स चाचचक्षे ।
देव सोहमपि सुहृत्साधारणभ्रमणकारणः सुह्मेषु दामलिप्ताह्वयस्य नगरस्य बाह्योद्याने महान्तमुत्सवसमाजमालोकयम् ।
तत्र क्वचिदतिमुक्तलतामण्डपे कमपि वीणावादेनात्मानं विनोदयन्तं युवानमद्राक्षम् ।
अप्राक्षं च ।
भद्र को नामायमुत्सवः किमर्थं वा समारब्धः केन वा निमित्तेन पुनरुत्सवश्रियमनादृत्यैकान्ते भवानुत्कण्ठित इव परिवादिनीद्वितीयस्तिष्ठतीति ।
सोभ्यधत्त ।
सौम्य सुह्मपतिस्तुङ्गधन्वा नामानपत्यः प्रार्थितवानमुष्मिन्नायतने विस्मृत्य विन्ध्यवासरागं वसन्त्या विन्ध्यवासिन्याः पादमूलादपत्यद्वयम् ।
अनया च किलास्मै प्रतिशयिताय स्वप्ने समादिष्टम् ।
तव चैकः पुत्रः समुत्पत्स्यते ।
जनिष्यते चैका दुहिता ।
स तु पुत्रस्तस्याः पाणिग्राहकमनुजीविष्यति ।
सा च सप्तमाद्वर्षादारभ्या परिणयनात्प्रतिमासं कृत्तिकासु कन्दुकनृत्येन गुणवद्भर्तृलाभाय मां समाराधयतु ।
यं च साभिलषेदमुष्मै देया ।
स चायमुत्सवः कन्दुकनामास्त्विति ।
ततोल्पीयसा कालेन राज्ञः प्रियमहिषी मेदिनी नामैकं पुत्रमसूत ।
समुत्पन्ना चैका दुहिता ।
साद्य कन्या कन्दुकावती नाम सोमापीडां देवीं कन्दुकविहारेणाराधयितुमागमिष्यति ।
तस्यास्तु सखी धात्रेयिका चन्द्रसेना नाम मत्प्रियासीत् ।
सा चैषु दिवसेषु राजपुत्रेण भीमधन्वना बलवदवरुद्धा ।
तदहमुत्कण्ठितो मन्मथशरशल्यदुःखाविष्टचेताः कलेन वीणारवेणात्मानं किञ्चिदाश्वासयन्विविक्तमध्यास इति ।
अस्मिन्नेव क्षणे किमपि मणिनूपुरक्वणितमुपातिष्ठत ।
आगता च काचिदङ्गना ।
दृष्ट्वैव स एनामुत्फुल्लदृष्टिरुत्थायोपगूह्य गाढमुपगूढकण्ठश्च तया तत्रैवोपाविशत् ।
अशंसच्च ।
सैषा मम प्राणसमा यद्विरहो दहन इव दहति माम् ।
इदं मे जीवितमपहरता राजपुत्रेण मृत्युनेव निरुष्मतां नीतोहम् ।
न च शक्ष्यामि राजसूनुरित्यमुष्मिन्पापमाचरितुम् ।
अतोनयात्मानं सुदृष्टं कारयित्वा त्यक्ष्यामि निष्प्रतिक्रियान्प्राणानिति ।
सा तु पर्यश्रुमुखी समभ्यधात् ।
मा स्म नाथ मत्कृतेध्यवस्यः साहसम् ।
यस्त्वमुत्तमात्सार्थवाहादर्थदासादुत्पद्य कोशदास इति गुरुभिरभिहितनामधेयः पुनर्मदत्यासङ्गाद्वेशदास इति द्विषद्भिः प्रख्यापितोसि तस्मिंस्त्वय्युपरते यद्यहं जीवेयं नृशंसो वेश इति समर्थयेयं लोकवादम् ।
अतोद्यैव नय मामीप्सितं देशमिति ।
स तु मामभ्यधत्त ।
भद्र भवद्दृष्टेषु राष्ट्रेषु कतमत्समृद्धं सम्पन्नशस्यं सत्पुरुषभूयिष्ठं चेति ।
तमहमीषद्विहस्याब्रवम् ।
भद्र विस्तीर्णेयमर्णवाम्बरा ।
न पर्यन्तोस्ति स्थानस्थानेषु रम्याणां जनपदानाम् ।
अपि तु न चेदिह युवयोः सुखनिवासकारणं कमप्युपायमुत्पादयितुं शक्नुयां ततोहमेव भवेयमध्वदर्शीति ।
तावतोदैरत रणितानि मणिनूपुराणाम् ।
अथासौ जातसम्भ्रमा प्राप्तैवेयं भर्तृदारिका कन्दुकावती कन्दुकक्रीडितेन देवीं विन्ध्यवासिनीमाराधयितुम् ।
अनिषिद्धदर्शना चेयमस्मिन्कन्दुकोत्सवे ।
सफलमस्तु युष्मच्चक्षुः ।
आगच्छतं द्रष्टुम् ।
अहमस्याः सकाशवर्तनी भवेयमित्ययासीत् ।
तामन्वयाव चावाम् ।
महति रत्नरङ्गपीठे स्थितां प्रथमं ताम्रोष्ठीमपश्यम् ।
अतिष्ठच्च सा सद्य एव मम हृदये ।
न मयान्येन वान्तराले दृष्टा ।
चित्रीयाविष्टचित्तश्चाचिन्तयम् ।
किमियं लक्ष्मीः ।
नहि ।
तस्याः किल हस्ते कमलम् ।
अस्यास्तु हस्त एव कमलम् ।
भुक्तपूर्वा च सा पुरातनेन पुंसा पूर्वराजैश्च ।
अस्याः पुनरनवद्यमयातयामं च यौवनम् ।
इति चिन्तयत्येव मयि सानवद्यसर्वगात्री व्यत्यस्तहस्तपल्लवाग्रस्पृष्टभूमिरालोलनीलकुटिलालका ससम्भ्रमं भगवतीं भवानीमभिवन्द्य कन्दुकममन्दरागरूषिताक्षमनङ्गमिवालम्बत लीलाशिथिलं च भूमौ मुक्तवती ।
मन्दोत्थितं च किञ्चित्कुञ्चिताङ्गुष्ठेन प्रसृतकोमलाङ्गुलिना पाणिपल्लवेन समाहत्य हस्तपृष्ठेन चोन्नीय चटुलदृष्टिलाञ्छितं स्तबकमिव भ्रमरमालानुविद्धमवपतन्तमाकाश एवाग्रहीत् ।
अमुञ्चच्च मध्यविलम्बितलये द्रुतलये च ।
मृद्वमृदु च प्रहरन्ती तत्क्षणं चूर्णपदमदर्शयत् ।
प्रशान्तं च तं निर्दयप्रहारैरुदपातयत् ।
