि। एतत्प्रसङ्गेन च मे तीर्थयात्रा भविष्यति। इत्युक्तवन्तं राजानं मन्त्रिणो व्यजिज्ञपन् देव! न तावदिदं ते कर्त्तुं युक्तं राज्यं हि बहुच्छिद्रं पित्रुपक्रिया च ते पुरोहितेनापि सम्पद्यते। स्वधर्मपालनात् तीर्थयात्रा न ते साधीयसी, बहुपापं क्व पान्थत्वं नित्यगुप्तः पार्थिवश्चक्व? इति मन्त्रिणां वचः समाकर्ण्य चन्द्रप्रभोऽब्रवीत् अलं विकल्पेन, पित्रर्थेअवश्यमेव मया गन्तव्यम्। तीर्थानि च मया गन्तव्यानि यावत् अहं शक्नोमि पश्चात् क्षणविनश्वरे शरीरे को वेत्ति किं भावि, यावदहमागच्छामि तावत् युष्माभिः राज्य रक्ष्यमिति। इत्थं राज्ञो निश्चयं श्रुत्वा मन्त्रिणस्तूष्णीमासन्। ततः स भूपतिः सर्वं प्रयाणसञ्चारं सज्जं चक्रे। अथ शुभेऽहनि स राजा स्नातो हुताग्निः ब्राह्मणानर्च्चयित्वा सज्जितं रथमास्थाय प्रयतः शान्तवेगः सामन्तान् राजपुत्रान् पौरजानपदानपि आसीमान्तानुयायिनः सन्निवर्त्त्य सम्भाष्य च ब्राह्मणैर्बाहनारूढैः पुरोहितेन च सह प्रतस्थे। गच्छंश्च पथि विचित्रदेशभाषादिविलोकनविनोदितः क्रमात् बहून् देशान् क्रामन् जाह्नवीं प्राप। ददर्श च तां जलकल्लोलपङ्क्तिभिः जीवानां त्रिदिवारोहसोपानपद्धतिं सृजतीमिव हिमवत्प्रभवां गौरीं प्रतीर्ष्यया शम्भोः क्रीड़या कृतकेशग्रहां देवर्षिगणवन्दिताम्। ततश्च राजा रथादवरुह्य यथाविधि कृतस्नानविधिः पितुः सूर्य्यप्रभस्य अस्थीनि गङ्गाम्भसि निचिक्षेप। तत्र च यथाविधि दानानि दत्त्वा कृतश्वाद्धोरथमारुह्य प्रस्थितः क्रमेण प्रयागं तीर्थमवाप। तत्र चोपोष्य कृतस्नानो श्राद्धदानादिकञ्च यथाविधि कृत्वा वाराणसीं जगाम। तस्याञ्च त्रीणि दिनानि उपोष्य वृषभध्वजमर्च्चयित्वा गयां प्रति प्रययौ। क्रमेण नानाविधानि वनानि गिरीन् नदीश्चातिक्रम्य गयाशिरः प्राप। तत्र विधिवत् भूरिदक्षिणं श्राद्धं विधाय गयाकूपे पिण्डं ददतोऽस्य पिण्डमादातुं त्रयो मानुषपाणयःसमुत्तस्थुः। तदवलोक्य स राजा विभ्रान्तः किमेतदिति विमूढमतिः कस्मिन् पाणौ पिण्ड क्षिपामीति निजान् ब्राह्मणानुवाच देव! अयं तावदेकश्चौरस्य पाणिर्निश्चितं यस्मिन् लोहमयः शङ्कुर्दृश्यते, द्वितीयश्च करोऽयं ब्राह्मणस्य, यतो धृतपवित्रो दृश्यते, तृतीयश्चायं पाणिर्महाराजस्य साङ्गुलीयः सुलक्षणो विभाव्यते। तन्न विद्मो वयं क्वायं पिण्डो निक्षेप्यः, किमिदं भवेदिति। इति तैर्द्विजैरुक्तो राजा निश्चयं कर्त्तुं नाशकत्। इति विचित्रां कथामाख्याय वेतालः स्कन्धस्थित एव पप्रच्छ राजन्! कस्मिन् हस्ते स पिण्डो देय इति संशयं छिन्धि, स्मर्य्यतां त्वया प्राक्तनः समय इति। राजाव्रवीत् वेताल! यतोऽसौ राजा चन्द्रप्रभः क्षेत्रजः चौरस्यैव पुत्रः, नान्ययोः, तस्मात् चौरहस्ते एव स पिण्डो देयः। विप्रस्य जनकस्यापि स पुत्रो न भवितुमर्हति, तेन हि धनैन एकां रजनीम् आत्मा विक्रीतः। राज्ञः सूर्य्यप्रभस्यापि संस्कारदानवर्द्धनादिभिः असौ पुत्रो भवेत्। यदि तत्कृते मञ्चस्यस्यास्य स्वर्णसञ्चयो न प्राप्येत। राजा सूर्य्यप्रभो न्यस्तधनेनास्य वर्द्धनादिकमकरोत्। तन्माता यस्य हस्ते समर्पिता, यस्याज्ञया राज्ञस्तस्य चन्द्रप्रभस्य जननं, यस्य च तत् निखिलं धनं तन्मात्रा समासादितं, तेनैव विप्रसुतात् वीजं क्रीतं, तस्यैव चौरस्य स क्षेत्रजः पुत्रः,, तस्मात् तस्यैव हस्ते पिण्डो देय इति मे मतिः। इत्याकर्ण्य स वेतालः पुनरलक्षितः नृपस्कन्धात् तमेव शिंशपातरुमाश्रयत्। राजापि तथैव निश्चलप्रतिज्ञस्तमन्वसरत्।
——————
अथ विंशकथा
<MISSING_FIG href="../books_images/U-IMG-17225683047456.png"/>
ततः स राजा शिंशपान्तिकं गत्वा पुनस्तं वेतालं स्कन्धे आरोप्य मौनी तथैव चचाल। वेतालोऽपि स्कन्धवर्त्ती तं मौनिनमवलोक्य प्रोवाच। राजन्! कस्तेऽयं निर्बन्धः, गृहं गच्छ, रात्रिमुखं सेवस्व, कुभिक्षोस्तस्यान्तिकं मां नेतुं न ते युक्तं, आग्रहातिशयश्चेत् तव, तदा पुनरिमां कथामाख्यामि शृणु।
अस्ति चित्रकूटं नाम नगरम्। तत्रासीत् प्रणयिचक्षुषाममृतासारवर्षी राजशिरोमणिश्चन्द्रालोको नाम। विद्वांसःयं शौर्य्यकरिणः आलाभंदानस्योत्पत्तिनिकेतनं रूपस्य च विलासभवनं वदन्ति स्म। सर्वसम्पत्पूर्णस्वापि तस्य सदृशीं भार्य्यामप्राप्तवतस्तस्य हृदि महानुद्वेमः समभवत्।
एकदासौ राजा उद्देगविनोदाय अश्वोद्यसैनिकपरिवृतोमृगयार्थं महाटवीं जगाम। तत्र निरन्तरैः शरैः वराहवृन्दानि श्यामलानि तमांसीव रत्रिः करैः भिन्दन् समरदुर्मदान् सिंहान् शरशय्यासु शाययन् शरभांश्च पर्वतोपमान् कुलिशकर्कशप्रासपातैः पातयन् विचचार। इत्थं मृगानन्विष्यन् तीव्रपार्ष्णि प्रहारेण वाजिनं भृशं ताड़यामास। स च वाजी कशाघातेन पार्ष्णिघातेन च गाढं ताड़ितो विषमं समञ्चागणयन् क्षणात् वाताधिकजवेन तं भूपं वनान्तरं नयन् दश योजनानि अतिक्रमयामास। इत्थं वाहे चलिते राजा दिङ्मोहृमुपेत्य भ्रमन् श्रान्तः आरात् एकं विपुलं सरो ददर्श। तत्र गत्वा च तुरगं विपर्य्याणं कृत्वा स्नातपीतं तरुच्छायासु कतिपयान् यवसान् तस्मै दत्त्वा च स्वयं कृतस्नानः सलिलं पिबन् विगतश्रमो रम्येषु तत्तत्प्रदेशेषु दृष्टिं निक्षिपन् एकस्मिन् अशोकतरोरधस्तात् कामपि आमुक्तपुष्पाभरणां वल्कलांशुकशोभिनीं बज्रमुग्धजटाजूटसविशेषमनोरमां सखीद्वितीयाम् आश्चर्य्यरूपां मुनिकन्यां ददर्श। चिन्तयामास च कामशराहतः, केयम्? किंस्वित् सावित्री सरसीषु स्नातुमा-गता? आहोस्वित् स्वामिविभ्रष्टा गौरी पुनस्तपः कर्त्तुं प्रवृत्ता? किंवा दिवातनीं कान्तिं प्रेप्सुम् इन्दोः श्रियं धृतव्रताम्? तदेनामुपसृत्य वार्त्तामुपलप्से इत्यालोच शनैस्तस्याः समीपमाययौ। सापि तमायान्तं दृष्ट्वा तद्रूपेण समाकृष्टचित्ता प्रारब्धपुष्पस्त्रक्सन्नहस्ता व्यचिन्तयत् कोऽयमीदृक् अस्मिन्नरण्ये, विद्याधरः कोऽपि वा, चरितार्थे ममाद्य दृशौ, इत्थं वितर्क्य त्रपया तिर्य्यक् पश्यन्ती उत्थाय सोरुस्तम्भापि गन्तुं प्रावर्त्तत। अथ राजा तामुपेत्याब्रवीत् सुन्दरि! प्रथमदृष्टस्य दर्शनमात्रार्थिनः