२ अपहारवर्मचरितम्

देव त्वयि तदावतीर्णे द्विजोपकारायासुरविवरं त्वदन्वेषणप्रसृते च मित्रगणेहमपि महीमटन्नङ्गेषु गङ्गातटे बहिश्चम्पायाः कश्चिदस्ति तपःप्रभावोत्पन्नदिव्यचक्षुर्मरीचिर्नाम महर्षिरिति कुतश्चित्संलपतो जनसमाजादुपलभ्यामुतो बुभुत्सुस्त्वद्गतिं तमुद्देशमगमम् ।
न्यशामयं च तस्मिन्नाश्रमे कस्यचिच्चूतपोतकस्य च्छायायां कमप्युद्विग्नवर्णं तापसम् ।
अमुना चातिथिवदुपचरितः क्षणं विश्रान्तः क्वासौ भगवान्मरीचिः ।
तस्मादहमुपलिप्सुः प्रसङ्गप्रोषितस्य सुहृदो गतिम् ।
आश्चर्यज्ञानविभवो हि स महर्षिर्मह्यां विश्रुत इत्यवादिषम् ।
अथासावुष्णमायतं च निःश्वस्याशंसत् ।
आसीत्तादृशो मुनिरस्मिन्नाश्रमे ।
तमेकदा काममञ्जरी नामाङ्गपुरीवतंसस्थानीया वारयुवतिरश्रुबिन्दुतारकितपयोधरा सनिर्वेदमभ्युपेत्य कीर्णशिखण्डास्तीर्णभूमिरभ्यवन्दिष्ट ।
तस्मिन्नेव च क्षणे मातृप्रमुखस्तदाप्तवर्गः सानुक्रोशमनुप्रधावितस्तत्रैवावनिपातमपतत् ।
स किल कृपालुस्तं जनमार्द्रया गिरोत्थाप्यार्त्तिकारणं तां गणिकामपृच्छत् ।
सा तु सव्रीडेव सविषादेव सगौरवेव चाब्रवीत् ।
भगवन् ऐहिकस्य सुखस्य भाजनं जनोयमामुष्मिकाय श्वोवसीयायार्त्ताभ्युपपत्तिवित्तयोर्भगवत्पादयोर्मूलं शरणमभिप्रपन्न इति ।
तस्यास्तु जनन्युदञ्जलिः पलितशारशिखण्डबन्धस्पृष्टमुक्तभूमिरभाषत ।
भगवन् अस्या मे दोषमेषा वो दासी विज्ञापयति ।
दोषश्च मम स्वाधिकारानुष्ठापनम् ।
एष हि गणिकामातुरधिकारो यद्दुहितुर्जन्मनः प्रभृत्येवाङ्गक्रिया तेजोबलवर्णमेधासंवर्धनेन दोषाग्निधातुसाम्यकृता मितेनाहारेण शरीरपोषणमा पञ्चमाद्वर्षात्पितुरप्यनतिदर्शनं जन्मदिने पुण्यदिने चोत्सवोत्तरो मङ्गलविधिरध्यापनमनङ्गविद्यानां साङ्गानां नृत्यगीतवाद्यनाट्यचित्रास्वाद्यगन्धपुष्पकलासु लिपिज्ञानवचनकौशलेषु च सम्यग्विनयनं शब्दहेतुसमयविद्यासु वार्त्तामात्रावबोधनमाजीवज्ञाने क्रीडाकौशले सजीवनिर्जीवासु च द्यूतकलास्वभ्यन्तरीकरणमभ्यन्तरकलासु वैश्वासिकजनात्प्रयत्नेन प्रयोगग्रहणं यात्रोत्सवादिष्वादरप्रसाधितायाः स्फीतपरिबर्हायाः प्रकाशनं प्रसङ्गवत्यां सङ्गीतादिक्रियायां पूर्वसङ्गृहीतैर्ग्राह्यवाग्भिः सिद्धिलम्भनं दिङ्मुखेषु तत्तच्छिल्पवित्तकैर्यशःप्रख्यापनं कार्तान्तिकादिभिः कल्याणलक्षणोद्घोषणं पीठमर्दविटविदूषकैर्भिक्षुक्यादिभिश्च नागरिकपुरुषसमवायेषु रूपशीलमाधुर्यप्रस्तावना युवजनमनोरथलक्ष्यभूतायाः प्रभूततमेन शुल्केनावस्थापनं स्वतो रागान्धाय तद्भावदर्शनोन्मादिताय वा जातिरूपवयोर्थशक्तिशौचत्यागदाक्षिण्यशिल्पमाधुर्योपपन्नाय स्वतन्त्राय प्रदानमधिकगुणायास्वतन्त्राय प्राज्ञतमायाल्पेनापि बहुव्यपदेशेनार्पणमस्वतन्त्रेण वा गान्धर्वसमागमेन तद्गुरुभ्यः शुल्कापहरणमलाभेर्थस्य कामस्वीकृते स्वामिन्यधिकरणे वा साधनं रक्तस्य दुहित्रैकचारिणीव्रतानुष्ठापनं नित्यनैमित्तिकप्रीतिदायकतया हृतशिष्टानां गम्यधनानां चित्रैरुपायैरपहरणमददता लुब्धप्रायेण च विगृह्यासनं प्रतिहस्तिप्रोत्साहनेन लुब्धस्य रागिणस्त्यागशक्तिसन्धुक्षणमसारस्य वाक्सन्तक्षणैर्लोकोपक्रोशनैर्दुहितृनिरोधनैर्व्रीडोत्पादनैरन्याभियोगैरवमानैश्चापवाहनमर्थदैरनर्थप्रतिघातिभिश्चानिन्द्यैरिभ्यैरनुबद्धार्थानर्थसंशयान्विचार्य भूयोभूयः संयोजनमिति ।
गणिकायाश्च गम्यं प्रति सज्जतैव न सङ्गः ।
सत्यामपि प्रीतौ न मातुर्मातृकाया वा शासनातिवृत्तिः ।
एवं स्थितेनया प्रजापतिविहितं स्वधर्ममुल्लङ्घ्य क्वचिदागन्तुके रूपमात्रधने विप्रयूनि स्वेनैव व्ययेन रममाणया मासमात्रमत्यवाहि ।
गम्यजनश्च भूयानर्थयोग्यः प्रत्याचक्षाणयानया प्रकोपितः ।
स्वकुटुम्बकं चावसादितम् ।
एषा कुमतिर्न कल्याणीति निवारयन्त्यां मयि वनवासाय कोपात्प्रस्थिता ।
सा चेदियमहार्यनिश्चया सर्व एष जनोत्रैवानन्यगतिरनशनेन संस्थास्यत इत्यरोदीत् ।
अथ सा वारयुवतिस्तेन तापसेन भद्रे ननु दुःखाकरोयं वनवासः ।
तस्य फलमपवर्गः स्वर्गो वा ।
प्रथमस्तु तयोः प्रकृष्टज्ञानसाध्यः प्रायो दुःसम्पाद एव ।
द्वितीयस्तु सर्वस्यैव सुलभः कुलधर्मानुष्ठायिनः ।
तदशक्यारम्भादुपरम्य मातुर्मते वर्तस्वेति सानुकम्पमभिहिता ।
सा तु प्रत्यवादीत् ।
यदि भगवत्पादमूलमशरणं शरणमस्तु मम कृपणाया हिरण्यरेता देव एवेत्युदमनायत ।
स तु मुनिरनुविमृश्य गणिकामातरमवदत् ।
सम्प्रति गच्छ गृहान् ।
प्रतीक्षस्व कानिचिद्दिनानि यावदियं सुकुमारी सुखोपभोगसमुचिता सत्यरण्यवासोद्वेजिता भूयोभूयश्चास्माभिर्विबोध्यमाना प्रकृतावेव स्थास्यतीति ।
तथेति तस्याः प्रतियाते स्वजने सा गणिका तमृषिमलघुभक्तिर्धौतोद्गमनीयवासिनी नात्यादृतशरीरसंस्कारा वनतरुपोतकालवालपूरणैर्देवतार्चनकुसुमसमुच्चयावचयप्रयासैर्नैकविकल्पोपहारकर्मभिः कामशासनार्थे च गन्धमाल्यधूपदीपनृत्यगीतवाद्यादिभिः क्रियाभिरेकान्ते च त्रिवर्गसम्बन्धिनीभिः कथाभिरध्यात्मवादैश्चानुकूलैरल्पीयसैव कालेनान्वरञ्जयत् ।
एकदा च रहसि रक्तं तमुपलक्ष्य मूढः खलु लोको यत्सह धर्मेणार्थकामावपि गणयतीति किञ्चिदस्मयत ।
कथय वासु केनांशेनार्थकामातिशायी धर्मस्तवाभिप्रेत इति प्रेरिता मरीचिना लज्जामन्थरमारभताभिधातुम् ।
इतः किल जनाद्भगवतस्त्रिवर्गबलाबलज्ञानम् ।
अथवा तदपि प्रकारान्तरं दासजनानुग्रहस्य ।
भवतु श्रूयताम् ।
ननु धर्मादृतेर्थकामयोरनुत्पत्तिरेव ।
