अस्ति समस्तनगरीनिकषायमाणा शश्वदगण्यपण्यविस्तारितमणिगणादिवस्तुजातव्याख्यातरत्नाकरमाहात्म्या मगधदेशशेखरीभूता पुष्पपुरी नाम नगरी ।
तत्र वीरभटपटलोत्तरङ्गतुरङ्गकुञ्जरमकरभीषणसकलरिपुगणकटकजलनिधिमथनमन्दरायमाणसमुद्दण्डभुजदण्डः पुरन्दरपुराङ्गणवनविहरणपरायणगीर्वाणतरुणगणिकागणजेगीयमानयातिमानया शरदिन्दुकुन्दघनसारनीहारहारमृणालमरालसुरगजनीरक्षीरगिरिशाट्टहासकैलासकाशवीकाशमूर्त्या रचितदिगन्तरालपूर्त्या कीर्त्याभितः सुरभितः स्वर्लोकशिखरोरुरुचिररत्नरत्नाकरवेलामेखलावलयितधरणीरमणीसौभाग्यभोगभाग्यवाननवरतयागदक्षिणारक्षितशिष्टविशिष्टविद्यासम्भारभासुरभूसुरनिकरो विरचितारातिसन्तापेन प्रतापेन सतततुलितवियन्मध्यहंसो राजहंसो नाम घनदर्पकन्दर्पसौन्दर्यसोदर्यहृद्यनिरवद्यरूपो भूपो बभूव ।
तस्य वसुमती नाम वसुमतीव लीलावतीकुलशेखरमणी रमणी बभूव ।
रोषणेक्षणेन निटिलेक्षणेन भस्मीकृतचेतने मकरकेतने तदा भयेनानवद्या वनितेति मत्वा तस्या रोलम्बावली केशजालं प्रेमाकरो रजनीकरो विजितारविन्दं वदनं जयध्वजायमानो मीनो जायायुतोक्षियुगलं सकलसैनिकाङ्गवीरो मलयसमीरो निःश्वासः पथिकहृद्दलनकरवालः प्रवालश्चाधरबिम्बं जयशङ्खो बन्धुरा लावण्यधरा कन्धरा पूर्णकुम्भौ चक्रवाकानुकारौ पयोधरौ ज्यायमाने मार्दवासमाने बिसलते च बाहू ईषत्फुल्ललीलावतंसकह्लारकोरको गङ्गावर्तसनाभिर्नाभिर्दूरीकृतयोगिमनोरथो जैत्ररथोतिघनं जघनं जयस्तम्भभूते सौन्दर्यभूते विघ्नितयतिजनारम्भे रम्भे चोरुयुगमातपत्रसहस्रपत्त्रं पादद्वयमस्त्रभूतानि प्रसूनानि तानीतराण्यङ्गानि च समभूवन्निव ।
विजितामरपुरे पुष्पपुरे निवसता सानन्तभोगलालिता वसुमती वसुमतीव मगधराजेन यथासुखमन्वभावि ।
तस्य राज्ञः परमविधेया धर्मपालपद्मोद्भवसितवर्मनामधेया धीरधिषणावधीरितविबुधाचार्यविचार्यकार्यसाहित्याः कुलामात्यास्त्रयोभूवन् ।
तेषां सितवर्मणः सुमतिसत्यवर्माणौ धर्मपालस्य सुमन्त्रसुमित्रकामपालाः पद्मोद्भवस्य सुश्रुतरत्नोद्भवाविति तनयाः समभूवन् ।
तेषु धर्मशीलः सत्यवर्मा संसारासारतां बुद्ध्वा तीर्थयात्राभिलाषी देशान्तरमगमत् ।
विटनटवारनारीपरायणो दुर्विनीतः कामपालो जनकाग्रजन्मनोः शासनमतिक्रम्य भुवं बभ्राम ।
रत्नोद्भवोपि वाणिज्यनिपुणतया पारावारतरणमकरोत् ।
इतरे मन्त्रिसूनवः पुरन्दरपुरातिथिषु पितृषु यथापूर्वमन्वतिष्ठन् ।