दूरागतस्य जनस्य स्वागतादिकमास्तां कोऽयमाश्रमिधर्मः यदेतस्मात् पलाय्यते। इति तेन राज्ञाभिहिते विचक्षणा तदीया सखी तत्र राजानमुपवेश्य अतिथिसत्क्रियामकरोत्। अथ राजा तां सविनयमप्राक्षीत् भद्रे! अनया तव सख्या कः पुण्यवान् वंशः अलंक्रियते? कानि वास्याः कर्णरसायनानि नामाक्षराणि? कथं वा अनया कुसुमसुकुमारमिदं वपुः ईदृशे वयसि तापस्या वृत्त्या विजने कदर्थीक्रियते? एतत् राजवचनमाकर्ण्य सखी तं प्रत्यभाषत महाभाग! एषा महर्षेः कण्वस्य कन्यका मेनकासम्भवा आश्रम एव वर्द्धिता इन्दीवरप्रभा नाम। अस्मिन् सरसि पितुरनुज्ञया स्नातुमागता। इतो नातिदूरे अस्याः पितुराश्रमः। इत्यभिहितो राजा सम्प्रहृष्टः तुरङ्गमेमारुह्य तां कन्यां याचितुं महर्षेः कण्वस्याश्रममगात्, प्राविशच्च विनीतवेशस्तमाश्रमं बहिःस्थापितवाहः। प्रविश्य च राजा जटावल्कलधरैः पादपैरिव तापसैः परिवृतं तेजसा चन्द्रमिव आह्नादिनं तम् ऋषि कण्वमद्राक्षीत्। दृष्ट्वैवोपेत्य तं पादयोर्ववन्दे। सोऽपि ज्ञानी मुनिः कृतातिथ्यं विश्रान्तं तमभाषत वत्स! चन्द्रालोक! श्रुणु यदहं वच्मिते हितम्। संसारेऽस्मिन् प्राणिनां मृत्युभयं यादृक् तदहं जानामि। तत् निरर्थकं कथमिमान् मृगादीन् हंसि? भीतरक्षार्थमेव धात्रा क्षत्रस्य शस्त्रं सृष्टं, तत् धर्मेण प्रजा रक्ष, कण्टकान् समुन्मूलय। हस्त्यश्वादिभिः साधनैः चलां लक्ष्मीं साधयितुं यतस्व, राज्यसुखं भुङ्क्ष्व, दानं देहि, दिक्षु यशांसि विकिर, कृतान्तक्रीड़ितं मृगयाव्यसन परित्यज यत्र हन्तुर्हन्यमानस्य च तुल्यप्रमादितास्ति, तेन बह्वनर्थेन अनेन व्यापारेण किम्? पाण्डोर्नृपस्य वृत्तं त्वया किं न श्रुतम्? एतदाकर्ण्य मुनिवचनं कार्य्यज्ञो नृपः समभिनन्द्य प्रत्यभाषत भगवन्! अनुशिष्टोऽस्मि, महान् अनुग्रहो मे कृतः अनेन अनुशासनेन। अद्य प्रभृति मृगयानिवृत्तोऽभवं, प्राणिनो निर्भयाः सन्तु। तदाकर्ण्य मुनिरब्रवीत् तुष्टोऽस्मि तवामुना प्राणिष्वभयदानेन, तदीप्सितं वरं वृणीष्व इति। ततः स कालज्ञो नृपतिरब्रवीत् भगवन्! प्रसन्नोऽसि चेत्, सुप्तामिन्दीवरप्रभां मह्यं देहि। इत्यर्थितः स मुनिस्तस्मै स्नातागतां तामप्सरःसम्भवां कन्यां प्रददौ। ततः कृतविवाहः मङ्गलालङ्कृतः तां मुनिपत्नोकृतप्रसाधनाम् उद्वाष्पैस्तापसैरानिजा- श्रमात् कृतानुयात्रां तामिन्दीवरप्रभां भार्यामादाय वाजिनमारुह्य राजधानींप्रतस्थे।
एतस्मिन्नन्तरे दूराध्वगमनक्लान्तं तं नृपं वोक्ष्य भगवान् सहस्ररश्मिः खिन्न इव अस्ताचलशिरसि समुपाविशत्। ददृशे च रात्र्यभिसारिका मृगनेत्रा क्रमादुद्रिक्तमन्मया ध्वान्तनीलपटप्रावृता। तस्मिंश्वावसरे राजा जलाशयतीरवर्त्तिनं शाखापल्लवसंच्छन्नशाहलश्यामलस्थलम् अश्वत्थपादपं दृष्ट्वा इह रात्रिं वसामि इति मनसि अकरोत्। ततस्तुरगादवतीर्य्य तस्मै वाजिने तृणोदकं दत्त्वा वाप्यास्तस्याः सलिलानि पीत्वा प्रियया सह विशश्राम। तत्कालञ्च शशलाच्छनः सरागः तिमिरांशुकहारी समाक्रम्य प्राच्या मुखं चुचुम्बे चन्द्रकिरणैः समाश्लिष्य प्रसाधिता वीतमानावकाशाः शेषाञ्च दिशो विरेजुः। अत्रान्तरं लतागुल्मविवरप्रसृतैरेन्टवैः रत्नदीपाभैः करैस्तरुमूले अवभासिते स राजा तामिन्दीवरप्रभां नवसङ्गसरसोल्लासामाश्लिष्य सुरतोत्सवं सिषेवे। विस्रंसयामास च तस्यास्त्रपामिव नीवीम्। खण्डयामास च दशनैस्तस्या मुग्धभावमिवाधरम्। रचयामास च यौवनद्विपकुम्भयोः तस्याः कुचयोः सद्रत्ननवनक्षत्रमाला इव नखक्षतानि। चुचुम्ब च मुहुः सर्वतो लावण्यामृतनिस्यन्दमिव पिबन् मुखं कपोलौ नयने च। इत्थं तया सह निधुवनक्रीड़या तत्र तां निशां क्षणमिवानयत्।
अथ प्रातः समुत्थाय छतसान्ध्यविधिः स्वसैन्यानुसन्धानाय तया कान्तया सह प्रयातुमुत्सुकोऽभवत्। तावच्च रजन्यां विलुप्तकमलिनीशोभं भियेव अस्ताचलकुहरप्रलीनं ध्वस्ततेजसं निशापतिं हन्तुकाम इव क्रोधादाताम्रतररोचिषि प्रसारितकरैरुत्क्षिप्तचन्द्रमण्डले विवस्वति अकस्मात् विद्युत्पिशङ्गजटः कज्जलश्यामलः कालमेघ इव कश्चित् अन्त्रमालाकृतोत्तंसः केशयज्ञोपवीती ब्रह्मराक्षसः नरशिरोमांसं खादन् कपालेन शोणितं पिबंश्च समाजगाम। स अट्टहासं विमुच्य क्रुधा अग्निं वमन्निव दंष्ट्राकरालो राजानं तं निर्भत् सन्नत्रवीत् पाप! ज्वालामुखं नाम मां ब्रह्मराक्षसं विद्धि!एष चाश्वत्थो मे निवासः देवैरपि न लङ्घयते। सोऽयं त्वया स्त्रिया सह समाक्रम्य परिभुक्तः, तदविनयमिदानीं भुङ्क्ष्व, दुराचार! एषोऽहं कामोपहतचेतसः ते हृदयमुत्पाट्य भोक्ष्ये शोणितञ्च पास्यामि। तदाकर्ण्यं तञ्च घोरं राक्षसमबध्यमवेक्ष्य दृष्ट्वा च कान्तां भयविह्वलां, भयात् राजा सविनयमवादीत् अजानता मया ते अपरार्द्धं तत् क्षमस्व, तवाश्रमेऽहमतिथिस्त्वां शरणं गतः। दास्यामि च ते ईप्सितं पुरुषं पशुम्। येन ते तृप्तिर्भविता, तत् प्रसीद क्रोधं परिहर इति राज्ञो वचनमाकय स ब्रह्मराक्षसः शान्तकोषः अस्तु को दोष इति विविच्य प्रत्यभाषत राजन्! यः सप्तवर्षीय : महासत्त्वः विवेकवान् ब्राह्मणपुत्रः स्वेच्छयात्वदर्थमात्मानं दद्यात्, यञ्च हन्यमानं तन्माता हस्तयोः तत्पिता च पादयोः सुदृढ़ महोतले सन्निवेश्य अवष्टभ्नाति, सप्तदिनाभ्यन्तरे तादृशं पुरुषं स्वयं खड्गप्रहारेण मह्यमुपहारीकरोषि चेत् तदा ते इमं न्यक्कारं क्षमिष्मे, अन्यथा त्वां सपरिच्वदं सद्यो नाशयिष्यामि। श्रुत्वैतत् स राजा भयात् तथेति प्रतिपेदे। सोऽपि ब्रह्मराक्षसः तत्क्षणात् तिरोबभूवे।
