५ प्रमितिचरितम्

सोपि प्रणम्य विज्ञापयामास ।
देव देवस्यान्वेषणाय दिक्षु भ्रमन्नभ्रङ्कषस्यापि विन्ध्यपादपार्श्वरूढवनस्पतेरधः परिणतपतङ्गबालपल्लवावतंसिते पश्चिमदिगङ्गनामुखे पल्वलाम्भस्युपस्पृश्योपास्य सन्ध्यां तमःसमीकृतेषु निम्नोन्नतेषु गन्तुमक्षमः क्ष्मातले किसलयैरुपरचय्य शय्यां शिशयिषमाणः शिरसि कुर्वन्नञ्जलिं यास्मिन्वनस्पतौ वसति देवता सैव मे शरणमस्तु शरारुचक्रचारभीषणायां शर्वगलश्यामशार्वरान्धकारपूराध्मातगभीरगह्वरायां महाटव्यामस्यामेकाकिनः प्रसुप्तस्येत्युपधाय वामभुजमशयिषि ।
ततः क्षणादवनितलदुर्लभेन स्पर्शेनासुखयिषत किमपि गात्राणि ।
आह्लादयिषतेन्द्रियाणि ।
अभ्यमनायिष्ट चान्तरात्मा ।
विशेषतश्च हृषितानि तनूरुहाणि ।
पर्यस्फुरन्मे दक्षिणभुजः ।
कथं न्विदमिति मन्दमन्दमुन्मिषन्नुपर्यच्छचन्द्रातपच्छेदकल्पं शुक्लांशुकवितानमैक्षिषि ।
वामतो वलितदृष्टिः समया सौधभित्तिं चित्रास्तरणशायिनमतिविश्रब्धप्रसुप्तमङ्गनाजनमलक्षयम् ।
दक्षिणतो दत्तचक्षुरागलितस्तनांशुकाममृतफेनपटलपाण्डुरशयनशायिनीमादिवराहदंष्ट्रांशुजाललग्नामंसस्रस्तदुग्धसागरदुकूलोत्तरीयां भयसाध्वसमूर्छितामिव धरणीमरुणाधरमणिकिरणबालकिसलयलास्यहेतुभिराननारविन्दपरिमलोद्वहैर्निश्वासमातरिश्वभिरीश्वरेक्षणदहनदग्धं स्फुलिङ्गावशेषमनङ्गमिव सन्धुक्षयन्तीमन्तःसुप्तषट्पदमम्बुजमिव जातनिद्रं सरसमामीलितलोचनेन्दीवरमाननं दधानामैरावतमदावलेपलूनापविद्धामिव नन्दनवनकल्पवृक्षरत्नवल्लरीं कामपि तरुणीमवालोकयम् ।
अतर्कयं च ।
क्व गता सा महाटवी ।
कुत इदमूर्ध्वाण्डकपालसम्पुटोदरोल्लेखि शक्तिध्वजशिखरशूलोत्सेधं सौधमागतम् ।
क्व च तदरण्यस्थलीसमास्तीर्णं पर्णशयनम् ।
कुतस्त्यं चैतदिन्दुगभस्तिसम्भारभासुरं हंसतूलदुकूलशयनम् ।
एष च को नु शीतरश्मिकिरणरजतरज्जुदोलापरिभ्रष्टमूर्छित इवाप्सरोगणः स्वैरसुप्तः सुन्दरीजनः ।
का चेयं देवीवारविन्दहस्ता शारदशशाङ्कमण्डलं पर्यङ्कतलमेतदमलदुकूलोत्तरच्छदमधिशेते ।
न तावदेषा देवयोषा ।
यतो मन्दमन्दमिन्दुकिरणैः संवाह्यमाना कमलिनीव निद्राति ।
भग्नवृन्तच्युतरसबिन्दुशबलितं पाकपाण्डुचूतफलमिवोद्भिन्नस्वेदलेखमालक्ष्यते गण्डस्थलम् ।
अभिनवयौवनविदाहनिर्भरोष्मणि कुचतटे वैवर्ण्यमुपैति वर्णकः ।
वाससी च परिभोगानुरूपं धूसरिमाणमादर्शयतः ।
तदेषा मानुष्येव दिष्ट्या चानुच्छिष्टयौवना ।
यतः सौकुमार्यगताः सन्तोपि संहता इवावयवाः ।
प्रस्निग्धतमापि पाण्डुतानुविद्धेव देहच्छविः ।
अदन्तपीडाभिज्ञतया नातिविशदरागोद्भेदो मुखे विद्रुमद्युतिरधरमणिः ।