तदनपेक्ष एव धर्मो निवृत्तिसुखप्रसूतिहेतुरात्मनः समाधानमात्रसाध्यश्च सोर्थकामवद्बाह्यसाधनेषु नात्यायतते ।
तत्त्वदर्शनोपबृंहितश्च यथाकथञ्चिदप्यनुष्ठीयमानाभ्यां नार्थकामाभ्यां बाध्यते ।
बाधितोपि चाल्पायासप्रतिसमाहितस्तमपि दोषं निर्हृत्य श्रेयसेप्यनल्पाय कल्पते ।
तथा हि पितामहस्य तिलोत्तमायामभिलाषो भवानीपतेर्मुनिपत्नीसहस्रसन्दूषणं पद्मनाभस्य षोडशसहस्रान्तःपुरविहारः प्रजापतेः स्वदुहितर्यपि प्रणयप्रवृत्तिः शचीपतेरहल्याजारता शशाङ्कस्य गुरुतल्पगमनमंशुमालिनो वडवालङ्घनमनिलस्य केसरिकलत्रसमागमो बृहस्पतेरुतथ्यभार्याभिसरणं पराशरस्य दाशकन्यादूषणं पाराशर्यस्य भ्रातृदारसङ्गतिरत्रेर्मृगीसमागम इति ।
अमराणां च तेषुतेषु कार्येष्वासुरविप्रलम्भनानि ज्ञानबलान्न धर्मपीडामावहन्ति ।
धर्मपूते च मनसि नभसीव न जातु रजोनुषज्यते ।
तन्मन्ये नार्थकामौ धर्मस्य शततमीमपि कलां स्पृशत इति ।
श्रुत्वैतदृषिरुदीर्णरागवृत्तिरभ्यधात् ।
अयि विलासिनि साधु पश्यसि न धर्मस्तत्त्वदर्शिनां विषयोपभोगेनोपरुध्यत इति ।
किन्तु जन्मनः प्रभृत्यर्थकामवार्त्तानभिज्ञा वयम् ।
ज्ञेयौ चेमौ किंरूपौ किम्परिवारौ किम्फलौ चेति ।
सा त्ववादीत् ।
अर्थस्तावदर्जनवर्धनरक्षणात्मकः कृषिपाशुपाल्यवाणिज्यसन्धिविग्रहादिपरिवारस्तीर्थप्रतिपादनफलश्च ।
कामस्तु विषयातिसक्तचेतसोः स्त्रीपुंसयोर्निरतिशयसुखस्पर्शविशेषः ।
परिवारस्तु तस्य यावदिह रम्यमुज्ज्वलं च वस्तु ।
फलं पुनः परमाह्लादनं परस्परविमर्दजन्म स्मर्यमाणमधुरमुदीरिताभिमानमनुत्तमं सुखमपरोक्षं स्वसंवेद्यमेव ।
तस्यैव कृते विशिष्टस्थानवर्तिनः कष्टानि तपांसि महान्ति दानानि दारुणानि युद्धानि भीमानि समुद्रलङ्घनादीनि मानवाः समाचरन्तीति ।
निशम्यैतन्नियतिबलान्नु तत्पाटवान्नु स्वबुद्धिमान्द्यान्नु स्वनियममनादृत्य तस्यामसौ प्रासजत् ।
सा सुदूरं मूढात्मानं च तं प्रवहणेन नीत्वा पुरमुदारशोभया राजवीथ्या स्वभवनमनैषीत् ।
अभूच्च घोषणा श्वः कामोत्सव इति ।
उत्तरेद्युः स्नातानुलिप्तमारचितमञ्जुमालमारब्धकामिजनवृत्तं निवृत्तस्ववृत्ताभिलाषं क्षणमात्रेपि गते तया विना दूयमानं तमृषिमृद्धिमता राजमार्गेणोत्सवसमाजं नीत्वा क्वचिदुपवनोद्देशे युवतिजनशतपरिवृतस्य राज्ञः सन्निधौ स्मितमुखेन तेन भद्रे भगवता सह निषीदेत्यादिष्टा सविभ्रमं कृतप्रणामा सस्मितं न्यषीदत् ।
तत्र काचिदुत्थाय बद्धाञ्जलिरुत्तमाङ्गना देव जितानयाहम् ।
अस्यै दास्यमद्यप्रभृत्यभ्युपेतं मयेति प्रभुं प्राणंसीत् ।
विस्मयहर्षमूलश्च कोलाहलो लोकस्योदजिहीत ।
हृष्टेन च राज्ञा महार्हैरलङ्कारैर्महता च परिबर्हेणानुगृह्य विसृष्टा वारमुख्याभिः पौरमुख्यैश्च गणशः प्रशस्यमाना स्वभवनमगत्वैव तमृषिमभाषत ।
भगवन् अयमञ्जलिः ।
चिरमनुगृहीतोयं दासजनः ।
स्वार्थ इदानीमनुष्ठेय इति ।
स तु रागादशनिहत इवोद्भ्राम्याब्रवीत् ।
प्रिये किमेतत् ।
कुत इदमौदासीन्यम् ।
क्व गतस्तव मय्यसाधारणोनुराग इति ।
अथ सा सस्मितमिदमवादीत् ।
भगवन् ययाद्य राजकुले मत्तः पराजयोभ्युपेतस्तस्याश्च मम च कस्मिंश्चित्सङ्घर्षे महर्षिं मरीचिमावर्जितवतीव श्लाघस इति तयाहमधिक्षिप्ता दास्यपणबन्धेन चास्मिन्नर्थे प्रावर्तिषि ।
सिद्धार्था चास्मि त्वत्प्रसादादिति ।
स तया तथावधूतो दुर्मतिः कृतानुशयः शून्यवन्न्यवर्तिष्ट ।
यस्तयैवं कृतस्तपस्वी तमेव मां महाभाग मन्यस्व ।
स्वशक्तिनिषिक्तं रागमुद्धृत्य तयैव बन्धक्या महद्वैराग्यमर्पितम् ।
अचिरादेव शक्य आत्मा त्वदर्थसाधनक्षमः कर्तुम् ।
अस्यामेव तावद्वसाङ्गपुर्यां चम्पायामिति ।
अथ तन्मनश्च्युततमःस्पर्शभियेवास्तं रविरगादृषिमुक्तश्च रागः सन्ध्यात्वेनास्फुरत् ।
तत्कथादत्तवैराग्याणीव कमलवनानि समकुचन् ।
अनुमतमुनिशासनस्त्वहममुनैव सहोपास्य सन्ध्यामनुरूपाभिः कथाभिस्तमनुशय्य नीतरात्रिः प्रत्युन्मिषत्युदयप्रस्थदावकल्पे कल्पद्रुमकिसलयावधीरिण्यरुणार्चिषि तं नमस्कृत्य नगरायोदचलम् ।
अदर्शं च मार्गाभ्यासवर्तिनः कस्यापि क्षपणकविहारस्य बहिर्विविक्ते रक्ताशोकखण्डे निषण्णमस्पृष्टसमाधिमाधिक्षीणमग्रगण्यमनभिरूपाणां कृपणवर्णं कमपि क्षपणकम् ।
उरसि चास्य शिथिलितमलनिचयान्मुखान्निपततोश्रुबिन्दूनलक्षयम् ।
अप्राक्षं चान्तिकोपविष्टः ।
क्व तपः क्व च रुदितम् ।
न चेद्रहस्यमिच्छामि श्रोतुं शोकहेतुमिति ।
सोब्रूत ।
सौम्य श्रूयताम् ।
अहमस्यामेव चम्पायां निधिपालितनाम्नः श्रेष्ठिनो ज्येष्ठसूनुर्वसुपालितो नाम ।
वैरूप्यात्तु मम विरूपक इति प्रसिद्धिरासीत् ।
अन्यश्चात्र सुन्दरक इति यथार्थनामा कलागुणैः समृद्धो वसुना नातिपुष्टोभवत् ।
तस्य च मम च वपुर्वसुनी निमित्तीकृत्य वैरं वैरोपजीविभिः पौरधूर्तैरुदपाद्यत ।
ततस्त एव कदाचिदावयोरुत्सवसमाजे स्वयमुत्पादितमन्योन्यावमानमूलमधिक्षेपवचनव्यतिकरमुपशमय्य ।
न वपुर्वसु वा पुंस्त्वमूलम् ।
अपि तु यः प्रकृष्टगणिकाप्रार्थ्ययौवनो स एव पुमान् ।
अतो युवतिललामभूता काममञ्जरी यं वा कामयते स हरतु सुभगपताकामिति व्यवस्थापयन् ।
तदभ्युपेत्यावां प्राहिणुव तस्यै दूतान् ।
अहमेव किलामुष्या स्मरोन्मादहेतुरासम् ।
आसीनयोश्चावयोर्मामेवोपगम्य सा नीलोत्पलमयमिवापाङ्गमङ्गे मम मुञ्चती तं जनमपत्रपयाधोमुखं व्यधत्त ।
