४ अर्थपालचरितम्

देव सोहमप्येभिरेव सुहृद्भिरेककर्मोर्मिमालिनेमिभूमिवलयं भ्रमन्नुपासरं कदाचित्काशीपुरीं वाराणसीम् ।
उपस्पृश्य च मणिभङ्गनिर्मलाम्भसि मणिकर्णिकायामविमुक्तेश्वरं भगवन्तमन्धकमथनमभिप्रणम्य प्रदक्षिणं परिभ्रमन्पुरुषमेकमायामवन्तमायसपरिघपीवराभ्यां भुजाभ्यां बध्यमानपरिकरमविरतरुदितोच्छूनताम्रदृष्टिमद्राक्षम् ।
अतर्कयं च ।
कर्कशोयं पुरुषः ।
कार्पण्यमिव वर्षति म्लानतारं चक्षुः ।
आरम्भश्च साहसानुवादी ।
नूनमसौ प्राणनिस्पृहः किमपि कृच्छ्रं प्रियजनव्यसनमूलं प्रपित्सते ।
तत्पृच्छेयमेनमस्ति चेन्ममापि कोपि साहाय्यावकाशस्तमेनमभ्यवपद्येत्यपृच्छम् ।
भद्र सन्नाहोयं साहसमवगमयति ।
न चेद्गोप्यमिच्छामि श्रोतुं शोकहेतुमिति ।
स मां सबहुमानं निर्वर्ण्य को दोषः श्रूयतामिति क्वचित्करवीरतले मया सह निषण्णः कथामकार्षीत् ।
महाभाग सोहमस्मि पूर्वेषुकामचरः पूर्णभद्रो नाम गृहपतिपुत्रः ।
प्रयत्नसंवर्धितोपि पित्रा दैवच्छन्दानुवर्ती चौर्यवृत्तिरासम् ।
अथास्यां काशीपुर्यामर्यवर्यस्य कस्यचिद्गृहे चोरयित्वा रूपाभिग्राहितोबध्ये ।
बद्धे च मयि मत्तहस्ती मृत्युविजयो नाम हिंसाविहारी राजद्वारगोपुरोपरितलाधिरूढस्य पश्यतः कामपालनाम्न उत्तमामात्यस्य शासनाज्जनकण्ठरवद्विगुणितघण्टारवो मण्डलितहस्तकाण्डमभ्यधावत् ।
अभिपत्य च मया निर्भयेन निर्भर्त्सितः परिणमन्दारुखण्डसुषिरानुप्रविष्टोभयभुजदण्डचण्डघट्टितप्रतिमानो भीत इव न्यवर्तिष्ट ।
भूयश्च नेत्रा जातसंरम्भेण निकामदारुणैर्वागङ्कुशपादैरभिमुखीकृतो मयापि द्विगुणाबद्धमन्युना निर्भर्त्स्याभिहतो विवृत्यापाद्रवत् ।
अथ मयानुपत्य सरभसमाक्रुष्टो रुष्टः स यन्ता हन्त मृतोसि क्व यासि कुञ्जरापसदेति निशितेन वारणेन वारणं मुहुर्मुहुरभिघ्नन्निर्याणभागे कथमपि मदभिमुखमकरोत् ।
अपसरतु द्विरदकीट एषः ।
अन्यः कश्चिन्मातङ्गपतिरानीयतां येनाहं मुहूर्तं विहृत्य गच्छामि गन्तव्यां गतिमित्यवोचम् ।
दृष्ट्वैव स मां रुष्टमुद्गर्जन्तमुत्क्रान्तयन्तृनिष्ठुराज्ञः पलायिष्ट ।
मन्त्रिणा पुनरहमाहूयाभ्यधायिषि ।
भद्र मृत्युरिवैष मृत्युविजयो हिंसाविहारी ।
सोयमपि नाम त्वयैवम्भूतः कृतः ।
तद्विरम्य कर्मणोस्मान्मलीमसात्किमलमसि प्रपद्यास्मानार्यवृत्त्या वर्तितुमिति ।
