२
॥ द्वतीयोच्छ्वासः ॥
<2.1>अथैकदा ……………………………….अभ्यभाषत॥ 1 ॥
प्रसङ्गः-स्वनामधन्येन महाकविना दण्डिना वामदेवराजहंसयोः सम्मेलनं वर्णयता कथ्यते–
व्याख्या-अथ=तत्पश्चात्, एकदा=एकस्मिन्दिवसे, वामदेवः=महर्षिः, सकलकलाकुशलेन=नृत्यगीतादिललितकलापारङ्गतेन, कुसुमसायकसंशयितसौंदर्येण=कुसुमसायकः कामदेवः तेन संशयितं संदिग्धं सौंदर्यं रूपं यस्य सः तेन तथोक्तेन, कल्पितसोदर्येण कल्पितं विहितं सोदर्यं परस्परभ्रातृत्वं येन सः तादृशेन, साहसापहसितकुमारेण साहसेन वीर्येण अपहसितः अधरीकृतः कुमारः कार्तिकेयः शंकरसुतः येन सः तेन तथोक्तेन, सुकुमारेण=सुकोमलवपुषा, जयध्वजातपवारणकुलिशाङ्कितकरेण=जयध्वजः विजयकेतुः आतपवारणं=छत्रं, कुलिशं वज्रं तैः अङ्कितौ चिन्हितौ करौ पाणी यस्य सः तन तथोक्तेन, कुमारनिकरेण=दशकुमारसमूहेन, परिवेष्टितं=मण्डलीकृतम्, आनतशिरसं=कृतसाष्टाङ्गप्रणामम्, राजानं=नृपम् (राजहंसम्) समभिगम्य=उपसृत्य, तेन=राजहसेन, कृतां=समर्पितम्, परिचर्यां=सत्कारम् आतिथ्यम् वा, अङ्गीकृत्य=स्वीकृत्य, निजचरणकमलयुगलमिलन्मधुकरायमाणकाकपक्षम्=निजस्य वामदेवस्य चरणकमलयुगले=पादाम्बुजद्वये मिलन्तः निष्पतन्तः मधुकरायमाणाः मधुपा इवाचरन्तः काकपक्षाः शिखण्डकाः यस्य सः तम्, तादृशम्, विदलिष्यमाणविपक्षं=विदलिष्यमाणाः पराजेष्यमाणाः विपक्षाः रिपवः यन सः तम्, कुमारचयं=राजवाहन प्रमुखदशकुमारसमूहम्, गाढं=दृढम्, आलिङ्गय=परिष्वज्य, मितसत्यवाक्येन=अनधिकसत्यप्रियवचनेन, विहिताशीः=दत्ताशीर्बचनम्, अभ्यभाषत=अव्रवीत्॥
विशेषः-अत्र सर्वत्र अनुप्रासच्छटा विलोकनीया यमकसोदर्यम् वन्धदाढ्र्यम् समाससंरचनञ्च॥</2.1>
<2.2>भूवल्लभ ………………………………क्रियताम् इति॥ 2 ॥
प्रसङ्गः-विहिताशीर्वादः मुनिः वामदेवो व्याहरति–
व्याख्या-भूवल्लभ!=राजन्! भवदीयमनोरथफलमिव=भवदीयानां श्री मतां मनोरथानां मनोकामानां फलमिव परिणमनमिव, समृद्धलावण्यं=समृद्धं=संवर्द्धितं लावण्यं सौंदर्यं यस्मिन् तत् तथोक्तम्, तारुण्य=यौवनम्, नुतमित्रः=नूतानि=प्रशंसितानि मित्राणि सुहृदः यस्य सः तथोक्तः, भवत्पुत्रः=श्रीमतां तनयः, अनुभवति=प्राप्तः। सहचरसमेतस्य=सुहृत्सहितस्य, एतस्य=भवत्तनयस्य, नूनं=अवश्यमेव, एषः=साम्प्रतिकः, दिग्विजयारम्भसमयः=दिग्विजयप्रस्थानकालः। तत्=तस्मात् हेतोः, अस्य=भवत्पुत्रस्य, सकलक्लेशसहस्य=समस्तसंकटसहिष्णोः राजवाहनस्य, दिग्विजयप्रयाणं=दिशां विजयाय जयाय प्रयाणं=प्रस्थानं क्रियताम्=विधीयताम्॥
विशेषः-अत्र मुनेः भविष्यदर्शित्वं सूच्यते॥</2.2>
<2.3>कुमाराः ………………………विससर्ज॥ 3 ॥
प्रसङ्गः-वामदेवमहर्षेः मंत्रणानुसारं कुमारैः सह राजवाहनस्य दिग्विजयप्रयाणम् वर्ण्यते कविना–
व्याख्या-कुमाराः=दशकुमाराः, माराभिरामाः=कामदेववत् सुन्दराः रामाद्यपौरुषाः=रामः दशरथात्मजः आद्यः प्रथमो येषां ते तेषां पौरुषं सामर्थ्यमिव पौरुषं पराक्रमो येषां ते, रुषा=क्रोधेन, भस्मीकृतारयः=विनष्टीकृतशत्रवः, रयोपहसितसमीरणा=रयेन जवेन उपहसिताः अधरीकृताः, समीरणाः पवनाः यैस्ते तथोक्ताः, रणाभियानेन=रणं युद्धं अभियातीति गच्छतीति तेन तादृशेन यानेन=प्रस्थानेन, अभ्युदयाशंसं=अभ्युदये=विजये आशंसा आशा यस्य सः तं तादृशम्, राजानं=राजहंसम्, अकार्षुः=कृतन्तः। तत्साचिव्यं=राजवाहनस्य साहाय्यम् इतरेषां=समवयस्ककुमाराणाम्, विधाय=कृत्वा, समुचितां अवसरानुसारिणीम्, बुद्धिं=मतिम्, उपदिश्य=निर्दिश्य, शुभे=प्रशस्ते, मुहूर्ते=लग्ने, सपरिवारं कुमारादिभिः सहितम्, कुमारं राजवाहनम्, विजयाय=दिग्विजयं कर्त्तुम्, विससर्ज=प्रेषयामास॥</2.3>
<2.4>राजवाहनः ……………………………ददर्श॥ 4 ॥
प्रसङ्गः-दिग्विजयप्रस्थानं वर्ण्यते।
व्याख्या-राजवाहनः=राजहंसपुत्रः, मङ्गलसूचकं=शुभसूचकम्, शुभशकुनं=मङ्गलनिमित्तम्, विलोकयन्=पश्यन्, कञ्चित् देशं=प्रदेशम्, अतिक्रम्य=उल्लंघ्य, विन्ध्याटवीमध्यं=विन्ध्यवनम्, अविशत्=प्रविशत्। तत्र=विन्ध्याटवीमध्ये, हेतिहतिकिणाङ्कः=हेतीनां=शस्त्राणाम् हतिभिः प्रहारैः ये किणाः व्रणाः तेषां अङ्काः चिह्नानि यस्य तं तथोक्तम्, कालायसकर्कशकायं=कृष्णलौहवत्कठोरशरीरम्, यज्ञोपवीतेन=यज्ञसूत्रेण, अनुमेयविप्रभावं=अनुमातुं योग्यः विप्रभावः ब्राह्मणभावः यस्य सः तं तथोक्तम्, व्यक्तकिरातप्रभावं=व्यक्तः प्रकटीकृतः किरातस्य भिल्लस्य प्रभावः बलम् येन सः तं तथोक्तम्, लोचनपरुषं=भयानकदर्शनम्, कमपि=एकम्, पुरुषं=नरम्, ददर्श=विलोकितवान्॥</2.4>
<2.5>तेन …………………………….किमेतत् इति॥ 5 ॥
प्रसङ्गः-राजवाहनप्राप्तपुरुषयोः परस्परं वार्तालापः वर्ण्यते–
व्याख्या-तेन=शबरवेषपुरुषेण, विहितपूजनः=सत्कृतः, राजवाहनः, अभाषत=अवदत्=`ननु, मानव! हे मनुष्य!, जनसङ्गरहिते=नरनिवासशून्ये, मृगहिते=मुगाणां वन्यजीवाना कृते हिते लाभकरे, घोरप्रचारे=घोरः संकटापन्नः प्रचारः संचारः यस्मिन् तत् तस्मिन् कथोक्ते, कान्तारे=गहने, विन्ध्याटवीमध्ये=विन्ध्यविपिने, भवान्=श्रीमन्, किमिति कस्मात्, एकाकी=एक एव, निवसति=निवासं करोति। भवदंसोपनीतं=भवतः श्रीमतः अंसं स्कन्धं उपनीतं प्राप्तम्, यज्ञोपवीतम्=यज्ञसूत्रम्, भूसुरभावं=ब्राह्मणत्वम्, द्योतयति=प्रकटयति। हेतिहतिभिः=शस्त्रप्रहाराङ्कैः, किरातरीतिः=शबराचरणम्, अनुमीयते=लक्ष्यते। एतत्=इदम्, किं=कथम् इति, कथय=वर्णय॥</2.5>
<2.6>तेजोमयोऽयम् ………………………ब्राह्मण इति॥ 6 ॥
प्रसङ्गः-किरातवेषधारी पुरुषः स्वकीयं वृत्तान्तं राजवाहनं श्रावयन्नाह–
व्याख्या-तेजोमयः=तेजस्वी, अयं=सम्मुखोपस्थितः नरः, मानुषमात्रपौरुषः=मानुषः प्रमाणमिति मानुषमात्रम् नरप्रमाणम् पौरुषं=सामर्थ्यं यस्य सः तथोक्तः, नुनं=निश्चयेन, न भवति=न भवितुं योग्यः, इति मत्वा=विचिन्त्य, सः=किरातरूपी, पुरुषः, तद्वयस्यानाम्=तस्य मित्राणाम्, मुखात्=वदनात् नामजनने=नाम च जननं उत्पत्तिश्च नाम जनने, विज्ञाय=ज्ञात्वा, निजवृत्तान्तं=स्वकीयं वृत्तम्, तस्मै=राजवाहनाय, अकथयत्=वर्णितवान्=राजनन्दन! राजकुमार,! केचित्=कतिचित्, अस्यां=पुरोवर्तमानायां, अटव्यां=अरण्यान्याम्, वेदादिविद्याभ्यासं=वेदादीनां ब्राह्मणोचितानां विद्यानां अभ्यासं=अध्ययनम्, अपहाय=विस्मार्य, निजकुलाचारं=ब्राह्मणवंशव्यवहारम्, इतीकृत्य=प्रविहाय, सत्यशौचादिधर्मव्रातं सत्यञ्च शौचञ्च ते आदिर्येषां तादृशाणां व्रातं समूहं परिहृत्य=त्यक्त्वा, किल्बिषं=कुकर्म, अन्विष्यन्तः=मार्गमामः, पुलिन्दपुरोगमाः=भिल्लनायकाः, तदन्नं=पुलिन्दान्नम्, उपभुञ्जानाः=भक्षयन्तः=बहवः अनेके ब्राह्मब्रुवाः=आत्मानं ब्राह्मणं ब्रुवन्तीति, ब्राह्मणापसदाः, निवसन्ति=निवासं कुर्वन्ति। तेषु=ब्राह्मणापसदेषु, कस्यचित्=एकस्य, पुत्रः=सुतः, अहं, निन्दापात्रचरित्रः=निन्दापात्रं कुत्सितं चरित्रं आचरणं यस्य सः तथोक्तः, मातङ्गोनाम=मातङ्गाभिधः (अस्मि)। सोऽहम्, किरातवलेन=शबरसैन्येन, सह=साकम्, जनपदं=ग्रामम्, प्रविश्य=गत्वा, ग्रामेषु=जनपदेषु, धनिनः=सम्पत्तिसम्पन्नान्, स्त्रीबालसहितान्=स्त्रीभिः बालैः पुत्रैश्च सहितान् समन्वितान्, अटव्यां=वने, आनीय=नीत्वा, बन्धने=पाशे, निधाय=पाशे, निधाय=आवध्य, तेषां=धनिनाम्, सकलधनं=समस्तसम्पत्तिम्, अपहरन्, स्वायत्तीकुर्वन्, उद्धतः=उद्दण्डः, वीतदयः=निर्दयः, व्यचरम्=अभ्रमम्, कदाचित्=एकदा, एकस्मिन्=कस्मिंश्चित्, कान्तारे=विषमे मार्गे, मदीयसहचरगणेन मम साकं चरेण, जिघांसमानं=व्यापादयितुमिष्यमाणं, वधार्थमानीयमानम्, एकम्, भूसुरं=भूदेवम्, अवलोक्य=दृष्ट्वा, दयायत्तचित्तः=दयार्द्रचित्तः (अहं) अब्रवम्=अवदम्,-`ननु! पापाः!दुराचारिमः!, ब्राह्मणः’=भूसुरः, न हन्तव्य-=बधार्हः॥</2.6>
<2.7>तं ……………………………..अभवम्॥ 7 ॥
प्रसङ्गः-पूर्वोक्तः एव।
व्याख्या-ते=शबराः, रोषारुणनयनाः=रोषेण अरुणानि शोणितवणीनि नयनानि नेत्राणि येषां ते तथोक्ताः, मां=मातङ्गम्, बहुधा=भृशम्, निरभर्त्स्यन्=प्रताडितवन्तः। तेषां=सहचरकिरातानाम्, भाषणपारुष्यं=कठोरवचनम्, असहिष्णुः=असहनशीलः, अहं=मातङ्गः, अवनिसुररक्षणाय=ब्राह्मणसंरक्षणाय, चिरं दीर्घकालपर्यन्तम्, प्रयुष्य=प्रकृष्टं संघर्ष कृत्वा, तैः=किरातैः, अभिहतः=प्रवातितः, गतजीवितः=मृतः, अभवम्=आसम्॥</2.7>
<2.8>ततः ……………………………गम्यतामिति॥ 8 ॥
प्रसङ्गः-मयि मृते सति किमभूदिति व्याहरति मातङ्गः।
व्याख्या-ततः=मरणानन्तरम्, प्रेतपुरीम्=यमलोकम्, उपेत्य=गत्वा, तत्र=यमलोके, देहधारिभिः शरीरधारिभिः, पुरुषैः=मनुष्यैः, कर्मकरैः वा, परिवेष्टितं=परिवृत्तम्, सभामध्ये=संसदः मध्ये, रत्नखचितसिंहासनासीनं=मणिण्याप्तासने उपविष्टम् शमनं=यमम्, विलोक्य=प्रेक्ष्य, तस्मै=यमदेवाय, दण्डप्रणामं=साष्टाङ्गनमनम्, अकरवम्=कृतवान्। सोऽपि=यमोऽपि, मां=मातङ्गम्, अवेक्ष्य=दृष्ट्वा, चित्रगुप्तंनाम=चित्रगुप्तनामानम्, निजामात्यं=स्वकीयं मन्त्रिणम्, आहूय=आकार्य, तं=अमात्यम्, अवोचत्=उक्तवान्,-सचिव!=अमात्य!, अमुष्य=अस्य, एषः=अयम्, मृत्युसमयः=मरणकालः, न=नास्ति। निन्दितचरितोऽपि=गर्हिताचरणोऽपि, अयं=असौ, महीसुरनिमित्तं=भूदेवार्थम्, गतजीवितः=गतप्राणः, अभूत्=अजायत। इतः प्रभृति=अस्मात् वासरात्, विगलितकल्मषस्य विगलितं कल्मषं पापं यस्य सः तथोक्तः तस्य, अस्य=एतस्य, पुण्यकर्मकरणे=सुकृतसमाचरणे, रुचिः इच्छा, उदेष्यति=भविष्यति। अत्र=यमलोके, पापिष्ठैः=पापाचरणशीलैः, अनुभूयमानं=भुज्यमानम्, यातनाविशेषं=कष्टविशेषम्, विलोक्य=निरोक्ष्य, पुनरपि=भूयोऽपि, पूर्वशरीरम्=मातङ्गदेहम्, अनेन=अत्रागतेन अमुना, गम्यतां=व्रज्यताम्॥ 8 ॥
विशेषः-अत्र कविना शास्त्रीयामर्यादा सुरक्षिता। तस्य च ब्रह्माण्यत्वं सविशेषतया सूच्यते॥</2.8>
<2.9>चित्रगुप्तोऽपि ………………………….अतिष्ठम्॥ 9 ॥
प्रसङ्गः-मातङ्गः स्वता दृष्टं यमलोकं वर्णयन्नाह–
व्याख्या-चित्रगुप्तोऽपि=यमसचिवोऽपि, तत्र-तत्र=स्थाने-स्थाने, सन्तप्तेषु=अत्युष्णेषु, आयसस्तम्भेषु=लौहविनिर्मितडित्थेषु, वध्यमानान्=बध्यन्ते इति बध्यमानाः तान् निबद्धान्, अत्युष्णीकृते=संतप्तीकृते विततशरावे=प्रसृतपात्रे, तैले=स्नेहे, निक्षिप्यमाणान्=निपात्यमाणान्, लुगुडैः=दण्डैः, जर्जरीकृतावयवान्=शिथिलीकृताङ्गान्, निशितटङ्कैः=तीक्ष्णपाषाणशकलैः, परितक्ष्यमाणानपि=धर्ष्यमाणान् अपि, दर्शयित्वा=अक्षीकारयित्वा, पुण्यवृद्धिं=धर्मधियम्, उपदिश्य=उद्बुव्य, मां=मातङ्गम्, अमुञ्चत्=त्यक्तवान्। तदैव=तस्मिन्नेव काले, वा तत्=पूर्वशरीरम्, एव, अहं=मातङ्गः, प्राप्तः=अधिगतः, महाटवीमध्ये=अरण्यान्तरे, शीतलोपचारं=शिशिरोपायम्, रचयता=कुर्वता, महीसुरेण=भूसुरेण, परीक्ष्यमाणः=समीक्ष्यमाणः (मृतो वा जीवितो वेति) शिलायां=पाषाणखण्डे, शयितः=सुप्तः, क्षणं=पलं यावत्, अतिष्ठम्=आसम्।
विशेषः-अत्र कविना कृतं यमपुर्याः वर्णनम् गरुणपुराणानुसारमेव वेदितव्यम् लौकिकशब्दानां सफलप्रयोगोऽपि द्रष्टव्यः॥</2.9>
<2.10>तदनु ……………………………….निरगात्॥ 10 ॥
प्रसङ्गः-मातङ्गः राजवाहनं स्वकीयं वृत्तान्तं श्रावयति-
व्याख्या-तदनु=तदनन्तरम्, विदितोदन्तः=ज्ञातवृत्तः, मदीयवंशबन्धुगणः=मम कुलजाः बान्धवाः, सहसा=अकस्मात्, आगत्य=उपस्थितिंविधाय, मन्दिरं=गृहम्, अनीय=नीत्वा, मां=मातङ्गम्, अपक्रान्तव्रणं=विगताघातचिह्नम्, स्वस्थम्, अकरोत्=कृतवान्। द्विजनमा=विप्रः, कृतज्ञः=कृतं जानातीति कृतवित्, मह्यं=मातङ्गाय, अक्षरशिक्षां=लिपिज्ञानम्, विधाय=दत्त्वा, विविधागमतन्त्र=विविधानां=बहूनाम्, आगमानां शास्त्रणाम् तन्त्रं सिद्धान्तं आख्याय=व्याहृत्य, कल्मषक्षयकारणम्=पापध्वंसनिमित्तम् सदाचारं=साधुव्यवहारम्, उपदिश्य=कथयित्वा, ज्ञानेक्षणगम्यमानस्य=ज्ञाननयनेन अवबुध्यमानस्य न तु चर्मनेत्रेण, शशिखण्डशेखरस्य=शङ्करस्य, पूजाविधानं=अर्चानियसम्, अभिधाय=निर्दिश्य, मत्कृतां मया विहिताम्, पूजां=अतिथिसत्कारम्, अङ्गीकृत्य=गृहीत्वा, निरगात्=निःशेषेण अगच्छत्॥</2.10>
<2.11>तदारभ्याहं ……………………..आगम्यताम् इति॥ 11 ॥
प्रसङ्गः-मातङ्गनामा पुरुषः स्वस्याटवीनिवासरय कारणं कथयति..
