८ विश्रुतचरितम्

सोप्याचचक्षे ।
देव मयापि परिभ्रमता विन्ध्याटव्यां कोपि कुमारः क्षुधा तृषा च क्लिश्यन्नक्लेशार्हः क्वचित्कूपाभ्याशेष्टवर्षदेशीयो दृष्टः ।
स च त्रासगद्गदमगदत् ।
महाभाग क्लिष्टस्य मे क्रियतामार्य साहाय्यकम् ।
अस्य मे प्राणापहारिणीं पिपासां प्रतिकर्तुमुदकमुदञ्चन्निह कूपे कोपि निष्कलो ममैकशरणभूतः पतितः ।
तमलमस्मि नाहमुद्धर्तुमिति ।
अथाहमभ्येत्य व्रतत्या कयापि वृद्धमुत्तार्य तं च बालं वंशनालीमुखोद्धृताभिरद्भिः फलैश्चतुःपञ्चषैः शरक्षेपोच्छ्रितस्य लकुचवृक्षस्य शिखरात्पाषाणपातितैः प्रत्यानीतप्राणवृत्तिमापाद्य तरुतलनिषण्णस्तं जरन्तमब्रवम् ।
तात क एष बालकः ।
को वा भवान् ।
कथं चेयमापदापन्नेति ।
सोश्रुगद्गदमगदत् ।
श्रूयतां महाभाग ।
विदर्भो नाम जनपदः ।
तस्मिन्भोजवंशभूषणमंशावतार इव धर्मस्यातिसत्त्वः सत्यवादी वदान्यः सुविनीतो विनेता प्रजानां रञ्जितभृत्यः कीर्तिमानुदग्रो मूर्तिबुद्धिभ्यामुत्थानशीलः शास्त्रप्रमाणः शक्यभव्यकल्पारम्भी सम्भावयिता बुधान्प्रभावयिता सेवकानुद्भावयिता बन्धून्न्यग्भावयिता शत्रूनसम्बद्धप्रलापेष्वदत्तकर्णः कदाचिदप्यवितृष्णो गुणेष्वतिनदीष्णः कलासु नेदिष्ठो धर्मार्थसंहितासु स्वल्पेपि सुकृते सुतरां प्रत्युपकर्ता प्रत्यवेक्षिता कोशवाहनयोर्यत्नेन परीक्षिता सर्वाध्यक्षाणामुत्साहयिता कृतकर्मणामनुरूपैर्दानमानैः सद्यः प्रतिकर्ता दैवमानुषीणामापदां षाड्गुण्योपयोगनिपुणो मनुमार्गेण प्रणेता चातुर्वर्ण्यस्य पुण्यश्लोकः पुण्यवर्मा नामासीत् ।
स पुण्यैः कर्मभिः प्राप्य पुरुषायुषं पुनरपुण्येन प्रजानामगण्यतामरेषु ।
तदनन्तरमनन्तवर्मा नाम तदायतिरवनिमध्यतिष्ठत् ।
स सर्वगुणैः समृद्धोपि दैवाद्दण्डनीत्यां नात्यादृतोभूत् ।
तमेकदा रहसि वसुरक्षितो नाम मन्त्रिवृद्धः पितुरस्य बहुमतः प्रगल्भवागभाषत ।
तात सर्वैवात्मसम्पदभिजनात्प्रभृत्यन्यूनैवात्रभवति लक्ष्यते ।
बुद्धिश्च निसर्गपट्वी कलासु नृत्तगीतादिषु चित्रेषु च काव्यविस्तरेषु प्राप्तविस्तारा तवेतरेभ्यः प्रतिविशिष्यते ।
तथाप्यसावप्रतिपद्यात्मसंस्कारमर्थशास्त्रेष्वनग्निसंशोधितेव हेमजातिर्नातिभाति बुद्धिः ।
बुद्धिशून्यो हि भूभृदत्युच्छ्रितोपि परैरध्यारुह्यमाणमात्मानं न चेतयते ।
न च शक्तः साध्यं साधनं वा विभज्य वर्तितुम् ।
अयथावृत्तश्च कर्मसु प्रतिहन्यमानः स्वैः परैश्च परिभूयते ।
न चावज्ञातस्याज्ञा प्रभवति प्रजानां योगक्षेमयोराराधनाय ।
अतिक्रान्तशासनाश्च प्रजा यत्किञ्चनवादिन्यो यथाकथञ्चिद्वर्तिन्यः सर्वाः स्थितीः सङ्किरेयुः ।
निर्मर्यादाश्च लोका लोकादितोमुतश्च स्वामिनमात्मानं च भ्रंशयेयुः ।
आगमदीपदृष्टेन खल्वध्वना सुखेन वर्तते लोकयात्रा ।
दिव्यं हि चक्षुर्भूतभवद्भविष्यत्सु व्यवहितविप्रकृष्टेषु च विषयेषु शास्त्रं नामाप्रतिहतवृत्ति ।
तेन हीनः सतोरप्यायतविशालयोर्लोचनयोरन्ध एव जन्तुरर्थदर्शनेष्वसामर्थ्यात् ।
अतो विहाय बाह्यविद्यास्वभिषङ्गमागमय स्वकुलविद्यां दण्डनीतिम् ।
तदर्थानुष्ठानेन चावर्जितशक्तिसिद्धिरस्खलितशासनः शाधि चिरमुदधिमेखलामुर्वीमिति ।
एतदाकर्ण्य स्थान एव गुरुभिरनुशिष्टं तथा क्रियत इत्यन्तःपुरमविशत् ।
तां च वार्त्तां पार्थिवेन प्रमदासन्निधौ प्रसङ्गेनोदीरितामुपनिशम्य समीपोपविष्टश्चित्तानुवृत्तिकुशलः प्रसादवित्तो गीतनृत्यवादित्रादिष्वबाह्यो बाह्यनारीपरायणः पटुरयन्त्रितमुखो बहुभङ्गिविशारदः परमर्मान्वेषणपरः परिहासयिता परिवादरुचिः पैशुन्यपण्डितः सचिवमण्डलादप्युत्कोचहारी सकलदुर्नयोपाध्यायः कामतन्त्रकणधारः कुमारसेवको विहारभद्रो नाम स्मितपूर्वं व्यज्ञापयत् ।
देव दैवानुग्रहेण यदि कश्चिद्भाजनं भवति विभूतेस्तमकस्मादुच्चावचैरुपप्रलोभनैः कदर्थयन्तः स्वार्थं साधयन्ति धूर्ताः ।