अथ राजा चन्द्रालोकस्तया इन्दीवरप्रभया सह हयारुढ़ः सुदुर्मना इतस्ततः सैन्यानि विचिन्वन् प्रायात्। अहो! अहं मृगयया मदनेन च विमोहितः अकाण्डे पाण्डुरिव विनाशं गतः, अस्य रक्षसः तादृशः उपहारः कुतो लभ्यते? तदिदानीं निजमेव नगरं यामि, पश्यामि किं भावि। इति ध्यायन् सः समन्तात् अन्विष्यन् स्वसैन्यं स्वनगरं चित्रकूटञ्च प्राप। तत्र अनुरूपभार्य्यालाभेन परितुष्टाभिः प्रकृतिभिः महोत्सवे विहितेऽपि अन्तर्गतविषादस्य तस्य दुःखदुःखेनैव दिनशेषो व्यपगमत्। द्वितीयेऽहनि स रहसि मन्त्रिभ्यः तं सर्वं वृत्तान्तमाचचक्षे। तेषाञ्चैकः सुमतिर्मन्त्रीप्रत्यब्रवीत् देव! विषादस्ते माभूत्, अहमन्विष्यन् तादृशमुपहारमानेष्यामि, विचित्रा हि मेदिनी। एवं राजानमाश्वास्य स मन्त्री सौवर्णीं शिशुप्रतिमामकरोत्। यः सप्तवर्षदेशीयः विप्रपुत्रः सत्त्ववान् आत्मानं मातापित्रोरनुज्ञया ब्रह्मरक्षसः उपहाराय प्रयच्छति, यश्च हन्यमानस्ताभ्यां मातापितृभ्यां हस्तपादे प्रगृह्यते, राजा तत्पित्रोरुपकारार्थं ग्रामशतसहितां रत्नयुक्तामिमां सौवर्णीं प्रतिमां तस्मै दास्यति। इति तां शिशप्रतिकृतिं भ्रामयन् स मन्त्री अजस्रं पटहोद्घोषणमकारयत्।
एतदाकर्ण्य एकस्मिन्नग्रहारे कश्चित् द्विजशिशुः सप्तवर्षदेशीयोऽपि प्रतिधीरः अद्भुताकृतिः बाल्येऽपि सदा परहिते रतः प्रजानां पुण्यपरिपाक इव मूर्त्तिमान् उद्घोषकान् प्रोवाच भद्राः! युष्मदर्थे अहमात्मानं ददामि तिष्ठत, पितरौ बोधयित्वा द्रुतमामच्छामि। इति तानभिधाय तैश्चानुमतः स बालः गृहं गत्वा रचिताञ्जलिः पितरावब्रवीत् अम्ब! तात! अहं सर्वसत्त्वार्थं एवं विनश्वरं देहं ददामि, तन्मामनुजानीतं, इमाञ्च राजदत्तां हेमरत्नमयीं ग्रामशतान्वितां आत्मप्रतिकृतिं गृहीत्वा वां वितरामि, एवं सति मम युष्मदानृष्यं परार्थश्च सिध्यति। युवाञ्च चिरमदरिद्रौबहून् पुत्रानबाप्स्यथः। इति वादिनं तं सहसा तौ पितरौ अवोचतां पुत्र! किमेतद् भाषसे? वातेन किं क्षुभितोऽसि, किंवा ग्रहग्रहीतोसि अन्यथा कथमेवं प्रलपसि। को हि अर्थैः शिशुं घातयेत्। कश्च शिशुः देहं दद्यात्। एतत् पित्रोर्वचः श्रुत्वा स बालः पुनरुवाच नाहं बुद्धिमोहात् ब्रवीमि, शृणुतं मे अर्थवत् वचनम्। अवाच्याशुचिपूर्णं जुगुप्सितं दुःखक्षेत्रं शरीरमिदम् अचिरात् विनाशि, तदेतेन अत्यसारेण यदि किञ्चित् सुकृतमुपार्ज्यते, तदेव अस्मिन् संसारे सारमिति बुधैरुच्यते सर्वभूतोपकारादन्यत् किमस्ति सुकृतम्? तत्रापि पित्रोर्भक्तिश्चेत् साध्यते तदा देहादन्यत् किमिव अधिकं सम्पत्स्यते? इत्येवं धीरवचनैः सुदृढ़निश्चयः स शिशुः शोचन्तौ पितरौ स्वमनीषितमङ्गीकारयामास। गत्वा च राजभृत्येभ्यः तां हिरण्मयीं शतग्रामशासनसहितां आनीय ताभ्यां पितृभ्यां प्रददौ।
अथ तान् राजभृत्यानग्रतः कृत्वा स बालकः पितृभ्यामन्वितः चित्रकूटं नगर प्रति प्रायात्। तत्र प्राप्तं अखण्डिततेजसं तं बालकं रक्षारत्नमिव दृष्ट्वा नृपतिः भृशं ननन्द, तञ्च रचितमाल्यविलेपनं गजपृष्ठमारोप्य सपितृकं तत् व्रह्मरक्षसः सदनं निनाय। तत्र तस्याश्वत्थस्य पार्श्वतः मण्डलमालिख्य पुरोहितेन कृतपूजेन वह्नौ हुते स ब्रह्मराक्षसः मुक्ताट्टहासः स्वाध्यायं पठन् घूर्णन् रक्तासवक्षीवः मुहुः श्वसन् जृम्ममाणः नेत्रैर्ज्वलन् दिशः देहच्छायया अन्धकारिताः कुर्वन् ज्वालामुखो महारौद्रदर्शनः प्रादुरभूत्। ततो राजा तं दृष्ट्वा विनीतः प्राब्रवीत् भगवन्! अयं तव अभिमतो नरोपहारः समानीतः अद्य स सप्तमो दिवसस्ते प्रतिज्ञायाः। तत् प्रसीद गृहाण इममुपहारं यथाविधि। इति राज्ञार्थितः स ब्रह्मराक्षसः जिह्वया सुक्कणी लिहन् तमुपहारभूतं विप्रसुतमवलोकयामास। क्षणे च तस्मिन् स बालो महासत्त्वो हृष्टो व्यचिन्तयत् अनेन स्वदेहदानेन यन्मया सुकृतम् अर्जितं तेन मे स्वर्गो वा निरुपक्रियो मोक्षो माभूत्, जन्मनि जन्मनि मे परार्थो देहो भूयात्। इति तस्मिन् चिन्तयत्येव क्षणात् पुष्पवृष्टिमुचां देवानां विमानैः नभस्तलमापूर्य्यत। अथ तस्य ब्रह्मरक्षसः पुरतः स्थापितं तं बालं माता करयोः पिता चरणयोरग्रहीत्। ततो यावत् खड्गमाकृष्य राजा तं जिघांसति तावत् स शिशुस्तथा जहास यथा सब्रह्मराक्षसास्ते सर्वो स्वं स्वं कर्म त्यक्त्वा तन्मुखप्रेक्षिणः कृताञ्जलयः प्रह्वाश्चाभवन्। इति विचित्रां कथामाख्याय स वेतालस्तं पुनरब्रवीत् राजन्! तेन बालकेन तादृशे तस्मिन् प्राणान्तसमये यत् हसितं तस्य को हेतुः? महदच कौतुकं मम यदि न वक्ष्यामि जानन्नपि, तदा ते मूर्द्धा दशधा विदलिष्यति। एतदाकर्ण्य स राजा तं प्रत्यभाषत शृणु तस्य शिशोर्हासे अभिप्रायम्। यो हि दुर्बलो जन्तुः भये प्रत्युपस्थिते प्राणार्थं मातरं पितरं तदभावे राजानं त्राणार्थं विधात्रा निर्मितम् एषाञ्चालाभे देवतामाक्रन्दति, तस्य एकोऽपि एतेषु आश्रयो भवेत्, अस्य तु सर्वमेव अन्यथा जातम्। पितृभ्यां हस्तपादं रुद्धं तयोरर्थतृष्णया। राजा च आत्मानं त्रातुं स्वयं हन्तुमुद्यतः। ब्रह्मरक्षः दैवतमपि तस्य भक्षणार्थमु- पस्थितम्। अध्रुवस्य अन्तविरसस्य आधिव्याधियुक्तस्य देहस्यार्थे विमूढ़ानामीदृक् विडम्बनं यत्र ब्रह्मविष्णुरुद्रादयोऽपि अवश्यं विनाशिनः तत्रैषाम् ईदृशानां शरीरस्थैर्य्यवासना कापि? एतत् मोहवैचित्र्यामेषां दृष्ट्वा वाञ्छितं सिद्धञ्च मत्वा आश्चर्य्यहर्षोदयात् स द्विजशिशुर्जहास। इति राजवचनमाकर्ण्य स वेतालः तस्य स्कन्धात् भूयोऽपि स्वकं निलयमाससाद \। राजापि दृढ़सङ्कल्पस्त- मनुययौ। अम्भोनिधीनामिव सतां हृदयमक्षोभ्यं हि।
———————
अथ एकविंशकथा
<MISSING_FIG href="../books_images/U-IMG-1722912242123456.png"/>
अथ राजा पुनः शिंशपामूलं गत्वा तं वेतालं स्कन्धेनादाय सत्वरं प्रतस्थे। तञ्च प्रस्थितं दृष्ट्वा स्कन्धवर्त्ती स वेतालः प्राब्रवीत् राजन्! उद्गाढ़कन्दर्पामेकां कथां शृणु कथयामि।
अस्ति अमरावतीव पुरा सुकृतिनां दिवश्च्युतानां कृते धात्रा विहिता विशाला नाम पुरी। तस्यामासीत् सच्चक्रनन्दनः श्रीमान् आक्रान्तबलिराजकः पद्मनाभ इति विश्रुतो नृपतिः। तस्मिंश्च राजनि तस्यां नगर्य्यां महाबणिक् अर्थदत्तो नाम धनैर्विजित-धनपतिः प्रतिवसति स्म। तस्य अनङ्गमञ्जरीति एका सुता उदपद्यत। यया सुरसुन्दरीप्रतिकृतिर्धात्रा दर्शिता। तेन बणिजा ताम्रलिप्ति-निवासिने मणिवर्म नाम्ने बणिजे सुता सा प्रदत्ता। एकापत्यतया चातिवत्सलः स बणिक् तां भर्त्तृयुक्तां कन्यामनङ्गमञ्जरीं न तत्याज। स तु मणिवर्मा रोगिणः कटुतिक्तमौषधमिव तस्या अनङ्गमञ्जर्य्याः द्वेष्यो बभूव। भर्त्तुस्तु तस्य सा सुन्दरी जीवितादपि कृपणस्य सुचिरसञ्चिता समृद्धिरिव प्रियतराभूत्।
