राजाधिराजनन्दन नगरन्ध्रगतस्य ते गतिं ज्ञास्यन्नहं च गतस्तदा कलिङ्गान् ।
कलिङ्गनगरस्य च नात्यासन्नसंस्थितजनदाहस्थानसंसक्तस्य कस्यचित्कान्तारधरणिजस्यास्तीर्णसरसकिसलयसंस्तरे तले निषद्य निद्रालीढदृष्टिरशयिषि ।
जगति च कालरात्रिशिखण्डजालकान्धकारे चरितरक्षसि क्षरितनीहारे निजनिलयनिलीननिःशेषजने नितान्तशीते निशीथे घनतरसालशाखान्तरालनिर्ह्रादि नेत्रनिंसिनीं निद्रां निगृह्णत्कर्णदेशं गतं कथं खलेनानेन दग्धसिद्धेन रिरंसाकाले निदेशं दित्सता जन एष रागेणानर्गलेनार्दित इत्थं खिलीकृतः क्रियेतास्याणकनरेन्द्रस्य केनचिदनन्तशक्तिना सिद्ध्यन्तराय इति किङ्करस्य किङ्कर्याश्चातिकातरं रटितं ।
तदाकर्ण्य क एष सिद्धः का च सिद्धिः किं चानेन किङ्करेण करिष्यत इति दिदृक्षाक्रान्तहृदयः किङ्करगतया दिशा किञ्चिदन्तरं गतस्तरलतरनरास्थिशकलरचितालङ्कारकान्तकायं दहनदग्धकाष्ठनिष्ठाङ्गाररजःकृताङ्गरागं तरलतडिल्लताकारजटाधरं हिरण्यरेतस्यरण्यचक्रान्धकारराक्षसे क्षणक्षणगृहीतनानेन्धनग्रासचञ्चदर्चिषि दक्षिणेतरेण करेण तिलसिद्धार्थकादीनि निरन्तरचटचटायितानि किरन्तं कञ्चिदद्राक्षं ।
तस्याग्रे स कृताञ्जलिः किङ्करः किं करणीयं दीयतां निदेश इत्यतिष्ठत् ।
आदिष्टश्च तेनायमतिनिकृष्टाशयेन ।
गच्छ कलिङ्गराजस्य कर्दनस्य कन्यकां कनकलेखां कन्यागृहादिहानयेति ।
स च तथाकार्षीत् ।
ततश्च तां त्रासेनालघीयसा चास्रजर्जरेण च कण्ठेन रणरणिकागृहीतेन च हृदयेन हा तात हा जननीति क्रन्दन्ती कीर्णग्लानशेखरस्रजि शीर्णनहने शिरसिजानां सञ्चये निगृह्यासिना शिलाशितेन शिरश्चिकर्तिषयाचेष्टत ।
झटिति चाच्छिद्य तस्य हस्तात्तां शस्त्रिकां तया निकृत्य तच्छिरः सजटाजालं निकटस्थस्य कस्यचिज्जीर्णसालस्य रन्ध्रे न्यधिषि ।
तन्निध्याय हृष्टतरः स राक्षसः क्षीणाधिरकथयत् ।
आर्य कदर्यस्यास्य कदर्थनान्न कदाचिन्निद्रायाति नेत्रे ।
तर्जयति त्रासयति चाकृत्ये चाज्ञां ददाति ।
तदत्र कल्याणराशिना साधीयः कृतं यदेष नरकाकः कारणानां नारकीणां रसज्ञानाय नीतः शेते शीतेतरदीधितिदेहजस्य नगरे ।
तदित्थं दयानिधेरनन्ततेजसस्तेयं जनः काञ्चिदाज्ञां चिकीर्षति ।
आदिशालं कालहरणेनेत्यनंसीत् ।
आदिक्षं च तं सखे सैषा सज्जनाचरिता सरणिर्य्दणीयसि कारणेनणीयानादरः सन्दृश्यते न चेदिदं नेच्छसि सेय सन्नताङ्गयष्टिरक्लेशार्हा सत्यनेनाकृत्यकारिणात्यर्थं क्लेशिता नयैनां निजनिलयं नान्यदितः किञ्चिदस्ति चित्ताराधनं न इति ।
