३ सोमदत्तचरितम्

देव भवच्चरणकमलसेवाभिलाषीभूतोहं भ्रमन्नेकस्यां वनावनौ पिपासाकुलो लतापरिवृतशीतलनदसलिलं पिबन्नुज्ज्वलाकारं रत्नं तत्रैकमद्राक्षम् ।
तदादाय गत्वा च कञ्चनाध्वानमतिक्रम्याम्बरमणेरत्युष्णतया गन्तुमक्षमो वनेस्मिन्नेव किमपि देवायतनं प्रविष्टो दीनाननं बहुतनयसमेतं स्थविरं महीसुरमेकमवलोक्य कुशलमुदितदयोहमपृच्छम् ।
कार्पण्यविवर्णवदनो महदाशापूर्णमानसोवोचदग्रजन्मा ।
महाभागसुतानेतान्मातृहीनाननेकैरुपायै रक्षन्निदानीमस्मिन्कुदेशे भैक्षं सम्पाद्य दददेतेभ्यो वसामि शिवालयेस्मिन्निति ।
भूदेव एतत्कटकाधिपती राजा कस्य देशस्य किन्नामधेयः किमत्रागमनकारणमस्येति पृष्टोभाषत महीसुरः ।
सौम्य मत्तकालो नाम लाटेश्वरो देशस्यास्य पालयितुर्वीरकेतोस्तनयां वामलोचनां नाम तरुणीरत्नमसमानलावण्यं श्रावंश्रावमवधूतदुहितृप्रार्थनस्य तस्य पाटलीं नाम्ना नगरीमरौत्सीत् ।
वीरकेतुरपि भीतो महदुपायनमिव तनयां मत्तकालायादात् ।
तरुणीलाभहृष्टचेता लाटपतिः परिणेया निजपुर एवेति निश्चित्य गच्छन्निजदेशं प्रति सम्प्रति मृगयादरेणात्र वने सैन्यवासमकारयत् ।
कन्यासारणे नियुक्तो मानपालो नाम वीरकेतुमन्त्री मानधनश्चतुरङ्गबलसमन्वितोन्यत्र रचितशिबिरस्तन्निजनाथावमानखिन्नमानसोन्तर्बिभेदेति ।
विप्रोसौ बहुतनयो विद्वान्निर्धनः स्थविरश्च दानयोग्य इति तस्मै करुणापूर्णमना रत्नमदाम् ।
परमाह्लादविकसिताननोभिहितानेकाशीः कुत्रचिदग्रजन्मा जगाम ।
अध्वश्रमखिन्नेन मया तत्र निरवेशि निद्रासुखम् ।
तदनु पश्चान्निगडितबाहुयुगलः स भूसुरः कशाघातचिह्नितगात्रोनेकनैस्त्रिंशिकैरनुयातोभ्येत्य मामसौ दस्युरित्यदर्शयत् ।
परित्यक्तभूसुरा राजभटा रत्नावाप्तिप्रकारं मदुक्तमनाकर्ण्य भयरहितं मां गाढं नियम्य रज्जुभिरानीय कारागारमेते तव सखाय इति निगडितान्कांश्चिन्निर्दिष्टवन्तो मामपि निगडितचरणयुगलमकार्षुः ।
किङ्कर्तव्यतामूढेन निराशक्लेशानुभवेनावाचि मया ।
ननु पुरुषा वीर्यपरुषा निमित्तेन केन निर्विशथ कारावासदुःखं दुस्तरम् ।
यूयं वयस्या इति निर्दिष्टमेतैः किमिदमिति ।
तथाविधं मामवेक्ष्य भूसुरान्मया श्रुतं लाटपतिवृत्तान्तं व्याख्याय चौरवीराः पुनरवोचन् ।
महाभाग वीरकेतुमन्त्रिणो मानपालस्य किङ्करा वयं तदाज्ञया लाटेश्वरमारणाय रात्रौ सुरुङ्गाद्वारेण तदगारं प्रविश्य तत्र राजाभावेन विषण्णा बहु धनमपहृत्य महाटवीं प्राविशाम ।
अपरेद्युश्च पदान्वेषिणो राजानुचरा बहवोभ्येत्य धृतधनचयानस्मान्परितः परिवृत्य दृढतरं बद्ध्वा निकटमानीय समस्तवस्तुशोधनवेलायामेकस्यानर्घ्यरत्नस्याभावेनास्मद्वधाय माणिक्यादानायास्मान्किलाशृङ्खलयन्निति ।
श्रुतरत्नरत्नावलोकनस्थानोहमिदं तदेव माणिक्यमिति निश्चित्य भूदेवदाननिमित्तां दुरवस्थामात्मनो जन्म नामधेयं युष्मदन्वेषणपर्यटनप्रकारं चाभाष्य समयोचितैः संलापैर्मैत्रीमकार्षम् ।