व्याख्या-तदारभ्य=ततः प्रभृति, अहं मातङ्गः, किरातकृतसंसर्ग=किरातै भिल्लैः कृतः विरचितः संसर्गः साहचर्यं येन सः तं तथोक्तम्, बन्धुवर्गं=कुटुम्बिनां समूहम्, उत्सृज्य=विहाय, सकललोकैकगुरुं=साकलानां निखिलानां लोकानां=जीवानाम्, एकं=अद्वितीयं गुरुं=ज्ञानदातारम्, इन्दुकलावतंसं=चन्द्रमसः कला(षोडशोभागः) अवतंसः शिरोभूषणं यस्य सः तं शिवम्, चेतसि=हृदये, स्मरन्=जपन्, अस्मिन्=अत्र, कानने=विपिते, दूरीकृतकलङ्कः=निष्पापः, वसामि=निवसामि, देव! भगवन्! भवते=श्रीमते, विज्ञापनीयं=कथनीयम्, किञ्चित्=एकम्, हस्यं=गोप्यम्, अस्ति=वर्तते, आगम्यतां=चलतु, इति॥
विशेषः-भाषासारल्यम् सुष्ठु॥</2.11>
<2.12>सः ……………………………….साहाय्यम् इति॥ 12 ॥
प्रसङ्गः-सः मातङ्गः राजवाहनं रहस्यं कथयति–
व्याख्या-सः=मातङ्गः, वयस्यगणात्=सखासमूहात्, अपनीय=पृथक् नीत्वा, रहस=निर्जने, पुनः=भूयः, एनं राजवाहनम्, अभाषत्=अकथयत्,-`राजन्!=राजकुमार! अतीते=विगते, निशान्ते=चतुर्वादनवेलायाम्, गौरीपतिः=शङ्करः, स्वप्नसन्नहितः=स्वप्ने स्वप्नावस्थायाम् सन्निहितः समीपमागतः, निद्रामुद्रितलोचनं=सुषुप्तिं गते लोचने नयने यस्व स तं तथोक्तम्, मां, विबोध्य=जाग्रतं कृत्वा, प्रसन्नवदनकान्ति=सौम्याननदीप्तिः प्रश्रयावनतं=प्रश्रयेण ईशानुरक्तया आनतं विनमितम्, मां=मातङ्गम्, अवोचत्=उक्तवान्=मातङ्ग!दण्डकान्तरालगामिन्याः=दण्डकान्तराले गच्छतीति तस्याः तथाभूतायाः, तटिन्याः सरितः, तीरभूमौ=पुलिनप्रदेशे, सिद्धसाध्याराध्यमानस्य=सिद्धैः कृतब्रह्मसाक्षात्कारैः साध्यैः=गणदेवताभिः आराध्यमानस्य=समर्च्यमानस्य, स्फटिकलिङ्गस्य=स्फटिकप्रस्तरेम निर्मितस्य शिवलिङ्गस्य, पश्चात्=पृष्ठभागे, अद्रिपतिकन्यापदपङ्क्तिचिन्हितस्य=अद्रिपतिः हिमालयः तस्य कन्या पार्वती तस्याः पदपङ्क्त्या चरणपद्धत्या चिन्हितस्य अङ्कितस्य, अश्मःन=पाषाणस्य, सविधे=पार्श्वे, विधेः=विधातुः, आननमिव=मुखमिव, किमपि=एकम्, विलं=विवरम्, विद्यते=अस्ति। तत्=विलम्, प्रविश्य=गत्वा, तत्र=बिले, निक्षिप्तं=निहितम्, ताम्रसासनं=ताम्रपत्रम्, विधातुः=वेधसः, शासनं=आदेशपत्रम्, इव=सदृशम्, समादाय=गृहीत्वा, तदुपदिष्टं=तत्पत्रे लिखितम्, दिष्टविजयं=भाग्यविजयिनम्, विधिं=व्यापारम्, विधाय=कृत्वा, पाताललोकाधीश्वरेण=रसातलशासकेन भवता त्वया (मातङ्गेन) भवितव्यम्=स्यात्। भवत्साहाय्यकरः=तव सहायकः, राजकुमारः=राजसूनुः, अद्य श्वोवा एकद्वयोः दिवसयोः समागमिष्यति=एष्यति। इति। तदादेशानुगुणमेव=भगवतः शिवस्य आज्ञानुसारमेव, भवदागनम्=तवोपस्थितिः, अभूत्=जाता। साधनाभिलाषिणः=उपायेच्छुकस्य, मम=मातङ्गस्य, तोषिणः=संतोषवृत्तेः, साहाय्यं=सहयोगम्, रचय=कुरु, इति॥
विशेषः-कौतुहलमुत्पाद्य कथा अग्रे नीयते॥</2.12>
<2.13>तथा …………………………..ययुः॥ 13 ॥
प्रसङ्गः-मातङ्गस्य निवंदनं श्रुत्वा राजवाहनेन यत् कृतं तदेव कविना वर्ण्यते–
व्याख्या-`तथा’ इति=यथाभवतोक्तं तथैवास्तु, इति, राजवाहनः=राजहंससुतः, नमितोत्तमाङ्गेन=नमितं नतीकृतं उत्तमाङ्गं शिरः येन सः तेन तथोक्तेन, मातङ्गेन साकं=सह, निद्रापरतन्त्रं=सुषुप्तं, मित्रगणं=सखासमूहम्, विहाय=हित्वा, अर्धरात्रे=निशीथे, वनान्तरं=अपरं अरण्यम्, अवाप=प्राप्तः, तदनु=तत्पश्चात्, तदनुचराः=तस्य सेवकाः, कल्ये=प्रत्यूषे, साकल्येन=सर्वतोभावेन, राजकुमारं=राजवाहनम्, अनवलोकयन्तः=अनीक्षमाणाः, विषण्णहृदयाः=खिन्नमानसाः, तेषु-तेषु=तत्र-तत्र, वनेषु=काननेषु, सम्यक्=पूर्णतया, अन्विष्य=विशोध्य, अनवेक्षमाणाः=अनवलोकयन्तः, एतदन्वेषणमनीषया=राजवाहनगवेषणेच्छया, देशान्तरे=अपरदेशम्, चरिष्णवः=गन्तुकामाः, अतिसहिष्णवः=दुःखसहनशीलाः, निश्चितपुनःसंकेतस्थानाः=निश्चितं निर्णीतं संकेतस्थानं सम्मेलनस्थानम् यैस्ते तथोक्ताः, परस्परं=मिथः, वियुज्य=पृथग्भूय, ययुः=चलितवन्तः॥</2.13>
<2.14>लोकैकवीरेण …………………………तनुमलभत॥ 14 ॥
प्रसङ्गः-मातङ्गेन सह गते सति राजवाहने तदनुचराः तमन्वेष्टुं गताः। राजवाहनमातङ्गाभ्यां किमाचरितमिति वर्ण्यते।
व्याख्या-लोकैकवीरेण=एकश्चासौवीरः एकवीरः लोकेषु त्रिभुवनेषु एकवीरः अद्वितीयवीरः अतुलपराक्रमः तेन तादृशेन, कुमारेण=राजवाहनेन, रक्ष्यमाणः=गोप्यमानः, संतुष्टान्तरङ्गः=हृष्टहृदयः, मातङ्गः=किरातवेषधारी ब्राह्मणोऽपि, शशिशेखरकथिताभिज्ञानपरिज्ञातं=शङ्करेण उक्तं यत् लक्षणं तेन अवगतम्, विलं विवरम्, निःशङ्कं=निभर्यम्, यथा स्यात्तथा, प्रविश्य=गत्वा, गृहीतताम्रशासनः=गृहीतं स्वायत्तीकृतं ताम्रशासनं ताम्रपट्टम् येन सः तथोक्तः मातङ्गः, रसातलं=पातालम्, तेनैव=ताम्रपत्रवर्णितेनैव, पथा मार्गेण, उपेत्य=गत्वा, तत्र=पाताले, कस्यचित्=एकस्य, पत्तनस्य=नगरस्य, निकटे=समीपे, केलीकाननकासारस्य=क्रीडावनसरसः, विततसारसस्य=वितताः प्रसृताः सारसाः जलविहगविशेषाः यस्मिन् सः तस्य, समीपे=निकटे, नानाविधेन=बहुप्रकारेण, ईशशासनविधानोपपादितेन=भगवतः यत् शासनं तदेव विधानं आदेशविधिः तेन सम्पादितम् तेन तथोक्तेन, हविषा=होमद्रव्येण, होमं=आहुतिं, विरच्य=विधाय, प्रत्यूहपरिहारिणि=बाधानिवारके, राजवाहने, सविस्मयं, विलोकयति=पश्यति सति, समिदाज्यसमुज्वलिते=समिद्भिः आम्रादिदारुभिः आज्यैः घृतैः समुज्यलिते प्रदीप्ते, ज्वलने=पावके, पुण्यगेहं=सुकर्मफलाधारम्, देहं=शरीरम्, मन्त्रपूर्वकं=समन्त्रं यथा स्यात्तथा, आहुतीकृत्य=होमीकृत्य, तडितसमानकान्ति=विद्युत्तुल्यप्रभाम्, दिव्यां=स्वर्गीयां, तनुं=देहम्, अलभत=प्राप्तवान्॥
विशेषः-अनुप्रसयमकयोः छटा विलोकनीया॥</2.14>
<2.15>तदनु ……………………………अभाषत॥ 15 ॥
प्रसङ्गः-अग्नौ भूते सति भस्मीभूते दिव्यदेहं गते च मातङ्गे किमभूत्, वर्ण्यते–
व्याख्या-तदनु=तदनन्तरम्, मणिमयमण्डनमण्डलमण्डिता=मणिमयानां हीरकादिरत्नमयानां मण्डनानां अलङ्काराणां मण्डलैः समूहैः मण्डिता विभूषिता, सकललोकललनाकुलललामभूता=सकलस्य निखिलस्य लोकस्य ललनाकुलेषु स्त्रीसमुदायेषु ललामभूता मण्डनभूता शोभास्वरूपा, काचन=एका कन्यका=कुमारी, विनीतानेकसखीजनानुगम्यमाना=विनीतैः विनम्रैः अनेकसखीजनैः बहुसहचरीसमूहैः अनुगम्यमाना, कलहंसगत्या=कलहंसवत् गतिः गमनं तया हंसवद्गमनेन, शनैः=मन्दम्, आगत्य=अभ्युपेत्य, अवनिसुरोत्तमाय=भूसुखराय (मातङ्गाय), उज्जवलाकारं=दीप्तिपूर्णम्, एकम्, मणिं=महार्धरत्नम्, उपायनीकृत्य=उपहार रूपेण दत्वा, तेन=मातङ्गब्राह्मणेन, का त्वम् त्वं काऽसि, इति एवम्, पृष्टा=उक्ता, सोत्कण्ठा=सोत्सुका, कलकण्ठस्वनेन=मधुरस्वरेण, उदञ्जलिः-बद्धाञ्जलिः, मन्दं-मन्दं=शनैः शनैः अभाषत=उवाच॥
विशेषः-अत्रानुप्रासच्छटा हृदयहारिणी॥</2.15>
<2.16>भूसुरोत्तम ……………………………..अभाषत॥ 16 ॥
प्रसङ्गः-असुरराज कन्या कालिन्दी स्वकीयं वृत्तं मातङ्गं श्रावयति–
व्याख्या-भूसुरोत्तम=विप्रवर!, अहम्, असुरोत्तमनन्दिनी=राक्षसकश्रेष्ठस्य पुत्री, कालिन्दी, नाम=नाम्नी, मम=कालिन्द्याः,पिता=जनकः, अस्य लोकस्य=रसातलस्य, शाशिता=राजा, महानुभावः=महान् अनुभावः प्रभावो यस्य सः, निजपराक्रमासहिष्णुना=निजस्य स्वस्य पराक्रम एव वीरतायाः असहिष्णुः तेन तथोक्तेन, विष्णुना=हरिणा, दूरीकृतामरे=विजितदेवे, समरे=सग्रामे, यमनगरातिथिः=यमपुरनिवासी, अकारि=कृतः, तद्वियोगशोकसागरमग्नां=तस्य पितुः वियोगः विनाशः तस्मात् जातः यः शोक सः एव सागरः समुद्रः तत्र मग्ना तां तथोक्ताम्, मां=कन्यकाम्, अवेक्ष्य=प्रेक्ष्य, कोऽपि=कश्चित्, कारुणिकः-=दयालुः,सिद्धतापसः=सिद्धतपस्वी, अभाषत=कथितवान्॥</2.16>
<2.17>बाले ………………………………भवान् इति॥ 17 ॥
प्रसङ्गः-कालिन्दी स्वकीयं वृत्तान्तं कथयति–
व्याख्या-बाले! कन्यके! कश्चित्=एकः, दिव्यदेहधारी=स्वर्गीयशरीरधारि, मानवः=नरः, तव=कालिन्द्याः, नवः=नवीनः, वल्लभः=पतिः, भूत्वा सकलं=निखिलम्, रसातलं=पातालम्, पालयिष्यति=रक्षिष्यति, इति। तदा देशं=तस्य तपस्विनः आज्ञाम्, निशम्य=श्रुत्वा, घनशब्दोन्मुखी=घनस्य=जलदस्य शब्देन गर्जनेन उन्मुखी ऊर्ध्वमुखी, चातकी=सारङ्गी, वर्षागमनं=जलदागमकालस्य आगमनम्, इति, तव=भवतः, आलोकनकांक्षिणी=दर्शनाभिलाषिणी, चिरं=बहुसमयम्, अतिष्ठम्=अवसम्। मन्मनोरथफलायमानं=मम कालिन्द्याः मनोरथस्य अभिलाषस्य फलायमानं परिणामभूतम्, भवदागमनं=तव आगमनम्, अवगम्य=ज्ञात्वा, मद्राज्यावलम्बभूतामात्यानुमत्या=मत् मम राज्यस्य पुरुस्य अवलम्वभूतानां=सहायकीभृतानाम्, अमात्यानां=सचिवानाम् अनुमत्या अनुमोदनेन, मदनकृतसारथ्येन=मदनेन मन्मथेन कृतं विहतं सारथ्यं रथचालकत्वम् यस्य तत् तेन तथोक्तेन, मनसा=मानसेन, भवन्तं=श्रीमन्तम्, आगच्छम्=उपस्थिता। अस्य लोकस्य=रसातलदेशस्य, राजलक्ष्मीं=सौभाग्यश्रियम्, मां=कालिन्दीम्, स्वीकृत्य=परिणीय, तत्सपत्नीं=राजलक्ष्म्याःप्रतिपक्षरमणीम्, करोतु=विदधातु, भवान्=श्रीमान्, इति॥
विशेषः-नारी सहजसमर्पणवतीति सिद्धान्तमनुधावितम् कविवरेणेति॥</2.17>
<1.18>मातङ्गोऽपि ……………………………..आससाद॥ 18 ॥
प्रसङ्गः-मातङ्गस्य कालिन्द्या सह पिण्यः वर्ण्यते–
व्याख्या-मातङ्गोऽपि=दिव्यदेहमुपगतः किरातविप्रोऽपि, राजवाहनस्य, अनुमत्या=अनुमोदनेन, तां=कालिन्दीनाम्नीम्, तरुणीं=युवतीम्, परिणीय=विवाह्य, दिव्याङ्गनालाभेन=स्वर्गीयवनिताप्राप्त्या, हृष्टतरः=प्रमुदितः, रसातलराज्यं=असुरदेशम्, ऊरीकृत्य=अधिकृत्य, परमानन्दं=परप्रमोदम्, आससाद=प्रापः॥</1.18>
<1.19>वञ्चयित्वा ………………………………बभ्राम॥ 19 ॥
प्रसङ्गः-राजवाहनस्य रसातलात् प्रत्यागमनं निगद्यते–
व्याख्या-वयस्यगणं=सहचरसमूहम्, वञ्चयित्वा=अविज्ञाय, समागतः=पाताल प्राप्तः, राजवाहनः=राजहंससूनुः, तदवलोकनकौतूहलेन=तस्य वयस्य वर्गस्य दर्शनोत्कण्ठया, भुवं=मर्त्यलोकम्, गमिष्णुः=गमनाभिलाषी, कालिन्दीदत्तं=असुरकन्यकया निवेदितम्, क्षुत्पिपासादिक्लेशनाशनं=क्षुधा च पिपासा च ते आदी येषां क्लेशानां ते क्षुत्पिपासादयः क्लेशाः तेषां नाशनं=शामकम्, मणिं=रत्नम्, साहाय्यकरणसन्तुष्टात्=सहायताप्रदानेन तोषमुपगतात्, मातङ्गात्, लब्ध्वा=प्राप्य, कञ्चन=किञ्चिद्दूरम्, अध्वानं=मार्गम्, अनुवर्तमानं=अनुगच्छन्तम्, तं=मातङ्गम्, विसृज्य=विहाय, तेन=पूर्वपरिचितेन, विलपथेन=विवरमार्गेण, निर्ययौ=निरागच्छत्। तत्र च=भुवि, मित्रमण्डलं=सखावर्गम्, अनवलोक्य=अप्राप्य, भुवं=धरित्रीम्, बभ्राम=परिभ्रमितुमारब्धः॥</1.19>
<1.20>भ्रमंश्च …………………………….पस्पर्श॥ 20 ॥
व्याख्या-भ्रमन्=पर्यटन्, विशालोपशल्ये=विशालं विपुलं उपशल्यं ग्रामन्तः तस्मिन् विशालग्रमस्य समीपे, कमपि=एकम्, आक्रीडं=राज्ञः उपवनम्, आसाद्य=प्राप्य, तत्र=उपवने, (साधरणे वने) विशश्रमिषुरान्दोलिकारूढं=विशश्रमिषुः=विश्रामं कर्त्तुमिच्छुः, आन्दोलिकारूढं शिविकायां संस्थितम्, रमणीसहितम्=रमण्या तमण्या तरुण्या सहितं युक्तम्, आप्तजनपरिवृतं=आप्तजनैः आत्मीयजनैः परिवृतं परिवेष्टितम्, उद्याने=उपवने आक्रीडे, समागतम्; एकं=कश्चित्, पुरुषं=मनुष्यम्, अपश्यत्=दृष्टवान्। सोऽपि=शिविकारूढः पुरुषोऽपि, परमानन्देन=परमहर्षेण, पल्लवितचेताः=पल्लवितं प्रफुल्लितं चेतः चित्तं यस्यासौ प्रफुल्लचित्तः, विकसितवदनारविन्दः=प्रसन्नाननः, मम=मे, स्वामी=राजकुमारः, सोमकुलावतंसः=चन्द्रवंशमण्डनः, विशुद्धयशोनिधिः=विशुद्धानि च तानि यशांसि विशुद्धयशांसि तेषां निधिः कोशः, एषः=पुरोदृश्यमानः, राजवाहनः। महाभाग्यतया=भाग्ययोगेन, अकाण्डे=असमये, एव, अस्य=मम स्वामिनः, पादमूलं=चरणसन्निधिम्, गतवान्=प्राप्तवान्, अस्मि सम्प्रति=अधुना, महान्=परमः, नयनोत्सवः=लोचनानन्दः, जातः=प्राप्तः। इति=एवं विचार्य, ससम्भ्रमं=सहसा, आन्दोलिकायाः=शिविकायाः, अवतीर्य=बहिरागत्य, सरभसेन=रथसेन, शीघ्रतया सहितेन युक्तेन, पदविन्यासेन=प्रादप्रक्षेण, विलसतीति=विलासी, हर्षाणां उत्कर्षस्य चरितं भावः यस्य सः हर्षोत्कर्षचरितः, त्रिचतुरपदानि=त्रीणि चत्वारि वा त्रिचतुराणि पदानि, उद्गतस्य=प्रचलितस्य (राजवाहनस्य), चरणकमलयुगलं=पादाम्बुजद्वयम्, गलदुल्लसन् मल्लिकावलयेन=गलत् विनम्रीभवनेन भ्रश्यत्, उल्लसत्=विकसत् मल्लिकायाः तदाद्यपुष्पविशेषस्य वलयं=माल्यम् यस्मात् तेन तथाभूतेन, मौलिना उत्तमाङ्गेन, मस्तकेन, पस्पर्श=स्पृष्टवान्॥
विशेषः-मित्रयोः सम्मेलनं हर्षदमेव भवति। दण्डिनः सरलपदेष्वपि समासनिर्वाहः श्लाघ्यः॥</1.20>
<1.21>प्रमोदाश्रुपूर्णो ……………………………कथय’इति॥ 21 ॥
प्रसङ्गः-परस्परसम्मेलनात् समुपजातहर्षौ सोमदत्तराजवाहनौ वर्ण्यते।
व्याख्या-प्रमोदाश्रुपूर्णः=प्रमोदस्य आनन्दस्य अश्रुभिः वाष्पैः पूर्णः परिप्लुतः, राजा=राजवाहनः, पुलकिताङ्गं=रोमाञ्चितावयवम्, तं=व्यक्तिम्, गाढं=निर्भरम्, आलिङ्ग्य=उपगुह्य, `अये! सौम्य=प्रिय!, सोमदत्त! इति एवम् व्याजहार=अकथयत्। ततः=तत्पश्चात्, कस्यापि=एकस्य, पुन्नागभूरुहस्य=नागकेशरतरोः, छायाशीतले=छायया शीतले शिशिरे तले=अधःप्रदेशे, संविष्टेन=आसीनेन, मनुजनाथेन राज्ञा राजवाहनेन, सप्रणयं=सानुरागम्, अभाणि=उक्तः, सखे=सुहृद! एतावन्तं, कालं=समयम्, कस्मिन्=कुत्र, देशे=स्थआनविशेषे’केन प्रकारेण=कथम्, भवता=त्वया, अस्थायि=स्थितम्, सम्प्रति=अधुना, कुत्र=क्व, गम्यते=व्रज्यते, इयं साकंचरा, तरुणी=युवती, का?, एषः, परिजनः=सेवकसमूहः, कथं=प्रकारेम, सम्पादितः=प्राप्तः, कथय=वद इति॥</1.21>
<1.22>सोऽपि ……………………………अवोचन॥ 22 ॥
प्रसङ्गः-राजवाहनस्य जिज्ञासां शमयितुं सोमदत्तो व्याहरति–
व्याख्या-सोऽपि=सोमदत्तोऽपि, मित्रसंदर्शनव्यतिकरापगतचिन्ताज्वरातिशयः=मित्रस्य सुहृदः संदर्शनं सम्मेलनम्, तस्य व्यतिकरः व्यापारः तेन अपगतः शन्तः, चिन्ताज्वरस्य=कुविचारसंतापस्य, अतिशयः=अतिरेकः, यस्मात् सः, तथोक्तः, मुकुलितकरकमलः=मुकिलितं आबद्धं करकमलं=पाणिपाथोजम्, येन सः तथोक्तः, बद्धाञ्जलिः, सविनयं=विनयेन सहितं यथा स्यात्तथा, आत्मीयप्रचारप्रकारं=आत्मनः अयं आत्मीयः, नैजः यः प्रचारः पर्यटनम्, तस्य प्रकारः प्रभेदः त तथोक्तम्, अवोचत्=अवदत्॥</1.22>
॥ इति श्रीदण्डिविरचितदशकुमारचरितस्य पूर्वपीठिकायाः द्वितीयोच्छ्वासस्य त्रिपाठीयमुनेशचातकेन कृता `प्रदीपिका’ संस्कृतव्याख्या ॥
३
.
॥ तृतीयोच्छ्वासः ॥
<3.1>देव …………………………अगच्छम्॥ 1 ॥
प्रसङ्गः-सोमदत्तः राजवाहनं स्वकीयं वृत्तान्तं श्रावयन् आह–
व्याख्या-देव!=नाथ! भगवच्चरणकमलसेवाभिलाषीभूतः=भवतः=देवस्य चरणकमलयोः पादाम्बुजयोः सेवायां परिचर्यायाम् अभिलाषीभूतः सकामः, अहं=सोमदत्तः, भ्रमन्=परिचरन्, एकस्यां=कस्याञ्चित्, वनावनौ=वने, पिपासाकुलः=तृषार्त्तः, लतापरिवृतं=वल्लरीभिः परिवेष्टितम्, शीतलं=शिशिरम्, नदसलिलं=अर्णवजलम्, पिबन्=आस्वाद्यमानः, उज्जलाकरारं=विभासमानम्, तत्र=तस्मिन् स्थाने, एकम्, रत्नं=मणिम्, अद्राक्षम्=विलोकितवान्। तत्=रत्नम्, आदाय=प्रगृह्य, कञ्चन=कियन्तम्, अध्वानं=पथम्, गत्वा=यात्वा, अम्बरमणेः=रवेः, अत्युष्णतया=तापेन, गन्तुं=चलितुम्, अक्षमः=असमर्थः, अस्मिन्नेव=अत्रैव, वने=कानने, किमपि=एकम्, देवतायतनं=देवालयम्, प्रविष्टः=गतः, दीनाननं=विवर्णास्यम्, बहुतनयसमेतं=बहुभिः तनयैः पुत्रैः समेतं युक्तम्, एकम्=कञ्चित्, स्थविरं=वृद्धम्, महीसुरं=भूदेवम्, अवलोक्य=वीक्ष्य, उदितदयः=उदिता प्रादुर्भूता दया सहानुभूतिः यस्य सः तादृशः, अहं=सोमदत्तः भवतः मित्रम्, कुशलं=कल्याणम्, अपृच्छम्=पृष्टवान्॥
विशेषः-विपन्नस्य साहाय्यं कर्त्तव्यमिति भावना प्रकरणेनानेन विबोधिता कविनेति॥</3.1>
<3.2>कार्पण्य ………………………………….अस्मिन् इति॥ 2 ॥
प्रसङ्गः-विषण्णवदनो वृद्धब्राह्मणः स्वकीयं वृत्तान्तं सोमदत्तं कथयति–
व्याख्याःकार्पण्यविवर्णवदनः=कार्पण्येन दैन्यभावेन विवर्ण शुष्कं वदनं मुखमण्डलम् यस्य सः तथोक्तः, महदाशापूर्णमानसः=महत्या अधिकया आशया अभीप्सया पूर्णं मानसं हृदयं यस्य सः तथोक्तः, अग्रजन्मा=विप्रः, अवोचत्=अब्रवीत्, महाभाग!=महान् विशदः भागं अंश यस्य सः तत्सम्बुद्धौ महाभाग! महाशय!, एतान्=इमान् मातृहीनान्=जननीविरहितान्, सुतान्=पुत्रान्, अनेकैः=बहुभिः, उपायैः=साधनैः, रक्षन्=पालयन्, इदानीं=अस्मिन् समये, अस्मिन्=अत्र, कुदेशे=कानने, भैक्ष्यं=याचनावृत्तिम्, सम्पाद्य=कृत्वा, एतेभ्यः=सुतेभ्यः, ददत्=अर्पयत्, अस्मिन्, शिवालये=शिवमन्दिरे, वसामि=निवासं करोमि इति॥
विशेषः-निर्धनः कीदृशोऽनुतापोऽनुभूयत इति दर्शितम्॥</3.2>
<3.3>भूदेव ………………………….अकारयत्॥ 3 ॥
प्रसङ्गः-वृद्धब्राह्मणं पृच्छति सोमदत्तः–
