कादम्बरीसंग्रहः

[[कादम्बरीसंग्रहः Source: EB]]

[


कादम्बरीसंग्रहः ।

आरूढे च तस्मिन्, शनैः शनैस्तदनसारिणीं निवर्त्य दृष्टिम् , अचलशिखरप्रस्तरप्रतिहतगतिप्रसरा विघघृततुरगमश्चन्द्रापीडः, तस्मिन्काले, समारूढश्रमस्वंदार्द्रशरीमिन्द्रायुधमात्मानं चावलोक्य, क्षणमिव विचार्य, स्वयमेव विहस्याचिन्तयत्-““किमित्ति निरर्थकमयमात्मा मया शिशनुवायासितः । किमनेन गृहीतेनागृहीतेन वा किंनरयुगलेन प्रयोजनम् । यदि गृहीतमिदम्, ततः किम् । अथ न गृहीतम्, ततोऽपि किम् । बहो मे मूर्खतायाः प्रकारः । अदो यत्किंचनकारितायामादरः । अहो निरर्थकव्यापारेष्वभिनिवेशः । अहो बालिशचरितेष्वासक्तिः । साधुफलं कर्म क्रियमाणं वृथा जातम् ।अवश्यकर्तव्या क्रिया प्रस्तुता विफलीभूता । राजधर्मः प्रवर्तितो न निष्पन्नः । गुवथः प्रारब्धोन परिसमाप्तः । विजिगीषुव्यापारः प्रयत्तो न सिद्धः । कस्?मादहमाविष्ट इवोत्सृष्टनिजपरिवारः एतावतीं भूमिमायातः । कस्माच्च मया निष्प्रयोजनमिदमनुसुतमश्वमुखद्वयम् ’ इति विचार्यमाणे यत्सत्यममात्मैव मे पर इव हांसमुपजनयति । न जाने—कियताध्वना विच्छिन्नमितो बलमनुयायि मे । भहाजवो हीन्द्रायुधो निमेषमात्रेणातिदूरमतिक्रामति । न चागच्छता मया तरगवेगवशात्किंनरमिथुने बद्धदृष्टिना, अत्भिन्नविरलतरुशतशाखागुल्मतासंतानगहने निरन्तरपतितशुष्कपर्णवकीर्णतले महावने पन्था निरूपितः येन प्रतिनिवत्य यास्यामि । न चास्मिन्प्रदेशे प्रयत्नेनापि परिभ्रमता मर्त्यधमा कश्चिदासाद्यते, यः सुवर्णपुरगामिनं पन्थानमुपदेक्ष्यति । श्रतं हि मया बहुशः कथ्यमानम्—उत्तरेणसुवर्णपुरं सीमान्तलेखा पृथिव्याः सर्वजनपदानाम्, ततः परतो निर्मानुषमरण्यम्, तच्चातिक्रम्य कैलासगिरिति । अयं च कैलासः। तदिदानीं प्रतिनिवृत्यैकाकिना स्वयमुत्प्रक्ष्यात्प्रेक्ष्य दक्षिणामाशां केवलमङ्गाकृत्य गन्तव्यम् । आत्मकृतानां हि दोषाणां नियतमनुभवितव्सयं फलमात्मनैव ’’ इत्यवधार्य, वामकरतलवलितराश्मिपाश्याः, तुरंगमं व्यावर्तयामास ॥
व्यावर्तिततुरगश्च पुनश्चिन्तितबान्—““अयमुद्भासितग्रभाभा स्वरो भगवान्मानुरधुना दिवसश्रियो रशनामाणारिव नभामध्यमलंकरोति । परिश्रान्तश्चायमिन्द्रायुधः । तदेनं तावदागृहीतकतिपयदूर्वाप्रवालकबलं कस्मिंश्चित्सरसि स्त्रतपीतोदकमपनीतश्रमं कृत्वा, स्वयं च सिललं पीत्वा,कस्यचित्तरोरधश्छायायां मुहूर्तमात्रं विश्रम्य, ततो गमिष्यामि’’ इति चिन्तयित्वा सलिलमन्वेषयन्मुदुर्मुहुरितस्ततो दत्तदृष्टिः पर्यटन्, नलिनीजलविगाहात्थितस्याचिरादपक्रान्तस्य च महतो बनगजयुथस्य चरणोत्थापितैःपङ्कपटलैरार्द्रीकृतंमार्गमद्राक्षीत्॥
उपजातजकाश्यशङ्कश्च तं प्रतीपमनुसरन्, उद्ग्रीवद्श्यैरुनपरि छत्रमण्डलाकारैः सरलालसल्लकीप्रायैरविरलैरपि निःशाखतया विरलैरिवोपलक्ष्यमाणैः पादपैरुपेतेन गन्धपाषाणपरिमलामोदिना वेत्रलताप्रतानप्ररूढत्रेणुना कैलासतलेन कंचिदध्वानं गत्वा, तस्यैव कैलासशिखरिणः पूर्वोत्तरे दिग्भागेऽत्यायत्र तरुरूण्ड ददर्श । तं च कमलमधुपानमत्तानां श्रोत्रहारिभिः कलहंसानां कोलाहलैराहूयमान इव प्रविवेश ॥
प्रविश्य च तस्य तरुखण्डस्य मध्यभागे मणिदर्पणमिव त्रैलोक्यलक्ष्यम्याः, स्फटिकभूमिगृहमिव वसुंधरादेव्याः, निर्गमनमार्गमिव सागराणाम्, त्रिभुवनपुण्यराशिमिव सरोरूपेणावस्थितम् , बैदूर्यगिरिजालमिव सलिलाकरेण परिणतम् , आपूणपयन्तमप्यन्तः स्पष्टदृष्टसकलवृत्तान्ततया रिक्तमिवोपलक्ष्यमाणम प्रमिमानिभेनान्तःप्रविष्टं सकाननशेलनक्षत्रग्रहचक्रवाल त्रिभुवनमुद्भिचक्रवाल त्रिभुवनमुद्भिन्नपङ्कजेनोदरेण नारायणमिव बिभ्राणम्, असकृत्पितामहपरिपूरितकमण्डलुपरिपूतजलम्, अनेकशो वालखिल्यकदम्बककृतसंध्योपासनम्, बहुशः सलिलावतीर्णसावित्रीभग्रदैवतार्चनकमलसहस्त्रम्, सहस्त्रशः सप्तर्षिमण्डलस्त्रानपवित्रीकृतम् , क्कचिद्वरुणहंसोपात्तकमलवनमकरन्दम् , कुमुदखण्डम, अदृष्टान्तम्, अतिमनोहरम, आह्लादनं दृष्टेः, भच्छोदं नाम सरो दृष्टवान् ॥
आलोकमात्रेणैवापगतश्रमो दृष्ट्वा मनस्येवमकरोत्—-““अहो निष्फलमपि मे तुरगमुखमिथुनानुसरणमेतदालोकयतः सरः सफलतामुपगतम् । अद्य परिसमाग्रमीक्षणयुगलस्य द्रष्टव्यदर्शनफलम् । आलोकितः खलु रमणीयानामन्तः । दृष्ट आह्लादनायानामवधिः ।वीक्षिता मनोहराणां
सीमान्तलखा । प्रत्यक्षीकृता प्रीजितननानां षरिसमाप्तिः । विलोकिता दर्शनीयानामवसानभूमिः । इदमुत्पाद्य सरः सलिलममृतरसमुत्पादयता वेधसा पुनरुक्ततामिव नीता स्वमृष्टिः । इदमपि ख्ल्वमृतमिव
सर्वेन्द्रियाह्लादनसमर्थम्— अतिविमलतया चक्षष्ठषः प्रीतिमुपजनयति । शिशिरतया स्पर्शसुखमुपहरति । कमलसुगन्धितया घ्राणमाप्याययति । हंसमुखरतया श्रुतिमानन्दयति । स्वादुतया रसनामाह्लादयति । नियतं चास्यैव दर्शनतृष्णया न परित्यजति भगवान्कैलासनिवासव्यसनमुमापतिः । न खलु सांप्रतमाचरति जलशयनदोहद देवो रथाङ्गपाणिः, यदिदममृतरससुरभिसलिलमपहाय, लवणरसपरुषण्यस्युदन्वति स्वपिति । नूनं चेदं न प्रथममासीत्सरः, येन प्रलयवराहघोणाभिघातभीता भूतघात्री कलश यानिपानपरिकलिसकलसलिलं सागरभवतीर्णा; अन्यथा यद्यत्रागाधानेकपातालगम्भाराम्भास निमग्रा भवेन्महासरसि, किमेकेन महावराहस्त्रैरपि नासादिता भवत् । नूनं चास्मादेब सलिललेशमादायादाय महाप्रलयेषु प्रलयपयोदाः प्लावयन्ति भुवनान्तराणि । मन्ये च, यत्सृष्टैरर्वाक्सलिलमूयं ब्रह्माण्डरूपमादौ भुवनमभूत्, तदिदं पिण्डीभूय सरोव्यपदशनावस्थितम्’’ इति विचारयन्नेव, तस्य शिलाशकलकर्कशवालुकाप्रायम्,
विद्याधरोद्धृतसनालकुमुदकलापार्चितानेकचारुसैकतलिङ्गम् , दक्षिणं तीरमासायतुरगादवततार ॥
अवतीर्य च व्यपनीतपर्याणमिन्द्रायुधमकरोत् । क्षितितललुठितोत्थितं च गृहीतकतिपययवसग्राम सरोऽवतीर्यं, पीतसलिलमिच्छया स्त्रातं चोत्थाप्य, अन्यतमस्य समीपवर्तिनस्तरोर्मूलशाखायामपगतखलीनं हस्तपाशशृङ्खलया कनकमय्या चरणौ बद्ध्वा पुनरपि सलिलमवततार । ततश्च प्रक्षालितकरयुगलश्चातक इव कृत्वा जलमयमाहारं सरःसलिलादुदगात् । प्रत्यग्रभग्राशिशिरैश्च समृणालकैर्जलकाणिकाचितैः कमलिनीपलाशेर्लतामण्डपपरिक्षिप्ते शिलातले स्त्रस्तरमास्तीय, निधाय शिरसि पिण्डीकृतमुतृतरीयम्, निषसाद । मुहूर्त विश्चान्तश्च, तस्य सरस उत्तरे तीरप्रदेशे समुच्चरन्तम्, जन्मु क्तकबलेन निश्चलश्रवणपुटेन तन्मुखीभूतेनोद्ग्रीवेणेन्द्रायुधेन प्रथममाकर्णितम्, श्रुतिसुभगं वीणातन्त्नीझंकारमिश्रममानुषं गीतशब्दमशृणोत् । श्रुत्वा च, “कुतोऽत्र विगतमर्त्यसंपाते प्रदेशे गीतध्वनेः संभूतिः ’ इति समुपजातकौतुकः, कमलिनीपस्त्रस्तरादुत्थाय, तामेव गतिसंपातसूचितां दिशं चक्षुः प्राहिणोत् । अतिदवीयस्तया तु तस्य प्रदेशस्य, प्रयत्नव्यावृलोचनोऽपि विलोकयन्न किंचिद्ददर्श । तमेव केवलमनवरतं गीतशब्दं । कुतूहलवशाच्च गीतध्वनिप्रभवजिज्ञासया कृतगनबुद्धिः, दत्तपर्याणमिन्द्रायुधमारुह्म, प्रियगीतैः प्रथमप्रस्थितैरप्रार्थितैरपि वनहरिणैरुपदिश्यमानवर्त्मा, पश्चिमया सरस्तीरवनलेखया; निमित्तीकृत्य गीतध्वनिमभिप्रतस्थे ॥
क्रमेण च संमुखागतैरच्छनिर्झरजलकणजालजनितजडिमभिः पुण्यैः कैलासमारुतैरभिनन्द्यमानः, गत्वा च तं प्रदेशम, शुकशतमुखनशिखरशकलितफलस्फतिः, जलधरजलकुब्धमुग्धचातकध्वानृमुखरिततमालखण्डः इभंकलभकोल्लुनपल्लववोल्लितलवतीवलयैः, अविरलफलनिकरावनतनालिकेरवनैः, अन्तरान्तरा कैलासतरङ्गिणीतरङ्गितसिकतिलतलभूमिभागैः पादपैः परिवृतम्, चन्द्रप्रभनाम्रस्तस्य सरसः पश्चिमे तीरे कैलासपादस्य भूतलभागसंनिविष्टंभगवतः शूलपाणेः शून्यं सिद्धायतनमपश्चत् ॥