यथाज्ञापितोस्मीति विज्ञापितोयं मया मित्त्रवन्मय्यवर्तिष्ट ।
मयैकदा रहसि जातविश्रम्भेण पृष्टः सोभाषत स्वचरितम् ।
आसीत्कुसुमपुरे राज्ञो रिपुञ्जयस्य मन्त्री धर्मपालो नाम विश्रुतधीः श्रुतर्षिः ।
अमुष्य पुत्रः सुमित्त्रो नाम पित्रैव समः प्रज्ञागुणेषु ।
तस्यास्मि द्वैमातुरः कनीयान्भ्राताहम् ।
वेशेषु विलसन्तं मां विनयरुचिरसाववारयत् ।
पुनरवार्यदुर्नयश्चाहमपसृत्य दिङ्मुखेषु भ्रमन्यदृच्छयास्यां वाराणस्यां प्रमदवने मदनदमनाराधनाय निर्गत्य सह सखीभिः कन्दुकेन परिक्रीडमानां काशीभर्तुश्चण्डसिंहस्य कन्यां कान्तिमतीं नामाचकमे ।
कथमपि समगच्छे च ।
अथ छन्नं विहरता कुमारीपुरे सा मयासीदापन्नसत्त्वा ।
कञ्चित्सुतं च सूतवती ।
मृतजात इति सोपविद्धस्तया रहस्यनिर्भेदभयात्परिजनेन क्रीडाशैले शबर्या श्मशानाभ्याशं नीतः ।
तथैव च निवर्तमानया निशीथे राजवीथ्यामारक्षिकपुरुषैरभिगृह्य तर्जितया दण्डपारुष्यभीतया निर्भिन्नप्रायं रहस्यम् ।
राजाज्ञयाहमाक्रीडनगिरिदरीगृहे विश्रब्धप्रसुप्तस्तयोपदर्शितः ।
यथोपपन्नरज्जुबद्धः श्मशानमुपनीय मातङ्गोद्यतेन कृपाणेन प्राजिहीर्ष्ये ।
नियतिबलाल्लूनबन्धनस्तमसिमाच्छिद्यान्त्यजं तमन्यांश्च कांश्चित्प्रहृत्यापासरम् ।
अशरणश्च भ्रमन्नटव्यामेकदोदश्रुमुख्या दिव्याकारया कन्यया सपरिवारयोपास्थायिषि ।
सा मामञ्जलिकिसलयोत्तंसितेन मुखविलोलकुन्तलेन मूर्ध्ना प्रणिपत्य मया सह वनवटद्रुमस्य कस्यापि महतः प्रच्छायशीतले तले निषण्णा कासि वासु कुतोस्यागता कस्य हेतोरस्य मे प्रसीदसीति साभिलाषमाभाषिता मया वाङ्मयं मधुवर्षमवर्षत् ।
नाथ नाथस्य यक्षाणां मणिभद्रस्यास्मि दुहिता तारावली नाम ।
साहं कदाचिदगस्त्यपत्नीं लोपामुद्रां नमस्कृत्यापावर्तमाना मलयगिरेः परेतावासे वाराणस्यां कमपि दारकं रुदन्तमद्राक्षम् ।
आदाय चैनं तीव्रस्नेहा मम पित्रोः सन्निधिमनैषम् ।
अनैषीच्च तातो मे मां देवस्यालकेश्वरस्यास्थानीम् ।
अथाहमाहूयाज्ञप्ता हरसखेन ।
बाले बालेस्मिन्भावस्ते कीदृश इति ।
औरस इवास्मिन्वत्से वत्सलतेति मया विज्ञापितः सत्यमाह वराकीति तन्मूलामतिमहतीं कथामकरोत् ।
तत्रैतन्मयावगतम् ।
त्वं किल शौनकः शूद्रकः कामपालश्चाभिन्नः ।
बन्धुमती विनयवती कान्तिमती चाभिन्ना ।
वेदवत्यर्यदासी सोमदेवी चैकैव ।