सुभगम्मन्येन च मया स्वधनस्य स्वगृहस्य स्वगणस्य स्वदेहस्य स्वजीवितस्य च सैवेश्वरी कृता कृतश्चाहमनया मलमल्लकशेषो हृतसर्वस्वस्तया चापवाहितः प्रपद्य लोकोपहासलक्ष्यताम् ।
अक्षमश्च धिक्कृतानि पौरवृद्धानां सोढुमिह जैनायतने मुनिनैकेनोपदिष्टमोक्षवर्त्मा सुकर एष वेशो वेशनिर्गतानामित्युदीर्णवैराग्यस्तदपि कौपीनमजहाम् ।
अथ पुनः प्रकीर्णमलपङ्कः प्रबलकेशलुञ्चनव्यथः प्रकृष्टतमक्षुत्पिपासादिदुःखः स्थानासनशयनभोजनेषु द्विप इव नवग्रहो बलवतीभिर्यन्त्रणाभिरुद्वेजितः प्रत्यवामृशम् ।
अहमस्मि द्विजातिः ।
अस्वधर्मो ममैष पाषण्डपथावतारः ।
श्रुतिस्मृतिविहितेनैव वर्त्मना मम पूर्वजाः प्रावर्तन्त ।
मम तु मन्दभाग्यस्य निन्द्यवेषममन्ददुःखायतनं हरिहरहिरण्यगर्भादिदेवतापवादश्रवणनैरन्तर्यात्प्रेत्यापि निरयफलमफलं विप्रलम्भप्रायमीदृशमिदमधर्मवर्त्म धर्मवत्समाचरणीयमासीदिति ।
प्रत्याकलितस्वदुर्नयः पिण्डीखण्डं विविक्तमेतदासाद्य पर्याप्तमश्रु मुञ्चामीति ।
श्रुत्वा चैतदनुकम्पमानोब्रवम् ।
भद्र क्षमस्व कञ्चित्कालमत्रैव निवस ।
निजेन द्युम्नेनासावेव वेश्या यथा त्वां योजयिष्यति तथा यतिष्ये ।
सन्त्युपायास्तादृशा इत्याश्वास्य तमनूत्थितोहम् ।
नगरमाविशन्नेव चोपलभ्य लोकवादाल्लुब्धसमृद्धपूर्णं पुरमित्यर्थानां नश्वरत्वं च प्रदर्श्य प्रकृतिस्थानमून्विधास्यन्कर्णीसुतप्रहिते पथि मतिमकरवम् ।
अनुप्रविश्य च द्यूतसभामक्षधूर्तैः समगंसि ।
तेषां च पञ्चविंशतिप्रकारासु सर्वासु द्यूताश्रयासु कलासु कौशलमक्षभूमिहस्तादिषु चात्यन्तदुरुपलक्ष्याणि कूटकर्माणि तन्मूलानि सावलेपान्यधिक्षेपवचनानि जीवितनिरपेक्षाणि संरम्भविचेष्टितानि सभिकप्रत्ययव्यवहारान्न्यायबलप्रतापप्रायानङ्गीकृतार्थसाधनक्षमान्बलिषु सान्त्वनानि दुर्बलेषु भर्त्सितानि पक्षरचनानैपुणमुच्चावचानि प्रलोभनानि ग्लहप्रभेदवर्णनानि द्रव्यसंविभागौदार्यमन्तरान्तराश्लीलप्रायान्कलकलानित्येतानि चान्यानि चानुभवन्न तृप्तिमध्यगच्छम् ।
अहसं च किञ्चित्प्रमाददत्तशारे क्वचित्कितवे ।
प्रतिकितवस्तु निर्दहन्निव क्रोधताम्रया दृशा मामभिवीक्ष्य शिक्षयसि रे द्यूतवर्त्म हासव्याजेन ।
आस्तामयमशिक्षितो वराकः ।
त्वयैव तावद्विचक्षणेन देविष्यामीति द्यूताध्यक्षानुमत्या व्यत्यषजत् ।
मया जितश्चासौ षोडशसहस्राणि दीनाराणाम् ।
तदर्धं सभिकाय सभ्येभ्यश्च दत्त्वार्धं स्वीकृत्योदतिष्ठम् ।
उदतिष्ठंश्च तत्र गतानां हर्षगर्भाः प्रशंसालापाः ।
प्रार्थयमानसभिकानुरोधाच्च तदगारेत्युदारमभ्यवहारविधिमकरवम् ।
यन्मूलश्च मे दुरोदरावतारः स मे विमर्दको नाम विश्वास्यतरं द्वितीयं हृदयमासीत् ।
तन्मुखेन च सारतः कर्मतः शीलतश्च सकलमेव नगरमवधार्य धूर्जटिकण्ठकल्माषकालतमे तमसि नीलनिवसनार्धोरुकपरिहितो बद्धतीक्ष्णकौक्षेयकः फणिमुखकाकलीसन्दंशकपुरुषशीर्षकयोगचूर्णयोगवर्तिकामानसूत्रकर्कटकरज्जुदीपभाजनभ्रमरकरण्डकप्रभृत्यनेकोपकरणयुक्तो गत्वा कस्यचिल्लुब्धेश्वरस्य गृहे सन्धिं छित्त्वा पटभाक्षसूक्ष्मच्छिद्रालक्षितान्तर्गृहप्रवृत्तिरव्यथो निजगृहमिवानुप्रविश्य नीवीं सारमहतीमादाय निरगाम् ।
नीलनीरदनिकरपीवरतिमिरनिबिडितायां राजवीथ्यां झटिति शतह्रदासम्पातमिव क्षणमालोकमलक्षयम् ।
अथासौ नगरदेवतेव नगरमोषरोषिता निःसम्बाधवेलायां निःसृता सन्निकृष्टा काचिदुन्मिषद्भूषणा युवतिराविरासीत् ।
कासि वासु क्व यासीति सदयमुक्ता त्रासगद्गदमगादीत् ।
आर्य पुर्यामस्यामर्यवर्यः कुबेरदत्तनामा प्रतिवसति ।
अस्म्यहं तस्य कन्या ।
मां जातमात्रां धनमित्रनाम्नेत्रत्यायैव कस्मैचिदिभ्यकुमारायान्वजानाद्भार्यां मे पिता ।
स पुनरस्मिन्नत्युदारतया पित्रोरन्ते वित्तैर्निजैः क्रीत्वैवार्थिवर्गाद्दारिद्र्यं दरिद्रति सत्यथोदारक इति प्रीतलोकाधिरोपितापरश्लाघ्यनामनि वरयत्येव तस्मिन्मां तरुणीभूतामधन इत्यदत्त्वार्थपतिनाम्ने कस्मैचिदितरस्मै यथार्थनाम्ने सार्थवाहाय दित्सति मे पिता ।
तदमङ्गलमद्य किल प्रभाते भावीति ज्ञात्वा प्रागेव प्रियतमदत्तसङ्केता वञ्चितस्वजना निर्गत्य बाल्याभ्यस्तेन वर्त्मना मन्मथाभिसरा तदागारमभिसरामि ।
तन्मां मुञ्च गृहाणैतद्भाण्डमित्युन्मुच्य मह्यमर्पितवती ।
दयमानश्चाहमब्रवम् ।
एहि साध्वि त्वां नयेयं त्वत्प्रियावसथमिति त्रिचतुराणि पदान्युदचलम् ।
आपतच्च दीपिकालोकपरिलुप्यमानतिमिरभारं यष्टिकृपाणपाणि नागरिकबलमनल्पम् ।
दृष्ट्वैव प्रवेपमानां कन्यकामवदम् ।
भद्रे मा भैषीः ।
अस्त्ययमसिद्वितीयो मे बाहुः ।
अपि तु मृदुरयमुपायस्त्वदपेक्षया चिन्तितः ।
शयेहं भावितविषवेगविक्रियः ।
त्वयामी वाच्याः ।
निशि वयमिमां पुरीं प्रविष्टा दष्टश्च ममैष नायको दर्वीकरेणामुष्मिन्सभागृहकोणे ।
यदि यः कश्चिन्मन्त्रवित्कृपालुः स एवैनमुज्जीवयन्मम प्राणानाहरेदनाथाया इति ।
सापि बाला गत्यन्तराभावाद्भयगद्गदस्वरा वाष्पदुर्दिनाक्षी बद्धवेपथुः कथङ्कथमपि गत्वा मदुक्तमन्वतिष्ठत् ।
अशयिषि चाहं भावितविषविक्रियः ।
तेषु कश्चिन्नरेन्द्राभिमानी मां निर्वर्ण्य मुद्रातन्त्रमन्त्रध्यानादिभिश्चोपक्रम्याकृतार्थो गत एवायं कालदष्टः ।
तथा हि ।
स्तब्धश्यावमङ्गं रुद्धा दृष्टिः शान्त एवोष्मा ।
शुचालं वासु श्वोग्निसात्करिष्यामः ।
कोतिवर्तते दैवमिति सहेतरैः प्रायात् ।
उत्थितश्चाहमुदारकाय तां नीत्वाब्रवम् ।
अहमस्मि कोपि तस्करः ।