विपर्ययेण च प्राशमयत् ।
पक्षमृज्वागतं च वामदक्षिणाभ्यां कराभ्यां पर्यायेणाभिघ्नती शकुन्तमिवोदस्थापयत् ।
दूरोत्थितं तु प्रपतन्तमभिहत्य गीतमार्गमारचयत् ।
प्रतिदिशं च गमयित्वा प्रत्यागमयत् ।
एवमनेककरणमधुरं विहरन्ती रङ्गगतस्य च रक्तचेतसो जनस्य प्रतिक्षणमुच्चावचाः प्रशंसावाचः प्रतिगृह्णती तत्क्षणारूढविश्रम्भं कोशदासमंसेवलम्ब्य कण्टकितगण्डमुत्फुल्लेक्षणं च मय्यभिमुखीभूय तिष्ठति तत्प्रथमावतीर्णकन्दर्पकारितकटाक्षदृष्टिस्तदनुमार्गविलसितलीलाञ्चितभ्रूलता श्वासानिलवेगान्दोलितैर्दन्तच्छदरश्मिजालैर्लीलापल्लवैरिव मुखकमलपरिमलग्रहणलोलानलिनस्ताडयन्ती मण्डलभ्रमणेषु कन्दुकस्यातिशीघ्रप्रचारितया विशन्तीव मद्दर्शनलज्जया पुष्पमयं पञ्जरं पञ्चबिन्दुप्रसृतेषु पञ्चापि पञ्चबाणबाणान्युगपदिवाभिपततस्त्रासेनावघट्टयन्ती गोमूत्रिकाप्रचारेषु घनदर्शितरागविभ्रमा विद्युल्लतामिव विडम्बयन्ती भूषणमणिरणितदत्तलयसंवादिपादचारमपदेशस्मितप्रभाभिषिक्तबिम्बाधरमवस्रंसितप्रतिसमाहितशिखण्डभारमाघट्टितक्वणितरत्नमेखलागुणमञ्चितोत्थितपृथुनितम्बबिम्बलम्बिचलदंशुकाञ्चलमाकुञ्चितप्रसृतवेल्लितभुजलताभिहतललितकन्दुकमावर्तितबाहुपाशं परिवर्तितत्रिकविलग्नलोलकुन्तलमवगलितकर्णपूरकनकपत्त्रप्रतिसमाधानशीघ्रतानतिक्रमितप्रकृतक्रीडमसकृदुत्क्षिप्यमाणहस्तपादबाह्याभ्यन्तरभ्रान्तकन्दुकमवनमनोन्नमनैरन्तर्यनष्टदृष्टमध्ययष्टिकमवपतनोत्पतनविपर्यस्तमुक्ताहारमङ्कुरितघर्मसलिलदूषितकपोलपत्त्रभङ्गशोषणाधिकृतश्रवणपल्लवानिलमागलितस्तनतटांशुकनियमनव्यापृतैकपाणिपल्लवं च निषद्योत्थाय निमील्योन्मील्य स्थित्वा गत्वा चैवातिचित्रं पर्यक्रीडत राजकन्या ।
अभिहत्य भूतलाकाशयोरपि क्रीडान्तराणि दर्शनीयान्येकेनैवानेकेनेव कन्दुकेनादर्शयत् ।
चन्द्रसेनादिभिश्च प्रियसखीभिः सह विहृत्य विहृतान्ते चाभिवन्द्य देवीं मन्मनसा सानुरागेण परिजनेन चानुगम्यमाना कुवलयशरमिव कुसुमशरस्य मय्यपाड्गं समर्पयन्ती सापदेशमसकृदावर्त्यमानवदनचन्द्रमण्डलतया स्वहृदयमिव मत्समीपप्रेषितं प्रतिनिवृत्तं न वेत्यालोकयन्ती सह सखीभिः कुमारीपुरमगमत् ।
अहं चानङ्गविह्वलः स्वमेव वेश्म गत्वा कोशदासेन यत्नवदत्युदारं स्नानभोजनादिकमनुभावितोस्मि ।
सायं चोपसृत्य चन्द्रसेना रहसि मां प्रणिपत्य पत्युरंसमंसेन प्रणयपेशलमाघट्टयन्त्युपाविशत् ।
आचष्ट च हृष्टः कोशदासः ।
भूयासमेवं यावदायुरायताक्षि त्वत्प्रसादस्य पात्रमिति ।
मया तु सस्मितमभिहितम् ।
सखे किमेतदाशास्यम् ।
अस्ति किञ्चिदञ्जनम् ।
अनया तदक्तनेत्रया राजसूनुरुपस्थितो वानरीमिवैनां द्रक्ष्यति विरक्तश्चैनां पुनस्त्यक्ष्यतीति ।
तया तु स्मेरयास्मि कथितः ।
सोयमार्येणाज्ञाकरो जनोत्यर्थमनुगृहीतः ।
यदस्मिन्नेव जन्मनि मानुषं वपुरपनीय वानरीकरिष्यते ।
तदास्तामिदम् ।
अन्यथा सिद्धं नः समीहितम् ।
अद्य खलु कन्दुकोत्सवे भवन्तमवहसितमनोभवाकारमभिलषन्ती रोषादिव शम्बरद्विषातिमात्रमायास्यते राजपुत्री ।
सोयमर्थो विदितभावया मया स्वमात्रे तया च तन्मात्रे महिष्या च मनुजेन्द्राय निवेदयिष्यते ।
विदितार्थस्तु पार्थिवस्त्वया दुहितुः पाणिं ग्राहयिष्यति ।
ततश्च त्वदनुजीविना राजपुत्रेण भवितव्यम् ।
एष हि देवतासमादिष्टो विधिः ।
त्वदायत्ते च राज्ये नालमेष त्वामतिक्रम्य मामवरोद्धुं भीमधन्वा ।
तत्सहतामयं त्रिचतुराणि दिनानि ।
इति मामामन्त्र्य प्रियं चोपगूह्य प्रत्ययासीत् ।
मम कोशदासस्य च तदुक्तानुसारेण बहु विकल्पयतोः कथञ्चिदक्षीयत क्षपा ।
क्षपान्ते च कृतयथोचितनियमस्तमेव प्रियादर्शनसुभगमुद्यानोद्देशमुपगतोस्मि ।
तत्रैव चोपसृत्य राजपुत्रो निरभिमानमनुकूलाभिः सङ्कथाभिर्मामनुवर्तमानो मुहूर्तमास्त ।
नीत्वा चोपकार्यामात्मसमेन स्नानभोजनशयनादिव्यतिकरेणोपाचरत् ।
तल्पगतं च स्वप्नानुभूयमानप्रियादर्शनालिङ्गनसुखमायसेन निगडेनातिबलपुरुषैः पीवरभुजदण्डोपरुद्धमबन्धयन्माम् ।
प्रतिबुद्धं च सहसा समभ्यधात् ।