तच्च प्रविश्याद्राक्षीत् , चतुःस्तःस्तमृभस्फटिकमण्डपिकातलप्रतिष्ठितम्, अमलमुकमुक्ताशिलाघटितलिङ्गम्, अशेषत्रिभुवनवन्दितचरणम, चराचरगुरुम्, चतुर्मुखम्, भगवन्तं त्र्यम्बकम्॥
तस्य च दक्षिणं मूर्तिमाश्रित्याभिमुखीमासीनाम्, उपरचितब्रह्मासनाम्, अतिविस्तारिणा सर्वदिङ्मुखप्लावकनातिदीर्घकालसंचितेन तपोराशिनेव विसपता दहप्रभावितानन सगिरिकाननं दन्तमयमिव तं प्रदेशं कुर्वतीम् , पञ्चमहाभूतमयमपहाय द्रव्यात्मकमङ्गनिष्पादनोपकरणकलापं धवलगुणेनेव केवलेनोत्पादिताम्, क्षीरो?दधिदेवतामिव सहवासपरिचितहरचन्द्रलेखोत्कण्ठाकृष्टम्, त्रयीमिव कलियुगध्वस्तधर्मशोकगृहीतवनवासाम्, श्वेतद्वीपलक्ष्मीमिवान्यद्वीपावलोकनकुतूहलागताम्, धर्महृदयादिव निर्गताम्, शङ्खा विवोतृकीर्णाम्, मुक्ताफलादिवाकृष्टाम् , इयत्तामिव धवलिम्रः, जटापाशग्रथितमुत्तमाङ्गेन मणिमयं नामङ्कमीश्वरणद्वयमुद्वहन्तीम्, अयुग्मलोचनसकाशात्प्रसादलब्धेन चूडामणिचन्द्रमयूखजालेनेव मण्डलीकृतेन ब्रह्मुसूत्रेण पवित्रीकृतकायाम्, उत्सङ्गगतां च खसुतामिव सूक्ष्शङ्खखण्डिकाङ्गुर्लायकपूरिताङ्गुलिना त्रिपुण्डकावशेषभस्मपाण्डुरेण प्रकोष्ठबद्धशङ्खखण्डकेन दन्तमयीं
दक्षिणकरेण वीणामास्फालयन्तीम् , सुंमधुरया च गीत्या देवं विरूपाक्षमुपवीणयन्तीम्, प्रत्यक्षामिव गन्धर्वविद्याम्, निम्रमाम्, निरहंकाराम्, निर्मत्सराम्, अभानुषाकृतिम्, दिव्यत्वादपरिज्ञायमानवयःप्रमाणामध्यष्टादशवर्षंदेशीयामिवोपलक्ष्यमाणाम्, प्रतिपन्नपाशुपतव्रतां कन्यकां ददर्श॥
ततोऽबतीर्य, तरुशाखायां बद्ध्वा तुरङ्गम्, उपसत्य भगवते भक्तत्या प्रणम्य त्रिलोचनाय, तामेव दिव्ययोषितमनिमेषपक्ष्मणा निश्चलनिबद्धलक्ष्येण चक्षुषा पुनर्निरूपयामास । उदपादि चास्य तस्या रूपसंपदा कान्तृया प्रशान्तृया चाविर्भूतविस्मयस्य मनसि—-““अहो जगति जन्तूनामसमर्थितोपनतान्यापतन्ति वृत्तीन्तान्तराणि । तथा हि-मया मृगयायां यदृच्छया निरर्थकमनुबध्रता तुरंगमुखमिथुनम् , अयमतिमनोहरो मानवानामगम्यो दिव्यजनसंचरणोचितः प्रदेशो वीक्षितः । अत्र च सलिलमन्वेषयता हृदयहारि सिद्धजनोपस्पृष्टजलं सरो दृष्टम् । तत्तीरलेखाविश्रान्तेन चामानुषं गतिमाकर्णितम् । तच्चानुसरता मानुषदुर्लभर्दर्शना दिव्यकन्यकेयमालोकिता । न हि मे संशीतिरस्या दिव्यतां प्रति । आकृतिरेवानुमापयत्यमानुष्ज्ञताम् । कुतश्च मर्त्यलोके संभूतिरेवंविधानां गन्धर्वध्वनिविशेषाणाम् । तद्यदि मे सहसा दर्शनपथान्नापयाति, नारोहति वा कैलासशिखरम्, नोत्पतति वा गगनलम् , ततः “का त्वम्, किमभिधाना वा, किमर्थं प्रथमे वयसि प्रतिपन्ना व्रतम् ? ’ इति सर्वमेतदेनामुपसृत्‌य पृच्छामि । अतिमहानयमवकाश आश्चर्याणाम्’’ इत्यवधार्य तस्यामेव स्फटिकमण्डपिकायामन्यतमं स्तम्भमाश्रित्य समुपविष्टः, गीतसमाप्त्यवसरं प्रतीक्षमाणस्तथौ ॥
अथ गीतावसाने सा कन्यका समुत्थाय प्रदक्षिणीकृत्य कृतहरप्रणामा, परित्य चन्द्रापीडमाबभाषे-““स्वागतमतिथये । कथमिमां भूमिमनुप्राप्तो महाभागः । तदुत्तिष्ठ । आगाम्यताम्, अनुभूयतामतिथिसतृकारः’’ इति । एवमुक्तस्तु तया संभाषणमात्रेणैवानुगृहीतमात्मानं मन्यमानः, उत्थाय भक्त्या कृतप्रणामः, “भगवति, यथाज्ञापयसि’ इत्यभिधाय दर्शितविनयः शिष्य इव तां व्रजन्तीमनुवब्राज । व्रजंश्च समथयामास—““हन्त, तावन्नेयं मां दृष्ट्वा तिरोभूता । कृतं हि मे कुतूहलेन प्रश्राशया हृदि पदम् । यथा चेयमस्यास्तपस्विजनदुर्लभदिव्युरूपाया अपि दाक्षिण्यातिशया प्रतिपत्तिरभिजाता विभाव्यत ; तथा संभावयामि नियतमियमखिलमात्मोदन्तमभ्यर्थ्यमाना मया कथयिष्यति’‘इति । एवं च कृतमतिः पदशतमात्रमिव गत्वा, अन्तःस्थापितमणिकमण्डलुमण्डताम्, एकान्तावलम्बितयोगपट्टिकाम्, विशाखिकाखिरनिबद्धनालिकरीफलवल्कलमयधौतोपानद्युगोपेताम्, शङ्खमयेन भिक्षाकपालेनाधिष्ठिताम्, संनिहितभस्मांलाबुकां गुहामद्राक्षीत् । तस्याश्च द्वारि शिलातले समुपविष्टः , वल्कलशयनशिरोभागविन्यस्तवीणां ततः पर्णपुटेन निंर्झरादागृहीतमर्घसलिलमांदाय तां कन्यकां समुपस्थिताम्, ““अलमतियन्त्रणया । कृतमतिप्रसादेन । भगवति, प्रसीद् । विमुच्यतामयमतृयादरः । त्वदीयमालोकनसमपि सर्वपापप्रशमनमघ्ज्ञमर्षणमिववित्रीकरणायालम् । आस्यताम्’’ इत्यब्रवीत् । अनुबध्यमानश्च तया, तां सर्बामतिथिसपर्यामतिदूराबनतेन शिरसा सप्रश्रयं प्रतिजग्राह॥
कुंतातिथ्यया च तया द्वितीयशिलालोपविष्टया क्षणवितूष्णीं स्थित्वा क्रमेण परिपृष्टः, दिग्विजयादारभ्य किंनरमिथुनानुसरणप्रसङ्गेनागमनमात्मनः सर्वमाचचक्षे । विदितसकलवृत्तान्ता चोत्थाय सा कन्यका, भिक्षाकपालमादाय तेषामायतनरूणां तलषु विचार । ?अचिरेण तस्याः स्वयंपतितैः फलैरपूर्यत भिक्षाभाजनम् । आगत्य च तेषां फलानामुपभोगाय नियुक्तवती चन्द्रापीडम् । आसीच्च तस्य चेतसि–““नास्ति खल्वध्यं नाम तपसाम् । किमतः परमाश्चर्यम्, यद्रत्र व्यपगत चेतना अपि सचेतना इवास्यै भगवत्यै समतिसृजन्तः फलान्यातृमानुग्रहमुपपादयान्त वनस्पतयः । चित्रमिदमालोकितमस्माभिरदृष्ज्ञ्टपूर्वम् ’’ इत्यधिकतरोपजातविस्मयश्चोत्थाय, तमेव प्रदेशमिन्द्रायुधमानीय, व्यपनीतपर्याणं नातिदूरे संर्यम्य, निर्झरजलनिर्वर्तितस्त्रानविधिः , तान्यमृतरसस्वादून्युपभुज्य फलानि, पीत्वा च तुषारशिशिर प्रस्त्रारशिशिर प्रस्त्रवणजलम् , उपुस्पृश्येकान्ते तावदवतस्थे; यावतृतयापि कन्यकया कृतो जलफलमूलमयष्वाहारेषु प्रणयः॥
अथ परिसमापिताहारां निर्वार्तितसंध्योविचताचारां शिलातलेविस्त्रंब्धुमुपविष्टां शिलातले विस्त्रंब्धुमुपविष्टां निभृतमुपसृत्य, नातिदूरे समुपविश्य, मुहूर्तमिब स्थित्वा, चन्द्रापीडः
सविनयमवादीत्-““भगवति,? त्वत्प्रसादुप्राप्तिप्रोत्साहितेन कुतूहलंनाकुलीक्रियमाणो मानुषतासुलभो लधिमा बलादनिच्छन्तमपि मां प्रश्रकर्मणि नियोजयति । जनयति हि प्रभुप्रसादलवोऽपि प्रागल्भ्यमधीरप्रकृतेः । स्वल्पाप्येकदेशावस्थाने कालकला परिचयमुत्पायति । अणुरप्युपचारपरिग्रहः प्रणयमारोपयति। तद्यदि नातिखेदकरमिव, ततः कथनेनात्मानमनुग्राह्ममिच्छामि । अतिमहत्खलु भवद्दर्शनात्प्रभति मे कौतुकमस्मिन्विषये । कतरान्मरुतामृषीणां गन्धर्वाणं गुह्मकानामप्सरसां वा कुलमनुहीतं भगवत्या जन्मना । किमर्थं वास्मिन्कुसुमसुकुमारे नवे वयसि व्रतग्रहणम् । क्केदं वयः । क्केयमाकृतिः । क्क चायं लावण्यातिशयः । क्केयमिन्द्रियाणामुपशानितः । तदद्ध्भुतमिव मे प्रतिभाति । किंनिमित्तं वानेकंसिंद्धमाध्यंबाधानि सुरलोकसुलभान्यपहाय दिव्याश्रमपदानि, एकाकिनी वनमिदममानुषमधि?वसति । कश्चायं प्रकारः, यत्तैरेव पञ्चभिर्महाभूतैरारब्धमीदृशीं धवलतां धत्ते शरीम् । नेदमस्माभिरन्यत्र दृष्टश्रुतपूर्वम् । अपनयतु नः कौतुकम् । आवेदयतु भवतीसर्वम्’’ इत्येवमभिहिता सा, किमप्यन्तर्ध्यायन्ती, तूष्णीं मुहूर्तमिव स्थितृवा, निःश्वस्य, स्थूलस्थूलैरनुबद्धबिन्दुभिरश्रुभिरामीलितलोचना निःशब्दं रोदितुमारेभे ॥
तां च प्ररुदितां दृष्ट्वा चन्द्रापीडस्तत्क्षणमविन्तयत्—““अहो दर्निवारता व्यसनोपनिपातानाम् , यदीदृशीमप्याकृतिमनभिभवनीयामातृमीयां कुर्वन्ति । सर्वथा न हि कंचन न स्पृशन्ति शररिधर्माणमुपतापाः । बलवती हि द्वंद्वानां प्रवृत्तिः । इदमपरमधिकतरमुपृजनितमतिमहन्मनसि में कौतुकमस्या बाष्पसलिलपातेन । न