त्वद्गतेनैव चेतसा सहायभूतेन त्वामिमामभिसरन्तीमन्तरोपलभ्य कृपया त्वत्समीपमनैषम् ।
भूषणमिदमस्या इत्यंशुपटलपाटितध्वान्तजालं तदर्पितवान् ।
उदारकस्तु तदादाय सलज्जं च सहर्षं च ससम्भ्रमं च मामभाषत ।
आर्य त्वयैवेयमस्यां निशि प्रिया मे दत्ता वाक्पुनर्ममापहृता ।
तथा हि ।
न जाने वक्तुं त्वत्कर्मैतदद्भुतमिति न ते स्वशीलमद्भुतवत्प्रतिभाति ।
नैवमन्येनापि कृतपूर्वमिति प्रतिनियतैव वस्तुशक्तिः ।
न हि त्वय्यन्यदीया लोभादयः ।
त्वयाद्य साधुतोन्मीलितेति तत्प्रायस्त्वत्पूर्वावदानेभ्यो न रोचते ।
दृष्टमिदानीमौदार्यस्य स्वरूपमिति त्वदाशयमननुमान्य न युक्तो निश्चयः ।
त्वयामुना सुकृतेन क्रीतोयं दासजन इत्यसारमतिगरीयसा क्रीणासीति स ते प्रज्ञाधिक्षेपः ।
न प्रियादानस्य प्रतिदानमिदं शरीरमिति तदलाभे निधनोन्मुखमिदमपि त्वयैव दत्तम् ।
अथवैतावदत्र प्राप्तरूपम् ।
अद्यप्रभृति भर्तव्योयं दासजन इति मम पादयोरपतत् ।
उत्थाप्य चैनमुरसोपश्लिष्याभाषिषि ।
भद्र काद्य ते प्रतिपत्तिरिति ।
सोभ्यधत्त ।
न शक्नोमि चैनामत्र पित्रोरनभ्यनुज्ञयोपयम्य जीवितुम् ।
अतोस्यामेव यामिन्यां देशमिमं जिहासामि ।
को वाहं यथा त्वमाज्ञापयसीति ।
अथ मयोक्तम् ।
अस्त्येतत् ।
स्वदेशो देशान्तरमिति नेयं गणना विदग्धस्य पुरुषस्य ।
किन्तु बालेयमनल्पसौकुमार्या कष्टाः प्रत्यवायभूयिष्ठाश्च कान्तारपथाः ।
शैथिल्यमिव किञ्चित्प्रज्ञासत्त्वयोरनर्थेनेदृशेन देशत्यागेन सम्भाव्यते ।
तत्सहानया सुखमिहैव वस्तव्यम् ।
एहि नयावैनां स्वमेवावासमिति ।
अविचार्यानुमतेन तेन सद्य एव तां तद्गृहमुपनीय तयैवापसर्पभूतया तत्र मृद्भाण्डावशेषमचोरयाव ।
ततो निष्पत्य क्वचिन्मुषितकं निधाय समुच्चलन्तौ नागरिकसम्पातेन मार्गपार्श्वशायिनं कञ्चिन्मत्तवारणमुपरिपुरुषमाकृष्याध्यारोहाव ।
ग्रैवेयप्रोतपादयुगलेन च मयोत्थाप्यमान एव पातिताधोरणपृथुलोरःस्थलपरिणतः पुरीतल्लतापरीतदन्तकाण्डः स रक्षिकबलमक्षिणोत् ।
अध्वंसयाव चामुनैवार्थपतिभवनम् ।
अपवाह्य च क्वचन जीर्णोद्याने शाखाग्राहिकयावातराव ।
स्वगृहं गतौ च स्नातौ शयनमध्यशिश्रियाव ।
तावदेवोदगादुदधेरुदयाचलेन्द्रपद्मरागशृङ्गकल्पं कल्पद्रुमहेमपल्लवापीडपाटलं पतङ्गमण्डलम् ।
उत्थाय च धौतवक्त्रौ प्रगेतनानि मङ्गलान्यनुष्ठायास्मत्कर्मतुमुलं पुरमनुविचरन्तावशृणुव वरवधूगृहेषु कोलाहलम् ।
अथार्थैरर्थपतिः कुबेरदत्तमाश्वास्य कुलपालिकाविवाहं मासावधिकमकल्पयत् ।
उपह्वरे पुनरित्यशिक्षयं धनमित्रम् ।
उपतिष्ठ सखे ।
एकान्त एव चर्मरत्नभस्त्रिकामिमां पुरस्कृत्याङ्गराजमाचक्ष्व ।
जानात्येव देवो नैककोटिसारस्य वसुमित्रस्य मां धनमित्रं नामैकपुत्रम् ।
सोहं मूलहरत्वमेत्यार्थिवर्गादस्म्यवज्ञातः ।
मदर्थमेव संवर्धितायां कुलपालिकायां मद्दारिद्र्यदोषात्पुनः कुबेरदत्तेन दुहितर्यर्थपतये दित्सितायामुद्वेगादुज्झितुमसूनुपनगरभवं जरद्वनमवगाह्य कण्ठन्यस्तशस्त्रिकः केनापि जटाधरेण निवार्यैवमुक्तः ।
किं ते साहसस्य मूलमिति ।
मयोक्तम् ।
अवज्ञासोदर्यं दारिद्र्यमिति ।
स पुनरेवं कृपालुरन्वग्रहीत् ।
तात मूढोसि नान्यत्पापिष्ठतममात्मत्यागात् ।
आत्मानमात्मनानवसाद्यैवोद्धरन्ति सन्तः ।
सन्त्युपाया धनार्जनस्य बहवो नैकोपि च्छिन्नकण्ठप्रतिसन्धानपूर्वस्य प्राणलाभस्य ।
किमनेन ।
सोस्म्यहं मन्त्रसिद्धः ।
साधितेयं लक्षग्राहिणी चर्मरत्नभस्त्रिका ।
चिरमहमस्याः प्रसादात्कामरूपेषु कामप्रदः प्रजानामवात्सम् ।
मत्सरिण्यां जरसि भूमिस्वर्गमत्रोद्देशे प्रवेक्ष्यन्नागतः ।
तामिमां प्रतिगृहाण ।
मदन्यत्र चेयं वणिग्भ्यो वारमुख्याभ्यो वा दुग्ध इति हि तद्गता प्रतीतिः ।
किन्तु यत्सकाशादन्यायापहृतं तत्तस्मै प्रत्यर्पणीयं न्यायार्जितं तु देवब्राह्मणेभ्यस्त्याज्यम् ।
अथेयं देवतेव शुचौ देशे निवेश्यार्च्यमाना प्रातःप्रातः सुवर्णपूर्णैव दृश्यते ।
स एष कल्प इति बद्धाञ्जलये मह्यमेनां दत्त्वा किमपि ग्रावच्छिद्रं प्राविशत् ।
इयं च रत्नभूता चर्मभस्त्रिका देवायानिवेद्य नोपजीव्येत्यानीता ।
परन्तु देवः प्रमाणमिति ।
राजा च नियतमेव वक्ष्यति ।
भद्र प्रीतोस्मि ।
गच्छ यथेच्छमेनामुपभुङ्क्ष्वेति ।
भूयश्च ब्रूहि ।
यथा न कश्चिदेनां मुष्णाति तथानुगृह्यतामिति ।
तदप्यवश्यमसावभ्युपेष्यति ।
ततः स्वगृहमेत्य यथोक्तमर्थत्यागं कृत्वा दिनेदिने वरिवस्यमानां स्तेयलब्धैरर्थैर्नक्तमापूर्य प्राह्णे लोकाय दर्शयिष्यसि ।
ततः कुबेरदत्तस्तृणाय मत्वार्थपतिमर्थलुब्धः कन्यकया स्वयमेव त्वामुपस्थास्यति ।
अथ कुपितोर्थपतिर्व्यवहर्तुमर्थगर्वादभियोक्ष्यते ।
तं च भूयश्चित्रैरुपायैः कौपीनावशेषं करिष्यावः ।
स्वकं च चौर्यमनेनैवाभ्युपायेन सुप्रच्छन्नं भविष्यतीति ।
हृष्टश्च धनमित्रो यथोक्तमन्वतिष्ठत् ।
तदहरेव मन्नियोगाद्विमर्दकोर्थपतिसेवाभियुक्तस्तस्योदारके वैरमभ्यवर्धयत् ।
अर्थलुब्धश्च कुबेरदत्तो निवृत्यार्थपतेर्धनमित्रायैव तनयां सानुनयं प्रादित्सत ।
प्रत्यबध्नाच्चार्थपतिः ।
एष्वेव दिवसेषु काममञ्जर्याः स्वसा यवीयसी रागमञ्जरी नाम पञ्चवीरगोष्ठे सङ्गीतकमनुष्ठास्यतीति सान्द्रादरः समागमन्नागरजनः ।
स चाहं सह सख्या धनमित्रेण तत्र सन्न्यधिषि ।
प्रवृत्तनृत्यायां च तस्यां द्वितीयं रङ्गपीठं ममाभून्मनः ।