अयि दुर्मते श्रुतमालपितं हतायाश्चन्द्रसेनाया जालरन्ध्रनिःसृतं तच्चेष्टावबोधप्रयुक्तयानया कुब्जया ।
त्वं किलाभिलषितो वराक्या कन्दुकावत्या ।
तव किलानुजीविना मया स्थेयम् ।
त्वद्वचः किलानतिक्रमता मया चन्द्रसेना कोशदासाय दास्यते ।
इत्युक्त्वा पार्श्वचरं पुरुषमेकमालोक्याकथयत् ।
प्रक्षिपैनं सागर इति ।
स तु लब्धराज्य इवातिहृष्टो देव यदाज्ञापयसीति यथादिष्टमकरोत् ।
अहं तु निराम्बलनो भुजाभ्यामितस्ततः स्पन्दमानः किमपि काष्ठं दैवदत्तमुरसोपश्लिष्य तावदप्लोषि यावदपासरद्वासरः शर्वरी च सर्वा ।
प्रत्युषस्यदृश्यत किमपि वहित्रम् ।
अमुत्रासन्यवनाः ।
ते मामुद्धृत्य रामेषुनाम्ने नाविकनायकाय कथितवन्तः ।
कोप्ययमायसनिगडबद्ध एव जले लब्धः पुरुषः ।
सोयमपि सिञ्चेत्सहस्रं द्राक्षाणां क्षणेनैकेनेति ।
अस्मिन्नेव क्षणेनैकनौकापरिवृतः कोपि मद्गुरभ्यधावत् ।
अबिभयुर्यवनाः ।
तावदतिजवा नौकाः श्वान इव वराहमस्मत्पोतं पर्यरुत्सत ।
प्रावर्तत च सम्प्रहारः ।
पराजायिषत यवनाः ।
तानहमगतीनवसीदतः समाश्वास्यालापिषम् ।
अपनयत मम निगडबन्धनम् ।
अयमहमवसादयामि वः सपत्नानिति ।
अमी तथाकुर्वन् ।
सर्वांश्च तान्प्रतिभटान्भल्लवर्षिणा भीमटङ्कृनेन शार्ङ्गेण लवलवीकृताङ्गानकार्षम् ।
अवप्लुत्य हतविध्वस्तयोधमस्मत्पोतसंसक्तपोतममुत्र नाविकनायकमनभिसरमभिपत्य जीवग्राहमग्रहीषम् ।
असौ चासीत्स एव भीमधन्वा ।
तं चाहमवबुध्य जातव्रीडमब्रवम् ।
तात किं दृष्टानि कृतान्तविलसितानीति ।
ते तु सांयात्रिका मदीयेनैव शृङ्खलेन तमतिगाढं बद्ध्वा हर्षकिलकिलारवमकुर्वन्मां चापूजयन् ।
दुर्वहा तु सा नौरननुकूलवातनुन्ना दूरमभिपत्य किमपि द्वीपान्तरं निबिडमाश्लिष्टवती ।
तत्र च स्वादु पानीयमेधांसि कन्दमूलफलानि च सञ्जिघृक्षवो गाढपातितशिलावलयमवातराम ।
तत्र चासीन्महाशैलः ।
सोहमहो रमणीयोयं पर्वतनितम्बभागः कान्ततरेयं गन्धपाषाणवत्युपत्यका शिशिरमिदमिन्दीवरारविन्दमकरन्दबिन्दुचन्द्रकोत्तरं गोत्रवारि रम्योयमनेकवर्णकुसुममञ्जरीमञ्जुलतरस्तरुवनाभोग इत्यतृप्ततरया दृशा बहु पश्यन्नलक्षिताध्यारूढक्षोणीधरशिखरः शोणीभूतमुत्प्रभाभिः पद्मरागसोपानशिलाभिः किमपि नालीकपरागधूसरं सरः समध्यगमम् ।
तत्र स्नातश्च कांश्चिदमृतस्वादून्बिसभङ्गानास्वाद्यांसलग्नकह्लारस्तीरवर्तिना केनापि भीमरूपिणा ब्रह्मराक्षसेनाभिपत्य कोसि कुतस्त्योसीति निर्भर्त्सयताभ्यधीये ।
निर्भयेन च मया सोभ्यधीयत ।
सौम्य सोहमस्मि द्विजन्मा ।
शत्रुहस्तादर्णवमर्णवाद्यवननावं यवननावश्चित्रग्रावाणमेनं पर्वतप्रवरं गतो यदृच्छयास्मिन्सरसि विश्रान्तः ।
भद्रं तवेति ।
सोब्रूत ।
न चेद्ब्रवीषि प्रश्नानश्नामि त्वामिति ।
मयोक्तम् ।
पृच्छ तावत् ।
भवत्विति ।
अथावयोरेकयार्ययासीत्संलापः ।
किं क्रूरं स्त्रीहृदयं किं गृहिणः प्रियहिताय दारगुणाः ।
कः कामः सङ्कल्पः किं दुष्करसाधनं प्रज्ञा ॥
इतीयदुक्त्वा धूमिनीगोमिनीनिम्बवतीनिम्बवत्यः प्रमाणमित्युपदिष्टे मया ।
सोब्रूत ।
कथय कीदृश्यस्ता इति ।
अथोदाहरम् ।
अस्ति त्रिगर्तो नाम जनपदः ।
तत्रासन्गृहपतयस्त्रयः स्फीतसारधनाः सोदर्या धनकधान्यकधन्यकाख्याः ।
तेषु जीवत्सु न ववर्ष वर्षाणि द्वादश दशशताक्षः ।
क्षीणसारं सस्यमोषधयो वन्ध्या न फलवन्तो वनस्पतयः क्लीबा मेघा भिन्नस्रोतसः स्रवन्त्यः पङ्कशेषाणि पल्वलानि निःस्यन्दान्युत्समण्डलानि विरलीभूतं कन्दमूलफलमवहीनाः कथा गलिताः कल्याणोत्सवक्रिया बहुलीभूतानि तस्करकुलान्यन्योन्यमभक्षयन्प्रजाः पर्यलुण्ठन्नितस्ततो बलाकापाण्डुराणि नरशिरः कपालानि पर्यहिण्डन्त शुष्काः काकमण्डल्यः शून्यीभूतानि नगरग्रामखर्वटपुटभेदनादीनि ।
त एते गृहपतयः सर्वधान्यनिचयमुपयुज्याजाविकं गवलागणं गवां यूथं दासीदासजनमपत्यानि ज्येष्ठमध्यमभार्ये च क्रमेण भक्षयित्वा कनिष्ठभार्या धूमिनी श्वो भक्षणीयेति समकल्पयन् ।
अथ कनीयान्धन्यकः प्रियां स्वामत्तुमक्षमस्तया सह तस्यामेव निश्यपासरत् ।
मार्गक्लान्तां चोद्वहन्वनं जगाहे ।