एकदासौ मणिवर्मा उत्कण्ठया पित्रोरन्तिकगमनाय ताम्रलिप्तिं प्रातिष्ठत। ततो दिनेषु गच्छत्सु तीक्ष्णसूर्य्यांशुसायकैः प्रोषितानां निरुद्धमार्गः निदाघकालः समुपस्थितः। वसन्तविरहात् ककुभां मुखनिःश्वासा इव मल्लिकापाटलामोदमेदुरा मरुतो वान्ति स्म। पवनोद्धूता रेणुराजयः तप्तया भुवा घनागमायेव गगनं प्रहिता दूत्य इव समुत्पेतुः। दिवसा अपि कठोरातपतापिता आकाङ्क्षिततरुच्छायाः पथिका इव चिरेण यान्ति स्म। निशा च चन्द्रांशुपाण्डुरच्छायाः गाढ़ाश्लेषसुखप्रदं हेमन्तं विना अतिदुर्बलतां ययुः। एतस्मिन् समये चन्दनानुलिप्ताङ्गी परिहिततनुवसना स्वगृहवातायनस्थिता अनङ्गमञ्जरी कमपि आप्तेन सुहृदा सहितं भव्यं युवानं रतिप्राप्तये सञ्चरन्तं नवोत्पन्नं स्मरमिव कमलाकरं नामानं राजपुरोहितसुतं ददर्श। सोऽपि कमलाकरः इन्दोरिव मूर्त्तिमुपरिस्थितां तां कान्तां दृष्ट्वा सानन्दः कुमुदाकरतामभजत। तदा तयोर्यूनोरन्योन्यावलोकनं स्मरस्य गुरोरनुज्ञया अचूर्णं मनःसंवलनमभूत्। इत्थं तां दृष्ट्वैव स कमलाकरः सद्यो मदनाविष्टः सुहृदा तेन कथञ्चित् स्वं भवनमनीयत। सा चानङ्गमञ्जरी तथैव मन्मथमोहिता सख्या मुखात् तन्नामधामनी श्रुत्वा तयैव सह शनैः वासकं विवेश। तत्र तं कान्तं सञ्चिन्तयन्ती कामज्वरातुरा शयनीये केवलं लुठन्ती किमपि नापश्यत् नाप्यशृणोत्।
इत्थं गतेषु द्वित्रेषु दिनेषु सत्रपा सभया विरहेण कृशपाण्डुरा दुष्प्रापप्रियसम्भोगनिरास्था नक्तमेकदा गवाक्षप्रेरितकरेणेन्दुना आकृष्टेव सुप्ते परिजने निर्गत्य मरणनिश्चया स्वगृहोद्यानवापीं तरुतलवर्त्तिनीमगात्। तत्र पित्रा कृतप्रतिष्ठां कुलदेवतां चण्डीं समुपेत्य प्रणम्य स्तुत्वा च व्यजिज्ञपत् देवि! अस्मिन् जन्मनि चेत् न मया कमलाकरः पतिः प्राप्तः, तदा अन्यस्मिन् जन्मनि स मम पतिर्भूयादिति प्रार्थ्ये तस्या देव्याः पुरतः अशोकपादपे स्वोत्तरीयेण पाशं विरचयामास। तावच्च तस्याः सा आप्ता सखी प्रबुध्य वासके तामदृष्ट्वा चिन्वती दैवात् तदुद्यानमगात्। तत्र चागत्य तां गले पाशं योजयन्तीं दृष्ट्वा मा मा इत्युक्त्वा प्रधाव्यैव तस्यास्तं पाशमच्छिनत्। सापि तां हृतपाशां निजां सखीं प्राप्तां दृष्ट्वा अतिदुःखिता भूमौ पपात। ततश्च सख्या तया समाश्वासिता पृष्टा च दुःखहेतुं समुत्थाय
तामकथयत् सखि मालति! दुर्लभ तस्मिन् प्रियसङ्गमे पित्रादिपरतन्त्राया मे मरणात् परं सुखं नास्ति। इति ब्रुवाणा भृशमनङ्गशराग्निज्वलिता नैराश्यनिश्चयवती मोहं जगाम। हा कष्टं स्मरस्य शासनं तथा दुर्लङ्घ्यं यथा इयमेतां दशां नीता इति विलपन्ती सा मालती सखी तां शीताम्बुपवनादिभिः शनैराश्वासयामास। चकार चास्याः तापोपशान्तये नलिनीदलैः शय्याम्। ददौ हृदये तुहिनशीतलं हारम्। ततः सा अनङ्गमञ्जरी लब्धसंज्ञा शनैः तां सखीम् उद्वाष्पां प्रोवाच सखि! हारादिभिः नायं मे अन्तर्दाहः प्रशाम्यति। यदि मां जीवितामिच्छसि तदा सुयुक्त्या तेन कान्तेन मां योजय। एवं वादिनीं तां स्नेहार्द्रा मालती प्राब्रवीत् सखि! प्रायेणाद्य निशा गता, तत् प्रातरेव इह तं ते प्रियतमं सङ्केतेन आनेष्यामि। तस्मादालम्ब्य धृतिमधुना स्वं निवेशनं गच्छ। इत्युक्तवत्यै सख्यै सानङ्गमञ्चरी तुष्टा कण्ठादाकृष्य हारं पारितोषिकं दत्तवती। गच्छाव इदानीं स्वगृहं, ततः प्रातः कार्य्यसिद्धये गन्तव्यं त्वया इति तां सखीमुपदिश्य सा स्वमावासं प्राविशत्।
अथ प्रातः स मालतिका केनाप्यनुपलक्षिता तस्य कमलाकरस्य भवनं चिन्वती गत्वा तत्रोद्यानतरुमूले चन्दनार्द्र पद्मिनीदलशय्यायां स्थितम् एकेन रहस्यविदा सहृदा कदलीदलवीजनैराश्वास्यमानं कामाग्निना दंदह्यमानं तं कमलाकरमद्राक्षीत्। सा तु मम सख्या विना एतस्य इदृशी कामावस्था स्यात् न वेति वेदितुं प्रच्छन्ना विनिश्चयं तस्थौ। तावत् सुहृत् स कमलाकरमवादीत् मित्र! क्षणमत्र मनोरमे उद्याने दत्तदृष्टिरन्तःकरणं विनोदय, मा भृशं व्याकुलतां गमः। तदाकर्ण्य स सुहृदं तं जगाद मम अनङ्गमञ्जर्य्या मनो हृतं तदिदं मदीये शरीर एव नास्ति कुतो विनोदयामि। स्मरेणाहं शून्यहृदयो बाणतूणीकृतोऽस्मि, तत् यथा तां मनश्चौरीं प्राप्नोमि तथोपायं विधत्स्व। इति तेनोक्ते सा मालती निःशङ्का सम्प्रहृष्टा समुपेत्य आत्मानं प्रदर्श्य तमुवाच सुभग! अनङ्गमञ्जर्य्या तवान्तिकं प्रहितास्मि, निसृष्टाहं ते सन्देशं ब्रवीमि। क एष शिष्टधर्मः, यत् हठात्हृदयं प्रविश्य मुग्धाया मनः मुषित्वा गम्यते। चित्रमिदं तथापि वामदृशा तया अधुना मनोहराय तुभ्यं देहोऽपि प्राणैः सह दातुमिष्यते। सा हि सन्तप्तान् दिवानिशं हृदि ज्वलितस्य कामाग्नेर्धूमानिव निःश्वासान् विमुञ्चति, मुहश्वास्याः साञ्जना वाष्पविन्दवः वदनाम्भोजसौरभलुब्धा मधुकराः इव सम्पतन्ति। तद् यदीच्छसि तत् उभयोः शिवं वच्मि। इति मालत्या तथोक्तः कमलाकरः प्रोवाच भद्रे! तवेयं वाक् विधुरावस्थां बद्धभावाञ्च मे प्रियां वदन्ती भयं करोति आश्वासयति च। तदेका त्वमेवात्र गतिः, तत् यथोपायं कुरुष्व। इति तेनोक्ते मालती प्रत्यवोचत् अद्य तामनङ्गमञ्जरीं गुप्तं नक्तं स्वभवनोद्यानं प्रापयिष्यामि त्वं तत्र वाह्यतः तिष्ठेः। ततस्त्वां सुयुक्त्या तत्र प्रवेशयिष्यामि, इत्थं युवयोः समागमो भविता। इति कथयित्वा तं विप्रपुत्रमानन्द्य मालती कृतार्था गत्वा तामनङ्गमञ्जरोम् अभ्यनन्दयत्।