हंसावली शूरसेना सुलोचना चानन्या ।
नन्दिनी रङ्गपताकेन्द्रसेना चापृथग्भूता ।
या किल शौनकावस्थायामग्निसाक्षिकमात्मसात्कृता गोपकन्या सैव किलार्यदासी पुनश्चाद्य तारावलीत्यभूवम् ।
बालश्च किल शूद्रकावस्थे त्वय्यार्यदास्यवस्थायां मय्युदभूत् ।
अवर्ध्यत च विनयवत्या ।
स्नेहवासनया तु तस्यां कान्तिमत्यवस्थायामद्योदभूत् ।
अवर्ध्यत च विनयवत्या ।
स्नेहवासनया तु तस्यां कान्तिमत्यवस्थायामद्योदभूत् ।
एवमनेकमृत्युमुखपरिभ्रष्टं दैवान्मयोपलब्धः ।
तमेकपिङ्गादेशाद्वने तपस्यतो राजहंसस्य देव्यै वसुमत्यै तत्सुतस्य भाविचक्रवर्तिनो राजवाहनस्य परिचर्यार्थं समर्प्य गुरुभिरभ्यनुज्ञाता कृतान्तयोगात्कृतान्तमुखभ्रष्टस्य ते पादपद्मशुश्रूषार्थमागतास्मीति ।
तच्छ्रुत्वा तामनेकजन्मरमणीमसकृदाश्लिष्य हर्षाश्रुमुखो मुहुर्मुहुः सान्त्वयित्वा तत्प्रभावदर्शिते महति मन्दिरेहर्निशमिन्द्रदुर्लभान्भोगानन्वभूवम् ।
द्वित्राणि दिनान्यतीत्य मत्तकाशिनीं तामवादिषम् ।
प्रिये प्रत्यपकृत्य मत्प्राणद्रोहिणश्चण्डसिंहस्य वैरनिर्यातनसुखमनुबुभूषामीति ।
तया सस्मितमेहि कान्त कान्तिमतीदर्शनाय नयामि त्वामिति स्थितेर्धरात्रे राज्ञो वासगृहमनीये ।
ततस्तस्य चण्डसिंहस्य शिरोभागवर्तिनीमसियष्टिमादाय प्रबोध्यैनं प्रस्फुरन्तमब्रवम् ।
अयमस्मि भवज्जामाता ।
भवदनुमत्या विना तव कन्याभिमर्शी ।
तमपराधमनुवृत्त्या प्रमार्ष्टुमागत इति ।
सोथ भीतो मामभिप्रणम्याह ।
अहमेव मूढोपराद्धो यस्तव दुहितृसंसर्गानुग्राहिणो ग्रहग्रस्त इवोत्क्रान्तसीमा स्वयमेव समादिष्टवान्वधम् ।
तदास्तां कान्तिमती ।
राज्यमिदं मम जीवितमप्यद्यप्रभृति भवदधीनमित्यवादीत् ।
अथापरेद्युः प्रकृतिमण्डलं सन्निधाप्य विधिवदात्मजायाः पाणिमग्राहयत् ।
अश्रावयच्च तनयवार्तां तारावली कान्तिमत्यै सोमदेवीसुलोचनेन्द्रसेनाभ्यश्च पूर्वजातिवृत्तान्तम् ।
इत्थमहं मन्त्रिपदापदेशं यौवराज्यमनुभवन्विहरामि विलासिनीभिरिति ।
स एवं मादृशेपि जन्तौ परिचर्यानुबन्धी बन्धुरेकः ।
सर्वभूतानामलसकेन स्वर्गते श्वशुरे ज्यायसि श्याले चण्डघोषनाम्नि स्त्रीष्वतिप्रसङ्गात्प्रागेव क्षयक्षीणायुषि पञ्चवर्षदेशीयं सिंहघोषनामानं कुमारमभ्यषेचयत् ।
अवर्धयच्च विधिनैनं स साधुः ।