व्याख्या-भूदेवः=भूसुरः, एतत्कटकाधिपतिः-एतस्य=पुरोदृश्यमानस्य, कटकस्य=सेनाशिविरस्य, अधिपतिः=स्वामी, कस्य देशस्य=भूभागस्य, राजा=भूपः, किं नामधेयः=तस्य किं नाम?, अस्य=अमुष्य राज्ञः, अत्र=प्रदेशे, आगमनस्य, किं, कारणं=हेतुः, इति पृष्टः=उक्तः, महीसुरः=ब्राह्मणः, अभाषत=अवोचत्=`सोम्य! भद्र!, मत्तकालो नाम=मत्तकालाख्यः, लाटेश्वरः=लाटदेशस्य राजा, अस्य=अमुष्य, देशस्य=भूभगस्य, पालयितुः=शासकस्य, वीरकेतोः, तनयां=तनुजाम्, वामलोचनां नाम=तन्नाम्नीम्, असमानलावण्यं=अद्वितीयसौन्दर्यम्, तरुणीरत्नं=नारीषु श्रेष्ठाम्, नारीरत्नम्, श्रावं-श्रावं=पुनः पुनः श्रुत्वा, अवधूतदुहितप्रार्थनस्य=अवधूता तिरस्कृता कन्यायाः तनयायाः प्रार्थना याचना येन सः तस्य तथोक्तस्य, तस्य=वीरकेतोः, नगरीं=राजधानीम्, अरोत्सीत्=रुरुध। भीतः=भयाक्रान्तः, वीरकेतुः=राजा, अपि, महदुपायनमिव=बहुमूल्यमुपहारमिव, तनयां=कन्याम्, मत्तकालाय=लाटाधिपतये, अदात्=समर्पितवान्। तरुणीलाभदृष्टचेताः=तरुण्याः युवत्याः लाभेन उपलब्ध्या दृष्टं हर्षितं चेत मनः यस्य सः तथोक्तः, लाटपतिः=लाटेश्वरः निजपुरे=स्वराज्ये, एव, परिणेया=विवाहनीया, इति=इत्थम्, निश्चित्य=निश्चयं कृत्वा, निजदेशे=स्वपुरम्, प्रति, गच्छन्=व्रजन्, सम्प्रति=साम्प्रतम्, मृगयादरेण=मृगयायाः आखेटस्य आदरेण, कामनया, अत्र=अस्मिन्, वने=अरण्ये, सैन्यावासं=कटकम्, अकारयत्=स्थापयामास॥
विशेषः-अत्र तात्कालीनां राज्ञां दारापहरणप्रवृत्तिः सन्निवेशिता कविन दण्डिना देशकालज्ञेन॥</3.3>
<3.4>कन्यासारेण ………………………….अन्तर्विभेद इति॥ 4 ॥
प्रसङ्गः-कटकस्य स्थितिं वर्णयन्नाह वृद्धः-
व्याख्या-कन्यासारेण=कन्यापुत्री एव सारः अर्थः यस्य तेन तनयाधनेन, (वीरकेतुना) नियुक्तः नियोजितः, मानपालोनाम, वीरकेतुमन्त्री=वीरकेतोः सचिवः, मानधनः=स्वाभिमानी, चतुरङ्गबलसमन्वितः-चतुरङ्गं=हस्त्यश्व रथपदातिसमन्वितं, बलं=सैन्यम्, यस्य सः तेन तथोक्तेन समन्वितः सहितः, अन्यत्र=लाटाधिपतेः अन्यस्थाने, रचितशिविरः=कृतकटकः, निजनाथस्य=स्वराज्ञः, अवमानेन=अपमानेन, खिन्नं=दुःखितम्, मानसं=हृदयम्, यस्य सः तथोक्तः, तं=लाटदेशाधिपम्, अन्तर्विभेद=राजा सैन्ययोः मध्ये द्वन्द्वमुद्बोधयितुं सन्नद्धो बभूव॥</3.4>
<3.5>विप्रोऽसौ ……………………..इत्यदर्शयत्॥ 5 ॥
प्रसङ्गः-सोमदत्तः राजवाहनं वृद्धब्राह्मणस्य वृत्तान्तं श्रावयित्वा स्वतःकृतमाचरणं कथयति–
व्याख्या=असौ=अयम्, विप्रः=द्विजः, बहुतनयः=अनेकपुत्रः, विद्वान्=विद्याविभूषितः, निर्धनः=दरिद्रः, स्थविरश्च=जराग्रस्तश्च, अस्ति,(अतः) दानयोग्यः=दानपात्रम्, इति=एवं विचिन्त्य, तस्मै=ब्राह्मणाय, करुणापूर्णमनाः=दयाभिभ्तमानसः, (अहम्) रत्नं=मणिम्, अदाय=समर्पितवान्। परमाह्लादविकसिताननः=परमाह्लादेन परमोल्लासेन विकसितं उल्लसितं आननं=मुखम् यस्य सः तथोक्तः, अभिहितानेकाशीः=दत्तागणिताशीर्वादः, अग्रजन्मा=विप्रः, कुत्रचित्=अज्ञातस्थानम्, जगाम=गतवान्। अध्वश्रमखिन्नेन=अध्वनि पथि यः श्रमः आयासः तेन खिन्नः आयासितः तेन तथोक्तेन, मया=सोमदत्तेन, तत्र=देवमन्दिरे, निद्रासुखं=शयनानन्दम्, निरवेशि=अन्वभावि। तदनु=तत्पश्चात्, पश्चात्=पृष्ठदेशे निगडितं=बद्धं बाहुयुगलं=करद्वयं यस्य सः तथाभूतः, सः=पूर्वदृष्टः, भूसुरः=विप्रः, कशाघातचिह्निगात्रः=कशाघातेन=वेत्रप्रहरणेन चिह्नितं अङ्कितं गात्रं शरीरं यस्य सः तथोक्तः, अनेकनैस्त्रिंशिकानुयातः=अनेकैः=बहुसंख्यकैः नैस्त्रिंशिकैः सशस्त्रजनैः अनुयातः अनुगतः, अभ्येत्य=आगत्य, माम्=सोमदत्तम्, असौ=अयम्, (संकेतेन) दस्युः=चौरः, इति अदर्शयत्=दर्शितवान्॥</3.5>
<3.6>परित्यक्तभूसुराः ……………………….किमिदमिति॥ 6 ॥
प्रसङ्गः-सोमदत्तः स्वकीयं संकटवृत्तान्तं कथयति–
व्याख्या-परित्यक्तभूसुरः=परित्यक्तः विमुक्तः भूसुरः विप्रः यैः ते तथोक्वातः, राजभटाः=राजपुरुषाः, मदुक्तं=मया प्रोक्तम्, रत्नवाप्तिप्रकारं=मणिप्राप्तिविधिम्, अनाकर्ण्य=अनादृत्य, भयरहितं=निर्भयं, मां=सोमदत्तम्, रज्जुभिः बन्धनैः, गाढं=दृढतापूर्वकम्, नियम्य=निगडीकृत्य, कारागारं=बन्धनगृहम्, एते=कारागृहस्थाः, तव=भवतः, सखायः=सहवासिनः' इति, कांश्चित्=बहून्, निगडितान्=निबद्धान्, निर्दिष्टवन्तः=दर्शितवन्तः, मां=सोमदत्तम् अपि, निगडितचरणयुगलं=संयमितपादद्वयम्, आकार्षुः=कृतवन्तः। कि कर्त्तव्यतामूढेन=किं कर्त्तव्यतायां मूढः अज्ञः तेन तथाभूतेन, निराशक्लेशानुभवेन=हताशदुःखानुभवेन, मया=सोमदत्तेन, अवाचि=भाषितम्,-ननु वीर्यपुरुषः=पराक्रमेण कठोराः, पुरुषाः=भटाः! केन, निमित्तेन=कारणेन, दुस्तरं=कठिनम्, कारावासदुःखं=बन्धगृहक्लेशम्, निविशथ=अनुभवथ। यूयं भवन्तः, वयस्याः मित्राणि(सखायः)इति=एवम्, एतैः=राजभटैः, निर्दिष्टम्=संकेतितम्, इद किम् अस्य कथनस्य किं तात्पर्यम्। इति॥</3.6>
<3.7>प्रसङ्गः-ते कारागारस्थाः बन्दिनः स्वकीयं वृत्तान्तं सोमदत्तं श्रावयन् वदन्ति–
व्याख्या-तथविधं=बन्दीभूतम्, मां=सोमदत्तम्, अवेक्ष्य=विलोक्य, भूसूरात्=विप्रात् मया=सोमदत्तेन, श्रुतं=आकर्णितम्, ललाटपतिवृत्तान्तं=ललाटेश्व स्य समाचारम्, व्याख्याय=विस्तरेण ब्याहृत्य, चोरवीराः=चोरश्चासौ वीरः चोरवीरः ते, पुनः-भूयः, अवोचन्=कथितवन्तः, महाभाग!=महाशय!, वयम्=बन्दिनः, वीरकेतुमन्त्रिणः=वीरकेतोः अमात्यस्य, मानपालस्य, किङ्करा=सेवकाः। तदाज्ञया=मानपालस्य आदेशेन, लाटेश्वरमारणाय=लाटाधिपतिम्, हन्तुम्, रात्रौ=रजन्यायम्, सुरङ्गद्वारेण=गुप्तमार्गेण, तदागारं=लाटेश्वरस्य भवनं, प्रविश्य=गत्वा, तत्र=भवने, राजाभावेन=ललाटपतेः, अवर्तमानतया, विषण्णाः=दुःखिताः, वयम्, बहुधनं=अधिकं सारम्, आहृत्य=समादाय, महाटवीं=घोरारण्यम्, प्रविशाम=प्रविष्टाः। अपरेद्युश्च=अन्यस्मिन् दिवसे, पदान्वेषिणः=चरणचिन्हं विलोकयन्तः बहवः=असंख्याः, राजानुचराः=नृपस्य किङ्कराः, अभ्येत्य=आगत्य, धृतधनचयान्=धृतः स्वायत्तीकृतः धनानां=वसूनाम्, चयः=राशिः यैस्ते तान्, अस्मान्=चोरवीरान्, परितः=समन्तात्, परिवृत्य=परिवेष्ट्य, दृढतरं प्रगाढतरम्, बद्ध्वा=निगडीकृत्य, निकटं=समीपम्, आनीय=उपस्थितान् कृत्वा, समस्तवस्तुशोधनवेलायाम्=समस्तानां सम्पूर्णानां वस्तूनां धनानाम्, शोधनवेलायाम् निरीक्षणसमये, एकस्य=कस्यचित्, अनर्घ्यरत्नस्य=अमूल्यमणेः, अभावेन=अप्राप्तया, अस्मद्वधाय=अस्माकम् निगडीकर-णाय, मणिक्यादानात्=रत्नसमर्पणार्थम्, अस्मान्=चौरवीरान्, अशृङ्खलयन्=शृङ्खलाभिः निगडीकृतवन्तः॥</3.7>
<3.8>श्रुतरत्न ……………………………..आर्चयत्॥ 8 ॥
प्रसङ्गः-तेषां चौरवीराणां कथां श्रुत्वा सोमदत्तेन किमाचरितमिति तेन निरूप्यते–
व्याख्या-श्रुतरत्नरत्नावलोकनस्थानः-श्रुतं ज्ञातं रत्नरत्नस्य=बहुमूल्यमणेः अवलोकनस्थानं निरीक्षणस्थानम् येन सः तथोक्तः, अहं=सामदत्तः, इदं=मया तद्वृद्धविप्राय दत्तम्, माणिक्यं=रत्नम्, तदेव=लाटेश्वरभवनान्नीतमेव चौरेः, इति=एवम्, निश्चित्य=निर्णीय, भूदेवदाननिमित्तां=भूदेवस्य भूसुरस्य दानं निमित्तं कारणं यस्याः सा ताम्, दुरवस्थां=दुर्दशाम्, आत्नः=स्वस्य, जन्म=प्रभवम्, नामधेयं=संज्ञाम्, युष्मत्=तव, अन्वेषणपर्यटनप्रकारं=अन्वेषणाय मार्गणाय पर्यटनस्य भ्रमणस्य प्रकारं=विधिम् च आभाष्य=कथयित्वा, समयोचितैः=कालानुकूलैः, संलापैः=वार्ताभिः मंत्रीम्=सौहार्दम्, अकार्यम्=कृतवान। ततः=तदनु, अर्धरात्रे=निशीथं तेषां=चौरवीराणाम्, मम=सोमदत्तस्य च, शृङ्खलाबन्धनं=निगडरज्जुम्, निर्भिद्य=छिन्द्य, तैः=चोरवीरैः, अनुगम्यमानः=अनुकार्यमाणः, निद्रितस्य=स्वापंगतस्य, द्वाः स्थगणस्य=दौवारिकसमूहस्य, आयुधजालं=शस्त्रसंकलनम्, आदाय=गृहीत्वा, पुरतः=ममाग्रतः, अभिमुखगतानां=संमुखागतानाम्, पुररक्षान्=नगररक्षकान्, पटपराक्रमलीलया=पटुः दक्षा या पराक्रमलीला वीरताविधिः तया निजवीरतया, अभिद्राव्य=अतिक्रम्य, मानपालशिविरं=मानपालस्य कटकम्, प्राविशम्=प्रविष्ट! मानपालः, निजकिंकरेभ्यः=निजसेवकेभ्यः, मम=सोमदत्तस्य, कुलाभिमानवृत्तान्तं=वंशगौरवकथाम्, तत्कालीनं=सामर्थिकम्, विक्रमं=पराक्रमम्, च, निशम्य=श्रुत्वा, मां=सोमदत्तम्, आर्चयत्=सत्कृतवान्॥
विशेषः-अत्र बुद्धिर्यस्य बलं तस्य इति सिद्धान्तः प्रतिपादितः॥</3.8>
<3.9>परेद्युः ………………………………प्राहरम्॥ 9 ॥
प्रसङ्गः-मत्तकालस्य बन्दीगृहात् पलाय्य मानपालस्य शिविरं प्राप्ते सति किमभूदिति वर्ण्यते सोमदत्तेन।
व्याख्या-परेद्युः=अन्येद्युः, मत्तकालेन=लाटेश्वरेम, प्रेषिताः=प्रहिताः, केचन=कतिचन, पुरुषा-=सैनिकाः, मानपालम्, उपेत्य=प्राप्य, मन्त्रिन्! मदीयराजमन्दिरे=मदीयस्य राज्ञः लाटेश्वरस्य मन्दिरे भवने, सुरङ्गया=गुप्तमार्गेण, बहुधनं=प्रचुरं द्रव्यम्, अपहृद्य=चोरयित्वा, चोरवीराः=दक्षाः चौराः, भवदीयं=त्वदीयम्, कटकं=शिविरम्, प्रविशन्=प्रविष्टाः, तान्=चोरवीरान्, अर्पय=देहि। नो चेत्=अन्यथा, महानर्थः=महती हानिः, भविष्यति। इति=एवम्, क्रूरतरं=विकष्टतरम्, वाक्यं=वचनम्, अब्रुवन्=उक्तवन्तः। तदाकर्ण्य=तेषां कथनं श्रुत्वा, रोषारुणितनेत्रः=रोषेण क्रोधेन अरुणिते शोणिते नेत्रे नयने यस्य सः, मन्त्रो=अमात्यः (मानपालः), कः लाटपतिः=किं नामधेयो कुत्रत्यः लाटपतिः?, तेन=ललाटपतिना, का मैत्री=कीदृसी मित्रता?, अस्य=ललाटेश्वरस्य, वराकस्य=अधमस्य, सेवया=सपर्यया, पुनः किं लभ्यम्=किं प्रयोजनम्, इति एतादृशैः परुषवाक्यैः, तान्=समागतराजपुरुषान्, निरभर्त्सयत्=कुत्सितवान् ते च=राजपुरुषाः च, मानपालेनोक्तं=मानपालेन भणितम्, विप्रलापं=कटुकथनम्, मत्तकालाय=लाटाधिपाय, तथैव=यथा तेन कथितम्, तदवत्, अकथयन्=उक्तवन्तः। कुपितः=क्रोधितः, अपि, लाटपतिः=मत्तकालः, दोर्वीर्यगर्वेण-दोषोः=बाह्वीः वीर्य=बलम् तस्य गर्वेण दर्पेण, अल्पसैनिकसमेतः=न्यूनसैन्यसहितः, योद्धुम्=युद्धाय, अभ्यगात्=प्रचलितवान्। पूर्वमेव=कटुवचनकथनकाले एव, कृतरणनिश्चयः=कृतयुद्धनिर्णयः, मानी=स्वाभिमानो, मानपालः, संनद्धयोधः=संनद्धाः तत्पराः योधाः वीरा यस्य सः, तथाभूतः, युद्धकामो=युद्धाभिलाषी, भूत्वा, निःशङ्कम्=निःसन्देहं, यथा स्यात्तथा, निरगात्=प्रस्थितोऽभूत्। अहमपि=सोमदत्तोऽपि, सबहुमानं=मानेन सहितम् यथा स्यात्तथा, मन्त्रिदत्तानि=मन्त्रिणा अर्पितानि, बहुलतुरङ्गमोपेतं=बहुलैः अत्यधिकैः तुरङ्गमैः अश्वैः उपेतं युक्तम्, चतुरसारथिम्=चतुरः दक्षः सारथिः रथचालकः यस्य सः तम् तथोक्तम्, रथं=स्यन्दनम्, दृढतरं=अच्छेद्यम्, कवचं=तनुत्रम्, मदनुरूपं=मम योग्यम्, चापं=धनुः, विविधबाणपूर्णं=विविधैः नानाभिः बाणैः शरैः पूर्णं भृतम् तूणीरद्वयं=तरकषद्वयम्, च, रणसमुचितानि=युद्धयोग्यानि, आयुधानि=अस्त्राणि, गृहीत्वा=नीत्वा, युद्धसन्नद्धः=युद्धाय तत्परः, मदीयबलविश्वासेन=मम पराक्रमस्य विश्वासेन, रिपूद्धरणोद्युक्तं-रिपूणां=अरीणाम् उद्धरणे विनाशे, उद्युक्त=सन्नद्धम्, मन्त्रिणं=अमात्यं मानपालम्, अन्वगाम=पृष्ठतः भूत्वा अगच्छम्। परस्परमत्सरेण=एकैकस्य विद्वेषेण, तुमुलसंगरकरम्=घोरयुद्धकरम्, उभयसैन्य=मानपालमत्तकालयोः सेनाप्रमुखम्, अतिक्रम्य=उल्लंघ्य, समुल्लसद्भुजाटोपेन=समुल्लसतोः वृद्धिं व्रजतोः भुजयोः=बाह्वोः आटोपेन=दर्पेण, तदङ्गे=रिपूणां सैन्यं, बाणवृष्टिं=शरप्रक्षेपणम्, विमुञ्चन्=कुर्वन्, अरातीन्=रिपून्, प्राहरम्=अताडयम्॥</3.9>
<1.10>ततो ………………………….अकार्षीत्॥ 10 ॥
प्रसङ्गः-मानपाललाटपत्योर्मध्ये भवन्त युद्धं स्वता च कृतं संघर्ष वर्णयन्नाह सोमदत्तः।
व्याख्या-ततः=तत्पश्चात्, अतिरयतुरङ्गमं=अतिरयाः प्रवेगाः तुरङ्गमाः वाजिनः यस्मिन् स तं तथोक्तम्, मद्रथं=मम स्यन्दनम्, तन्निकटं=ललाटपतेः समीपम्, नीत्वा=प्राप्यय शीघ्रलङ्घनोपेततदीयरथः-शीघ्रं=अरं यल्लङ्घनं अतिक्रमणं तेन उपेतः प्राप्तः तदीयः ललाटपतेः रथः स्यन्दनं येन सः तथोक्तः, अहं=सोमदत्तः, अरातेः=रिपोः, शिरः कर्तनम्=मस्तकस्य छेदनम्, अकार्षम्=अकरवम्,। तस्मिन्=लाटपतौ, पतिते=स्यन्दनाद् भ्रष्टे, सति, तदवशिष्टसैनिकेषु=तस्य लाटेश्वरस्य अविशिष्टेषु=जीवितेषु सैनिकेषु भटेषु पलायितेषु विशृंखलीभूतेषु सत्सु, नानाविधं बहुप्रकारकं हयाश्च गजाश्च आदौ येषां वस्तूनां तानि हयगजवस्तूनि तेषां जातं समूहं, आदाय=नीत्वा, परमानन्दसंभृतः=परप्रमोदपूर्णः, मन्त्री=अमात्यः (मानपालः) मम=सोमदत्तस्य, अनेकविधां नानाविधाम्, संभावनां=बहुमानम्, अकार्षीत्=अकरोत्॥</1.10>
<1.11>मानपालप्रेषितात् ……………………….लब्धः इति॥ 11 ॥
प्रसङ्गः-स्वता, युद्धे व्यापादिते सति लादेश्वरे तस्य सैन्ये पलायिते च सति किमभूत् वर्णयन्नाह सोमदत्तः-
व्याख्या-मानपालप्रेषितात्=मानपालेन अमात्येन प्रेषितात् प्रेरितात्, तदनुचरात्=मानपालस्य सेवकात्, एनं=पूर्वोक्तम्, अखिलं=सम्पूर्णम्, उदन्त जातं=घटनासमूहम्, आकर्ण्य=श्रुत्वा, सन्तुष्टमनाः प्रसन्नचेताः, राजा=वीरकेतुः, अभ्युद्गतः=अग्रे आगत्य, मदीयपराक्रमे=मम शौर्ये, विस्मयमानः=आश्चर्यचकितः, समहोत्सवं=महांश्चासो उत्सवः चेतिमहोत्सवः तेन सहितम्, अमात्यबान्धवानुमत्या=अमात्यानां सचिवानां बान्धवानां=पारिवारिकाणां च अनुमत्या अनुमोदनेन, शुभदिनै=मंगलमुहूर्ते, निजतनयां=स्वकीयकन्याम्, मह्यां=मदर्थे, अदात्=समर्पितवान्। ततः=तदनन्तरम्, यौवराज्याभिषिक्तः=युवा चासौ राजा युवराज युवराजस्य भावः यौवराज्यम्, तस्मिन् अभिषिक्तः=नियुक्तः=यौवराज्याभिषिक्तः, अहं=सोमदत्तः, अनुदिन्=प्रतिवासरम्, आराधितमहीपालचत्तः=आराधितं संतोषितं (विनयार्जवेन) महीपालस्य वीरकेतोः चित्तं मनो येन सः तथोक्तः, अनया=साकंचर्या, वामलोचनया=रमण्या, सह, नानाविधं=बहुप्रकारम्, सौख्यं=मोदम्, अनुभवम्=उपभुज्यमानः, भवद्विरहवेदनाशल्यसुलभवैकल्यः=भवतः श्रीमतः वियोगेन विरहेण या वेदना पीडा सा एव शल्य शङ्कुः तेन सुलभं प्राप्तं वैकल्यं उद्वेगः यत्र तादृशं हृदयं यस्य सः तथोक्तः, अहम्, सिद्दादेशेन=योगिनः आज्ञया, सुहृज्जनावलोकनफलं=सुहृज्जनस्य मित्रस्य (तव) अवलोकनं सम्मेलनं फलं यत्र सः त तथोक्तं, प्रदेशं=भूभागम्, महाकालनिवासिनः=उज्जयिन्यां वर्तमानस्य, परमेश्वरस्य=शङ्करस्य, आराधनाय=अर्चनाय, अद्य=साम्प्रतम्, पत्नीसमेतः=पत्न्या गृहिण्या युक्तः, समागत-=प्राप्तः, अस्मि। भक्तवत्सलस्य=दासेषु दयालोः, गौरीपतेः उमेशस्य, कारुण्येन=दयया, त्वत्पदारविन्दसंदर्शनानन्दसंदोहः=त्वत् तव पदारविन्दयोः चरणाम्बुजयोः संदर्शनेन प्रविलोकनेन यः आनन्दः तस्य सन्दोहः प्रकरः मया=सोमदत्तेन (भवतः मित्रेण) लब्धः=प्राप्तः॥
विशेषः-अत्र कवेः ईश्वरविषयको विश्वासः धर्मनिष्ठा च व्यज्यते। मित्रयोः सम्मेलनमेवानन्दः इत्यपि सूचितम्॥</1.11>
<1.12>तन्निशम्य ………………………….दर्शयामास॥ 12 ॥
प्रसङ्गः-सोमदत्तस्य सर्व वृत्तान्तं श्रुत्वा राजवाहनस्य हर्षः पुष्पोद्भवस्य च आगमनम् वर्ण्येते।
व्याख्या-तन्निशम्य=सोमदत्तेन वर्णितं वृत्तान्तम्, श्रुत्वा, अभिनन्दितपराक्रमः=अभिनन्दितः प्रशंसितः (सोमदत्तस्य) पराक्रमः शौर्यम्येन सः तथोक्तः, राजवाहनः=राजहंसस्य पुत्रः, (युवराजः) तन्निरपराधदण्डे=तस्य=सोमदत्तस्य निरपराधस्य निर्दोषस्य दण्डे यातनायाम्, दैवम्=भाग्यम्, उपालभ्य=निन्द्य, तस्मै=सोमदत्ताय, क्रमेण=क्रमशः, आत्मचरितं=स्वकीयं वृत्तान्तम्, कथयामास=अव्याहरत्। तस्मिन्नवसरे=तत्क्षणे, पुरतः=समक्षम्, पुष्पोद्भवं=रत्नोद्भवस्य तनयम्, विलोक्य=प्रेक्ष्य, ससम्भ्रमं=साश्चर्यम्, निजनिटिलतटस्पृष्टचरणाङ्गलिम्=निजेन स्वीयेन निटिलतटेन मस्तकाग्रेण स्पृष्टाः संसक्ताः चरणाङ्गुलयः=पादाङ्गुलयः, येन सः तं तथोक्तम्, उदञ्जलिम्=बद्धाजलिम्, अमुं=सम्मुखस्थम्, (पुष्पोद्भवम्) संकुलसंफुल्ललोचनः=आनन्दभाष्पेण हर्षाश्रुणा संकुले व्याप्ते संफुल्ले विकसिते लोचने नयने यस्य सः तथोक्तः, (राजवाहनः) `सौम्य!=भद्र!, सोमदत्त! अयं=एषः पुरो वर्तमानः, सः=पूर्वपरिचितः, पुष्पोद्भवः=रत्नोद्भवसुतः इति, तस्मै=सोमदत्ताय, तं=पुष्पोद्भवम्, दर्शयामास=दर्शितवान्॥</1.12>
<1.13>तौ च ………………………….अलपत्॥ 13 ॥
प्रसङ्गः-राजवाहनस्य सोमदत्तपुष्पोद्भवयोश्च मिथः सम्मेलनम् वर्णयति कविः।
व्याख्या-तौ=सोमदत्तपुष्पोद्भवौ, च, चिरविरहदुःखं=दीर्घवियोगव्यथाम्, विसृज्य=विस्मार्य, अन्योन्यस्य=परस्परस्य, आलिङ्गनसुखं=आलिङ्गनेन उपसूहेनेन यत् सुखं आनन्दः तत्, अन्वभूताम्=प्राप्तवन्तः। ततः=सम्मेलनालिङ्गनान्तरम्, तस्यैव=तत्र वर्तमानस्यैव, महीरुहस्य=भूरुहस्य, छायायां=अधस्तले प्रश्रये वा उपविश्य=स्थितिं कृत्वा, राजा=राजवाहनः, सादरहासं=आदरेणसहितः सादरः सादरः हासो यत्र तत् सादरहासम्, अभाषत=अव्रवीत्-वयस्य! मित्र!, भूसुरकार्य=विप्रकार्यम्, करिष्णुः=कर्त्तु शीलः, अहं=राजवाहनः, मित्र गणः=सखामण्डलम्, विदितार्थः=ज्ञातोदेश्यः, सर्वथा=सर्वप्रकारेण, अन्तरायं=विघ्नम्, करिष्यति=पातयिष्यति, इति विचार्य, निद्रितान्=सुप्तान्, भवतः=युष्मान्, परित्यज्य=विहाय, निरगाम्=अगच्छम्। तदनु=ततः परम्, प्रबुद्धः=जाग्रतः वयस्यवर्गः=मित्रसमूहः, किमित, निश्चित्य=विचार्य, मदन्वेषणाय=मम मार्गणाय, कुत्र, गतवान्=अगच्छत्। एकाकी=एकलः, मदन्वेषणाय=मम मार्गणाय, कुत्र, गतवान्=अगच्छत्। एकाकी=एकलः, भवान्,=त्वम्, कुत्र, गतः=प्राप्तः इति। सोऽपि=पुष्पोद्भवोऽपि, ललाटतटचुम्बदञ्जलिपुटः=ललाटतटं भालाग्रभागं चुम्बत् स्पृशत् अञ्जलिपुटं पाणिपुटं यस्य सः तथोक्तः, सविनयेन=विनयेन सहितं यथा स्यात्तथा, अलपत्=वक्तुमारब्धः॥</1.13>
॥ इति दण्दिप्रणीतदशकुमारचरितस्य पूर्वपीठिकायाः त्रिपाठियमुनेशचातकेन कृतायां `प्रदीपिका’ व्याख्यायां तृतीयोच्छ्वासः ॥
४
.