अथ तदाकर्ण्य कर्णशेखरनीलनीरजायितां धीरेतरतारकां दृशं तिर्यक्किञ्चिदञ्चितां सञ्चारयन्ती सलिलचरकेतनशरासनानतां चिल्लिकालतां ललाटरङ्गस्थलीलास्यनर्तकीं लीलालसं लासयन्ती कण्टकितरक्तगण्डलेखा रागलज्जान्तरालचारिणी चरणाग्रेण धरणीतलं तिरश्चीननखार्चिश्चन्द्रिकेण साचीकृताननसरसिजं लिखन्ती दन्तच्छदकिसलयलङ्घिना हर्षास्रसलिलधाराशीकरकणजालसङ्क्लेदितस्य स्तनतटचन्दनस्यार्द्रतां निरस्यतास्यान्तरालनासान्तरनिःसृतेन तनीयसानिलेन हृदयलक्ष्यदलनदक्षरतिसहचरसायकस्यदायितेन तरङ्गतदशनचन्द्रिकाणि कानिचिदेतान्यक्षराणि कलकण्ठीकलान्यसृजत् ।
आर्य केन कारणेनैनं दासजनं कालहस्तादाच्छिद्यानन्तरं रागानिलचलितरणरणिकातरङ्गिण्यनङ्गसागरे किरसि ।
यथा ते चरणसरसिजरजःकणिका तथाहं चिन्तनीया ।
यद्यस्ति दया तेत्र जनेनन्यसाधारणः करणीयः स एष चरणाराधनक्रियायाम् ।
यदि च कन्यागाराध्यासने रहस्यक्षरणादनर्थ आशङ्क्यते नैतदस्ति ।
रक्ततरा हि नस्तत्र सख्यश्चेट्यश्च ।
यथा न कश्चिदेतज्ज्ञास्यति तथा यतिष्य इति ।
स चाहं देहजेनाकर्णाकृष्टसायकासनेन चेतस्यनिर्दयं हतस्तत्कटाक्षकालायसनिगडगाढसंयतः किङ्करानननिहितदृष्टिरगादिषं यथेयं रथचरणजघना कथयति तथा चेन्नाचरेयं नयेत नक्रकेतनः क्षणेनैकेनाकीर्तनीयां दशां जनं चैनं सहानया नय कन्यागृहं हरिणनयनयेति ।
नीतश्चाहं निशाचरेण शारदजलधरकान्ति कन्यकानिकेतनं तत्र च काञ्चित्कालकलां चन्द्राननानिदेशाच्चन्द्रशालैकदेशे तद्दर्शनचलितधृतिरतिष्ठं ।
सा च च्छन्दतः शयानाः करतलालससङ्घट्टनापनीतनिद्राः काश्चिदधिगतार्थाः सखीरकार्षीत् ।
अथागत्य ताश्चरणनिहितशिरसः क्षरदस्रकरालितेक्षणा निजशेखरकेसराग्रसंलग्नषट्चरणगणरणितसंशयितकलगिरः शनैरकथयन् ।
नाथ यदत्यादित्यतेजसस्त एषा नयनलक्ष्यतां गता ततः कृतान्तेन न गृहीता ।
दत्ता चेयं चित्तजेन गरीयसा साक्षीकृत्य रागानलं ।
तदनेनाश्चर्यरत्नेन नलिनाक्षस्य ते रत्नशैलशिलातलस्थिरं रागतरलेनालङ्क्रियतां हृदयं ।
तदस्याश्चरितार्थं स्तनतटं गाढालिङ्गनैः सदृशतरस्य सहचरस्येति ।
ततः सखीजनेनातिदक्षिणेन दृढतरीकृतस्नेहनिगलस्तया सन्नताङ्ग्या सङ्गत्यारंसि ।
