१ राजवाहन-चरितम्

श्रुत्वा तु भुवनवृत्तान्तमुत्तमाङ्गना विस्मयविकसिताक्षी सस्मितमिदमभाषत ।
दयित त्वत्प्रसादादद्य मे चरितार्था श्रोत्रवृत्तिः ।
अद्य मे मनसि तमोपहस्त्वया दत्तो ज्ञानप्रदीपः ।
पक्वमिदानीं त्वत्पादपद्मपरिचर्याफलम् ।
अस्य च त्वत्प्रसादस्य किमुपकृत्य प्रत्युपकृतवती भवेयम् ।
अभवदीयं हि नैव किञ्चिन्मत्सम्बद्धम् ।
अथवास्त्येवास्यापि जनस्य क्वचित्प्रभुत्वम् ।
अशक्यं हि मदिच्छया विना सरस्वतीमुखग्रहणोच्छेषणीकृतो दशनच्छद एष चुम्बयितुमम्बुजासनास्तनतटोपभुक्तमुरःस्थलं चैतदालिङ्गयितुमिति ।
प्रियोरसि प्रावृडिव नभस्युपास्तीर्णगुरुपयोधरमण्डला प्रौढकन्दलीमुकुलमिव रूढरागरूषितं चक्षुरुल्लासयन्ती बर्हिबर्हावलीविडम्बिना कुसुमचन्द्रकशारेण मधुकरकुलव्याकुलेन केशकलापेन स्फुरदरुणकेसरकरालं कदम्बकुड्मलमिव कान्तस्याधरमणिमधीरमाचुचुम्ब ।
तदारम्भस्फुरितया च रागवृत्त्या भूयोभूयः प्रावर्ततातिमात्रचित्रोपचारशीफरो रतिप्रबन्धः ।
सुरतखेदप्रसुप्तयोस्तु तयोः स्वप्ने बिसगुणनिगडितपादो जरठः कश्चिज्जालपादः प्रत्यदृश्यत ।
प्रत्यबुध्येतां चोभौ ।
अथ तस्य राजकुमारस्य कमलमूढशशिकिरणरज्जुदामनिगृहीतमिव रजतशृङ्खलोपगूढं चरणयुगलमासीत् ।
उपलभ्यैव च किमेतदित्यतिपरित्रासविह्वला मुक्तकण्ठमाचक्रन्द राजकन्या ।
येन तत्सकलमेव कन्यान्तःपुरमग्निपरीतमिव पिशाचोपहतमिव वेपमानमनिरूप्यमाणतदात्वायतिविभागमगण्यमानरहस्यरक्षासमयमवनितलविप्रविध्यमानगात्रमाक्रन्दविदीर्यमाणकण्ठमश्रुस्रोतोवगुण्ठितकपोलमाकुलीबभूव ।
तुमुले चास्मिन्समयेनियन्त्रितप्रवेशाः किङ्किमिति सहसोपसृत्य विविशुरन्तर्वंशिकाः पुरुषा ददृशुश्च तदवस्थं राजकुमारम् ।
तदनुभावनिरुद्धनिग्रहेच्छास्तु ते सद्य एव तमर्थं चण्डवर्मणे निवेदयाञ्चक्रुः ।
सोपि कोपादागत्य निर्दहन्निव दहनगर्भया दृशा निशाम्योत्पन्नप्रत्यभिज्ञः कथं स एवैष मदनुजमरणनिमित्तभूतायाः पापाया बालचन्द्रिकायाः पत्युरत्यभिनिविष्टवित्तदर्पस्य वैदेशिकवणिक्पुत्रस्य पुष्पोद्भवस्य मित्रं रूपमत्तः कलाभिमानी नैकविधविप्रलम्भोपायपाटवावर्जितमूढपौरजनाध्यारोपितवितथदेवतानुभावः कपटधर्मकञ्चुको निगूढपापशीलश्चपलो ब्राह्मणब्रुवः ।
कथमिवैनमनुरक्ता मादृशेष्वपि पुरुषसिंहेषु सावमाना पापेयमवन्तिसुन्दरी ।
पश्यतु पतिमद्यैव शूलावतंसितमियमनार्यशीला कुलपांसनी ।
इति निर्भर्त्सयन्भीषणभ्रुकुटिदूषितललाटः काल इव काललोहदण्डकर्कशेन बाहुदण्डेनावलम्ब्य हस्ताम्बुजे रेखाम्बुजरथाङ्गलाञ्छने राजपुत्रं सरभसमाचकर्ष ।
स तु स्वभावधीरः सर्वपौरुषातिभूमिः सहिष्णुतैकप्रतिक्रियां दैवीमेव तामापदमवधार्य स्मर तस्या हंसगामिनि हंसकथायाः सहस्व वासु मासद्वयमिति प्राणपरित्यागरागिणीं प्राणसमां समाश्वास्यारिवश्यतामयासीत् ।