॥ चतुर्थोच्छ्वासः ॥
<4.1>देव ………………………………अगच्छत्॥ 1 ॥
प्रसङ्गः-राजवाहनेन पृष्टः पुष्पोद्भवः वृत्तान्तं वर्णयति-
व्यख्या-देव! महाराज!, देवः=भवान्, महीसुरोपकाराय=ब्राह्मणस्य सहातायै, गतवान्=गतः, इति=इत्थम्, निश्चित्यापि=विचार्यापि, देवेन=श्रीमता, गन्तव्यं=गन्तुं-यातुं योग्यं यातव्यम्, देशं=स्थानं, निर्णेतुं=निश्चेतुम्, अशक्नुवानः=असमर्थः, मित्रगणः=सखासमूहः, परस्परं अन्योन्यम्, वियुज्य=पृथग्भूय, दिक्षु=यत्र तत्र, देवं=भवन्तम्, अन्वेष्टुम् शोधयितुम्, प्राप्तुम् वा अगच्छत्=गतवान्॥</4.1>
<4.2>अहमपि …………………………….अपृच्छम्॥ 2 ॥
सन्दर्भः–पुष्पोद्भवः स्वविषये वदति–
व्याख्या-अहमपि=पुष्पोद्भवोऽपि, देवस्य=राज्ञः, भवतः वा, अन्वेषणाय=शोधनाय, महीम्=धरित्रीम्, अटन्=प्रविचरन्, कदाचित्=एकदा, अम्बरमध्यगतस्य=अम्बरस्य=गगनस्य मध्यं अन्तरालं गतस्य प्राप्तस्य, अम्बरमणेः=रवेः, किरण=रश्मिम्, असहिष्णुः सोढुमशक्तः, एकस्य=कस्यचित्, गिरितटमहीरुहस्य=पर्वस्य वृक्षस्य, प्रच्छायशीतले=प्रकृष्टाच्छाया प्रच्छायं तेन शीतलं शिशिरम् तस्मिन् तथोक्ते, तले=अधःप्रदेशे, क्षणं=पलमात्रम्, उपविशम्=विश्रामं कृतवान्। मम=पुष्पोद्भवस्य, पुरो भागे सम्मुखे, दिनमध्यसङ्कुचितसर्वावयान्=दिनमध्यसमये=मध्याह्ने संकुचितावयवम्=संकुचिताः आकुञ्चिताः अवयवाः अङ्गानि यस्याः सा ताम् तथोक्तम्, कूर्माकृतिम्=कूर्मस्य कञ्छपस्य आकृतिः आकारः यस्याः सा तां तथोक्ताम्, मानुषच्छायां=नरच्छायाम्, निरीक्ष्य=दृष्ट्वा, उन्मुखः=ऊर्ध्वमुखः, गगनतलात्=अम्बरतलात्, महारवेण=प्रबलवेगेन, पतन्तं=स्खलन्तम्, कञ्चित्=एकम्, पुरुषं=मनुजम्, अन्तराले=मध्ये धरास्पर्शात् पूर्वमेव, दयोपनतदृदयः=तयया=करुणया उपनतं द्रवितं हृदयं मनो यस्य सः तथोक्तः, अहं=पुष्पोद्भवः, अवलम्ब्य=प्रगृह्य, शनैः=मन्दम्, अवनितले=पृथिव्याम्, निक्षिप्य=संस्थाप्य, दूरापातवीतसंज्ञम्=दूरात् उच्चैः आपातः पतनं तेन वीता अपगता संज्ञा चेतना यस्य सः तं तथोक्तम्, तं=नरम्, आकृतिम् वा शिशिरोपचारेण=सलिलकणप्रक्षेपेण, विवोध्य=संचेतनं कृत्वा शोकातिरेकेण=दुःखाधिक्येन, उद्गतवाप्पलोचनं=उदगतं निर्गतं वाष्पं अश्रु याभ्यां तादृशी लोचने नयने यस्य सः तं तथोक्तम्, तं=पुरुषम्, भृगुपतनकारणम्=भृगोः प्रपातात् पतनस्य स्खलनस्य कारणं हेतुम्, अपृच्छम्=पृष्टवान्॥</4.2>
<4.3>सोऽपि ……………………………..अकार्षम्’ इति॥ 3 ॥
प्रसङ्गः-पुष्पोद्भवः राजानं राजहंसं पततः पुरुषस्य वृत्तान्तं श्रावयन्नाह–
व्याख्या-पुष्पोद्भवः राजानं राजहंसं पततः पुरुषस्य वृत्तान्तं श्रावयन्नाह-वाष्पविन्दून्, अनपनयन्=प्रोञ्छन्, अभाषत=अब्रवीत्, सौम्य!=भद्र!, मगधाधिनाथामात्यस्य=राजहंसमन्त्रिणः, पद्मोद्भवस्य=तन्नाम्नः मन्त्रिणः, आत्मसम्भवः=आत्मजः रत्नोद्भवः नाम=रत्नोद्भवनामा, अहम्=अस्मि। वाणिज्यरूपेण=व्यापारविचारणया, कालयवनद्वीपम्=तदभिधं देशम् उपेत्य=गत्वा, कामपि=एकाम्, वणिक्कन्यकाम्=वणिकपुत्रीम्, परिणीय=विवाह्य, तया=वणिककन्यया, सह साकम्, प्रत्यागच्छन्=परावर्तमानः अम्बुधौ=सागरे, तीरस्य=वेलायाः, अनतिदूरे=समीपे, एव, प्रवहणस्य=जलयानस्य, भग्नतया=विदीर्णतया, सर्वेषु=सकलेषु निमग्नेषु=अन्तर्लीनेषु, कथम्, कथमपि=केनापि प्रकारेण, अपि, दैवानुकूल्येन=भाग्यसाहाय्येन, तीरभूमिम्=तटप्रदेशम्, अभिगम्य=प्राप्य, निजाङ्गना वियोगदुःखार्णवे=निजायाः स्वकीयायाः अङ्गनायाः पत्न्याः यद् वियोगदुःख विश्लेषव्यथा तदेव अर्णवः समुद्रः तस्मिन् तथोक्ते, प्लवमानः=सतरन्, कस्यापि=एकस्य, सिद्धतापस्य=सिद्धतपस्विनः आदेशादरेण=आयज्ञाविश्वासेन, षोडश, हायनानि=षडुत्तरदशवर्षाणि, कथंचित् कथं कथमपि, नीत्वा=अतिवाह्य, दुःखस्य=क्लेशस्य, पारं =अन्तम्, अनवेक्षमाणः=अपश्यन्, गिरिपतनम्=पर्वतात् पतनम्, अकार्षम्=कृतवान् इति॥
विशेषः-करुणरसः।</4.3>
<4.4>तस्मिन्नैव ……………………………विंशसि’ इति॥ 4 ॥
प्रसङ्गः-पतन् पुरुषः आत्मवृत्तान्तं श्रावयन्नाह–
व्याख्या-तस्मिन्नेव=तदेव, अवसरे=क्षणे, किमपि अनिर्दिष्टम्, नारीकूजितम्=स्त्रियः क्रन्दनम्, अश्रावि=श्रुतम् इदं=कार्यम्, न, खलु समुचितं=उपयुक्तम्, यत्, पतितनयमिलने=पत्युः भर्त्तुः तनयस्य=पुत्रस्य, च मिलने सम्मेलने, सिद्धादिष्टे=तापसोक्ते, विरहं=वियोगम्, असहिष्णु=सोढुमशक्ता, वैश्वानरं=अग्निम्, विशकि=प्रविशसि प्रयासि वा इति॥</4.4>
<4.5>तन्निशम्य ……………………………स्थियतामिति॥ 5 ॥
प्रसङ्गः-रत्नोद्भवः स्ववृत्तान्तं श्रावयति–
व्याख्या-तन्निशम्य नाराक्रन्दनम् श्रुत्वा, मनोविदितजनकभावं=मनसा अन्तःकरणेन विदितः ज्ञातः जनकभावः पितृत्वं यस्य सः तम् तथोक्तम् तम्=पतितं पुरुषं अवादिषम्=प्रोक्तवान्। तात=पितः! भवते=तुभ्यम्, बहूनि=अधिकानि, विज्ञापनीयानि=निवेदनीयानि, सन्ति। भवतु=तिष्ठतु। पश्चात्=तदनन्तरम्, अखिलं=सम्पूर्णम्, आख्यातव्यम्=कथितव्यम्। अधुना=सांप्रतम्, नारीकूजितं=स्त्रीरोदनम्, अनुपेक्षणीयम्=उपेक्षितुमयोग्यम्, मया=पुष्पोद्भवेन। अत्र=अस्मिन् प्रदेशे, भवता=त्वया, क्षणमात्रम्=मुहूर्तमात्रम्, स्थीयताम्=आस्यताम्॥</4.5>
<4.6>तदनु ……………………………..कथ्यतामिति॥ 6 ॥
प्रसङ्गः-सुवृत्तायाः वृत्तान्तं पुष्पोद्भवः श्रावयति॥
व्याख्या-तदनु=तदनन्तरम्, सोऽहम्=पुष्पोद्भवः, किञ्चित् अन्तरम्=दूरम् अगमम्=गतवान्। तत्र=तत् प्रदेश, पुरतः=अग्रे, भयङ्करज्वालाकुलहुतभुगवगाहनसाहसिकाम्=भयङ्कराभिः प्रचण्डाभिः ज्वालाभिः=शिखाभिः आकुले व्याप्ते हुतभुजि=अग्नौ अवगाहने प्रवेशे साहसिकाम् उद्यतम्, मुकुलिताञ्जलिपुटाम् बद्धाञ्जलिम्, काञ्चित्=एकाम्, वनिताम्=नारीम्, अवलोक्य=दृष्टवा, ससंभ्रमम=त्वरितम्, अनलात्=पावकात्, अपनीय=दूराकृत्य, कूजन्त्या=विलपन्त्या, वृद्धया=स्थविरया, सह=साकम्, मत्पितुः=मज्जनकस्य, अभ्यर्णम् समीपम्,अभिगमय्य=प्रापय्य, स्थविराम्=वृद्धाम्, अवोचम्=उत्तवान्=वृद्धे=स्थविरे!, भवत्यौ युवाम् (त्वम् एषा च) कुत्रत्ये=कस्मात् स्थानात् अत्र=आगते। कान्तारे=अरण्ये, केन निमित्तेन=कारणेन, दुखस्था=दुःस्थितिः, अनुभूयते=प्राप्यते। कथ्यताम्=भण्यताम्॥</4.6>
<4.7>सा ………………………………उद्युक्तासीत्॥ 7 ॥
प्रसङ्गः-पुष्पोद्भवः वृद्धायाः कथनं प्रस्तौति–
व्याख्या-सा=वृद्धा, सगद्गदम्=रुद्धकण्ठम्, अवादीत्=अकथयत्-पुत्र=वत्स, कालयवनद्वीपे=कालयवनेदेशे, कालगुप्तनाम्नः, वणिजः=व्यापारिणः वैश्यस्य वा, एषा, सुवृत्ता नाम् सुता=पुत्री, रत्नोद्भवेन, निजकान्तेन=स्वपतिना (सह) आगच्छन्ती=प्रयान्ती, जलधौ=सिन्धौ, प्रवहणे=पोते, निमग्ने=अन्तरर्लीने, निजधात्र्या=स्वोपमात्रा, मया=स्थविरया, सह=साकम्, एकम्=किञ्चित्, फलकं=दारुखण्डम्, अवलम्ब्य=आधृत्य, दैवयोगेन=भाग्य संयोगेन, कूलं=तटम्, उपेता=प्राप्ता, आसन्नप्रसवसमया=आसन्नः समीपस्थः प्रसवः गर्भो यस्याः सा, पूर्णप्रसवसमया, कस्याञ्चित्=एकस्याम्, अटव्यां=वने, आत्मजं=पुत्रम्, असूत=प्रासोष्ट। मम=वृद्धायाः तु, मन्दभाग्यतया=दुर्भाग्येन, बाले=अर्भके, वनमातङ्गेन=वनगजेन, गृहीते=समाक्रान्ते, मद्द्वितीया=अहं द्वितीया यस्याः सा, मच्छरणा, भर्तृपुत्रसंगमः=पतिपुत्रसंयोगः, भविष्यति इति, सिद्धवाक्यविश्वासात्=तापसवचनविश्वासात्, एकस्मिन्=कस्मिंश्चित्, पुण्याश्रमे=पवित्रस्थाने, तावन्तं=षोडशवर्षमितम्, समयं=कालम्, नीत्वा=अतिवाह्य, अपारम्=अपरिमितम्, शोकम्=दुःखम्, सोढुम्=अतिक्रमितुम्, अक्षमा=असमर्था, समुज्ज्वलिते=प्रज्ज्वलिते, वैश्वानरे=पावके, शरीरम्=देहम्, आहुतीकर्त्तुम्=भस्मीकर्त्तुम्, उद्युक्ता=तत्परा, आसीत्=अजायत॥</4.7>
<4.8>तदाकर्ण्य ………………………..उपाविशताम्॥ 8 ॥
प्रसङ्गः-पुष्पोद्भवः बृद्धायाः स्वस्य च सम्मेलनं वर्णयन्नाहः-
व्याख्या-तत्=बृद्धया कथितम्, आकर्ण्य=श्रुत्वा, निजजननीं=स्वां मातरम्, ज्ञात्वा=बुद्ध्वा, अहम्=पुष्पोद्भवः, तां=वृद्धाम्, दण्डवत्=साष्टाङ्गम्, प्रण्य=नमस्कृत्य, तस्यै=स्वजनन्यै, अखिलं=सकलम्, मदुदन्तं=स्वकीयं समाचारम्, आख्याय=व्याहृत्य धात्रीभाषणफुल्लवदनम्=धात्र्याः उपमातुः भाषणेन प्रफुल्लं विकसितं वदनं मुखम् यस्य स तम्, विस्मयविकसिताक्षम् विस्मयेन आश्चर्यरसेन विकसिते प्रफुल्ले अक्षिणी नयने यस्य सः तं तथोक्तम्,=जनकं=पिरम्, अदर्शयम्=दर्शितवान्। तौ=माता च पिता च, पितरौ=माता पितरौ, साभिज्ञानं=अभिज्ञानेन सहितम्, अन्योन्यं=परस्परम्, ज्ञात्वा=परिचित्य, मुदितान्तरात्मानौ=मुदितः हर्षितः अन्तरात्मा अन्तःकरणं ययोस्तौ, विनीतं=विनम्रम्, मां=पुष्पोद्भवम्, आनन्दाश्रुवर्षेण=प्रमोदाश्रुप्रवाहेण, अभिषिच्य, सिक्त्वा, गाढं=दृढम्, आश्लिष्य=आलिङ्ग्य, शिरसि=मस्तके, उपाघ्राय=घ्रात्वा, कस्याञ्चित्=एकस्याम्, महीरुहच्छायायां=वृक्षस्य छायायाम्, उपाविशताम्=उपविष्टौ॥</4.8>
<4.9>कथम् …………………………..अनयम्॥ 9 ॥
प्रसङ्गः-पुष्पोद्भवः राजहंसं रत्नोद्भववृत्तान्तं श्रावयन्नाह–
व्याख्या-महीवल्लभः=राजा, राजहंसः=मगधेशः, कथं=केन प्रकारेण, निवसति=निवासं करोति, इति=इत्थम्, जनकेन=तातेन, (रत्नोद्भवेन) पृष्टः=संबोधितः, अहं=पुष्पोद्भवः, तस्य=राजहंसस्य, राज्यच्युतिं=राज्यभ्रंशम, त्वदीयजननम्=युष्मदुत्पत्तिम्, सकलकुमारावाप्तिं=समस्तानां बालकानां अवाप्तिं=प्राप्तिम्, तव=भवतः, दिग्विजयारम्भं=दिग्विजयप्रयाणम्, भवतः=श्रीमतः, मतङ्गानुयानम्=मातङ्गनाम्नः ब्राह्मणस्य अनुपश्चात् यानम् गमनम्, अस्माकं=भवतः मित्राणाम्, युष्मत्=तव, अन्वेषणकारणं=मार्गणहेतुम्, सकलं=सम्पूर्णम्, अभ्यधाम्=अवदम्। ततः=मत्कथनानन्तरम्, तौ=मातापितरौ, कस्यचित्=एकस्य, मुनेः=ऋषेः, आश्रमे=पर्णशालायाम्, अस्थापयम्=न्यवासयम्, ततः=तदनन्तरम्, देवस्य=भवतः, अन्वेषणपरायणः=मार्गणतत्परः, अहं=पुष्पोद्भवः, अखिलकार्यनिमित्तं=समस्तकर्मसाधनम्, वित्तं=धनम्, निश्चित्य=निर्णीय, भवदनुग्रहाल्लब्धस्य=त्व कृपावशात् प्राप्तस्य, साधकस्य=ऋषेः, साहाय्यकरणदक्षं=सहायता कर्मणि कुशलम्, शिष्यगणं=विद्यार्थिवर्गम्, निष्पाद्य=सहचरीकृत्य, विन्ध्यवनमध्ये=विन्ध्यारण्यमध्ये, पुरातनपत्तनस्थानानि=प्राचीन नगर प्रदेशान्, उपेत्य=गत्वा, विविधनिधिसूचकानाम्=विविधाना बहुनां निधीनां धनपूर्णकलशानाम् सूचकानां निर्देशकानाम्, महीरुहाणां=भूरुहाणाम्, अधोनिक्षिप्तान्=तले रक्षितान्, वसुपूर्णान्=धनपूर्णान्, कलशान्=घटान्, सिद्धाञ्जनेन=नयनयोः प्रदत्तकज्जलविशेषेण, ज्ञात्वा=अवबोध्य, रक्षिषु=प्रहरिषु, परितः=सर्वतः स्थितेषु=वर्तमानेषु, खननसाधनैः=परशुभिः, उत्पाट्य=खनित्वा, असंख्यान्=प्रचुरान्, दीनारान्=स्वर्णमुद्राः, राशीकृत्य=संहृत्य, तत्कालगतं=तत्समयोपस्थितम्, अनतिदूरे=निकटे, निवेशितं=सुरक्षितम्, विणिक्कटकं=वणिङ्निवासम्, कञ्चित्=एकम्, अभ्येत्य=प्राप्त, तत्र]कटके, बलिनः=शक्तिशालिनः, बलीवर्दान्=वृषभान्, गोणीः=धान्यवाहनार्थरज्जुनिर्मित पात्रविशेषान्, च, क्रीत्वा=विनिमयं कृत्वा, अन्यद्रव्यमिषेण=द्रव्यान्तरमिषेण, तद्गोणीसंचितं=तद्गोणीषु राशीकृतम्, वसु=धनम्, तैः=बलीवर्दैः, उह्यमानं=नीयमानम्, शनैः=मन्दं मन्दम्, कटकं=शिविरम्, अनयन्=नोतवान्॥</4.9>
<4.10>तदधिकारिणा ……………………………कथयिष्यामि॥ 10 ॥
प्रसङ्गः-पुष्पोद्भवः कटकप्रवेशवृत्तान्तं श्रावयन्नाह–
व्याख्याः-तदधिकारिणा=कटकमुख्येन, चन्द्रपालेन=चन्द्रपालाभिधेन वणिक्तनयेन, विरचितसौहृदः=विरचितं विहितं सौहृदं सखात्वं येन सः तथा भूतः, अहं=पुष्पोद्भवः अमुना=अनेन चन्द्रपालेन एव, साकं=सह, उज्जयिनीम्=अवन्तीम्, उपाविशम्=गतवान्। यत्पितरौ=मम माता पितरौ, अपि, तां=पूर्वोक्ताम्, पुरीम्=नगरोम्, अभिगमय्य=प्रापय्य, सकलगुणनिलयेन=सकलानां समस्तानां गुणानां दाक्षिण्यादीनां निलयेन निवासास्पदेन, बन्धुपालनाम्ना=बन्धुपालाख्येन, चन्द्रपाल जनकेन=चन्द्रपालस्य पित्रा, नीयमानः=प्राप्यमाणः, (अहम्) मालवनाथदर्शनं=उज्जयिन्या राज्ञः, दर्शनम्=साक्षात् कारम्, विधाय=कृत्वा, तदनुमत्या=तस्य आज्ञया, गूढवसतिं गूढनिवासम्, अकरवम्=कृतवान्। ततः=साक्षात्कारदनन्तरम्, काञ्चनभूमिषु=अरण्यभूमिषु, भवन्तं=त्वाम्, अन्वेष्टुं=मार्गितुम्, उद्युक्तं=तत्परम्, मा=पुष्पोद्भवम्, परममित्रं=उत्कुष्ट सहचरम्, बन्धुपालः=चन्द्रपालस्य पिता, निशम्य=श्रुत्वा अवदत्=अकथयत्, सकलं=सम्पूर्णम्, अपारं=अमितम्, धरणितलं=वसुधातलम्, अन्वेष्टुं=परिभ्रमितुम्, अक्षमः=असमर्थः, भवान्=पुष्पोद्भवः, मनोग्लानिं=आत्मविषादम्, विहाय=त्यक्त्वा, तूष्णीं=मौनम्, तिष्ठतु=भवतु। भवतः=तव, नायकस्य=राज्ञः, अवलोकनकारण=दर्शनहेतुम् शुभशकुनं=मंगलचिह्नम्, निरीक्ष्य=विलोक्य, कथयिष्यामि=वदिष्यामि॥</4.10>
<4.11>तल्लपिता ……………………………….अयासिषम्॥ 11 ॥
प्रसङ्गः–पुष्पोद्भवः बालचन्द्रिकां प्रति स्वकीयाकर्षणवृत्तान्तं वर्णयन्नाहः–
व्याख्या-तस्य=बन्धुपालस्य, लपितं=वचनमेव, अमृतं=पीयूषम्, तेन आश्वासितं=शान्तम्, हृदयं मनो यस्य सः तथोक्तः, अहं=पुष्पोद्भवः, अनुदिनं=प्रतिदिनम्, तदुपकण्ठवर्ती=तस्य समीपवर्ती, कदाचित्=एकदा, इन्दुमुखीं=चन्द्राननाम्, नवयौवनलीढावयवां=नवयौवनेनयुवावस्थया आलीढाः समाक्रान्ताः अवयवाः अङ्गानि यस्याः सा तां तथोक्ताम्, नयनचन्द्रिकां=नेत्रकौमुदीम्, बालचन्द्रिकां=बालचन्द्रिकानाम्नीम्, तरुणीरत्नं नारीशिरोभूषणम्, मूर्ता=सशरीराम्, वणिङ्मन्दिरलक्ष्मीम्=वणिजां व्यापारिणां मन्दिरस्य=भवनस्य लक्ष्मीं शोभाम्, इव, अवोलक्य=निरीक्ष्य, तदीयेन=बालचन्द्रिका सम्बन्धिनां, लावण्येन=सौन्दर्येण, अवधूतः=तिरस्कृतः, धीरभावः=धैर्यम्, यस्य सः तथोक्तः, लतान्ताः=पुष्पाणि, बाणाः=शराः, यस्य सः कामदेवः, तस्य वाणलक्ष्यतां=शरोद्देश्यताम्, अयासिषम्=अगमम्॥</4.11>
<4.12>चकितबालकुरङ्ग ………………………….अकथयत्॥ 12 ॥
प्रसङ्गः-पुष्पोद्भवः बालचन्द्रिकायाः आनुरागिकभावादिकं वर्णयन्नाह–
व्याख्या-चकितस्य=भीतस्य, बालकुरङ्गस्य=शिशुमृगस्य, लोचने=नयने, इव, लोचने यस्याः सा, सा=बालचन्द्रिका, अपि, कुसुमसायकसायकायमानेन=कुसुमसायकस्य-कामस्य सायकः शर इव आचरतीति तेन तथोक्तेन, कामशरसदृशेन, कटाक्षवीक्षणेन=तिर्यग्विलोकनेन, मां=पुरष्पोद्भवम्, असकृत्=मुहुर्महुः, निरीक्ष्य=वीक्ष्य मन्दमारुतान्दोलिता=घीरपवनेन कम्पिता, लता=वल्लरा इव, अकम्पत=कम्पितवती। मनसा=अन्तःकरणेन, अभिमुखैः=मयि समर्पितैः, समाकुञ्चितैः-(लज्जया) आकृञ्चितैः शिथिलीकृतैः रागलज्जान्तरालवर्तिभिः=रागः प्रेम लज्जा संकोचः तयो अन्तराले मध्ये वर्तितुं स्थातुं शीलं येषां ते, तैः तथोक्तैः, साङ्गवर्तिभिः=अंगैः सह वर्तमानैः, ईक्षणविशेषैः अपाङ्गविलोकनैः, निजमनोवृत्ति=स्वान्तःकरणव्यापारम्, कामेच्छाम् वा, अकथयत्=सूचितवती॥
विशेषः-अत्र दण्डिनः शृङ्गाररसानुगुणं शब्दसंगुम्फनं श्लाघ्यम्। शृङ्गाररसः आश्वाद्यते।</4.12>
<4.13>चतुरगूढ ………………………….शृण्वन्नतिष्ठत्॥ 13 ॥
प्रसङ्गः-पुष्पोद्भवः बालचन्द्रिकायाः शृङ्गारचेष्टाभिः प्रभावितं स्वात्मानं वर्णयति–
व्याख्या-चतुरगूढचेष्टाभिः=चतुराः ललिताः गूढाः सरसाश्च या चेष्टाः शृङ्गारव्यञ्जका हावभावादयः ताभिः, अस्याः=बालचन्द्रिकायाः, मनोऽनुरागं=मानसप्रेमाणम्, सम्यक्=सुष्ठुतया, ज्ञात्वा=अवबोध्य, सुखसङ्गमोपायं=सम्मिलनविधिम्, अचिन्तयम्=अविचारयम्। अन्यदा=अन्यस्मिन् काले, बन्धुपालः, शकुनैः=मङ्गलचिन्हैः, भवद्गतिं=तव व्यापारम्, प्रेक्षिष्यमाण–अवलोकयिष्यन्, पुरोपान्तविहारवनं=पुरस्य नगरस्य उपान्ते निकटे यद् विहारवनं क्रीडोद्यानम् तत्, मया=पुष्पोद्भवेन, सह=साकम्, उपेत्य=गत्वा, कस्मिंश्चित्=एकस्मिन्, महीरुहे=तरौ, शकुन्तवचनानि=पक्षिणः कलरवान्, शृण्वन्=आकर्णयन्, अतिष्ठत्=अवस्थितः अभूत्॥</4.13>
<4.14>अहम् ……………………………..व्यलोकयम्॥ 14 ॥
प्रसङ्गः-पूर्वोक्त एव।
व्याख्या-अहं=पुष्पोद्भवः, उत्कलिकाविनोदपरायणः=उत्कलिका उत्कण्ठा तस्याः अपनयनं दूरीकरणम् तस्मिन् परायणः संलग्नः, वनान्तरे=अरण्यान्तराले, परिभ्रमन्=पर्यटन्, सरोवरतीरे=सरः पुलिने, चिन्ताक्रान्तचित्तां=चिन्तया ध्यायेन आक्रान्तं व्याकुलं चित्तं मनो यस्याः सा ताम्, दीनवदनां=म्लानमुखीम्, मन्मनोरथैकभूमिम् मम पुष्पोद्भवस्य मनोरथस्य मनोकामस्य एका भूमिः आश्रयीभूता या ताम् तथोक्ताम्, बालचन्द्रिकाम्=प्रियाम्, व्यलोकयम्=दृष्टान्॥</4.14>
<4.15>तस्या ……………………………कथय इति॥ 15 ॥
प्रसङ्गः-पुष्पोद्भवः बालचन्द्रिकामेकान्तं लब्ध्वा किमकथमदिति तेन वर्ण्यते–
व्याख्या-तस्याः=बालचन्द्रिकायाः, ससंभ्रमप्रेमल्जाकौतुकमनोरमं=ससंभ्रमेण शीघ्रत्वया सह वर्तमानानि ससंभ्रमाणि प्रेम अनुरागश्च लज्जा संकोचश्च कौतुकञ्च औत्सुक्यञ्च, प्रेम-लज्जा-कौतुकानि ससंभ्रमाणि च तानि प्रेम-लज्जाकौतुकानि तानि ससंभ्रमप्रेमलज्जाकौतुकानि, तैः मनोरमं=मनोमोहकम् तथोक्तम्, लीलाविलोकनसुखं=लीलया विलासेन यद् विलोकनं निरीक्षणम् तेन यत् सुखम् प्रमोदः तत् तथोक्तम्, अनुभवान्=मनसि विषयीकुर्वन्, सुदत्याः=सुदत्याः, वदनारविन्दे=मुखाम्बुजे, मदनकदनखेदानुभूतं=मदनस्य कामस्य यत् कदनं पीडनम् तस्य खेदेन क्लेशेन अनुभूतं विषयीकृतम्, विषण्णभावम्=मालिन्य=वैभवम्, ज्ञात्वा=अनुनीय,तन्निमित्तं=मालिन्यहेतुम्, ज्ञास्यन्=अवगमयिष्यन्, लीलया=विलासेन, तदुपकण्ठं=तस्याः निकटम्, उपेत्य=यात्वा, अवोचम्=अवादिषम्, सुमुखि=सुन्दरि, तव=स्वकायस्य, मुखारविन्दस्य=आस्यकमलस्य, दैन्यकारणं=विषण्णताहेतुम्, कथय=व्याहर, इति॥</4.15>