अथाङ्का सह दिनपतौ सन्ध्यानुरागिणि क्वापि गते, वासवाशया स्वानने इन्दुतिलकेन प्रसाधिते पद्माकरं त्यक्त्वा श्रीरिदानीं मां प्राप्तेति हर्षात् उत्फुल्लवदने विशदे कुमुदाकरे हसति स कामी कमलाकरः प्रसाधिताङ्गः समुत्सुकः स्वैरं कान्तायास्तस्था गृहोद्यानद्वारि समुपागमत्। मालती च तामनङ्गमञ्जरीं कृच्छात् गमितवासरां युक्त्या तद् गृहोद्यानमानिनाय। आनीय तां चूतशाखिनां तलेषु समुपवेश्य निर्गत्य तत्र तं कमलाकरं प्रावेशयत्। स च प्रविश्य पान्थ इव पत्रौघघनपादपमध्यवर्त्तिनीं छायामिव तामनङ्गमञ्जरीमद्राक्षीत्। यावच्च स तामुपैति तावत् सा दृष्ट्रैव प्रधाव्य कामावेशहृतव्रीड़ा कण्ठे तं सहसाग्रहीत्। क्व यासि लब्धोऽसि मया मनस्तस्कर! इत्यालपन्ती तत्क्षणं सा अतिहर्षभरस्तब्धनिःश्वासा पञ्चतामगात् पपात महीपृष्ठे वातरुगुणा लतेव, विचित्रं वत कामस्य विषमः क्रमः। तदशनिपातमुग्रं दृष्ट्वा स कमलाकरः सद्यः हा! हा! किमेतदित्युक्त्वा मूर्च्छितो निपपात। क्षणेन च लब्धसंज्ञस्तां प्रियामङ्कमारोप्य आलिङ्गन् परिचुम्बन् बहु विलपंश्च तथा दुःखातिभारेण प्रसह्य न्यपीड्यत यथा तस्यापि तदा हृदयम- स्फुटत्। अथ तौ तथा क्षीणौ दृष्ट्वा रजनो क्रिया भिया च क्षोणेवाभवत्।
अथ प्रातरुद्यानपालेभ्यस्तं वृत्तान्तं ज्ञात्वा तयोर्बन्धुजनः त्रपाश्वर्य्यदुःखमोहाकुलः तत्रागात् कर्त्तव्यमूढ़श्च चिरमवाङ्मुखः समभवच्च। हा! कष्टं कुयोषितः कुलखलीकारहेतवः। तस्मिंश्वावसरे तस्याः पतिः मणिवर्मा अनङ्गमञ्जर्य्यां सोत्कण्ठः ताम्म्रलिप्तितः पितृगृहात् समाययौ। स श्वाशुरं गृहं प्राप्य तं व्यापारमवेश्च च वाष्पान्धलोचनो ध्यायन् तदेवोद्यानमागत्य भार्य्यां तामन्यसहितामपि गतासुं दृष्ट्वा शोकाग्निज्वलिताङ्गः सद्यः प्राणान् विजहौ। ततः सर्वस्मिन् जने कोलाहलाकुले क्रन्दति ज्ञातवृत्तान्ताः सर्वे पौरास्तत्र समाययुः। अथानङ्गमञ्जर्य्याः पित्रा पूर्वं प्रतिष्ठापिता सन्निहिता देवी चण्डी निजैः गणैः सकृपैः विज्ञप्ताभूत् मातः! त्वदाकारप्रतिष्ठापयितायमर्थदत्तः सदैव ते भक्तो बणिक्, तदस्य अस्मिन् दुःखे दयां वितरतु भगवतीति। एतद् गणेभ्यः श्रुत्वा शरण्यासा शङ्करी शान्तानङ्गास्त्रयोऽपि एते जोवन्तु इति समादिशत्। अथ सर्वेऽपि सुप्तप्रबुद्धा द्रव क्षणात् तत्प्रसादात् जीवन्तो गतमन्मयाः समुत्तश्चुः। ततो दृष्ट्वा तद्व्यापारं सानन्दे तत्रत्ये सर्वस्मिन् जने कमलाकरः लज्जावनतमुखः स्वगृहं प्रायात्। अदत्तोऽपि तां द्विप्तांसुतामनङ्गमज्ञ्जरींभर्त्तृसहितामादाय सोत्सवं गृहं प्रविवेश। इति कथां कथयित्वा तस्यां रात्रौ पथि स वेतालः तं क्षौणीपतिमगदत् राजन्! कस्यैतेषु अनुरागमरणे मोहातिरेकः? जानंश्च न चेत् वदसि, तदा स पूर्वोक्त एव शापः स्मरणीयः। तदाकर्ण्य राजा तं प्रत्युवाच योगेश्वर! एतेषु मणिवर्मा एवातिमूढो, यो हि भार्य्यामन्यपुरुषासक्तमृतां दृष्ट्वैव कोपकाले प्रत्युत रक्तः शुचा प्राणानमुञ्चत्। इति निगदितवतस्तस्य नृपतेः स्कन्धात् स वेतालः सहसा स्वं निलयं प्रतस्थे। राजापि भूयस्तथैव कृतप्रयत्नस्तमन्वधावत्।
——————
अथ द्वाविंशकथा
<MISSING_FIG href="../books_images/U-IMG-17224876521234569.png"/>
अथ राजा तमेव शिंशपातरुं गत्वा तञ्च वेतालमादाय स्कन्धे आरोप्यं च गन्तव्यभूमिमभिप्रतस्थे। तञ्चप्रस्थितं पथि पुनः वेतालः प्राक्रमत वक्तुं राजन्! साधु सुसत्त्वस्त्वं तदपूर्वामिमामपरां कथां कथयामि श्रूयताम्।
अस्ति कुसुमपुर नाम नगरम्। तत्रासीत् धरणीवराहो नाम भूपतिः। तस्य ब्राह्मणभूयिष्ठे राज्ये ब्रह्मस्थलाभिधोऽग्रहारोऽभवत्। तत्र विष्णुस्वामी नाम कोऽपि द्विजः प्रतिवसतिस्म। तस्य हविर्भुज इव स्वाहा नाम भार्य्याभूत्। तस्यां तस्य चत्वारः सुता जज्ञिरे। ते च कालक्रमेण पितरि स्वर्गते ज्ञातिभिर्हृतसर्वस्वा मिथो मन्त्रयाञ्चक्रुः इहास्माकं गतिर्नास्ति तदन्यत्र वयं व्रजाम इति मन्त्रयित्वा यज्ञस्थलाभिधे ग्रामे मातामहावासं बहुभिर्दिनैरगमन्। तत्र मातामहाभावात् मातुलैः सुसत्कृताः स्वाध्यायतत्परास्तस्थुः। कालक्रमेण ते अकिञ्चनाः भोजनाच्छादनादिषु तेषां मातुलानामवज्ञाभाजनतां जग्मुः। ततः स्वजनजेना- वमानेन हतात्मनां तेषां ज्येष्ठः रहसि तानब्रवीत् भ्रातरः! किं क्रियते, सर्वे विधिकृतमवधारयत। पुरुषस्येह कस्यचित् क्वचित् किमपि कर्त्तुं न शक्यम्। अहं हि उद्वेगेन भ्राम्यन् काननं प्राप्तः, अद्य विपन्नस्थितं स्रस्ताङ्गं पुरुषं भुवि अद्राक्षमचिन्तयञ्च तां गतिं स्पृहयन्। अयं हि धन्यः, यः दुःखभार विमुच्य स्थितः। इति संचिन्त्य तत्कालं मरणनिश्चयं कृत्वा वृक्षाग्रलम्बिना पाशेन आत्मानमुदलम्बयम्। यावच्च विसंज्ञस्य मे असवो न निर्यान्ति, तावत् त्रुटितपाशोऽहं महीतले पतितोऽस्मि। लब्धसंज्ञश्च केनापि कृपालुना पुंसा तत्क्षणमागतेन पटमारुतैराश्वास्यमानमपश्यम्। ततः स मामब्रवीत् सखे! कथय विद्वानपि कं प्रति एवं खिद्यसे? सुकृती सुखमाप्नोति, दुष्कृती दुष्कृतादेव दुःखमाप्नोति नान्यतः। दुःखात् यदि तवेदृशःसमुदयोगः, तत् सुकृतं समाचर। आत्मघातेन कथं नारकदुःखमभिवाञ्छसि। इत्युक्त्वामां समाश्वास्य स पुमान् क्वापि गतः।अहञ्च तादृशं मरणोद्यमं त्यक्त्वा इहागतः। तदेव विधौ अनिच्छति मरणमपि न लभ्यते। इदानीं तपसा तीर्थे तनुं दाहयामि, येन पुनरहं निर्धनतादुःखभागीन स्याम्। इत्युक्तवन्तं तं ज्येष्ठं कनिष्ठाः प्राब्रुवन् आर्य्य! अर्थैर्विना कथं प्राज्ञोऽपि दुःखेन बाध्यते? किं न ज्ञायते? यदर्थानां शरदवचला गतिः। आहृत्य रक्ष्प्रमाणापि यत्नेन, अन्तविरसा अश्रुन्मैत्री च वेश्या श्रीश्च कस्य कदा स्थिरा? तदुद्योगिना ममस्विना स गुणः च कोऽपि उपार्जनीयः, येन हठात् बद्ध्वाअर्थहरिणः दुखमानीयते। इति भ्रातृभिरुक्तो ज्येष्ठः क्षणात् धैर्य्यमवलम्ब्यउवाच को गुणस्तादृक अर्जनीयो भवेदिति। ततः सर्वे ते विचिन्त्य परस्परं वदन्ति स्म, पृथ्वीं विदित्यकिमपि विज्ञानं वयं शिक्षामहे। एवं निश्चित्य सर्वे समागमे सङ्केतस्थानमुक्ता एकैकशः ते चत्वारो भ्रातरश्चतस्रो दिशः प्रययुः।
