३ उपहारवर्मचरितम्

एषोप्यहमस्मि पर्यटन्नेकदा गतो विदेहेषु ।
मिथिलामप्रविश्यैव च क्वचिन्मठिकायां विश्रमितुमेत्य कयापि वृद्धतापस्या दत्तपाद्यः क्षणमलिन्दभूमाववास्थिषि ।
ततस्तस्यास्तु मद्दर्शनादेव किमप्याबद्धधारमश्रु प्रावर्तत ।
किमेतदम्ब कथय कारणमिति पृष्टा सकरुणमाचष्ट ।
जैवातृक ननु श्रूयते पतिरस्या मिथिलायाः प्रहारवर्मा नामासीत् ।
तस्य खलु मगधराजो राजहंसः परं मित्रमासीत् ।
तयोश्च वल्लभे बलशम्बरयोरिव वसुमतीप्रियंवदे सख्यमप्रतिममधत्ताम् ।
अथ प्रथमगर्भाभिनन्दितां तां च प्रियसखीं दिदृक्षुः प्रियंवदा वसुमतीं सह भर्त्रा पुष्पपुरमगमत् ।
तस्मिन्नेव च समये मालवेन मगधराजस्य महज्जन्यमजनि ।
तत्र लेशतोपि दुर्लक्षितां गतिमगमन्मगधराजः ।
मैथिलस्तु मालवेन्द्रप्रयत्नप्राणितः स्वविषयं प्रति निवृत्तो ज्येष्ठस्य संहारवर्मणः सुतैर्विकटवर्मप्रभृतिभिर्व्याप्तं राष्ट्रमाकर्ण्य स्वस्रीयात्सुह्मपतेर्दण्डावयवमादित्सुरटवीपथमवगाह्य लुब्धकलुप्तसर्वस्वोभूत् ।
तत्सुतेन च कनीयसा हस्तवर्तिना सहैकाकिनी वनचरशरवर्षभयपलायिता वनमगाहिषि ।
तत्र च मे शार्दूलनखावलीढनिपतितायाः पाणिभ्रष्टः स बालकः कस्यापि कपिलाशवस्य क्रोडमभ्यलीयत ।
तच्छवाकर्षिणश्च व्याघ्रस्यासूनिषुरिष्वसनयन्त्रमुक्तः क्षणादलिक्षत् ।
भिल्लदारकैः स बालकोपाहारि ।
सा त्वहं मोहसुप्ता केनापि वृष्णिपालेनोपनीय स्वकुटीरमावेश्य कृपयोपक्रान्तव्रणा स्वस्थीभूय स्वभर्तुरन्तिकमुपतिष्ठासुरसहायतया यावद्व्याकुलीभवामि तावन्ममैव दुहिता सह यूना केनापि तमेवोद्देशमागमत् ।
सा भृशं रुरोद ।
रुदितान्ते च सा सार्थघाते स्वहस्तगतस्य राजपुत्रस्य किरातभर्तृहस्तगमनमात्मनश्च केनापि वनचरेण व्रणविरोपणं स्वस्थायाश्च पुनस्तेनोपयन्तुं चिन्तिताया निकृष्टजातिसंसर्गवैक्लव्यात्प्रत्याख्यानपारुष्यं तदक्षमेण चामुना विविक्ते स्वशिरःकर्तनोद्यममनेन यूना यदृच्छया दृष्टेन तस्य दुरात्मनो हननमात्मनश्चोपयमनमित्यकथयत् ।
स तु पृष्टो मिथिलेन्द्रस्य कोपि सेवकः कारणविलम्बी तन्मार्गानुसारी जातः ।
सह तेन भर्तुरन्तिकमुपसृत्य पुत्रवृत्तान्तेन श्रोत्रमस्य देव्याः प्रियंवदायाश्चादहाव ।
स च राजा दिष्टदोषाज्ज्येष्ठपुत्रैश्चिरं विगृह्य पुनरसहिष्णुतयातिमात्रं प्रयुध्य बद्धः ।
देवी च बन्धनं गमिता ।
दग्धा पुनरहमस्मिन्नपि वार्द्धके हतजीवितमपारयन्ती हातुं प्रव्रज्यां किलाग्रहीषम् ।
दुहिता तु मम हतजीवनाकृष्टा विकटवर्ममहादेवीं कल्पसुन्दरीं किलाशिश्रियत् ।
तौ चेद्राजपुत्रौ निरुपद्रवाववर्धिष्येतामियता कालेन तवेमां वयोवस्थामस्प्रक्ष्येताम् ।
तयोश्च सतोर्न दायादा नरेन्द्रस्य प्रसह्यकारिणो भवेयुरिति प्रमन्युरभिरुरोद ।