तद्दृष्टिविभ्रमोत्पलवनसत्त्रापाश्रयश्च पञ्चशरो भावरसानां सामग्र्यात्समुदितबल इव मामतिमात्रमव्यथयत् ।
अथासौ नगरदेवतेव नगरमोषरोषिता लीलाकटाक्षमालाशृङ्खलाभिर्नीलोत्पलपलाशदामश्यामलाभिर्मामबध्नात् ।
नृत्योत्थिता च सा सिद्धिलाभशोभिनी किं विलासात्किमभिलाषात्किमकस्मादेव वा न जानेसकृन्मां सखीभिरप्यनुपलक्षितेनापाङ्गप्रेक्षितेन सविभ्रममारेचितभ्रूलतमभिवीक्ष्य सापदेशं च किञ्चिदाविष्कृतदशनचन्द्रिकं स्मित्वा लोकलोचनमानसानुयाता प्रातिष्ठत ।
सोहं स्वगृहमेत्य दुर्निवारयोत्कण्ठया दूरीकृताहारस्पृहः शिरःशूलस्पर्शमपदिशन्विविक्ते तल्पे मुक्तैरवयवैरशयिषि ।
अतिनिष्णातश्च मदनतन्त्रे मामभ्युपेत्य धनमित्रो रहस्यकथयत् ।
सखे सैव धन्या गणिकादारिका यामेवं भवन्मनोभिनिविशते तस्याश्च मया सुलक्षिता भाववृत्तिः ।
तामप्यचिरादयुग्मशरः शरशयने शाययिष्यति ।
स्थानाभिनिवेशिनोश्च वामयत्नसाध्यः समागमः ।
किन्तु सा किल वारकन्यका गणिकास्वधर्मप्रतीपगामिना भद्रोदारेणाशयेन समगिरत ।
गुणशुल्काहं न धनशुल्का ।
न च पाणिग्रहणादृतेन्यभोग्यं यौवनमिति ।
तच्च मुहुः प्रतिषिध्याकृतार्था तद्भगिनी काममञ्जरी माता च माधवसेना राजानमश्रुकण्ठ्यौ व्यजिज्ञपताम् ।
देव युष्मद्दासी रागमञ्जरी रूपानुरूपशीलशिल्पकौशला पूरयिष्यति मनोरथानित्यासीदस्माकं महत्याशा ।
साद्य मूलच्छिन्ना यदियमतिक्रम्य स्वकुलधर्ममर्थनिरपेक्षा गुणेभ्य एव स्वं यौवनं विचिक्रीषते ।
कुलस्त्रीवृत्तमेवाच्युतमनुतिष्ठासति ।
सा चेदियं देवपादाज्ञयापि तावत्प्रकृतिमापद्येत तदा पेशलं भवेदिति ।
राज्ञा च तदनुरोधात्तथानुशिष्टा सत्यप्यनाश्रवैव सा यदासीत्तदास्याः स्वसा माता च रुदितनिर्बन्धेन राज्ञे समगिरेताम् ।
यदि कश्चिद्भुजङ्गोस्मदिच्छया विनैनां बालां विप्रलभ्य नाशयिष्यति स तस्करवद्वध्य इति ।
तदेवं स्थिते धनादृते न तत्स्वजनोनुमन्यते ।
न तु धनदायासावभ्युपगच्छतीति विचिन्त्योत्राभ्युपाय इति ।
अथ मयोक्तम् ।
किमत्र चिन्त्यं गुणैस्तामावर्ज्य गूढमर्थैस्तत्स्वजनं तोषयिष्यामीति ।
ततश्च काञ्चित्काममञ्जर्याः प्रधानदूतीं धर्मरक्षितां नाम शाक्यभिक्षुकीं चीवरपिण्डदानादिनोपसङ्गृह्य तन्मुखेन तया बन्धक्या पणबन्धमकरवम् ।
अजिनरत्नमुदारकान्मुषित्वा मया तुभ्यं देयं यदि प्रतिदानं रागमञ्जरीति ।
सोहं सम्प्रतिपन्नायां च तस्यां तथा तमर्थं सम्पाद्य मद्गुणोन्मादिताया रागमञ्जर्याः करकिसलयमग्रहीषम् ।
यस्यां च निशि चर्मरत्नस्तेयवादस्तस्याः प्रारम्भे कार्यान्तरापदेशेन समाहूतेषु शृण्वत्स्वेव नागरमुख्येषु मत्प्रणिधिर्विमर्दकोर्थपतिगृह्यो नाम भूत्वा धनमित्रमुल्लङ्घ्य बह्वतर्जयत् ।
उक्तं च धनमित्रेण ।
भद्र कस्तवार्थो यत्परस्य हेतोर्मामाक्रोशसि ।
न स्मरामि स्वल्पमपि तवापकारं मत्कृतमिति ।
स भूयोपि तर्जयन्निवाब्रवीत् ।
स एष धनगर्वो नाम यत्परस्य भार्यां शुल्कक्रीतां पुनस्तत्पितरौ द्रव्येण विलोभ्य स्वीचिकीर्षसि ।
ब्रवीषि च कस्तवापकारी मत्कृत इति ।
ननु प्रतीतमेवैतत्सार्थवाहस्यार्थपतेर्विमर्दको बहिश्चराः प्राणा इति ।
सोहं तत्कृते प्राणानपि परित्यजामि ब्रह्महत्यामपि न परिहरामि ।
ममैकरात्रजागरप्रतीकारस्तवैष चर्मरत्नाहङ्कारदाहज्वर इति ।
तथा ब्रुवाणश्च पौरमुख्यैः सामर्षमाक्रुश्यापवाहितोभूत् ।
इयं च वार्त्ता कृत्रिमार्त्तिना धनमित्रेण चर्मरत्ननाशमादावेवोपक्षिप्य पार्थिवाय निवेदिता ।
स चार्थपतिमाहूयोपह्वरे पृष्टवान् ।
अङ्ग किमस्ति कश्चिद्विमर्दको नामात्रभवत इति ।
तेन च मूढात्मनास्ति देव परं मित्रं कश्च तेनार्थ इति कथिते राज्ञोक्तम् ।
अयि शक्रोषि तमाह्वातुमिति ।
बाढमस्मि शक्त इति निर्गत्य स्वगृहे वेशवाटे द्यूतसभायामापणे च निपुणमन्विष्यन्नोपलब्धवान् ।
कथं चोपलभेत स वराकः ।
स खलु विमर्दको मद्ग्राहितत्वदभिज्ञानचिह्नो मन्नियोगात्त्वदन्वेषणायोज्जयिनीं तदहरेव प्रातिष्ठत ।
अर्थपतिस्तु तमदृष्ट्वा तत्कृतमपराधमात्मसम्बद्धं मत्वा मोहाद्भयाद्वा प्रत्याख्याय पुनर्धनमित्रेण विभाविते कुपितेन राज्ञा निगृह्य निगडबन्धनमनीयत ।
तेष्वेव दिवसेषु विधिना कल्पोक्तेन चर्मरत्नं दोग्धुकामा काममञ्जरी पूर्वदुग्धं क्षपणीभूतविरूपकं रहस्युपसृत्य ततोपहृतं सर्वमर्थजातं तस्मै प्रत्यर्प्य सप्रश्रयं च बह्वनुनीय प्रत्यगमत् ।
सोपि कथञ्चिन्निर्ग्रन्थिकाग्रहान्मोचितात्मा मदनुशिष्टो हृष्टतमः स्वधर्ममेव प्रत्यपद्यत ।
काममञ्जर्यपि कतिपयैरेवाहोभिरश्मन्तकशेषमजिनरत्नदोहाशया स्वमभ्युदयमकरोत् ।
अथ मत्प्रयुक्तो धनमित्रः पार्थिवं मिथो व्यज्ञापयत् ।
देव येयं गणिका काममञ्जरी लोभोत्कर्षाल्लोभमञ्जरीति लोकोपक्रोशपात्रमासीत्साद्य मुसलोलूखलान्यपि निरपेक्षं त्यजति ।
तन्मन्ये मच्चर्मरत्नलाभहेतु ।
तस्य खलु कल्पस्तादृशः ।
वणिग्भ्यो वारमुख्याभ्यश्च दुग्धे नान्येभ्य इति हि तद्गता प्रतीतिः ।
अतोमुष्यामस्ति मे शङ्केति ।
सा सद्य एव राज्ञा सह जनन्या समाहूयत ।
व्यथितवर्णेनेव मयोपह्वरे कथितम् ।
नूनमार्ये सर्वस्वत्यागादतिप्रकाशादाशङ्कनीयचर्मरत्नलाभा तदनुयोगायाङ्गराजेन समाहूयसे ।
भूयोभूयश्च निर्बद्धया त्वया नियतमस्मि तदागतित्वेनाहमपदेश्यः ।
ततश्च मे भावी चित्रवधः ।
मृते च मयि न जीविष्यत्येव ते भगिनी त्वं च निःस्वीभूता ।
चर्मरत्नं च धनमित्रमेव प्रतिभजिष्यति ।