ह्मल्पीयसा शोककारणेन क्षेत्रीक्रियन्ते एवंविधा मूर्तयः । न? हि क्षुद्रनिघातपातामिहता चलति वसुधा’’ इति संवर्ण्धितकुतूहलश्च शोकस्मरणहेतुतामुपगतमपराधिनमिवात्मानमवगच्छन्, उत्थाय प्रस्त्रव णादञ्जलिना मुखप्रक्षालनोदकमुपनिन्ये । सा तु तदनुरोधादविच्छिन्नबाष्पजलघारासंतानापि किंचित्कषायितोदरे प्रक्षाल्य लोचने, वल्कलोपान्तेन वदमपमृज्य, दीर्घमुष्णं च निःश्वस्य, शनैः प्रत्यवादीत–““राजपुत्र, किमनेनातिनिर्घृणहृदयाया मम मन्दभाग्यायाः पापाया जन्मनः प्रभृति वैराग्यवत्तान्तेनाश्रवणीयेन श्रुतेन । तथापि यदि महतृकुतूहलम् , तत्कथयामि । श्रयताम्—–
एतत्प्रायेण कल्याणाभिनिवशिनः श्रुतिविषयतामापतितमेवयथा विबुधसह्मन्यप्सरसो नाम कन्यकाः सनित । तासां चतुर्वश कुलानि । एकं भगवतः कमलयोनेर्मनसः समुतृपन्नम् । अन्यद्वेदेभ्यः संभूतम् । अन्यद्रग्रेरुद्भूतम् । अन्यतृपनात्प्रसूतम् । अन्यदमृतान्मथ्यमानादुत्थितम् । अन्यज्जातम् । अन्यदर्ककिरणेभ्यां निर्गतम् अन्यृन्यत्सोमरश्मिभ्यो निष्पतितम् । अन्यद्धूमेरुद्भूतम् । अन्यत्सौदामनीभ्यः प्रवृत्तम् । अन्यन्मृत्युना निर्मितम् । अपरं मकराकेतुना समुतृपादितम् । अन्यत्तु, दक्षस्य प्रजापतेरतिप्रभूतानां कन्यकानां मध्ये द्वे सुते मुनिररिष्टा च बभूवतुः, ताभ्यां गन्धर्वेः सह कुलद्वयं जातम् । एवमेतान्येकत्र चतुर्दश कुलानि । गन्धर्वाणां तुदक्षात्मजाद्वितयसंभवं तदेव कुलद्वयं जातम् । तत्र सुनेस्तनयश्चित्र सेनादीनां पञ्चदशानां भ्रातॄणामधिको गुणैः षोडशश्चित्ररथो नाम । स किल सर्वेषां गन्धर्वाणामाधिपत्यं शैशव एवाप्तवान् । इतश्च नातिदूरे तस्यास्माद्भारतवपादुतृतरणानन्तरे किंपुरुषनाम्रि वर्षे वर्षपर्वतो हेमकूटो नाम निवासः । तत्र तद्भुजयुगपरिनालितान्यनेकानि गन्धर्वशतसहस्त्रातिण प्रतिवसन्ति । तेनैव चेदं चैत्ररथं नामातिमनो हरं काननं निर्मितम् । इदं चाच्छोदाभिधानममिहत्सरः खानितम् । अयं च भावनीपतिरुपरचितो भगवान् । अरिष्टायास्तु पुत्रस्तुम्बुरुप्रभृतीनापं सोदर्याणां षण्णां ज्येष्ठो हंसो नाम जगद्विदितो गन्धर्वः, तस्मिन्द्वितीये गन्धर्वकुले गर्न्वराजेन चित्ररथेनैवाभिषिक्तो वाल एव राज्यपदमासादितवान् । अपरिमितगन्धर्वबलपरिवारस्य तस्वापि स एव गिरिरधिवासः । यत्तु तत्सोममयूखसंभूतानामप्सरसां कुलम्, तस्मात्किरणजालानुसारगलितेन सकलेनेव रजनिकलाकलापलावण्येन निर्मिता त्रिभुबननयनाभिरामा भगवती द्वितीयेव गौरी गौरीतिनाम्रा हिमकरकिरणावदातवर्णा कन्?यका प्रसूता । तां च द्वितीयगन्धर्वकुलाधिपतिर्हसः प्रणयिनीमकरोत् । सा तु हंसेन संयोजिता सदृशसमागमोपजनितामतिमहतीं मुदमुपगतवती । निखिलान्तः पुरस्वामिनी च तस्याभवत् ॥
तयोश्च तादृशयोर्महातृमनोरमीदृशी विगतलक्षणा शोकाय केवलमनेकदुःखसहस्त्रभाजनमेकैवात्मजा समुत्पन्ना । तातस्त्वनपत्यतया सुतजन्मातिरिक्तेन महीत्सवेन मजृजन्माभिनन्दितवान् । अवाप्तेच दशमेऽहनि कृतथोचितसमाचारो महाश्वेतेति यथार्थमेव नाम कृतवान् । साहं पितृभवने बालतया कलमधुरप्रलापिनी पीणेव
गन्धर्वामाङ्कादङ्कं संचरन्ती, अविदितस्त्रेहशोकायासमनोहरं शैशवमतिनीतवती । क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवेन, नवपल्लव इव कुसुमेन, कुसुम इव मधुकरेण, मधुकर इव मदेन, नवयौवनेन पदम् ॥
अथ विजृम्भमाणनवनलिनवनेषु सकलजीवलोकहृदयानन्ददायकेषु मधुमासदिवसेषु, एकदाहमम्बया सह मधुमासविस्तारितशोभं प्रोत्फुल्लनवनलिनकुमुदकुवलयकह्लारमिदमच्छोदं सरः स्त्रातुमभ्यागमम् । अत्र च बहुलकुसुमरजः पटलमग्रकलहंसपदलेखमतिरमणीयममिउं तीरतरुतलमिति स्त्रिग्धमनोहरतरोहशदर्शलोभाक्षिप्तहृदया सह सखीजनेन व्यचरम् ॥
एकस्मिश्च प्रदेशे झटिति वनालिनेनोपनीतं निर्भरविकसितेऽपि काननेऽभिभूतान्यकुसुमपरिमलम्, विसपन्तम्, अहमहमिकया मधुकरकुलैरनुबध्यमानम् , अनाघ्रातपूर्वममानुषलोकोच्चितं कुसुमगन्धमभ्यजिघ्रम् । “कुतोऽयम्’ इत्युपारूढकुतूहला चाहं मु?कुलितलोचना तेन कुसुमगन्धेन मधुकरीवाकृष्यमाणा कतिचित्पदानिगत्वा, हरहुताशनेन्धनीकृतमदनशोकविधुरं वसन्तमिव तपस्यन्तम् , अतितेजस्वितया प्रचल?तटिल्लतापञ्जरमध्यगतमिव विभाव्यमानम् , एकेन सनालवकुलफलाकारं कमण्डलुम् , अपरेण च स्फटिकाक्षमालिकां करेण कलयन्तम् , आत्मतेजसा विजितृय सवितारमागृहीतेन परिवषमण्डलनव मौञ्जमेखलागुणेन परिक्षिप्तजधनभागम. , अलंकारमिव ब्रह्मचर्यस्य , यौवनमिव धर्मस्य, विलासगिव सररवत्याः , स्वयंवरपतिमिव सर्वविद्यानाम् , संकेतस्थानगिव सर्वश्रुतानाम्, आत्मानुरूपेण सवयसा परणं देवतार्चनकुसुमायुच्चिन्वता तापसकुमारेणानुगतम्, अतिमनोहरं स्त्रानार्थमागं मुनिकुमारकमपश्यम् ॥
तेन च कणावतंसीकृतां कृत्तिकातारस्तबकानुकारिणीमदृष्टपूर्वां कुसुममञ्जरीमद्राक्षम् । अस्याः परिभूतान्यकुसुमामोदो नन्वयं परिमल इति मनसा निश्चित्यं तं तपोधनयुवानमीक्षमाणाहचिन्तयम्—““अहो रूपातिशयनिष्पादनोपकरणकोशस्याक्षीणता विधातुः । यत्त्रिभुवनाद्भुतरूपसभारं भगवन्तं कुसुमायुधमुतृपाद्य, तदाकाराति रिकृतरूपराशिरयमपरो मुनिमायामया मकरकेतुरुतृपादितः । मन्ये च, सकलजगत्रयनानन्दकरं शशिविम्बं चिरचयता, लक्ष्मीलीलावासभवनानि कमलानि सृजता, प्रतापतिना प्रथममेतदाननाकारकरणकौशलाभ्यास एव कृतः । अन्यथा किमिव हि सदृशावस्तुविरचनायाः कारणम् । अलीक चेदम्, यथा किल–सकलाः कलाः कलावतो बहुलपेक्षे क्षीयमाणस्य सुषुम्रानाम्रा रश्मिना रविरापिबतीति । मन्ये-ताः खल्वस्य गमभस्तयः समस्ता वपुरिद्माविशन्तीति । कुतोऽन्यथा रूपापहारिणि क्लेशबहुले तपसि वर्तमानस्येदं लावण्यम्’’ इति विचिन्तीमेव मामविचारितगुणदोषविशेषो रूपकपक्षपाती नवयौवनसुलभः कुसुमायुधः परवशामकरो?त् ॥
उच्छुसितैः सह विस्मृतनिमेषेण किंचिदामुकुलितपक्ष्मणा दक्षिणेन चक्षुषा सस्पृहमापिबन्तीव, किमपि याचमानेव, हाहा किमिदमसांप्रतमतिहेपणमकुलकुमारीजनोचितमिदं मया प्रस्तुतमिति जानानाप्यप्रभवन्ता करणानाम् , स्तम्भितेव, लिखितेव, केनापि विधृतेव, निस्पन्दसकलायवा तमतिचिरं व्यलोकयम् । अनन्तरं च मेऽन्तर्मदनावाकशमिव दातुमाहितसंताना निरीयुः श्वासमरुतः । स्वेदसलिललवलेखाक्षालितेवागलल्लज्जा ॥
आसीच्च मम मनसि—““शान्तातृमनि दूरीकृतविषयव्यतिकरेऽस्मिञ्जने मां निक्षिपता किमिदमनार्येणासदृशमारब्धं मनसिजेन । एवं च नामातिमूढं हृदयमङ्गनाजनस्य । यदयमनुरागविषययोग्यतामपि विचारीयितु नालम् । क्केदमतिभास्वरं धाम तेजसां तपसां च । क्क च प्राकृतजनाभिनन्दितानि मन्मथपरिस्पन्दितानि । नियतमयं मामेवं मकरलाञ्छनेन विडम्बयमानामुपहसति मनसा । चित्रं चेदम्— यदहमेवमवगच्छन्त्यपि न शक्रोम्यात्मनो विकारमुपसंहर्तृम् । कथमनेन क्षणेनाकारमात्रालोकनाकुलीभूतमेवास्वतन्त्रतामुपैत्यन्तःकरणम् । यावदेवे सचेतनास्मि, यावदेव च न परिस्फटमनेन विभाव्यते से मदनदुश्चेष्टितलाघवमेतत्, तावदेवास्मात्प्रदेशादपसर्पणं श्रेयः । कदाचिदनभिमतस्मरविकारदर्शनकुपितोऽयं शापाभिज्ञां क्करोति माम् । अदूरकापा हि मुनिजन्रकृतिः’’ इत्यवधार्य, अपसर्पणाभिलाषिण्यहमभवम् । अशेषजनपूजनीया चेयं जातिरिति कृत्वा तस्मै प्रणाममकरवम् ॥
अथ कृतप्रणामायां मयि, दुर्लङ्घशासनतया भगवतो मनोअविनयबहुलतया चाभिनवयौवनस्य,
चपलतया च मनोभुवः, अविनयबहुलतया चाभिनवयौवनस्य, चपलतया च मनोवृत्तेः, तथा भवितव्यतया च तस्य तस्य वस्तुनः, किं बहुना मममन्दभाग्यदौरात्म्यात्, अस्य चेदृशस्य क्लेशस्य विहितत्वात् , तमपि मद्विकारदर्शनापहृतधैर्यं प्रदीपमिव पवनस्तरलतामनयदनङ्गः । तयातु तस्यातिप्रकटया विकृत्या द्विक्ष्गुणीकृतमदनावेश, तत्क्षणमहमपर्णनयोग्या कामप्यवस्थामन्वभवम् ॥