अथ कदाचिदायासितजायारहितचेतसि लालसालिलङ्घनग्लानघनकेसरे राजदरण्यस्थलीललाटलीलायिततिलके ललितानङ्गराजाङ्गीकृतनिर्निद्रकर्णिकारकाञ्चनच्छत्रे दक्षिणदहनसारथिरयाहतसहकाराङ्गलग्नचञ्चलचञ्चरीककलिके कालाण्डजकण्ठरागरक्तरक्ताधरारतिरणाग्रसन्नाहशालिनि शालीनकन्यकान्तःकरणसङ्क्रान्तकान्तरागलङ्घितलज्जे दर्दुरगिरितटचन्दनाश्लेषशीतलानिलाचार्यदत्तनानालतानृत्तलीले काले कलिङ्गराजः सह निजाङ्गनाजनेन सह च तनयया सकलेन च नगरजनेन दश त्रीणि च दिनानि दिनकरकिरणजालालङ्घनीये रणदलिसङ्घलङ्घितनतलताग्रकिसलयालीढसैकततटे तरलतरङ्गशीकरासारसङ्गशीतले सागरतीरकानने क्रीडारसजातासक्तिरासीत् ।
अथ सन्ततगीतसङ्गीतसङ्गताङ्गनासहस्रशृङ्गारहेलानिरर्गलानङ्गसङ्घर्षहर्षितश्च रागतृष्णैकतन्त्रस्तत्र रन्ध्रेन्ध्रनाथेन जयसिंहेन सलिलतरणसाधनानीतेनानीकेनानेकसङ्ख्येन द्रागागत्यागृह्यत सकलत्रः ।
सा चानीयत त्रासचञ्चलाक्षी दयिता नः सह सखीजनेन कनकलेखा ।
तदाहं दाहेनानङ्गदहनजनितेनान्तरिताहारचित्तश्चिन्तयन्दयितां गलितगात्रकान्तिरित्यतर्कयं ।
गता सा कलिङ्गराजतनया सह जनयित्रा जनन्या चारिहस्तं ।
गतधैर्यश्च तां स राजा नियतं सञ्जिघृक्षेत् ।
तदसहा च सा सती गररसादिना सद्यः सन्तिष्ठेत ।
तस्यां च तादृशीं दशां गतायां जनस्यास्यानन्यजेन हन्येन शरीरधारणाशा ।
का स्याद्गतिरिति ।
अत्रान्तरेन्ध्रनगरादागच्छन्नग्रजः कश्चिदैक्ष्यत ।
तेन चेयं कथा कथिता ।
यथा किल जयसिंहेन नैकनिकारदत्तसङ्घर्षेण जिघांसितः स कर्दनः कनकलेखाकारदर्शनैधितेन रागेणारक्ष्यत ।
सा च दारिका यक्षेण केनचिदधिष्ठिता न तिष्ठत्यग्रे नरेन्द्रस्य नरान्तरस्य च ।
आयास्यति च नरेन्द्रसार्थसङ्ग्रहणेन नरेन्द्रस्तन्निराकरिष्यन्न चास्ति सिद्धिरिति ।
तेन चाहं दर्शिताशः शङ्करनृत्तदेशजातस्य जरत्सालस्य स्कन्धरन्ध्रान्तर्जटाजालं निष्कृष्य तेन जटिलतां गतः कन्थाचीरसञ्चयान्तरितसकलगात्रः कांश्चिच्छिष्यानग्रहीषं ।
तांश्च नानाश्चर्यक्रियातिसंहिताज्जनादाकृष्टान्नचेलादित्यागान्नित्यहृष्टानकार्षं ।
अयासिषं च दिनैः कैश्चिदन्ध्रनगरं ।
तस्य नात्यासन्ने सलिलराशिसदृशस्य कलहंसगणदलितनलिनदलसंहतिगलितकिञ्जल्कशकलशारस्य सारसश्रेणिशेखरस्य सरसस्तीरकानने कृतनिकेतनः स्थितः ।
शिष्यजनकथितचित्रचेष्टाकृष्टसकलनागरजनातिसन्धानदक्षः सन्दिशि दिशीत्यकीर्त्ये जनेन ।
य एष जरदरण्यसरस्तटे सलिलशायी यतिस्तस्य किल सकलानि सरहस्यानि सषडङ्गानि च छन्दांसि रसनाग्रे सन्निहितानि ।
अन्यानि च शास्त्राणि येन यानि न ज्ञायन्ते स तेषां तत्सकाशादर्थनिर्णयं करिष्यति ।
असत्येनास्य नास्यं संसृज्यते ।
सशरीर एष दयाराशिः ।
एतत्सङ्ग्रहणादचिरेण चरितार्था दीक्षा ।