अनत्यापूर्णमारक्तमूलं चम्पककुड्मलदलकठोरं कपोलतलम् ।
अनङ्गबाणपातशङ्कामुक्ततया च विश्रब्धमधुरं सुप्यते ।
न चैतद्वक्षःस्थलं निर्दयविमर्दविस्तारितमुखस्तनयुगमुकुलम् ।
अस्ति च ममानतिक्रान्तशिष्टमर्यादचेतसोस्यामासक्तिः ।
आसक्त्यनुरूपं पुनराश्लिष्टा यदि स्पष्टमाक्रन्दितेनैव निद्रां मोक्ष्यति ।
अथाहं न शक्ष्यामि चानुपश्लिष्य शयितुम् ।
अतो यद्भावि तद्भवतु ।
भाग्यमत्र परीक्षिष्य इति स्पृष्टास्पृष्टमेव किमप्याविद्धरागसाध्वसं लक्ष्यसुप्तः स्थितोस्मि ।
सापि किमप्युत्कम्पिता रोमोद्भेदवता वामपार्श्वेन सुखायमानेन मन्दमन्दजृम्भिकारम्भमन्थराङ्गी त्वङ्गदग्रपक्ष्मणोश्चक्षुषोरलसतान्ततारकेणानतिपक्वनिद्राकषायितापाङ्गपरभागेण युगलेनेषदुन्मिषन्ती त्रासविस्मयहर्षरागशङ्काविलासविभ्रमव्यवहितानि व्रीडान्तराणि कानि कान्यपि कामेनाद्भुतानुभावेनावस्थान्तराणि कार्यमाणा परिजनप्रबोधनोद्यतां गिरमावेगपरवशं हृदयमङ्गानि च साध्वसायाससम्बध्यमानस्वेदपुलकानि कथङ्कथमपि निगृह्य सस्पृहेण मधुरकूणितत्रिभागेण मन्दमन्दप्रचारितेन चक्षुषा मदङ्गानि निर्वर्ण्य दूरोत्सर्पितपूर्वकायापि तस्मिन्नेव शयने सचकितमशयिष्ट ।
अजनिष्ट च मे रागाविष्टचेतसोपि किमपि निद्रा ।
पुनरननुकूलस्पर्शदुःखायमानगात्रः प्राबुध्ये ।
प्रबुद्धस्य च मे सैवाटवी तदेव तरुतलं स एव पत्त्रास्तरोभूत् ।
विभावरी च व्यभासीत् ।
अभूच्च मे मनसि ।
किमयं स्वप्नः किं विप्रलम्भः ।
किं वेयमासुरी दैवी वा कापि माया ।
यद्भावि तद्भवतु ।
नाहमिदं तत्त्वतोनवबुध्य मोक्ष्यामि भूमिशयनम् ।
यावदायुरत्रत्यायै देवतायै प्रतिशयितोस्मीति निश्चितमतिरतिष्ठम् ।
अथाविर्भूय कापि रविकराभितप्तकुवलयदामतान्ताङ्गयष्टिः क्लिष्टनिवसनोत्तरीया निरलक्तकरूक्षपाटलेन निःश्वासोष्मजर्जरितत्विषा दन्तच्छदेन वमन्तीव कपिलधूमधूम्रं विरहानलमनवरतसलिलधाराविसर्जनाद्रुधिरशेषमिव लोहिततरं द्वितयमक्ष्णोरुद्वहन्ती कुलचारित्रबन्धनपाशविभ्रमेणैकवेणीभूतेन केशकलापेन नीलांशुकचीरचूडिकापरिवृता पतिव्रतापताकेव सञ्चरन्ती क्षामक्षामापि देवतानुभावादनतिक्षीणवर्णावकाशा सीमन्तिनी प्रणिपतन्तं मां प्रहर्षोत्कम्पितेन भुजलताद्वयेनोत्थाप्य पुत्रवत्परिष्वज्य शिरस्युपाघ्राय वात्सल्यमिव स्तनमुखेन स्तन्यच्छलात्प्रक्षरन्ती शिशिरेणाश्रुणा निरुद्धकण्ठी स्नेहगर्भं व्याहार्षीत् ।
वत्स यद्वः कथितवती मगधराजमहिषी वसुमती मम हस्ते बालमर्थपालं परिदाय कथां काञ्चिदात्मभर्तृपुत्रसखीजनानुविद्धां राजराजप्रवर्तितां कृत्वान्तर्धानमगादात्मजा मणिभद्रस्येति साहमस्मि वो जननी ।