तथा हि ।
केचित्प्रेत्य किल लभ्यैरभ्युदयातिशयैराशामुत्पाद्य मुण्डयित्वा शिरो बद्ध्वा दर्भरज्जुभिरजिनेनाच्छाद्य नवनीतेनोपलिप्यानशनं च शाययित्वा सर्वस्वं स्वीकरिष्यन्ति ।
तेभ्योपि घोरतराः पाषण्डिनः पुत्रदारशरीरजीवितान्यपि मोचयन्ति ।
यदि कश्चित्पटुजातीयो नास्यै मृगतृष्णिकायै हस्तगतं त्यक्तुमिच्छेत्तमन्ये परिवार्याहुः ।
एकामपि काकिणीं कार्षापणलक्षमापादयेम शस्त्रादृते सर्वशत्रून्घातयेमैकशरीरमात्रमपि मर्त्यं चक्रवर्तिनं विदधीमहि यद्यस्मद्दिष्टेन मार्गेणाचर्यत इति ।
स पुनरिमान्प्रत्याह ।
कोसौ मार्ग इति ।
पुनरिमे ब्रुवते ।
ननु चतस्रो राजविद्यास्त्रयी वार्त्तान्वीक्षिकी दण्डनीतिरिति ।
तासु तिस्रस्त्रयीवार्त्तान्वीक्षिक्यो महत्यो मन्दफलाश्च ।
तास्तावदासताम् ।
अधीष्व तावद्दण्डनीतिम् ।
इयमिदानीमाचार्यविष्णुगुप्तेन मौर्यार्थे षड्भिः श्लोकसहस्रैः सङ्क्षिप्ता ।
सैवेयमधीत्य सम्यगनुष्ठीयमाना यथोक्तकर्मक्षमेति ।
स तथेत्यधीते शृणोति च ।
अत्रैव जरां गच्छति ।
तत्तु किल शास्त्रं सर्वशास्त्रानुबन्धि ।
सर्वमेव वाङ्मयमविदित्वा न तत्त्वतोधिगंस्यते ।
भवतु कालेन बहुनाल्पेन वा तदधिगतिः ।
अधिगतशास्त्रेण चादावेव पुत्रदारमपि न विश्वास्यम् ।
आत्मकुक्षेरपि कृते तण्डुलैरियद्भिरियानोदनः सम्पद्यते ।
इयत ओदनस्य पाकायैतावदिन्धनं पर्याप्तमिति मानोन्मानपूर्वकं देयम् ।
उत्थितेन च राज्ञा क्षालिताक्षालितमुखेन मुष्टिमर्धमुष्टिं वाभ्यन्तरीकृत्य कृत्स्नमायव्ययजातमह्नः प्रथमेष्टमे भागे श्रोतव्यम् ।
शृण्वत एवास्य द्विगुणमपहरन्ति तेप्यक्षधूर्ताः ।
चत्वारिंशच्चाणक्योपदिष्टानाहरणोपायान्सहस्रधात्मबुद्ध्यैव ते विकल्पयितारः ।
द्वितीयेन्योन्यं विवदमानानां प्रजानामाक्रोशाद्दह्यमानकर्णः कष्टं जीवति ।
तत्रापि प्राड्विवाकादयः स्वेच्छया जयपराजयौ विदधानाः पापेनाकीर्त्या च भर्तारमात्मानं चार्थैर्योजयन्ति ।
तृतीये स्नातुं भोक्तुं च लभते ।
भुक्तस्य च यावदप्यन्धःपरिणामस्तावदस्य विषभयं न शाम्यत्येव ।
भुक्त्वा चतुर्थे हिरण्यप्रतिग्रहाय हस्तं प्रसारयन्नेव तिष्ठति ।
पञ्चमे मन्त्रचिन्तया महान्तमायासमनुभवति ।
तत्रापि मन्त्रिणो मध्यस्था इवान्योन्यं नियतं मिथः सम्भूय दोषगुणौ दूतचारवाक्याणि शक्याशक्यतां देशकालकार्यावस्थाः स्वेच्छया विपरिवर्तयन्तः स्वपरमित्त्रमण्डलान्युपजीवन्ति ।
बाह्याभ्यन्तरांश्च कोपान्गूढमुत्पाद्य प्रकाशं प्रशमयन्त इव स्वामिनमवशमवगृह्णन्ति ।
षष्ठे स्वैरविहारो मन्त्रो वा सेव्यः ।
स दह्यतां स्वैरविहारकालोयं यस्य तिस्रस्त्रिपादोत्तरा नाडिकाः ।
सप्तमे चतुरङ्गबलप्रत्यवेक्षणप्रयासः ।
अष्टमे सेनापतिसखस्य विक्रमचिन्ताक्लेशः ।
पुनरुपास्यैव सन्ध्यां प्रथमे रात्रिभागे गूढपुरुषा द्रष्टव्याः ।
तन्मुखेनातिनृशंसाः शस्त्राग्निरसप्रणिधयोनुष्ठेयाः ।
द्वितीये भोजनानन्तरं श्रोत्रिय इव स्वाध्यायमारभते ।
तृतीये तूर्यघोषेण संविष्टश्चतुर्थपञ्चमौ शयीत किल ।
कथमिवास्याजस्रचिन्तायासविह्वलमनसो वराकस्य निद्रासुखमुपनमेत् ।
पुनः षष्ठे शास्त्रचिन्ताकार्यचिन्तारम्भः ।
सप्तमे मन्त्रग्रहो दूताभिप्रेषणानि च ।
दूताश्च नामोभयत्र प्रियाख्यानलब्धानर्थान्वीतशुल्कबाधवर्त्मनि वणिज्यया वर्धयन्तः कार्यमविद्यमानमपि क्लेशेनोत्पाद्यानवरतं भ्रमन्ति ।
अष्टमे पुरोहितादयोभ्येत्यैनमाहुः ।
अद्य दृष्टो दुःस्वप्नः ।
दुःस्थिताश्च ग्रहाः ।
शकुनानि नातिशुभानि ।
शान्तयः क्रियन्ताम् ।
सर्वमस्तु सौवर्णमेव होमसाधनम् ।
एवं सति कर्म गुणवद्भवति ।
ब्रह्मकल्पा इमे ब्राह्मणाः ।
कृतमेभिः स्वस्त्ययनं कल्याणतरं भवति ।
ते चामी कष्टदारिद्र्यवन्तो बह्वपत्या यज्वानो वीर्यवन्तश्चाद्याप्यप्रतिग्रहाः ।