<4.16>सा ……………………………अभ्यगात्॥ 16 ॥
प्रसङ्गः-पुष्पोद्भवेन पृष्टा सती बालचन्द्रिका किं कथितवतीति वर्ण्यते तेनैव–
व्याख्या-सा=बालचन्द्रिका, रहस्यसंजातविश्रम्भतया=रहस्ये गोप्यवस्तुनि संजातः उत्पन्नः विश्रम्भः विश्वासः यस्याः सा तस्याः भावः तत्ता तया पूर्वोक्तया, लज्जाभये लज्जात्रपा च भयञ्च ते त्रपाभये, विहाय=हित्वा, शनैः=मन्दम् यथा स्यात्तथा, अभाषत=उक्तवती, सौम्य=भद्र, मालवाधीश्वरः=मालवेशः मानसारः, वार्धक्यस्य=जरावस्थायाः, प्रबलतया=आधिक्येन, निजनन्दनं=स्वकीयं तनयम्, दर्पसारम्, उज्जयिन्यां=राजधान्याम्, अभ्यषिञ्चत्=अभिषिक्तवान्। सः=दर्पसारः, कुमारः=राजपुत्रः, सप्तसागरपर्यन्तं=सप्तसमुद्रपर्यन्तम्, महीमण्डलं=भूमण्डलम्, पालयिष्यन्=शासन्, निजपैतृष्वस्त्रीयौ=स्वपितुः भगिन्याः पुत्रौ, उद्दण्डकर्माणौ=कुत्सितकर्माणौ, चण्डवर्मदारुवर्माणौ, धरणीभरणे=भूपालने, नियुज्य=निश्चित्य, तपश्चरणाय=तपःसाधयितुम्, राजराजगिरिम्=राजराजस्य कुबेरस्य गिरिम् पर्वतम् कैलासम् अभ्यगात्=गतवान्॥</4.16>
<4.17>राज्यं ………………………………दैन्यमगच्छम्॥ 17 ॥
प्रसङ्गः-बालचन्द्रिकया निवेदितं दैन्यकारणं पुष्पोद्भवः कथयति–
व्याख्या-असफलं=रिपुरहितम्, सर्वं=सम्पूर्णम्, राज्यं=देशम्, शासति=पालयात, चण्डवर्मणि=राजनि, दारुवर्मा=चण्डवर्मणः अनुजः, मातुलाग्रजन्मनोः=दर्पसारचण्डवर्मणोः, शासनं=आदेशम्, अतिक्रम्य=उल्लंघ्य, पारदार्यपरद्रव्यापहरणादिदुष्कर्म=पारदार्यं परस्त्रीविमर्शः, परद्रव्यापहरणं=चौर्यम्, पारदार्यञ्च परद्रव्यापहरणञ्च पारदार्यपरद्रव्यापहरणे ते आदिनी यस्य तत् तथोक्तम्, दुष्कर्म=कुकार्यम्, कुर्वाणः=समाचरन्, मन्मथसमानस्य=कामदेवसदृशस्य, भवतः=पुष्पोद्भवस्य, लावण्यात्तचित्तां=लावण्येन सौन्दर्येम आत्तं अधीनीकृतं चित्तं मनः यस्याः सा ताम्, मां=बालचन्द्रिकाम्, एकदा=एकस्मिन् दिने, विलोक्य=दृष्ट्वा, कन्यादूषणदोषं=कन्यायाः अपरिणीतायाः दूषणं धर्षणमेव दोषः तम्, दूरीकृत्य=अपाकृत्य, बलात्कारेण=शक्तिप्रयोगेण, रन्तुं=कामक्रीडांकर्त्तुम्, उद्युंक्ते=उद्यतोऽस्ति। तच्चिन्तया=तन्निर्वेदेन, दैन्यं=मालिन्यम्, अगच्छम्=प्राप्तास्मि॥</4.17>
<4.18>तस्याः ………………………….वाच्यः॥ 18 ॥
प्रसङ्गः-बालचन्द्रिकायाः दैन्यकारणं श्रुत्वा पुष्पोद्भवः स्वता निर्दिष्ट मुपायं वर्णयन्नाह–
व्याख्या-तस्याः=बालचन्द्रिकायाः, मनोगतं=हृद्गतम्, रागोद्रेकं=प्रेमाङ्कुरणम्, मन्मनोरथसिद्धयन्तरायञ्च=मम पुष्पोद्भवस्य मनोरथस्य कामस्य सिद्धेः निष्पत्तेः अन्तरायं विघ्नञ्च, निशम्य=श्रुत्वा, वाष्पपूर्णलोचनां=अश्रुपूर्णनयनाम्, तां=बालचन्द्रिकाम्, आश्वस्य=सान्तयित्वा, दारुवर्मणः=चण्डवर्मणः कनिष्ठभ्रातुः मरणोपायं=मृत्योः विधिञ्च, विचार्य=विमृश्य, वल्लभां=प्रेयसीम्, बालचन्द्रिकाम्, अवोचम्=अवदम्, तरुणि=प्रिये, भवदभिलाषिणं=त्वत्कामनापरम्, दुष्टहृदयं=दुर्जनम्, एनं=दारुवर्माणम्, निहन्तुं=मर्त्तुम्, कश्चित्=एकः, मृदुः=सरलः, उपायः=विधिः, मया=पुष्पोद्भवेन, चिन्त्यते=विचार्यते। बालचन्द्रिकां=तन्नाम्नीं तरुणीम्, अधिष्ठाय=समाक्रम्य, कश्चित्=एकः, यक्षः=पिशाचः प्रेतो वा, निवसति=वर्तते। तदाकारसम्पदाशाशृंखलितहृदयः=तस्याः बालचन्द्रिकायाः आकार सम्पदः स्वरूपस्य आशया वाञ्छया शृंखलितं बद्धं हृदयं यस्य सः तथोक्तः, यः कश्चित्, सम्बन्धयोग्य-=रमणयोग्यः, साहसिकः=सामर्थ्यसम्पन्नः, रतिमन्दिरे=केलिगृहे, तं=बालचन्द्रिकाधिष्ठितम्, यक्षं=पिशाचम्, निर्जित्य=व्यापाद्य, एकसखीसमेतया=एकया एकमात्रया सख्या वयस्यया समेतया सहितया, तया, मृगाक्ष्या=हरिणनयनया संलापामृतसुखं=आलापसुधानन्दम्, अनुभूय=प्राप्त्वा, कुशली=अक्षतदेहः, निर्गमिष्यति, तेन=वीरपुरुषेण, चक्रवाकसंशयाकारपयोधरा=चक्रवाकस्य पक्षिविशेषस्य संशयः सन्देहः यस्मिन् तादृशः आकारः आकृतिः ययोः तादृशौ पयोधरौ स्तनौ यस्याः सा तथोक्ता (बालचन्द्रिका) विवाहनीया=परिग्रहक्षमा, इति=एवम्, एकेन=केनचित्, सिद्धेन=तपस्विना, अवादि=उक्तम्, इति, पुरजनस्य=ग्रामनिवासिनः, पुरतः=समक्षम् भवदीयैः=त्वत्पक्षसमर्थकैः, सत्यवाक्यैः=प्रामाणिकैः, जनैः=मनुष्यैः, असकृत=मुहुर्मुहुः, कथनीयम्=प्रचारणीयम्। तदनु=तत्पश्चात्, दारुवर्मा, इत्थंविधानि=पुष्पोद्भवेनउपायरूपेणनिर्दिष्टानि, वाक्यानि=वचनानि, श्रावं=श्रावम्=श्रुत्वा, यदि, भिया=भयेन, तूष्णीं=मौनम्, स्थास्यति=भविष्यति, तर्हि=तु, वरम्=उचितम् अस्ति, यदि वा, अथवा, दौर्जन्येन=दुष्टतया, त्वया=बालचन्द्रिकया, सह=साकम्, संगमं=अनुरक्तिम्, अंगीकरिष्यति=आचरिष्यति, तदा, सः=दारुवर्मा=दर्पसारभागिनेयः, भवदीयैः=त्वदीयैः, इत्थं=वक्ष्यमाणप्रकारेण, वाच्यः=कथनीयः॥</4.18>
<4.19>सौम्य ……………………………….मह्यम् इति॥ 19 ॥
प्रसङ्गः-पुष्पोद्भवो बालचन्द्रिकायै स्वता निर्दिष्टं कथनोपायं राजहंसं श्रावयतिः–
व्याख्या-सौम्य!=भद्र!, दर्पसारवसुधाधिपामात्यस्य=दर्पसारश्चासौ वसुधाधिपश्चेति दपुसारवसुधाधिपः तस्य अमात्यस्य=मन्त्रिणः, भवतः=तव, अस्मन्निवासे=अस्मद्भवने, साहसकरणं=साहसकर्माचरणम्, अनुचितम्=निन्द्यम्, पौरजनसाक्षिकम्=पौरजनाः नगरनिवासिनः साक्षिणः प्रत्यक्षदर्शनः यस्मिन् तत् तथोक्तम्, पौराणां समक्षम्, भवन्मन्दिरं=तव गृहम्, आनीतया=प्राप्तया, अनया, तोयजाक्ष्या=तोयजे कमले इव अक्षिणी नयने यस्याः सा तया, सह=साकम्, क्रीडन्=केलिं कुर्वन्, यदि=चेत्, आयुष्मान्=दीर्घजीवि, भवान्, भविष्यति=स्थास्यति, तदा=तर्हि, तरुणीम्=युवतीम्, परिणीय=विवाह्य, मनोरथान्=मनोकामान्, निर्विश=लभस्व, इति। सोऽपि=दारुवर्मापि, एतत्=नगरैः कथितम्, यदि, अंगीकरिष्यति=स्वीकरिष्यति, तदा, त्वम्=बालचन्द्रिका, सखीवेषधारिणा=सहचरीरूपिणा, मया=पुष्पोद्भवेन, सह=साकम्, तस्य=दारुवर्मणः, मन्दिरं=गृहम्, गच्छ=याहि। अहं=पुष्पोद्भवः, एकान्तनिकेतने=शून्यभवने, मुष्टिजानुपादाघातैः=मुष्टिजानुपादानां प्रहारैः, रभसात्=शीघ्रतापूर्वकम्, तं दारुवर्माणम्, निहत्य=व्यापाद्य, पुनरपि=भुयोऽपि, वयस्यामिषेण=सहचरीव्याजेन, भवतीं=त्वाम्, अनु=पश्चात्, निःसंकम्=निर्भयम्, निर्गमिष्यामि=निःशरणं करिष्यामि। तदेनम्=तदमुम्, उपायं=विधिम्, अंगीकृत्य=स्वीकृत्य, विगतसाघ्वसलज्जा=विगते साध्वसलज्जे भयत्रपे यस्याः सा तथाभूता, सा=त्वम्, भवज्जनकजननीसहोदराणां=तव पितामाताबन्धूनाम्, पुरतः=समक्षम्, आवयो-=मम तव च, प्रेमातिशयम्=प्रीत्याधिक्यम्, आख्याय=उक्त्वा, सर्वथा=सर्वप्रकारेण, अस्मत्परिणयकरणे=आवयोः पाणिग्रहणे, तान्=जनकादीन्, अनुनयेः=अनुसाधयेः, तेऽपि=जनकादयोऽपि, वंशसम्पल्लावण्याढ्याय=वंशसम्पदा कुलगौरवेण, लावण्येन सौन्दर्येण आढ्याय युक्ताय, यूने=तरुणाय, मह्यं=पुष्पोद्भवाय, त्वां=बालचन्द्रिकाम्, दास्यन्ति=समर्पयिष्यन्ति, एव। इत्थम् दारुवर्मणः=दर्पसारभागिने यस्य, मारणोपायं=वधसाधनम्, तेभ्य-=पित्रादिभ्यः, कथमित्वा=व्याहृत्य, तेषां=पित्रादीनाम्, उत्तरं=प्रतिवाक्यम्, मह्यं पुष्पोद्भवाय आख्येयम्=श्रावणीयम्, इति॥</4.19>
<4.20>साऽपि ………………………………..विससर्ज॥ 20 ॥
प्रसङ्गः-पुष्पोद्भवः तस्योपायं श्रुत्वा बालचन्द्रिका किमब्रवीदिति कथयतिः–
व्याख्या-साऽपि=बालचन्द्रिकाऽपि, किञ्चित्=स्वल्पम्, उत्फुल्लसरसिजानना=उत्फुल्लं विकचं सरसिजं पुण्डरीकमिव आननं मुखम्, यस्याः सा, मां=पुष्पोद्भवम्, अब्रवीत्=अवादीत्, सुभग! सौम्य! क्रूरकर्माणं=कुटिलम्, दारुवर्माणम्, भवानेन=त्वमेव, हन्तुं=मारयितुम् अर्हति=क्षमोऽस्ति। तस्मिन्=दारुवर्मणि, हते=पञ्चत्वं गते, सर्वथा=सर्वप्रकारेण, युष्मन्मनोरथः=तव अभिलाषः, फलिष्यति=सिद्धो भविष्यति। एवं=यथोक्तम्, क्रियताम्=समाचरतु। भवदुक्तं=त्वत्कथितम्, सर्वम्=सम्पूर्णम्, अहमपि=बालचन्द्रिकाऽपि, तथा=तेनैव प्रकारेण, करिष्ये=विधास्यामि, इत्युक्त्वा, विवृत्तवदना=विवृत्तं परावृत्तं वदनं मुखम् यस्याः, सा, असकृत्=भूयोभूयः, मां=पुष्पोद्भवम्, विलोकयन्ती=पश्यन्ती, मन्दं मन्दं=शनैः शनैः, अगारम्=स्वगृहम्, अगात्=गतवती। अहमपि=पुष्पोद्भवोऽपि, बन्धुपालं=चन्द्रपालजनकम्, उपेत्य=गत्वा, शकुनज्ञात्=निमित्तज्ञानदक्षात्, तस्मात=बन्धुपालात् त्रिंशद्दिवसानन्तरमेव=एकमासादूर्ध्वमेव, भवत्संगः=तव रावजाहनस्य च सम्मेलनम्, संभविष्यति=भविष्यति, इति=एवम्, अशृण्वम्=अश्रौषम्। तदनु=तदनन्तरम्, मदनुगम्यमानः=मया अनुष्ठीयमानः, बन्धुपाल-=शकुनवक्ता चन्द्रपालजनकः, निजावासं=स्वभवनम्, प्रविश्य=गत्वा, मामपि=पुष्पोद्भवमपि, निलयाय=भवनाय, विससर्ज=विसर्जितं कृतवान्॥</4.20>
<4.21>मन्मायोपाय ……………………अगचछम्॥ 21 ॥
प्रसङ्गः-पुनः ताभ्यां किम् कृतमिति पुष्पोद्भवेन वर्ण्यते–
व्याख्या-मन्मायोपायवागुरापाशलग्नेन=मम पुष्पोद्भवस्य मायया कपटेन यः उपायः विधिः स एव, वागुरा=मृगबन्धिनी तद्रूपः यः पाशः बन्धनम् तस्मिन् लग्नः निबद्धः तेन तथोक्तेन, दारुवर्मणा=दर्पसारभागिनेयेन, रतिमन्दिरे=केलि गृहे, रन्तुं=क्रीडितुम् समाहूता=आकारिता, बालचन्द्रिका, तं=दारुवर्माणम्, गमिष्यन्ती=प्रस्थास्यमाना, मन्नकटं=मत्पार्श्वे, दूतिकां=चेटिकाम्, अभिप्रेषितवती=प्राहिणोत्। अहमपि=पुष्पोद्भवोऽपि, मणिनूपुरः=मञ्जोरः, मेखला=रसना, कंकणकटके=वलयभेदौ, ताटंकं=श्रवणाभूषणम्, हारः=मुक्ताहारः, क्षौमं=दुकूलम्, कज्जलं=अञ्जनम्, चेति, वनितायोग्यं=स्त्रीजनानुकूलम्, मण्डनजातं=आभूषणसमूहम्, निपुणतया=कौशलेन, तत्तत्स्थानेषु=तत्तदवयवेषु, निक्षइप्य=परिधाय, सम्यक्=सर्वप्रकारेण, अंगीकृतः धृतः मनोज्ञः सुन्दरः वेषः प्रसाधनम् येन सः तथोक्तः, अहम्, वल्लभया=मदनुरक्तया तया बालचन्द्रिकया, सह=साकम्, तदागारद्वारोपान्तं=तस्य दारुवर्मणः आगारस्य भवनस्य द्वारस्य उपान्तं समीपम्, अगच्छम्=अगमम्॥</4.21>
<4.22>द्वाःस्थ ……………………………….अगमत्॥ 22 ॥
प्रसङ्गः-पुष्पोद्भवः सखीवेषः बालचन्द्रिकया सह कथमगच्छत् दारुवर्मणः गृहमिति तेनैव कथ्यते–
व्याख्या-द्वाःस्थकथितास्मदागमनेन=द्वा स्थैः द्वाररक्षकैः कथितं श्रावितम्, अस्मदागमनं अस्मदुपस्थितिः यस्मै सः तेन तथोक्तेन, सादरं=सबहुमानम्, विहिता=कृता, अभ्युदगतिः=अभ्युत्थानं येन सः तेन तथोक्तेन, तेन=दारुवर्मणा, द्वारोपान्ते=द्वारनिकटे, निवारिताः निरुद्धाः अशेषाः निखिलाः परिवाराः परिचारिकाः येन सः तन तथोक्तेन, मदन्विता=मया सहिता, बालचन्द्रिका, संकेतागारं=केलिभवनम्, अनोयत=नीता। नगरव्याकुलां=नगरं पुरे व्याकुलां प्रचारिताम्, यक्षकथां=पिशाचवृत्तान्तम्, परीक्षमाणः=प्रतीक्षमाणः, नागरिकजनः=नगरनिवासिसमूहः, अपि, कुतूहलेन=दारूवर्मणः=दर्पसारभागिनेयस्य, प्रतीहारभूमिम्=द्वारदेशम्, अगमत्=अगच्छत्, एकत्रिता अभूत्॥</4.22>
<4.23>विवेकशून्यमति …………………………अतिष्ठत्॥ 23 ॥
प्रसंगः-बालचन्द्रिकां प्राप्य दारुवर्मणा कथमाचरितमिति पुष्पोद्भवेन वर्ण्यते–
व्याख्या-विवेकशून्यमतिः=विवेकेन तत्त्वनिर्णयेन शून्या रहिता मतिः बुद्धिः यस्यासौ=दारुवर्मा, रागातिरेकेन=प्रेमातिशयेन, रत्नखचितहेमपर्यके=रत्नैः मणिभिः खचिते स्यूते हेम्नः सुवर्मस्य पर्यके तल्पे, हंसतूलगर्भशयनं-=हंसेन तुल्यः उज्ज्वलः हंसवत् शुभ्रः, हंसतूलः सः गर्भे मध्ये यस्य तादृशं शयनं पर्यकम्, तरुणीं=युवतीम्, बालचन्द्रिकाम्, आनीय=उपस्थाप्य, तस्यै=तरुण्यै, तमिस्रासम्यगनवलोकितपुंभावाय=तमिस्रायां तमसि, सम्यक=स्पष्टम्, अनवलोकितः अदृष्टः पुंभावः पुरुषभावो यस्य सः तस्मै तथोक्ताय, मनोरमस्त्रीवेषाय=मनोरमः मनोज्ञः स्त्रीवेषः नारीजनोवित प्रसाधनम् यस्य सः तस्मै, मह्यां=पुष्पोद्भवाय, च, चामीकरमणिमयमण्डनानि=चामीकरं सुवर्णम्, मणिः रत्नञ्च, ताभ्यां प्रचुराणि, मण्डनानि=आभूषणानि, सूक्ष्माणि=श्लक्ष्णानि, चित्रवस्त्राणि=साटिकावस्त्राणि, कस्तूरिकामिलितं=मृगमदामोदितन्, हरिचन्दनं=मलयचन्दनम्, कर्पूरसहितं=घनसारयुक्तम्, ताम्बूलं=नागवेलिम्, सुरभीणि=सुगन्धीनि, कुसुमानि=पुष्पाणि, इत्यादि, वस्तुजातं=सामग्रीसंकलनम्, समर्प्य=उपायनीकृत्य, मुहूर्तद्वयमात्रम्=चतुर्विशतिक्षणपर्यन्तम्, हासवचनैः=परिहासवार्ताभिः संलपन्=भाषमाणः, अतिष्ठत्=वर्तते स्म॥
विशेषः-अत्र शृंगारो रसः आस्वाद्यते।</4.23>
<4.24>ततः ………………………….पश्यतेमम् इति॥ 24 ॥
प्रसङ्गः-बालचन्द्रिकादारुवर्मणोः मिथः मिलनं वर्णयन्नाह पुष्पोद्भवः–
व्याख्या-ततः=तदनन्तरम्, रागान्धतया=कामभावनोद्दामतया, सुमुखीकुचग्रहणे=सुमुख्याः सुन्दर्याः कुचयोः उरोजयोः ग्रहणे=मर्दने, मति=मनाः, व्यधत्त=कृतवान्, रोषारुणितः=क्रोधेन आरक्तः, अहं=पुष्पोद्भवः, एनं=दारुवर्माणम्, पर्यङ्कतलात्=शय्यतलात्, निःशङ्कः=निर्भयः, निपात्य=बलादवतार्य, मुष्टिजानुपादाघातैः=घातकर्तॄणां अङ्गानां आघातैः=प्रहारैः, प्राहरम्=ताडितवान्। नियुद्धरभसविकलं=नियुद्धे=मल्लयुद्धे यः रभसः वेगः तेन विकलं व्यत्यस्तम्, अलङ्कारं=मण्डनम्, पुर्ववत्=प्राग्वत्, मेलयित्वा=सुनियोज्य, भयकम्पितां=युद्धभयेन वेपमानाम्, नताङ्गीम्=विनतावयवाम् बालचन्द्रिकाम्, उपलालयन् समाश्वासयन्, मन्दिराङ्गणम्=गृह्य चत्वरम्, उपेतः=अवस्थितः, साध्वसकम्पितः=भयेन वेपमानः, इव, नहि यथार्थः, अहं=पुष्पोद्भवः, उच्चैः=उच्चस्वरैः, अकूजम्=अस्पष्टस्वरम् अकार्षम्_हा! कष्टम्?, बालचन्द्रिकाधिष्ठितेन=बालचन्द्रिकामाक्रम्य स्थितेन, घोराकारेण=भयङ्करेण स्वरूपेण यक्षेण=पिशाचेन, दारुवर्मा=दर्पसारभागिनेयः निहन्यते=निःशेषेण ताड्यते,। सहसा=शीघ्रम्, समागच्छत=आयात, इमम्=दारुवर्माणम्, पश्यत=विलोकय, इति॥</4.24>
<4.25>तदाकर्ण्य ………………………….निवासमगात्॥ 25 ॥
व्याख्या-तत्=मम क्रन्दनम्, आकर्ण्य=श्रुत्वा, मिलिताः=तत्र एकत्रीभूताः, जनाः=मनुष्याः, समुद्यद्वाष्पाः=समुद्यत् नेत्राभ्यां पतितुं उच्छलत् वाष्पं अश्रु येषां ते, हा-हा निनादेन=हा-हा इति कोलाहलेन, दिशः=काष्ठाः, बधिरयन्तः=पूरयन्तः बालचिन्द्रिकाम्, अधिष्ठितम्=आक्रम्य स्थितम्, बलवन्तं=शक्तिशालिनम्, यक्षं=पिशाचम्, शृण्वन्=आकर्णयन्, अपि, मदान्धा=कामान्धः, दारुवर्मा, तामेव=बालचन्द्रिकामेव, अयाचत=अभ्यलषत्। तदसौ=दारुवर्मा, स्वकीयेन=निजेन, कर्मणा=आचरणेन, निहतः=व्यापादितः। तस्य=दारुवर्मणः मृत्योः कृते, विलापेन=रोदनेन, किम् प्रयोजनम्, इति=एवम्, मिथः=परस्परम्, लपन्तः=वदन्तः, प्राविशन्=प्राङ्गणे अमच्छन्, कोलाहले=कलकले, चटुललोचनया=चपलनेत्रया, बालचन्द्रिकया, सह=साकम्, नैपुण्येन=कौशलेन, सहसा=शीघ्रम्, निर्गतः=निःसृतः अहम्, निजावासम=स्वभवनम्, आगाम्=गतवान्॥</4.25>
<4.26>ततः ……………………………….अनुभवामि इति॥ 26 ॥
प्रसङ्गः-पुष्पोद्भवः बालचन्द्रिकया सह स्वपरिणयं वर्णयन्नाह–
व्याख्या-ततः=तद् घटनायाः अनन्तरम्, गतेषु=अतीतेषु, कतिपयदिनेषु=कतिचिद्दिवसेषु, पौरजनसमक्षं=नगरनिवासिनां सम्मुखे, सिद्धादेशप्रकारेण=तपस्विनः आज्ञानुसारेण, तां=पूर्ववर्णिताम्, इन्दुमुखीं=बालचन्द्रिकाम् सुन्दरीम्, विवाह्य=परिणीय, पूर्वसंकल्पितान्=विवाहात्प्राक् मनसि कल्पितान्, सुरतविशेषान्=रतिक्रीडासुखम्, यथेष्टम्=यथेच्छम्, अन्वभूवम्=अनुभूतवान्। वन्धुपालशकुननिर्दिष्टे=चन्दपालपितुः मङ्गलसूचकेन व्याहृते, अस्मिन्नेव=अद्यैव, दिने=दिवसे, पुरात्=नगरात्, निर्गत्य=निःसृत्य, बहिः=बाह्यप्रदेशे, वर्तमानः=उपस्थितः सन्। नेत्रोत्सवकारि=नयनामोदजनकम्, भवदवलोकनसुखं=भवतः राजवाहनस्य अवलोकनेन दर्शनेन सुखम् आनन्दम्, अपि अनुभवामि=विषयीकरोमि॥</4.26>
<4.27>एवम् ……………………………….कारयामास॥ 27 ॥
प्रसङ्गः-पुष्पोद्भवेन कथितं सर्वं वृत्तान्तं श्रुत्वा राजवाहनः किमकरोदिति कविना वर्ण्यतेः–
व्याख्या–एवं-पूर्वोक्तप्रकारम्, मित्रवृत्तान्तं=सखा पद्मोद्भवस्य वृत्तम्, निशम्य=आकर्ण्य, अम्लानमानसः=प्रसन्नचित्तः, राजवाहनः=राजहंससुतः, स्वस्य=निजस्य, सोमदत्तस्य च, वृत्तान्तं=समाचारम् अस्मै=पुष्पोद्भवाय, निवेद्य=व्याहृत्य, महाकालेश्वराराधनानन्तरम्=महाकालस्य उज्जयिनीस्थितस्य शंकरस्य आराधनं पूजनम् तस्य अनन्तरं पश्चात्, भवद्वल्लभां भवदीयां वल्लभां=प्रेयसीम्, सपरिवाराम्=सेवकसमूहसहिताम्, निजकटकं=स्वसेनाशिविरम्, प्रापय्य=संगमय्य, आगच्छ=आगम्यताम्, इति=एवम्, सोमदत्तम् नियुज्य=समादिश्य, पुष्पोद्भवेन=पुष्पोद्भवनाम्ना मित्रेण, सेव्यमानः=आराध्यमानः, भूस्वर्गायमानं=पृथ्वीस्वर्गसदृशम्, अवन्तिकापुरं=उज्जयिनी नगरम्, विवेश=प्रविष्टः। तत्र=उज्जयिन्याम्, अयं=असौ, मम=पुष्पोद्भवस्य स्वामिकुमारः=राज्ञः सुतः, इति=एवम्, बन्धुपालादये=बन्धुपालप्रभृतये, बन्धुजनाय=मित्रवर्गाय, कथियित्वा=निवेद्य, तेन=बन्धुजनेन, राजवाहनाय, बहुविधाम्=बहुप्रकाराम्, सपर्या=सेवार्चनाम्, कारयन्=सम्पादयन्, सकलकलाकुशलः=सकलासु=निखिलासु कलासु=विद्यासु कुशलः=पारंगतः, अयं=असौ, महीसुरवरः=ब्राह्मणश्रेष्ठः इति=एवम्, पुरि=नगरे, प्रकटयन्=प्रचारयन्, पुष्पोद्भवः अमुष्य=एतस्य, राज्ञः=राजवाहनस्य मज्जनभोजनादिकम् मज्जनं च भोजनं आहारश्च मज्जनभोजने ते आदिनी यस्य तत् स्नानाहारादिकम्, अनुदिन=प्रतिवासरम्, स्वमन्दिरे=निजावासगृहे, कारयामास=कारितवान्॥</4.27>