पितुर्वो धर्मपालसूनोः सुमित्त्रानुजस्य कामपालस्य पादपद्ममूलान्निष्कारणकोपकलुषिता प्रोष्यानुशयविधुरा स्वप्ने केनापि रक्षोरूपेणोपेत्य शप्तास्मि ।
चण्डिकायां त्वयि वर्षमात्रं वसामि प्रवासदुःखायेति ब्रुवतैवाहमाविष्टा प्राबुध्ये ।
गतं च तद्वर्षं वर्षसहस्रदीर्घम् ।
अतीतायां तु यामिन्यां देवदेवस्य त्र्यम्बकस्य श्रावस्त्यामुत्सवसमाजमनुभूय बन्धुजनं च स्थानस्थानेभ्यः सम्पतितमभिसमीक्ष्य मुक्तशापा पत्युः पार्श्वमुपसरिष्यामीति प्रस्थितायामेव मयि त्वमभ्येत्य प्रपन्नोस्मि शरणमिहत्यां देवतामिति प्रसुप्तोसि ।
एवं शापदुःखाविष्टया तु मया तदा न तत्त्वतः परिच्छिन्नो भवान् ।
अपि तु शरणागतमटव्यामविरलप्रमादायामयुक्तं परित्यज्य गन्तुमिति मया त्वमपि स्वपन्नेवासि नीतः ।
प्रत्यासन्ने च तस्मिन्देवगृहे पुनरचिन्तयम् ।
कथमिव तरुणेनानेन सह समाजं गमिष्यामीति ।
अथ राज्ञः श्रावस्तीश्वरस्य यथार्थनाम्नो धर्मवर्धनस्य कन्यां नवमालिकां घर्मकालसुभगे कन्यापुरविमानहर्म्यतले विशालकोमलशय्यातलमधिशयानां यदृच्छयोपलभ्य दिष्ट्येयं प्रसुप्ता परिजनश्च गाढनिद्रः शेतामयमत्र मुहूर्तमात्रं ब्राह्मणकुमारो यावत्कृतकृत्या निवर्तेयेति त्वममुत्र शाययित्वा तमुद्देशमगमम् ।
दृष्ट्वैवोत्सवश्रियं निर्विश्य च स्वजनदर्शनसुखमभिवाद्य च त्रिभुवनेश्वरं महेश्वरमात्मालीकप्रत्याकलनोपारूढसाध्वसं च नमस्कृत्य भक्तिप्रणतहृदया भगवतीमम्बिकां तया गिरिदुहित्रा देव्या सस्मितमयि भद्रे मा भैषीर्भवेदानीं भर्तृपार्श्वगामिनी गतस्ते शाप इत्यनुगृहीता सद्य एव प्रत्यापन्नमहिमा प्रतिनिवृत्य दृष्ट्वैव त्वां यथावदभ्यजानाम् ।
कथं मत्सुत एवायं वत्सस्यार्थपालस्य प्राणभूतः सखा प्रमतिरिति ।
पापया मयाज्ञानादस्मिन्नौदासीन्यमाचरितम् ।
अपि चायमस्यामासक्तभावः ।
कन्या चैनं कामयते युवानम् ।
उभौ चेमौ लक्षसुप्तौ त्रपया साध्वसेन वान्योन्यस्यात्मानं न विवृण्वाते ।
गन्तव्यं च मया ।
कामाघ्रातयाप्यनया कन्यया न गुह्यरक्षणाय समाभाषितः सर्वसखीजनः परिजनो वा ।
नयामि तावत्कुमारम् ।
पुनरिममर्थलब्धलक्ष्यैर्यथोपपन्नैरुपायैः साधयिष्यामीति मत्प्रभावस्वापितं भवन्तमेतदेव पत्त्रशयनं तदैव प्रत्यनैषम् ।
एवमिदं वृत्तम् ।
एषा चाहं पितुस्ते पादमूलमुपसर्पेयमिति प्राञ्जलिं मां भूयो भूयः परिष्वज्य शिरस्युपाघ्राय कपोलयोश्चुम्बित्वा स्नेहविह्वला गतासीत् ।
अहं च पञ्चबाणवश्यः श्रावस्तीमभ्यवर्तिषि ।