दत्तं चैभ्यः स्वर्ग्यमायुष्यमरिष्टनाशनं च भवतीति बहु बहु दापयित्वा तन्मुखेन स्वयमुपांशु भक्षयन्ति ।
तदेवमहर्निशमविदितसुखलेशमायासबहुलमविरलकदर्थनं च नयतो नयज्ञस्यास्तां चक्रवर्तिता स्वमण्डलमात्रमपि दुरारक्षं भवेत् ।
शास्त्रज्ञसमाज्ञातो हि यद्ददाति यन्मानयति यच्च प्रियं ब्रवीति तत्सर्वमतिसन्धातुमित्यविश्वासः ।
अविश्वास्यता हि जन्मभूमिरलक्ष्म्याः ।
यावता च नयेन विना याति लोकयात्रा स लोकत एव सिद्धः ।
न तत्र शास्त्रेणार्थः ।
ननु बालिशोपि हि तैस्तैरुपायैः स्तनपानं जनन्या लिप्सते ।
तदपास्यातियन्त्रणामनुभूयन्तां यथेष्टमिन्द्रियसुखानि ।
येप्युपदिशन्त्येवमिन्द्रियाणि जेतव्यान्येवमरिषड्वर्गस्त्याज्यः सामाद्युपायवर्गः स्वेषु परेषु चाजस्रं प्रयोज्यः सन्धिविग्रहचिन्तयैव नेयः कालः स्वल्पोपि सुखावकाशो न देय इति तैरप्येभिर्मन्त्रिबकैर्युष्मत्तश्चौर्यार्जितं धनं दासीगृहेष्वेव भुज्यते ।
के चैते वराकाः ।
येपि मन्त्रकर्कशाः शास्त्रतन्त्रकाराः शुक्राङ्गिरसविशालाक्षबाहुदन्तिपुत्रपराशरप्रभृतयस्तैः किमरिषड्वर्गो जितः ।
कृतं वा तैः शास्त्रानुष्ठानम् ।
तैरपि हि प्रारब्धेषु कार्येषु दृष्टे सिद्ध्यसिद्धी ।
पठन्तश्चापठद्भिरतिसन्धीयमाना बहवः ।
नन्विदमुपपन्नं देवस्य यदुत सर्वलोकवन्द्या जातिरयातयामं वयो दर्शनीयं वपुरपरिमाणा विभूतिस्तत्सर्वं सर्वाविश्वासहेतुना सुखोपभोगप्रतिबन्धिना बहुमार्गविकल्पनात्सर्वकार्येष्वमुक्तसंशयेन तन्त्रावापेनैव मा कृथा वृथा ।
सन्ति हि ते दन्तिनां दशसहस्राणि हयानां च लक्षत्रयमनन्तं च पादातम् ।
अपि च पूर्णान्येव हेमरत्नैः कोशगृहाणि ।
सर्वश्चैव जीवलोकः समग्रमपि युगसहस्रं भुञ्जानो न ते कोष्ठागाराणि रेचयिष्यति ।
किमिदमपर्याप्तं यदन्यार्जनायासः क्रियते ।
जीवितं हि नाम जन्मिनां चतुःपञ्चान्यहानि ।
तत्रापि भोगयोग्यमल्पाल्पं वयःखण्डम् ।
अपण्डिताः पुनरर्जयन्त एव ध्वंसन्ते ।
नार्जितस्य वसुनो लवमप्यास्वादयितुमीहन्ते ।
किं बहुना ।
राज्यभारं भारक्षमेष्वन्तरङ्गभूतेषु भक्तिमत्सु समर्प्याप्सरःप्रतिरूपाभिरन्तःपुरिकाभी रममाणो गीतसङ्गीतपानगोष्ठीश्च यथर्तु बध्नन्यथार्हं कुरु शरीरलाभमिति पञ्चाङ्गस्पृष्टभूमिरञ्जलिचुम्बितचूडश्चिरमशेत ।
प्राहसीत्प्रीतिफुल्ललोचनः प्रमदाजनः ।
जननाथश्च सस्मितमुत्तिष्ठ ननु हितोपदेशाद्गुरवो भवन्तः ।
किमिति गुरुत्वविपरीतमनुष्ठितमिति तमुत्थाप्य क्रीडारसनिर्भरमतिरतिष्ठत् ।
अथैतेषु दिवसेषु भूयो भूयः प्रस्तुतेर्थे प्रेर्यमाणो मन्त्रिवृद्धेन वचसाभ्युपेत्य मनसैवाचित्तज्ञ इत्यवज्ञातवान् ।
अथैवं मन्त्रिणो मनस्यभूत् ।
अहो मे मोहाद्बालिश्यम् ।
अनुचितेर्थे चोदयन्नक्षिगतोहमस्य हास्यो जातः ।
स्पष्टमस्य चेष्टानामायथापूर्व्यम् ।
तथा हि ।
न मां स्निग्धं पश्यति ।
न स्मितपूर्वं भाषते ।
न रहस्यानि विवृणोति ।
न हस्तेन स्पृशति ।
न व्यसनेष्वनुकम्पते ।
नोत्सवेष्वनुगृह्णाति ।
न विलोभनवस्तूनि प्रेषयति ।
न मत्सुकृतानि प्रगणयति ।
न मे गृहवार्त्तां पृच्छति ।
न मत्पक्ष्यान्प्रत्यवेक्षते ।
न मामासन्नकार्येष्वभ्यन्तरीकरोति ।
न मामन्तःपुरं प्रवेशयति ।
अपि च ।
मामनर्हेषु कर्मसु नियुङ्क्ते ।
मदासनमन्यैरवष्टभ्यमानमनुजानाति ।
मद्वैरिषु विश्रम्भं दर्शयति ।
मदुक्तस्योत्तरं न ददाति ।
मत्समानदोषान्विगर्हयति ।
मर्मणि मामुपहसति ।
स्वमतमपि मया वर्ण्यमानं प्रतिक्षिपति ।
महार्हाणि वस्तूनि मत्प्रहितानि नाभिनन्दति ।
नयज्ञानां च स्खलितानि मत्समक्षं मूर्खैरुद्घोषयति ।
सत्यमाह चाणक्यः ।
चित्तज्ञानानुवर्तिनोनर्था अपि प्रियाः स्युः ।
दक्षिणा अपि तद्भावबहिष्कृता द्वेष्या भवेयुरिति ।
तथापि का गतिः ।