तस्याद्य यौवनोन्मादिनः पैशुन्यवादिनो दुर्मन्त्रिणः कतिचिदासन्नन्तरङ्गभूताः ।
तैः किलासावित्थमग्राह्यत ।
प्रसह्यैव स्वसा तेमुना भुजङ्गेन सङ्गृहीता ।
पुनः प्रसुप्ते राजनि प्रहर्तुमुद्यतासिरासीत् ।
तेनास्मै तत्क्षणप्रबुद्धेन भीत्यानुनीय दत्ता कन्या ।
तं च देवज्येष्ठं चण्डघोषं विषेण हत्वा बालोयमसमर्थ इति त्वमद्यापि प्रकृतिविश्रम्भणायोपेक्षितः ।
क्षिणोति पुरा स कृतघ्नो भवन्तम् ।
तमेवान्तकपुरमभिगमयितुं यतस्वेति ।
स तथा दूषितोपि यक्षिणीभयान्नामुष्मिन्पापमाचरितुमशकत् ।
एषु किल दिवसेष्वयथापूर्वमाकृतौ कान्तिमत्याः समुपलक्ष्य राजमहिषी सुलक्षणा नाम सप्रणयमपृच्छत् ।
देवि नाहमायथातथ्येन विप्रलम्भनीया ।
कथय तथ्यं केनेदमायथापूर्व्यमाननारविन्दे तवैषु वासरेष्विति ।
सा तु भद्रे स्मरसि किमायथातथ्येन किञ्चिन्मयोक्तपूर्वम् ।
सखी मे तारावली सपत्नी च किमपि कलुषिताशया रहसि भर्त्रा मद्गोत्रापदिष्टा प्रणयमभ्युपेक्ष्य प्रणम्यमानाप्यस्माभिरुपोढमत्सरा प्रावसत् ।
अवसीदति च नः पतिः ।
अतो मे दौर्मनस्यमिति ।
तत्प्रायेणैकान्ते सुलक्षणया कान्ताय कथितम् ।
अथासौ निर्भयोद्य प्रियतमाविरहपाण्डुभिरवयवैर्धैर्यस्तम्भिताश्रुपर्याकुलेन चक्षुषोष्मश्वासशोषिताभिरिव नातिपेशलाभिर्वाग्भिर्वियोगं दर्शयन्तं कथमपि राजकुले कार्याणि कारयन्तं पूर्वसङ्केतितैः पुरुषैरभिग्राह्याबन्धयत् ।
तस्य किल स्थानस्थानेषु दोषानुद्घोष्य तथोद्धरणीये चक्षुषी यथा तन्मूलमेवास्य मरणं भवेदिति ।
अतोत्रैकान्ते यथेष्टमश्रु मुक्त्वा तस्य साधोः पुरः प्राणान्मोक्तुकामो बध्नामि परिकरमिति ।
मयापि मत्पितृव्यसनमाकर्ण्य पर्यश्रुणा सोभिहितः ।
सौम्य किं तव गोपयित्वा ।
यस्तस्य सुतो यक्षकन्यया देवस्य राजवाहनस्य पादशुश्रूषार्थं देव्या वसुमत्या हस्तन्यासः कृतः सोहमस्मि ।
शक्ष्यामि सहस्रमपि भटानामुदायुधानां हत्वा पितरं मोचयितुम् ।
अपि तु सङ्कुले यदि कश्चित्पातयेत्तदङ्गे शस्त्रिकां सर्व एव मे यत्नो भस्मनि हुतमिव भवेत् ।
इत्यनवसितवचन एव मयि महानाशीविषः प्राकाररन्ध्रेणोदैरयच्छिरः ।
तमहं मन्त्रौषधिबलेनाभिगृह्य पूर्णभद्रमब्रवम् ।
भद्र सिद्धं नः समीहितम् ।
अनेन तातमलक्ष्यमाणः सङ्कुले यदृच्छया पतितेन नाम दंशयित्वा तथा विषं स्तम्भयेयं यथा मृत इत्युदास्येत ।