अथ विदितवार्त्तावार्त्तौ महादेवीमालवेन्द्रौ जामातरमाकारपक्षपातिनावात्मत्यागोपन्यासेनारिणा जिघांस्यमानं ररक्षतुः ।
न शेकतुस्तु तमप्रभुत्वादुत्तारयितुमापदः ।
स किल चण्डशीलश्चण्डवर्मा सर्वमिदमुदन्तजातं राजराजगिरौ तपस्यते दर्पसाराय सन्दिश्य सर्वमेव पुष्पोद्भवकुटुम्बकं सर्वस्वहरणपूर्वकं सद्य एव बन्धने क्षिप्त्वा कृत्वा च राजवाहनं राजकेसरिकिशोरकमिव दारुपञ्जरनिबद्धं मूर्धजजाललीनचूडामणिप्रभावविक्षिप्तक्षुत्पिपासादिखेदं च तमवधूतदुहितृप्रार्थनस्याङ्गराजस्योद्धरणायाङ्गानभियास्यन्ननन्यविश्वासान्निनाय रुरोध च बलभरदत्तकम्पश्चम्पाम् ।
चम्पेश्वरोपि सिंहवर्मा सिंह इवासह्यविक्रमः प्राकारं भेदयित्वा महता बलसमुदायेन निर्गत्य स्वप्रहितदूतव्राताहूतानां साहाय्यदानायातिसत्वरमापततां धरापतीनामचिरकालभाविन्यपि सन्निधावदत्तापेक्षः साक्षादिवावलेपो वपुष्मानक्षमापरीतः प्रतिबलं प्रतिजग्राह ।
जगृहे च महति सम्पराये क्षीणसकलसैन्यमण्डलः प्रचण्डप्रहरणशतभिन्नवर्मा सिंहवर्मा करिणः करिणमवप्लुत्यातिमानुषप्राणबलेन चण्डवर्मणा ।
स च तद्दुहितर्यम्बालिकायामबलारत्नसमाख्यातायामतिमात्राभिलाषः प्राणैरेनं न व्ययूयुजत् ।
अपि त्वनीनयदपनीताशेषशल्यमकल्यसन्धो बन्धनगृहम् ।
अजीगणच्च गणकसङ्घैरद्यैव क्षपावसाने विवाहनीया राजदुहितेति ।
कृतकौतुकमङ्गले च तस्मिन्नेकपिङ्गाचलात्प्रतिनिवृत्यैणजङ्घो नाम जङ्घाकरिकः प्रभवतो दर्पसारस्य प्रतिसन्देशमावेदयत् ।
अयि मूढ किमस्ति कन्यान्तःपुरदूषकेपि कश्चित्कृपावसरः ।
स्थविरः स राजा जरावलुप्तमानावमानचित्तो दुश्चरितदुहितृपक्षपाती यदेव किञ्चित्प्रलपति त्वयापि किं तदनुमत्या स्थातव्यम् ।
अविलम्बितमेव तस्य कामोन्मत्तस्य चित्रवधवार्त्ताप्रेषणेन श्रवणोत्सवोस्माकं विधेयः ।
सा च दुष्टकन्या सहानुजेन कीर्तिसारेण निगडितचरणा चारके निरोद्धव्येति ।
तच्चाकर्ण्य प्रातरेव राजभवनद्वारे स दुरात्मा कन्यान्तःपुरदूषकः सन्निधापयितव्यश्चण्डपोतकश्च मातङ्गपतिरुचितकल्पनोपपन्नस्तत्रैव समुपस्थापनीयः ।
कृतविवाहकृत्यश्चोत्थायाहमेव तमनार्यशीलं तस्य हस्तिनः कृत्वा क्रीडनकं तदधिरूढ एव गत्वा शत्रुसाहाय्यकाय प्रत्यासीदतो राजन्यकस्य सकोशवाहनस्यावग्रहणं करिष्यामीति पार्श्वचरानवेक्षाञ्चक्रे ।
निन्ये चासावहन्यन्यस्मिन्नुन्मिषत्येवोषोरागे राजपुत्रो राजाङ्गणं रक्षिभिरुपतस्थे च क्षरितगण्डश्चण्डपोतकः ।
क्षणे च तस्मिन्मुमुचे तदङ्घ्रियुगलं रजतशृङ्खलया ।
सा चैनं चन्द्रलेखाछविः काचिदप्सरोरूपिणी भूत्वा प्रदक्षिणीकृत्य प्राञ्जलिर्व्यजिज्ञपत् ।