ततः कदाचिन्नानाविधमहदायुधनैपुण्यरचितागण्यजन्यराजन्यमौलिपालिनिहितनिशितसायको मगधनायको मालवेश्वरं प्रत्यग्रसङ्ग्रामघस्मरं समुत्कटमानसारं मानसारं प्रति सहेलं न्यक्कृतजलधिनिर्घोषाहङ्कारेण भेरीझाङ्कारेण हठिकाकर्णनाक्रान्तभयचण्डिमानं दिग्दन्तावलवलयं विघूर्णयन्निजभरनमन्मेदिनीभरणायस्तभुजगराजमस्तकबलेन चतुरङ्गबलेन संयुतः सङ्ग्रामाभिलाषेण रोषेण महताविष्टो निर्ययौ ।
मालवनाथोप्यनेकानेकपयूथसनाथो विग्रहः सविग्रह इव साग्रहोभिमुखीभूय भूयो निर्जगाम ।
तयोरथ रथतुरगखुरक्षुण्णक्षोणीसमुद्भूते करिघटाकटस्रवन्मदधाराधौतमूले नव्यवल्लभवरणागतदिव्यकन्याजनजवनिकापटमण्डप इव वियत्तलव्याकुले धूलीपटले दिविषदध्वनि धिक्कृतान्यध्वनिपटहध्वानबधिरिताशेषदिगन्तरालं शस्त्राशस्त्रि हस्ताहस्ति परस्पराभिहतसैन्यं जन्यमजनि ।
तत्र मगधराजः प्रक्षीणसकलसैन्यमण्डलं मालवराजं जीवग्राहमभिगृह्य कृपालुतया पुनरपि स्वराज्ये प्रतिष्ठापयामास ।
ततः स रत्नाकरमेखलामनन्यशासनां शासदनपत्यतया नारायणं सकललोकैककारणं निरन्तरमर्चयामास ।
अथ कदाचित्तदग्रमहिषी देवी देवेन कल्पवल्लीफलमाप्नुहीति प्रभातसमये सुस्वप्नमवलोकितवती ।
सा तदा दयितमनोरथपुष्पभूतं गर्भमाधत्त ।
राजा सम्पन्न्यक्कृताखण्डलः सुहृन्नृपमण्डलं समाहूय निजसम्पन्मनोरथानुरूपं देव्याः सीमन्तोत्सवं व्यधत्त ।
एकदा हितैः सुहृन्मन्त्रिपुरोहितैः सभायां सिंहासनासीनो गुणैरहीनो ललाटतटन्यस्ताञ्जलिना द्वारपालेन व्यज्ञापि ।
देव देवसन्दर्शनलालसमानसः कोपि देवेन विरच्यार्चनार्हो यतिर्द्वारदेशमध्यास्त इति ।
तदनुज्ञातेन तेन स संयमी नृपसमीपमनायि ।
भूपतिरायान्तं तं विलोक्य सम्यग्ज्ञाततदीयगूढचारभावो निखिलमनुचरनिकरं विसृज्य मन्त्रिजनसमेतः प्रणमितमेनं मन्दहासमभाषत ।
ननु तापस देशं सापदेशं भ्रमन्भवांस्तत्रतत्र भवदभिज्ञातं कथयत्विति ।
तेनाभाषि भूभ्रमणबलिना प्राञ्जलिना ।
देव शिरसि देवस्याज्ञामादायैनं निर्दोषं वेषं स्वीकृत्य मालवेन्द्रनगरं प्रविश्य तत्र गूढतरं वर्तमानस्तस्य राज्ञः समस्तमुदन्तजातं विदित्वा प्रत्यागमम् ।
मानी मानसारः स्वसैनिकायुष्मत्तान्तराये सम्पराये भवतः पराजयमनुभूय वैलक्ष्यलक्ष्यहृदयो वीतदयो महाकालनिवासिनं कालीविलासिनमनश्वरं महेश्वरं समाराध्य तपःप्रभावसन्तुष्टादस्मादेव वीरारातिघ्नीं भयदां गदां लब्ध्वात्मानमप्रतिभटं मन्यमानो महाभिमानो भवन्तमभियोक्तुमुद्युङ्क्ते ।
ततः परं देव एव प्रमाणमिति ।
तदालोच्य निश्चितकृत्यैरमात्यै राजा विज्ञापितोभूत् ।
देव निरुपायेन दैवसहायेन योद्धुमरातिरायाति ।