प्राप्तप्रसरा चोपसृत्य तं द्वितीयमस्य सहचरं मुनिबालकं प्रणामपूर्वकमपृच्छम्—-““भगवन्, किमभिधानः? कस्य चायं तपोधनयुवा ? किंनाम्रस्तरोरियमनेनावतंसीकृता कुसुममञ्जरी ? जनयति हि मे मनासि सहतृकौतुकमस्याः समुत्सर्पन्नसाधारणसौरभोऽयमनाघ्रातपूर्वो गन्धः’‘इति । सतु मामीषद्विहस्याव्रवीत्—
““बाले, किमनेन पृष्टेन प्रयोजनम् । अथ कौतुकमावेदयामि । श्रूयताम्—
अस्ति खलु सकलत्रिभुवनप्रख्यातकीर्तिः, महामुनिर्दिव्यलोकनिवासी श्वेतकेतुर्नाम । तस्य च कदाचिद्देवतार्चनकमलान्युद्धर्तुमन्दाकिनीमवतरतस्त्रिभुवनसुन्दरं रूपमास्वादयत्या मन्मधविकृताया विकचण्पुण्डरीलोपविष्टाया देव्या ल्क्ष्म्याः सद्य एव कुमार एष मसमुदपादि । ततस्तमुत्सङ्गेनादाय सा “भगवन्, गृहाण, तवायमातृमजः’ इत्युक्त्वा तस्मै श्वेतकेतवे ददौ । असावपि बालजनाचिताः सर्वाः क्रियाः कृत्वा, तस्य पुण्डरीकसंभवतया तदेव पुण्डरीकनाम चक्रं । प्रतिपादितव्रतं च तमागृहीतसकलविद्याकलापमका?र्षीत् । सोऽयम् ॥
इयं च, सुरासुरैर्मथ्यमानात्क्षीरसागरादुद्गतो यः पारिजातनामा पादपः, तस्य मञ्जरी । यथा चैषा व्रतविरुद्धमस्य श्रवणसंसर्गमासादितवती, तदपि कथयामि । अद्य चतुर्दशीति भगवन्तमम्बिकापतिं कैलासगतमुपासितुममरलोकान्मया सह नन्दनवनसमीपेनायमनुसरन्, निर्गत्य साक्षान्नन्दनवनदेवतया पारिजातकुसुममञ्जरीमिमामादाय, प्रणम्याभिहितः—-” भगवन् , इयमवतंसविलासदुर्ललिता समारोप्यतां श्रवणशिखरम् । ब्रजतु सफलतां जन्म पारिजातस्य’ इतृयेवमभिद्धानो तामनुयान्तीमालोक्य, “को दोषः सखे, क्रियतामस्याः परिग्रहः’इतृयभिधाय बलारिदयमनिच्छतोऽप्यस्य मया कर्णपूरीकृता । तदेतत्कात्स्न्यंन, योऽयम्, या चे यम्द्व यथा चास्य श्रवणशिखरं समारूढा तत्सर्वमावेदितम्’‘इत्युक्तवति तस्मिन्, सतपोधनयुवा किचिदुपदर्शितस्मितो मामवादीत्—“अयि कुतूहलिनि, किमनेन प्रश्रायासेन । यदि रुचितसुरभिपरिमला, गृह्मतामियम् इत्युक्वा समुपसृत्य, आतृमीयाच्छ्रवणादपनीय मदीये श्रवणपुटे तामकरोत् । स च मत्कपोलस्पर्शतरलीकृताङ्गुलिजाललात्करतलदक्षमालां लज्जया सह गलितामपि नाज्ञासीत् । अथाहं तामसंप्राप्रामेव भूतलमक्षमालां गृहीत्वा, सलीलं कण्ठाभरणतामनयम् ॥
इत्थंभूते च व्यतिकरे छत्रपग्राहिणी मामवोचत्—-“भर्तृदारिके, स्त्राता देवी । प्रत्यासीदति गृहगमनकालः । तत्क्रियतां मज्जनविधिः इति । अहं तु तेन तस्या वचनेन नवग्रहा करिणीव प्रथमाङ्ककुशपातेनानिच्छया कथं कथमपि समाकृष्यमाणा, तन्मुखादतिकृच्छ्रेणदृष्टिमाकृष्य, स्रतुमुदचलम् ॥
उच्चलितायां च मयि द्वितीयो मुनिदारकस्तथाविधं तस्य धैर्यस्खलितमालोक्य किंचितृप्रकटितप्रणयकोप इवावादीत—““सखे पुण्डरीक, नैतदनुरूपं भवतः । क्षद्रजनक्षुण्ण एष मार्गः । धैर्यधना हि साधवः । किं यः कश्चितृप्राकृत इव विक्लबीभबन्तमात्मानं न रुणात्सिकुतस्तवापूर्वोऽयमद्येन्द्रियोपप्लवः,ख्? येनास्येवंकृतः । क्क ते तद्धैर्यम् क्कासाविन्द्रियजयः । क्क सा प्रशानितः । क्क तत्कुलक्रमागतं ब्रह्मचर्यम् । क्क ते गुरूपदेशाः । क्क तानि श्रुतानि । क्त तत्कुलक्रमागतं ब्रह्मचर्यम् । क्क ते गुरूपदेशाः । क्क तानि श्रुतानि । ?क्क ता वैराग्यबुद्धयः । क्कासौ तपस्यभिनिवेशः । क्क तद्यौवनानुशासनम् । सर्वथा निष्फला प्रज्ञा । निगफणो धर्मशास्त्राभ्यासः । निरर्थकः संस्कारः । निरुपकारको गुरूपदेशविवेकः । निष्प्रयोजना प्रबुद्धतो । निष्कारणं ज्ञानम् । यदत्र भवादृशा अपि रागाभिषङ्गै कलुषीक्रियनते, प्रमादैश्चाभिभूयन्ते । कथं करतलाद्गलितामपहृतामक्षमालापि न लक्षयसि । अहो विगतचेतनत्वम् । अपहृता नामेयम् । इदमपि तावदपड्रियमाणमनयानार्यया निवार्यनां हृदयम्’’ ॥
इत्येवमभिधीयमानश्च तेन किंचिदुपजातलज्ज इव प्रत्यवादीत्—- ““सखे कपिञ्जल, किं मामन्यथ संभावयसि । नाहमेवमस्या दुर्विनीतकन्यकाया मषयाम्यक्षमालग्रहणापराधमिमम् ’’ इत्यभिधाय,
अलकाकोपकान्?तेन मुखेन्दुना मामवदत्—-“चपले, प्रदेशादस्मादिमामक्षमालामदत्त्वा पदातृपदमपि न गन्तव्यम्’ इति । तच्च श्रुत्वा, अहमातृमकण्ठादुन्मुच्यैकावलाम्, “भगवन्, गृह्मतामक्षमाला’इति मन्मुखासक्तदृष्टेः शून्यहृदयस्यास्य प्रसारिते पाणौ निधाय, स्त्रातुमवातरम् । उत्थाय च कथमपि प्रयत्रेन निम्रगेव प्रतीपं नीयमानासखीजनेन बलादम्बया सह तमेव चिन्तयन्ती स्वभवनयासिषम् ॥
गतृवा च प्रश्यि कन्यकानतः पुरम्, ततः प्रभृति तद्विरहविधुरा, किमागतास्मि, किं तत्रैव स्थितास्मि,किमेकाकिन्यस्मि, किं परिवृतास्मि, किं तूष्णीमस्मि, किं प्रस्तुतालापास्म, किं जागर्मि, किं सुप्तात्मि, कानि रम्याणि, कान्यरम्याणिति सर्वमेव नावागच्छम् । अविज्ञातमदनवृत्तान्ता च, क्व गच्छामि, किं करोमि, किंशृणोमि, किं पश्यामि, किमालपामि, कस्य कथयामि, कोऽस्य प्रतीकार इति सर्व च नाज्ञासिषम् । केवलमारुह्म कुमारीपरप्रासादम् , विसर्ज्य च सखीजनम्, द्वारि निवारिताशेषपरिजनप्रवेशा, सर्वव्यापारानुत्सृज्य, एकाकिनी मणिजालगवाक्षनिक्षिप्रमुखी, तामेव दिशं तत्सनाथतया प्रसाधितामिव पूर्णचन्द्रोदयालंकृतामिव दर्शनसुभगामीक्षमाणा, तस्माद्दिगन्तरादागच्छन्तमनिलर्माप वनकुसुमपरिमलमपि शकुनिध्वनिमपि तद्रार्ता प्रष्टुमीहमाना, तद्वल्लभतया तपःल्लेशायापि स्पृहयन्ती, तत्परिग्रहान्मुनिवेषस्याग्राम्यतां तच्छ्रवणसंपर्कात्पारिजातकुसुमस्य मनोहरतां तन्निवासात्सुरलोकस्य रम्यतामध्यारोपयन्ती, दूरस्थस्यापि कमलिनीव सवितुस्तस्यैवाभिमुखी, तथैव तामक्षावलीं कण्ठेनोद्वहन्ती, तथैव च तया कर्णलग्रया पारिजातमञ्चर्या कण्टकितैककपोलफलका, निस्पन्दमतिष्ठम् ॥
अथ ताम्बूलकंरङ्कवाहिनी मदीया तरलिका नाम मयैव सह गता स्त्रातुमासीत् । सा च पश्चाच्चिरादिवागस्य, तथावस्थितां शनैर्मामवादीत्—““भर्तृदारिके, यौ तौ तापसकुमारकौ दिव्याकारावस्माभिरच्छोदसरस्तीरे दृष्टौ, तयोरेकः, येन भर्तृदुहितुरियमवतंसीकृता सुरतरुकुसुममञ्जरी, स तस्माह्वितीयादात्मनो रक्षन् दर्शनम्, अतिनिभृतपदः, कुसुमितलतासंतानगहनान्तरेणोपसृत्य मामागच्छन्तीं षृष्ठतः, भर्तृदारिकामुद्दिश्याप्राक्षीत्—-“बालिके, केयंकन्यका, कस्य वापत्यम्, किमभिधाना, क्व गच्छति’ इति । मयोक्तम्—-“एषा खलु गन्धूर्वाधिपतेर्हंसस्य दुहिना महाश्वेता नाम गन्धर्वाधिवासं हेमकूटाचलमभिप्रास्थता इति कथिते च मया, किरमभिवीक्षमाणो माम्, सानुनयमर्थतामिव दर्शयन्पुराह—“बालिके, कल्याणिनी तवादिन्यचपला बालभावेऽप्याकृतिरियम् । तत्करोषि मे वचनमेकमभ्यर्थ्यमाना’ इति । ततो मया सविनयमुपरचिताञ्जलिपुटया दर्शितादरमभिहितः—-“भगवन्, कस्मादेवभभिधत्से । काहम् । महात्मानः सकलत्रिभुवनपूजनीयास्त्वादृशाः पण्यैर्विना निखिलकल्मषापहारिणीमस्मद्विधेषु दृष्टिमपि नपातयन्ति, किं पुनराज्ञाम् । तद्विस्त्रब्धमादिश्यतां कर्तव्यम् । अनुगृह्तामयं जनः ’ इतृयेवभुक्तश्च मया सस्त्रेहया, सखीभिवोपकारिणीमिव प्राणप्रदामिव दृष्ट्या मामभिनन्द्य, निकटवातनस्तमालपादपत्पल्लबमादाय, निष्पीड्य शिलातले, तेन रसेनोत्तरीयवल्कलैकदेशाद्विपाट्यपट्टिकां स्वहस्तकमलकनिष्ठिकानखशिखरेणाभिलिख्य, “इयं पत्रिका त्वया तस्यै कन्यकायै प्रच्छन्नमेकिन्यै देया’इत्यमिधायार्पितवान्’’ इत्युक्त्वा च सा, ताम्बूलभापजनादाकृष्य तामदर्शयत् । अहं तुतस्याः करतलादाय तां वल्लपट्टिकां तस्यामिमामभिलिखितामार्यामपश्यम्—-
दूरं मुकृतालतया बिससितया विप्रलोभ्यमानो मे ।