त्वया मुक्तसाध्वसेन माता मे बोधयितव्या ।
यः स यक्ष्या वने देव्या वसुमत्या हस्तार्पितो युष्मत्सूनुः सोनुप्राप्तः ।
पितुरवस्थां मदुपलभ्य बुद्धिबलादित्थमाचरिष्यति ।
त्वया तु मुक्तसाध्वसया राज्ञे प्रेषणीयम् ।
एष खलु क्षत्रधर्मो यद्बन्धुरबन्धुर्वा दुष्टः स निरपेक्षं निग्राह्य इति ।
स्त्रीधर्मश्चैष यद्दुष्टस्यादुष्टस्य वा भर्तुर्गतिर्गन्तव्येति ।
तदहममुनैव सह चिताग्निमारोक्ष्यामि ।
अभिजनानुरूपः पश्चिमो विधिरनुज्ञातव्य इति ।
स एवं निवेदितो नियतमनुज्ञास्यति ।
ततः स्वमेवागारमानीय काण्डपटपरिक्षिप्ते विविक्तोद्देशे दर्भसंस्तरमधिशाय्य स्वयं कृतानुमरणमण्डनया च तत्र सन्निधेयमिति ।
अहं च बाह्यकक्ष्यागतस्त्वया प्रवेशयिष्ये ।
ततः पितरमुज्जीव्य तदभिरुचितेनाभ्युपायेन चेष्टिष्यामह इति ।
स तथेति हृष्टतरस्तूर्णमभ्यगमत् ।
अहं तु घोषणास्थाने चिञ्चावृक्षं लम्बघनतरविपुलशाखमारुह्य गूढतनुरतिष्ठम् ।
आरूढश्च लोको यथायथमुच्चस्थानानि ।
उच्चावचप्रलापः प्रस्थितः ।
तावन्मे पितरं तस्करमिव पश्चाद्बद्धभुजमुद्धुरध्वनिमहाजनानुयातमानीय मदभ्याश एव स्थापयित्वा मातङ्गस्त्रिरघोषयत् ।
एष मन्त्री कामपालो राज्यलोभाद्भर्तारं चण्डसिंहं युवराजं चण्डघोषं विषेणोपांशु हत्वा पुनर्देवोपि सिंहघोषः पूर्णयौवन इत्यमुष्मिन्पापमाचरिष्यन्विश्वासाद्रहस्यभूमौ पुनरमात्यं शिवनागमाहूय स्थूणमङ्गारवर्षं च राजवधायोपजप्य तैः स्वामिभक्त्या विवृतगुह्यो राज्यकामुकस्य ब्राह्मणस्यान्धतमसप्रवेशो न्याय्य इति प्राड्विवाकवाक्यादक्ष्युद्धरणाय नीयते ।
पुनरन्योपि यः स्यादन्यायवृत्तिस्तमप्येवमेव यथार्हेण दण्डेन योजयिष्यति देव इति ।
श्रुत्वैतद्बद्धकलकले महाजने पितुरङ्गे प्रदीप्तशिखमाशीविषं व्यक्षिपम् ।
अहं तु भीतो नामावप्लुत्य तत्रैव जनानुलीनः क्रुद्धव्यालदष्टस्य तातस्य विहितजीवरक्षो विषं क्षणादस्तम्भयम् ।
अपतच्च स भूमौ मृतकल्पः ।
प्रालपं च सत्यमिदं राजावमानिनं दैवो दण्ड एव स्पृशति ।
यदयमक्षिभ्यामवनिपेन विना चिकीर्षितः प्राणैरेव वियोजितो विधिनेति ।
मदुक्तं च केचिदन्वमन्यन्त ।
अपरे पुनर्निनिन्दुः ।
दर्वीकरस्तु तमपि चण्डालं दष्ट्वारूढत्रासद्रुतलोकदत्तमार्गः प्राद्रवत् ।