मार्गे च महति निगमे नैगमानां ताम्रचूडयुद्धकोलाहलो महानासीत् ।
अहं च तत्र सन्निहितः किञ्चिदस्मेषि ।
सन्निधिनिषण्णस्तु मे वृद्धविटः कोपि ब्राह्मणः शनैः स्मितहेतुमपृच्छत् ।
अब्रवं च ।
कथमिह नालिकेरजातेः प्राच्यवाटकुक्कुटस्य प्रतीच्यवाटपुरुषैरसमीक्ष्य बलाकाजातिस्ताम्रचूडो बलप्रमाणाधिकस्यैवं प्रतिविसृष्ट इति ।
सोपि तज्ज्ञः किमज्ञैरेभिर्व्युत्पादितैस्तव तूष्णीमास्वेत्युपहस्तिकायास्ताम्बूलं कर्पूरसहितमुद्धृत्य मह्यं दत्त्वा चित्राः कथाः कथयन्क्षणमतिष्ठत् ।
प्रायुध्यत चातिसंरब्धमनुप्रहारप्रवृत्तस्वपक्षमुक्तकण्ठीरवरवं विहङ्गमद्वयम् ।
जितश्चासौ प्रतीच्यवाटकुक्कुटः ।
सोपि विटब्राह्मणः स्ववाटकुक्कुटविजयहृष्टो मयि वयोविरुद्धं सख्यमुपेत्य तदहः स्वगृह एव स्नानभोजनादि कारयित्वोत्तरेद्युः श्रावस्तीं प्रतियान्तमनुगम्य स्मर्तव्योस्मि सत्यर्थ इति मित्त्रवद्विसृज्य प्रत्ययासीत् ।
अहं च गत्वा श्रावस्तीमध्वश्रान्तो बाह्योद्याने लतामण्डपे शयितोस्मि ।
हंसरवप्रतिबोधितश्चोत्थाय कामपि क्वणन्नूपुरमुखराभ्यां चरणाभ्यां मदन्तिकमुपसरन्तीं युवतीमद्राक्षम् ।
सा त्वागत्य स्वहस्तवर्तिनि चित्रपटे लिखितं मत्सदृशं किमपि पुंरूपं मां च पर्यायेण निर्वर्णयन्ती सविस्मयं सतर्कं च क्षणमवातिष्ठत ।
मयापि चित्रपटे तत्र मत्सादृश्यं पश्यता तस्याश्च तद्दृष्टिचेष्टितमनाकस्मिकं मन्यमानेन ननु सर्वसाधारणोयं रमणीयः पुण्यारामभूमिभागः किमिति चिरं स्थितिक्लेशोनुभूयते ननूपवेष्टव्यमित्यभिहिता सा सस्मितमनुगृहीतास्मीति न्यषीदत् ।
सङ्कथा च देशवार्त्तानुबद्धा काचनावयोरभूत् ।
कथासंश्रिता च सा देशातिथिरसि दृश्यन्तेध्वश्रान्तानीव गात्राणि यदि न दोषो मद्गृहेद्य विश्रमितुमनुग्रहः क्रियतामित्यशंसत् ।
अहं च मुग्धे नैष दोषो गुण एवेति तदनुमार्गगामी तद्गृहगतो राजार्हेण स्नानभोजनादिनोपचरितः सुखनिषण्णो रहसि पर्यपृच्छ्ये ।
महाभाग दिनान्तराणि भ्रमता कच्चिदस्ति किञ्चिदद्भुतं भवतोपलब्धमिति ।
ममाभवन्मनसि ।
महदिदमाशास्पदम् ।
एषा खलु निखिलपरिजनसम्बाधसंलक्षितायाः सख्येव राजदारिकायाः ।
चित्रपटे चास्मिन्नस्ति तदुपरिविरचितसितवितानं हर्म्यतलं तद्गतं च प्रकामविस्तीर्णं शरदभ्रपटलपाण्डुरं शयनं तदधिशायिनी च निद्रालीढलोचना ममैवेयं प्रतिकृतिः ।
अतो नूनमनङ्गेन सापि राजकन्या तावतीं भूमिमारोपिता यस्यामसह्यकामज्वरोन्माथिता सखीनिर्बन्धपृष्टविक्रियानिमित्ता चातुर्यादेतद्रूपनिर्माणेनैव समर्थमुत्तरं दत्तवती ।