तस्मादस्माकं युद्धं साम्प्रतमसाम्प्रतम् ।
सहसा दुर्गसंश्रयः कार्य इति ।
तैर्बहुधा विज्ञापितोप्यखर्वेण गर्वेण विराजमानो राजा तद्वाक्यमकृत्यमित्यनादृत्य प्रतियोद्धुमना बभूव ।
शितिकण्ठदत्तशक्तिसारो मानसारो योद्धुमनसामग्रीभूय सामग्रीसमेतोक्लेशं मगधदेशं प्रविवेश ।
तदा तदाकर्ण्य मन्त्रिणो भूमहेन्द्रं मगधेन्द्रं कथञ्चिदनुनीय रिपुभिरसाध्ये विन्ध्याटवीमध्येवरोधान्मूलबलरक्षितान्निवेशयामासुः ।
राजहंसस्तु प्रशस्तवीतदैन्यसैन्यसमेतस्तीव्रगत्या निर्गत्याधिकरुषं द्विषं रुरोध ।
परस्परबद्धवैरयोरेतयोः शूरयोस्तदालोकनकुतूहलागतगगनचराश्चर्यकारणे रणे वर्तमाने जयाकाङ्क्षी मालवदेशरक्षी विविधायुधस्थैर्यचर्याञ्चितसमरतुलितामरेश्वरस्य मगधेश्वरस्य तस्योपरि पुरारातिदत्तां गदां प्राहिणोत् ।
निशितशरनिकरशकलीकृतापि सा पशुपतिशासनस्यावन्ध्यतया सूतं निहत्य रथस्थं राजानं मूर्छितमकार्षीत् ।
ततो वीतप्रग्रहा अक्षतविग्रहा वाहा रथमादाय दैवगत्यान्तःपुरशरण्यं महारण्यं प्राविशन् ।
मालवनाथो जयलक्ष्मीसनाथो मगधराज्यं प्राज्यं समाक्रम्य पुष्पपुरमध्यतिष्ठत् ।
तत्र हेति-तति-हति-श्रान्ता अमात्या
दैवगत्या प्रत्युत्क्रान्त-जीविता निशान्त-वात-लब्ध-सञ्ज्ञाः कथञ्चिद् आश्वस्य
राजानं समन्ताद् अन्वीक्ष्याऽनवलोकितवन्तो दैन्यवन्तो देवीम् अवापुः ।
वसुमती तु निखिल-सैन्य-क्षतिं राज्ञो ऽदृश्यत्वं चाकर्ण्योद्विग्ना शोक-सागर-मग्ना रमणाऽनुगमने मतिं व्यधत्त ।
कल्याणि भू-रमण-मरणम् अनिश्चितम् ।
किं च दैवज्ञ-कथितो मथितोद्धतारातिः सार्वभौमोभिरामो भविता सुकुमारः कुमारस्त्वदुदरे वसति तस्मादद्य तव मरणमनुचितमिति भूषितभाषितैरमात्यपुरोहितैरनुनीयमानया तया क्षणं क्षणहीनया तूष्णीमस्थायि ।
अथार्धरात्रे निद्रानिलीढनेत्रे परिजने विजने शोकपारावारमपारमुत्तर्तुमशक्नुवती सेनानिवेशदेशं निःशब्दलेशं शनैरतिक्रम्य यस्मिन्रथस्य संसक्ततया तदानयनपलायनश्रान्ता गन्तुमक्षमाः क्षमापतिरथ्याः पथ्याकुलाः पूर्वमतिष्ठंस्तस्य निकटवटतरोः शाखायां मृतिरेखायामिव क्वचिदुत्तरीयार्धेन बन्धनं मृतिसाधनं विरच्य मर्तुकामा वाङ्माधुरीविरसीकृतकलकण्ठा साश्रुकण्ठा व्यलपत् ।
लावण्यौपमितपुष्पसायक भूनायक भवानेको भाविन्यपि जन्मनि वल्लभो भवत्विति ।
तदाकर्ण्य नीहारकरकिरणनिकरसम्पर्कलब्धावबोधो मागधोगाधरुधिरविक्षरणनष्टचेष्टो देवीवाक्यमेव निश्चिन्वानस्तन्वानः प्रियवचनानि शनैस्तामाह्वयत् ।