तच्चरणरजःकणैः कैश्चन शिरसि कीर्णैरनेकस्यानेक आतङ्कश्चिकित्सनैरसंहार्यः संहृतः ।
तदङ्घ्रिक्षालनसलिलसेकनिष्कलङ्कशिरसां नश्यन्ति क्षणेनैकेनाखिलनरेन्द्रयत्नलङ्घिनश्चण्डतरग्रहाः ।
न तस्य शक्यं शक्तेरियत्ताज्ञानं ।
न चास्याहङ्कारकणिकेति ।
सा चेयं कथा नैकजनास्यसञ्चारिणी तस्य कनकलेखाधिष्ठितधनदाज्ञाकरनिराक्रियासक्तचेतसः क्षत्रियस्याकर्षणायाशकत् ।
स चाहरहरागत्यादरेणातिगरीयसार्चयन्नर्थैश्च शिष्यान्सङ्गृह्णन्नधिगतक्षणः कदाचित्काङ्क्षितार्थसाधनाय शनैरयाचिष्ट ।
ध्यानधीरः स्थानदर्शितज्ञानसन्निधिश्चैनं निरीक्ष्य निचाय्याकथयं ।
तात स्थान एष हि यत्नः ।
तस्य हि कन्यारत्नस्य सकलकल्याणलक्षणैकराशेरधिगतिः क्षीरसागररशनालङ्कृताया गङ्गादिनदीसहस्रहारयष्टिराजिताया धराङ्गनायाश्चासादनाय साधनं ।
न च स यक्षस्तदधिष्ठायी केनचिन्नरेन्द्रेण तस्या लीलाञ्चितनीलनीरजदर्शनाया दर्शनं सहते ।
सह्यन्तां तत्र त्रीण्यहानि यैरहं यतिष्येर्थस्यास्य साधनायेति ।
तथादिष्टे हृष्टतरे गते क्षितीशे निशि निर्निशाकरार्चिषि नीरन्ध्रान्धकारनिकरनिगीर्णदशदिशि निद्रानिगलितनिखिलजनदृशि निर्गत्य जलतलनिलीनगाहनीयं नीरन्ध्रं कृच्छ्राच्छिद्रीकृतान्तरालं तदेकतः सरस्तटं तीर्थसन्निकृष्टं केनचित्खननसाधनेनाकार्षम् ।
घनशिलेष्टिकाच्छन्नच्छिद्राननं तत्सरस्तीरदेशं जनैरशङ्कनीयं निश्चित्य दिनादिस्नाननिर्णिक्तगात्रश्च नक्षत्रसन्तानहारि हारयष्ट्यग्रग्रथितरत्नं क्षणदान्धकारगन्धहस्तिदारणैककेसरिणं कनकशैलशृङ्गरङ्गलास्यलीलानटं गगनसागरघनतरङ्गराजिलङ्घनैकचक्रं कार्याकार्यसाक्षिणं सहस्रार्चिषं सहस्राक्षदिगङ्गनारक्तचन्दनाङ्गरागरागायितकिरणजालं रक्तनीरजाञ्जलिनाराध्य निजनिकेतनं चाध्यशिश्रियं ।
याते च दिनत्रयेस्तगिरिशिखरगैरिकतटसाधारणच्छायतेजस्यचलराजकन्यकाकदर्थनयान्तरिक्षाख्येण शङ्करशरीरेण संसृष्टायाः सन्ध्याङ्गनाया रक्तचन्दनचर्चितैकस्तनकलशदर्शनीये दिनाधिनाथे जनाधिनाथः स आगत्य जनस्यास्य धरणिन्यस्तचरणनखकिरणच्छादितकिरीटः कृताञ्जलिरतिष्ठत् ।
आदिष्टश्च ।
दिष्ट्या दृष्टेष्टसिद्धिः ।
इह जगति न हि निरीहं देहिनं श्रियः श्रयन्ते ।
श्रेयांसि च सकलान्यनलसानां हस्ते नित्यसान्निध्यानि ।
यतस्ते साधीयसा सच्चरितेनानाकलितकलङ्केनार्चितेनात्यादरनिचितेनाकृष्टचेतसा जनेनानेन सर इदं तथा संस्कृतं यथेह तेद्य सिद्धिः स्यात् ।
तदेतस्यां निशि गलदर्धायां गाहनीयं ।