देव दीयतामनुग्रहार्द्रं चित्तम् ।
अहमस्मि सोमरश्मिसम्भवा सुरतमञ्जरी नाम सुरसुन्दरी ।
तस्या मे नभसि नलिनलुब्धमुग्धकलहंसानुबद्धवक्त्रायास्तन्निवारणक्षोभविच्छिन्नविगलिता हारयष्टिर्यदृच्छया जातु हैमवते सरसि मन्दोदके मग्नोन्मग्नस्य महर्षेर्मार्कण्डेयस्य मस्तके मणिकिरणद्विगुणितपलितमपतत् ।
पातितश्च कोपितेन कोपि तेन मयि शापः ।
पापे भजस्व लोहजातिमजातचैतन्या सतीति ।
स पुनः प्रसाद्यमानस्त्वत्पादपद्मद्वयस्य मासद्वयमात्रं सन्दानतामेत्य निस्तरणीयामिमामापदमपरिक्षीणशक्तित्वं चेन्द्रियाणामकल्पयत् ।
अनल्पेन च पाप्मना रजतशृङ्खलीभूतां मामैक्ष्वाकस्य राज्ञो वेगवतः पौत्रः पुत्रो मानसवेगस्य वीरशेखरो नाम विद्याधरः शङ्करगिरौ समध्यगमत् ।
आत्मसात्कृता च तेनाहमासम् ।
अथासौ पितृप्रयुक्तवैरे वर्तमाने विद्याधरचक्रवर्तिनि वत्सराजवंशवर्धने नरवाहनदत्ते विरसाशयस्तदपकारक्षमोयमिति तपस्यता दर्पसारेण सह समसृज्यत ।
प्रतिश्रुतं च तेनास्मै स्वस्वसुरवन्तिसुन्दर्याः प्रदानम् ।
अन्यदा तु वियति व्यवदायमानचन्द्रिके मनोरथप्रियतमामवन्तिसुन्दरीं दिदृक्षुरवशेन्द्रियस्तदिन्द्रमन्दिरद्युति कुमारीपुरमुपासरदन्तरितस्तिरस्करिण्या विद्यया ।
स च तां तदा त्वदङ्कापाश्रयां सुरतखेदसुप्तगात्रीं त्रिभुवनसर्गयात्रासंहारसंश्रिताभिः कथाभिरमृतस्यन्दनीभिः प्रत्यानीयमानरागपूरां न्यरूपयत् ।
स तु प्रकुपितोपि त्वदनुभावप्रतिबद्धनिग्रहान्तराध्यवसायः समालिङ्ग्येतरेतरमत्यन्तसुखप्रसुप्तयोर्युवयोर्दैवदत्तोत्साहः पाण्डुलोहशृङ्खलात्मना मया पादपद्मयोर्युगलं तव निगडयित्वा सरोषरभसमपासरत् ।
अवसितश्चममाद्य शापस्तच्च मासद्वयं तव पारतन्त्र्यम् ।
प्रसीदेदानीं किं तव करवाणीति प्रणिपतन्तीं वार्त्तयानया मत्प्राणसमां समाश्वासयेति व्यादिश्य विससर्ज ।
तस्मिन्नेव क्षणान्तरे हतोहतश्चण्डवर्मा सिंहवर्मदुहितुरम्बालिकायाः पाणिस्पर्शरागप्रसारिते बाहुदण्ड एव बलवदवलम्ब्य सरभसमाकृष्य केनापि दुष्करकर्मणा तस्करेणैकेनैव नखरप्रहारेण राजमन्दिरोद्देशं च शवशतमयमापादयन्नचकितगतिरसौ विहरतीति वाचः समभवन् ।
श्रुत्वा चैतत्तमेव मत्तहस्तिनमुदस्ताधोरणो राजपुत्रोधिरुह्य रंहसोत्तमेन राजभवनमभ्यवर्तत ।
स्तम्बेरमरयावधूतपत्तिदत्तवर्त्मा च प्रविश्य वेश्माभ्यन्तरमदभ्राभ्रनिर्घोषगम्भीरेण स्वरेणाभ्यधात् ।
कः स महापुरुषो येनैतन्मानुषमात्रदुष्करं महत्कर्मानुष्ठितम् ।
आगच्छतु स मया सहेमं मत्तहस्तिनमारोहतु ।
अभयमेव तस्य मदुपकण्ठवर्तिनो देवदानवैरपि विगृह्णानस्येति ।
निशम्यैवं स पुमानुपोढहर्षो निर्गत्य कृताञ्जलिराक्रम्य सञ्ज्ञासङ्कुचितं कुञ्जरगात्रमसक्तमध्यरुक्षत् ।