हंस इव दर्शिताशो मानसजन्मा त्वयां नीतः ॥
अनया च मे दृष्ट्या दोषविकारोपचयः सुतरामक्रियत मनसः, येनाकुलीक्रियमाणा सरिदिव पूरण विह्वलतामभ्यागमम् । तां च द्वितीयदर्शनेन समासादितत्रैलोक्यराज्याभिषेकामिव मन्यमाना, कपोलयोरलकलताभङ्गेषु च सापग्रहं स्पृश्यान्तीं, विपरीतमिव परिजनस्वामिसंबन्धमुपदर्शयन्ती, ““तरलिके, कथं स त्वया दृष्टः, किं किमभिहितासि तेन, कियन्तं कालमवस्थितासि तत्र, कियदनुसरन्नस्मानसावागतः ’’ इति पुनः पर्यपृच्छम् । अनयैव च कथया तया सह तस्मिन्नेव प्रासादे तथैव प्रतिषिद्धाशेपरिजनप्रवेशा दिवसमत्यवाहयम् ॥
अथ लोहितायति गगनतलोपान्तावलम्बिनि रविबिम्बे, भुकुलितरक्तपङ्कजपुटप्रविष्टमधुकरावलीषु
रवि?विरहमूर्च्छान्धकारितहृदयास्विव प्रारब्धनिमीलनासु पह्मिनीषु, सा छत्रग्राहिणी समागत्याकथयत—“भर्तृदारिके, तयोर्मुनिकुमारयोरन्यतरो द्वारि तिष्ठति, कथयति च—-अक्षमालामुपयाचितुमागतोऽस्मीति ॥
अहं तु मुनिकुमारनामग्रहणादेव स्थानस्थितापि गतेव द्वारदेशम्, मसुपजाततदागमनाशङ्का समाहूयान्यतमं कञ्चुकिनम्"गच्छ, प्रवेश्यताम्’ इत्यादिश्य प्राहिणवम् ॥
अथ मुहूर्तादिव तं तस्य मकरकतनस्येव वसन्तसमयम्, वसन्तसमयतस्यैव दिक्षणानिलम्, अनुरूपं सखायसृषिकुमारकं कपिजलनामानमागच्छन्तमपश्यम् । अन्तिकमुपगतस्य चास्य पर्याकुलमिव शून्यमिवाकारमलक्षयम् । उत्थाय च कृतप्रणामा सादरं स्वयमानसनमुपाहरम् । उपविष्टस्य च बलादनिच्छतोऽपि प्रक्षाल्य चरणौ उपमृज्योत्तरीयांशुकपल्लवने, अव्यवधानयां भूमावेव तस्यान्तिके समुपाविशम् । अथ मुहूर्तमिव स्थित्वा किमपि विवक्षुरिव, स तस्यां मत्समीपोपविष्टायां तरलिकायां चक्षुरपातयत् । अहं तु? विदिताभिप्रायादृष्ट्यैव “भगवन्, अव्यतिरिक्तेयमत्मच्छरीरात् । अशङ्कितभिधीयताम् ’ इत्यवोचम् ॥
एवमुक्तश्च मया कपिञ्चलः प्रत्यवादीत्—-““राजपुत्रि, किं ब्रवीभि । वागेव मे नाभिधेयविषयमवतरति त्रपया । क्क कन्दमूल फलाशी शान्तो वननिरतो मुनिजनः । क्कायमनुषशान्तजनोचितो विषयोपभोगाभिलाषकलुषो रागप्रायः प्रपञ्चः । सर्वमेवानुपन्नम् । आलोकय, किमारब्धं दैवेन । अयत्नेनैव खलूपहासास्पदतामीश्वरो नयति जनम् । न जाने किमिदं वल्कलानां सदृशम् । उजाहो जटानां समुचितम् । किं तपसोऽनुरूपम् । आहास्विद्धर्मोपदेशाङ्गमिदम् । अपूर्वेयं विडम्बना । केवलमवश्यकथनीयमिदम् । अपर उपायो न दृश्यते । अन्या प्रतिक्रिया नोपलभ्यते । अन्यच्छरणं नालोक्यते । अन्या गतिर्नास्ति । अन्यरणै नालोक्यते । अन्या गतिर्नास्ति । अकथ्यमाने च महाननर्थोपनिपातो जायते । प्राणपरित्यागेनापि रक्षणीयाः सुहृदसव इति कथयामि ॥
अस्ति—भवत्याः समक्षमेव स मया तथा निष्टुरमुपदर्शितकोपनाभिहितः । तथा चाभिधाय परित्यज्य तम, तस्मात्प्रदेशादुपजातमन्युः , उत्सृकुसुमावचयः, अन्यं प्रदेशमगमम । अपयातायां भवतृयां मुहूर्तमिव स्थित्वा “एकाकी किमयमिदानमाचरति’ इति संजातवितर्कः, प्रतिनिवृत्य विटपान्तरितविग्रहः, तं प्रदेशं व्यलोकयम् । यावत्तत्र तं नाद्राक्षम्, आसीच्च मे मनस्येवम्—-““किंनु मदनपरायत्तचित्तवृत्तिस्तामेवानुसरन्गतो भवेत् ? गतायां च तस्यां लब्धचेतनो लज्जमानो न शक्रोति मे दर्शनपथमुपगन्तुम् ? आहोस्वित्कुपितः परित्यज्य मां गतः ? जान्वेषयन्मामेव प्रदेशमन्यमितः समारितः स्यात्त?‘‘इतृयेवं विकल्पयन्, कंचित्कामतिष्ठम् । तेन तु जन्मनः प्रभृत्यभ्यस्तेन तस्य क्षणमप्यदर्शनेन दूयमानः पुनराचचिन्तयम्—“स कदाचिद्धैर्यस्खलनविलक्षः किंचिदनिष्टमपि समाचरेत् । न हि किंचिन्न क्रियते हिया । तन्न युक्तमेनमेकाकिनं कर्तुम’ इत्यवधार्य,अन्वेष्टुमदारमकरवम् । अन्येषयंश्च यथा नापश्यं तम्, तथा तथा सुहृत्स्रेहकातरेण मनसा तत्तदशोमभनमाशङ्कमानः, तरुलतागहनानि चन्दनवीथिकालतामण्डपान् मरःकूलानि च वीक्षमाणः, निपुणमितस्ततो दत्तदृष्टिः, सुचिरं व्यवचरम् ॥
अथैकृस्मिन्सरः समीपवर्तिनि निरन्तरतया कुसुममय इव मधुकरमय इव परभृतमय इव मयूरमय इवातिमनोहरे वसन्तजन्मभूमिभूते लतागहने कृतावस्थानम्, अत्सृष्टसकलव्यापारतया लिखितमिव उत्कीर्णभिव स्तम्भितमिव उपरतमिव प्रसुप्तमिव योगसमाधिस्थमिव निश्चलमपि स्ववृत्ताच्चलितम्, शापप्रदानभयादिवादत्तदर्शनेन कुसुमायुर्धेन संताप्यमानम्, अतिनिस्पन्दतया हृदयनिवासिनीं प्रियां द्रष्टुमन्तःप्रविष्टैरिवासहृमसंतापसंत्रासप्रलीनैरिव मनःक्षोभप्रकुपितैरिवोन्मुच्य गतैरिन्द्रियैः शून्यीकृतशरीरम् , निस्पन्दनिमीलितेनेक्षणयुगलेन बाष्पजलदुर्दिनमुत्सृन्तम्, अलिनिवहनिपीयमानपरिमलैरुपरि पतद्भिश्चम्पककुङ्मलैस्तप्तशरशल्यकैरिव सधूमैः कुसुमशरेण ताड्यमानम्, प्रभातचन्द्रमिव पाण्डुतया परिगृहीतम् निदाघगङ्गाप्रवाहमवि क्रशिमानमागतम्, अन्तर्गतानलं चन्दनविटपमिव म्लायन्तम्, अन्यमिव, अर्दृंष्टपूर्वमिव, अपरिचितमिव, जन्मान्तरमिवोपगतम्, परां कोटिमधिरूढं मन्मथवेशस्य, अनभिज्ञेयपूर्वाकारं तमहामद्राक्षम् ॥
अपगतनिमेषेण चक्षुषा तदवस्थं चिरमुद्वीक्ष्य समुपजातविषादो वेपमानेन हृदयेनाचिन्तयम्—-““एवं नामयमतिदुर्विषहवेगो मकरकेतुः । येनानेन क्षणेनायमीदृशमवस्थान्तरमप्रतीकीरमुपनीतः । किामेवमेकपदे व्यर्थोभवेदेवंविशो ज्ञानराशिः । अहो बत महच्चित्रम् । तथा नामायमा शैशवाद्धीरप्रकृतिरस्खलितवृत्तिर्मम चान्येषां च मुनिकुमारकाणां स्पृहणीयचारित आसीत् । अद्य त्वितर इव परिभूय ज्ञानम्, अविगणय्य तपःप्रभावम्, उन्मूल्य गाम्भीर्यम्, मन्मथेन जडीकृतः । सर्वथा दुर्लभं यौवनमस्खलितम्’’ इति । उपसृत्य वच तस्मिन्नेव शिलातलैकपार्श्वे समुपविश्य, असंदेशावसक्तपाणिः, तमनुन्मीलितोचनमेव “सखे पुण्डरीक, कथय किमिदम्’ इत्यपृच्छम् ॥
अथ सुचिरसंमीलनालग्रमिच कथमपि प्रयत्रेनानवरतरोदनवशादुपजातारुणभावमश्रुजलपटलपूरप्लापितमिव सवेदनमिव स्वच्छांशुकान्तरितरक्तमलवनच्छायं चक्षुरुन्मील्य, मन्धरया दृष्ट्या सुचिरं विलोक्य माम्, आयततरं निश्वस्य, लज्जाविशीर्यमाणविरलाक्षरम्, “सखे कपिञ्जल, विदितवृत्तान्तोऽपि किं मां पृच्छसि’ इति कृच्छ्रेण शनैः शनैरवदत् । अहं तु तदाकर्ण्य तदवस्थयैव, “अप्रतीकारविकारोऽयम्, तथापि सुहृदा सुहृदसन्मागप्रवृत्तो यावच्छक्ति सर्वात्मना निवारणीयः’ इति मनसावधार्य, अव्रवम्—““सखे पुण्डरीक, सुविदितमेतन्मम । केवलमिदमेंबं पृच्छामि । यदेतदारब्धं भवता, किमिदं गुरुभिरुपदिष्टम् ? उत धर्मशास्त्रेषु पठितम् ? उत धर्मार्जनोपायोऽयम् ? उतापरस्तपसां प्रकारः ? उत स्वर्गगमनमार्गोऽयम् ? उत व्रतरहस्यमिदम् ? उत मोक्षप्राप्तियुक्तिरियम् ? आहोस्विदन्यो नियमप्रकारः ? कथमेतद्युक्तं भवतो ममसापि चिन्तयितुम्, किं पुनराख्यातुमीक्षितुं वा । किमप्रबुद्धइवानेन मन्यथहतकेनोपहासास्पदतां नीयमानमात्मानं नावबुध्यसे । मूडो हि मदनेनायास्यते । का वा सुखाशा साधुजननिन्दितेष्वेवंविधेषु प्राकृतजनबहुमतषु भवतः । सखलु धर्मबुद्धया विषलतावनं सिञ्चति, कुवलयमालेति निस्त्रिंशीलतामालिङ्गति, कृष्णागरुधूमलेखेति कृष्णसर्पमवगूहत, रत्रमिति ज्वलन्तमङ्गारमभिस्पृषति, मूढो विषयोपभोमेष्वनिष्टाबान्धषु यः सुखबुद्धिमारोपयति । अधिगतविषयतत्त्वोऽपि कस्मात्खद्योत इव ज्योतिर्निर्बीर्यमिदं ज्ञानमुद्वहसि । यतो न निवारयसि प्रबलरजः प्रसरकलुषितानि स्त्रोतांसीवोन्मार्गप्रस्थितानीन्द्रियाणि, न? नियमयसि च क्षुभितं मनः । कोयमनङ्गो नाम । धैर्यमवलग्बय निर्भर्त्स्यतामयं दुराचारः’‘इत्येवं वदतएव मे वचनमाक्षप्य, प्रतिपक्ष्मान्तरालप्रवृत्तबाष्पाणक