सा ससम्भ्रममागत्यामन्दहृदयानन्दसम्फुल्लवदनारविन्दा तमुपोषिताभ्यामिवानिमिषिताभ्यां लोचनाभ्यां सम्पीय विकस्वरेण स्वरेण पुरोहितामात्यजनमुच्चैराहूय तेभ्यस्तमदर्शयत् ।
राजा निटिलतटचुम्बितनिजचरणाम्बुजैः प्रशंसितदैवमाहात्म्यैरमात्यैरभाणि ।
देव रथ्यचयः सारथ्यपगमे रथं रभसादरण्यमनयदिति ।
तत्र निहतसैनिकग्रामे सङ्ग्रामे मालवपतिनाराधितपुरारातिना प्रहितया गदया दयाहीनेन ताडितो मूर्छामागत्यात्र निशान्तपवनेन बोधितोभवमिति महीपतिरकथयत् ।
ततो विरचितमहेन मन्त्रिनिवहेन विरचितदैवानुकूल्येन कालेन शिबिरमानीयापनीताशेषशल्यो विकसितनिजाननारविन्दो राजा सहसा विरोपितव्रणोकारि ।
विरोधिदैवधिक्कृतपुरुषकारो दैन्यव्याप्ताकारो मगधाधिपतिरधिकाधिरमात्यसम्मत्या मृदुभाषितया तया वसुमत्या मत्या च कलितया समबोधि ।
देव सकलस्य भूपालकुलस्य मध्ये तेजोवरिष्ठो गरिष्ठो भवानद्य वनमध्यं निवसतीति ।
जलबुद्बुदसमाना विराजमाना सम्पत्तडिल्लतेव सहसैवोदेति नश्यति च ।
तन्निखिलं दैवायत्तमेवावधार्यं कार्यम् ।
किं च पुरा हरिश्चन्द्ररामचन्द्रमुख्या असङ्ख्या महीन्द्रा ऐश्वर्योपमितमहेन्द्रा दैवतन्त्रं दुःखयन्त्रं सम्यगनुभूय पश्चादनेककालं निजराज्यमकुर्वन् ।
तद्वदेव भवान्भविष्यति कञ्चन कालं विरचितदैवसमाधिर्गताधिस्तिष्ठतु तावदिति ।
ततः सकलसैन्यसमन्वितो राजहंसस्तपोविभ्राजमानं वामदेवनामानं तपोधनं निजाभिलाषावाप्तिसाधनं जगाम ।
तं प्रणम्य तेन कृतातिथ्यस्तस्मै कथितकथ्यस्तदाश्रमे दूरीकृतश्रमे कञ्चन कालमुषित्वा निजराज्याभिलाषी मितभाषी सोमकुलावतंसो राजहंसो मुनिमभाषत ।
भगवन् मानसारः प्रबलेन दैवबलेन मां निर्जित्य मद्भोज्यं राज्यमनुभवति ।
तदहमप्युग्रं तपो विरच्य तमरातिमुन्मूलयिष्यामि लोकशरण्येन भवत्कारुण्येनेति नियमवन्तं भवन्तं प्राप्नवमिति ।
ततस्त्रिकालज्ञस्तपोधनो राजानमवोचत् ।
सखे शरीरकार्श्यकारिणा तपसालम् ।
वसुमतीगर्भस्थः सकलरिपुकुलमर्दनो राजनन्दनो नूनं सम्भविष्यति ।
कञ्चन कालं तूष्णीमास्स्वेति ।
गगनचारिण्यापि वाण्या सत्यमेतदिति तदैवावाचि ।
ततः सम्पूर्णगर्भदिवसा वसुमती सुमुहूर्ते सकललक्षणलक्षितं सुतमसूत ।
ब्रह्मवर्चसेन तुलितवेधसं पुरोधसं पुरस्कृत्य कृत्यविन्महीपतिः कुमारं सुकुमारं जातसंस्कारेण बालालङ्कारेण च विराजमानं राजवाहननामानं व्यधत्त ।