स्वमांसासृगपनीतक्षुत्पिपासां तां नयन्नन्तरा कमपि निकृत्तपाणिपादकर्णनासिकमवनिपृष्ठे विचेष्टमानं पुरुषमद्राक्षीत् ।
तमप्यार्द्राशयः स्कन्धेनोद्वहन्कन्दमूलमृगबहुले गहनोद्देशे यत्नरचितपर्णशालश्चिरमवसत् ।
अमुं च रोपितव्रणमिङ्गुदीतैलादिभिरामिषेण शाकेनात्मनिर्विशेषं पुपोष ।
पुष्टं च तमुद्रिक्तधातुमेकदा मृगान्वेषणाय प्रयाते धन्यके सा धूमिनी रिरंसयोपातिष्ठत् ।
भर्त्सितापि तेन बलात्कारादथारीरमत् ।
निवृत्तं च पतिमुदकाभ्यर्थिनमुद्धृत्य कूपात्पिब रुजति मे शिरः शिरोरोग इत्युदञ्चनं सरज्जुं पुरश्चिक्षेप ।
उदञ्चन्तं च तं कूपादपः क्षणात्पृष्ठतो गत्वा प्रणुनोद ।
तं च विकलं स्कन्धेनोदुह्य देशाद्देशान्तरं परिभ्रमन्ती पतिव्रताप्रतीतिं लेभे बहुविधाश्च पूजाः ।
पुनरवन्तिराजानुग्रहादतिमहत्या भूत्या तस्मिन्देशे न्यवसत् ।
अथ पानीयार्थिसार्थजनसमापत्तिदृष्टोद्धृतमवन्तिषु भ्रमन्तमाहारार्थिनं भर्तारमुपलभ्य सा धूमिनी येन मे पतिर्विकलीकृतः स दुरात्मायमिति तस्य साधोश्चित्रवधमज्ञेन राज्ञा समादेशयाञ्चकार ।
धन्यकस्तु दत्तपश्चाद्बन्धो वध्यभूमिं नीयमानः सशेषत्वादायुषो यो मया विकलीकृतोभिमतो भिक्षुः स चेन्मे पापमाचक्षीत युक्तो मे दण्ड इत्यदीनमधिकृतमभिजगाद ।
को दोष इत्युपनीय दर्शितेमुष्मिन्स विकलः पर्यश्रुः पादपतितस्तस्य साधोस्तत्सुकृतमसत्याश्च तस्यास्तथाभूतं दुश्चरितमार्यबुद्धिराचचक्षे ।
कुपितेन च राज्ञा विरूपितमुखी सा दुष्कृतकारिणी श्वभ्यः पाचिका कृता ।
कृतश्च धन्यकः प्रसादभूमिः ।
तद्ब्रवीमि स्त्रीहृदयं क्रूरमिति ।
पुनरनुयुक्तो गोमिनीवृत्तान्तमाख्यातवान् ।
अस्ति द्रविडेषु काञ्ची नाम नगरी ।
तस्यामनेककोटिसारः श्रेष्ठिपुत्रः शक्तिकुमारो नामासीत् ।
सोष्टादशवर्षदेशीयश्चिन्तामापेदे ।
नास्त्यदाराणामननुगुणदाराणां वा सुखं नाम ।
तत्कथं नु गुणवद्विन्देयं कलत्रमिति ।
अथ परप्रत्ययाहृतेषु दारेषु यादृच्छिकीं सम्पत्तिमनभिसमीक्ष्य कार्तान्तिको नाम भूत्वा वस्त्रान्तपिनद्धशालिप्रस्थो भुवं बभ्राम ।
लक्षणज्ञोयमित्यमुष्मै कन्याः कन्यावन्तः प्रदर्शयाम्बभूवुः ।
यां काञ्चिल्लक्षणवतीं सवर्णां कन्यां दृष्ट्वा स किल स्म ब्रवीति ।
भद्रे शक्नोषि किमनेन शालिप्रस्थेन गुणवदन्नमस्मानभ्यवहारयितुमिति ।
स हसितावधूतो गृहाद्गृहं प्रविश्याभ्रमत् ।
एकदा तु शिबिषु कावेरीतीरपत्तने सह पितृभ्यामवसितमहर्धिमवशीर्णभवनसारां धात्र्या प्रदर्श्यमानां काञ्चन विरलभूषणां कुमारीं ददर्श ।
अस्यां संसक्तचक्षुश्चातर्कयत् ।
अस्याः खलु कन्यकायाः सर्व एवावयवा न कृशा न स्थूला नातिह्रस्वा नातिदीर्घा न विकटा मृजावन्तश्च ।
रक्ततलाङ्गुली ।
यवमत्स्यकमलकलशाद्यनेकपुण्यलेखालाञ्छितौ करौ ।
मग्नगुल्फसन्धी मांसलावशिरालौ चाङ्घ्री ।
जङ्घे चानुपूर्ववृत्ते ।
पीवरोरुग्रस्ते इव दुरुपलक्ष्ये जानुनी ।
सकृद्विभक्तश्चतुरस्रः ककुन्दरविभागशोभी रथाङ्गाकारसंस्थितश्च नितम्बभागः ।
तनुतरमीषन्निम्नं गम्भीरं नाभिमण्डलम् ।
वलित्रयेण चालङ्कृतमुदरम् ।
उरोविभागव्यापिनावुन्मग्नचूचुकौ विशालारम्भशोभिनौ पयोधरौ ।
धनधान्यपुत्रभूयस्त्वचिह्नलेखालाञ्छिततले स्निग्धोदग्रकोमलनखमणीमृद्वनुपूर्ववृत्तताम्राङ्गुली सन्नतांसदेशे ।
सौकुमार्यवत्यौ निमग्नपर्वसन्धी च बाहुलते ।
तन्वी कम्बुवृत्तबन्धुरा च कन्धरा ।
वृत्तमध्यविभक्तरागाधरमसङ्क्षिप्तचारुचिबुकमापूर्णकठिनगण्डमण्डलमसङ्गतानुवक्रनीलस्निग्धभ्रूलतमनतिप्रौढतिलकुसुमसदृशनासिकमसितधवलरक्तत्रिभागभासुरमधुराधीरसञ्चारमन्थरायतेक्षणमिन्दुशकलसुन्दरललाटमिन्द्रनीलशिलाकाररम्यालकपङ्क्ति द्विगुणकुण्डलितम्लाननालीकनालललितलम्बश्रवणपाशयुगलमाननकमलम् ।
अनतिभङ्गुरो बहुलः पर्यन्तेप्यकपिलरुचिरायामवानेकैकनिसर्गसमस्निग्धनीलो गन्धग्राही च मूर्धजकलापः ।
सेयमाकृतिर्न व्यभिचरति शीलम् ।
आसज्जति च मे हृदयमस्याम् ।
अथ च परीक्ष्यैनामुद्वहेयम् ।
अविमृश्यकारिणां हि नियतमनेकाः पतन्त्यनुशयपरम्परा इति स्निग्धदृष्टिराचष्ट ।