प्रमृत्यचक्षुः, करतलेन पाणौ मामवलम्बय, अवोचत—““सखे, किं बहुनोक्तेन । सर्वथा स्वथोऽसि । आशीविषविषवेगविचषमाणासेतेषां कुसुमचापसायकानां पतितोऽसि न गोचरे । सुखमुपदिश्यते परस्य । यस्य चेन्द्रियाणि सन्ति, मनो वा विद्यते, यः पश्यति वा, शृणोति वा, श्रुतमवधारयति वा, यो वा शुभमिदं न शुभमिदमिति विवेक्तुगलम्, स खलृपदेशमर्हति । मम तु सर्वमेवेदमतिदूरापतम् । कथमप्येवमवायत्राविधृतास्तिष्ठन्त्यसवः । दूरातीतः खलूपदेशकालः । समतिक्रान्तो धैर्यावसरः । गता प्रतिसंख्यानवेला । अतीतो ज्ञानावष्टम्भसमयः । केन वान्येनास्मिन्समये भवन्तमपहायापदेष्टब्यम्, उन्मार्गप्रवृत्तिनिवारणं वा करणीयम् । कस्य वान्यस्य वचसि मया स्थातव्यम् । को वापरस्त्वतसमो मे जगति बन्धुः । किंकरोमि, यन्न शक्रोमि निवारयितुमात्मानम् । इयमनेनैव क्षणेन भवता दृष्टा दुष्टावस्था । तद्गत इदानीमुपदेशकालः । यावत्प्राणिमि, तावदस्य मदनसंतापस्य प्रतिक्रियां क्रियमाणामिच्छामि । पच्यन्त इव मेऽङ्गानि । उत्कथ्यत इव हृदयम् । प्लुष्यत इव दृष्टिः । ज्वंलताव शरीरम् । अत्र यत्प्राप्तकालम्, तत्करोतु भवान्’’ इतृयभिधाय तूष्णीमभवत् ॥
एवमुक्तोऽप्यहमेनं प्राबोधयं पुनः पुनः । यदा शास्त्रोपदेशविशदैः सनिदश्रंनैः सेतिहासैश्च वचोभिः सानुनयं सोपग्रहं चाभिधीयमानोऽपि नाकरोत्कार्णे, तदाहमचिन्तयम्—अतिभूमियं गतो न शक्यते निवर्तार्यतुम् । इदानीं निरर्थकाः खलूपदेशाः । तत्प्राणपरिरक्षणेऽपि तावदस्य यत्रमाचरामि’ इति कृतमतेः, मुहुर्मुहुरन्यदन्यन्नलिनदलशयनमुपकल्पयतः , मुहुर्मुहुश्चन्दनचर्चामारचयतः, मुहुर्मुहुश्च स्वेदप्रतिक्रियां कुर्वतः, कदलीदलेनानवरतं वीजयतः, समुदभून्मे मनसिं चिन्ता—““नास्ति खल्वसाध्यं नाम भगवतो मनोभुवः । क्कायं हरिण इव वनवासनिरतः स्वभावमुग्धो जनः । क्क च विविधविलासरमसरशिर्गन्धर्वराजपुत्री महाश्वेता ।
सर्वथा न हि किंचिदस्य दुर्घटं दुष्करमनायत्तमकर्तव्यं वा जगति । दुरुपपादेष्वप्यर्थेष्वयमवज्ञया विचरति । नायं केनापि प्रतिकूलयितुं शक्यते । का वा गणना सचेतनेषु । अपगतचेतनान्यपि संघटयितुमलम् । यद्यस्मै रोचते, कुमुदिन्यपि दिनकरकरानुरागिणी भवति । कमलिन्यपि शशिकरद्वेषमुज्ज्ञति । शिशापि वासरेण सह मिश्रतामेति । ज्योत्स्राप्यन्धकारमनुबत्रते । किं वा तस्य दुःसाधमपरम् । एवंविधो येनायमगाधगाम्भीर्यसागरस्तृणवल्लघुतामुपनीतः । क्कतत्तपः । क्केयमवस्था । सर्वथा निष्प्रतीकारेणकारेयमापदुपस्थिता । किमिदानीं कर्तव्यम् । किं वा चेष्टितव्यम् । कां दिशं गन्तव्यम् । किं शरणम् । को वोपायः । कः सहायः । कः प्रकारः । का युक्तिः । कः समाश्रयः । येनास्यासवः संधार्यन्ते । केन वा कौशलेन, कतमया वा युक्त्त्य, कतरेण वा प्रकारेण, केन वावष्टम्भेन, कया वा प्रज्ञया, कतमेन वा समाश्वरासनन, अयं जीवेत्’’ इत्येते चान्ये च मे विषण्णहृदयस्य संकल्पाः प्रादुरासन् ॥
पुनश्चाचिन्तयम्—-““किमनया ध्यातया निष्प्रयोजनया चिन्तया । प्राणास्तावदस्य येन केनचिदुपायेन शुभेनाशुभेव वा रक्षणीयाः । तेषां च तत्समागममेकमपहाय नास्त्यपरः संरक्षणोपायः । बालभावादप्रगल्भतया च तपोविरुमनुचितमुपहासमिवात्मनो मदनव्यातकर मन्यमानो नियतमेकोच्छ्वसावशेषजीवितोऽपि नायं तस्याः स्वयमभिगमनेन पूरयति मनोरथम् । अकालान्तरक्षमश्चायमस्य मदनविकारः । सततमतिगर्हितेनाकृत्येनापि रक्षणीयान्मन्यन्ते सुहृदसून्साघवः । तदतिह्लपणमकर्तव्यमप्येतदस्माकमवश्यकर्तव्यतामापतितम् । किंचान्यत्कियंते । का चान्या गतिः । सर्वथा प्रयामि तस्याः सकाशम् । आवेदयाम्येतामवस्थाम् ‘‘इति चिन्तयित्वा, कचिदनुचितव्यापारप्रवृत्तं मां विज्ञाय संजातलज्जो निवारयेदित्यनिवेद्यैव तस्मै, तत्प्रदेशात्सव्याजमुत्थायागतोऽहम् । तदेवमवस्थिते यदत्रावसरप्राप्तम्, ईदृशस्य चानुरागस्य सदृशम्, अस्मदागमनस्य चानुरूपम्, आतृमनो वा समुचितम्, तत्र प्रभवति भवती’‘इत्यभिधाय, किमियं वक्ष्यतीति मन्मुखासक्तदृष्टिस्तूष्णीमासीत् ॥
अहं तु तदाकर्ण्य, सुखामृतमये ह्नद इव निमग्रा, सर्वानन्दानामुपरि वर्तमाना, सर्वमनोरथानामग्रमिवाधिरूढा, तत्कालोपजातया लज्जया किंचिदवनम्यमानवदनतृवादस्पृष्टकपोलोदरैरानन्दबाष्पजलबिन्दुभिः स्त्रवद्भिरावेद्यमानप्रहर्षप्रसङ्गा तत्क्षणमचिन्तयम्"“दिष्ट्या तावदयमनङ्गो मामिव तमप्यनुबध्राति । यत्सत्यमेतेन मे संतापयताप्यंशेन दर्शितानुकूलता । यदि च त्यमेव तस्यैदृशी दशा वत्रते, ततः किमवि नोपकृतमनेन । किं वा नोपपादितम् । को वानेनापरः समानो बन्धुः । कथं वा कपिञ्जलस्य स्वप्रेऽपि वितथा भारती प्रशान्ताकृतेरस्माद्वदनान्निष्क्रामति । हत्थंभूते किं मयापि प्रतिंपत्तव्यम्”” इत्येवं विचारयन्तीमेव प्रविश्य ससंभ्रमा प्रतीहारीमामकथयत्—-“भर्तृदारिके, त्वमस्वस्थशरीरेति परिजनादुपलभ्यमहादेवी प्राप्त’ इति । तच्च श्रुत्वा कपिञ्जलो महाजनसंमर्दर्भारुः सत्वरमुत्थाय, ““राजपुत्रि, महानयमुपस्थितः कालातिपातः । भगवांश्च भुवनत्रयचूडामणिरस्तमयमुपगच्छति दिवसकरः । तद्गच्छाभि । सवयथाभिमतसुहृत्प्राणरक्षादक्षिणार्थमयमुपरचितोऽञ्जलिः । एष मे परमो विभवः’’ इत्यभिधाय, प्रतिवचनकालमप्रतीक्ष्यैव, पुरोयायिनाम्बायाः परिजनेन सर्वतः संरुद्धे द्वारदेशे कथमप्यवापतनिर्गमः प्रययौ । अमृबा तु मत्समीपमागतृय सुचिरं स्थित्वा स्वभवनमयासीत् । तया तु तत्रागतृय किं कृतम्, किमभिहितम्, किमाचेष्टितम् इति शून्यहृदया सर्व नालक्षयम् ॥
गतायां च तस्याम्, अस्तुमुपगते भगवति सवि?तरि, तिमिरेणापष्टभ्यमाने जीवलोके, किंकर्तव्यतामूढा तामेव तरलिकामपृच्छम्—-““अयि तरलिके, कथं न पश्यसि—दृढमाकुलं मे हृदयम् । अप्रतिपत्तिविह्वलानि चेन्द्रियाणि । न स्वयमण्वपि कर्तव्यमलमस्मिज्ञातुम् । उपदिशतु मे भवती, यदत्र सांप्रतम् । अयमेवं त्वत्समक्षमेवाभिधायग गतः कपिञ्जलः । यदिं तावदितरकन्यकेव विहाय लज्जाम्, उत्सृज्य धैर्यम्, अवमुच्य विनयम्, अचिन्तयित्वा जनापवादम्, अतिक्रम्य दाचारम्, उल्लङ्ध्य शीलम्, अवगणय्य कुलम्, अङ्गीकृत्यायशः, रागान्धवृत्तिः, अननुज्ञाता पित्रा, अननुमोदिता मात्रा, स्वयमुपगम्य ग्राहयामि पाणिम् । एवं गुरुजनातिक्रमादधर्मो महान् । अथ धर्मानुरोधादितरपद्वक्षावलम्बनद्वारेण मृत्युमङ्गीकरोमि, एवमपि प्रथमं
तावत्—स्वयमागतस्य प्रथमप्रणयिनस्तत्रभवतः कपिञ्जलस्य प्रणयप्रसरभङ्गः । पुनरपरम्— यदि कदाचित्तस्य जनस्य मत्कृतादाशाभङ्गात्प्राणविपत्तिरुपजायते, तदपि मुनिजनवधजनितं महदेनो भवेतत् ’’ इत्येवमुच्चारयन्तृयामेव मयि, आसन्नचन्द्रोदयजन्मना विरलविरलेनालोकेन धूसरतां वासवी दिगयासीत् ॥
ततः शशिकेसरिकविदार्यमाणंतमः करिकुम्भसंभवेन मुक्ताफलक्षोदेनेव धवलतामुपनीयमानं पश्चिमेतरदिन्दुधाम्रा दिगन्तरम्दृश्यत । शनैः शनैश्चन्द्रदर्शनान्मन्दमन्दस्मिताया दशनप्रभेव ज्योत्स्रा निष्पतन्ती निशाया मुखशोभामकरोत् । तदनु रसातलादवनीमवदार्योद्गच्छता शेषुणामण्डलेनेव रजनिकरबिम्बेनाराजत रजनी ॥
अथ तं प्रत्यासन्नसमुद्रविद्रुमप्रभापाटलितमिवाभिनवोदयरागलोहितं रलनिकरमुदितं विलोकयन्तीम्, अन्धकारितहृदयाम्, तरलिलोत्सङ्गविधृतशरीराम्, मूर्च्छा मां निमीलितलोचनामकार्षीत् । अचिरेण च संभ्रान्ततरलिकोपनीतामिश्चन्दनचर्याभिस्तालवृन्तानिलैश्चोपलब्धसंज्ञा, तामेवाकुलाकुलां रुदतीं तरलिकामपश्यम् । उन्मीलितलोचनां च मां सा कृतपादप्रणामा बद्धाञ्जलिरवादीत्—-