श्रुत्वा च तां तापसीगिरमहमपि प्रवृद्धवाष्पो निगूढमभ्यधाम् ।
यद्येवमम्ब समाश्वसिहि ।
नन्वस्ति कश्चिन्मुनिस्त्वया तदवस्थया पुत्राभ्युपपादनार्थं याचितस्तेन स लब्धो वर्धितश्च ।
वार्त्तेयमतिमहती ।
किमनया ।
सोहमस्मि ।
शक्यश्च मयासौ विकटवर्मा यथाकथञ्चिदुपश्लिष्य व्यापादयितुम् ।
अनुजाः पुनरतिबहवस्तैरपि घटन्ते पौरजानपदाः ।
मां तु न कश्चिदिहत्य ईदृक्तया जानाति ।
पितरावपि तावन्मां न संविदाते किमुतेतरे ।
तदेनमर्थमुपायेन साधयिष्यामीति ।
सा तु वृद्धा सरुदितं परिष्वज्य मुहुर्मुहुः शिरस्युपाघ्राय प्रस्रुतस्तनी सगद्गदमगदत् ।
वत्स चिरं जीव ।
भद्रं तव ।
प्रसन्नोद्य भगवान्विधिः ।
अद्यैव प्रहारवर्मण्यधि विदेहा जाताः ।
यतः प्रलम्बमानपीनबाहुर्भवानपारं चैतच्छोकसागरमद्योत्तारयिता स्थितः ।
अहो महद्भागधेयं देव्याः प्रियंवदाया इति हर्षनिर्भरा स्नानभोजनादिना मामुपाचरत् ।
अशिश्रियं चास्मिन्मठैकदेशे निशि कटशय्याम् ।
अचिन्तयं च ।
विनोपधिनायमर्थो न साध्यः ।
स्त्रियश्चोपधीनामुद्भवक्षेत्रम् ।
अतोन्तःपुरवृत्तान्तमस्या अवगम्य तद्द्वारेण किञ्चिज्जालमाचरेयमिति ।
चिन्तयत्येव मयि महार्णवोन्मग्नमार्तण्डतुरङ्गमश्वासरयावधूतेव व्यावर्तत त्रियामा समुद्रगर्भवासजडीकृत इव मन्दप्रतापो दिवसकरः प्रादुरासीत् ।
उत्थायावसायितदिनमुखनियमविधिस्तां मे मातरमवादिषम् ।
अम्ब जाल्मस्य विकटवर्मणः कच्चिदन्तःपुरवृत्तान्तमभिजानासीत्यनवसितवचन एव मयि काचिदङ्गना प्रत्यदृश्यत ।
तां चावेक्ष्य सा मे धात्री हर्षाश्रुकुण्ठितकण्ठमाचष्ट ।
पुत्रि पुष्करिके पश्य भर्तृदारकम् ।
अयमसावकृपया मया वने परित्यक्तः पुनरप्येवमागत इति ।
सा तु हर्षनिर्भरपीडिता चिरं प्ररुद्य बहु विलप्य शान्ता पुनः स्वमात्रा राजान्तःपुरवृत्तान्ताख्याने न्ययुज्यत ।
उक्तं च तया ।
कुमार कामरूपेश्वरस्य कलिन्दवर्मनाम्नः कन्या कल्पसुन्दरी कलासु रूपे चाप्सरसोप्यतिक्रान्ता पतिमभिभूय वर्तते ।
तदेकवल्लभः स तु बह्ववरोधोपि विकटवर्मेति ।
तामवोचम् ।
उपसर्पैनां मत्प्रयुक्तैर्गन्धमाल्यैः ।
उपजनय चासमानदोषनिन्दादिना स्वभर्तरि द्वेषम् ।
अनुरूपभर्तृगामिनीनां वासवदत्तादीनां वर्णनेन ग्राहयानुशयम् ।
अवरोधान्तरेषु च राज्ञा विलसितानि सुगूढान्यपि प्रयत्नेनान्विष्य प्रकाशयन्ती मानमस्या वर्धयेति ।
पुनरहमम्बामवोचम् ।
इत्थमेव त्वयाप्यनन्यव्यापारया नृपाङ्गनासावुपस्थातव्या ।
प्रत्यहं च यद्यत्तत्र वृत्तं तदस्मि त्वयावबोध्यः ।
मदुक्ता पुनरियमुदर्कस्वादुनोस्मत्कर्मणः प्रसाधनाय च्छायेवानपायिनी कल्पसुन्दरीमनुवर्ततामिति ।
ते च तमर्थं तथैवान्वतिष्ठताम् ॥
केषुचिद्दिनेषु गतेष्वाचष्ट मां मदम्बा ।
वत्स माधवीव पिचुमन्दाश्लेषिणी यथासौ शोच्यमात्मानं मन्यते तथोपपाद्य स्थापिता ।