तदियमापत्समन्ततोनर्थानुबन्धिनी ।
तत्किमत्र प्रतिविधेयमिति ।
तया तज्जनन्या चाश्रूणि विसृज्योक्तम् ।
अस्त्येवैतदस्मद्बालिश्यान्निर्भिन्नप्रायं रहस्यम् ।
राज्ञश्च निर्बन्धाद्द्विस्त्रिश्चतुर्निह्नुत्यापि नियतमागतिरपदेश्यैव चोरितस्य त्वयि ।
त्वयि त्वपदिष्टे सर्वमस्मत्कुटुम्बमवसीदेत् ।
अर्थपतौ च तदपयशो रूढम् ।
अङ्गपुरप्रसिद्धं च तस्य कीनाशस्यास्माभिः सङ्गतम् ।
अमुनैव तदस्मभ्यं दत्तमित्यपदिश्य वरमात्मा गोपायितुमिति मामभ्युपगमय्य राजकुलमगमताम् ।
राज्ञानुयुक्ते च नैष न्यायो वेशकुलस्य यद्दातुरपदेशः ।
न ह्यर्थैर्न्यायार्जितैरेव पुरुषा वेशमुपतिष्ठन्तीत्यसकृदतिप्रणुद्य कर्णनासाच्छेदोपक्षेपभीषिताभ्यां दग्धबन्धकीभ्यां स एव तपस्वी तस्करत्वेनार्थपतिरग्राह्यत ।
कुपितेन च राज्ञा तस्य प्राणेषूद्यतो दण्डः ।
प्राञ्जलिना धनमित्रेणैव प्रत्यषिध्यत ।
आर्य मौर्यदत्त एष वरो वणिजामीदृशेष्वपराधेष्वसुभिरवियोगः ।
यदि कुपितोसि हृतसर्वस्वो निर्वासनीयः पाप एष इति ।
तन्मूला च धनमित्रस्य कीर्तिरप्रथत ।
अप्रीयत च भर्ता ।
पटच्चरच्छेदशेषोर्थपतिरर्थमत्तः सर्वपौरजनसमक्षं निरवास्यत ।
तस्यैव द्रव्याणां केनचिदवयवेन सा वराकी काममञ्जरी चर्मरत्नमृगतृष्णिकापविद्धसर्वस्वा सानुकम्पं धनमित्राभिनोदितेन भूपेनान्वगृह्यत ।
धनमित्रश्चाहनि गुणिनि कुलपालिकामुपायंस्त ।
तदेवं सिद्धसङ्कल्पो रागमञ्जरीगृहं हेमरत्नपूर्णमकरवम् ।
अस्मिंश्च पुरे लुब्धसमृद्धवर्गस्तथा मुषितो यथा कपालपाणिः स्वैरेव धनैर्मद्विश्राणितैः समृद्धीकृतस्यार्थिवर्गस्य गृहेषु भिक्षार्थमभ्रमत् ।
न ह्यलमतिनिपुणोपि पुरुषो नियतिलिखितां लेखामतिक्रमितुम् ।
यतोहमेकदा रागमञ्जर्याः प्रणयकोपप्रशमनाय सानुनयं पायितायाः प्रणयसमर्पितमुखमधुगण्डूषमास्वादमास्वादं मदेनास्पृश्ये ।
शीलं हि मदोन्मादयोरमार्गेणाप्युचितकर्मस्वेव प्रवर्तनम् ।
यदहमुपोढमदो नगरमिदमनयैकयैव शर्वर्या निर्धनीकृत्य त्वद्भवनं पूरयेयमिति प्रव्यथितप्रियतमाप्रणामाञ्जलिशपथशतातिवर्ती मत्तवारण इव रभसच्छिन्नशृङ्खलः कयापि धात्र्या शृगालिकाख्ययानुगम्यमानो नातिपरिकरोसिद्वितीयो रंहसा परेणोदचलम् ।
अभिपततोपि नागरिकपुरुषानशङ्कमेव विगृह्य तस्कर इति तैरभिहन्यमानोपि नातिप्रकुपितः क्रीडन्निव मदावसन्नहस्तपतितेन निस्त्रिंशेन द्वित्रानेव हत्वावघूर्णमानताम्रदृष्टिरपतम् ।
अनन्तरमार्त्तरवान्विसृजन्ती शृगालिका ममाभ्यासमगमत् ।
अबध्ये चाहमरिभिः ।
आपदा तु मदापहारिण्या सद्य एव बोधितस्तत्क्षणोपजातया प्रतिभया व्यचीचरम् ।
अहो ममेयं मोहमूला महत्यापदापतिता ।
प्रसृततरं च सख्यं मया सह धनमित्रस्य मत्परिग्रहत्वं च रागमञ्जर्याः ।
मदेनसा च तौ प्रोर्णुतौ श्वो नियतं निग्राहयिष्येते ।
तदियमिह प्रतिपत्तिर्ययानुष्ठीयमानया मन्नियोगतस्तौ परित्रास्येते मां च कदाचिदनर्थादितस्तारयिष्यत इति ।
कमप्युपायमात्मनैव निर्णीय शृगालिकामगादिषम् ।
अपेहि जरतिके या तामर्थलुब्धां दग्धगणिकां रागमञ्जरिकामजिनरत्नमत्तेन शत्रुणा मे मित्रच्छद्मना धनमित्रेण सङ्गमितवती सा हतासि ।
तस्य पापस्य चर्मरत्नमोषाद्दुहितुश्च ते साराभरणापहारादहमद्य निःशल्यमुत्सृजेयं जीवितमिति ।
सा पुनरुद्घटितज्ञा परमधूर्ता साश्रुगद्गदमुदञ्जलिस्तान्पुरुषान्सप्रणाममासादितवती सामपूर्वं मम पुरस्तादयाचत ।
भद्रकाः प्रतीक्षध्वं कञ्चित्कालं यावदस्मादस्मदीयं सर्वं मुषितमर्थजातमवगच्छेयमिति ।
तथेति तैः प्रतिपन्ने पुनर्मत्समीपमासाद्य सौम्य क्षमस्वास्य दासीजनस्यैकमपराधम् ।
अस्तु सकामं त्वत्कलत्राभिमर्शी वैरास्पदं धनमित्रः ।
स्मरंस्तु चिरकृतां ते परिचर्यामनुग्रहीतुमर्हसि दासीं रागमञ्जरीम् ।
आकल्पसारो हि रूपाजीवाजनः ।
तद्ब्रूहि क्व निहितं तस्या भूषणमिति पादयोरपतत् ।
ततो दयमान इवाहमब्रवम् ।
भवतु मृत्युहस्तवर्तिनः किं ममामुष्या वैरानुबन्धेनेति ।
तद्ब्रुवन्निव कर्ण एवैनामशिक्षयमेवमेव प्रतिपत्तव्यमिति ।
सा तु प्रतिपन्नार्थेव जीव चिरं प्रसीदन्तु ते देवता देवोप्यङ्गराजः पौरुषप्रीतो मोचयतु त्वामेतेपि भद्रसुखास्तव दयन्तामिति क्षणादपासरत् ।
आनीये चाहमारक्षिकनायकस्य शासनाच्चारकम् ।
अथोत्तरेद्युरागत्य दृप्ततरः सुभगमानी सुन्दरम्मन्यः पितुरत्ययादचिराधिष्ठिताधिकारस्तारुण्यमदादनतिपक्वः कान्तको नाम नागरिकः किञ्चिदिव भर्त्सयित्वा समभ्यधत्त ।
न चेद्धनमित्रस्याजिनरत्नं प्रतिप्रयच्छसि न चेद्वा नागरिकेभ्यश्चोरितकानि प्रत्यर्पयसि द्रक्ष्यसि पारमष्टादशानां कारणानामन्ते च मृत्युमुखमिति ।
मया तु स्मयमानेनाभिहितम् ।
सौम्य यद्यपि दद्यामा जन्मनो मुषितं धनं न त्वर्थपतिदारापहारिणः शत्रोर्मे भित्रमुखस्य धनमित्रस्य चर्मरत्नप्रत्याशां पूरयेयम् ।
अदत्त्वैव तदयुतमपि यातनानामनुभवेयम् ।
इयं मे साधीयसी सन्धेति ।
तेनैव क्रमेण वर्तमाने सान्त्वनतर्जनप्राये प्रतिदिनमनुयोगव्यतिकरेनुगुणान्नपानलाभात्कतिपयैरेवाहोभिर्विरोपितव्रणः प्रकृतिस्थोहमासम् ।
अथ कदाचिदच्युताम्बरपीतातपत्विषि क्षयिणि वासरे हृष्टवर्णा शृगालिकोज्ज्वलेन वेषेणोपसृत्य दूरस्थानुचरा मामुपश्लिष्याब्रवीत् ।
आर्य दिष्ट्या वर्धसे ।
फलिता तव सुनीतिः ।
यथा त्वयादिश्ये तथा धनमित्रमेत्याब्रवम् ।
आर्य तवैवमापन्नः सुहृदुवाच ।
अहमद्य वेशसंसर्गसुलभात्पानदोषाद्बद्धः ।