॥ इति त्रिपाठियमुनेशचातकेन कृतायां महाकविदण्डिविरचित दशकुमारचरितस्य पूर्वपीठिकायाः `प्रदीपिका’ व्याख्यायां चतुर्थ उच्छ्वासः ॥
५
॥ पञ्चमोच्छ्वासः ॥
<5.1>अथ ………………………………..समाजगाम॥ 1 ॥
प्रसङ्गः-महाकविर्दण्डी वसन्तऋतुं वर्णयन्नाह–
व्याख्या-अथ अवन्तिकायां निवासानन्तरम्, मीनकेतनसेनानायकेन=मीनः मत्स्यः केतनं ध्वजो यस्य सः कामदेवः, तस्य सेनायाः अनीकिन्याः नायकः प्रधान भटः तन तथोक्तेन, मलयगिरिमहीरुहनिरन्तरावासिभुजंगमभुक्तावशिष्टेन=मलयगिरेः=मलयाचलस्य, महीरुहेषु=तरुषु, निरन्तरं=अनवकाशम्, आवासिनां=निवासिनाम्, भुजंगमानां=सर्पाणाम्, भुक्तस्य=पीतस्य, अविशिष्टेन=शेषेण, अत एव सूक्ष्मतरेण=मन्दतरेण, धृतहरिचन्दनपरिमलभरेण=धृतः=मिश्रितः, हरिचन्दनस्य=वृक्षविशेषस्य, परिमलभरः=सुगन्धातिशयः येन सः तथोक्तेन, मन्दगतिना=मन्थरजवेन, दक्षिणानिलेन=मलयवातीन, वियोगि हृदयस्थं=विरहिजनमानसगतम्, मन्मथानलं=कामाग्निम्, उज्ज्वलयन्=संवर्धयन्, सहकारकिसलयमकरन्दास्वादनरक्तकण्ठानां=सहकाराणां=आम्राणां, किसलयस्य=नवोदितपल्लवस्य, मकरन्दस्य=परागस्य च तयोः आस्वादनेन=उपभोगेन, रक्तः=मृदुरवयुक्तः कण्ठस्वरः येषां ते तेषां तथोक्तानां, मधुकरकलकण्ठानां=मधुकरः=मधुपाः कलकण्ठाः=पिकाश्च ते तेषाम्, काकलीकलकलेन=कूजितकोलाहलेन दिक्चक्रम्=आशासमूहम्, वाचालयन्=मुखरयन् मानिनीमानसोत्कलिकां मानिनीनां=मानवतीनाम् मानसस्य=हृदयस्य, उत्कलिकां=उत्कण्ठां उपनयन्=विवर्धपन्, माकन्दसिन्दुवाररक्ताशोककिंशुकतिलकेषु=माकन्दः रसालः, सिन्दुवारदुच=निर्गुण्डी, रक्ताशोकः किंशुकः=पलाशश्च तिलकश्च=तिलवृक्षस्य ते तेथोक्तेषु तेषु, कलिकां=मुकुलम्, उत्पादयन्, जनयन्, मदनमहोत्सवाय=मदनमहोत्सवाय, रसिकमनांसि=कामिजनानां हृदयानि, समुल्लसयन्=उत्साहयन, वसन्तसमयः=मधुमासः, समाजगाम=प्राप्तः॥
विशेषः-कोमल पदावली `द्रष्टव्या। शृङ्गारस्योद्दीपनानि वर्णितानि सन्ति।</5.1>
<5.2>तस्मिन् ………………………………….रेमे॥ 2 ॥
प्रसङ्गः-अतिरमणीये=अत्यन्ताकर्षके, तस्मिन्=पूर्ववर्णिते, वसन्ते, काले=समये, अविन्तिसुन्दरी नाम, अवन्तिसुन्दरीति नाम्ना प्रसिद्धा, मानसारनन्दिनी=मानसारस्य पुत्री, प्रियवयस्यया=प्रियसख्यता बालचन्द्रिकया=पुष्पोद्भवस्य स्त्रिया, सह=साकम, नगरोपान्तरम्योद्याने=नगरस्य=पुरस्य उपान्ते=निकटे, रम्यं=सुन्दरम्, यत् उद्यानं =वाटिका, तस्मिन्, तथोक्ते, विहारोत्कण्ठया=रमणार्थ व्याकुलया, पौरसुन्दरीसमवायसमन्विता=पौरसुन्दरीणां=नगररमणीनाम् समवाये=समूहेन, समन्विता=युक्ता, कस्यचित्=एकस्य, चूतपोतकस्य=लघुरसालवृक्षस्य, छायाशीतले=छायया शिशिरे, सैकततले=बालुकामयप्रदेशे, गन्धः=चन्दनम्, कुसुमं=पुष्पम्, हरिद्रा, अक्षताः=तण्डुलाः, चीनाम्बरम्=कौशेयवस्त्रम्, आदिनानाविधेन=बहुप्रकारेण, परिमलद्रव्यनिकरेण=सुगन्धिद्रव्यसमूहेन, मनोभवं=मदनम् अर्चयन्ती=आराधयन्ती, रेमे=चिक्रीडे॥</5.2>
<5.3>तत्र ………………………………..अवाप॥ 3 ॥
प्रसङ्गः-अवन्तिसुन्दर्याधिष्ठिते उपवने सपुष्पोद्भवस्य राजवाहनस्योपस्थितिः वर्ण्यतेः–
व्याख्या=तत्र=तस्मिन्नवसरे, रतिप्रतिकृतिं=रतेः प्रतिमूर्तिम्, अवन्ति सुन्दरीम्=मानसारतनुजाम्, द्रष्टुकामः=द्रष्टुम् इच्छुकः, काम इव=मन्मथ सदृशः, वसन्तसहायः=वसन्तः सहायः द्वितीयो यस्य सः तथोक्तः, पुष्पोद्भवसमन्वितः=पुष्पोद्भवेन युक्तः, प्रविश्य=गत्वा, तत्र-तत्र=तेषु-तेषु, मलयमारुतेन=मलयबातेन, आन्दोलितासु=चालितासु, शाखाषु=स्कन्धेषु, निरन्तर=अनवकाशं समघनम्, समुद्भिन्नैः=सुविकसितैः, किसलयकुसुमफलैः=नवपल्लवप्रसूनफलैः, समुल्लसितेषु=सुशोभितेषु, रसातरुषु=आम्रपादपेषु, कोकिलकीरालिकुलमधुकराणाम्=कोकिलानां=पिकानाम्, कीरालीनां=शुकपंक्तीनां मधुकराणां=मिलिन्दानाम्, आलापान्=स्वरान्, श्रावं-श्रावं=मुहुः श्रुत्वा, किञ्चित्=ईषत्, विकसन्तीषु=स्फुटन्तीषु, इन्दीवरकह्लाराणा=नीलकमल कोरकाणाम्, कैरवाणां=कुमुदानाम्, राजीवानां=कमलानाम्, च राजिषु=पंक्तीषु, केलिलोलाः=क्रीडाचलाः, ये कलहंसाः=कादम्बाः, सारसाः=पुष्कराह्वः, कारण्डाः=मद्गवः, चक्रवाकाः=चक्राख्यपक्षिविशेषाः, तेषां यच्चक्रवातं=समुदायः, तस्य कलरवेण=अस्फुटमधुरगिरा, व्याकुलानि=व्याप्तानि, विमलानि=निर्मलानि, शीतलानि=शिशिराणि, यानि, सलिलानि=पानीयानि, तैः ललितानि=न मन्दः अमन्दः अमन्दा चासौ लीला च अमन्दलीला तया त्वरया, ललनायाः=अवन्तिसुन्दर्याः समीपं=निकटन्, अवाप=समागतः॥
विशेषः-अत्र अनुच्छेदे दीर्घसमासबन्धाः द्रष्टव्याः। अनुप्रासच्छटा मनोहरा वर्तते।</5.3>
<5.4>बालचन्द्रिकया ………………………….समाजमाम्॥ 4 ॥
प्रसङ्गः-राजवाहनस्य अवन्तिसुन्दर्याः अन्तिकं गमनं वर्ण्यते।
व्याख्या-निःशङ्कं=विना सन्देहम्, इतः=अत्र स्थाने, आगम्यताम्=उपस्थीयताम्, इति=एवम्, हस्तसंज्ञया=करसंकेतेन, बालचन्द्रिकया=पुष्पोद्भवस्य स्त्रिया, समाहूतः=आकारितः, निजतेजोनिर्जितपुरुहूतः=निजतेजसा=स्वप्रतातेन, निर्जितः=परास्तः, पुरुहूतः=वासवः येन सः तथोक्तः, राजवाहनः=मगधेश्वरकुमारः कृशोदर्याः=क्षीणमध्यभागायाः, अवन्तिसुन्दर्याः=मानसारकुमार्याः, अन्तिकं=पार्श्वे समाजगाम=उपस्थितोऽभूत्॥</5.4>
<5.5>या ………………………………..रराज॥ 5 ॥
प्रसङ्गः-महाकविदण्डिना अवन्तिसुन्दर्याः सौन्दर्यवर्णनम् क्रियतेः–
व्याख्या-या रराजेति दूरान्वयः! या=अवन्तिसुन्दरी, वसन्तसहायेन=वसन्तः सहायः मित्रम्, यस्य सः कामदेवः, तेन कामेन, समुत्सुकतया=रन्तुमुत्कष्ठिततया, रतेः=कामपत्न्याः, केली=कामक्रीडा तदर्थ या शालभञ्जिका=कृत्रिमपुत्तलिका, तस्याः विधित्सा=निर्माणेच्छा तया तथोक्तया, कञ्चन=अपूर्वम्, एकं, नारीविशेषं=स्त्रीविशेषम्, विरच्य=विधाय, आत्मनः=निजस्य, क्रीडायाः=विहरणस्य, कासारः सरोवरः तत्र क्रीडाकासारं पादद्वयं=चरणद्वयम्, (नारीविशेषं विधायेत्यग्रिमेण सर्वत्र सम्बन्धः) उद्यानवने=उपवने, या दीर्घिका=वापिका, तस्यां या मत्तमरालिका=कामातुरा हंसिनी, तस्याः गमनरीतिः=संचरणप्रकारः, तया तथोक्तया, लीलया=विलासेन, अलसं=मन्थरम्, गतिविलासम्=गमनविधिः, तूणीरलावण्येन=तूणीरयोः=निषङ्गयोः, लावण्येन=सुषमया, जङ्घे=जानू (विरच्य), लीलामन्दिरस्य=केलिगृह्यद्धारे ये कदल्यौ=रम्भापादपौ, तयोः लालित्येन=सौन्दर्येण, मनोज्ञं=हृदयहारि,उरूद्धयं=सक्थियुगलम् जैत्ररथचातुर्येण=जैत्रः जयनशीलः रथः=स्यन्दनम्, तस्य चातुर्येण=सृजनविधिना, घनं=पृथु, जघनं=नितम्वपुरोभागम्(विधाय); किञ्चित्=ईषत्, विकसन्=प्रस्फुटन्, लीलावतंसः=विलासकर्णाभूषणम्, यः कह्लारकोरकः=सौगन्धिकमुकुलम्, रक्तकमलकलिका, तस्य कोटरं=मध्यभागः, तस्य अनुकृत्या=सादृश्येन, गङ्गायाः आवर्तः=भ्रमिः, तस्य सनाभिः=समानाभः सदृशः, तं तथोक्तम्, नाभिम् (विधाय), सौधारोहण परिपाटया=सौधस्य=प्रसादस्य यत् आरोहणं=आरुह्यते अनेन इति आरोहणं सोपानम्, तस्य परिपाट्या रचनाप्रकारेम, बलित्रयं=बलीनां त्रयं बलित्रयम्, (विधाय), मौर्वी=ज्या एव मधुकरपंक्तिः=भ्रमरमाला तस्याः या नीलिमा=श्यामता, तस्याः परिपाट्या रचनाप्रकारेण, बलित्रयं=बलीनां त्रयं बलित्रयम् (विधाय), मौर्वी=ज्या एव मधुकरपंक्तिः=भ्रमरमाला तस्याः या नीलिमा=श्यामता, तस्याः लीलया=विलासेन, रोमावलिम्=रोमराजिम् (विधाय) पूर्णः=सलिलसम्भृतः, यः सुवर्णकलशः=कुन्दनकुम्भः तस्य शोभया=कान्त्या, कुचद्वयं=चूचुकयुगलम् (विधाय) लतामण्डपस्य=वल्लरीसमूहस्य, सौकुमार्येण=पेशलतया, बाहु=भुजयुगलम् (विधाय) जयसंखाभिख्यया=जयसंखस्य=विजयसंखस्य, अभिख्यया=शोभया, कण्ठं=ग्रीवाम्, कमनीयः=सुभगः, यः कर्मपूरः=कर्णावतंसीभूतः, सहकारपल्लवः’आम्रपल्लवः, तस्य रागेण=लालिमया, प्रतिबिम्बीकृतं=प्रतिबिम्बवत् कृतं बिम्बं=बिम्बफलम् येन सः तं तथोक्तम्, रदनच्छदम्=अधरोष्ठम्; बाणवत् आचरतीति=बाणायमानं यत् पुष्पम्=कुसुमम् तस्य लावण्येन=सौन्दर्येण, शुचि=धवलितं स्मितं=हास्यम्, अग्रदूतिका=मदनस्य प्रथमा दूती या कलकण्ठिका=कोकिला तस्याः यः कलः=मृदु, आलापः=स्वरः तस्य माधुर्येम=मधुरतया बचनजातं=वाणीसमूहम्, सकलसैनिकानां=मदनस्य सम्पूर्णवीराणाम्, नायकः=अग्रगुः, यो मलयमारुतः=दक्षिण पवनः, तस्य सौरभ्येण=सौगन्ध्येन, निःश्वासपवनं=प्राणवायुम्; जयध्वजमीनदर्पेण=जयध्वजः=विजयध्वजः एव मीनः=ढषः तस्य दर्पेण=विलासेन लोचनयुगलम् नयनद्वयम्, चापयष्टिश्रिया=धनुर्लता तस्याः श्रिया कान्त्या भ्रूलते=कृटिली भ्रुवौ, प्रथमसुहृदः मदनस्य प्रमुखमित्रस्य सुधाकरस्य=शशिनः, अपनीतकलङ्कया=अपनीतः दूरीकृतः कलङ्कः लाञ्छनम् यस्याः सा तया, कान्त्या=अभिख्यया वदनम् आननम्, लीलामयूरस्य=क्रीडाशिखिनः बर्ह=पिच्छम्, तस्य भङ्ग्या=रचनया, केशपाशं=कचकलापम् विधाय निर्माय, समस्ताभ्यां=सकलाभ्यां, मकरन्दकस्तूरिकाभ्याम्=पुष्पपरागमृगनाभिगन्धिभ्याम्, सम्मितेन=मिश्रितेन, मलयजरसेन=चन्दनजलेन, प्रक्षाल्य स्वच्छीकृत्य, कर्पूरपरागेण=घनसारक्षोदेन, सम्मृज्य=संशोध्य, (मदनेन, कामदेवेन) निर्मिता=रचिता, इव, रराज=शुशुभे, शोभितवती॥</5.5>
<5.6>सा ………………………….व्यधत्त॥ 6 ॥
प्रसङ्गः-राजवाहने वीक्षिते सति अवन्तिसुन्दर्याः मनोदशा वर्ण्यते कविना–
व्याख्या-सा=पूर्वोक्ता, मालवेशकन्यका=मानसारसुता, मूर्तिमती=सशरीरा, लक्ष्मीः=श्रीः, इव, स्वेनैव=निजेनैव हस्तेन आराध्यमानं=समर्च्यमानम्, संकल्पितवरप्रदानाय=अभिलषितमनोरथपूरणाय, आविर्भूतं=प्रकटितम्, मूर्तिमन्तं=शरीरिणम्, मन्मथं=मनोजम्, इव, तम्=राजवाहनम्, आलोक्य=निरीक्ष्य, मन्दमारुतान्दोलिता=मन्थरपवनेन कम्पिता, लता=बल्लरी, इव, मदनावेशवती=मदनस्य=मन्मथस्य आवेशः प्रवेगः अस्ति अस्यामिति मन्मथवेगवती, चकम्पे=कम्पिताऽभवत्। तदनु=कामोद्दीपनानन्तरम्, क्रीडाविश्रम्भात्=क्रीडायां लीलायाम्, विश्रामः=आस्था, तस्मात् निवृत्ता=पराङ्मुखी, लज्जया=व्रीडया, कानि कानि अपि, नामविधानि, भाव्यन्तराणि=प्रेमभावान्=रतिसंकेतान्; व्यधत्त=व्यक्तीकर्त्तुमारब्धा॥</5.6>
<5.7>ललनाजनं …………………………..अतिष्ठत्॥ 7 ॥
प्रसङ्गः-अवन्तिसुन्दरीराजवाहनयोः मिथः समवलोकनं कविना वर्ण्यते–
व्याख्या-ललनाजनं=नारीजनम्, सृजता=रचयता, विधात्रा=वेधसा, नूनम्=निश्चयेन, एषा=मालवेशकन्यका, घुणाक्षरन्यायेन=संयोगतः, निर्मिता=सृष्टा! नो चेत्=अन्यथा अब्जभूः=पद्मयोनिः ब्रह्मा, एवं विधः=इत्थंप्रकारः, निर्माणनिपुणः=सृष्टिकुशलः, यदि=चेत्, स्यात्, तर्हि=तदा, तत्समानलावण्यं=तत्तुल्यसुन्दरीम्, अन्यत् अपराम, तरुमीम्=युवतीम्, किं=कस्मात्,न=नहि, करोति=सृजति!’ इति=एवम्, सविस्मयानुरागं=विस्मयेन सहितः सविस्मयः सविस्मयः अनुरागः यस्मिन् तत् यथा स्यात्तथा विस्मयानुरागाभ्याम् सहितम्, विलोकयतः=पश्यतः, तस्य=राजवाहनस्य, समक्षम्=पुरः, स्थातुं=स्थितिं कर्त्तुम्, लज्जिता=ह्रीमती, सती, किञ्चित्=ईषत् सखीजनान्तरितगात्रा=सखीजनैः आलिसमूहैः अन्तरितं व्यवहितं गात्रं देहम् यस्याः सा तथाभूता, तन्नयनाभिमुखैः तस्य=राजवाहनस्य नयनयोः=नेत्रयोः अभिमुखैः=सम्मुखवृत्तिभिः, किञ्चिदाकुञ्चितैः=ईषत् संकोचितैः, अञ्चितभ्रुलतैः=अञ्चिते=शोभते, भ्रलते यैस्ते तैः तथाभूतैः अपाङ्गवीक्षितैः=कटाक्षपातावलोकनैः,आत्मनः=निजस्य, कुरङ्गस्य=कुरङ्गभूतस्य, आनायमानलावण्यं आनायः=जालम्, तदिवाचरतीति आनायमानं लावण्यं सौन्दर्यं यस्य सः तम्, राजवाहनं राजहंससूनुम्, विलोकयन्ती=पश्यन्ती, अतिष्ठत=स्यिता वर्तते॥</5.7>
<5.8>सोऽपि …………………………………..बभूव॥ 8 ॥
प्रसङ्गः-अविन्तसुन्दर्याः दर्शनस्य राजवाहनेप्र भावः कविना वर्ण्यते–
व्याख्या-सोऽपि=राजवानहनोऽपि, तस्याः=मालवेशकन्यकायाः, तदा=तस्मिन्नवसरे, उत्पादितभावरसानां=उत्पादिताः जनिताः ये भावरसाः शृङ्गाररसाः, तेषां=शृङ्गाररसाभिलाषाणाम्, सामग्र्या=पूर्णतया साधनेन वा, लब्धबलस्य=प्राप्तसामर्थ्यस्य इव, विषमशरस्य=विषमाः अयुग्मसंख्याकाः पञ्च शराः यस्य सः तस्य कामस्य, शरव्यायमाणमानसः=शख्यं=लक्ष्यम्, तदिवाचरन् शख्यायमाणं मानसं मनो यस्य सः तथोक्तः, बभूव=अजायत्, अभूत्॥</5.8>
<5.9>सा ………………………………………ज्ञातव्य इति॥ 9 ॥
प्रसङ्गः-अवन्तिसुन्दरी राजवाहनं निरीक्ष्य तस्य सम्बन्धं चिन्तयति–
व्याख्या-सा=अवन्तिसुन्दरी, मनसि=मानसे, इत्थं=एवम् वक्ष्यमाणप्रकारेण, अचिन्तयत्=अविचारयत् अनेन=पुरोवर्तमानेन, अनन्यसाधारणसौन्दर्येण=अद्वितीयलावण्येन, कस्यां, पुरि=नागर्याम्, भाग्यवतींनां=सौभाग्ययुतानाम्, तरुणीनां=युवतीनाम्, लोचनोत्सवः=नयनांन्दः, क्रियते=दीयते, अमुना=पुरः दृस्यमानेन, पुत्ररत्नेन=सुतश्रेष्ठेन, पुरन्ध्रीणां साध्वीनाम्, पुत्रवतीनां=सुतवतीनाम्, सीमन्तिनीनां=स्त्रीणाम्, का नाम=प्रख्याता, सीमन्तमौक्तिकीक्रियते=शिरोभूषणी क्रियते। अस्य=पुरोवर्तमानस्य का=किन्नामदेया, देवी=प्रियतमा पत्नी! अत्र=उपवने, अस्य=पुरुषस्य, आगमनकारणं=आगमनस्य प्रयोजनम् किम्?। मन्मथः=कामः, अपहसितनिजलावण्यं=अपहसितं=उपहासविषयीकृतम्, निजं=स्वीयम्, लावण्यं=सौन्दर्यम्, येन सः तं तथोक्तम्, एनं=राजकुमारम्, विलोकयन्तीं=पश्यन्तीम्, मां=मालवेशतनयाम्, असूयया=ईर्ष्यया, इव, अतिमात्रम्=अत्यधिकम्, मथ्नन्=उत्पीडयन्, निजनाम=मन्मथः इति स्वकीयाभिधानम्, सान्वयं=चरितार्थम्, करोति=विदषाति। किं=कथम्, करोमि=आचरामि,? अयं=पुरो विद्यमानः पुरुषविशेषः, कथं=केनप्रकारेम ज्ञातव्यः=ज्ञातुं योग्यः, इति=एवं चिन्तितवती॥
विशेषः-अत्र शृङ्गाररसस्य चर्वण भवति।</5.9>
<5.10> ततो …………………………..पूज्यताम्॥ 10 ॥
प्रसङ्गः-बालचन्द्रिका समुत्सुकमानसामवन्तिसुन्दरीं राजवाहनस्य परिचयं वदति–
व्याख्या-ततः=तदनन्तरम्, बालचन्द्रिका=पद्मोद्भवस्य पत्नी, तयोः=अवन्तिसुन्दरीराजवाहनयोः, अन्तरङ्गवृत्तिं=मानसव्यापारम्, परस्परं प्रेमजननम्, भावविवेकैः=भावमनोविकाराणां, विवेकैः=चिह्नैः, ज्ञात्वा=विज्ञाय, कान्तासमाजसन्निधौ=स्त्रीसमुदाये, राजनन्दनोन्तस्य=राजवाहनवृत्त्स्य, सम्यगाख्यानम्=विशेषेण निर्वचनम्, अनुचितम्=अशोभनम्, इति विचिन्त्य, लोकसाधारणै=सामान्यैः, वाक्यैः=कथनैः, अभषत=उक्तवती-`भर्तृदारिके! राजपुत्रि!, अयं=एषः पुरो विद्यमानः, सकलकलाप्रवोणः=गीतादिललितकलासु कुशलः, देवतासान्निद्यकरणः=देवानां सान्निध्यं साक्षात्कारं करोतीति देवतासान्निध्यकरणः=देवसाक्षात्कारकर्त्ता, आहवनिपुण-=युद्धदक्षः, भूसुरकुमारः=ब्राह्मणकुमारः, मणिमंत्रौषधिज्ञः=मणिश्च मन्त्रश्च ओषधिश्च तान् जानातीति मणिमंत्रौ,धिज्ञः=मणिमन्त्रादिज्ञाता, परिचर्यार्हः=सेवामयोग्यः, भवत्या=श्रीमत्या, पूज्यताम्=सत्क्रियताम् इति॥</5.10>
<5.11>तदाकर्ण्य …………………………….उत्पादयिष्यामि॥ 11 ॥
प्रसङ्गः-अवन्तिसुन्दर्या कृतः राजवाहनसत्कारः तदनु राजवाहनमनोभाव वर्ण्यते कविना–
व्याख्या-तत्=बालचन्द्रिकयोक्तम्, आकर्ण्य=श्रुत्वा, निजमनोरथं=स्वकीयमनोकामम्, अनुवदन्त्या=अनुसृज्य कथयन्त्या, बालचन्द्रिकया=पुष्पोद्भवस्त्रिया, सन्तुष्टान्तरङ्गा=सन्तुष्टं=हृष्टम्, अन्तरङ्गं=अन्तःकरणम् यस्याः सा मन्दानिलेन=मन्थरपवनेन, तरङ्गावली=वीचिमाला, इव, संकल्पजने=मनोजेन, आकुलीकृता=विकलीकृता, राजकन्या=राजकुमारी, अवन्तिसुन्दरी, जितमारं=जितः पराजितः मारः कामदेवः येन सः तम्, कुमारं=राजवाहनम्, समुचितासनासीनं=योग्यासनोविष्टम्, विधाय=कृत्वा, शस्तेन=मनोहरेण, गन्धकुसुमेतिo=गन्धश्च कुसुमञ्च अक्षतञ्च घनसारश्च ताम्बूलञ्च तानि आदीनि यस्य स चासौ नानाजातिवस्तुनिचयः तेन, सखीहस्तेन=आलिकरेण, सहचरीदत्तेन, तसमै=कुमाराय, पूजां=सपर्याम्, कारयामास=कृतवती। राजवाहनोऽपि=राजहंसकुमारोऽपि, एवम्=वक्ष्यमाणरीत्या, अचिन्तयत्=अशोचत्=`नूनं=निश्चयेन, एषा=अवन्तिसुन्दरी, पूर्वजन्मनि=जन्मान्तरे, मे=मम राजवाहनस्य, जाया=पत्नी, यज्ञवती=यज्ञवतीनाम्नी स्यात्, नो चेत्=अन्यथा, एतस्यां=अस्याम्, कुमार्याम्, एवंविधः=दर्सितप्रकारः, अनुरागः=प्रेम, मम=राजवाहनस्य, मनसि=मानसे, न=नहि, जायेत=उत्पद्यते! शापावसानसमये=अभिशापान्तकाले, तपोनिधिदत्तं=तापसेन विहितम्, जातिस्मरत्वं=जन्मान्तरस्मृतिः, आवयोः=अवन्तिसुन्दरीराजवाहनयोः, समानम्=सदृशम्, एव, तथापि=पुनरपि, कालजनितः=समयेन उत्पादितः यो विशेषः=विस्मृतिः तस्य सूचकानि व्यञ्जकानि यानि वाक्यानि वचनानि, तैः तथोक्तैः अस्याः अवन्तिसुन्दर्याः, ज्ञानं=स्मृतिम्, उत्पादयिष्यामि=जनयिष्यामि॥</5.11>
<5.12>तस्मिन्नेव ………………………………..गम्यतात्॥ 12 ॥
प्रसङ्गः-राजवाहनः अविन्तसुन्दरीं पूर्वजन्मवृत्तान्तं श्रावयन्नाह–