तस्मिन्नेव काले सुमतिसुमन्त्रसुमित्रसुश्रुतानां मन्त्रिणां प्रमतिमित्रगुप्तमन्त्रगुप्तविश्रुताख्या महदभिख्याः सूनवो नवोद्यदिन्दुरुचश्चिरायुषः समजायन्त ।
राजवाहनो मन्त्रिपुत्रैरात्ममित्रैः सह बालकेलीरनुभवन्नवर्धत ।
अथ कदाचिदेकेन तापसेन रसेन राजलक्षणविराजितं कञ्चिन्नयनानन्दकरं सुकुमारं कुमारं राज्ञे समर्प्यावाचि ।
भूवल्लभ कुशसमिदानयनाय वनं गतेन मया काचिदशरण्या व्यक्तकार्पण्याश्रु मुञ्चन्ती वनिता विलोकिता ।
निर्जने वने किन्निमित्तं रुद्यते त्वयेति पृष्टा सा कररुहैरश्रु प्रमृज्य सगद्रदं मामवोचत् ।
मुने लावण्यजितपुष्पसायके मिथिलानायके कीर्तिव्यापृतसुधर्मणि निजसुहृदो मगधराजस्य सीमन्तिनीसीमन्तमहोत्सवाय पुत्रदारसमन्विते पुष्पपुरमुपेत्य कञ्चन कालमधिवसति समाराधितगिरीशो मालवाधीशो मगधराजं योद्धुमभ्यगात् ।
तत्र प्रख्यातयोरेतयोरसङ्ख्ये सङ्ख्ये वर्तमाने सुहृत्साहाय्यकं कुर्वाणो निजबलेसति विधेये विदेहेश्वरो जयवता रिपुणाभिगृह्य कारुण्येन पुण्येन विसृष्टो हतावशेषेण शून्येन सैन्येन सह स्वपुरगमनमकरोत् ।
ततो वनमार्गेण दुर्गेण गच्छन्नधिकबलेन शवरबलेन रभसादभिहन्यमानो मूलबलाभिरक्षितावरोधः स महानिरोधः पलायिष्ट ।
तदीयार्भकयोर्यमयोर्धात्रीभावेन परिकल्पिताहं मद्दुहितापि तीव्रगतिं भूपतिमनुगन्तुमक्षमे अभूव ।
तत्र विवृतवदनः कोपि रूपी कोप इव व्याघ्रो मामाघ्रातुमागतवान् ।
भीताहमुदग्रपाणिः स्खलन्ती पर्यपतम् ।
मदीयपाणिभ्रष्टो बालकः कस्यापि कपिलाशवस्य क्रोडमभ्यलीयत ।
तच्छवाकर्षिणोमर्षिणो व्याघ्रस्य प्राणान्बाणो बाणासनयन्त्रमुक्तोपाहरत् ।
विलोलालको बालकोपि शवरैरादाय कुत्रचिदपानीयत ।
कुमारमपरमुद्वहन्ती मद्दुहिता कुत्र गता न जाने ।
साहं मोहं गता केनापि कृपालुना वृष्णिपालेन स्वकुटीरमावेश्य विरोपितव्रणाभवम् ।
ततः स्वस्थीभूय भूयः क्ष्माभर्तुरन्तिकमुपतिष्ठासुरसहायतया दुहितुरनभिज्ञाततया च व्याकुलीभवामीत्यभिदधानैकाकिन्यपि स्वामिनं गमिष्यामीति सा तदैव निरगात् ।
अहमपि भवन्मित्रस्य विदेहनाथस्य विपन्निमित्तं विषादमनुभवंस्तदन्वयाङ्कुरं कुमारमन्विष्यंस्तदैकं चण्डिकामन्दिरं सुन्दरं प्रागाम् ।
तत्र सन्ततमेवंविधविजयसिद्धये कुमारं देवतोपहारं करिष्यन्तः किराता महीरुहशाखावलम्बितमेनमसिलतया वा सैकततले खनननिक्षिप्तचरणं लक्षीकृत्य शितशरनिकरेण वानेकचरणैः पलायमानं कुक्कुरबालकैर्वा दन्दशयित्वा संहनिष्याम इति भाषमाणा मया समभ्यभाष्यन्त ।