किं भूयः कृत्यमिति ।
पुनरहमभिलिख्यात्मनः प्रतिकृतिमस्मत्प्रतिकृतिरियममुष्यै नेया ।
नीतां चैनां निर्वर्ण्य सा नियतमेवं वक्ष्यति ।
नन्वस्ति कश्चिदीदृशाकारः पुमानिति ।
प्रतिब्रूह्येनाम् ।
यदि स्यात्ततः किमिति ।
यदुत्तरं सा दास्यति तदहमस्मि प्रतिबोधनीय इति ।
सा तथेति राजकुलमुपसङ्क्रम्य प्रतिनिवृत्ता मामेकान्ते न्यवेदयत् ।
वत्स दर्शितोसौ चित्रपटस्तयै मत्तकाशिन्यै ।
चित्रीयमाणा चासौ भुवनमिदं सनाथीकृतं यद्देवेपि कुसुमधन्वनि नेदृशी वपुःश्रीः सन्निधत्ते ।
चित्रमेतच्चित्रतरम् ।
न च तमवैमि य ईदृशमिहत्यो निर्मिमीते ।
केनेदमालिखितमित्यादृतवती व्याहृतवती च ।
मया च स्मेरयोदीरितम् ।
देवि सदृशमाज्ञापयसि ।
भगवान्मकरकेतुरप्येवं सुन्दर इति न शक्यमेव सम्भावयितुम् ।
अथ च विस्तीर्णेयमर्णवनेमिः ।
क्वचिदीदृशमपि रूपं दैवशक्त्या सम्भवेत् ।
अथ तु यद्येवंरूपो रूपानुरूपशिल्पशीलविद्याज्ञानकौशलो युवा महाकुलीनश्च कश्चित्सन्निहितः स्यात्स किं लप्स्यत इति ।
तयोक्तम् ।
अम्ब किं ब्रवीमि ।
शरीरं हृदयं जीवितमिति सर्वमिदमल्पमनर्हं च ।
ततो न किञ्चिल्लप्स्यते ।
न चेदयं विप्रलम्भः स्यादमुष्य दर्शनानुभवेन यथेदं चक्षुश्चरितार्थं भवेत्तथानुग्रहः कार्य इति ।
भूयोपि मया दृढतरीकर्तुमुपन्यस्तम् ।
अस्ति कोपि राजसूनुरवरुद्धश्चरन् ।
अमुष्य वसन्तोत्सवे सह सखीभिर्नगरोपवनविहारिणी रतिरिव विग्रहिणी यदृच्छया दर्शनपथं गतासि ।
गतश्चासौ कामशरैरेकलक्ष्यतां मामन्ववर्तिष्ट ।
मया च वामन्योन्यानुरूपैरन्यदुर्लभैराकारादिभिर्गुणातिशयैश्च प्रेर्यमाणया तद्रचितैरेव शेखरस्रगनुलेपनादिभिश्च चिरमुपासितासि ।
सादृश्यं च स्वमनेन स्वयमेवाभिलिख्य त्वत्समाधिगाढत्वदर्शनाय प्रेषितम् ।
एष चेदर्थो निश्चितः स्यादमुष्यातिमानुषप्राणसत्त्वप्रज्ञाप्रकर्षस्य न किञ्चिद्दुष्करं नाम ।
तमद्यैव दर्शयेयम् ।
सङ्केतो देय इति ।
तया तु किञ्चिदिव ध्यात्वा पुनरभिहितम् ।
अम्ब नैतदिदानीं गोप्यतममतः कथयामि ।
मम तातस्य राज्ञा प्रहारवर्मणा सह महती प्रीतिरासीन्मातुश्च मे मानवत्याः प्रियवयस्या देवी प्रियंवदासीत् ।
ताभ्यां पुनरजातापत्याभ्यामेव कृतः समयोभूत् ।
आवयोः पुत्रवत्याः पुत्राय दुहितृमत्या दुहिता देयेति ।
तातस्तु मां जातां नष्टापत्या प्रियंवदेति प्रार्थयमानाय विकटवर्मणे दैवाद्दत्तवान् ।
अयं च निष्ठुरः पितृद्रोही नात्युपपन्नसंस्थानः कामोपचारेष्वलब्धवैचक्षण्यः कलासु काव्यनाटकादिषु मन्दाभिनिवेशः शौर्योन्मादी दुर्विकत्थनोनृतवादी चास्थानवर्षी ।