रूपसंवादाच्च संशयानयानयापृच्छ्ये भिन्दान्यस्याः संशयं यथानुभवकथनेनेति जातनिश्चयोब्रवम् ।
भद्रे देहि चित्रपटमिति ।
सा त्वर्पितवती मद्धस्ते ।
पुनस्तमादाय तामपि व्याजसुप्तामुल्लसन्मदनरागविह्वलां वल्लभामेकत्रैवालिख्य काचिदेवम्भूता युवतिरीदृशस्य यूनः पार्श्वशायिन्यरण्यान्यां प्रसुप्तेन मयोपलब्धा ।
न किलैष स्वप्न इत्यालपं च ।
हृष्टया तु तया विस्तरतः पृष्टः सर्वमेव वृत्तान्तमकथयम् ।
असौ च सख्या मन्निमित्तान्यवथान्तराण्यवर्णयत् ।
तदाकर्ण्य च तव यदि सख्या मदनुग्रहोन्मुखं मनो गमय कानिचिदहानि कमपि कन्यापुरे निराशङ्कनिवासकारणमुपायमारचय्यागमिष्यामीति कथञ्चिदेनामुपगमय्य गत्वा खर्वटं वृद्धविटेन समगंसि ।
स च ससम्भ्रमं विश्रमय्य तथैव स्नानभोजनादि कारयित्वा रहस्यपृच्छत् ।
आर्य कस्य हेतोरचिरेणैव प्रत्यागतोसि ।
अहं पुनः प्रत्यवादिषमेनम् ।
स्थान एवार्येण पृष्टः ।
श्रूयताम् ।
अस्ति श्रावस्ती नाम नगरी ।
तस्याः पतिरपर इव धर्मपुत्रो धर्मवर्धनो नाम राजा ।
तस्य दुहिता प्रत्यादेश इव श्रियः प्राणा इव कुसुमधन्वनः सौकुमार्यविडम्बितनवमालिका नवमालिका नाम कन्या ।
सा मया समापत्तिदृष्टा कामनाराचपङ्क्तिमिव कटाक्षमालां मम मर्मणि व्यकिरत् ।
तच्छल्योद्धरणक्षमश्च धन्वन्तरिसदृशोपि त्वदृते नेतरोस्ति वैद्य इति प्रत्यागतोस्मि ।
तत्प्रसीद कञ्चिदुपायमाश्रयितुमर्हसि ।
अयमहं परिवर्तितस्त्रीवेषः कन्या नाम ते भवेयम् ।
अनुगतश्च मया त्वमुपगतो धर्मासनगतं धर्मव्र्धनमेवं वक्ष्यसि ।
ममेयमेकैव दुहिता जाता ।
जातमात्रायां त्वस्यां जनन्यस्याः संस्थिता ।
माता च पिता च भूत्वाहमेव व्यवर्धयम् ।
एतदर्थमेव विद्यामयं शुल्कमर्जितुं गतोभूदवन्तिनगरीमुज्जयिनीमस्मद्वैवाह्यकुलजः कोपि विप्रदारकः ।
तस्मै चेयमनुमता न दातुमितरस्मै योग्या ।
तरुणीभूता चेयम् ।
स च विलम्बते ।
ततस्तमानीय पाणिमस्या ग्राहयित्वा तस्मिन्न्यस्तभारः सन्न्यसिष्ये ।
दुरभिरक्षतया तु मुक्तशैशवानां दुहितॄणां विशेषतोमातृकाणामिह देवं मातृपितृस्थानीयं प्रजानामापन्नशरणमागतोस्मि ।
यदि वृद्धं ब्राह्मणमधीतिनमगतिं च मामनुग्राह्यपक्षे गणयत्यादिराजचरितधुर्यो देवः सैषा भवद्भुजच्छायामखण्डितचारित्रा तावदध्यास्तां यावदस्याः पाणिग्राहकमानयेयमिति ।
स एवमुक्तो नियतमभिमनायमानः स्वदुहितृसन्निधौ मामावासयिष्यति ।
गतस्तु भवानागामिनि मासि फाल्गुने फाल्गुनीषूत्तरासु भाविनि राजान्तःपुरजनस्य तीर्थयात्रोत्सवे तीर्थस्थानात्प्राच्यां दिशि गोरुतार्धमन्तरमतीत्य वानीरवलयमध्यवर्तिनि कार्तिकेयगृहे करतलगतेन शुक्लांशुकयुगलेन स्थास्यसि ।