ननु किरातास्तमोघोरप्रचारे कान्तारे स्खलितपथः स्थविरभूसुरोहं मम पुत्रकं क्वचिच्छायायां निक्षिप्य मार्गान्वेषणाय किञ्चिदन्तरमगच्छम् ।
स कुत्र गतः केन वा गृहीतः परीक्ष्यापि न वीक्ष्यते ।
तन्मुखालोकनेन विनानेकान्यहान्यतीतानि किं करोमि क्व यामि भवद्भिर्न किमदर्शीति ।
द्विजोत्तम कश्चिदत्र तिष्ठति किमेष तव नन्दनः सत्यमेव तदेनं गृहाणेत्युक्त्वा दैवानुकूल्येन मह्यं तं व्यतरन् ।
तेभ्यो दत्ताशीरहं बालकमङ्गीकृत्य शिशिरोदकादिनोपचारेणाश्वास्य निःशङ्कं भवदङ्कमानीतवानस्मि ।
एनमायुष्मन्तं पितृरूपो भवानभिरक्षतादिति ।
राजा सुहृदापन्निमित्तं शोकं तन्नन्दनविलोकनसुखेन किञ्चिदधरीकृत्य तमुपहारवर्मनाम्नाहूय राजवाहनमिव पुपोष ।
जनपतिरेकस्मिन्दिवसे तीर्थस्नानाय पक्कणनिकटमार्गेण गच्छन्नबलया कयाचिदुपलालितमनुपमशरीरं कुमारं कञ्चिदवलोक्य कुतूहलाकुलस्तामपृच्छत् ।
भामिनि रुचिरमूर्तिः सराजगुणसम्पूर्तिरसावर्भको भवदन्वयसम्भवो न भवति ।
कस्य नयनानन्दो निमित्तेन केन भवदधीनो जातः कथ्यतां याथातथ्येन त्वयेति ।
प्रणतया शवर्या सलीलमलापि ।
राजन् आत्मपल्लीसमीपे पदव्यां वर्तमानस्य मिथिलेश्वरस्य सर्वस्वमपहरति शवरसैन्ये मद्दयितेनापहृत्य कुमार एष मह्यमर्पितो व्यवर्ध्यत ।
तदवधार्य कार्यज्ञो राजा मुनिकथितं द्वितीयं राजकुमारमेव निश्चित्य सामदानाभ्यां तामनुनीयापहारवर्मेत्याख्याय देव्यै वर्धयेति समर्पितवान् ।
कदाचिद्वामदेवशिष्यः सोमशर्मनामा कञ्चिदेकं बालकं राज्ञः पुरो निक्षिप्याभाषत ।
देव रामतीर्थे स्नात्वा प्रत्यागच्छता मया काननावनौ वनितया कयापि धार्यमाणमेनमुज्ज्वलाकारं कुमारं विलोक्य सादरमभाणि ।
स्थविरे का त्वमेतस्मिन्नटवीमध्ये बालकमुद्वहन्ती किमर्थमायासेन भ्रमसीति ।
वृद्धयाप्यभाषि ।
मुनिवर कालयवननाम्नि द्वीपे कालगुप्तो नाम धनाढ्यो वैश्यवरः कश्चिदस्ति ।
तन्नन्दिनीं नयनानन्दकारिणीं सुवृत्तां नामैतस्माह्वीपादागतो मगधनाथमन्त्रिसम्भवो रत्नोद्भवो नाम रमणीयगुणालयो भ्रान्तभूवलयो मनोहारी व्यवहार्युपयम्य सुवस्तुसम्पदा श्वशुरेण सम्मानितोभूत् ।
कालक्रमेण नताङ्गी गर्भिणी जाता ।
ततः सोदरविलोकनकुतूहलेन रत्नोद्भवः कथञ्चिच्छ्वशुरमनुनीय चपललोचनया सह प्रवहणमारुह्य पुष्पपुरमभिप्रतस्थे ।
कल्लोलमालिकाभिहतः पोतः समुद्राम्भस्यमज्जत् ।
गर्भभरालसां तां ललनां धात्रीभावेन कल्पिताहं कराभ्यामुद्वहन्ती फलकमेकमधिरुह्य दैवगत्या तीरभूमिमगमम् ।