नातिरोचते ममैष भर्ता विशेषतश्चैषु वासरेषु यदयमुद्याने मदन्तरङ्गभूतां पुष्करिकामप्युपान्तवर्तिनीमनादृत्य मय्याबद्धसापत्न्यमत्सरामनात्मज्ञामात्मनाटकीयां रमयन्तिकामपत्यनिर्विशेषं मत्संवर्धितायाश्चम्पकलतायाः स्वयमवचिताभिः सुमनोभिरलमकार्षीन्मदुपभुक्तमुक्ते चित्रकूटगर्भवेदिकागते रत्नतल्पे तया सह व्यहार्षीत् ।
अयोग्यश्च पुमानवज्ञातुं च प्रवृत्तस्तत्किमित्यपेक्ष्यते ।
परलोकभयं चैहिकेन दुःखेनान्तरितम् ।
अविषह्यं हि योषितामनङ्गशरनिषङ्गीभूतचेतसामनिष्टजनचिरसंवासयन्त्रणादुःखम् ।
अतोमुना पुरुषेण मामद्योद्यानमाधवीगृहे समागमय ।
तद्वार्त्ताश्रवणमात्रेणैव हि ममातिमात्रं मनोनुरक्तम् ।
अस्ति चायमर्थराशिः ।
अनेनामुष्य पदे प्रतिष्ठाप्य तमेवात्यन्तमुपचर्य जीविष्यामीति ।
मयापि तदभ्युपेत्य प्रत्यागतम् ।
अतः परं भर्तृदारकः प्रमाणमिति ।
ततस्तस्या एव सकाशादन्तःपुरसन्निवेशमन्तर्वंशिकपुरुषस्थानानि प्रमदवनप्रदेशानपि विभागेनावगम्यास्तगिरिशिखरपातक्षुभितशोणित इव शोणीभवति भानुबिम्बे पश्चिमाम्बुधिपयःपातनिर्वापितपतङ्गाङ्गारधूमसम्भार इव भरितनभसि तमसि प्रविजृम्भिते परदारपरामर्शोन्मुखस्य ममाचार्यकमिव कर्तुमुत्थिते गुरुपरिग्रहग्रहणश्लाघिनि ग्रहाग्रेसरे क्षपाकरे कल्पसुन्दरीवदनपुण्डरीकेणेव मद्दर्शनातिरागप्रथमोपनतेन स्मयमानेन चन्द्रमण्डलेन सन्धुक्षमाणतेजसि भुवनविजिगीषोद्यते देवे पुष्पधन्वनि यथोचितं शयनीयमभजे ।
व्यचीचरं च ।
सिद्धप्राय एवायमर्थः ।
किन्तु परकलत्रलङ्घनाद्धर्मपीडा भवेत् ।
साप्यर्थकामयोर्द्वयोरुपलम्भे शास्त्रकारैरनुमतैवेति ।
गुरुजनबन्धमोक्षोपायसन्धिना मया चैष व्यतिक्रमः कृतस्तदपि पापं निर्हृत्य कियत्यापि धर्मकलया मां समग्रयेदिति ।
अपि त्वेतदाकर्ण्य देवो राजवाहनः सुहृदो वा किं नु वक्ष्यन्तीति चिन्तापराधीन एव निद्रया परामृश्ये ।
अदृश्यत च स्वप्ने हस्तिवक्त्रो भगवानाह स्म च ।
सौम्य उपहारवर्मन् मा स्म ते दुर्विकल्पो भूत् ।
त्वमसि मदंशः ।
शङ्करजटाभारलालनोचिता सुरसरिदसौ वरवर्णिनी ।
सा च मद्विलोडनासहिष्णुर्मामशपत् ।
एहि मर्त्यत्वमिति ।
अशप्यत मया च यथेह बहुभोग्या तथा प्राप्यापि मानुष्यकमनेकसाधारणी भवेति ।
अभ्यर्थितश्चानयैकपूर्वां पुनस्त्वामेवोपचर्य यावज्जीवं रमयेयमिति ।
तदयमर्थो भव्यो भवता निराशङ्क्य इति ।
प्रातिबुध्य च प्रीतियुक्तस्तदहरपि प्रियासङ्केतव्यतिकरादिस्मरणेनाहमनैषम् ।
अन्येद्युरनन्यथावृत्तिरनङ्गो मय्येव इषुवर्षमवर्षत् ।
अशुष्यच्च ज्योतिष्मतः प्रभामयं सरः प्रासरच्च तिमिरमयः कर्दमः ।
कार्दमिकनिवसनश्च दृढतरपरिकरः खड्गपाणिरुपहृतप्रकृतोपस्करः स्मरन्मातृदत्तान्यभिज्ञानानि राजमन्दिरपरिखामुदम्भसमुपातिष्ठम् ।
अथोपखातं मातृगृहद्वारे पुष्करिकया प्रथमसन्निधापितां वेणुयष्टिमादाय तया शायितया च परिखां स्थापितया च प्राकारमत्यलङ्घयम् ।
अधिरुह्य पक्वेष्टकचितेन गोपुरोपरितलाधिरोहिणा सोपानपथेन भुवमवातरम् ।