व्याख्या-तस्मिन्नेव=सवितर्के एव, समये=अवसरे, कोऽपि=कश्चित्, अपि, मनोरमः=रमणीयः, राजहंसः=हंसविशेषः, केलीविधित्सया=क्रीडाचिकीर्षया, तदुपकण्ठं=अवन्तिसुन्दर्याः समीपम्, अगमत्=आगतः। समुत्सुकया=उत्कण्ठितया, राजकन्यया=राजपुत्र्या, मरालग्रहणे=हंसप्राप्तौ, नियुक्तां=प्रयत्नशीलाम्, बालचन्द्रिकां=स्वसखीं पुष्पोद्भवपत्नीम्, अवलोक्य=प्रेक्ष्य, समुचितः=अनुकूलः, वाक्यावसरः=वार्तासमयः, इति=इत्थं विचार्य, सम्भाषणनिपुणः=संलापपटुः, राजवाहनः=राजहंसतनयः, सलीलं=लीलया सहितम्, अलपत्=अवदत्=`सखि=भामिनि!, पुरा=पर्वजन्मनि, शम्बः नाम=शाम्बाभिधः, कश्चित् कोऽपि, महीवल्लभः=राजा, मनोवल्लभया=प्रियपत्न्यासह=साकम्, विहारवाञ्छया=केलिकामनया, कमलाकरं=सरोजवनम्, अवाप्य=प्राप्य, तत्र=कमलाकरे, कोकनदकदम्बसमीपं=रक्तकमलानां कदम्बस्य=समूहस्य समीपे=निकटे, निद्राधीनमानसं=निद्रया वशीभूतं हृदयम्, राजहंसं=मरालम्, शनैः=मन्दम्, गृहीत्वा=आदाय, बिसगुणेन=कमलतन्तुना, तस्य=राजहंसस्य, चरणयुगलं=पादद्वयम्, निगडयित्वा=आबध्य, कान्तामुखं=प्रियाननम्, सानुरागं=साह्लादम्, विलोकयन्=पश्यन्, मन्दस्मितेन=ईषद्धासेन, विकसितं=प्रफुल्लितं एकं कपोलमण्डलं=गण्डस्थलं यस्य सः तथोक्तः ताम्=स्वप्रियाम्, अभाषत=अवदत्–इन्दुमुखि=चन्द्रवने!, मया=शाम्ब नाम्ना महीवल्लभेन, बद्धः=निगडितः, मरालः=राजहंसः, मुनिवत्=मुनिसदृशः शान्तः=अव्याकुलः, आस्ते=तिष्ठति। अनेन=राजहंसेन स्वेच्छया=स्वमनोऽनुकूलम्, गम्यताम्=व्रज्यतामिति, एवम्, अकथयम्॥</5.12>
<5.13>सोऽपि …………………………लभस्व इति॥ 13 ॥
प्रसंगः-राजवाहनः अवन्तिसुन्दरीं हंसवृत्तातं श्रावयन्नाह–
व्याख्या-सोऽपि राजहंसः=मरालः, शाम्बं=राजनम्, अशपत्=शशप-महीपाल!=राजन्! यत्, अस्मिन् अम्बुजखण्डे=कमलकासारे, अनुष्ठानपरायणतया=अनुष्ठाने=ध्यानादिसाधने, परायणतया=प्रवृत्ततया, परमानन्देन=परमसुखेन, तिष्ठन्तं=विराजमानम्, नैष्ठिकं=नियमवन्तम्, मां=मुनिम्, अकारणम्=निष्प्रयोजनम् यथा स्यात्तथा, राज्यगर्वेण=राज्यमदेन, अवमानितवान्=तिरस्कृतवान्, असि, तत्=तस्मात्, एतत्पाप्मना=अनेन पापेन, रमणीविरहसन्तापं=पत्नीवियोगदुःखम्, अनुभव=लभस्व, इति शशाप। विषण्णवदनः=म्लानाननः, शाम्बः=महीवल्लभः, जीवितेश्वरीविरहं=प्रैयसीविश्लेषम्, असहिष्णुः=सोढुं अशक्नुवन्, भूमौ=धरित्र्यमा, दण्डवत्=दण्डेन तुल्यम्, प्रणम्य=नमस्कृत्य, सविनयं=विनयेन सहितं यथा स्यात्तथा, अभाषत=अकार्षम्, तत् क्षमस्व=क्षम्यताम्, इति। सः=हंसरूपधारी, तापसः=मुनिः, करुणाकृष्टतेताः=दयार्द्रहृदयः, तं=शाम्बम्, अवदत्=अभाषत--राजन्!=भूप!, इह=अस्मिन्, जन्मनि=जीवने, भवतः=तव, शापफलाभावः=अभिशापफलस्य अभावः, भवतु=स्यात्। मद्वचनस्य=मत्कथनस्य, अमोघतया=अव्यर्थतया, भाविति=भविष्यति, जनने=जन्मनि, शरीरान्तरं=अपरं देहम्, गतायाः=प्राप्तायाः, अस्याः सरसिजाक्ष्याः=कमलनयनायाः प्रियायाः, रसेन=प्रेम्णा, रमणः=प्रियः, भूत्वा, मुहूर्तद्वयं=होराद्वयं, मच्चरमयुगलबन्धनकारितया=मच्चरणयुगलस्य बन्धनं कर्त्तु शीलं यस्य तस्य भाववत्ता तया तथोक्तया, मासद्वयं=द्वौ मासौ, शृङ्खलानिगडितचरणः=शृङ्खलया निगडेन निगडितौ बद्धौ चरणौ पादौ यस्य सः तथोक्तः, रमणीवियोगविषादं=प्रियाविरहवेदनाम्, अनुभूय=प्राप्त्वा, पश्चात्=तदनु, अनेकालं=बहुसमयपर्यतम्, वल्लभया=प्राण प्रियया, सह=साकम्, राज्यसुखम्=नृपत्वानन्दम्, लभस्व=अनुभवः॥</5.13>
<5.14>तदनु ……………………….अभूवतुः॥ 14 ॥
प्रसङ्गः-राजवाहनेन श्रावितं पूर्वजन्मवृत्तान्तं समाकर्ण्य कृतविश्वासाभूदवन्तिसुन्दरी, पुनः तयोः मिथः व्यापारश्च वर्ण्यते महाकविना दण्डिनाः–
व्याख्या-तदनु=तत्पश्चात्, तयो-=पतिपत्न्योः, द्वयोः, जातिस्मरत्वं=पूर्वजननवृत्तान्तस्मृतिम्, अपि, अन्वगृहणात्=अनुज्ञातवान्। तस्मात्=कारणात्, त्वया=भवत्या, मरालबन्धनम्=राजहंसबन्धनम्, न=नहि, करणीयं=कार्यम्, इति। भर्तृदारिका=नृपकन्यका, सापि=अवन्तिसुन्दरी अपि, तद्वचनस्य=राजवाहनभाषितस्य, आकर्णनेन=श्रवणेन, अभिज्ञातः=स्मरणीभूतः, स्वपुरातनजननस्य=निजपूर्वजन्मनः, वृत्तान्तः=वृत्तं यया सा तथोक्ता, नूनं=निश्चयेन, अयं=एषः, मत्प्राणवल्लभः=मम पतिः, इति=पवम्, मनसि=चेतसि, जानती=अवबुध्यती, रागपल्लवितमानसा-रागेण=प्रेम्णा पल्लवितं=प्रफुल्लितं, मानसं=हृदयं यस्याः सा तथोक्ता, समन्दहासं=मन्दहासेन सहितम् यथा स्यात्तथा, अवोचत्=अवदत्, `सोम्य!=भद्र!, पुरा=पूर्वस्मिन् समये, शाम्बः=भूपः, यज्ञवतीसन्देशपरिपालनाय यज्ञवत्याः=स्वकीयराजमहिष्याः सन्देशस्य=निवेदनस्य, परिपालनाय=परिरक्षणाय, तथाविधं=पूर्वप्रकारकम्, हंसबन्धनं=मरालबन्धनम्, अकार्षीत्=कृतवान्। तथाहि=यतः, लोके=जगति, पण्डिताः=विवेकिनः, अपि, दाक्षिण्येन=स्त्रीणामाग्रहेण अन्यानुरोधेन वा, अकार्यं=अनुचितम्, कुर्वन्ति=सम्पादयन्ति, आचरन्ति वा। एवं=इत्थम्, कन्याकुमारौ=अवन्तिसुन्दरीराजवाहनौ, अन्योन्यपुराजनननामधेये=अन्योन्यस्य=परस्परस्य, पुरातनं=पूर्वतनम्, जननं=जन्म, नामधेयं=नाम चेति तथोक्ते, परस्परपूर्वजन्मनामनी, पिरचिते=विज्ञाते, परस्परज्ञानाय=अन्योन्यं प्रतिबोधनाय, साभिज्ञं=अभिज्ञानेन स्मरण प्रमाणेन सहितम्, उक्त्वा=व्याहृत्य, मनोजरागपूर्णमानसौ, मनोजेन=कामेन रागेण रत्या च, पूर्ण=व्याप्तम्, मानसं हृदयम् ययोस्तौ तथोक्तौ, बभूवतुः=अभूताम्॥</5.14>
<5.15>तस्मिन्नवसरे ……………………………….अगात्॥ 15 ॥
प्रसङ्गः-अवन्तिसुन्दर्याः मातुरागमनम् तन्निदेशात् तस्याः राजवाहनं विहाय गृहं प्रति प्रस्थानञ्च वर्ण्यते–
व्याख्या-तस्मिन्, अवसरे=काले, मालवेन्द्रमहिष=मालवपतेः अग्रमहिषी, पत्नी वा, परिजनपरिवृता=सेवकैः सहिता, दुहिर्तृकेलीविलोकनाय=दुहितुः सुतायाः अवन्तिसुन्दर्याः वा, केली=क्रीडा तस्याः विलोकनाय=दर्शनाय, तं=ताभ्यामधिष्ठितम्, देशं=स्थानम् उपवनमित्यर्थः, अवाप=आगतवती। बालचन्द्रिका=पुष्पोद्भवस्त्री, तु, तां=महाराज्ञीम्, दूरतः=विप्रकृष्टतः, विलोक्य=प्रेक्ष्य, ससम्भ्रमं=सम्भ्रमेण सहितम्, रहस्यनिर्भेदभिया रहस्यस्य=गोपनीयस्य, निर्भेदः=प्रकटनम्, तस्य भिया=भयेन, हस्तसंज्ञया=करसंकेतेन, पुष्पोद्भवसेव्यमानं=पुष्पोद्भवेन संसेवितम्, राजवाहनं=राजहंसतनयम, वृक्षवाटिकान्तरितगात्रम्=वृक्षवाटिकायां=गृहोपवने, अन्तरितं=गोपितम्, गात्रं=देहम्, यस्य सः तं तथाविधम्, अकरौत्=कृतवती। सा, मानसारमहिषी=मालवपतिपत्नी, सखीसमेतायाः=सहचरीसहितायाः, दुहितुः कन्यकायाः, नानाविधां=अनेक प्रकारम्, विहारलीलां=विलासक्रीडाम्, अनुभवन्ती=पश्यन्ती, क्षणं=मुहूर्तम्, स्थित्वा=स्थिति कृत्वा, दुहित्रा=पुत्र्या, समेता=सहिता, निजागारगमनाय=स्वभवनगमनाय, उद्युक्ता=उद्यता, बभूव=अभूत्। मातरं=जननीम्, अनुगच्छन्ती=अनुब्रजन्ती, अवन्तिसुन्दरी=मालवेशकन्यका, राजहंस कुलतिलक=राजहंस नाम्नः भूपतेः, कुले=वंशे, तिलकः=श्रेष्ठः, तिलकः=भूषणमिव वा, विहारावाञ्छया=विहर्त्तुं कामनया, केलिवने=क्रीडोपवने, मदन्तिकं=मन्निकटम्, आगतं=उपस्थितम्, भवन्तं=त्वाम्, अकाण्डे=अनवसरे, एव, विसृज्य=हित्वा, जनन्यनुगमनं=मातुः अनुसरणम्, समुचितम्=युक्तम्, इति हेतोः, मया=अवन्तिसुन्दर्या, मातुरनुगमनं क्रियते। तद् अनेन=मत्कृतेन कार्येण, भवन्मनोरागः=त्वन्मानसानुरक्तिः, अन्यथा=विपरीतः मा भूत्। इति=इत्थम्, मरालमिव=हंसमिव, कुमारं=राजवाहनम्, उद्दिश्य=अभिलक्ष्य, समुचितालापकलापं=संभाषणस्य, कलापः=समूहः, समुचितश्चासौ आलापकलापः समुचितालापकलापः तं तथोक्तम्, वदन्ती=कथयन्ती, पुनः-पुनः=मुहुः-मुहुः, परिवृत्तदीननयना=परिवृत्ते विवृत्ते दीननयने विषण्णनेत्रे यस्याः सा तथोक्ता, वदनं=राजवाहनस्य आननम्, विलोकयन्ती=पश्यन्ती, निजमन्दिरं=स्वभवनम्, अगात्=गतवती॥
विशेष–अत्र विप्रलम्भशृङ्गारः आस्वाद्यते॥</5.15>
<5.16>तत्र …………………………….बभूव॥ 16 ॥
प्रसङ्गः-राजवाहनेन वियुक्तायाः अवन्तिसुन्दर्याः विरहवेदनाजन्यस्थितिं वर्मयन्नाह कविः–
व्याख्या–तत्र=निजगृहे, हृदयवल्लभकथाप्रसंगे=हृदयवल्लभस्य=दयितस्य राजवाहनस्य कथाप्रसंगे=वृत्तविषये, बालचन्द्रिकेति=बालचन्द्रिकया=पुष्पोद्भवपत्न्या, कथिते=व्याहृते, तस्य=राजवाहनस्य, अन्वयनामधेये=कुलनाम्नी यस्यै सा तथोक्ता, मन्मतेति=मन्मथस्य=कामस्य, बाणपतनेन=शरप्रहारेम, व्याकुलं=विकलम्, मानसं=हृदयं यस्याः सा तथोक्ता, विरहदेवनया=वियोगव्यथया, दिने-दिने=प्रतिदिनम्, बहुलपक्षशशिकलेव=बहुलपक्षे=कृष्णपक्षे या शशिकला=इन्दुलेखा सा इव=यथा क्षामक्षामा=अति दुर्वला, आहारादिसकलव्यापारं=आहारः भोजनं आदिः यस्य सकलव्यापारस्य तम्, परिहृत्य=त्यक्त्वा, रहस्यमन्दिरे=एकान्तभवने, मलयजरसेन=चन्दनजलेन, क्षालितैः=आर्द्रैः, पल्लवैः=किसलयैः, कुसुमैश्च=पुष्पैश्च, कल्पितं=विनिर्मितम्, यत्तल्पं=शय्या तत्र आवर्तिनी=लुठन्ती, तनुलता=देहयष्टिः यस्याः सा तथोक्ता, बभूव=जाता॥
विशेषः-अत्र वियोग शृङ्गारः आस्वाद्यः रसः।</5.16>
<5.17>तत्र …………………………..विहन्यते॥ 17 ॥
प्रसङ्गः-विरहकातरा अवन्तिसुन्दरी सखीनामुपचारश्च कविना वर्ण्यते–
व्याख्या-तत्र=रहस्यमन्दिरे, तथाविदावस्थां=विरहव्याकुलस्थितिम्, अनुभवन्तीं=गच्छन्तीम्, मन्मथानलसन्तप्तां=कामाग्निना दह्यमानाम् सुकुमारीं कोमलाम्, कुमारीं=राजपुत्रीम्, निरीक्ष्य=प्रेक्ष्य, खिन्न-=दुःखी, वयस्यागणः=सखीसमुदायः काञ्चनकलशसंचितानि=सुवर्णस्य कुम्भ एकत्रितानि, हरिचन्दनन्दनञ्च उशीरञ्च घनसारश्चेति हरिचन्दनोशीरघनसाराः तैः मिलितानि=युक्तानि, तदभिषेककल्पितानि तस्याः=अवन्तिसुन्दर्याः अभिषेकाय कल्पितानि=रचितानि, सलिलानि=जलानि, विसतन्तुमयानि=कमलसूत्रप्रचुराणि, वासांसि=वस्त्राणि च, नलिनीदलमयानि=नलिन्याः कमलिन्याः, दलानि=पत्राणि, तन्निर्मितानि तालवृन्तानि च, सन्तापहरणानि=मन्मथज्वरविनाशकानि, बहूनि=वस्तुनि, सम्पाद्य=सुनियाज्य, तस्याः=अवन्तिसुन्दर्याः, शरीरं=गात्रम्, अशिशिरयत्=शीतलीचकार। तदपि, सखीभिः सम्पादितमपि शीतलोपचरणम्, तप्ततैले=अत्युष्णस्नेहे, सलिलं=जलमिव, समन्तात्=सर्वतः, तदङ्गदहनमेव तस्याः=अवन्तिसुन्दर्याः, अङ्गे=शरीरे, दहनमेव=ज्वलनमेव, आविश्चकार=कारयामास। किंकर्त्तव्यविमूढां=किं करणीयमत्रेति निश्चेतुमक्षमा, विषण्णां=खिन्नाम्, बालचन्द्रिकां=पद्मोद्भवप्रियाम्, ईषदुन्मीलितेन=किञ्चिद्विकसितेन, बाष्पकणाकुलेन=उष्णश्रुबिन्दुभिः व्याप्तेन, कटाक्षवीक्षितेन=तियंग्विलोकनेन, विरहानलेति विरहानलस्य=वियोगाग्नेः, उष्णनिःश्वासेन=उष्णमुखपवनेन, ग्लपितः=म्लाः अधरः यस्याः सा तया तथोक्तया, नताङ्ग्या=विनतशरीरया अवन्तिसुन्दर्याः, शनैः शनैः=मन्दं मन्दम्, सगद्गदम्=सावरुद्धकण्ठम्, व्यलापि=अभाषि, `प्रियसखि!=प्रिय वयस्ते, काम=मनोजः, कुसुमायुधः पुष्पसायकः, प़ञ्चबाणः (तस्य) पञ्चसख्याका एव बाणाः सन्ति, इति=इदम्, नून=ध्रुवम्, असत्यं=अनृतम्, उच्यते=कथ्यते, जनैः, इति। इयं=सम्मुखस्था, आहं=अवन्ति सुन्दरी, अयोमयैः=लौहविनिर्मितैः, असंख्यैः=संख्यातुमयोग्यैः, इषुभि-=शरैः, अनेन=कामेन, हन्ये=हतास्मि। सखि=वयस्ये, चन्द्रमसं=शशांकम्, बडवानलात्=समुद्रमध्यवर्तिपावकात्, अतितापकरं=अधिकसंतापदायकम्, मन्ये=अनुभवामि। यत्=यतः, अन्तःप्रविशति=अस्तंगते, अस्मिन्=शशांके, पारावारः=सिन्धुः, शुष्यति=शुष्कता याति, निर्गते=उदिते, सति, तदैव=तत्क्षणमेव, पारावारः वर्धते=वृद्धिं याति। दोषाकरस्य-दोषस्य=अवगुणस्य, आकरः=निधिः, यद्वा दोषाम्=रात्रिम्, करोतीति दोषाकरः, तस्य दोषाकरस्य=चन्द्रमसः, दुष्कर्म=दुष्कार्यम्, मया=अवन्तिसुन्दर्या, किं वर्ण्यते? यदनेन=चन्द्रमसा, निजसोदर्याः=स्वभगिन्याः, पद्मलयायाः=लक्ष्म्याः, गेहभूतम्=निवासभूतम्, अपि, कमलं=सरसिजम्, विहन्यते=मुकुलीक्रियते। लक्ष्मीचन्द्रमसोः उत्पत्तिः समुद्रादेवेति पौराणिकप्रसिद्धिः। लक्ष्मी कौस्तुभमणि….श्लोकः प्रमाणम्॥
विशेषः-वियोगशृङ्गारः। श्लेषानुप्रासादयोऽलंकाराश्च॥</5.17>
<5.18>विरहानल ……………………..किं करोमि॥ 18 ॥
प्रसङ्गः-अवन्तिसुन्दरी स्वविरहदशामुपवर्णयति।
व्याख्या-विरहानलेन=वियोगाग्निना, सन्तप्तस्य=प्रतप्तस्य, हृदयस्य=उरसः, संस्पर्शेन=संपर्केण, नूनं=ध्रुवम्, उष्णीकृतः=तप्तीकृतः, मलयानिलः=दक्षिणग्वातः, स्वल्पीभवति=संकुचितो भवति। नवपल्लवकल्पितं=किसलयेन विरचितम्, इदम्=एतत्, तल्पम्=पर्यकम्, अनङ्गाग्निशिखापटलमिव=कामाग्निशिखासमूहमिव, तनोः=शरीरस्य, सन्तापं=दाहम्, तनोति=करोति। निजयष्टिसंस्लेषेति निजयष्ट्याः=स्वाश्रयशाखायाः संश्लेषवतः=संसर्गिणः, उरगस्य=सर्पस्य, रदनेन=दन्तेन, लिप्तं=युक्तम्, यदुल्वणं=संसर्गिणः, उरगस्य=सर्पस्य, रदनेन=दन्तेन, लिप्तं=युक्तम्, यदुल्वणं=भयानकम्, गरलं=विषम्, तेन संकलितम्, इव=यथा, हरिचन्दनं=मलयचन्दनम्, अपि, शरीरं=गात्रम्, तापयति=ज्वालयति। तस्मात्=तत्कारणात्, शीतलोपचारे=शिशिरकरणोपाये, आयासेन=परिश्रमेण, अलम्=व्यर्थम्, एव, युष्माभिः निवर्त्यतामिति सारः। लावण्यजितमारः लावण्येन=सौंदर्येण, जितः=तिरस्कृतः, मारः=कामदेवः, येन सः, राजकुमारः=राजवाहनः, एव, मन्मथज्वरापहरणे=कामज्वरापनयने, अगदंकारः=न गदं अगदं तत् करोतीति, अगदंकारः=वैद्यः चिकित्सको वा, सोऽपि=राजकुमारोऽपि मया=अवन्तिसुन्दर्या, लब्धुं=प्राप्तुम्, अशक्य=न शक्यः दुष्प्राप्यः इति। अतः किं=कथम्, करोमि=आचरामि। केनोपायेन विरहपीडाशमनं करोमि? इति॥</5.18>
<5.19>बालचन्द्रिका …………………………….पपाठ॥ 19 ॥
प्रसङ्गः-अवन्तिसुन्दर्याः उद्दामां विरहावस्थां विलोक्य बालचन्द्रिकया उपायः वर्ण्यते।
व्याख्या-बालचन्द्रिका=पुष्पोद्भवस्त्री, मनोजेति=परमा चासौ काष्ठा परमकाष्ठा, मनोजज्वरावस्थायाः परमकाष्ठा=आधिक्यम्, तां, गतां=प्राप्ताम्, कोमलाङ्गी=पेशलावयवाम्, तां=अवन्तिसुन्दरीम्, राजवाहनेन राजवाहनस्य=राजहंसपुत्रस्य, लावण्ये=सौंदर्ये, अधीनं=वशीभूतम्, मानसं=हृदयम्, यस्याः सा ताम् तथोक्ताम्, अनन्यशरणां=नास्ति अन्यः अपरः शरणं यस्याः सा तां तथोक्ताम्, अवेक्ष्य=विलीक्य, आत्मनि=मनसि, अचिन्तयत्=अशोचत्, कुमारः=राजवाहनः, सत्वरं=शीघ्रम्, मया=बालचन्द्रिकया, आनेतव्यः=प्रापयितव्यः। नो चेत्=अन्यथा, मीनकेतनः=कामः, एनां=अवन्तिसुन्दरीम्, स्मरणीयां=स्मृतिशेषाम्, गतिम्=दशाम्, नेष्यति=प्रापयिष्यति। तत्र=तस्मिन्, उद्याने=उपवने, कुमारयो-=अवन्तिसु्दरीराजहंसयोः, अन्योन्यस्य=परस्परस्य, अवलोकनवेलायां=दर्शनावसरे, असमसाधक-=कामदेवः, समं=सहैव, (द्वयोः उपरि) भुक्तसायकः=प्रक्षिप्तशरः अभूत्=अभवत्। तस्मात्=तस्मात् हेतोः, कुमारानयनं=राजवाहनस्य प्रापणम्, सुकरम्=समीचीनम् इति। ततः=तदनन्तरम्, अवन्तिसुन्दरीरक्षणाय=अवन्तिसुन्दर्याः कल्याणाय, समयोचितकरणीयचतुरं समये=तस्मिन् अवसरे, यदुचितं करणीयं समाचरणं तत्र चतुरम्=कुशलम्, सखीगणं=सहचरीसमूहम्, नियुज्य=संस्थाप्य, राजकुमारमन्दिरं=राजवाहननिवासगृहम्, अवाप=गतवती। पुष्पबाणतूणीरायमानमानसः पुष्पबाणस्य=कुसुमसायकस्य, ये बाणाः=शराः तेषां तूणीरवदाचरन् मानसं मनो यस्य सः, अनङ्गेति अनङ्गेन=कामेन, तप्तस्य=संज्वरितस्य, अवयवस्य=अङ्गस्य, संपर्केण=संस्पर्शेन, परिम्लानं=ग्लपितम्, यत् पल्लवशयनं=किसलयतल्पम् तत् तथोक्तम्, अधिष्ठित-=उपविष्टः, राजवाहनः=राजकुमारः, प्राणेश्वरीं=प्रियमामवन्तिसुन्दरीम्, उद्दिश्य=अभिलक्ष्य, पुष्पोद्भवेन=निजमित्रेण, सह=साकम्, संलपन्=वार्ता कुर्वन्, आगतां=प्राप्ताम्, प्रियवयस्याम्=प्रियसखीम्, बालचन्द्रिकाम्, आलोक्य=दृष्ट्वा, अन्वेषणीया=अन्वेष्टव्या, लता=वल्लरी, इव, पादमूलं=निजचरमसमीपम्, आगता=प्राप्ता, बालचन्द्रिका, इति, सन्तुष्टमना-=तुष्टमानसः, निटिलतटेति=निटिलतटस्य=ललाट देशस्य, मण्डनीभवत्=आभूषणीभवत् यत् अम्बुजकोरकम्=कमलकुड्मलम् तस्य आकृतिः इव लसत्=शोभायमानम्, अञ्जलिपुटम्=अञ्जलिमुकुलम्, यस्याः सा तां तथोक्ताम्, प्रणमन्तीम्, बालचन्द्रिकाम्, इतः=अत्र स्थाने, निषीद=उपविश, इति, निर्दिष्टसमुचितासनासीनाम्=निर्दिष्टे=संकेतिते सुमुचिते=योग्ये, आसने=स्थाने आसीनां=उपविष्टाम्, अवन्तिसुन्दरी प्रेषितं=अवन्तिसुन्दर्या प्रहितम्, सकर्पूरं=कर्पूरेम सहितम्, ताम्बूलम्, विनयेन=नम्रतया, (राजवाहनाय) ददतीं=समर्पयन्तीम्, तां=बालचन्द्रिकाम्, कान्तावृत्तान्तम्=अवन्तिसुन्दर्याः समाचारम्, अपृच्छत्=पृष्टवान्। तया=बालचन्द्रिकया, सविनयं=विनयेनसहितं यथा स्यात्तथा, अभाणि=अवादि - `देव!=महाराज!, क्रीडावने=विहारोद्याने, भवदवलोकनकालं=भवतोऽवलोकनं भवदवलोकनम्, स कालो यस्य स तं तथोक्तम्, आरम्भ, मन्मथमथ्यमाना=कामेन सन्तप्यमाना, पुष्पतल्पादिषु=कुसुमशयनादिषु, तापशमनं=संज्वरशान्तिम्, अलभमाना=अप्राप्नुवती, अलभ्यं=अप्राप्यम्, उन्नततरुफलं=विशालस्य वृक्षस्य फलम्, वामनेन=खर्वकायेन, इव=यथा प्राप्तुमिष्यते, तद्वत् स्मरान्धतया=कामान्धतया, अप्राप्यं, त्वदुरःस्थलालिङ्गनसौख्यं, तव=राजवाहनस्य, उरःस्थलस्य=वक्षस्थलस्य यदालिङ्गनं तस्य सौख्यं=आनन्दम्, लिप्सु-=लब्धुमिच्छु सा=कान्ता, स्वयमेव=आत्मनैव, पत्रिकां=पत्रम्, आलिख्य=विलिख्य, वल्लभाय=दयिताय, एनां=पत्रिकाम्, अर्पय=प्रापय, इति, मां=स्वकीयां सहचरीम्, नियुक्तवती=न्ययुङ्क्त। राजकुमारः=राजवाहनः, तां=बालचन्द्रिकया दीयमानाम्, पत्रिकाम्=पत्रम्, आदाय=गृहीत्वा, पपाठ=पठितुमारब्धवान्॥</5.19>