त्वया पुनरविशङ्कमद्यैव राजा विज्ञापनीयः ।
देव देवप्रसादादेव पुरापि तदजिनरत्नमर्थपतिमुषितमासादितम् ।
अथ तु भर्ता रागमञ्जर्याः कश्चिदक्षधूर्तः कलासु कवित्वेषु लोकवार्त्तासु चातिवैचक्षण्यान्मया समसृज्यत ।
तत्सम्बन्धाच्च वस्त्राभरणप्रेषणादिना तद्भार्यां प्रतिदिनमन्ववर्ते ।
तदसावशङ्किष्ट निकृष्टाशयः कितवः ।
तेन च कुपितेन हृतं तच्चर्मरत्नमाभरणसमुद्गकश्च तस्याः ।
स तु भूयः स्तेयाय भ्रमन्नगृह्यत नागरिकपुरुषैः ।
आपन्नेन चामुनानुसृत्य रुदत्यै रागमञ्जरीपरिचारिकायै पूर्णप्रणयानुवर्तिना तद्भाण्डनिधानोद्देशः कथितः ।
ममापि चर्मरत्नमुपायोपक्रान्तो यदि प्रयच्छेदिह देवपादैः प्रसादः कार्य इति ।
तथा निवेदितश्च नरपतिरसुभिर्मामवियोज्योपच्छन्दनैरेव स्वं ते दापयितुं प्रयतिष्यते ।
तन्नः पथ्यमिति ।
श्रुत्वैव च त्वदनुभावप्रत्ययादनतित्रस्नुना तेन तत्तथैव सम्पादितम् ।
अथाहं त्वदभिज्ञानप्रत्यायिताया रागमञ्जर्याः सकाशाद्यथेप्सितानि वस्तूनि लभमाना राजदुहितुरम्बालिकाया धात्रीं माङ्गलिकां त्वदादिष्टेन मार्गेणान्वरञ्जयम् ।
तामेव सङ्क्रमीकृत्य रागमञ्जर्याश्चाम्बालिकायाः सख्यं परमवीवृधम् ।
अहरहश्च नवनवानि प्राभृतान्युपहरन्ती कथाश्चित्राश्चित्तहारिणीः कथयन्ती तस्याः परं प्रसादपात्रमासम् ।
एकदा च हर्म्यगतायास्तस्याः स्थानस्थितमपि कर्णकुवलयं स्रस्तमिति समादधती प्रमत्तेव प्रच्याव्य पुनरुत्क्षिप्य भूमेस्तेनोपकन्यापुरं कारणेन केनापि भवनाङ्गणं प्रविष्टस्य कान्तकस्योपरि प्रवृत्तकुहरपारावतत्रासनापदेशात्प्रहसन्ती प्राहार्षम् ।
सोपि धन्यम्मन्यः किञ्चिदुन्मुखः स्मयमानो मत्कर्मप्रहसिताया राजदुहितुर्विलासप्रायमाकारमात्माभिलाषमूलमिव यथा सङ्कल्पयेत्तथा मयापि सञ्ज्ञयैव किमपि चतुरमाचेष्टितम् ।
आकृष्टधन्वना च मनसिजेन विद्धः स दिग्धफलेन पत्त्रिणातिमुग्धः कथङ्कथमप्यपासरत् ।
सायं च राजकन्यकाङ्गुलीयकमुद्रितां वासताम्बूलपट्टांशुकयुगलभूषणावयवगर्भां वङ्गेरिकां कयाचिद्बालिकया ग्राहयित्वा रागमञ्जर्या इति नीत्वा कान्तकस्यागारमगाम् ।
अगाधे च रागसागरे मग्नो नावमिव मामुपलभ्य परमहृष्यत् ।
अवस्थान्तराणि च राजदुहितुः सुदारुणानि व्यावर्णयन्त्या मया स दुर्मतिर्दूरमुदमाद्यत ।
तत्प्रार्थिता चाहं त्वत्प्रियाप्रहितमिति ममैव मुखताम्बूलोच्छिष्टानुलेपनं निर्माल्यं मलिनांशुकं चान्येद्युरुपाहरम् ।
तदीयानि च राजकन्यार्थमित्यादाय च्छन्नमेवापोढानि ।
इत्थं च सन्धुक्षितमन्मथाग्निः स एवैकान्ते मयोपमन्त्रितोभूत् ।
आर्य लक्षणान्येव तवाविसंवादीनि ।
तथा हि ।
मत्प्रातिवेश्यः कश्चित्कार्तान्तिकः कान्तकस्य हस्ते राज्यमिदं पतिष्यति ।
तादृशानि तस्य लक्षणानीत्यादिक्षत् ।
तदनुरूपमेव च त्वामियं राजकन्यका कामयते ।
तदेकापत्यश्च राजा तया त्वां समागतमुपलभ्य कुपितोपि दुहितुर्मरणभयान्नोच्छेत्स्यति प्रत्युत प्रापयिष्यत्येव यौवराज्यम् ।
इत्थं चायमर्थोर्थानुबन्धी ।
किमिति तात नाराध्यते ।
यदि कुमारीपुरप्रवेशाभ्युपायं नावबुध्यसे ननु बन्धनागारभित्तेर्व्यामत्रयमन्तरालमारामप्राकारस्य ।
केनचित्तु हस्तवतैकागारिकेण तावतीं सुरुङ्गां कारयित्वा प्रविष्टस्योपवनं तवोपरिष्टादस्मदायत्तैव रक्षा ।
रक्ततरो हि तस्याः परिजनो न रहस्यं भेत्स्यतीति ।
सोब्रवीत् ।
साधु भद्रे दर्शितम् ।
अस्ति कश्चित्तस्करः खननकर्मणि सगरसुतानामिवान्यतमः ।
स चेल्लब्धः क्षणेनैतत्कर्म साधयिष्यतीति ।
कतमोसौ किमिति न लभ्यत इति मयोक्ते येन तद्धनमित्रस्य चर्मरत्नं मुषितमिति त्वामेव स निरदिक्षत् ।
यद्येवमेहि त्वयास्मिन्कर्मणि साधिते चित्रैरुपायैस्त्वामहं मोचयिष्यामीति शपथपूर्वं तेनाभिसन्धाय सिद्धेर्थे भूयोपि निगडयित्वा योसौ चौरः स सर्वथोपक्रान्तो न तु धार्ष्ट्यभूमिः प्रकृष्टवैरस्तदजिनरत्नं दर्शयिष्यतीति राज्ञे विज्ञाप्य चित्रमेनं हनिष्यसि ।
तथा च सत्यर्थः सिध्यति रहस्यं च न स्रवतीति मयोक्ते सोतिहृष्टः प्रतिपद्य मामेव त्वदुपप्रलोभने नियुज्य बहिरवस्थितः ।
प्राप्तमतः परं चिन्त्यतामिति ।
प्रीतेन च मयोक्तम् ।
मदुक्तमल्पम् ।
त्वन्नय एवात्र भूयान् ।
आनयैनमिति ।
अथानीतेनामुना मन्मोचनाय शपथः कृतो मया च रहस्यानिर्भेदाय ।
विनिगडीकृतश्च स्नानभोजनविलेपनान्यनुभूय नित्यान्धकाराद्भित्तिकोणादारभ्योरगास्येन सुरुङ्गामकरवम् ।
अचिन्तयं चैवम् ।
हन्तुमनसैवामुना मन्मोचनाय शपथः कृतः ।
तदमुं हत्वापि नासत्यवाददोषेण स्पृश्य इति ।
निष्पततश्च मे निगडनाय प्रसार्यमाणपाणेस्तस्य पादेनोरसि निहत्य पतितस्य तस्यैवासिधेन्वा शिरो न्यकृन्तम् ।
अकथयं च शृगालिकाम् ।
भण भद्रे कथम्भूतः कन्यापुरसन्निवेशो महानयं प्रयासो वृथैव मा भूत् ।
अमुत्र किञ्चिच्चोरयित्वा निवर्तिष्य इति ।