भद्रे कच्चिदस्ति कौशलं शालिप्रस्थेनानेन सम्पन्नमाहारमस्मानभ्यवहारयितुमिति ।
ततस्तया वृद्धदासी साकूतमालोकिता ।
तस्य हस्तात्प्रस्थमात्रं धान्यमादाय क्वचिदलिन्दोद्देशे सुसिक्तसम्मृष्टे दत्तपादशौचमुपावेशयत् ।
साथ कन्या तान्गन्धशालीन्मात्रया विशोष्यातपे मुहुर्मुहुः परिवर्त्य स्थिरसमायां भूमौ नालीपृष्ठेन मृदुमृदु घट्टयन्ती तुषैस्तण्डुलान्पृथक्चकार ।
जगाद च धात्रीम् ।
मातरेभिस्तुषैरर्थिनो भूषणमृजाक्रियाक्षमैः स्वर्णकाराः ।
तेभ्य इमान्दत्त्वा लब्धाभिः काकिणीभिः स्थिरतराण्यनत्यार्द्राणि नातिशुष्काणि काष्ठानि मितम्पचां स्थालीमुभे शरावे चाहरेति ।
तथा कृते तया तांस्तण्डुलाननतिनिम्नोत्तानविस्तीर्णकुक्षौ ककुभोलूखले लोहपत्त्रवेष्टितमुखेन समशरीरेण विभाव्यमानमध्यतानवेन व्यायतेन गुरुणा खादिरेण मुसलेन चतुरललितोत्क्षेपणापक्षेपणायासितभुजमसकृदङ्गुलीभिरुद्धृत्योद्धृत्यावहत्य शूर्पशोधितकणकिंशारुकादींस्तण्डुलानसकृदद्भिः प्रक्षाल्य क्वथितपञ्चगुणे जले दत्तचुल्लीपूजा प्राक्षिपत् ।
प्रश्लथावयवेषु प्रस्फुरत्सु तण्डुलेषु मुकुलावस्थामतिवर्तमानेषु सङ्क्षिप्यानलमुपहितमुखपिधानया स्थाल्यान्नमण्डमगालयत् ।
दर्व्या चावघट्ट्य मात्रया परिवर्त्य समपक्वेषु सिक्थेषु तां स्थालीमधोमुखीमवातिष्ठिपत् ।
इन्धनान्यन्तःसाराण्यम्भसा समभ्युक्ष्य प्रशमिताग्नीनि कृष्णाङ्गारीकृत्य तदर्थिभ्यः प्राहिणोत् ।
एभिर्लब्धाः काकिणीर्दत्त्वा शाकं घृतं दधि तैलमामलकं चिञ्चाफलं च यथालाभमानयेति ।
तथानुष्ठिते च तया द्वित्रानुपदंशानुपपाद्य तदन्नमण्डमार्द्रवालुकोपहितनवशरावगतमतिमृदुना तालवृन्तानिलेन शीतलीकृत्य सलबणसम्भारं दत्ताङ्गारधूपवासं च सम्पाद्य तदप्यामलकं श्लक्ष्णपिष्टमुत्पलगन्धि कृत्वा धात्रीमुखेण स्नानाय तमचोदयत् ।
तया च स्नानशुद्धया दत्ततैलामलकः क्रमेण सस्नौ ।
स्नपितः सिक्तमृष्टे कुट्टिमे फलकमारुह्य पाण्डुहरितत्रिभागशेषलूनस्याङ्गणकदलीपलाशस्योपरि शरावद्वयं दत्तमार्द्रमभिमृशन्नतिष्ठत् ।
सा तु तां पेयामेवाग्रे समुपाहरत् ।
पीत्वा चापनीतघर्मक्लमः प्रहृष्टः प्रक्लिन्नसकलगात्रः स्थितोभूत् ।
ततस्तस्य शाल्योदनस्य दर्वीद्वयं दत्त्वा सर्पिर्मात्रां सूपमुपदंशं चोपजहार ।
इमं च दध्ना च त्रिजातकावचूर्णितेन सुरभिशीतलाभ्यां च कालशेयकाञ्जिकाभ्यां शेषमन्नमभोजयत् ।
सशेष एवान्धस्यसावतृप्यत् ।
अयाचत च पानीयम् ।
अथ नवभृङ्गारसम्भृतमगुरुधूपधूपितमभिनवपाटलाकुसुमवासितमुत्फुल्लोत्पलग्रथितसौरभं वारि धारात्मना पातयाम्बभूव ।
सोपि मुखोपहितशरावेण हिमशिशिरकणकरालितारुणायमानाक्षिपक्ष्मा धारारवाभिनन्दितश्रवणः स्पर्शसुखोद्भिन्नरोमाञ्चकर्कशकपोलः परिमलप्रवाहोत्पीडफुल्लघ्राणरन्ध्रो माधुर्यप्रकर्षावर्जितरसनेन्द्रियः स्वच्छं पानीयमाकण्ठं पपौ ।
शिरःकम्पसज्ञावारिता च पुनरपरेण करकेणाचमनमदत्त कन्या ।
वृद्धया तु तदुच्छिष्टमपोह्य हरितगोमयोपलिप्ते कुट्टिमे स्वमेवोत्तरीयकर्पटं व्यवधाय क्षणमशेत ।
परितुष्टश्च विधिवदुपयम्य कन्यां निन्ये ।
नीत्वैतदनपेक्षः कामपि गणिकामवरोधमकरोत् ।
तामप्यसौ प्रियसखीमिवोपाचरत् ।
पतिं च दैवतमिव मुक्ततन्द्रा पर्यचरत् ।
गृहकार्याणि चाहीनमन्वतिष्ठत् ।
परिजनं च दाक्षिण्यनिधिरात्माधीनमकरोत् ।
तद्गुणवशीकृतश्च भर्ता सर्वमेव कुटुम्बं तदायत्तमेव कृत्वा तदेकाधीनजीवितशरीरस्त्रिवर्गं निर्विवेश ।
तद्ब्रवीमि गृहिणः प्रियहिताय दारगुणा इति ।
ततस्तदनुयुक्तो निम्बवतीवृत्तमाख्यातवान् ।
अस्ति सौराष्ट्रेषु वलभी नाम नगरी ।
तस्यां गृहगुप्तनाम्नो गुह्यकेन्द्रतुल्यविभवस्य नाविकपतेर्दुहिता रत्नवती नाम ।
तां किल मधुमत्याः समुपागम्य बलभद्रो नाम सार्थवाहपुत्रः पर्यणैषीत् ।
तया च नववध्वा रहसि रभसविघ्नितसुरतसुखो झटिति द्वेषमल्पेतरं बबन्ध ।
न तां पुनर्द्रष्टुमिष्टवान् ।
तद्गृहगमनमपि सर्वसुहृद्वाक्यशतातिवर्ती लज्जया परिजहार ।