अथ गच्छति काले सर्वे सङ्केतनिकेतने मिलिताः केन किं शिक्षितमिति अन्योन्यमपृच्छन्। अथैषामेकोऽब्रवीत् मया ईदृक विज्ञानं शिक्षितं येन अस्थिशकलं प्राप्य यस्य कस्यचिदपि प्राणिनः तस्मिन् तदुचितानि मांसानि उत्पादयामि। एतदाकर्ण्य तेषु द्वितीयोऽवदत् अहं तथा विज्ञानमशिक्षे यथा सञ्जातमांसे अस्थिशकले तत्प्राणिसम्भवलोमानि त्वचश्च जनयितुं पारयामि। तृतीयोऽवदत् मया ईदृशं विज्ञानमधिगतं येन जातत्वङ्मांसलोमनि प्राण्यवयवान् चक्षुरादीन् स्रष्टुं जाने। चतुर्थोऽवादीत् अहम् उत्पन्नावयवं प्राणैर्युक्त कर्त्तुं शक्नोमि। एवं ते परस्परमुक्त्वा विज्ञानपरोक्षणाय चत्वारोऽपि अस्थिखण्डमानेतुमटवीं ययुः। विधिवशाच्च ते तत्र सिंहस्य अस्थिखण्डं प्रापुः। जगृहुश्च अविज्ञातविशेषा- स्तदेव। एकस्तत्समुचितैर्मांसैस्तदस्थिखण्डमयोजयत्। द्वितीयस्तस्य त्वचो लोमानि च उदपादयत्। तृतीयोऽपि समग्रैरिन्द्रियैस्तदपूरयत्। चतुर्थसु यदा तस्य सिंहोभूतस्य जीवितमदाद् तदा उद्भूतसटा- भारोऽतिभयङ्करः दंष्ट्राकरालवदनः खरनखाङ्कुशः समुत्तस्थौ। स च स्वोत्पादकान् तान् चतुरोऽपि समुत्थाय अबधीत् प्राविक्षञ्च सद्योऽरण्यम्। एवं ते द्विजपुत्राः सिंहनिर्माणदोषात् सर्व एव विनाशं गताः। दुष्ट जन्तुमुत्थाप्य कस्य वा सुखं भवेत्। इत्थं प्रतिकूले विधौ यत्न नोपार्जितो गुणः न सम्पत्तये, प्रत्युत विपत्तमे एव भवति। मूले दैवेअविक्कते प्रज्ञानवारिणा सिक्ष्नःपौरुषपादपः नवालवालः प्रायः फलति। इति कथां समाख्याय निशि गच्छन्तं तं भूपतिमपृच्छत् राजन्। पूर्वकृतं शापं स्मृत्वा वद कं एषां सिंहनिर्माणे विशेषेण अपराध्यति? इति श्रुत्वा राजासौ मौनीव्यचिन्तयत् अयं पुनर्गन्तुमिच्छति, यातु, पुनरहमेनमानेष्यामि, इति निश्चित्य तमवादीत् यस्तेषां मध्ये सिंहस्य प्राणदाता स एव पापकृत्। प्राणिविशेषमबुड्डा युक्तिबलात् यैर्मांसत्वग्लोमावयवनिर्माणं कृतं तेषामज्ञानात् नैव दोषोऽस्ति। येन तु सिंहाकारं दृष्ट्वापि विद्याप्रकाशकामेन प्राणास्तस्य दत्ताः तेनैव ता ब्रह्महत्याः कृताः। इति राज्ञो वचनं निशस्य स वेतालः स्वमेव धाम प्रायात्। राजापि पुनस्तमनुसरन् शिंशपान्तिकमगात्।
——————
अथ त्रयोविंशकथा
<MISSING_FIG href="../books_images/U-IMG-1722480514123456.png"/>
ततः स राजा शिंशपातरुमुपेत्य मौनी दर्शितानेकवैकृतं तं वेतालं स्कन्धे नीत्वा प्रातिष्ठत। वेतालोऽपि स्कन्धे स्थितस्तममब्रवीत् राजेन्द्र! अकार्य्येऽप्येतस्मिन् ते दुर्वारो ग्रहः, तत्ते श्रमविनोदाय कथामिमां कथयामि शृणु।
आसोत् कलिङ्गदेशे शोभावती नाम पुरी। यस्यां दिवीव सुकृतिनः प्रतिवसन्ति स्म। प्रद्युम्न इव ऐश्वर्य्यवीर्य्यातिशयेन विश्रुतः प्रद्युम्नो नाम नृपतिः समूर्जितशासनस्तां शसास। यस्मिंश्च राजनि चापेषु गुग्णापकर्षः, मुरजेषु कराहतिः, युगेषु कलिः प्रज्ञासु च तोक्ष्यता अश्रूयत। तस्याश्च पुनः क्वचित् प्रदेशी यज्ञस्थलाभिधानो बहुद्विजः कश्चिदग्रहारः नृपेण प्रतिष्ठापितः।
अत्र कश्चित् वेदपारगो महाधनो अग्निहोत्री पूजितातिथिदेवः यज्ञसोमो नाम ब्राह्मणः समवात्सीत्। तस्य वार्द्धके अनुरूपायां भार्य्यायाम् एक एव सुतः समुदपद्यत। स च बालः पितुः प्रयत्नात् दिने दिने वर्द्धमानः शुभलक्षणयुतः देवसोम इति पित्रा कृतनामधेयः पित्रोरतिस्नेहपात्रतामगात्। अथ प्राप्ते षोड़शे वर्षे स बालकः विद्याविनयादिभिरावर्जितसमस्तजनः सहसा ज्वरेणाक्रान्तः पञ्चतामवाप। ततः परासुं तं दृष्ट्वा समाश्लिष्य च हाहेति रुदन् यज्ञसोमः भार्य्यया सहितः स्नेहात् दाहाय न जहौ। ब्रह्मन्! गन्धर्वनगरस्येव संसारस्य गतिं परावरज्ञोऽपि किं न वेत्सि? ये हि राजानः अमरम्मन्या अस्मिन् भूलोके व्यस्नसन् तेऽपि एकैकशः श्मशानेषु रुदत्प्रेतानुयायिपूर्णेषु चिताधिरूढाः क्रव्यात् कृशानुना दग्धाः, शिवाभिश्च कालेन कवलीकृताः कैश्चिदपि न रोडुं शकिताः का कथा अन्येषां, हे विद्वन्! तदेतं प्रेतमाश्लिष्य किं करोषि वद। इत्येवं वृद्धा बन्धवः मिलितास्तं प्राबोधयन्। ततः कथञ्चित् तेन मुक्तं तं सुतं शिविकामारोप्य ते बान्धवाः कोलाहलसमाकुलाः श्मशानं निन्युः।
अत्रान्तरे तत्र श्मशाने कोऽपि तापसः पाशुपतव्रती मठिकायां कृतनिवासः वयसा तपसा चातिभूयसा कृशां तनुं बिभ्राणः भङ्गभीत्येव शिराभिः परिवेष्टितः विद्युत्पिशङ्गजटः द्वितीयो महेश्वर इव प्रतिवसति स्म। तस्मिंश्च काले स तापसः तं जनकोलाहलं श्रुत्वा दृप्तोपालम्भवृंहितं भिक्षाफलधरमन्तिकवर्त्तिनं शिष्यं जगाद वत्स! कथमयं जनकोलाहलः श्रूयते, गत्वा वहिर्विज्ञाय सत्वरमागच्छ, कुतोऽयमश्रुतपूर्वः तुमुलो रवः। इति तेन गुरुणोक्तः स शिष्यस्तं प्रत्युवाच नाहं यामि, त्वं स्वयमेव याहि, मे भिक्षासमयोऽतिक्रामति। तदाकर्ण्यस गुरुरब्रवीत् धिक् मूर्ख! उदरम्भरे! अद्धः अर्द्धप्रहरे याते का तव भिक्षावेला? श्रुत्वैव क्रुद्धः स कुशिष्यस्तं तापसं प्रत्यवदत् धिक् जराजीर्ण! नाहं ते शिष्यः, त्वञ्च मे न गुरुः,अहमन्यत्र यास्यामि, त्वं स्वयम् इदं पात्रं वह। इत्युक्त्वा स क्रुद्धः अग्रे दण्डकुञ्चिकां त्यक्त्वा समुत्थाय प्रायात्। ततः स तापसः विहसन् तस्मात् मठात् निर्गत्य तत्रागात्, यत्र दाहार्थं स मृतो द्विजार्भकः समानीतः। तं जनतया शोच्यमानाग्रयौवनं दृष्ट्वा जरार्दितः स योगी तदुदेहं प्रवेष्टुं मतिमकरोत्। ततः एकान्ते गत्वा मुक्तकण्ठं प्ररुद्य च यथोचितैरङ्गहारैर्ननर्त्त। ततः क्षणेन स तपस्वी पुनः यौवनसुखमनुवुभूषुः योगात् स्वां जोर्णां तनुं विहाय तत् द्विजपुत्रकलेवरं प्राविशत्। क्षणे च तस्मिन् स द्विजयुवा रचितायां चितायां सहसा लब्धजीवः समुत्तस्थौ। तदवलोक्य बन्धुवर्गस्य सर्वस्य दिष्ट्यायं बालको जीवति जीवतीति सहर्षनिनादः समुदचरत्। अथ विप्रपुत्रशरोरान्तःस्थः स योगेश्वरः तान् बन्धूनब्रवोत् लोकान्तरगतस्य मम शर्वेण जीवितं दत्त्वा महापाशुपतव्रतं त्वया धार्य्यमिति समादिष्टम् अधुनैव मया एकान्ते गत्वा तदुव्रतं ग्राह्यं नोचेत् मे जीवितं नास्ति, तदुयूयं गृहं यात, अहमपि यामि इति सर्वान् तान् तत्रस्थान् संबोध्य दृढ़निश्चयः हर्षशोकाकुलान् तान् स्वगृहं प्रेषयामास। स्वयञ्च गत्वा तत् पूर्वकलेवरं श्वभ्रे क्षिप्ता गृहीतव्रतो युवीभूय अन्यतो ययौ। इति कथां समाख्याय वेतालः निशि पथि यान्तं तं त्रिविक्रमसेनं नृपं पुनरब्रवीत् राजन्! ब्रूहि स योगीन्द्रः परदेहे प्रविशन् कथं वा पूर्वं प्रारुदन् किमर्थं वा अनृत्यत् अत्र मे महत् कौतुकं वर्त्तते। इति बेतालात् श्रुत्वा शापशङ्की राजा मौनं विमुच्य तमवादीत् शृणु वेताल! सिद्धिकारकं बाल्ये पितृभ्यां लाल्लितम्, अद्य इदं त्यजामीति दुःखितः दुस्त्यजदैहिकस्नेहात् प्रथमं रुरोद। नवं देहं प्रविश्य अधिकं व्रतं साधयिष्यामि इति यौवनलाभहर्षात् ननर्त्त च। एतत्तस्य राज्ञः वचनं निशम्य स वेतालः पुनः सहसा तं शिंशपापादपमगमत्। राजापि अविचलितोत्साहः पुनस्तमन्वसरत्।