अविनीतोपि न परित्याज्यः पितृपैतामहैरस्मादृशैरयमधिपतिः ।
अपरित्यजन्तोपि कमुपकारमश्रूयमाणवाचः कुर्मः ।
सर्वथा नयज्ञस्य वसन्तभानोरश्मकेन्द्रस्य हस्ते राज्यमिदं पतितम् ।
अपि नामापदो भाविन्यः प्रकृतिस्थमेनमापादयेयुः ।
अनर्थेषु सुलभव्यलीकेषु क्वचिदुत्पन्नोपि द्वेषः सद्वृत्तमस्मै न रोचयेत् ।
भवतु ।
भविता तावदनर्थः ।
स्तम्भितपिशुनजिह्वो यथाकथञ्चिदभ्रष्टपदस्तिष्ठेयमिति ।
एवङ्गते मन्त्रिणि राजनि च कामवृत्ते चन्द्रपालितो नामाश्मकेन्द्रामात्यस्येन्द्रपालितस्य सूनुरसद्वृत्तः पितृनिर्वासितो नाम भूत्वा बहुभिश्चारणैर्बह्वीभिरनल्पकौशलाभिः शिल्पकारिणीभिरनेकच्छन्नकिङ्करैश्च गूढपुरुषैः परिवृतोभ्येत्य विविधाभिः क्रीडाभिर्विहारभद्रमात्मसादकरोत् ।
अमुना चैव सङ्क्रमेण राजन्यास्पदमलभत ।
लब्धरन्ध्रश्च स यद्यद्व्यसनमारभते तत्तथेत्यवर्णयत् ।
देव यथा मृगया ह्यौपकारिकी न तथान्यत् ।
अत्र हि व्यायामोत्कर्षादापत्सूपकर्ता दीर्घाध्वलङ्घनक्षमो जङ्घाजवः ।
कफापचयादारोग्यैकमूलाशयाग्निदीप्तिः ।
मेदोपकर्षादङ्गानां स्थैर्यकार्कश्यलाघवादीनि ।
शीतोष्णवातवर्षक्षुत्पिपासासहत्वं सत्त्वानामवस्थान्तरेषु चित्तचेष्टितज्ञानं हरिणगवलगवयादिवधेन सस्यलोपप्रतिक्रिया वृकव्याघ्रादिघातैः स्थलपथशल्यशोधनं शैलाटवीप्रदेशानां विविधकर्मक्षमाणामालोचनमाटविकवर्गविश्रम्भणमुत्साहशक्तिसन्धुक्षणेन प्रत्यनीकवित्रासनमिति बहुतमा गुणाः ।
द्यूतेपि द्रव्यराशेस्तृणवत्त्यागादनुपमानमाशयौदार्यम् ।
जयपराजयानवस्थानाद्धर्षविषादयोरविधेयत्वम् ।
पौरुषैकनिमित्तस्यामर्षस्य वृद्धिः ।
अक्षहस्तभूम्यादिगोचराणामत्यन्तदुरुपलक्ष्याणां कूटकर्मणामुपलक्षणादत्यन्तं बुद्धिनैपुण्यम् ।
एकविषयोपसंहाराच्चित्तस्यातिचित्रमैकाग्र्यम् ।
अध्यवसायसहचरेषु साहसेष्वभिरतिः ।
अतिकर्कशपुरुषप्रतिसंसर्गादनन्यधर्षणीयता मानाववधीरणमकृपणं च शरीरयापनमिति ।
उत्तमाङ्गनाभोगेप्यर्थधर्मयोः सफलीकरणम् ।
पुष्कलः पुरुषाभिमानः ।
भावज्ञानकौशलम् ।
अलाभक्लिष्टमाचेष्टितम् ।
अखिलासु कलासु वैचक्षण्यम् ।
अलब्धोपलब्धिलब्धानुरक्षणरक्षितोपभोगभुक्तानुसन्धानरुष्टानुनयादिष्वजस्रमभ्युपायरचनया बुद्धिवाचोः पाटवम् ।
उत्कृष्टशरीरसंस्कारात्सुभगवेषतया लोकसम्भावनीयतया परं सुहृत्प्रियत्वम् ।
गरीयसी परिजनव्यपेक्षा ।
स्मितपूर्वाभिभाषित्वम् ।
उद्रिक्तसत्त्वता ।
दाक्षिण्यानुवर्तनम् ।
अपत्योत्पादनेनोभयलोकश्रेयस्करत्वमिति ।
पानेपि नानाविधरोगभङ्गपटीयसामासवानामासेवनात्स्पृहणीयवयोवस्थापनम् ।
अहङ्कारप्रकर्षादशेषदुःखतिरस्करणम् ।
अङ्गजरागदीपनादङ्गनोपभोगशक्तिसन्धुक्षणम् ।
अपराधप्रमार्जनान्मनःशल्योन्मूलनम् ।
अशाठ्यशंसिभिरनर्गलप्रलापैर्विश्वासोपबृंहणम् ।
मत्सराननुबन्धादानन्दैकतानता ।
शब्दादीनामिन्द्रियार्थानां सातत्येनानुभवः ।
संविभागशीलतया सुहृद्वर्गसंवर्गणम् ।
अनुपमानमङ्गलावण्यम् ।
अनुत्तराणि विलसितानि ।
भयार्तिहरणाच्च साङ्ग्रामिकत्वमिति ।
वाक्पारुष्यं दण्डो दारुणो दूषणानि चार्थानामेव यथावकाशमौपकारिकाणि ।
नहि मुनिरिव नरपतिरुपशमरतिरभिभवितुमरिकुलमलमवलम्बितुं च लोकतन्त्रमिति ।
असावपि गुरूपदेशमिवादरेण तस्य मतमन्ववर्तत ।
ततस्तच्छीलानुसारिण्यश्च प्रकृतयो विशृङ्खलमसेवन्त व्यसनानि ।
सर्वश्च स्वसमानदोषतया न कस्यचिच्छिद्रान्वेषणायायतिष्ट ।
समानभर्तृप्रकृतयस्तन्त्राध्यक्षाः स्वानि स्वानि कर्मफलान्यभक्षयन् ।
ततः क्रमादायद्वाराणि व्यशीर्यन्त ।
व्ययमुखानि विटविधेयतया विभोरहरहर्व्यवर्धन्त ।
सामन्तपौरजानपदमुख्याश्च समानशीलतयोपारूढविश्रम्भेण राज्ञा सजानयः पानगोष्ठीष्वभ्यन्तरीकृताः स्वं स्वमाचारमत्यचारिषुः ।
तदङ्गनासु चानेकापदेशपूर्वमपाचरन्नरेन्द्रः ।