<5.20>सुभग ……………………………मृदुलम्॥ 20 ॥
प्रसङ्गः-राजवाहनः अवन्ति सुन्दर्याः पत्रिकां पठति–
व्याख्या-सुभग=सुन्दर, जगदनवद्यं जगति=लोके अनवद्यं=अनिन्द्यम्, कुसुमसुकुमारं=कुसुमं=प्रसूनम् तदिव सुकुमारं=कोमलम्, ते=तव; रूपं स्वरूपम् सौंदर्यम्, विलोक्य=प्रेक्ष्य, मम=अवन्तिसुन्दर्या, मानसं=मनः, अभिलषति=कामयते, त्वामिति शेषः। अत ए त्वं=भवान्, चित्तं=स्वकीयं हृदयम् तथा=स्वरूपवत् मृदुलं=मसृणम्, कुरु=विधेहि। अर्थात् मां लब्धुं यत्नं कुरु॥</5.20>
<5.21>इति ……………………………..आचर॥ 21 ॥
प्रसङ्गः-पत्रिकां पठित्वा राजवाहनः बालचन्द्रिकां वदति–
व्याख्या-इति=पूर्वोक्तां पत्रिकाम्, पठित्वा, सादरं=आदरेण सहितम्, यथा स्यात् तता, अभाषत=अवदत्, सखि=सहचरी, छायावत्=प्रतिबिम्मवत्, मां=राजवाहनम्, अनुवर्तमानस्य=अनुसरतः, पुष्पोद्भवस्य=मन्मत्रस्य, वल्लभा=प्रियतमा, त्वमेव=भवती एव, तस्याः=अवन्तिसुन्दर्याः, मृगीदृशः-मृगलोचनायाः, बहिश्चराः=गात्राद् बहिः संचरणशीलाः, प्राणाः=जीवितम्, इव वर्तसे=असि। अस्याः=अवन्ति सुन्दर्याः, क्रियालतायां क्रिया=मत्प्रयोजनम्, सैव लता=वल्ली तस्याम्, त्वच्चातुर्यम्=तव चतुरता, आलवालं=मण्डलाकारजलसेकभूमिः, अभूत्=अभवत्। यत् तव=भवत्याः, अभीष्टं=वाञ्चितम्, येन च=उपायेन, प्रियमनोरथः=प्रियायाः मनोकामः, फलिष्यति=सफलीभविष्यति, तत्, अखिलं=समस्तम् (कार्यं) करिष्यामि=विधास्यामि। नताङ्ग्या=सुन्दर्या, मन्मनः=मम मनसः, काठिन्यं=कठोरता, आख्यातं=कथितम्। यदा=यस्मिन् काले, केलीवने=क्रीडोद्याने, कुरङ्गलोचना=हरिणनेत्री, लोचनापथं=नयनमार्गम्, अवर्त्तत=आगता, तदा=तस्मिन् समये, एव, अपह-तमदीयमानसा अपहृतं=चोरितम्, मदीयं=मम मानसं=हृदयम् यया सा तथोक्ता, एषा सा=अवन्तिसुन्दरी, स्वमन्दिरं=निजगृहम्, अगात्=गतवती, सा=अवन्तसुन्दरी, स्वचैतसः=निजमानसस्य, माधुर्यकाठिन्ये=माधुर्यं काठिन्यञ्च, मृदुताकर्कशत्वे, स्वयमेव जानाति। कन्यान्तःपुरप्रवेशः-कन्यायाः अन्तःपुरे गमनम्, दुष्करः=कठिनः। तदनुरूपं=तस्य=प्रवेशस्य, अनुरूपं=योग्यम्, उपायं=विधिम, उपपाद्य=विधाय, श्वः=आगमिनि दिवसे, परश्वः तत्परदिने वा, नताङ्गीम्=कृशोदरीम्, संगमिष्यामि=संमिलिष्यामि। मदुदन्तं=म् समाचारम्, एवं मत्कथनानुसारम्, आख्याय=कथयित्वा, शिरीषकुसुमसुकुमारायाः=शिरीषस्य=पुष्पविशेषवृक्षस्य यत् कुसुमं=प्रसूनम् तद्वत् सुमाकुरायाः=कोमलायाः अवन्तिसुन्दर्याः, यथा=येन प्रकारेण, शरीरबाधा=संज्वरः, न जायेन=न उत्पद्येत, तथाविधं =तादृशमेव, उपायम्=उद्यमम्, आचर=कुरु॥</5.21>
<5.22>बालचन्द्रिकापि ……………………………..परिबभ्राम॥ 22 ॥
प्रसङ्गः-बालचन्द्रिकायाः प्रत्यावर्तनं राजवाहनस्य क्रियाकलापश्च कविना वर्ण्यते–
व्याख्या-बालचन्द्रिकाऽपि=पुष्पोद्भवस्त्री अपि, तस्यृ=राजवाहनस्य, प्रेमगर्भिते=प्रणयश्लथम्, वचनं=वाक्यम्, आकर्ण्य=श्रुत्वा, संतुष्टा=प्रीता सती, कन्यान्तःपुरम्=कन्यानिवासगृहम्, अगच्छत्=गतवती। राजवाहनोऽपि=राजकुमारोऽपि, यत्र=उपवने, हृदयवल्लभावलोकनसुखम्=प्राणेश्वरीदर्शनानन्दम्, अलभत्=प्राप्तवान्, तदुद्यानं=विरहविनोदाय=विरहस्य वियोगस्य विनोदाय दूरीकरणाय, पुष्पोद्भवसमन्वितः=पुष्पोद्भवंन सहितः, जगाम=अगच्छत्। तत्र=आक्रीडे, चकोरेति-चकोरस्य इव दीर्घे आयते लोचने नयने यस्याः स, तया, अवचितानि=छिन्नानि, पल्लवानां=किशलयानाम्, कुसुमानां=पुष्पाणाम्, च निकुरम्बाणि=समूहाः यस्य सः तं तथाविधम्, महीरुहसमूहं=वृक्षव्रातम्, शरदिन्दुमुख्याः=शरच्चन्द्रवदनायाः मन्मथसमाराधनस्थानं=कामपूजनदेशम्, च, नताङ्गीपदपङ्क्तिचिह्नितं=नताङ्ग्याः सुन्दर्याः, पदपङ्क्त्या=चरणचिह्नेन चिह्नितम्=लाञ्छितम्, शीतलसैकततलं शिशिरबालुकामयभूभागम्, च, सुदतीभुक्तमुक्तम्=सुदत्या शोभनदन्तया आदौ भुक्तं आस्वादितम्, पश्चाच्च, मुक्तं=त्यक्तम्, माधवीति माधवीलतायाः=वासन्त्याः मण्डपस्य निकुञ्जस्य, अन्तरे=मध्ये, यत् पल्लवतल्पं=किसलयशयनम्, तच्च, विलोकयन्=पश्यन्, ललनेति=ललनातिलकस्य=नारीमूषणस्य, (अवन्ति सुन्दर्याः) विलोकनवेलायां=दर्शनसमये, जनितः=उत्पादितः, शेषः अविशिष्टांशः येषां तानि तथाभूतानि वाक्यानि, स्मारं-स्मारं-पुनः पुनः स्मृत्वा, मन्दमारुतकम्पितानि=मन्थरपवनेन चालितानि, नवचूतपल्लवानि=नूतनाम्रकिसलयानि, मदनाग्निशिका=कामाग्निज्वाला, इव, चकितः=विस्मितः, यथा स्यात्तथा, दर्श दर्शम्, मुहुः दुष्ट्वा, मनोजकर्णेजपानां मनोजस्य=कामस्य कर्णेजपाः दुर्मन्त्रिणः तेषाम् मदनोद्दीपकानामिव, कोकिलकीरमधुकराणां, पिकशुकभ्रमराणाम्, क्वणितानि=रुतानि, श्रावं-श्रुत्वा, मारविकारेण=मदनोद्दीपनतया, क्वचिदपि=कुत्रापि, अवस्थातुं=स्थितिं प्राप्तुम्, असहिष्णुः=असहनशीलः, परिबभ्राम=इतस्ततः पर्यटनं चकार॥</5.22>
<5.23>तस्मिन्नवसरे ……………………………….विससर्ज॥ 23 ॥
प्रसङ्गः-ऐन्द्रजालिकस्य सहसातत्रागमनं तेन च सह पुष्पोद्भवराजवाहनयोः वार्ता वर्ण्यते।
व्याख्या-तस्मिन्नवसरे=तस्मिन् समये परिभ्रमणवेलायाम्, एकः=तश्चित्, धरणीसुरः=ब्राह्मणः, यदृच्छया=स्वेच्छया, सहसा सूक्षमचित्रनिवसनः=सूक्ष्मं=श्लक्ष्णं चित्रं=नानावर्मकञ्च निवसनं वस्त्रं यस्य सः तादृशः, स्फुरन्मणिकुण्डलमण्डितः=मणेः कुण्डलं मणिकुण्डलम्, स्फुरत् चञ्चत् मणिकुण्डलं यस्य सः तेन मण्डितः विभूषितः, मुण्डितमस्तकमानवसमेतः=मुण्डितं=परिवारितं, मस्तकं शिरः यस्य तादृसेन अन्येन मानवेन=नरेम समेतः=युक्तः, चतुरवेषमनोरम-=चतुरवेषेण मनोरमः सुन्दरः, समागतः=प्राप्तः, समन्ततः=परितः, अभ्युल्लसत्=अभि समन्तात् उल्लसत् प्रस्फुरत्, तेजोमण्डलं तेजसां=दीप्तीनाम्, मण्डलं=परिवेषः यस्य सः तं तादृशम् राजवाहनं=राजकुमारम्, आशीर्वादपूर्वकं=आशीर्वादेन सहितं यथा स्यात् तथा, ददर्श=अपश्यत्। राजवाहनः, तं=समुपस्थितम् पुरुषम्, सादरं=आदरेण सहितं यथा स्यात् तथा पप्रच्छ=पृष्टवान्=भवान्=त्वम्, कः, कस्यां, विद्यायां=कलायाम्, निपुमः=दक्षः,। स च=पुरुषश्च, अहं, विद्येश्वरनामधेयः=विद्येश्वर नामकः ऐन्द्रजालिकविद्याकोविदः=ऐन्द्रजालिकविद्यायां कोविदः=पण्डितः, विविधदेशेषु=नानाप्रान्तेषु, राजमनोरञ्जनाय-राज्ञां मनोविनोदय, भ्रमन्=अटन् उज्जयिनीम्=अवन्तीम्, अदाय=अस्मिन्काले आगतः=प्राप्तः अस्मि, इति=एवम्, शशंस=कथयामास। पुनरपि=भूयोऽपि, राजवाहनं=राजकुमारम्, सम्यक्=सुष्ठुतया, आलोक्य=दृष्ट्वा, साभिप्रायं=अभिप्रायेण सहितम्, विहस्य=हसित्वा, अपृच्छत्=पप्रच्छ=अस्यां=एतस्याम्, लीलावनौ=कीडाभूमौ, पाण्डुतानिमित्तं=मुखस्य पीतिमायाः कारणम्, किन्? इति। पुष्पोद्भवश्च=राजवाहनसखा च, निजकार्यकरणं=स्वकीयकार्यसम्पादकम्, (पुरुषमेन्द्रजालिकम्) तर्कयन्=भावयन्, एनं=ऐन्द्रजालिकम्, आदरेण=सत्कारेण, बभाषे=उक्तवान्=ननु, सतां=महात्मनाम्, सख्यस्य=मित्रतायाः, आभाषणपूर्वतया=आभाषणं आलापः पूर्वं यस्मिन् तस्य भावः तत्ता तया आभाषणपूर्वतया, चिरं=चिरकालम्, रुचिरभाषणः=रुचिरं प्रियं भाषणं=वचनम् यस्य सः ततोक्तः भवान्=त्वम्, अस्माकम्=आवयोः, प्रियवयस्यः=परमसुहृत्, जातः=अभूत्। सुहृदां=मित्राणाम्, अकथ्यम्=गुह्यम्, किमरित?=न किमपीत्यर्थः अस्मिन् केलीवने=क्रीडोद्याने, वसन्तमहोत्सवाय=कुसुमाकरोत्सवनिमित्तम्, आगतायाः=प्राप्तायाः, मालवेन्द्रसुतायाः=मानसारतनुजायाः, अस्य=एतस्य, राजनन्दनस्य=राजपुत्रस्य च, आकस्मिकदर्शने=सहसासाक्षात्करणे, अन्योन्यानुरागातिरेकः=परस्परं प्रेमातिशयः, समजायत=उत्पन्नोऽभवत्। परन्तु संगमसुखसमद्यापि न प्राप्तम्। सततेति सततं=अनवरतम्, यः सम्भोगः तस्य सिद्धेः उपाय तस्य अभावेन=अवाप्त्या, असौ=राजनन्दनः, ईदृशीम्=पाण्डुरतामयीम्, अवस्थां=दशाम्, अनुभवति=गच्छति। विद्येश्वरः=ऐन्द्रजालिकः, लज्जाभिरामं=व्रीडयासुन्दरम्, राजकुमारमुखं=राजवाहनस्य आननम्, अभिवीक्ष्य=पूर्मतया निरीक्ष्य, विरचितमन्दहासः=विरचितः कृतः मन्दः मधुरः हासः स्मितं येन सः तादृशः, व्याजहार=प्रोक्तवान्-देव!=स्वामिन्! भवदनुचरे=तव सेवके, मयि=विद्येश्वरे, तिष्ठति=वर्तमाने, सति, असाध्यं=दुष्करम्, तव=भवतः कार्य=कर्त्तव्यम्, किमस्ति=न किमपीत्यर्थः। अहं=विद्येश्वरः इन्न्द्रजालविद्यया=मायिकविद्यया, मालवेन्द्रं=मानसारम्, मोहयन्=वशीकुर्वन्, पौरजनसमक्षमेव=पुरवासिनां सम्मुखे एवं, तत्तनयापरिणयं=अवन्तिसुन्दर्याः विवाहम्, रचयित्वा=कारयित्वा, कन्यान्तःपुरप्रवेशं=कन्यानिवासस्थाने उपस्थितिम्, कारयिष्यामि=संपादयिष्यामि, इति। एषः=मयोक्तः,वृत्तान्तः=उदन्तः, राजकन्यकायै=अवन्तिसुन्दर्यै, सखीमुखेन=बयस्या द्वारा, पूर्वमेव=प्रागेव, कथयितव्यः=सूचनीयः प्रेष्यः! सन्तुष्टमनाः=प्रसन्नहृदयः, महीपतिः=राजवाहनः, अनिमित्तं=निष्कारणम्, मित्रम्=वयस्यम्, प्रकटीकृतेति प्रकटीकृतं=प्रकाशीकृतम्, कित्रिमक्रियायां=ऐन्द्रजाले, पाटवं=कौशलम् येन सः तं तथोक्तम्, विप्रलम्भेति विप्रलम्भः=प्रतारणम्, कृत्रिमप्रेम=कपटानुरागः सहजसौहार्द-स्वाभाविकमैत्रीम्, तानि वेत्तीति सः तम् तथोक्तम्, तं=विद्योश्वरम् सबहुमानं=ससम्मानम्, विससर्ज=गन्तुमनुमोदितवान्॥</5.23>
<5.24>अथ …………………………….समचरन्॥ 24 ॥
प्रसङ्गः-विद्येश्वरे गते सति सपुष्पोद्भवस्य राजवाहनस्य गृहगमनं ततश्च ऐन्द्रजालिकेन मायिकविद्या प्रदर्शनादिकं कविना वर्ण्यते–
व्याख्या-अथ=तदनन्तरम्, राजवाहनः=राजहंससुतः, विद्येश्वरस्य=मायिकस्य, क्रियापाटवेन=कर्मचातुर्येण, मनोनरथं=मनोकामम्, फलित=प्राप्तम्, इव, मन्यमान-=जानन्, पुष्पोद्भवेन, सह=साकम्, स्वमन्दिरं=निजनिवासगृहम्, उपेत्य=आगत्य, सादरं=आदरेण सहितं, यथा स्यात्तथा, बालचन्द्रिकामुखेन=पुष्पोद्भवपत्नीद्वारा, निजवल्लभायै=स्वकान्तायै, महीसुरक्रियमाणं=ब्राह्मणेन विधीयमानम्, संगमोपायं=समागमविधिम्, वदेयित्वा=ज्ञपयित्वा, कौतुकाकृष्टहृदयः=कौतुकेन=कौतूहलेन आकृष्टं=आकर्षितम् हृदयं=मानसम् यस्य सः, तादृशः, इमां=प्रस्तुताम् क्षपां=रजनीम् कथं=केन प्रकारेण, क्षपयामि=यापयामि, इति=एवम्, चिन्तयन्, अतिष्ठत्=स्थितवान्। परेद्यु=अपरदिवसे, प्रभाते=प्रातरवेलायाम्, विद्येश्वरः=ऐन्द्रजालिकः ब्राह्मणः, रसभावरीतिगतिचतुरः=रसाः शृङ्गारादयः भावाः=चेष्टादयः, रीतिगतयः=इन्द्रजालक्रियाः, तासु चतुरः=कुशलः, तादृशेन=तत्तद्गुणयुक्तेन, महता=विपुलेन, निजपरिजनेन=स्ववर्गेण, सह=साकम्, राजभवनद्वारान्तिकं=राज्ञः भूपस्य, भवनं=गृहम्, तस्य द्वारम्=प्रवेशस्थानम्, तदन्तिकं=तत्समीपम्, उपेत्य=आगत्य, दौवारिकेति=दौवारिकेन=द्वाःस्थेन, निवेदितः=विज्ञापितः, निजवृत्तान्तः=स्वकीयपरिचयः येन सः तथोक्तः, सहसा=त्वरित, उपगम्य=उपस्थितोभूय, सप्रणामम्=प्रणामपूर्वकम्, यथा स्यात्तथा, `ऐद्रजालिकः=मायिकः, समागतः=प्राप्तः, इति द्वाःस्थेन=द्वारपालेन, विज्ञापितेन=निवेदितेन, तद्दर्शनकूतूहलाविष्टेन-तस्य=ऐंद्रजालिकस्य दर्शने=विलोकने यत् कुतूहलं कौतुकम् तेन आविष्टः=व्याप्तः तेन तथोक्तेन, समुत्सुकावरोधसहितेन=उत्कण्ठितान्तःपुरवर्गसहितेन, मालवेन्द्रेण-मानसारेम, समाहूयमानः=आकार्यमाणः, विद्येश्वरः=ऐद्रजालिकः, कक्षान्तरं=मन्दिरान्तरम् प्रविस्य=गत्वा, सविनयं=विनयेन सहितं यथा स्यात्तथा, आशिषं=आशीर्वादम्, दत्वा=उक्त्वा, तदनुज्ञातः=तेन मानसारेण अनुज्ञातः आदिष्टः, परिजनताड्यमानेषु=परिजनैः स्वजनैः ताड्यमानेषु=वाद्यमानेषु, वाद्येषु=मृदङ्गादिषु, नदत्सु=रसितेषु, मदकलेति मदकलानां=मदोन्मत्तानाम्, कोकिलानां=पिकानाम्, इव, म़ञ्जुलः श्रुतिमधुरः, ध्वनिः स्वरः यासां तासु, तथाविधासु, गायकीषु=गायनकर्तृषु, समधिकेति=समधिकेन=साधिक्येन, रागेण=प्रेम्णा, रञ्जिता=समाकृष्टा, सामाजिकानां=सब्यानाम्, मनोवृत्तिः=चित्तव्यापारः, यैः तेषु, पिच्छिकाभ्रमणेषु=पिच्छिकां मायिकानां साधनीभूता मयूरादिपृच्छगुच्छाः तेषां भ्रमणेषु विघूर्णितेषु, सपरिवारम्=सप्रजावर्गम्, राजानं=मानसारम्, भ्रामयन्=भ्रान्तं कुर्वन्, मुकिलितनयनः=मुद्रितनेत्रः, क्षणं=मुहूर्तमात्रम्, अतिष्ठत्=स्थितिं, कृतवान्। तदनु=तदनन्तरम्, विषमं=भयंकरम्, उल्वणं=उत्कटम्, विषं=कालकूटम्, वमन्तः=उद्गिरन्तः, फणालंकरणा=फणाः फटाः अलंकरणं=आभूषणं येषां ते तथोक्ताः, रत्नराजीतिo–रत्नानां=मणीनाम्, राजिभिः श्रेणिभिः, नीराजितः=प्रकाशितः चमत्कृतः, राजमन्दिरस्य=नृपनिवासस्य, आभोगः=सकलः प्रदेशः यैस्ते तथोक्ताः, भोरिन-=पन्नगाः, भयं=साध्वसम्, जनयन्तः=उत्पादयन्तः, निश्चेरुः=निःसृत्य भ्रमितुमारब्धवन्तः। बहवः=अनेके, गृध्राः=पक्षिविशेषाः, च, तुण्डैः=मुखैः, अहिपतीन्=भुजंगमान्, आदाय=गृहीत्वा, दिवि अन्तरिक्षम्, समचरत्=उड्डयनं अकुर्वन्॥</5.24>
<5.25>ततोऽग्रजन्मा …………………………श्रावयामास॥ 25 ॥
प्रसङ्गः-इन्द्रजालम्, ऐन्द्रजालिककृतोपायेन च राजवाहनावन्तिसुन्दर्योः विवाहः कविना वर्ण्यते-
व्याख्या-ततः=तत् पश्चात्, अग्रजन्मा=विप्रः विद्येश्वरः, नरसिंहस्य=नृसिंहावतारधारिणः विष्णोः, दैत्येश्वरस्य=राक्षसराजस्य, हिरण्यकशिपोः प्रह्लादजनकस्य, विदारणं=नखै च्छेदनम्, अभिनीय=प्रदश्य, महाश्चर्यान्वितः=अतिविस्मययुक्तम्, राजानं=मानसारम्, अभाषत्=अकथयत्-`राजन्!=भूप!, अवसानसमये=क्रीडान्तकाले, भवता=त्वया, शुभसूचकं=मङ्गलज्ञापकम्, द्रष्टुं=विलोकयितुम्, उचितम्=समीचीनम्, ततः=तस्मात्, कल्याणपरम्परावाप्तये=मङ्गलपरम्पराप्राप्तये, भवदात्मजाकारायाः-भवतः=तव आत्मजाया-=सुतायाः, आकार इव आकारः स्वरूपं यस्या सा तस्याः तथोक्ताया तरुण्या=युवत्याः, निखिललक्षणोपेतस्य=समस्तसद्गुणयुक्तस्य, राजनन्दनस्य=राजकुमारस्य, विवाहः=पाणिग्रहणसंस्कारः, कार्यः=सम्पाद्यः, इति, अस्माभिः इति आक्षेप्यः। तदवलोकनकुतूहलेन–तस्य अवलोकनं=विलोकनम्, तेन यत् कुतूहलम्=कौतुकम्, यस्य सः तेन तादृशेन, महीपालेन=भूभृता, मानसारेण, अनुज्ञातः=अनुमोदितः सः=मायिकः, संकल्पितार्थस्य=अभीष्टार्थस्य, सिद्धेः=पूर्तेः, सम्भावनेन=सम्भावनया, सम्फुल्लं=प्रसन्नम्, वदनं=मुखम्, यस्य सः विद्येश्वरः, सकलमोहजनक-सकलानां-निखिलानाम्, मोहजनकं=भ्रमकारकम्, अञ्जनं=कज्जलम्, लोचनयोः=नयनयोः, निक्षिप्य=संयोज्य, परितः=चतुर्दिक्षु, व्यलोकयत्=विलोकितवान्। तदैन्द्रजालिकं=तत्=कार्यम्, ऐन्द्रजालिकम् मायिकम्, एव, इति, सर्वेषु=सकलेषु दर्शकेषु साद्भुतम्=अद्भुतैन आश्चर्येण सहितं यथा स्यात्तथा, पश्यत्सु=विलोकयत्सु, रागपल्लवितहृदयेन, रागेण=प्रेम्णा, पल्लवितं=विकसितं, हृदयं=मानसम् यस्य सः तेन तादृशेन राजवाहनेन=राजकुमारेण, पूर्वसंकेतसमागतेतिo–पूर्वेण=प्राक्प्रदत्तेन, संकेतेन=सूचनिकया, समागतां=उपस्थिताम्, अनेकभूषणैः=बहुभिः अलङ्कारैः भूषितानि=अलङ्कृतानि अङागनि=अवयवा यस्याः सा तां तादृशीम्, अवन्तिसुन्दरीम्=मानसाकरन्यकाम्, वैवाहिकेतिo–वैवाहिकाः=विवाहसम्बन्धिनः ये मन्त्रतन्त्रादयः तेषु यत्नैपुण्यं=दाक्ष्यम्, तेन, तथोक्तेन, यथाविधिम्, अग्निं=पावकम्, साक्षीकृत्या=साक्षिणं मत्वा, संयोजयामास=सुष्ठुतया योजितवान्। क्रियावसाने=वैवाहिकक्रियायाः अवसाने=समाप्तौ सति, इन्द्रजालपुरुषाः=मायापुरुषाः, सर्वे=समस्ताः, भवन्तः=यूयम्, गच्छन्तु=स्वस्वस्थानम् यान्तु, इति=एवम्, द्विजन्मना=मायिकेनाग्रजन्मना, उच्चैः=तारस्वरेण, उच्यमाने=भाषमाणे, सर्वे=सकलाः, मायामानवाः=मायया रचिताः पुरुषाः, यथायथाम्=क्रमशः, अन्तर्भावम्=तिरोभावम्, गतः=प्राप्ताः। राजवाहनोऽपि=राजनन्दनोऽपि, पूर्वकल्पितेन=प्राङ्निर्धारितेन, गूढोपायचातुर्येण=गुप्तसाधनपाटवेन, ऐन्द्रजालिक पुरुषवत्=मायिकमानववत्, कन्यान्तःपुरं–मानसारोऽपि, तद्भुतं=तत् ऐन्द्रजालिकेन दर्शितम् कर्म अद्भुतं=आश्चर्यमयम्, मन्यमानः=जानन् तस्मै वाडवाय=विद्येश्वरब्राह्मणाय, प्रचुरतरं=प्रभूततरम्, धनं=द्रव्यम्, तत्त्वा=प्रदाय, विद्येश्वरं=ऐन्द्रजालिकम्, इदानीम्=साम्प्रतम्, साधय=याहि, इति=इत्थमुक्त्वा, विसृज्य=विहाय, स्वयम्=स्वतः, अन्तर्मन्दिरम्=अन्तःपुरम्, जगाम=विवेश। ततः=तदनन्तरम्, अवन्तिसुन्दरी=मालवेशकन्यका, प्रियसहचरीवरपरिवारा=प्रियसखीसंयुक्ता, वल्लभोपेता=पतिसनाथा, सुन्दरं=रमणीयम्, मन्दिरं=निवासभवनम्, ययौ=सामर्थ्येन, मनोरथसाफल्यं=मनोकामस्य पूर्तिम्, उपेतः=प्राप्तः, राजवाहनः=राजहंससुतः, सरसमधुरचेष्टाभिः=ससाः रसान्विताः मधुराः याः चेष्टाः भङ्ग्यः, ताभिः, शनैः शनैः=विश्वासम्, उपजनयन्=संवर्धयन्, संलोपे=मिथः वार्त्तालापे, तदनुलापेति=तस्याः=अवन्तसुन्दर्याः, अनुलापे=मुहुः भाषणे, यत् पीयूषं=अमृतम्, तस्य पाने, लोलः=चञ्चलः, राजवाहनः, चित्रचित्रं=विस्मयकारकम्, चित्तहारिणं=मनोहारिणम्, चतुर्दशभुवनवृत्तान्तं=चतुर्दशानां भुवनानाम्=लोकानाम् (भूः भुवः इत्येतेषाम्) वृत्तान्तं=आख्यानम्, श्रावयामास=कथयामास, अश्रावयत्॥</5.25>
॥ इति त्रिपाठियमुनेश `चातकेन’कृतायां महाकविदण्डिविरचित दशकुमारचरितस्य पूर्वपीठिकायाः प्रदीपिकाख्याव्याख्यायां पञ्चम उच्छ्वासः ॥