——————
अथ चतुर्विंशकथा
<MISSING_FIG href="#"/><MISSING_FIG href="../books_images/U-IMG-1722482462123456.png"/>
ततः स राजा तां तिमिरश्यामां चिताग्निज्वलितेक्षणां धोरां रजनिराक्षसीमगण्यन् वीरः तस्मिन् भीषणे श्मशाने तां शिंशपां गत्वा तं वेतालं स्कन्धमारोप्य पूर्ववत् प्रातिष्ठत। वेतालोऽपि गच्छन्तं तं नरदेवमुवाच भो राजन्! अहं गतागतैर्भृशमुद्विग्नः, न पुनस्त्वं, तदेकं मे महाप्रश्नं कथयतः समाकर्णय।
आसीत् पुरा दक्षिणापथे धर्मो नाम मण्डलेश्वरः साधूनां धुरन्धरः बहुगोत्रजः नरपतिः। तस्य चन्द्रावती नाम मालवदेशभवा भार्य्यासीत्। तस्यां कन्यैका प्रसूता। तस्याञ्चकन्यायां प्रदेयायां स धर्मनरपतिः राष्ट्रभेदिभिर्दायादैर्मिलितैरुन्मूलितः पलाय्य सुदृशा भार्य्यया तया च दुहित्रा सह रात्रौ संगृहीतरत्नसञ्चयः स्वराष्ट्रात् निगरात्। मालवे श्वाशुरं गृहं प्रति स्वैरं गच्छन् स तयापत्न्या सुतया च सह विन्ध्याटवीमाससाद। तस्यां कथञ्चित् श्रान्तया भार्य्यया सुतया च परिखिन्नः निशामनयत्। अथ प्रातः भगवान् विभावसुः करान् प्रसारयन् मागाश्चौराटवीमेतामिति तं राजानं वारयन्निव पूर्वांदिशमारुरोह। ततो राजा पदातिः त्रसन्त्या सुतया जायया च सह कुशकण्टकैः क्षताङ्घ्रिःभिल्लानां परेषां प्राणसर्वस्वहारिभिः पुम्भिरावृतां धार्मिकजनरहितां कृतान्तनगरीमिव दुर्गां पल्लीमगच्छत्। तत्रागच्छन्तं वसनाभरणान्वितं तं दूरात् दृष्टैव बहवो दस्यवः सायुधा मुषितुं प्राधावन्। राजा तानागच्छतो विलोक्य भार्य्यासुते जगाद म्लेच्छा इमे मा युवां स्पृशन्तु एतद् गहनं वनं विशतम् इति राज्ञाभिहिता राज्ञी तया लावण्यवत्या तनयया सह भयात् वनमध्यं विवेश। वीरः स राजा तु अभिमुखायातान् शरवर्षिणस्तान् शबरान् खड्गचर्मधरः बहून् न्यबधीत्। ततः पल्लोपतिनाज्ञप्ताः सर्वे दस्यवः निपत्य प्रहारक्षतसर्वाङ्गं तमेककं नृपं निजघ्नुः। ततः गृहीताभरणे दस्युसैन्ये प्रयाते सा राज्ञीवनगुल्मान्तरस्थिता भर्त्तारं निहतं दृष्ट्वा सुतया सह विह्वला पलायमाना अन्यत् दूरं गहनमरण्यं विवेश। तत्र मध्याह्नभानुतापितेषु अध्वगेषु शाखिनां छायासु निषणेषु एकदेशे कस्यचित् पद्मसरसस्तीरे अशोकतरुतले सा राजमहिषी चन्द्रावती सुतया लावण्यवत्या नितरां श्रान्तया भयशोकव्याकुलया सह समुपाविशत्। तावदभ्यर्णनिवासी कोऽपि महामनुष्यः चण्डसिंहो नाम सपुत्रः अश्वारूढ़ः मृगयार्थं तद्वनमभ्यागात्। स सिंहपराक्रमं नाम पुत्रं तयोः राजभार्य्यासुतयोः पदपद्धती दृष्ट्वा प्रोवाच पुत्र! एते सुरेखे सुभगे पदपद्धती अनुसृत्य यदि स्त्रियो प्राप्नुवः तदा तयोरेकां यथारुचि स्वीकुरुष्व। इत्युक्तवन्तं तं पुत्रः सिंहपराक्रमः प्रोवाच तात! यस्याः सूक्ष्मौ पादौ रेखयानया दृश्येते सा भार्य्या ममैव प्रतिभाति। बृहती या पदपद्धती दृश्यते एषा ज्येष्ठवयास्तव योग्या। इति सूनोर्वचनमाकर्ण्य स चण्डसिंहस्तं जगाद पुत्र! कैषा कथा तव, जननी तव प्रत्यक्षमेव दिवं गता। तादृशे सुकलत्रे गते अन्यवासना मेकैव? तदाकर्ण्य सोऽपि तं पितरमुवाच तात! मैवम्, अभार्य्यं हि गृहपतेः गृहं शून्यम्। अन्यच्च, मूलदेवोक्ता कथा त्वया किं न श्रुता? यत्र घनस्तनजघना मार्गावलोकिनी कान्ता नास्ते, कः अजड़ः तत् अनिगड़ं गृहसन्नकं दुर्गं प्रविशति? तत् तात! मम जीवितेन शापितोऽसि यदि मदभीष्टाया द्वितीयां भार्य्यां त्वं न स्वीकरिष्यसि। एतत् पुत्रवचः श्रुत्वा स चण्डसिंहः तथेति प्रतिपद्य ससुतः तां पदपद्धतिमनुसरन् शनैः ययौ। प्राप्य तत् सरःस्थानं तां श्यामां चन्द्रावतीं राज्ञीं रूपलावण्यविभासिनीं ददर्श। उपाययौ च सकौतुकः सह पुत्रेण ताम्। सापि तं दृष्ट्वा चौरशङ्किनी वित्रस्ता समुत्तस्थौ। अलं वासेन नौ, एतौ चौरौ न, सौम्याकृती सुवेशाङ्कौ कौचित् आखेटकृते नूनमिहाद्य प्राप्तौ। इति सुतया बुद्धिमत्याभिहिता राज्ञी यावत् दोलायते, तावदश्वावतीर्णश्चण्डसिंहः पुरोवर्त्ती तामुवाच सुन्दरि! अलं सम्भ्रमेण आवाम् इह मृगयार्थमागतौ, तद्विश्वस्य निराशङ्के वदत्तं के युवां? हरनेत्रानलज्वालादग्धमन्म- थदुःस्थिते रतिप्रीती इव अरण्यमेवमुपागते? कथं वा इह अमानुषे वने प्रविष्टेस्थः इदं हि युवयोर्वपुः रत्नप्रासादवासार्हं, किमिति वराङ्गनविचरणयोग्यौ चरणौ कण्टकिनीमिमां भुवमवतारितौ? चित्रमिदम्, एषा युवयोरानने पतन्ती वातोद्धृता धूलिरावयोर्मुखं हतच्छायं कुरुते। भवत्योरङ्गेऽस्मिन् चण्डांशोरुच्चण्डः किरणः पतन् अस्मान् दहति। तदात्मवृत्तान्त ब्रुतं, आवयोर्हृदयं भवत्यौ एतावस्थां गते दृष्ट्वा भृशं दूयते। अस्मिन् श्वापदावृतेऽरण्ये वां स्थितिं द्रष्टुं न शक्नुवः। इति चण्डसिंहेनोक्ता रानी निःश्वस्य लज्जाशोकाकुला शनैः स्वं वृत्तान्तमवर्णयत्। ततश्वचण्डसिंहः निःखामिकां तां मत्वा समाश्वास्य च मधुरैर्वाक्यैरनुरञ्जयन् ससुतां स्वीचकार। सपुत्रीं तां पुत्रः सः अश्वयोरारोप्य वित्तपपुरीसमृद्धां निजां पुरीं निनाय। सापि जन्मान्तरगतेव अवशा अनाथा कृच्छ्रपतिता अङ्गोचकार किं करोतु तपस्विनी। ततस्तस्या राज्ञ्याः सूक्ष्मपादत्वात् चण्डसिंहसुतः सिंहपराक्रमः राज्ञींचन्द्रावतीं भार्य्यां व्यधात्। तत्सुताञ्च लावण्यवतीं राजकन्यां पादयोर्वृहत्त्वात् चण्डसिंहो भार्य्याञ्चकार। पूर्वप्रतिज्ञातं हि सत्यं कोऽतिवर्त्तते? एवं पादविपर्य्यासात् तयोः पितापुत्रयोः ते दुहितामातरौ भार्य्येतदा श्वश्रूस्नुषेजाते, कालेन