तां च दुर्भगां तदा प्रभृत्येव नेयं रत्नवती निम्बवती चेयमिति परिजनः परिबभूव ।
गते च कस्मिंश्चित्काले सानुतप्यमाना का मे गतिरिति विमृशन्ती कामपि वृद्धप्रव्राजिकां मातृस्थानीयां देवशेषकुसुमैरुपस्थितामपश्यत् ।
तस्याः पुरो रहसि सकरुणं रुरोद ।
तयाप्युदश्रुमुख्या बहुप्रकारमनुनीय रुदितकारणं पृष्टा त्रपमाणापि कार्यगौरवात्कथञ्चिदब्रवीत् ।
अम्ब किं ब्रवीमि ।
दौर्भाग्यं नाम जीवन्मरणमङ्गनानां विशेषतश्च कुलवधूनाम् ।
तस्याहमस्म्युदाहरणभूता ।
मातृप्रमुखोपि ज्ञातिवर्गो मामवज्ञयैव पश्यति ।
तेन सुदृष्टां मां कुरु ।
न चेत्त्यजेयमद्य निष्प्रयोजनान्प्राणान् ।
आ विरामाच्च रहस्यं न श्राव्यमिति पादयोः पपात ।
सैनामुत्थाप्योद्बाष्पोवाच ।
वत्से माध्यवस्यः साहसम् ।
इयमस्मि त्वन्निदेशवर्तिनी ।
यावन्ममोपयोगस्तव तावद्भवाम्यनन्याधीना ।
यद्येवासि निर्विण्णा तपश्चर त्वं मदधिष्ठिता पारलौकिकाय कल्याणाय ।
नन्वयमुदर्कः प्राक्तनस्य दुष्कृतस्य यदनेनाकारेणेदृशेन शीलेन जात्या चैवम्भूतया समनुगता सत्यकस्मादेव भर्तृद्वेष्यतां गतासि ।
यदि कश्चिदस्त्युपायः पतिद्रोहप्रतिक्रियायै दर्शयामुम् ।
मतिर्हि ते पटीयसीति ।
अथासौ कथञ्चित्क्षणमधोमुखी ध्यात्वा दीर्घोष्णश्वासपूर्वमवोचत् ।
भगवति पतिरेव दैवतं वनितानां विशेषतश्च कुलजानाम् ।
अतस्तच्छुश्रूषणाभ्युपायहेतुभूतं किञ्चिदाचरणीयम् ।
अस्त्यस्मत्प्रातिवेश्यो वणिक् ।
अभिजनेन विभवेन राजान्तरङ्गभावेन च सर्वपौरानतीत्य वर्तते ।
तस्य कन्या कनकवती नाम मत्समानरूपावयवा ममातिस्निग्धा सखी ।
तया सह तद्विमानहर्म्यतले ततोपि द्विगुणमण्डिता विहरिष्यामि ।
त्वया तु तन्मातृप्रार्थनां नाम सकरुणमभिधाय मत्पतिरेतद्गृहं कथञ्चनानेयः ।
समीपगतेषु च युष्मासु क्रीडामत्ता नाम कन्दुकं भ्रंशयेयम् ।
अथ तमादाय तस्य हस्ते दत्त्वा वक्ष्यसि ।
पुत्र तवेयं भार्यासखी निधिपतिदत्तस्य सर्वश्रेष्ठिमुख्यस्य कन्या कनकवती नाम ।
त्वामियमनवस्थो निष्करुणश्चेति रत्नवतीनिमित्तमत्यर्थं निन्दति ।
तदेष कन्दुको विपक्षधनं प्रत्यर्पणीयमिति ।
स तथोक्तो नियतमुन्मुखीभूय तामेव प्रियसखीं मन्यमानो मां बद्धाञ्जलि याचमानायै मह्यं भूयस्त्वत्प्रार्थितः साभिलाषमर्पयिष्यति ।
तेन रन्ध्रेणोपश्लिष्य रागमुज्ज्वलीकृत्य यथासौ कृतसङ्केतो देशान्तरमादाय मां गमिष्यति तथोपपादनीयमिति ।
हर्षाभ्युपेतया चानया तथैव सम्पादितम् ।
अथैतां कनकवतीति वृद्धतापसीविप्रलब्धो बलभद्रः सरत्नसाराभरणामादाय निशि नीरन्ध्रे तमसि प्रावसत् ।
सा तु तापसी वार्त्तामापादयत् ।
मन्देन मया निर्निमित्तमुपेक्षिता रत्नवती श्वशुरौ च परिभूतौ सुहृदश्चातिवर्तिताः ।
तदत्रैव संसृष्टो जीवितुं जिह्रेमीति बलभद्रः पूर्वेद्युर्मामकथयत् ।
नूनमसौ तेन नीता ।
व्यक्तिश्चाचिराद्भविष्यतीति ।
तच्छ्रुत्वा तद्बान्धवास्तदन्वेषणं प्रति शिथिलप्रयत्नास्तस्थुः ।
रत्नवती तु मार्गे काञ्चित्पण्यदासीं सङ्गृह्य तयोह्यमानपाथेयाद्युपस्करा खेटकपुरमगमत् ।
अमुत्र च व्यवहारकुशलो बलभद्रः स्वल्पेनैव मूल्येन महद्धनमुपार्जयत् ।
पौराग्रण्यश्चासीत् ।
परिजनश्च भूयानर्थवशात्समाजगाम ।
ततस्तां प्रथमदासीं न कर्म करोषि दृष्टं मुष्णास्यप्रियं ब्रवीषीति परुषमुक्त्वा बह्वताडयत् ।
चेटी तु प्रसादकालोपाख्यातरहस्यवृत्तान्तैकदेशमात्तरोषा निर्बिभेद ।
तच्छ्रुत्वा तु लुब्धेन दण्डवाहिना पौरवृद्धसन्निधौ निधिपतिदत्तस्य कन्यकां कनकवतीं मोषेणापहृत्यास्मत्पुरे निवसत्येष दुर्मतिर्बलभद्रः ।
तस्य सर्वस्वहरणं न भवद्भिः प्रतिबन्धनीयमिति नितरामतर्जयत ।
भीतं च बलभद्रमभिजगाद रत्नवती ।
न भेतव्यम् ।
एवं ब्रूहि ।
नेयं निधिपतिदत्तस्य कन्या कनकवती ।
वलभ्यामेव गृहगुप्तदुहिता रत्नवती नामेयं दत्ता पितृभ्यां मया च न्यायोढा ।
न चेत्प्रतीथ प्रणिधिं प्रहिणुतास्या बन्धुपार्श्वमिति ।
बलभद्रस्तु तथोक्त्वा श्रेणीप्रातिभाव्येन तावदतिष्ठद्यावत्तत्पुरवृद्धलेखलब्धवृत्तान्तो गृहगुप्तः खेटकपुरमागत्य सह जामात्रा दुहितरमतिप्रीतिः प्रत्यनैषीत् ।