गाहनानन्तरं च सलिलतले सततगतीनन्तश्चारिणः सन्निगृह्य यथाशक्ति शय्या कार्या ।
ततश्च तटस्खलितजलस्थगितजलजखण्डचलितदण्डकण्टकाग्रदलितदेहराजहंसत्रासजर्जररसितदत्तकर्णस्य जनस्य क्षणाकर्णनीयं जनिष्यते जलसङ्घातस्य किञ्चिदारटितं ।
शान्ते च तत्र सलिलरटिते क्लिन्नगात्रः किञ्चिदारक्तदृष्टिर्येनाकारेण निर्यास्यति निचाय्य तस्य निखिलजननेत्रानन्दकरस्य न स यक्षः शक्ष्यत्यग्रे स्थितये ।
स्थिरतरनिहितस्नेहशृङ्खलानिगडितं च कन्यकारत्नं क्षणेनैकेनासहनीयदर्शनान्तरायं स्यात् ।
अस्याश्च धराङ्गनाया नात्यादरनिराकृतारिचक्रं चक्रं करतलगतं चिन्तनीयं ।
न तत्र संशयः ।
तच्चेदिच्छसि नैकशास्त्रज्ञानधीरधिषणैरधिकृतैरितरैश्च हितैषिगणैर्विचार्य जालिकशतं चानाय्यानन्तरं नरशतैर्यथेष्टदृष्टान्तरालं सरः क्रियेत ।
रक्षा चात्र तीरात्त्रिंशद्दण्डान्तरे सैनिकजनेन सादरं रचनीया ।
कस्तज्जानाति यच्छिद्रेणारयश्चिकीर्षन्तीति ।
तत्तस्य हृदयहारि जातं ।
तदधिकृतैश्च तत्र कृत्ये रन्ध्रदर्शनासहैरिच्छां च राज्ञः कन्यकातिरागजनितां नितान्तनिश्चलां निश्चित्यार्थ एष न निषिद्धः ।
तथास्थितश्च तदासादनदृढतराशयः स आख्यायत ।
राजन्नत्र जनान्ते चिरं स्थितं ।
न चैकत्र चिरं स्थानं नः शस्तं ।
कृतकृत्यश्च न इह द्रष्टासि ।
यस्य राष्ट्र आतिथेयाद्यासादितं तस्य ते किञ्चिदनाचर्य कार्यं गतिरार्यगर्ह्येति ।
अत्रैतच्चिरस्थानस्य कारणम् ।
तच्चाद्य सिद्धम् ।
गच्छ गृहान् ।
यथार्हजलेन हृद्यगन्धेन स्नातः सितस्रगङ्गरागः शक्तिसदृशेन दानेनाराधितधरणितलतैतिलगणस्तिलस्नेहसिक्तयष्ट्यग्रग्रथितवर्तिकाग्निशिखासहस्रग्रस्तनैशान्धकारराशिरागत्यार्थसिद्धये यतेथा इति ।
स किल कृतज्ञतां दर्शयन्नसिद्धिरेषा सिद्धिर्यदसन्निधिरिहार्याणां ।
कष्टा चेयं निःसङ्गता या निरागसं दासजनं त्याजयति न च निषेधनीया गरीयसां गिर इति स्नानाय गृहानयासीत् ।
अहं च निर्गत्य निर्जने निशीथे सरस्तीररन्ध्रनिलीनः सन्नीषच्छिद्रदत्तकर्णः स्थितः ।
स्थिते चार्धरात्रे कृतयथादिष्टक्रियः स्थानस्थानरचितरक्षः स राजा जालिकजनानानीय निराकृतान्तःशल्यं शङ्काहीनः सरःसलिलं सलीलगतिरगाहत ।
गतश्च कीर्णकेशं संहतकर्णनासं सरस्तलं हास्तिनं नक्रलीलया नीरनिलीनयायी ।
तं तथाशयानं कन्थया कन्धरायां न्यग्रहीषम् ।
खरतरकालदण्डघट्टनातिचण्डैश्च करचरणार्गलाघातैर्निर्दयदत्तनिग्रहः क्षणेनैकेनाजहात्स चेष्टां ।
ततश्चाकृष्य तच्छरीरं तीरच्छिद्रे निधाय नीरान्निरयासिषं ।