अवतीर्णश्च बकुलवीथीमतिक्रम्य चम्पकावलीवर्त्मना मनागिवोपसृत्योत्तराहि करुणं चक्रवाकमिथुनरवमशृणवम् ।
पुनरुदीचा पाटलिपथेन स्पर्शलभ्यविशालसौधकुड्योदरेण शरक्षेपमिव गत्वा पुनः प्राचा पिण्डीभाण्डीरखण्डमण्डितोभयपार्श्वेन सैकतपथेन किञ्चिदन्तरमतिक्रम्य पुनरवाचीं चूतवीथीमगाहिषि ।
ततश्च गहनतरमुदरोपरचितरत्नवेदिकं माधवीलतामण्डपमीषद्विवृतसमुद्गकोन्मिषितभासा दीपवर्त्या न्यरूपयम् ।
प्रविश्य चैकपार्श्वे फुल्लपुष्पनिरन्तरकुरण्टपोतपङ्क्तिभित्तिपरिगतं गर्भगृहमवनिपतितारुणाशोकशाखामयमभिनवकुसुमकोरकपुलकलाञ्छितं प्रत्यग्रप्रवालपटलपाटलं कपाटमुद्घाट्य प्राविक्षम् ।
तत्र चासीद्विस्तीर्णं कुसुमशयनं सुरतोपकरणवस्तुगर्भाश्च कमलिनीपलाशसम्पुटा दन्तमयस्तालवृन्तः सुरभिसलिलभरितश्च भृङ्गारकः ।
समुपविश्य मुहूर्तं विश्रान्तः परिमलमतिशयवन्तमाघ्रासिषम् ।
अश्रौषं च मन्दम्मन्दं पदशब्दम् ।
श्रुत्वैव सङ्केतगृहान्निर्गत्य रक्ताशोकस्कन्धपार्श्वव्यवहिताङ्गः स्थितोस्मि ।
सा च सुभ्रूरसुशीमकामा शनैरुपेत्य तत्र मामदृष्ट्वा बलवदव्यथिष्ट व्यसृजच्च मत्तराजहंसीव कण्ठरागवल्गुगद्गदां गिरम् ।
व्यक्तमस्मि विप्रलब्धा ।
नास्त्युपायः प्राणितुम् ।
अयि हृदय किमिदमकार्यं कार्यवदध्यवस्यापि तदसम्भवेन किमेवमुत्ताम्यसि ।
भगवन् पञ्चबाण कस्तवापराधः कृतो मया यदेवं दहसि न च भस्मीकरोषीति ।
अथाहमाविर्भूय विवृतदीपभाजनो भामिनि ननु बह्वपराद्धं भवत्या चित्तजन्मनो यदमुष्य जीवितभूतां रतिमाकृत्या कदर्थितवती धनुर्यष्टिं भ्रूलताभ्यां भ्रमरमालामयीं ज्यां नीलालकद्युतिभिरस्त्राण्यपाङ्गवीक्षितवृष्टिभिर्महारजनध्वजपटांशुकं दशनच्छदमयूखजालैः प्रथमसुहृदं मलयमारुतं परिमलपटीयसा निःश्वासपवनेन परभृतरुतमतिमञ्जुलैः प्रलापैः पुष्पमयीं पताकां भुजयष्टिभ्यां दिग्विजयारम्भपूर्णकुम्भमिथुनमुरोजयुगलेन क्रीडासरो नाभिमण्डलेन सन्नाह्यरथमण्डलं श्रोणिमण्डलेन भवनरत्नतोरणस्तम्भयुगलमूरुयुगलेन लीलाकर्णकिसलयं चरणतलप्रभाभिः ।
अतः स्थान एव त्वां दुनोति मीनकेतुः ।
मां पुनरनपराधमधिकमायासयतीत्येष तस्य दोषः ।
तत्प्रसीद सुन्दरि जीवय मां जीवनौषधैरिवापाङ्गैरनङ्गभुजङ्गदष्टमित्याश्लिष्टवान् ।
अरीरमं चानङ्गरागावेशपेशलां विशाललोचनाम् ।
अवसितार्थां चारक्तचिकुरितेक्षणामीषत्स्वेदरेखोद्भेदजर्जरितकपोलमूलामनर्गलकलकलप्रलापिनीमरुणदशनकररुहार्पणव्यतिकरामत्यर्थपरिश्लथाङ्गीमार्त्तामिव लक्षयित्वा मानसीं शारीरीं च धारणां शिथिलयन्नात्मानमपि तया समानार्थमापादयम् ।
तत्क्षणविमुक्तसङ्गतौ रतावसानिकं विधिमनुभवन्तौ चिरपरिचिताविवातिरूढविश्रम्भौ क्षणमवतिष्ठावहि ।
पुनरहमुष्णमायतं च निःश्वस्य किञ्चिद्दीनदृष्टिः सचकितप्रसारिताभ्यां भुजाभ्यामेनामनतिपीडं परिष्वज्य नातिविशदमचुम्बिषम् ।