तदन्तःपुरेषु चामी भिन्नवृत्तेषु मन्दत्रासा बहुसुखैरवर्तन्त ।
सर्वश्च कुलाङ्गनाजनः पांसुलजनभङ्गिभाषणरतो भग्नचारित्रयन्त्रणस्तृणायापि न गणयित्वा भर्तॄन्धातृगणमन्त्रणान्यशृणोत् ।
तन्मूलाश्च कलहाः सामर्षाणामुदभवन् ।
अहन्यन्त दुर्बला बलिभिः ।
अपहृतानि धनवतां धनानि तस्करादिभिः ।
अपहतपरिहृतयः प्रहताः पातकपथाः ।
हतबान्धवा हृतवित्ता वधबन्धातुराश्च मुक्तकण्ठमाक्रोशन्नश्रुकण्ठ्यः प्रजाः ।
दण्डश्चायथाप्रणीतो भयक्रोधावजनयत् ।
कृशकुटुम्बेषु लोभः पदमधत्त ।
विमानिताश्च तेजस्विनो मानेनादह्यन्त ।
तेषु तेषु चाकृत्येषु प्रासरन्परोपजापाः ।
तदा च मृगाटवीषु मृगबाहुल्यवर्णनेनाद्रिद्रोणीरनपसारमार्गाः शुष्कतृणवंशगुल्माः प्रवेश्य द्वारतोग्निविसर्गैर्व्याघ्रादिवधे प्रोत्साह्य तन्मुखपातनैरिष्टकूपतृष्णोत्पादनेनातिदूरहारितानां प्राणहारिभिः क्षुत्पिपासाभिवर्धनैर्गुल्मतृणगूढच्छन्नतटप्रदरपातहेतुभिर्विषममार्गप्रधावनैर्विषमुखीभिः क्षुरिकाभिश्चरणकण्टकोद्धरणैर्विष्वग्विसरविच्छिन्नानुयातृतयैकाकीकृतानां यथेष्टघातनैर्मृगदेहापराद्धैर्नामेषुमोक्षणैः सपणबन्धमधिरुह्याद्रिशृङ्गाणि दुरधिरोहाण्यनन्यलक्ष्यैः प्रभ्रंशनैराटविकच्छद्मना विपिनेषु विरलसैनिकानां प्रतिरोधैरक्षद्यूतपक्षियुद्धयात्रोत्सवादिसङ्कुलेषु बलवदनुप्रवेशनैरितरेषां हिंसोत्पादनैर्गूढोत्पादितव्यलीकेभ्यो प्रियाणि प्रकाशं लब्ध्वा साक्षिषु तद्विख्याप्याकीर्तिगुप्तिहेतुभिः पराक्रमैः परकलत्रेषु सुहृत्त्वेनाभियोज्य जारान्भर्तॄनुभयं वा प्रहृत्य तत्साहसोपन्यासैर्योगनारीहारितानां सङ्केतेषु प्रागुपनिलीय पश्चादभिद्रुत्याकीर्तनीयैः प्रमापणैरुपप्रलोभ्य बिलप्रवेशनेषु निधानखननेषु मन्त्रसाधनेषु च विघ्नव्याजसाध्यैर्व्यापादनैर्मत्तगजाधिरोहणाय प्रेर्य प्रत्यपायनिवर्तनैर्व्यालहस्तिनं कोपयित्वा लक्षीकृतमुख्यमण्डलेष्वक्रमणैर्दायाद्यर्थे विवदमानानुपांशु हत्वा प्रतिपक्षेष्वयशःपातनैः सामन्तपुरजनपदेष्वयथावृत्तानप्रकाशमभिप्रहृत्य तद्वैरिनामघोषणैर्योग्याङ्गनाभिरहर्निशमभिरमय्य राजयक्ष्मोत्पादनैर्वस्त्राभरणमाल्याङ्गरागादिषु रसधानकौशलैश्चिकित्सामुखेनामयोपबृंहणैरन्यैश्चाभ्युपायैरश्मकेन्द्रप्रयुक्तास्तीक्ष्णरसदादयः प्रक्षपितप्रवीरमनन्तवर्मकटकं जर्जरमकुर्वन् ।
अथ वसन्तभानुर्भानुवर्माणं वानवास्यं प्रोत्साह्यानन्तवर्मणा व्यग्राहयत् ।
तत्परामृष्टराष्ट्रपर्यन्तश्चानन्तवर्मा तमभियोक्तुं बलसमुत्थानमकरोत् ।
सर्वसामन्तेभ्यश्चाश्मकेन्द्रः प्रागुपेत्य प्रियतरोभूत् ।
अपरेपि सामन्ताः समगंसत ।
गत्वा चाभ्यराति नर्मदारोधसि न्यविशत् ।
तस्मिंश्चावसरे महासामन्तस्य कुन्तलपतेरवन्तिदेवस्यात्मनाटकीयां क्ष्मातलोर्वशीं नाम चन्द्रपालितादिभिरतिप्रशस्तनृत्तकौशलामाहूयानन्तवर्मा नृत्तमद्राक्षीत् ।
अतिरक्तश्च भुक्तवानिमां मधुमत्ताम् ।
अश्मकेन्द्रस्तु कुन्तलपतिमेकान्ते समभ्यधत्त ।
प्रमत्त एष राजा कलत्राणि नः परामृशति ।
कियत्यवज्ञा सोढव्या ।
मम शतमस्ति हस्तिनां पञ्चशतानि च ते ।
तदावां सम्भूय मुरलेशं वीरसेनमृचीकेश्वरमेकवीरं कोङ्कणपतिं कुमारगुप्तं नासिक्यनाथं च नागपालमुपजपावः ।
ते चावश्यमस्याविनयमसहमाना अस्मन्मतेनैवोपवर्तेरन् ।
अयं च वानवास्यः परं मे मित्त्रम् ।
अमुनैनं दुर्विनीतमग्रतो व्यतिषक्तं पृष्ठतः प्राहरेम ।
कोशवाहनं च विभज्य गृह्णीम इति ।
हृष्टेन चामुनाभ्युपेते विंशतिं वरांशुकानां पञ्चविंशतिं काञ्चनकुङ्कुमकम्बलानां प्राभृतीकृत्याप्तमुखेन तैः सामन्तैः सम्मन्त्र्य तानपि स्वमतावस्थापयत् ।
उत्तरेद्युस्तेषां सामन्तानां वानवास्यस्य चानन्तवर्मा नयद्वेषादामिषत्वमगमत् ।