““भर्तृदारिके, किं लज्जया गुरुजनापेक्षया वा । प्रसीद । प्रेषय माम् । आनयामि ते हृदयदियतं जनम् । उत्तिष्ठ, स्वयं वा तत्रगम्यताम्’’ इत्येवंवादिनीं ताम् “उत्तिष्ठ, यथाकथंचिदनुद्गतजीबिता संभावयामिहृदयदयितं जनर्म् इत्यभिधाना, कथंचिदवलम्ब्य तामेवोदतिष्ठम् । उच्चलितायाश्च मे दुर्निमितृतविेदकमस्पन्दत दक्षिणं लोचनम् । उपजातशङ्का चारिन्तयम—-“इदमपरं किमप्युपक्षिप्तं दैबेन’इति ॥
अथ नातिदूरोद्गतेन चन्द्रनरसनिर्ज्ञरनिकरानिव क्षरता अमृतसागरपूरानिवोद्गिरता चन्द्रमण्डलेन प्लाव्यमाने ज्योत्स्त्रया भुवना न्तरले, महावरादृष्ट्रामण्डललिभेन शशिना क्षीरसागरोदरादिवोद्ध्रियमाणे महीमण्डले, चन्द्रोदयानन्दनिर्भरे विलासमय इव प्रीतिमय इव जीवलोके, प्रदोषसमये, गृहीतविविधकुसुमताम्बूलाङ्गरागपटवासचूर्णया तरलिकयानुगम्यमाना, रक्तांशुकेन कृतशिरोवगुण्ठना, केनचिदात्मीनापि परिजनेनानुपलक्ष्यमाणा, तस्मात्प्रासादशिखरादवातरम् ॥
अवतीर्यं च प्रमदवनपक्षद्वारेण निर्गत्य तत्कालोचितैरालापैस्तया सह तमुद्देशमभ्युपागमम् । तत्र च मार्गलताकुसुमरजोधूसरं चरणयगलं कैलासतटाच्चन्द्रोदयप्रस्त्रुतचन्द्रकान्तमणिप्रस्त्रवणे प्रक्षालयन्ती, यस्मिन्प्रदेशे स आस्ते, तस्मिन्नवे चास्य सरसः पश्चिमे तटे, पुरुषस्येव रुदितध्वनिं विप्रकर्षाम्रातिव्यक्तमुपालक्ष्यम् । दक्षिणेक्षणस्फुरणेन च प्रथममेव मनस्याहितशङ्का, तेन सुतरामवदीर्णहृदयेव,
किमप्यनिष्टमन्तः कथयतेव विषण्णेनान्तरात्मना “तरलिके, किमिदम्’ इति सभयमभिदधाना वेपमानात्रयष्टिः, तदभिमुखमतित्वरितमगच्छम् ॥
अथ निशीथप्रभावाद्दूरादेव बिभाव्यमानस्वरमुन्मुक्तार्तनादम् ““हा हतोऽस्मि । हा दग्धोऽस्मि । हा वञ्चितोऽस्मि । ?हा किमिदमापतितम् । उत्सन्नाऽस्मि । दुरात्मन मदनपिशाच पाप निर्घृण, किमिदमकृत्यमनुष्ठितम् । आः पाप दुष्कृतकारिणि दुर्विनीते महाश्वेते, किमनेन तेऽपकृतम् । आः पाप दुश्चरित चन्द्रचाण्डाल, कृतार्थोऽ सीदानीम् । अपगतदाक्षिण्य दाक्षणानिलहतक, पृणास्ते मनोरथाः; कृतं कर्तव्यमः वहेदानीं यथेष्टम् । हा भगवन् श्वेतकेतो पुत्रवत्सल, न वत्सि मुषितमात्मानम् । हा धर्म, निष्परिग्रहोऽसि । हा तपः, निराश्रयमसि । हा सरस्वति, विधवासि । हा सत्य, अनाथमसि । हा सुरलोक, शून्योऽसि । सखे, प्रतिपालय माम् । अहमपि भवन्तमनुयास्यामि । न शक्रोमि भवताविना क्षणमप्यवस्थातुमेकाकी । कथमपरिचित इवादृष्टपूर्व इवाद्य मामेकपदे उत्सृज्य प्रयासि । कुतस्तव्रेयमतिनिष्टुरता । ?कथय त्वत् ऋते क्क गच्छामि । कं याचे । कं शरणमुपैमि । अन्धोऽस्मि सवृत्तः । निरर्थकं जीवितम् । अप्रयोजनं तपः । निःसुखाश्च लोकाः । केन सह परिभ्रमामि । कमालपामि । उत्तिष्ट, देहि मे प्रतिवचनम् । क्क तन्ममापरि सुंहृत्प्रेम ? क्क सा स्मितपूर्वाभिभाषिता ? ’’ इत्येतानि चान्यानि च विलपन्तं कपिञ्जलमश्रौषम् ॥
तच्च श्रुतृवा, पतितैरिव प्राणैर्दूरादेव मुक्तैकताराक्रन्दा, सरस्तीरलतासक्तित्रुट्यमानांशुकोत्तरीया,
यथाशक्ति त्वरितैरज्ञातसमविषमभूमिभागविन्यस्तैः पादप्रक्षेपैः प्रस्खलनी पद पद, केनाप्युत्क्षिप्य नीयमानेव तं प्रदेशं गतृवा, सरस्तीरसमीपवर्तिनि शशिमणिशिलातले विरचितं मृणालमयं शयनमधिशयानम्, अतिनिस्पन्दतया मत्पदशब्दमिवाकर्णयन्तम्, मनःक्षोभप्रायश्चित्तप्राणायामावस्थितमिव, “मत्तः प्रियतरस्तवापरो जनो जातः इति कुपितेनेव जीवितेन परित्यक्म, “कठिनहृदये, दर्शनमात्रकेणापि न पुनरनु गृहीतोऽयमनुगतो जन’ इति सप्रणयं मामुपालभमानमिव चक्षुषा, किंचिद्विवृताधरतया जीवितमपहर्तुमन्तःप्रविष्टैरिवेन्दुकिरणैर्निर्गच्छद्भिर्दशनांशुभिर्धंवलितपुरोभागम्, मन्मथव्यथाविघटमानहृदयनि हितेन वामेन पाणिना “प्रसीद, प्राणैः समं प्राणसमे, न गन्तव्यम्’ इति हृदयस्थितां मामिव धारयन्तम्, अन्तिकस्थितेन चाचिरोद्गतजीवितमार्गामिवोद्ग्रीवेण विलोकयता तपःसुहृदा कमण्डलुना समुपेतम्, कपिञ्जलेन मद्दर्शनात् अब्रह्मण्यम्’इत्यूर्ध्वहस्तेन द्विगुणीभूतबापोद्ग्रमेनाक्रोशता कण्ठे परिष्वक्तम्, तत्क्षणविगतजीवितं तमहं पापकारिणी मन्दभाग्या महाभागमद्राक्षम् ॥
उद्भतमूर्छान्धकारा च पातालमिवावतीर्णा, तदा “क्काहमगमम्, किंमकरवम्, किं व्यलपम्, इति सर्वमेव
नाज्ञासिषम् । असवश्च मे तस्मिन्क्षणे किमतिकठिनतयास्य मूढहृदयस्य, किमनेकदुःखसहस्त्रसहिष्णुतया हतशरीरकस्य, किं विहिततया दीघीशोकस्य, किं भाजनतया जन्मान्तरोपात्तस्य दुष्कृतस्य, किं दुःखदाननिपुणतया दग्धदैवस्य, किमेकान्तवामतया दुरात्मनो मन्मथहतकस्य, केन हेतुना, नोद्गच्छन्ति स्म; तदपि न ज्ञातवती । केवलमतिचिराल्लब्धचेतना दुःखभागिनी, वह्नाविव पतितमसहृमशोकदह्ममानमातृमानमवनौ विचष्टमानमपश्यम् । अश्रद्दधाना चासंभावनीयं तत्तस्य मरणम् आत्मनश्च जीवितम्, उत्थाय “हा हा किमिदमुपनतम्’ इति मुक्तार्तनादा, “हा अम्ब, हा ता, हा सख्यः’ इति व्याहरन्ती, ““हा नाथ जीवितनिबन्धन, आचक्ष्व—क्क मामेकाकिनीमशरणामकरुण, विमुच्य यासि । पृच्छ तरलिकां त्वत्कृते मया यानुभूतावस्था । युगसहस्त्रायमाणः कृच्छ्रेण नीतो दिवसः । प्रसीद । सकृदप्यालप । दर्शंय भक्तवत्सलताम् । ईषदपि विलोकय । पूरय मे मनोरथम् । आर्तास्मि । भक्तास्मि । अनुरक्तास्मि । अनाथास्मि । बा लास्मि । अगतिकास्मि । दुःखितास्मि । अनन्यशरणास्मि । मदनपरिभूतास्मि । किमिति न करोषि दयाम् । कथय, किमपराद्धम् ।किं वा नानुष्ठितं मया । कस्यां वा नाज्ञायामादृतम् । कस्मिन्वा त्वदनुकूले नाभिरतम्. । येन कुपितो दासजनमकारणात्पीरत्यज्य व्रजन्नन बिभाषि कालीनातृ । अलीकानुराग्रपतासरणकुशलया किं वा मया वामया पापया, याहमद्यापि प्राणिभि । हा, हतास्मि मन्दभागि?नी । कथं न तृवं जातः, न विनयः, नबन्धुवर्गः, न परलोकः । धिङ्मां दुष्कृतकारिणीम्, यस्याः कृते तवेयमीदृशी दशा वर्तते । नास्ति मतृसदृशी नृशंसहृदया, याहमेवंविधं भवन्तमुत्सृज्यगृ?हं गतवती । किं मे गृहेण, किमभ्बया, किं वा तातेन, किं बन्धुभिः, किं परिजनेन । हा, कमुपयामि शरणम् । अयि दैव, दर्शय दयाम् । विज्ञापयामि तृवाम् । देहि दयिदक्षिणाम् । भगवति भवति तव्यते , कुरु कृपाम् । पाहि वनितामनाथाम् । भगवत्यो वनदेवताः,प्रसीदत, प्रयच्छतास्य प्राणान् । अव वसुंधरे । सकललोकानुग्रहजननि रजनि, किमर्थे नानुकम्पसे । तात कैलास, शरणागतास्मि ते । दर्शय दयालुताम्’’ इत्येतानि चान्यानि च व्याक्रोशन्ती, कियद्वा स्मरामि, ग्रहगृहीतेवोन्मतृतेव व्यलपम् ॥
उपर्युपरि पतितनयजलधारानिकरच्छलेन विलीयमानेव, तज्जीवितायेवात्ममरणाय स्पृहयन्ती, करतलेन कपोलयोर्ललाष्टे अंसयोर्हृदये च परामृशन्ती, “पुण्डरीक, निष्टुरो।द्यसि । एवमप्यार्ता न गणयसि माम्’ इतृयुपालभमाना, मुहुर्मुहुरेनमन्वनयम् । मुहुर्मुहुः कण्ठे गृहीत्वा व्याक्रोशम् । “अयि भगवन्, प्रसीद, प्रत्युज्जीवयैनम्’ इति मुहुर्मुहः कपिञ्जलर्स्यं पादयोरपतम् । मुहुर्मृहुश्च तरलिकां कण्ठे गृहीत्वा प्रारुदम्’’ इतृयेवमात्मवृत्तान्तमावेदयन्त्या एव तस्याः समतिक्रान्तं कथमप्यतिकष्टमवस्थान्तरमनुभवन्त्या इव चेतनां जहार मूर्च्छा । वेगान्निपतन्तीं च शिलातले तां ससंभ्रमं प्रसारितकरः परिजन इव जातपीडश्चन्द्रापीडो विधृतवान् । अश्रुजलार्द्रेण च तदीयेनैवोत्तरीयवल्कलप्रान्तेन शनैः शनैर्वीजयम्, संज्ञां ग्राहितवान् । उपजातकारुण्यश्च बाष्पसलिलोत्पीडेन प्रक्षाल्यमानकपोलयुगलोलब्धचेतनामवादीत—““भगवति, मया पापेन तवायं पुनरभिनवतामुपनीतः शोकः, येनेदृषीं दशामुपनीतासि । तदलमनया कथया । संह्वियतामियम् ।