तथा दृष्ट्वा रत्नवती कनकवतीति भावयतस्तस्यैव बलभद्रस्यातिवल्लभा जाता ।
तद्ब्रवीमि कामो नाम सङ्कल्प इति ।
तदनन्तरमसौ नितम्बवतीवृत्तान्तमप्राक्षीत् ।
सोहमब्रवम् ।
अस्ति शूरसेनेषु मथुरा नाम नगरी ।
तत्र कश्चित्कुलपुत्रः कलासु गणिकासु चातिसक्तो मित्त्रार्थं कलत्रार्थं च स्वभुजमात्रनिर्व्यूढानेककलहः कलहकण्टक इति कर्कशैरभिख्यापिताख्यः प्रत्यवात्सीत् ।
स चैकदा कस्यचिदागन्तोश्चित्रकरस्य हस्ते चित्रपटं ददर्श ।
तत्र काचिदालेख्यगता युवतिरालोचनमात्रेणैव कलहकण्टकस्य कामातुरं चेतश्चकार ।
स च तमब्रवीत् ।
भद्र विरुद्धमिवैतत्प्रतिभाति ।
यतः कुलजादुर्लभं वपुः ।
आभिजात्यशंसिनी च नम्रता ।
पाण्डुरा च मुखच्छविः ।
नातिपरिभोगसुलभा च तनुः ।
प्रौढतानुविद्धा च दृष्टिः ।
न चैषा प्रोषितभर्तृका प्रवासचिह्नस्य वेण्यादेरदर्शनात् ।
लक्ष्म चैतद्दक्षिणपार्श्ववर्ति ।
तदियं वृद्धस्य कस्यचिद्वणिजो नातिपुंस्त्वस्य यथार्हसम्भोगालाभपीडिता गृहिणी त्वयातिकौशलाद्यथादृष्टमालिखिता भवितुमर्हतीति ।
स तमतिप्रशस्याशंसत् ।
सत्यमिदम् ।
अवन्तिपुर्यामुज्जयिन्यामनन्तकीर्तिनाम्नः सार्थवाहस्य भार्या यथार्थनामा नितम्बवती नाम ।
एषा सौन्दर्यविस्मितेन मयैवमालिखितेति ।
स तदैवोन्मनायमानस्तद्दर्शनाय परिवव्राजोज्जयिनीम् ।
भार्गवो नाम भूत्वा भिक्षामिषेण तद्गृहं प्रविश्य तां ददर्श ।
दृष्ट्वा चात्यारूढमन्मथो निर्गत्य पौरमुख्येभ्यः श्मशानरक्षामयाचतालभत च ।
तत्र लब्धैश्च शवावगुण्ठनपटादिभिः कामप्यर्हन्तिकां नाम श्रमणिकामुपासाञ्चक्रे ।
तन्मुखेन च नितम्बवतीमुपनिमन्त्रयामास ।
सा चैनां निर्भर्त्सयन्ती प्रत्याचचक्षे ।
श्रमणिकामुखाच्च दुष्करशीलभ्रंशां कुलस्त्रियमुपलभ्य रहसि दूतिकामित्यशिक्षयत् ।
भूयोप्युपतिष्ठ सार्थवाहभार्याम् ।
ब्रूहि चोपह्वरे संसारदोषदर्शनात्समाधिमास्थाय मुमुक्षमाणो मादृशो जनः कुलवधूनां शीलपातने घटत इति क्व घटते ।
एतदपि त्वामत्युदारया समृद्ध्या रूपेणातिमानुषेण प्रथमेन वयसोपपन्नां किमितरनारीसुलभं चापलं स्पृष्टं न वेति परीक्षिता ।
तुष्टास्मि तवैवमदुष्टभावतया ।
त्वामिदानीमुत्पन्नापत्यां द्रष्टुमिच्छामि ।
भर्ता भवत्याः केनचिद्ग्रहेणाधिष्ठितः पाण्डुरोगदुर्बलो भोगे चासमर्थः स्थितोभूत् ।
न च शक्यमस्य विघ्नमप्रतिकृत्यापत्यमस्माल्लब्धुम् ।
अतः प्रसीद वृक्षवाटिकामेकाकिनी प्रविश्य मदुपनीतस्य कस्यचिन्मन्त्रवादिनः स्वच्छन्दमेव हस्ते चरणमर्पयित्वा तदभिमन्त्रितेन प्रणयकुपिता नाम भूत्वा भर्तारमुरसि प्रहर्तुमर्हसि ।
उपर्यसावुत्तमधातुपुष्टिमूर्जितापत्योत्पादनक्षमामासादयिष्यति ।
अनुवर्तिष्यते देवतामिवात्रभवतीम् ।
नात्र शङ्का कार्येति ।
सा तथोक्ता व्यक्तमभ्युपैष्यति ।
नक्तं मां वृक्षवाटिकां प्रवेश्य तामपि प्रवेशयिष्यसि ।
तावतैव त्वयानुगृहीतो भवेयमिति ।
सा तथैवोपपादितवती ।
सोतिप्रीतस्तस्यामेव क्षपायां वृक्षवाटिकां गतो नितम्बवतीं निर्ग्रन्थिकाप्रयत्नोपनीतां पादे परामृशन्निव हेमनूपुरमेकमाकृष्य छुरिकयोरुमूले किञ्चिदुल्लिख्य द्रुततरमपासरत् ।
सा तु सान्द्रत्रासा स्वमेव दुर्नयं गर्हमाणा जिघांसन्तीव श्रमणिकां तद्व्रणं भवनदीर्घिकायां प्रक्षाल्य पटेन च बध्वामयापदेशादपरं चापनीय नूपुरं शयनपरा त्रिचतुराण्यहान्येकान्त एव निन्ये ।
स तु धूर्तो विक्रेष्य इति तेन नूपुरेण तमनन्तकीर्तिमुपाससाद ।
स दृष्ट्वा मम गृहिण्या एवैष नूपुरः ।
कथमयमुपलब्धस्त्वयेति तमब्रुवाणं निर्बन्धेन पप्रच्छ ।
स तु वणिग्ग्रामस्याग्रे वक्ष्यामीति स्थितोभूत् ।
पुनरसौ स्वगृहिण्यै नूपुरयुगलं प्रेषयेति सन्दिदेश ।
सा च सलज्जं ससाध्वसं चाद्य रात्रौ विश्रामप्रविष्टायां वृक्षवाटिकायां प्रभ्रष्टो ममैकः प्रशिथिलबन्धो नूपुरः ।
सोद्याप्यन्विष्टो न दृष्टः ।
स पुनरयं द्वितीय इत्यपरं प्राहिणोत् ।
अनया च वार्त्तयामुं पुरस्कृत्य स वणिग्जनसमाजमाजगाम ।