अथ मदम्बा पूर्णभद्रप्रबोधितार्था तादृशेपि व्यसने नातिविह्वलाल्पपरिजनानुयाता पद्भ्यामेव सधीरमागत्य मत्पितुरुत्तमाङ्गमुत्सङ्गेनोपधारयन्ती स्थिता राज्ञे समादिशत् ।
एष मे पतिस्तवापकर्ता न वेति देवो जानाति ।
न मेनयास्ति चिन्तया फलम् ।
अस्य तु पाणिग्राहकस्य गतिमननुप्रपद्यमाना भवत्कुलं कलङ्कयेयम् ।
अतोनुमन्तुमर्हसि भर्त्रा सह चिताधिरोहणाय मामिति ।
श्रुत्वा चैतत्प्रीतियुक्तः प्रतिसमादिक्षत्क्षितीशः ।
क्रियतां कुलोचितः संस्कारः ।
उत्सवोत्तरं च पश्चिमं विधिसंस्कारमनुभवतु मे भगिनीपतिरिति ।
चण्डाले तु मत्प्रतिषिद्धसकलमन्त्रवादिप्रयासे संस्थिते कामपालोपि कालदष्ट एवेति स्वभवनोपनयनमप्यमुष्य स्वमाहात्म्यप्रकाशनाय महीपतिरन्वमंस्त ।
नीतश्च पिता मे विविक्तायां भूमौ दर्भसंस्तरमधिशयानः स्थितोभूत् ।
अथ मदम्बा मरणमण्डनमनुष्ठाय सकरुणं सखीरामन्त्र्य मुहुरभिप्रणम्य भवनदेवतां यत्नेन निवार्य परिजनाक्रन्दितानि पितुर्मे शयनस्थानमेकाकिनी प्राविशत् ।
तत्र च पूर्वमेव पूर्णभद्रोपस्थापितेन मया वैनतेयतां गतेन निर्विषीकृतं भर्तारमैक्षत ।
हृष्टतमा च पत्युः पादयोः पर्यश्रुमुखी निपत्य मां च प्रस्नुतस्तनी मुहुर्मुहुः परिष्वज्य सहर्षबाष्पगद्गदमगदत् ।
पुत्र योसि जातमात्रः पापया मया परित्यक्तः स किमर्थमेवं मां निर्घृणामनुगृह्णासि ।
अथवैष ते निरपराध एव जनयिता ।
युक्तमस्य प्रत्यानयनमन्तकाननात् ।
क्रूरा खलु तारावली या त्वामुपलभ्यापि तत्त्वतः कुबेरादसमर्प्य मह्यमर्पितवती देव्यै वसुमत्यै ।
सैव वा सदृशकारिणी ।
नहि तादृशाद्भाग्यराशेर्विनास्मादृशो जनोल्पपुण्यस्तवार्हति कलप्रलापामृतानि कर्णाभ्यां पातुम् ।
एहि मां परिष्वजस्व ।
इति भूयो भूयः शिरसि जिघ्रन्त्यङ्कमारोपयन्ती तारावलीं गर्हयन्त्यश्रुभिरभिषिञ्चन्त्युत्कम्पिताङ्गयष्टिरन्यादृशीव क्षणमजनिष्ट ।
जनयितापि नरकादिव स्वर्गं तादृशाद्व्यसनात्तथाभूतमभ्युदयमधिरूढः पूर्णभद्रेण च विस्तरेण यथावृत्तमावेदितो भगवतो मघवतोपि भाग्यवन्तमात्मानमजीगणत् ।
मनागेव च मत्सम्बन्धमाख्याय हर्षविस्मितात्मनोः पित्रोरकथयम् ।
आज्ञापयतं काद्य नः प्रतिपत्तिरिति ।
पिता मे प्राब्रवीत् ।
वत्स गृहमेवेदमस्त्यतिदीर्घमतिविशालशालवलयमक्षय्यायुधस्थानम् ।
अलङ्घ्यतमा च गुप्तिः ।