सुहृज्जनवृतो रत्नोद्भवस्तत्र निमग्नो वा केनाप्युपायेन तीरमगमद्वा न जानामि ।
क्लेशस्य परां काष्ठामधिगता सुवृत्तास्मिन्नटवीमध्ये सुतमसूत ।
प्रसववेदनया विचेतना सा प्रच्छायशीतले तरुतले निवसति ।
विजने वने स्थातुमशक्यतया जनपदगामिनं मार्गमन्वेष्टुमुद्युक्तया मया विवशायास्तस्याः समीपे बालकं निक्षिप्य गन्तुमनुचितमिति कुमारोप्यनायीति ।
एतस्मिन्नेव क्षणे वन्यो वारणः कश्चिददृश्यत ।
तं विलोक्य भीता सा बालकं निपात्य प्राद्रवत् ।
अहं समीपलतागुल्मे प्रविश्य परीक्षमाणोतिष्ठम् ।
निपतितं बालकं पल्लवकवलमिवाददति गजपतौ कण्ठीरवो भीमरवो महाग्रहेण न्यपतत् ।
भयाकुलेन दन्तावलेन झटिति वियति पात्यमानो बालको न्यपतत् ।
चिरायुष्यतयासन्नोन्नततरुशाखासमासीनेन वानरेण केनचित्पक्वफलमनीषया परिगृह्य फलेतरतया विततस्कन्धमूले निक्षिप्तोभूत् ।
सोपि मर्कटः क्वचिदगात् ।
बालकेन सत्त्वसम्पन्नतया सकलक्लेशसहेनाभावि ।
केसरिणा करिणं निहत्य कुत्रचिदगामि ।
लतागृहान्निर्गतोहमपि तेजःपुञ्जं बालकं शनैरवनिरुहादवतार्य वनान्तरे वनितामन्विष्याविलोक्यैनमानीय गुरवे निवेद्य तन्निदेशेन भवन्निकटमानीतवानस्मीति ।
सर्वेषां सुहृदामेकदैवानुकूलदैवाभावेन महदाश्चर्यं बिभ्राणो राजा रत्नोद्भवः कथमभवदिति चिन्तयंस्तं नन्दनं पुष्पोद्भवनामधेयं विधाय तदुदन्तं व्याख्याय सुश्रुताय विषादसन्तोषावनुभवंस्तदनुजतनयं समर्पितवान् ।
अन्येद्युः कञ्चन बालकमुरसि दधती वसुमती वल्लभमभिगता तेन कुत्रत्योयमिति पृष्टा समभाषत ।
राजन् अतीतायां रात्रौ काचन दिव्यवनिता मत्पुरतः कुमारकमेकं संस्थाप्य निद्रामुद्रितां मां विबोध्य विनीताब्रवीत् ।
देवि त्वन्मन्त्रिणो धर्मपालनन्दनस्य कामपालस्य वल्लभा यक्षकान्ताहं तारावली नाम नन्दिनी मणिभद्रस्य ।
यक्षेश्वरानुमत्या मदात्मजमेतं भवत्तनुजस्याम्भोनिधिवलयवेष्टितक्षोणीमण्डलेश्वरस्य भाविनो विशुद्धयशोनिधे राजवाहनस्य परिचर्याकरणायानीतवत्यस्मि ।
त्वमेनं मनोजसन्निभं वर्धयेति ।
विस्मयविकसितनयनया मया सविनयं सत्कृता स्वक्षी यक्षी साप्यदृश्यतामयासीदिति ।
कामपालस्य यक्षकन्यासङ्गमे विस्मयमानमानसो राजहंसो रञ्जितमित्रं सुमित्रमाहूय तदीयभ्रातृपुत्रमर्थपालं विधाय तस्मै सर्वं वार्त्तादिकं व्याख्यायादात् ।
ततः परस्मिन्दिवसे वामदेवान्तेवासी तदाश्रमवासी समाराधितदेवकीर्तिं कुमारमेकमवगमय्य नरपतिमवादीत् ।
देव तीर्थयात्राप्रसङ्गेन कावेरीतीरमागतोहं विलोलालकं बालकं निजोत्सङ्गतले निधाय रुदतीं स्थविरामेकां विलोक्यावोचम् ।
