श्रीगणेशाय नमः ॥ ब्रह्माण्डच्छत्त्रदण्डः शतधृतिभवनाम्भोरुहो-नालदण्डः क्षोणीनौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः । ज्योतिश्चक्राक्षदण्डस् त्रिभुवनविजय-स्तम्भदण्डोङ्घ्रिदण्डः श्रेयस्त्रैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