उपकृताश्च मयातिबहवः सन्ति सामन्ताः ।
प्रकृतयश्च भूयस्यो न मे व्यसनमनुरुध्यन्ते ।
सुभटानां चानेकसहस्रमस्त्येव ससुहृत्पुत्रदारम् ।
अतोत्रैव कतिपयान्यहानि स्थित्वा बाह्याभ्यन्तरकोपानुत्पादयिष्यामः ।
कुपितांश्चोपसङ्गृह्य प्रोत्साह्यास्य प्राक्तनामित्रानुत्थाप्य सहजान्द्विषो दुर्दान्तमेनमुच्छेत्स्याम इति ।
को दोषस्तथास्त्विति तातस्य मतमन्वमंसि ।
तथास्मासु प्रतिविधाय तिष्ठत्सु राजापि विज्ञापितोदन्तो जातानुतापः पारग्रामिकान्प्रयोगान्प्रायः प्रायुङ्क्त ।
ते चास्माभिः प्रत्यहमहन्यन्त ।
अस्मिन्नेवावकाशे पूर्णभद्रमुखाच्च राज्ञः शय्यासनस्थानमवगम्य तदैव स्वोदवसितभित्तिकोणादारभ्योरगास्येन सुरङ्गामकरवम् ।
गता च सा भूमिस्वर्गकल्पमनल्पकन्याजनं कमप्युद्देशम् ।
अव्यथिष्ट च दृष्ट्वैव स मां नारीजनः ।
तत्र काचिदिन्दुकलेव रसातलान्धकारमात्मलावण्येन निर्धुनाना विग्रहिणीव देवी विश्वम्भरा हरगृहिणीवासुरविजयायावतीर्णा पातालमागता गृहिणीव भगवतः कुसुमधन्वनो राज्यलक्ष्मीरिवानेकदुर्नृपदर्शनपरिहरणाय महीविवरं प्रविष्टा निष्टप्तकनकपुत्रिकेवावदातकान्तिः काचित्कन्यका चन्दनलतेव मलयमारुतेन मद्दर्शनेनोदकम्पत ।
तथाभूते च तस्मिन्नङ्गनासमाजे कुसुमितेव काशयष्टिः पाण्डुशिरसिजा स्थविरा कापि पादयोर्निपत्य त्रासदीनमब्रूत ।
दीयतामभयमस्मा अनन्यशरणाय स्त्रीजनाय ।
किमसि देवकुमारो दनुजयुद्धतृष्णया रसातलं विविक्षुः ।
आज्ञापय कोसि कस्य हेतोरागतोसीति ।
सा तु मया प्रत्यवादि ।
मा स्म भवत्यो बिभयुः ।
अयमहमस्मि द्विजातिवृषात्कामपालाद्देव्यां कान्तिमत्यामुत्पन्नोर्थपालो नाम ।
सत्यर्थे निजगृहान्नृपगृहं सुरङ्गयोपासरन्निहान्तरे वो दृष्टवान् ।
काः स्थ यूयम् ।
कथमिह निवसथेति ।
सोदञ्जलिरुदीरितवती ।
भट्टारक भाग्यवत्यो वयं यास्त्वामेभिरेव चक्षुर्भिरनघमद्राक्ष्म ।
श्रूयताम् ।
यस्तव मातामहश्चण्डसिंहस्तेनास्यां देव्यां लीलावत्यां चण्डघोषः कान्तिमतीत्यपत्यद्वयमुदपादि ।
चण्डघोषस्तु युवराजोत्यासङ्गादङ्गनासु राजयक्ष्मणा सुरक्षयमगादन्तर्वत्न्यां देव्यामाचारवत्याम् ।
अमुया चेयं मणिकर्णिका नाम कन्या प्रसूता ।
अथ प्रसववेदनया मुक्तजीविताचारवती पत्युरन्तिकमगात् ।
अथ चण्डसिंहो देवो मामाहूयोपह्वरे समाज्ञापयत् ।