तदुपदर्शितविभागं चावगाह्य कन्यापुरं प्रज्वलत्सु मणिप्रदीपेषु नैकक्रीडाखेदसुप्तस्य परिजनस्य मध्ये महितमहार्घरत्नप्रत्युप्तसिंहाकारदन्तपादे हंसतूलगर्भकोमलशय्योपधानशालिनि कुसुमलवच्छुरितपर्यन्ते पर्यङ्कतले दक्षिणपादपार्ष्ण्यधोभागानुवलितेतरचरणाग्रपृष्ठमीषद्विवृत्तमधुरगुल्फसन्धि परस्परश्लिष्टजङ्घाकाण्डमाकुञ्चितकोमलोभयजानु किञ्चिद्वेल्लितोरुदण्डयुगलमधिनितम्बस्रस्तमुक्तैकभुजलताग्रमपाश्रयान्तनिमिताकुञ्चितेतरभुजलतोत्तानतलकरकिसलयमाभुग्नश्रोणिमण्डलमतिश्लिष्टचीनांशुकान्तरीयमनतिवलिततनुतरोदरमणुतरनिःश्वासारम्भकम्पमानकठोरकुचकुड्मलमातिरश्चीनबन्धुरशिरोधरोद्देशदृश्यमाननिष्टप्ततपनीयसूत्रपर्यस्तपद्मरागरुचकमर्धलक्ष्याधरकर्णपाशनिभृतकुण्डलमुपरिपरावृत्तश्रवणपाशरत्नकर्णिकाकिरणमञ्जरीपिञ्जरितविषमव्याविद्धशिथिलशिखण्डबन्धमात्मप्रभापटलदुर्लक्ष्यपाटलोत्तराधरविवरं गण्डस्थलीसङ्क्रान्तहस्तपल्लवदर्शितकर्णावतंसकृत्यमुपरिकपोलादर्शतलनिषिक्तचित्रवितानपत्त्रजातिजनितविशेषकक्रियमामीलितलोचनेन्दीवरमविभ्रान्तभ्रूपताकमुद्भिद्यमानश्रमजलपुलकभिन्नशिथिलचन्दनतिलकमाननेन्दुसम्मुखागतालकलतं च विश्रब्धप्रसुप्तामतिधवलोत्तरच्छदनिमग्नप्रायैकपार्श्वतया चिरविलसनखेदनिश्चलां शरदम्भोधरोत्सङ्गशायिनीमिव सौदामिनीं राजकन्यामपश्यम् ।
दृष्ट्वैव स्फुरदनङ्गरागश्चकितश्चोरयितव्यनिःस्पृहस्तयैव तावच्चोर्यमाणहृदयः किङ्कर्तव्यतामूढः क्षणमतिष्ठम् ।
अतर्कयं च ।
न चेदिमां वामलोचनामाप्नुयां न मृष्यति मां जीवितुं वसन्तबन्धुः ।
असङ्केतितपरामृष्टा चेयमतिबाला व्यक्तमार्त्तस्वरेण निहन्यान्मे मनोरथम् ।
ततोहमेवाघ्नीय ।
तदियमत्र प्रतिपत्तिरिति ।
नागदन्तलग्ननिर्यासकल्कवर्णितं फलकमादाय मणिसमुद्रकाद्वर्णवर्तिकां समुद्धृत्य तां तथा शयानां तस्याश्च मामाबद्धाञ्जलि चरणलग्नमालिखमार्यां चैताम् ।
त्वामयमाबद्धाञ्जलि दासजनस्तमिममर्थमर्थयते ।
स्वपिहि मया सह सुरतव्यतिकरखिन्नैव मा मैवम् ॥
हेमकरण्डकाच्च वासताम्बूलवीटिकां कर्पूरस्फुटिकां पारिजातकं चोपयुज्यालक्तकपाटलेन तद्रसेन सुधाभित्तौ चक्रवाकमिथुनं निरष्ठीवम् ।
अङ्गुलीयकविनिमयं च कृत्वा कथङ्कथमपि निरगाम् ।
सुरुङ्गया च प्रत्येत्य बन्धनागारं तत्र बद्धस्य नागरिकवरस्य सिंहघोषनाम्नस्तेष्वेव दिनेषु मित्रत्वेनोपचरितस्यैवं मया हतस्तपस्वी कान्तकस्तत्त्वया प्रतिभिद्य लब्धव्यो मोक्ष इत्युपदिश्य सह शृगालिकया निरक्रमिषम् ।
नृपतिपथे च समापत्य रक्षिकपुरुषैरगृह्ये ।
अचिन्तयं च ।
अलमस्मि जवेनापसर्तुमनामृष्ट एवैभिरेषा पुनर्वराकी गृह्येत ।
तदिदमत्र प्राप्तरूपमिति ।
तानेव चपलमभिपत्य स्वपृष्ठसमर्पितकूर्परः पराङ्मुखः स्थित्वा यद्यहमस्मि तस्करो भद्रा बध्नीत मां युष्माकमयमधिकारो न पुनरस्या वर्षीयस्या इत्यवादिषम् ।
सा तु तावतैवोन्नीतमदभिप्राया तान्सप्रणाममभ्येत्य भद्रमुखा ममैष पुत्रो वायुग्रस्तश्चिरं चिकित्सितः पूर्वेद्युः प्रसन्नकल्पः प्रकृतिस्थ एव जातो जातास्थया मया बन्धनान्निष्क्रमय्य स्नापितोनुलेपितश्च परिधाप्य निष्प्रवाणियुगलमभ्यवहार्य परमान्नमौशीरेद्य कामाचारः कृतोभूत् ।
अथ निशीथे भूय एव वायुनिघ्नो निहत्य कान्तकं नृपतिदुहित्रारमेयमिति रंहसा परेण राजपथमभ्यपतत् ।
निरूप्य चाहं पुत्रमेवं गतमस्यां वेलायामनुधावामि ।
तत्प्रसीदत बद्ध्वैनं मह्यमर्पयतेति यावदसौ क्रन्दति तावदहं स्थविरे केन देवो मातरिश्वा बद्धपूर्वः किमेते काकाः शौङ्गेयस्य मे निग्रहीतारः शान्तं पापमित्यधावम् ।
असावप्यमीभिस्त्वमेवोन्मत्ता यानुन्मत्त इत्युन्मत्तं मुक्तवती कस्तमिदानीं बध्नातीति कदर्थिता रुदत्येव मामन्वधावत् ।
गत्वा च रागमञ्जरीगृहं चिरविरहखेदविह्वलामिमां बहुविधं समाश्वास्य तं निशाशेषमनयम् ।
प्रत्यूषे चोदारकेण समगच्छे ।
अथ भगवन्तं मरीचिं वेशकृच्छ्रादुत्थाय पुनः प्रतितप्ततपःप्रभावप्रत्यापन्नदिव्यचक्षुषमुपसङ्गम्य तेनास्म्येवम्भूतं त्वद्दर्शनमवगमितः ।
सिंहघोषश्च कान्तकापचारं निर्भिद्य तत्पदे प्रसन्नेन राज्ञा प्रतिष्ठापितस्तेनैव चारकसुरुङ्गापथेन कन्यापुरप्रवेशं भूयोपि मे समपादयत् ।
समगंसि चाहं शृगालिकामुखविसृतवार्त्तानुरक्तया राजदुहित्रा ।
तेष्वेव दिवसेषु चण्डवर्मा सिंहवर्मावधूतदुहितृप्रार्थनः कुपितोभियुज्य पुरमवारुणत् ।
अमर्षणश्चाङ्गराजो यावदरिः पारग्रामिकं विधिमाचिकीर्षति तावत्स्वयमेव सालं निर्भिद्य प्रत्यासन्नानपि सहायानप्रतीक्षमाणो निर्गत्याभ्यधिकबलेन विद्विषा महति सम्पराये भिन्नवर्मा सिंहवर्मा बलादगृह्यत ।
अम्बालिका च बलवदभिगृह्य चण्डवर्मणा परिणेतुमात्मभवनमनीयत ।
कौतुकं च स किल क्षपावसाने विवाह इत्यबध्नात् ।
अहं च धनमित्रगृहे तद्विवाहायैव पिनद्धमङ्गलप्रतिसरस्तमेवावोचम् ।
सखे समापतितमेवाङ्गनाथाभिसरं राजमण्डलं सुगूढमेव सम्भूय पौरवृद्धैस्तदुपावर्तय ।
उपावृत्तश्च कृत्तशिरसमेव शत्रुं द्रक्ष्यसीति ।
तथेति तेनाभ्युपगते गतायुषोमुष्य भवनमुत्सवाकुलमुपसमाधीयमानपरिणयोपकरणमितस्ततः प्रवेशनिर्गमप्रवृत्तलोकसम्बाधमलक्ष्यशस्त्रिकः सह प्रविश्य मङ्गलपाठकैरम्बालिकापाणिपल्लवमग्नौ साक्षिण्याथर्वणेन विधिनार्प्यमाणमादित्समानस्यायामिनं बाहुदण्डमाकृष्य च्छुरिकयोरसि प्राहार्षम् ।
स्फुरतश्च कतिपयानन्यानपि यमविषयमगमयम् ।
हतविध्वस्तं च तद्गृहमनुविचरन्वेपमानमधुरगात्रीं विशाललोचनामभिनिशाम्य तदालिङ्गनसुखमनुबुभूषुस्तामादाय गर्भगृहमविक्षम् ।
अस्मिन्नेव क्षणे तवास्मि नवाम्बुवाहस्तनितगम्भीरेण स्वरेणानुगृहीत इति ।
श्रुत्वा च स्मित्वा च देवोपि राजवाहनः कथमसि कार्कश्येन कर्णीसुतमप्यतिक्रान्त इत्यभिधाय पुनरवेक्ष्योपहारवर्माणमाचक्ष्व तवेदानीमवसर इत्यभाषत ।
सोपि सस्मितं प्रणम्यारभताभिधातुम् ।
इति श्रीदण्डिनः कृतौ दशकुमारचरिते ऽपहारवर्मचरितं नाम द्वितीय उच्छ्वासः ॥