स्थविरे का त्वमयमर्भकः कस्य नयनानन्दकरः कान्तारं किमर्थमागता शोककारणं किमिति ।
सा करयुगेन वाष्पजलमुन्मृज्य निजशोकशङ्कूत्पाटनक्षममेव मामवलोक्य शोकहेतुमवोचत् ।
द्विजात्मज राजहंसमन्त्रिणः सितवर्मणः कनीयानात्मजः सत्यवर्मा तीर्थयात्राभिलाषेण देशमेनमागच्छत् ।
स कस्मिंश्चिदग्रहारे कालीं नामैकस्य भूसुरस्य नन्दिनीं विवाह्य तस्या अनपत्यतया गौरीं नाम तद्भगिनीं काञ्चनकान्तिं परिणीय तस्यामेकं तनयमलभत ।
काली सासूयमेकदा धात्र्या मया सह बालमेनमेकेन मिषेणानीय तटिन्यामेतस्यामक्षिपत् ।
करेणैकेन बालमुद्धृत्यापरेण प्लवमाना नदीवेगागतस्य कस्यचित्तरोः शाखामवलम्ब्य तत्र शिशुं निधाय नदीवेगेनोह्यमाना केनचित्तरुलग्नेन कालभोगिनाहमदङ्क्षि ।
मदवलम्बीभूतो भूरुहोयमस्मिन्देशे तीरमगमत् ।
गरलस्योद्दीपनतया मयि मृतायामरण्ये कश्चन शरण्यो नास्तीति मया शोच्यत इति ।
ततो विषमविषज्वालावलीढावयवा सा धरणीतले न्यपतत् ।
दयाविष्टोहं मन्त्रबलेन विषव्यवस्थामपनेतुमक्षमः समीपकुञ्जेष्वौषधविशेषमन्विष्य प्रत्यागतो व्युत्क्रान्तजीवितां तां व्यलोकयम् ।
तदनु तस्याः पावकसंस्कारं विरच्य शोकाकुलचेता बालमेनमगतिमादाय सत्यवर्मवृत्तान्तश्रवणवेलायां तन्निवासाग्रहारनामधेयस्याश्रुततया तदन्वेषणमशक्यमित्यालोच्य भवदमात्यतनयस्य भवानेवाभिरक्षितेति भवन्तमेनमनयमिति ।
तन्निशम्य सत्यवर्मस्थितेः सम्यगनिश्चिततया खिन्नमानसो नरपतिः सुमतये मन्त्रिणे सोमदत्तं नाम तदनुजतनयमर्पितवान् ।
सोपि सोदरमागतमिव मन्यमानो विशेषेण पुपोष ।
एवं मिलितेन कुमारमण्डलेन बालकेलीरनुभवन्नधिरूढानेकवाहनो राजवाहनोनुक्रमेण चौलोपनयनादिसंस्कारजातमलभत ।
ततः सकललिपिज्ञानं निखिलदेशीयभाषापाण्डित्यं षडङ्गसहितवेदसमुदायकोविदत्वं काव्यनाटकाख्यानकाख्यायिकेतिहासचित्रकथासहितपुराणगणनैपुण्यं धर्मशब्दज्योतिस्तर्कमीमांसादिसमस्तशास्त्रचातुर्यं कौटिल्यकामन्दकीयादिनीतिपटलकौशलं वीणाद्यशेषवाद्यदाक्ष्यं सङ्गीतसाहित्यहारित्वं मणिमन्त्रौषधादिमायाप्रपञ्चचुञ्चुत्वं मातङ्गतुरङ्गादिवाहनारोहणपाटवं विविधायुधप्रयोगचणत्वं चौर्यदुरोदरादिकपटकलाप्रौढत्वं च तत्तदाचार्येभ्यः सम्यग्लब्ध्वा यौवनेन विलसन्तं कृत्येष्वनलसं कुमारनिकरं निरीक्ष्य महीवल्लभः सोहं शत्रुजनदुर्लभ इति परमानन्दमविन्दत ॥
इति श्रीदण्डिनः कृतौ दशकुमारचरिते कुमारोत्पत्तिर् नाम प्रथम उच्छ्वासः ॥