अश्रुमुखी तु सा यदि प्रयासि नाथ प्रयातमेव मे जीवितं गणय ।
नय मामपि नचेद्दासजनो निष्प्रयोजन इत्यञ्जलिमवतंसतामनैषीत् ।
अवादिषं च ताम् ।
अयि मुग्धे कः सचेतनः स्त्रियमभिकामयमानां नाभिनन्दति ।
यदि मदनुग्रहनिश्चलस्तवाभिसन्धिराचराविचारं मदुपदिष्टम् ।
आदर्शय राज्ञे रहसि मत्सादृश्यगर्भं चित्रपटमाचक्ष्व च किमियमाकृतिः पुरुषसौन्दर्यस्य पारमारूढा न वेति ।
बाढमारूढेति नूनमसौ वक्ष्यति ।
ब्रूहि भूयो यद्येवमस्ति कापि तापसी देशान्तरभ्रमणलब्धप्रागल्भ्या मम च मातृभूता ।
तयेदमालेख्यरूपं पुरस्कृत्याहमुक्ता ।
सोस्ति तादृशो मन्त्रो येन त्वमुपोषिता पर्वणि विविक्तायां भूभौ पुरोहितैर्हुतमुक्ते सप्तार्चिषि नक्तमेकाकिनी शतं चन्दनसमिधः शतमगरुसमिधः कर्पूरमुष्टीः पट्टवस्त्राणि च प्रभूतानि हुत्वा भविष्यस्येवमाकृतिः ।
अथ चालयिष्यसि घण्टाम् ।
घण्टापुटक्वणिताहूतश्च भर्ता भवत्यै सर्वं रहस्यजातमाख्याय निमीलिताक्षो यदि त्वामालिङ्गेदियमाकृतिरमुमुपसङ्क्रामेत् ।
त्वं तु भविष्यसि यथा पुराकारैव ।
यदि भवत्यै भवत्प्रियाय चैवं रोचते न चास्मिन्विधौ विसंवादः कार्य इति ।
वपुश्चेदिदं तवाभिमतं सह सुहृन्मन्त्रिभिरनुजैः पौरजानपदैश्च सम्प्रधार्य तेषामप्यनुमते कर्मण्यस्मिन्नभिमुखेन स्थेयमिति ।
स नियतमभ्युपेष्यति पुनरस्यामेव प्रमदवनवीथीशृङ्गाटिकायामाथर्वणिकेन विधिना सञ्ज्ञपितपशुनाभिहुत्य मुक्ते हिरण्यरेतसि तद्धूमशमनेन सम्प्रविष्टेन मयास्मिन्नेव लतामण्डपे स्थातव्यम् ।
त्वं पुनः प्रगाढायां प्रदोषवेलायामालपिष्यसि कर्णे कृतनर्मस्मिता विकटवर्माणम् ।
धूर्तोसि त्वमकृतज्ञश्च ।
मदनुग्रहलब्धेनापि रूपेण लोकलोचनोत्सवायमानेन मत्सपत्नीरभिरमयिष्यसि ।
नाहमात्मविनाशाय वेतालोत्थापनमाचरेयमिति ।
श्रुत्वेदं त्वद्वचः स यद्वक्ष्यति तन्मह्यमेकाकिन्युपागत्य निवेदयिष्यसि ।
ततः परमहमेव ज्ञास्यामि ।
मत्पदचिह्नानि चोपवने पुष्करिकया प्रमार्जयेति ।
सा तथेति शास्त्रोपदेशमिव मदुक्तमादृत्यातृप्तसुरतरागैव कथङ्कथमप्यगादन्तःपुरम् ।
अहमपि यथाप्रवेशं निर्गत्य स्वमेवावासमयासिषम् ।
अथ सा मत्तकाशिनी तथा तमर्थमन्वतिष्ठत् ।
अतिष्ठच्च तन्मते स दुर्मतिः ।
अभ्रमच्च पौरजानपदेष्वियमद्भुतायमाना वार्त्ता ।
राजा किल विकटवर्मा देवीमन्त्रबलेन देवयोग्यं वपुरासादयिष्यति ।
नूनमेष विप्रलम्भो नातिकल्याणः ।
कैव कथा प्रमादस्य ।
स्वस्मिन्नेवान्तःपुरोपवने स्वाग्रमहिष्यैव सम्पाद्यः किलायमर्थः ।
तथा हि बृहस्पतिप्रतिमबुद्धिभिर्मन्त्रिभिरप्यभ्यूह्यानुमतः ।
यद्येवं भावि नान्यदतः परमस्ति किञ्चिदद्भुतम् ।
अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव इति प्रसृतेषु लोकप्रवादेषु प्राप्ते पर्वदिवसे प्रगाढायां प्रौढतमसि प्रदोषवेलायामन्तःपुरोद्यानादुदैरत धूर्जटिकण्ठधूम्रो धूमोद्गमः क्षीराज्यदधितिलगौरसर्षपवसामांसरुधिराहुतीनां च परिमलः पवनानुसारी दिशिदिशि प्रावात्सीत् ।
प्रशान्ते च सहसा धूमोद्गमे तस्मिन्नहमविशम् ।
निशान्तोद्यानमागमच्च गजगामिनी ।
आलिङ्ग्य च मां सस्मितमभ्यधत्त ।
धूर्त सिद्धं ते समीहितमवसितश्च पशुरसौ ।
अमुष्य चोपप्रलोभनाय त्वदादिष्टया दिशा मयोक्तम् ।
कितव न साधयामि ते सौन्दर्यम् ।
एवं सुन्दरो हि त्वमप्सरसामपि स्पृहणीयो भविष्यसि किमुत मानुषीणाम् ।
मधुकर इव निसर्गचपलो यत्र क्वचिदासज्जति भवादृशो नृशंस इति ।
तेन तु मे पादयोर्निपत्याभिहितम् ।
रम्भोरु सहस्व मत्कृतानि दुश्चरितानि ।
मनसापि न चिन्तयेयमितः परमितरनारीम् ।
त्वरस्व प्रस्तुते कर्मणीति ।
तदहमीदृशेन वैवाहिकेन नेपथ्येन त्वामभिसृतवती ।
प्रागपि रागाग्निसाक्षिकमनङ्गेन गुरुणा दत्तैव तुभ्यमेषा जाया ।
पुनरपीमं जातवेदसं साक्षीकृत्य स्वहृदयेन दत्तेति ।
प्रपदेन चरणपृष्ठे निष्पीड्योत्क्षिप्तपादपार्ष्णिरितरेतरव्यतिषक्तकोमलाङ्गुलिदलेन भुजलताद्वयेन कन्धरां ममावेष्ट्य सलीलमाननमानमय्य स्वयमुन्नमितमुखकमला विभ्रान्तविशालदृष्टिरसकृदभ्यचुम्बत् ।
अथैनामिहैव कुरण्टगुल्मगर्भे तिष्ठ यावदहं निर्गत्य साधयेयं साध्यं सम्यगिति विसृज्य तामुपसृत्य होमानलप्रदेशमशोकशाखावलम्बिनीं घण्टामचालयम् ।
अकूजच्च सा तं जनं कृतान्तदूतीवाह्वयन्ती ।
प्रावर्तिषि चाहमगरुचन्दनप्रमुखानि होतुम् ।
आयासीच्च राजा यथोक्तं देशम् ।
शङ्कापन्नमिव किञ्चित्सविस्मयं निचाय्य तिष्ठन्तमब्रवम् ।
ब्रूहि सत्यं भूयोपि मे भगवन्तं चित्रभानुमेव साक्षीकृत्य न चेदनेन रूपेण मत्सपत्नीरभिरमयिष्यसि ततस्त्वयीदं रूपं सङ्क्रमयेयमिति ।
स तदैव देव्येवेयं नोपधिरिति स्फुटोपजातसम्प्रत्ययः प्रावर्तत शपथाय ।
स्मित्वा पुनर्मयोक्तम् ।
किं वा शपथेन ।
कैव हि मानुषी मां परिभविष्यति ।
यद्यप्सरोभिः सङ्गच्छसे सङ्गच्छस्व कामम् ।
कथय कानि ते रहस्यानि ।
तत्कथनान्ते त्वत्स्वरूपभ्रंश इति ।
सोब्रवीत् ।
अस्ति बद्धो मत्पितुः कनिष्ठः प्रहारवर्मा ।
तं विषान्नेन व्यापाद्याजीर्णदोषं ख्यापयेयमिति मन्त्रिभिः सहाध्यवसितम् ।
अनुजाय विशालवर्मणे दण्डचक्रं पुण्ड्राभियोगाय दित्सितम् ।
पौरवृद्धश्च पाञ्चालिकः परित्रातश्च सार्थवाहः खनतिनाम्नो यवनाद्वज्रमेकं वसुन्धरामूल्यं लघीयसार्घेण लभ्यमिति ममैकान्तेमन्त्रयेताम् ।
गृहपतिश्च ममान्तरङ्गभूतो जनपदमहत्तरः शतहलिरलीकवादशीलमवलेपवन्तं दुष्टग्रामण्यमनन्तसीरं जनपदकोपेन घातयेयमिति दण्डधरानुद्धारकर्मणि मत्प्रयोगान्नियोक्तुमभ्युपागमत् ।