ऋद्धिमति कन्यकेयं कल्याणलक्षणा ।
तामिमां मालवेन्द्रनन्दनाय दर्पसाराय विधिवद्वर्धयित्वा दित्सामि ।
बिभेमि च कान्तिमतीवृत्तान्तादारभ्य कन्यकानां प्रकाशावस्थापनात् ।
अत इयमरातिव्यसनाय कारिते महति भूमिगृहे कृत्रिमशैलगर्भोत्कीर्णनानामण्डपप्रेक्षागृहे प्रचुरपरिबर्हया भवत्या संवर्ध्यताम् ।
अस्त्यत्र भोग्यवस्तु वर्षशतोपभोगेनाप्यक्षय्यमिति ।
स तथोक्तं निजवासगृहस्य द्व्यङ्गुलभित्तावर्धपादं किष्कुविष्कम्भमुद्धृत्य तेनैव द्वारेण स्थानमिदमस्मानवीविशत् ।
इह च नो वसन्तीनां द्वादशं समाः समत्ययुः ।
इयं च वत्सा तरुणीभूता ।
न चाद्यापि स्मरति राजा ।
काममियं पितामहेन सङ्कल्पिता दर्पसाराय ।
त्वदम्बया कान्तिमत्या चेयं गर्भस्थैव द्यूतजिता तवैव जायात्वेन स्वमात्रा समकल्प्यत ।
तदत्र प्राप्तरूपं चिन्तयतु कुमार एवेति ।
तां पुनरवोचम् ।
अद्यैव राजगृहे किमपि कार्यं साधयित्वा प्रतिनिवृत्तो युष्मासु यथार्हं प्रतिपत्स्य इति ।
तेनैव दीपदर्शितेन बिलपथेन गत्वा स्थितेर्धरात्रे तदर्धपादमुद्धृत्य वासगृहं प्रविष्टो विश्रब्धप्रसुप्तं सिंहघोषं जीवग्राहमग्रहीषम् ।
आकृष्य च तमहिमिवाहिशत्रुः स्फुरन्तममुनैव भित्तिरन्ध्रपथेन स्त्रैणसन्निधिमनैषम् ।
आनीय च स्वभवनमायसनिगडसन्दानितचरणयुगलमवनमितमलिनवदनमश्रुबहलरक्तचक्षुषमेकान्ते जनयित्रोर्ममादर्शयम् ।
अकथयं च बिलकथाम् ।
अथ पितरौ नितरां हृष्टौ तं निकृष्टाशयं निशाम्य नियम्य बन्धने क्षिप्त्वा तस्या दारिकाया यथार्हेण कर्मणा पाणिं ममाग्राहयताम् ।
अनायकं च तद्राज्यमस्मदायत्तमेव जातम् ।
प्रकृतिकोपभयात्तु मम मात्रामुमुक्षितोपि न मुक्त एव सिंहघोषः ।
तथा स्थिताश्च वयम् ।
अङ्गराजः सिंहवर्मा देवपादानां भक्तिमान्कृतकर्मा चेत्यमित्राभियुक्तमेनमभ्यसराम ।
अभूवं च भवत्पादपङ्कजरजोनुग्राह्यः ।
स चेदानीं भवच्चरणप्रणामप्रायश्चित्तमनुतिष्ठतु सर्वदुश्चरितक्षालनमनार्यः सिंहघोष इत्यर्थपालः प्राञ्जलिः प्रणनाम ।
देवोपि राजवाहनो बहु पराक्रान्तं बहूपयुक्ता च बुद्धिर्मुक्तबन्धनस्ते श्वशुरः पश्यतु मामित्यभिधाय भूयः प्रमतिमेव पश्यन्प्रीतिस्मेरः प्रस्तूयतां तावदात्मीयं चरितमित्याज्ञापयत् ।
इति श्रीदण्डिनः कृतौ दशकुमारचरिते ऽर्थपालचरितं नाम चतुर्थ उच्छ्वासः ॥