वसन्तभानुश्च तत्कोशवाहनमवशीर्णमात्माधिष्ठितमेव कृत्वा यथाप्रयासं यथाबलं च विभज्य गृह्णीत युष्मदनुज्ञया येन केनचिदंशेनाहं तुष्यामीति शाठ्यात्सर्वानुवर्ती तेनैवामिषेण निमित्तीकृत्योत्पादितकलहः सर्वसामन्तानध्वंसयत् ।
तदीयं च सर्वस्वं स्वयमेवाग्रसत् ।
वानवास्यं केनचिदंशेनानुगृह्य प्रत्यावृत्य सर्वमनन्तवर्मराज्यमात्मसादकरोत् ।
अस्मिंश्चावसरे मन्त्रिवृद्धो वसुरक्षितः कैश्चिन्मौलैः सम्भूय बालमेनं भास्करवर्माणमस्यैव ज्यायसीं भगिनीं त्रयोदशवर्षां मञ्जुवादिनीमनयोश्च मातरं महादेवीं वसुन्धरामादायापसर्पन्नापदोस्या भावितया दाहज्वरेण देहमजहात् ।
अस्मन्मित्त्रैस्तु नीत्वा माहिष्मतीं भर्तृद्वैमातुराय भ्रात्रे मित्त्रवर्मणे सापत्या देवी दर्शिताभूत् ।
तां चार्यामनार्योसावन्यथाभ्यमन्यत ।
निर्भर्त्सितश्च तया सुतमियमखण्डचारित्रा राज्यार्हं चिकीर्षतीति नैर्घृण्यात्तमेनं बालमजिघांसत् ।
इदं तु ज्ञात्वा देव्याहमाज्ञप्तः ।
तात नालीजङ्घ जीवतानेनार्भकेण यत्र क्वचिदवधाय जीवेः ।
जीवेयं चेदहमप्येनमनुसरिष्यामि ।
ज्ञापय मां क्षेमप्रवृत्तः स्ववार्त्तामिति ।
अहं तु सङ्कुले राजकुले कथञ्चिदेनं निर्गमय्य विन्ध्याटवीं व्यगाहिषि ।
पादचारदुःखितं चैनमाश्वासयितुं घोषे क्वचिदहानि कानिचिद्विश्रमय्य तत्रापि राजपुरुषसम्पातभीतो दुरध्वमपसरन्नत्रास्य दारुणपिपासापीडितस्य वारि दातुकामः कूपेस्मिन्नपभ्रश्य पतितस्त्वयैवमनुगृहीतः ।
त्वमेवास्यातः शरणमेधि विशरणस्य राजसूनोरित्यञ्जलिमबध्नात् ।
किमीया जात्यास्य मातेत्यनुयुक्ते मयामुनोक्तम् ।
पाटलिपुत्रकस्य वणिजो वैश्रवणस्य दुहितरि सागरदत्तायां कोसलेन्द्रात्कुसुमधन्वनोस्य माता जातेति ।
यद्येवमेतन्मातुर्मत्पितुश्चैको मातामह इति सस्नेहं तमहं सस्वजे ।
वृद्धेनोक्तम् ।
सिन्धुदत्तापुत्राणां कतमस्ते पितेति ।
सुश्रुत इत्युक्ते सोत्यहृष्यत् ।
अहं तु तं नयावलिप्तमश्मकेन्द्रं नयेनैवोन्मूल्य बालमेनं पित्र्ये पदे प्रतिष्ठापयेयमिति प्रतिज्ञाय कथमस्यैनां क्षुधं क्षपयेयमित्यचिन्तयम् ।
तावदापतितौ च कस्यापि व्याधस्य त्रीनिषूनतीत्य द्वौ मृगौ स च व्याधः ।
तस्य हस्तादवशिष्टमिषुद्वयं कोदण्डं चाक्षिप्याविध्यम् ।
एकः सपत्राकृतोन्यश्च निष्पत्राकृतोपतत् ।
तं चैकं मृगं दत्त्वा मृगयवेन्यापलोमत्वचः क्लोमापोह्य निष्कुलाकृत्य निकृत्योर्वस्थिग्रीवादीनि शूलाकृत्य दावाङ्गतरेषु तप्तेनामिषेण तयोरात्मनश्च क्षुधमतक्षिषम् ।
एतस्मिन्कर्मणि मत्सौष्ठवेनातिहृष्टं किरातमस्मि पृष्टवान् ।
अयि जानासि माहिष्मतीवृत्तान्तमिति ।
असावाचष्ट ।
तत्र व्याघ्रत्वचो दृतीश्च विक्रीयाद्यैवागतः ।
किं न जानामि ।
प्रचण्डवर्मा नाम चण्डवर्मानुजो मित्त्रवर्मदुहितरं मञ्जुवादिनीं लिप्सुरभ्येतीति तेन सोत्सवा पुरीति ।
अथ कर्णे जीर्णमब्रवम् ।
धूर्तो मित्त्रवर्मा दुहितरि सम्यक्प्रतिपत्त्या मातरं विश्वास्य तन्मुखेन प्रत्याकृष्य बालकं जिघांसति ।
तत्प्रतिगत्य कुशलमस्य मद्वार्त्तां च देव्यै रहसि निवेद्य पुनः कुमारः शार्दूलभक्षित इति प्रकाशमाक्रोशः कार्यः ।
स दुर्मतिरन्तः प्रीतो बहिर्दुःखं दर्शयन्देवीमनुनेष्यति ।
पुनस्त्वया तन्मुखेन स वाच्यः ।
यदपेक्षया त्वदुक्तमत्यक्रमिषं सोपि बालः पापेन मे परलोकमगात् ।
अद्य तु त्वदादेशकारिण्येवाहमिति ।
स तथोक्तः प्रीतिं प्रतिपद्याभिपत्स्यति ।
पुनरनेन वत्सनाभनाम्ना महाविषेण सन्नीय तोयं तत्र मालां मज्जयित्वा तया स वक्षसि मुखे च हन्तव्यः ।
स एवायमसिप्रहारः पापीयसस्तवास्तु यद्यस्मि पतिव्रता ।
पुनरनेनागदेन सङ्गमितेम्भसि तां मालां मज्जयित्वा स्वदुहित्रे देया ।
मृते तु तस्मिंस्तस्यां च निर्विकारायां सत्यां सतीत्येवैनां प्रकृतयोनुवर्तिष्यन्ते ।
पुनः प्रचण्डवर्मणे सन्देश्यम् ।
अनायकमिदं राज्यम् ।
अनेनैव सह बालिकेयं स्वीकार्येति ।