सद्यः सङ्गतानां च सैनिकानां तदत्यचित्रीयताकारान्तरग्रहणं ।
गजस्कन्धगतः सितच्छत्त्रादिसकलराजचिह्नराजितश्चण्डतरदण्डिदण्डताडनत्रस्तजनदत्तान्तरालया राजरथ्ययायातस्तां निशां नयनरसनिरस्तनिद्रारतिरत्यनैषं ।
नीते च जनाक्षिलक्ष्यतां लाक्षारसदिग्धदिग्गजशिरःसदृक्षे शक्रदिगङ्गनारत्नादर्शेर्कचक्रे कृतकरणीयः किरणजालकरालरत्नराजिराजितराजार्हासनाध्यासी यथासदृशाचारदर्शिनः शङ्कायन्त्रिताङ्गान्सन्निधिनिषादिनः सहायानगादिषं ।
दृश्यतां शक्तिरार्षी यत्तस्य यतेरजेयस्येन्द्रियाणां संस्कारेण नीरजसा नीरजसान्निध्यशालिनि सहर्षालिनि सरसि सरसिजदलसन्निकाशच्छायस्याधिकतरदर्शनीयस्याकारान्तरसिद्धिरासीत् ।
अद्य किल सकलनास्तिकानां जायेत लज्जानतं शिरः ।
तदिदानीं चन्द्रशेखरनरकशासनसरसिजासनादीनान्त्रिदशेशानां स्थानान्यत्यादररचितनृत्यगीतार्चनाञ्चितानि क्रियन्ताम् ।
ह्रियन्तां गृहादितः क्लेशनिरसनसहान्यर्थिसार्थैर्धनानीति ।
आश्चर्यरसातिरेकहृष्टदृष्टयश्च ते जय जय जगदीश दश दिशः स्थगयन्निजतेजसादिराजयशांसीत्यसकृदाशास्याचरन्यथादिष्टाः क्रियाः ।
स चाहं दयितायाः सखीं हृदयस्थानीयां शशाङ्कसेनां कन्यां कदाचित्कार्यान्तरागतां रहस्याचक्षिषि ।
कच्चिदयं जनः कदाचिदासीद्दृष्ट इति ।
अथ सा हर्षकाष्ठां गतेन हृदयेनेषदालक्ष्य दशनदीधितिलतां लीलालसं लासयन्ती हसन्ती लीलाञ्चितकरशाखान्तरितदन्तच्छदकिसलया हर्षजलक्लेदजर्जरनिरञ्जनेक्षणा रचिताञ्जलिर्नितरां जाने यदि न स्यादैन्द्रजालिकस्य जालं किञ्चिदेतादृशं ।
तत्कथं चैतत्कथयेति स्नेहनिर्यन्त्रणं शनैरगादीत् ।
अहं चैतदस्यै कार्त्स्न्येनाख्याय तदाननसङ्क्रान्तेन सन्देशेन सञ्जनय्य सहचर्या निरतिशयं हृदयाह्लादनं ।
ततश्चेतया दयितया निरर्गलीकृतातिसत्कृतकलिङ्गनाथन्यायदत्तया सङ्गत्यान्ध्रकलिङ्गराज्यशासी तस्यास्यारिणा लिलङ्घयिषितस्याङ्गराजस्य साहाय्यकायालघीयसा साधनेनागत्यात्र ते सखिगणसङ्गतस्य यादृच्छिकदर्शनानन्दराशिलङ्घितचेता जात इति ।
तस्य तत्कौशलं स्मितज्योत्स्नाभिषिक्तदन्तच्छदः सह सुहृद्भिरभिनन्द्य चित्रमिदं महामुनेर्वृत्तम् ।
अत्रैव खलु फलितमतिकष्टं तपः ।
तिष्ठतु भवन्नर्म ।
प्रकर्षस्पृशोः प्रज्ञासत्त्वयोर्दृष्टमिह स्वरूपमित्यभिधाय पुनरवतरतु भवानिति बहुश्रुते विश्रुते विकचराजीवसदृशं चक्षुश्चिक्षेप क्षितीशपुत्रः ।
इति श्रीदण्डिनः कृतौ दशकुमारचरिते मन्त्रगुप्तचरितं नाम सप्तम उच्छ्वासः ॥