इत्थमिदमचिरप्रसृतं रहस्यमित्याकर्ण्य तमियत्तवायुरुपपद्यस्व कर्मोचितां गतिमिति च्छुरिकया द्विधाकृत्य कृत्तगात्रं तस्मिन्नेव प्रवृत्तस्फीतसर्पिषि हिरण्यरेतस्यजुहवम् ।
अभूच्चासौ भस्मसात् ।
अथ स्त्रीस्वभावादीषद्विह्वलां हृदयवल्लभां समाश्वास्य हस्तकिसलयेवलम्ब्य गत्वा तद्गृहमनुज्ञयास्याः सर्वाण्यन्तःपुराण्याहूय सद्य एव सेवां दत्तवान् ।
विस्मितविलासिनीसार्थमध्ये कञ्चिद्विहृत्य कालं विसृष्टावरोधमण्डलस्तामेव संहतोरुमूरूपपीडं भुजोपपीडं चोपगूह्य तल्पेभिरमयन्नल्पामिवामुं निशामनैषम् ।
अलभे च तन्मुखाद्राजकुलस्य शीलम् ।
उषसि स्नात्वा कृतमङ्गलो मन्त्रिभिः सह समगच्छे तांश्चाब्रवम् ।
आर्या रूपेणैव सह परिवृत्तो मम स्वभावः ।
य एष विषान्नेन हन्तुं चिन्तितः पिता मे स मुक्त्वा स्वमेतद्राज्यं भूय एव ग्राहयितव्यः ।
पितृवदमुष्मिन्वयं शुश्रूषयैव वर्तामहे ।
न ह्यस्ति पितृवधात्परं पातकमिति ।
भ्रातरं च विशालवर्माणमाहूयोक्तवान् ।
वत्स न सुभिक्षाः साम्प्रतं पुण्ड्रास्ते दुःखमोहोपहतास्त्यक्तात्मानो राष्ट्रं नः सुभिक्षमभिद्रवेयुः ।
अतो मुष्टिवधः सस्यवधो वा यदोत्पद्यते तदाभियास्यसि ।
नाद्य यात्रा युक्तेति ।
नगरवृद्धावप्यलापिषम् ।
अल्पीयसा मूल्येन महार्हं वज्रं मास्तु मे लभ्यं धर्मरक्षायै तदगुनुणेनैव मूल्येनादः क्रीयतामिति ।
शतहलिं च राष्ट्रमुख्यमाहूयाख्यातवान् ।
योसावनन्तसीरः प्रहारवर्मणः पक्ष इति निनाशयिषितः सोपि पितरि मे प्रकृतिस्थे किमिति नाश्येत त्वयापि तस्मिन्संरम्भो न कार्य इति ।
त इमे सर्वमाभिज्ञानिकमुपलभ्य स एवायमिति निश्चिन्वाना विस्मयमानाश्च मां महादेवीं च प्रशंसन्तो मन्त्रबलानि चोद्घोषयन्तो बन्धनात्पितरौ निष्क्रमय्य स्वं राज्यं प्रत्यपादयन् ।
अहं च तया मे धात्र्या सर्वमिदं मम चेष्टितं रहसि पित्रोरवगमय्य प्रहर्षकाष्ठाधिरूढयोस्तयोः पादमूलमभजे ।
अभज्ये च यौवराज्यलक्ष्म्या तदनुज्ञातया ।
प्रसाधितात्मा देवपादविरहदुःखदुर्भगान्निर्विशन्भूयोस्य पितृसखस्य सिंहवर्मणो लेख्याच्चण्डवर्मणश्चम्पाभियोगमवगम्य शत्रुवधो मित्ररक्षा चोभयमपि करणीयमेवेत्यलघुना लघुसमुत्थानेन सैन्यचक्रेणाभ्यसरम् ।
अभूवं च भूमिस्त्वत्पादलक्ष्मीसाक्षात्क्रियामहोत्सवानन्दराशेरिति ।
श्रुत्वैतद्देवो राजवाहनः सस्मितमवादीत् ।
पश्यत पारतल्पिकमुपधियुक्तमपि गुरुजनबन्धव्यसनमुक्तिहेतुतया दुष्टामित्रप्रमापणाभ्युपायतया राज्योपलब्धिमूलतया च पुष्कलावर्थधर्मावप्यरीरधत् ।
किं हि बुद्धिमद्भिः प्रयुक्तं नाभ्युपैति शोभामिति ।
अर्थपालमुखे निधाय स्निग्धदीर्घां दृष्टिमाचष्टां भवानात्मीयचरितमित्यादिदेश ।
सोपि बद्धाञ्जलिरभिदधे ॥
इति श्रीदण्डिनः कृतौ दशकुमारचरिते उपहारवर्मचरितं नाम तृतीय उच्छ्वासः ॥