तावदावां कापालिकवेषच्छन्नौ देव्यैव दीयमानभिक्षौ पुराद्बहिरुपश्मशानं वत्स्यावः ।
पुनरार्यप्रायान्पौरवृद्धानाप्तांश्च मन्त्रिवृद्धानेकान्ते ब्रवीतु देवी ।
स्वप्नेद्य मे देव्या विन्ध्यवासिन्या कृतः प्रसादः ।
अद्यचतुर्थेहनि प्रचण्डवर्मा मरिष्यति ।
पञ्चमेहनि रेवातटवर्तिनि मद्भवने परीक्ष्य वैजन्यं जनेषु निर्गतेषु कपाटमुद्घाट्य त्वत्सुतेन सह कोपि द्विजकुमारो निर्यास्यति ।
स राज्यमिदमनुपाल्य बालं ते प्रतिष्ठापयिष्यति ।
स खलु बालो मया व्याघ्रीरूपया तिरस्कृत्य स्थापितः ।
सा चेयं वत्सा मञ्जुवादिनी तस्य द्विजातिदारकस्य दारत्वेनैव कल्पितेति ।
तदेतदतिरहस्यं युष्मास्वेव गुप्तं तिष्ठतु यावदेतदुपपत्स्यत इति ।
स साम्प्रतमित्यतिप्रीतः प्रायात् ।
अर्थश्चायं यथाचिन्तितमनुष्ठितोभूत् ।
प्रतिदिशं च लोकवादः प्रासर्पत् ।
अहो माहात्म्यं पतिव्रतानाम् ।
असिप्रहार एव हि स मालाप्रहारस्तस्मिञ्जातः ।
न च शक्यमुपधियुक्तमेतत्कर्मेति वक्तुम् ।
यतस्तदैव दत्तं तद्दाम दुहित्रे स्तनमण्डनमेव तस्यै जातं न मृत्युः ।
योस्याः पतिव्रतायाः शासनमतिवर्तते स भस्मैव भवेदिति ।
अथ महाव्रतिवेषेण मां च पुत्रं च भिक्षायै प्रविष्टौ दृष्ट्वा प्रस्नुतस्तनी प्रत्युत्थाय हर्षकलमब्रवीत् ।
भगवन्नयमञ्जलिः ।
अनाथोयं जनोनुगृह्यताम् ।
अस्ति ममैकः स्वप्नः ।
स सत्यो न वेति ।
मयोक्तम् ।
फलमस्याद्यैव द्रक्ष्यसीति ।
यद्येवं बहु भागधेयमस्या वो दास्याः स खल्वस्याः सानाथ्यशंसी स्वप्न इति मद्दर्शनबद्धरागसाध्वसां मञ्जुवादिनीं प्रणमय्य भूयोपि सा हर्षगर्भमब्रूत ।
तच्चेन्मिथ्या सोयं युष्मदीयो बालकपाली श्वो मया निरोद्धव्य इति ।
मयापि सस्मितं मञ्जुवादिनीरागलीनदृष्टिलीढधैर्येणैवमस्त्विति लब्धभैक्षो नालीजङ्घमाकार्य निर्गम्य ततश्च तं चानुयान्तं शनैरपृच्छम् ।
क्वासावल्पायुः प्रथितः प्रचण्डवर्मेति ।
सोब्रूत ।
राज्यमिदं ममेत्यपास्तशङ्को राजास्थानमण्डप एव तिष्ठत्युपास्यमानः कुशीलवैरिति ।
यद्येवमुद्याने तिष्ठेति तं जरन्तमादिश्य तत्प्राकारैकपार्श्वे कस्याञ्चिच्छून्यमठिकायां मात्राः समवतार्य तद्रक्षणनियुक्तराजपुत्रः कृतकुशीलववेषलीलः प्रचण्डवर्माणमेत्यान्वरञ्जयम् ।
रञ्जितातपे तु समये जनसमाजज्ञानोपयोगीनि संहृत्य नृत्यगीतनानारुदितादि हस्तचङ्क्रमणमूर्ध्वपादालातपादापीडवृश्चिकमकरलङ्घनादीनि मत्स्योद्वर्तनादीनि च करणानि पुनरादायादायासन्नवर्तिनां क्षुरिकास्ताभिरुपाहितवर्ष्मा चित्रदुष्कराणि करणानि श्येनपातोत्क्रोशपातादीनि दर्शयन्विंशतिचापान्तरालावस्थितस्य प्रचण्डवर्मणः क्षुरिकथैकया प्रत्युरसं प्रहृत्य जीयाद्वर्षसहस्रं वसन्तभानुरिति गदन्मद्गात्रमुत्कर्तुमुद्यतासेः कस्यापि चारभटस्य पीवरांसबाहुशिखरमाक्रम्य तावतैव तं विचेतीकुर्वन्नाकुलं च लोकमुच्चक्षूकुर्वन्द्विपुरुषोच्छ्रितं प्राकारमत्यलङ्घयम् ।
अवप्लुत्य चोपवने मदनुपातिनामेष पन्था दृश्यत इति ब्रुवाण एव नालीजङ्घसमीकृतसैकतास्पष्टपादन्यासया तमालवीथ्या चारुप्राकारं प्राचा प्रतिधावितः पुनरवाचोच्चितेष्टकत्वादलक्ष्यपातेन प्रद्रुत्य लङ्घितप्राकारखातवलयस्तस्यां शून्यमठिकायां तूर्णमेव प्रविश्य प्रतिमुक्तपूर्ववेषः सह कुमारेण मत्कर्मतुमुलराजद्वारि दुःखलब्धवर्त्मा श्मशानोद्देशमभ्यगाम् ।
प्रागेव तस्मिन्दुर्गागृहे प्रतिमाधिष्ठान एव मया कृतं भग्नपार्श्वस्थैर्यस्थूलप्रस्तरस्थगितबाह्यद्वारं बिलम् ।
अथ गलति मध्यरात्रे वर्षवरोपनीतमहार्हरत्नभूषणपट्टनिवसनौ तद्बिलमावां प्रविश्य तूष्णीमतिष्ठाव ।
देवी तु पूर्वेद्युरेव यथार्हमग्निसंस्कारं मालवाय दापयित्वा प्रचण्डवर्मणे चण्डवर्मणे च तामवस्थामश्मकेन्द्रोपधिकृतामेव सन्दिश्योत्तरेद्युः प्रत्युषस्येव पूर्वसङ्केतितपौरामात्यसामन्तवृद्धैः सहाभ्येत्य भगवतीमर्चयित्वा सर्वजनप्रत्यक्षं परीक्षितकुक्षिवैजन्यं तद्भवनं विधाय तद्दत्तदृष्टिः सह जनेन स्थित्वा पटीयांसं पटहशब्दमकारयत् ।