च तयोः ताभ्यां पतिभ्यां द्वयोरेव पुत्रादुहितरश्च क्रमात् जग्मिरे। इति कथामाख्याय स वेतालः तं नृपं पप्रच्छ राजन्! अनयोर्मातादुहित्रो- स्ताभ्यां पितृभ्यां पितापुत्राभ्यां ये जन्तवो जाताः ते अन्योऽन्यं के किं सम्बन्धाश्च भवन्ति? यदि जानन्न ब्रवीषि, तदा पूर्वोक्त एव स शापः स्मरणीयः। इति वेतालवचः समाकर्ण्यबहु विभृषन् राजा किमपि वक्तुमशक्नुवन् तूष्णीक एव प्रययौ। ततः स वेतालः तं प्रश्नोत्तरदाने असमर्थं दृष्ट्वा हृदि हसन् समचिन्तयत् अयं राजा अस्मिन् महाप्रश्ने उत्तर दातुं न हि शक्नोति, तेन तूष्णींव्रजत्येव, न चायं मां वञ्चयितुं शक्तः शापस्य प्रभावात्। तत्प्रीतोऽस्मि अस्य महासत्त्वस्य सत्त्वातिरेकेण, तदद्य तं दुरात्मानं वञ्चयित्वा उपागतां तत्सिद्धिं भाविकल्याणे अस्मिन् राजनि निवेशयामि। इत्यालोच्य स वेतालस्तं नृपमक्दत् राजन्! कृष्णनिशाघोरेऽस्मिन् श्मशाने गतागतैः क्लिष्टस्त्वं सुखीव दृश्यसे, कोऽपि ते विकल्पो न विद्यते, तदाश्चर्येण धैर्य्येण च ते तुष्टोऽस्मि, त्वमिमं शवं नीत्वा इदानों व्रज, अहमतो निर्गच्छामि, इदञ्च तव हितं यत् वदामि तत् कुरुष्व। यदर्थे भवता एतत् नृकलेवरंनीयते, कुभिक्षुः सः अद्य अस्मिन् मामाहूय अर्च्चयिष्यति, त्वाञ्च उपहारीचिकीर्षुः भूमौ साष्टाङ्गं प्रणामं कुरु इति वक्ष्यति। महाराज ! स दुरात्मा तावत् त्वया एवं वक्तव्यः, नाहं तथा प्रणामं जानामि, प्राक् त्वं दर्शय, ततोऽह तथा करिष्यामीति। नतो निपत्य भूमौ यावत् स त्वां प्रणामं दर्शयिष्यति तावत्त्वमसिना तस्य शिरश्छिन्द्याः। ततो विद्याधरैश्वर्य्यसिद्धिर्यां तस्य वाञ्छिता, तां त्वमेव प्राप्स्यसि। अन्यथा तु स भिक्षुस्त्वामुपहारोक्कृत्य स्वेष्टसिद्धिं करिष्यति। एतदर्थं तव एतावान् विलम्बः कृतो मया, तत्ते सिद्धिरस्तु मच्छेदानों, इति उक्ता वेतालः तस्य स्कन्धात् निर्गत्य प्रययौ।
अथ स नरपतिर्वेतालवचसा तं क्षान्तिशीलं भिक्षुं तथा स्वाहिताय समुद्यन्तं विविच्य तत् नृकलेवरं गृहीत्वा प्रहृष्टःतत् वटतरुतलं प्रतस्थे।
——————
अथ पञ्चविंशकथा
<MISSING_FIG href="../books_images/U-IMG-17224854901234569.png"/>
ततः स राजा त्रिविक्रमसेनः शवं स्कन्धे वहन् क्षान्तिशीलस्य श्रमणस्य पार्श्वं प्राप, ददर्शं च तं मार्गावलोकिनमेकं कृष्णपक्षरात्र्यांश्मशानतरुमध्यगम्। स राजा असृग्लिप्तस्थले गौरेण अस्थिचूर्णेन निर्मिते विन्यस्तपूर्णशोणितकुम्भे महातैलकृतंप्रदीपे कृतानलहोमे सम्भृतोचितसम्भारे कृतेष्टदैवतपूजने मण्डले समुपविष्टं तमुपागात्। भिक्षुश्च तमानोतमृतकं नृपं समुत्थाय प्रोवाच राजन्! त्वया अन्यदुष्करो महान् अनुग्रहो मै विहितः, त्वादृशाः क्व, क्व च इयं चेष्टा, क्व च वा ईदृशौ देशकालौ। सत्यमेव त्वां कुलभूभुजां मुख्यमाहुः, एवमात्मानपेक्षेण येन परार्थः साध्यते। एतदेवं महतां महत्त्वमुच्यते प्रतिपन्नादचलनं प्राणानामत्ययेऽपि। इति ब्रुवन् स भिक्षुः सिद्धार्थमानी तस्व स्कन्धात् तं शवमवतारयामास। ततस्तं स्नापयित्वा बद्धमात्यं विधाय तस्य मण्डलस्य अन्तः स्थापयामास। ततः भस्मालेपितगात्रः केशयज्ञोपवीती प्रावृतप्रेतवसनः भूत्वा क्षणं ध्याननिभृतं स्थितः। अथ ध्यानवलात् तस्मिन् नृकलेवरे प्रविष्टं तं वेतालं स भिक्षुः क्रमेण पूजयामास। प्रथमं तस्मै कपालेन पात्रेण अर्घ्यं ततः सुनिर्मलैर्नवदन्तेः पुष्पं सुगन्धिविलेपनं मानुषनेत्रं धूपं मांसानि च नैवेद्यानि दत्त्वा पूजनं यथाविधि समाप्य पार्श्वनं राजानं प्रोवाच राजन्! इहास्य मन्त्राधिराजस्य कृताविर्भावस्य अष्टाभिरङ्गैः निपत्य भूतले प्रणामं कुरु। येनाभीष्टसिद्धिं तैऽयम् वरप्रदो दास्यति। श्रुत्वैतत् स्मृतवेतालवचनः स राजा तं भिक्षुमन्त्रवीत् भगवन्! नाहं तादृशं प्रणामं वेद्मि, तत् पूर्वं भवान् प्रदर्शयतु, ततस्तश्राहं करिष्ये इति। ततः स भिक्षुः यावत् तथा प्रणामं दर्शयितुं भुवि पतितः, तावत् स राजा खङ्गप्रहारेणास्य शिरः अच्छिनत्, आकर्षच्चास्य हृत्पद्मं पाठितम्। ततः तत्शिरः तच्च हृत्पद्मं वेतालाय प्रददौ। ततः समन्तात् भूतगणैः हृष्टैः साधुवादे प्रदत्ते स वेतालः परितुष्टस्तस्मात् नृकलेवरात् तं नृपमब्रवीत् राजन्! भिक्षोरस्य यत् विद्याधरेन्द्रत्वमीप्सितमासीत् तत्तावत् भूमिसाम्राज्यभोगान्ते ते भविष्यति। इत्युक्तवन्तं तं वेतालं स राजा प्रत्यवादीत् योगन्द्र! त्वञ्चेत् प्रसन्नः, तदा को नाम अभीष्टो वरः न सिध्येत्, तथापि अमोघवचनं त्वां इदमभ्यर्थये, एतास्ते नानाख्यानमनोरमा प्रश्नकथाः चतुर्विंशतिः पञ्चविंशतिसमाप्तिगाः भूतले ख्याताः पूजनीयाश्च भवन्तु। इति तेन राज्ञार्थितो वेतालः प्रत्यभाषत राजन्! एवमस्तु, विशेषञ्च वच्भिशृणु याचतुर्विंशतिःपूर्वाःया च एषा कामदायिनी, यः अस्यां कथांशमात्रमपि सादरः कथयिष्यति वा श्रोष्यति स सद्यो मुक्तपापो भविष्यति। यत्रैषा कथा कीर्त्त्यते तत्र यक्षराक्षसडाकिनीवेतालकुष्माण्डब्रह्मराक्षसादयो न प्रभविष्यन्ति। इत्युक्त्वा स वेतालस्तस्मात् नृकलेवरात् निर्गत्य यथारुचि योगमायया स्वं धाम प्रायात्।
ततस्तत्र सर्वैर्देवगणैः सह महेश्वरः परितुष्टः तत्राविरभूत्, प्रणतञ्च तं नृपमादिक्षत् साधु वत्स! यत् त्वयायं विद्याधरमहाचक्रचक्रवर्त्तिताहठकामुकः कूटतापसः निहतः। त्वं मया स्वांशतः विक्रमादित्यः सृष्टः म्लेम्च्छरूपावतीर्णानामसुराणां शान्तये, उद्दामदुर्वृत्तानां दमनाय च। अतः सद्वीपपातालां महीं वशे स्थापयित्वा विद्याधराणामधिराजो भविष्यसि। तत्र च चिरं दिव्यान् भोगान्भूक्त्वा स्वेच्छ्या च तान् त्यक्त्वाअन्ते ममैव सायुज्यमवाप्स्यसि। एतञ्च अपराजितं नाम खड्गंमत्तो गृहाण, अस्यैव प्रसादात् यद् यदुक्तं तत् सर्वं ते सेत्स्यति। इत्युक्त्वातं खड्गरत्नं तस्मै दत्त्वा वाक्पुष्पैश्च तेनार्चितः शम्भुः देवैः सह तिरोदधे।
इति वि, ए उपाधिधारिणा श्रीजीवानन्दविद्यासागरभट्टाचार्य्येण विरचिता वेतालपञ्चविंशतिःसमाप्ता।
——————
]