स चानुयुक्तो धूर्तः सविनयमावेदयत् ।
विदितमेव खलु वो यथाहं युष्मदाज्ञया पितृवनमभिरक्ष्य तदुपजीवी प्रतिवसामि ।
लुब्धाश्च कदाचिन्मद्दर्शनभीरवो निशि दहेयुरपि शवानीति निशास्वपि श्मशानमधिशये ।
अपरेद्युर्दग्धादग्धं मृतं चितायाः प्रसभमाकर्षन्तीं श्यामाकारां नारीमपश्यम् ।
अर्थलोभात्तु भयं निगृह्य सा सन्निगृहीता ।
शस्त्रिकया यदृच्छयोरुमूले किञ्चिदुल्लिखितम् ।
एष च नूपुरश्चरणादाक्षिप्तः ।
तावत्येव द्रुतगतिः सा पलायिष्ट ।
सोयमस्यागमः ।
परं भवन्तः प्रमाणमिति ।
विमर्शे च तस्याः शाकिनीत्वमैकमत्येन पौराणामभिमतमासीत् ।
भर्त्रा च परित्यक्ता तस्मिन्नेव श्मशाने बहु विलप्य पाशेनोद्बध्य मर्तुकामा तेन धूर्तेन नक्तमगृह्यत ।
अनुनीता च ।
सुन्दरि त्वदाकारोन्मादितेन मया त्वदावर्जने बहूनुपायान्भिक्षुकीमुखेणोपन्यस्य तेष्वसिद्धेषु पुनरयमुपायो यावज्जीवमसाधारणीकृत्य रन्तुमाचरितः ।
तत्प्रसीदानन्यशरणायास्मै दासजनायेति मुहुर्मुहुश्चरणयोर्निपत्य प्रयुज्य सान्त्वनशतानि तामगत्यन्तरामात्मवश्यामकरोत् ।
तदिदमुक्तं दुष्करसाधनं प्रज्ञेति ।
स चेदमाकर्ण्य ब्रह्मराक्षसो मामपूजयत् ।
अस्मिन्नेव क्षणे नातिप्रौढपुन्नागमुकुलस्थूलानि मुक्ताफलानि सह सलिलबिन्दुभिरम्बरतलादपतन् ।
अहं तु किं न्विदमित्युच्चचक्षुरालोकयन्कमपि राक्षसं काञ्चिदङ्गनां विचेष्टमानगात्रीमाकर्षन्तमपश्यम् ।
कथमयमपहरत्यकामामपि स्त्रियमनाचारो नैरृत इति गगनगमनमन्दशक्तिरशस्त्रश्च समतप्ये ।
स तं मत्सम्बन्धी ब्रह्मराक्षसस्तिष्ठ तिष्ठ पाप क्वापहरसीति निर्भर्त्सयन्नुत्थाय राक्षसेन समसृज्यत ।
तां तु रोषादनपेक्षापविद्धाममरवृक्षमञ्जरीमिवान्तरिक्षादापतन्तीमुन्मुखप्रसारितोभयकरः कराभ्यां सदयमग्रहीषम् ।
उपगृह्य च वेपमानां सम्मीलिताक्षीं मदङ्गस्पर्शसुखोद्भिन्नरोमाञ्चां तादृशीमेव तामनवतारयन्नेवातिष्ठम् ।
तावत्तावुभावपि शैलशृङ्गभङ्गैः पादपैश्च रभसोन्मूलितैर्मुष्टिपादप्रहारैश्च परस्परमक्षपयेताम् ।
पुनरहमतिमृदुनि पुलिनवति कुसुमलवलाञ्छिते सरस्तीरेवरोप्य सस्पृहं निर्वर्णयंस्तां मत्प्राणैकवल्लभां राजकन्यकां कन्दुकावतीमलक्षयम् ।
सापि मया समाश्वास्यमाना तिर्यङ्मामभिनिरूप्य जातप्रत्यभिज्ञा सकरुणमरोदीत् ।
अवादीच्च ।
नाथ त्वद्दर्शनादुपोढरागा तस्मिन्कन्दुकोत्सवे पुनः सख्या चन्द्रसेनया त्वत्कथाभिरेव समाश्वासितास्मि ।
त्वं किल समुद्रमध्ये मज्जितः पापेन मद्भ्रात्रा भीमधन्वनेति श्रुत्वा सखीजनं परिजनं च वञ्चयित्वा जीवितं जिहासुरेकाकिनी क्रीडावनमुपासरम् ।
तत्र च मामचकमत कामरूप एष राक्षसाधमः ।
सोयं मया भीतयावधूतप्रार्थनः स्फुरन्तीं मां निगृह्याभ्यधावत् ।
अत्रैवमवसितोभूत् ।
अहं च दैवात्तवैव जीवितेशस्य हस्ते पतिता ।
भद्रं तवेति श्रुत्वा चानया सहावरुह्य नावमध्यारोहम् ।
मुक्ता च नौः प्रतिवातप्रेरिता तामेव दामलिप्तां प्रत्युपातिष्ठत ।
अवरूढाश्च वयमश्रमेण ।
तनयस्य च तनयायाश्च नाशादनन्यपत्यस्तुङ्गधन्वा सुह्मपतिर्विकलः स्वयं सकलत्र एव निष्कलङ्के गङ्गारोधस्यनशनेनोपरन्तुं प्रतिष्ठते ।
सह तेन मर्तुमिच्छत्यनन्यनाथोनुरक्तः पौरवृद्धलोक इत्यश्रुमुखीणां प्रजानामाक्रन्दमशृणुम ।
अथाहमस्मै राज्ञे यथावृत्तमाख्याय तदपत्यद्वयं प्रत्यर्पितवान् ।
प्रीतेन तेन जामाता कृतोस्मि दामलिप्तेश्वरेण ।
तत्पुत्रो मदनुजीवी जातः ।
मदाज्ञप्तेन चामुना प्राणवदुज्झिता चन्द्रसेना कोशदासमेवाभजत् ।
ततश्च सिंहवर्मसाहाय्यार्थमत्रागत्य भर्तुस्तव दर्शनोत्सवसुखमनुभवामीति ।
श्रुत्वा चित्रेयं दैवगतिरवसरेषु पुष्कलः पुरुषकार इति भूयः स्मिताभिषिक्तदन्तच्छदे मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः पातयामास देवो राजवाहनः ।
स किल करकमलेन किञ्चित्संवृताननो ललितवल्लभारभसदत्तदन्तक्षतव्यसनविह्वलाधरमणिर्निरौष्ठ्यवर्णमात्मचरितमाचचक्षे ।
इति श्रीदण्डिनः कृतौ दशकुमारचरिते मित्त्रगुप्तचरितं नाम षष्ठ उच्छ्वासः ॥