अणुतररन्ध्रप्रविष्टेन तेन नादेनाहं दत्तसञ्ज्ञः शिरसैवोत्क्षिप्य सप्रतिमं लोहपादपीठमंसलपुरुषप्रयत्नदुश्चलमुभयकरविधृतैकपार्श्वमेकतो निवेश्य निरगमम् ।
निरगमयं च कुमारम् ।
अथ यथापुरमर्पयित्वा दुर्गामुद्घाटितकपाटः प्रत्यक्षीभूय प्रत्ययहृष्टदृष्टि स्पष्टरोमाञ्चमुद्यताञ्जलि रूढविस्मयं च प्रणिपतन्तीः प्रकृतीरभ्यधाम् ।
इत्थं देवी विन्ध्यवासिनी मन्मुखेन युष्मानाज्ञापयति ।
स एष राजसूनुरापन्नो मया सकृपया शार्दूलरूपेण तिरस्कृत्याद्य वो दत्तः ।
तमेनमद्यप्रभृति मत्पुत्रतयामन्दमातृपक्ष इति परिगृह्णन्तु भवन्तः ।
अपि च दुर्घटकूटकोटिघटनापाटवप्रकटशाठ्यनिष्ठुराश्मकघटघट्टनात्मानं मां मन्यध्वमस्य रक्षितारम् ।
रक्षानिर्वेशश्चास्य स्वसेयं सुभ्रूरभ्यनुज्ञाता मह्यमार्ययेति ।
श्रुत्वैतदहो भाग्यवान्भोजवंशो यस्य त्वमार्यादत्तो नाथ इत्यप्रीयन्त प्रकृतयः ।
सा तु वाचामगोचरां हर्षावस्थामस्पृशन्मे श्वश्रूः ।
तदहरेव च यथावदग्राहयन्मञ्जुवादिनीपाणिपल्लवम् ।
प्रपन्नायां च यामिन्यां सम्यग्बिलं प्रत्यपूरयम् ।
अलब्धरन्ध्रश्च लोको नष्टमुष्टिचिन्तादिकथनैरभ्युपायान्तरप्रयुक्तैर्दिव्यांशतामेव मे समर्थयमानो मदाज्ञां नात्यवर्तत ।
राजपुत्रस्यार्यापुत्र इति प्रभावहेतुः प्रसिद्धिरासीत् ।
तं च गुणवत्यहनि भद्राकृतमुपनाय्य पुरोहितेन पाठयन्राजकार्याण्यन्वतिष्ठम् ।
अचिन्तयं च ।
राज्यं नाम शक्तित्रयायत्तम् ।
शक्तयश्च मन्त्रप्रभावोत्साहाः परस्परानुगृहीताः कृत्येषु क्रमन्ते ।
मन्त्रेण हि विनिश्चयोर्थानां प्रभावेण प्रारम्भः ।
उत्साहेन निर्वहणम् ।
अतः पञ्चाङ्गमन्त्रमूलो द्विरूपप्रभावस्कन्धश्चतुर्गुणोत्साहविटपो द्विसप्ततिप्रकृतिपत्त्रः षड्गुणकिसलयः शक्तिसिद्धिपुष्पफलश्च नयवनस्पतिर्नेतुरुपकरोति ।
स चायमनेकाधिकरणत्वादसहायेन दुरुपजीवः ।
यस्त्वयमार्यकेतुर्नाम मित्त्रवर्ममन्त्री स कोसलाभिजनत्वात्कुमारमातृपक्षो मन्त्रिगुणैश्च युक्तस्तन्मतिमवमत्यैव ध्वस्तो मित्त्रवर्मा ।
स चेल्लब्धः पेशलमिति ।
अथ नालीजङ्घं रहस्यशिक्षयम् ।
तातार्यकेतुमेकान्ते ब्रूहि ।
कोन्वेष मायापुरुषो य इमां राज्यलक्ष्मीमनुभवति ।
स चायमस्मद्बालो भुजङ्गेनामुना परिगृहीतः ।
किमुद्गीर्येत ग्रस्येत वेति ।
स यद्वदिष्यति तदस्मि बोध्य इति ।
सोप्यन्यदैवं मामावेदयत् ।
मुहुरुपास्य प्राभृतैः प्रवर्त्य चित्राः कथाः संवाह्य पाणिपादमतिविस्रम्भदत्तक्षणं तमप्राक्षं त्वदुपदिष्टेन नयेन ।
सोप्येवमकथयत् ।
भद्र मैवं वादीः ।
अभिजनस्य शुद्धिर्दर्शनमसाधारणं बुद्धिनैपुणमतिमानुषं प्राणबलमपरिमाणमौदार्यमत्याश्चर्यमस्त्रकौशलमनल्पं शिल्पज्ञानमनुग्रहार्द्रं चेतस्तेजश्चाप्यपरविषह्यमभ्यमित्त्रीणमित्यस्मिन्नेव सन्निपातिनो गुणाः येन्यत्रैकैकशोपि दुर्लभाः ।
द्विषतामेष चिलिबिलिद्रुमः प्रह्वाणां तु चन्दनतरुस्तमुद्धृत्य नीतिज्ञमन्यमश्मकमिमं च राजपुत्रमनेन पित्र्ये पदे प्रतिष्ठितमेव विद्धि ।
नात्र संशयः कार्य इति ।
तच्चापि श्रुत्वा भूयो भूयश्चोपधाभिर्विशोध्य तं मे मतिसहायमकरवम् ।
तत्सखश्च सत्यशौचयुक्तानमात्यान्विविधव्यञ्जनांश्च गूढपुरुषानुदपादयम् ।
तेभ्यश्चोपलभ्य लुब्धसमृद्धमत्युत्सिक्तमविधेयप्रायं च प्रकृतिमण्डलमलुब्धतामभिख्यापयन्धार्मिकत्वमुद्भावयन्नास्तिकान्कदर्थयन्कण्टकान्विशोधयन्नमित्रोपधीरुपघ्नंश्चातुर्वर्ण्यं च स्वधर्मकर्मसु स्थापयन्नभिसमाहरेयमर्थान् ।
अर्थमूला हि दण्डविशिष्टकर्मारम्भाः ।
न चान्यदस्ति पापिष्ठं तत्र दौर्बल्यादित्याकलय्य योगानन्वतिष्ठम् ।