ततोर्धरात्रे तेषां मम च शृङ्खलाबन्धनं निर्भिद्य तैरनुगम्यमानो निद्रितस्य द्वाःस्थगणस्यायुधजालमादाय पुररक्षान्पुरतोभिमुखागतान्पटुपराक्रमलीलयाभिद्राव्य मानपालशिबिरं प्राविशम् ।
मानपालो निजकिङ्करेभ्यो मम कुलाभिमानवृत्तान्तं तत्कालीनविक्रमं च निशम्य मामार्चयत् ।
परेद्युर्मत्तकालेन प्रेषिताः केचन पुरुषा मानपालमुपेत्य मन्त्रिन् मदीयराजमन्दिरे सुरुङ्गया बहु धनमपहृत्य चौरवीरा भवदीयकटकं प्राविशंस्तानर्पय नोचेन्महाननर्थः सम्भविष्यतीति क्रूरतरं वाक्यमब्रुवन् ।
तदाकर्ण्य रोषारुणितनेत्रो मन्त्री लाटपतिः कस्तेन मैत्री का पुनरस्य वराकस्य सेवया किं लभ्यमिति तान्निरभर्त्सयत् ।
ते च मानपालेनोक्तं विप्रलापं मत्तकालाय तथैवाकथयन् ।
कुपितोपि लाटपतिर्दोर्वीर्यगर्वेणाल्पसैनिकसमेतो योद्धुमभ्यगात् ।
पूर्वमेव कृतरणनिश्चयो मानी मानपालः सन्नद्धयोधो योद्धुकामो भूत्वा निःशङ्कं निरगात् ।
अहमपि सबहुमानं मन्त्रिदत्तानि बहुलतुरङ्गमोपेतं चतुरसारथिं रथं च दृढतरं कवचं मदनुरूपं चापं च विविधबाणपूर्णं तूणीरद्वयं समुचितान्यायुधानि गृहीत्वा युद्धसन्नद्धो मदीयबलविश्वासेन रिपूद्धरणोद्युक्तं मन्त्रिणमन्वगाम् ।
परस्परमत्सरेण तुमुलसङ्गरकरमुभयसैन्यमतिक्रम्य समुल्लसद्भुजाटोपेन बाणवर्षं तदङ्गे विमुञ्चन्नरातीन्प्राहरम् ।
ततोतिरयतुरङ्गमं मद्रथं तन्निकटं नीत्वा शीघ्रलङ्घनोपेततदीयरथोहमरातेः शिरःकर्तनमकार्षम् ।
तस्मिन्निपतिते तदवशिष्टसैनिकेषु पलायितेषु नानाविधहयगजादिवस्तुजातमादाय परमानन्दसन्नतो मन्त्री ममानेकविधां सम्भावनामकार्षीत् ।
मानपालप्रेषितात्तदनुचरादेनमखिलमुदन्तजातमाकर्ण्य सन्तुष्टमना राजाभ्युद्रतो मदीयपराक्रमे विस्मयमानः समहोत्सवममात्यबान्धवानुमत्या शुभदिने निजतनयां मह्यमदात् ।
ततो यौवराज्याभिषिक्तोहमनुदिनमाराधितमहीपालचित्तो वामलोचनयानया सह नानाविधसौख्यमनुभवन्भवद्विरहवेदनाशल्यवैकल्यहृदयः सिद्धादेशेन सुहृज्जनावलोकनफलं प्रदेशं महाकालनिवासिनः परमेश्वरस्याराधनायाद्य पत्नीसमेतः समागतोस्मि ।
भक्तवत्सलस्य गौरीपतेः कारुण्येन भवत्पादारविन्दसन्दर्शनानन्दसन्दोहो मया लब्ध इति ।
तन्निशम्याभिनन्दितपराक्रमो राजवाहनस्तन्निरपराधदण्डे दैवमुपालभ्य तस्मै क्रमेणात्मचरितं कथयामास ।
तस्मिन्नवसरे पुरतः पुष्पोद्भवं विलोक्य ससम्भ्रमं निजनिटिलतटस्पृष्टचरणाङ्गुलिमुदञ्जलिममुं गाढमालिङ्ग्यानन्दवाष्पसम्फुल्ललोचनः सौम्य सोमदत्तायं स पुष्पोद्भव इति तस्मै तं दर्शयामास ।
तौ च चिरविरहदुःखमुत्सृज्यान्योन्यालिङ्गनसुखमन्वभूताम् ।
ततस्तस्यैव महीरुहस्य च्छायायामुपविश्य राजा समभाषत ।
वयस्य भूसुरकार्यकरिष्णुरहं मित्रगणो विदितार्थः सर्वथान्तरायं करिष्यतीति निद्रितान्भवतः परित्यज्य निरगाम् ।
तदनु प्रबुद्धो वयस्यवर्गः किमिति निश्चित्य मदन्वेषणाय कुत्र गतवान् ।
भवानेकाकी कुत्र गत इति ।
सोपि ललाटतटचुम्बदञ्जलिपुटः सविनयमलपत् ॥
इति श्रीदण्डिनः कृतौ दशकुमारचरिते सोमदत्तचरितं नाम तृतीय उच्छ्वासः ॥