स खल्वहमनभिशङ्कस्तावन्तं समयमभिविहृत्य राजपुत्र्या सह भूयस्तस्मिन्नुत्सवे गङ्गाम्भसि विहरन्विहारव्याकुले कन्यकासमाजे मग्नोपसृतस्त्वदभ्याश एवोन्मङ्क्ष्यामि ।
पुनस्त्वदुपहृते च वाससी परिधायापनीतदारिकावेषो जामाता नाम भूत्वा त्वामेवानुगच्छेयम् ।
नृपात्मजा तु मामितस्ततोन्विष्यानासादयन्ती तया विना न भोक्ष्य इति रुदितवत्यवस्थास्यते ।
तन्मूले च महति कोलाहले क्रन्दत्सु परिजनेषु रुदत्स्ववरोधजनेषु शोचत्सु पौरजनपदेषु किङ्कर्तव्यतामूढे सामात्ये पार्थिवे त्वमास्थानीमेत्य मां स्थापयित्वा वक्ष्यसि ।
देव स एष मे जामाता तवार्हति श्रीभुजाराधनम् ।
अधीती चतुर्ष्वाम्नायेषु गृहीती षट्स्वङ्ङ्गेष्वान्वीक्षिकीविचक्षणश्चतुःषष्टिकलागमप्रयोगचतुरो विशेषेण गजरथतुरगतन्त्रविदिष्वसनास्त्रकर्मणि गदायुद्धे च निरुपमः पुराणेतिहासकुशलः कर्ता काव्यनाटकाख्यायिकानां वेत्ता सोपनिषदोर्थशास्त्रस्य निर्मत्सरो गुणेषु विश्रम्भी सुहृत्सु शक्यः संविभागशीलः श्रुतधरो गतस्मयश्च ।
नास्य दोषमणीयांसमप्युपलभे ।
न च गुणेष्वविद्यमानम् ।
तन्मादृशस्य ब्राह्मणमात्रस्य न लभ्य एष सम्बन्धी ।
दुहितरमस्मै समर्प्य वार्धकोचितमन्त्यमाश्रमं सङ्क्रमेयं यदि देवः साधु मन्यत इति ।
स इदमाकर्ण्य वैवर्ण्याक्रान्तवक्त्रः परमुपेतो वैलक्ष्यमारप्स्यतेनुनेतुमनित्यतादिसङ्कीर्तनेनात्रभवन्तं मन्त्रिभिः सह ।
त्वं तु तेषामदत्तश्रोत्रो मुक्तकण्ठं विरुद्य बाष्पकुण्ठकण्ठः काष्ठान्याहृत्याग्निं सन्धुक्ष्य राजद्वार एव चिताधिरोहणायोपक्रमिष्यसे ।
स तावत्तव पादयोर्निपत्य सामात्यो नरपतिरनूनैरर्थैरुपसंहृत्य दुहितरं मे दत्त्वा मद्योग्यतासमाराधितः समस्तमेव राज्यभारं मयि समर्पयिष्यते ।
सोयमभ्युपायोनुष्ठेयो यदि तुभ्यं रोचत इति ।
सोतिपटुर्विटग्रामणीरसकृदभ्यस्तकपटप्रपञ्चः पाञ्चालशर्मा यथोक्तमभ्यधिकं निपुणमुपक्रान्तवान् ।
आसीच्चात्मसमीहितानामहीनफलसिद्धिः ।
अन्वभवं च मधुकर इव नवमालिकामार्द्रसुमनसम् ।
अस्य राज्ञः सिंहवर्मणः साहाय्यदानं सुहृत्सङ्केतभूमिगमनं द्वयमप्यवेक्ष्य सर्वबलसन्दोहेन चम्पामिमामुपगतो दैवाद्देवदर्शनोत्सवसुखमनुभवामीति ।
श्रुत्वैतत्प्रमितिचरितं स्मितमुकुलितमुखनलिनो विलासप्रायमूर्जितं मृदुप्रायं चेष्टितमिष्ट एष मार्गः प्रज्ञावतामथेदानीमत्रभवान्प्रविशत्विति मित्त्रगुप्तमैक्षत क्षितीशपुत्रः ।
इति श्रीदण्डिनः कृतौ दशकुमारचरिते प्रमितिचरितं नाम पञ्चम उच्छ्वासः ॥