आरोहन्तमेवैनं निर्वर्ण्य हर्षोत्फुल्लदृष्टिरये प्रियसखोयमपहारवर्मैवेति पश्चान्निषीदतोस्य बाहुदण्डयुगलमुभयभुजमूलप्रवेशितमग्रेवलम्ब्य स्वमङ्गमालिङ्गयामास ।
स्वयं च पृष्ठतो वलिताभ्यां भुजाभ्यां पर्यवेष्टयत् ।
तत्क्षणोपसंहृतालिङ्गनव्यतिकरश्चापहारवर्मा चापचक्रकणपकर्पणप्रासपट्टिशमुसलतोमरादिप्रहरणजातमुपयुञ्जानान्बलावलिप्तान्प्रतिबलवीरान्बहुप्रकारयोधिनः परिक्षिपतः क्षितौ विचिक्षेप ।
क्षणेन चाद्राक्षीत्तदपि सैन्यमन्येन समन्ततोभिमुखमभिधावता बलनिकायेन परिक्षिप्तम् ।
अनन्तरं च कश्चित्कर्णिकारगौरः कुरुविन्दसवर्णकुन्तलः कमलकोमलपाणिपादः कर्णचुम्बिदुग्धधवलस्निग्धनीललोचनः कटितटनिविष्टरत्ननखरः पट्टनिवसनः कृशाकृशोदरोरःस्थलः कृतहस्ततया रिपुकुलमिषुवर्षेणाभिवर्षन्पादाङ्गुष्ठनिष्ठुरावघृष्टकर्णमूलेन प्रजविना गजेन सन्निकृष्य पूर्वोपदेशप्रत्ययादयमेव स देवो राजवाहन इति कृताञ्जलिः प्रणम्यापहारवर्मणि निविष्टदृष्टिराचष्ट ।
त्वदादिष्टेन मार्गेण सन्निपातितमेतदङ्गराजसाहाय्यदानायोपस्थितं राजकम् ।
अरिबलं च विहतविध्वस्तं स्त्रीबालहार्यशस्त्रं वर्तते ।
किमन्यत्कृत्यमिति ।
हृष्टस्तु व्याजहारापहारवर्मा ।
देव दृष्टिदानेनानुगृह्यतामयमाज्ञाकरः ।
सोयमहमेवामुना रूपेण धनमित्राख्यया चान्तरितो मन्तव्यः ।
स एवायं निर्गमय्य बन्धनादङ्गराजमपवर्जितं कोशवाहनमेकीकृत्यास्मद्गृह्येण चामुना सह राजकेनैकान्ते सुखोपविष्टमिह देवमुपतिष्ठतु यदि न दोष इति ।
देवोपि यथा ते रोचत इति तमाभाष्य गत्वा च तन्निर्दिष्टेन मार्गेण नगराद्बहिरतिमहतो रोहिणद्रुमस्य कस्यचित्क्षौमावदातसैकते गङ्गातरङ्गपवनपातशीतले तले द्विरदादवततार ।
प्रथमसमवतीर्णेनापहारवर्मणा च स्वहस्तसत्वरसमीकृते मातङ्ग इव भागीरथीपुलिनमण्डले सुखं निषसाद ।
तथा निषण्णं तमुपहारवर्मार्थपालप्रमतिमित्रगुप्तमन्त्रगुप्तविश्रुतैर्मैथिलेन च प्रहारवर्मणा काशीभर्त्रा च कामपालेन चम्पेश्वरेण सिंहवर्मणा सहागत्य धनमित्रः प्रणिपपात ।
देवोपि हर्षाविद्धमभ्युत्थितः कथं समस्त एव मित्रगणः समागतः को नामायमभ्युदय इति कृतयथोचितोपचारानुत्पीडिततरं परिरेभे ।
काशीपतिमैथिलाङ्गराजांश्च सुहृन्निवेदितान्पितृवदपश्यत् ।
तैश्च हर्षनिर्भरतरं सरभसोपगूढः परमभिननन्द ।
ततः प्रवृत्तासु प्रीतिसङ्कथासु प्रियवयस्यगणानुयुक्तः स्वस्य च सोमदत्तपुष्पोद्भवयोश्चरितमनुवर्ण्य सुहृदामपि वृत्तान्तं क्रमेण श्रोतुं कृतप्रस्तावस्तांश्च तदुक्तावन्वयुङ्क्त ।
तेषु प्रथमं प्राह स्म किलापहारवर्मा ॥
इति श्रीदण्डिनः कृतौ दशकुमारचरिते महाकाव्ये प्रथम उच्छ्वासः ॥