अहमप्यसमर्थः श्रोतुम् । अतिक्रान्तान्यपि हि संकीर्त्यमानानि प्रियजनविश्वासवचनान्यनुभवसमां वेदनामुपजनयन्ति सुहृज्जनस्य दुःखानि । तन्नार्हसि कथं कथमपि विघृतानिमानसुलभानसून्पुनःपुनः स्मरणशोकानलेन्धनतामुपनेतुम्’’ इति ॥
एवमुक्ता दीर्घमुष्णं च निश्वस्य, बाष्पायमाणलोचना सनिर्वेदमवादीत्—““राजपुत्र, या तदा तस्यामतिदारुणायां हतनिशायामेभिरतिनृशंसैरसुभिर्न परित्यक्त, ते मामिदानीं परित्यजन्तीति दूरापेतम् । नूनमपुण्योपहतायाः पापाया मम भगवानन्तकोऽपि परिहरति दर्शनम् । कुतश्च मे कठिनहृदयायाः शोकः । सर्वमिदमलीकमस्य दुरात्मनः शठह्दयस्य । सर्वथाहमनने त्यक्तत्रपेण निरपत्रपाणामग्रेसरी कृता । यया व ज्रमय्येवेदमनुभूतम्, तस्याः का गणना किथनं प्रति । किं वा परमतः कष्टतरमाख्येयमन्यद्भविष्यति, यन्न शक्यते श्रोतुमाख्यातुं वा । केवलमस्य वज्रपातस्यानन्तरमाश्चथिं यदभूत्, तदावेदयामि । आतृमनश्च प्राणधारणकारणलव इवाव्यक्तो यः समुत्पन्नः, तं च कथयामि । यया दुराशामृगतृष्णिकया गृहीताहमिदमुपरतकल्पं परकीयमिव भारभूतमप्रयोजनमकृतज्ञं च हतशरीरं वहामि, तदलं श्रूयताम् । ततश्च तथाभूते तस्मिन्नवस्थान्तरे, मरणैकनिश्चया तत्तद्बहु विलप्य तरलिकामग्रवम्—-”” अयि उत्तिष्ठ निष्टुरहृदये, कियद्रोदिषि । काष्ठान्याहृत्य विरचय चिताम् । अनुसरामि जीवितेश्वरम्’’ इति ॥
अत्रान्तरे, ज्ञटिति चन्द्रमण्डलविनिर्गृतो गगनादवतीर्य, धवलदुकूलपल्लव?कल्पितोष्णाषग्रान्धः, कुमुदधवलदेहः, महाप्रमाणः पुरुषो महापुरुषलक्षणोपेतो दिव्याकृतिः, बाहुभ्यां मृणालघवलाङ्गुलिभ्यामतिशीतलस्पर्शाभ्यां तमुपरतमुत्क्षिपन्, दुन्दुभिनादगमृभीरेण स्वरेण ““वत्से महाश्वेते, न परित्याज्यास्त्वया प्राणाः पुनरपि तवानेन सह भविष्यति समागमः ’’ इत्येवमादृतः पितेवाभिधाय, सहैवानेन गगनतलमुदपतत् । अहं तुतेन व्यतिकरेण सभया सविस्मया सर्कातुका चोन्मुखी " किमिदम् ’ इति कपिञ्जलमपृच्छम् । असौ तु ससंभ्रममदत्त्वैवोत्तरमुदतिष्ठत् । “दुरात्मन् , क्क मे वयस्यमपहृत्य गच्छसि’ इत्यभिधाय, उन्मुखः संजातकोपो बध्नन्सवेगमुत्तरीयवल्कलेन परिकरम्, उत्पतन्तं तमेवानुसरन्नन्तरिक्षमुदगात् । पश्यन्त्या एव च मे सर्व एव ते तारागणमध्यामविशन् ॥
मम तु तेन द्वितीयेनेव प्रियतममरणेन कपिञ्जलगमनेन द्विगुणीकृतशोकायाः, सुतरामदीर्यत हुदयम् । किंकर्तव्यतामूढा च तरलिकाब्रवम्—- “अयि, न जानासि?—किमेतत्’ इति । सा तु तदवलोक्य, स्त्रीस्वभावकातरा, तस्मिन्क्षणे शोकाभिभाविना भयेनाभिभूता, वेपमानाङ्गयष्टिः, मम मरणशङ्कया च वराका विषण्णहृदया सकरुणमवादीत्—-““भर्तृदारिके, न जानामि पापकारिणी । किं तु महदिदमाश्चर्यम् । अमानषाकृतिरेष पुरुषः । समाश्वासिता चानेन गच्दता सानुकम्पं पित्रेव भर्तृदारिका । प्रयेण चैवंविधा दिव्याः स्वप्रेऽप्यविसंवादिन्यो भवन्त्याकृतयः । किमुत साक्षात् । न चाल्पमपि विचारयन्ती कारणमस्य मिथ्याभिधान पश्यामि । अतो युक्तं विचार्यात्मानमस्मात्प्राणपरित्यागव्यवसायान्निवर्त?यितुम् । अतिमहतृखल्विदमाश्वाससथानमस्यामवस्थायाम् । अपि च तमनुसरन्गत एव कपिञ्जलः । तस्माच्च “कुतोऽयम् ? को वायम् ? किमर्थं वानेनायमपगतासुरुत्क्षिप्य नीतः ? क्क वा नीतः ? कस्माच्चासंभावनीयेनामुना पुनः समागमाशाप्रदानेन भर्तृदारिका समाश्वासिता ? ’ इति सव्रमुपलभ्य, जीवितं वा मरणं वा समाचरिष्यसि । अदुर्लभं हि मरणमध्यवासतम् । पश्चादप्येतद्भविष्यति । न च जीव्बन्कपिञ्जलो भर्तृदारिकामदृष्ट्वा स्थास्यति । तेन तत्प्रत्यागमनकालावधयोऽपि तावद्ध्रियन्ताममी प्राणाः’’ इतृयभिदधाना पादयोमें न्यपतत् । अहं तु सकलकोकदुर्लङ्घ्ज्ञतया जीविततृष्णायाः, क्षुद्रतया च स्त्रीस्वभावस्य, तया च तद्वचनोपनीतया दुराशाभृगतृष्णिकया, कपिजलप्रतृयागमनकाङ्क्षया च, तस्मिन्काले तदेव युक्तं मन्यमाना, नोत्सृष्टवती जीवितम् । आशया हि किमिव न क्रियते । तां च पापकारिणीं कालरात्रिप्रतिमां वर्षसहस्त्रायमाणां नरकमयीमिवाग्रिमयीमिव उत्सन्ननिद्रा, तथैव क्षितितले विचेष्टमाना, तस्मिन्नेव सरस्तीरे तरलिकाद्वितीया क्षपा क्षपितवती ॥
प्रत्युषसि तूत्थाय तस्मिन्नेव सरसि स्त्रात्वा, कृतनिश्चया, तत्प्रीतृया तमेव कमण्डलुमादाय, तान्येव च वल्ललानि तामेव चाक्षमालां गृहीत्वा, बुद्ध्वा निःसारतां संसारस्य, दृष्ट्वा च निष्टुरतां दैवस्य, चिन्तयित्वा
चातिबहुलदुःखतां स्त्रेहस्य, अवधार्य चाकाण्डभङ्गुरुतां सर्वसुखानाम्, अविगणय्य तातमम्बांच, परित्यज्यसह परिजनेन सकलबन्धुवर्गम्, निवर्त्य विषयसुखेभ्यो मनः, संयम्येन्द्रियाणि, गृहीतब्रह्मचर्या, तस्य जनस्याश्रुमोक्षमात्रेण किल कृतज्ञतां दर्शयन्ती, तदनुरागकृशमिदमपुण्यबहुलस्ममितलज्जममङ्गलभूतमनेकल्लेशायाससहस्त्रनिवासं दग्धशरीकं बहुविधैर्नियमशतैः शोषयन्ती, वन्यैश्च फलमूलवारिभिर्वर्तमाना, त्रिसंध्यमत्र सरसि स्त्रानमुपस्पृशन्ती शरीणार्थिनी प्रतिदिनमर्चयन्ती देअमनाथशरणं त्र्यमृबकम्, अस्यामेव गुहायां तरलिकया सह दीर्घशोकमनुभवन्ती चिरमवसम् । साहमेवंविधा पापकारिणी, निर्लक्षणा, निर्लज्जा,निःस्त्रेहा च् नृशंसा च , गर्हणीया, निष्प्रयोजनोतृपन्ना, निष्फलजीविता, निरवलम्बना, निःसुखा च । किं मया दृष्टया पृष्टया वा कृतब्राह्मणवधमहापातकया करोति महाभागः’’ इत्युक्वा पाण्डुना वल्कलोपान्तेन शशिनमिव शरन्मेघशकलेनाच्छाद्य वदनम्, दुर्निवारबाष्पवेगमपारयन्ती निवारयितुम्, उन्मुक्तकण्ठमतिचिरमुच्चैः प्रारोदीत्॥
चन्द्रापीडस्तु प्रथममेव तस्या रूपेण, विनयेन, दाक्षिण्येन, मधुरालापतया, निःसङ्गतया च, अतितपस्वितया च, शुचितया च, उपारूढगौरवो1़भूत् । तदानीं तु तेनापरेण दर्शितसद्भावेन स्ववृत्तान्तकथनेन
तया च कृतज्ञतया हृतहृदयः सुतरामारोपितप्रीरभवम् । आर्द्रीकृतहृदयश्च शनैः शनैरेनामभाषत—““भगवति, ल्लेशभीरुरकृतज्ञः सुखासङ्गलुब्धो लोकः, स्त्रेहसदृशं कर्मानुष्ठातुमशक्तः, निष्फलेनाश्रुपातमात्रेण स्त्रेहमुपदर्शयन्रोदिति । त्वया तु कर्मणैव सर्वमाचरन्त्या किमिव न प्रेमोचितमाचेष्टितम्, येन रोदिषि । तर्दंथ च जन्मनः प्रभृतिसमुपचितपरिचयः प्रेयानसंस्तुत इव परित्यक्तो बान्धवजनः । संनिहिता अपि तृणावज्ञयावधीरिता विषयाः । मुक्तान्यतिशयितशुनीयस्यपि नितरां तनिमानमनुचितैः संक्लेशैरुपनीता तनु3 । गृहीतं ब्रह्मचर्यम् । आयोजितस्तपसि महत्यातृमा । ?वनिताजनदुष्करमप्यङ्गीकृतमरण्यावस्थानम् । अपि चानायासेनैवात्मा दुःखाभिरतैः परित्यजृयते । महीयसा तु यत्रेन गरीयसि क्लेशे निक्षिप्यते केवलम् । यदेतदनमरणं नाम, तदतिनिष्फलम् । अविद्वज्जनाचरित एष मार्गः । मोहविलसितमेतत् । अज्ञानपद्धतिरियम् । रभसाचरितमिदम् । क्षुद्रदृष्टिरेषा । मौर्ख्यस्खलितमिदम्, युदपते पितरि भ्रातरि सुहृदि भर्तरि वा प्राणाः परित्यज्यन्ते । स्वयं चेन्न जहित, न परित्याजृयाः । अत्र हि विचार्यमाणे स्वार्थं एव प्राणपरित्यागोऽयमसहृमशेकवेदनाप्रतीकारतृवादातृमनः । उपरतस्य तु न कमपि गुणमाव?हति । न तावत्तस्यायंप्रत्युज्जीवनोपायः । न धर्मोपचयकारणम् ।नशुभलोकोपार्जनहेतुः । न निरयपातप्रतीकारः । न दर्शनोपायः । न परस्परसमागमनिमित्तम् । अन्यामेव स्वकर्मफलपरिपाकोपचितामसाववशो नीयते कर्मभूमिम् । असावप्यात्मघातिनः केवलमेनसा संयुज्यते । जीवंस्तु जलाञ्जलिदानादिना बहूपकरोत्युपरतस्यात्मनश्च । मृतस्तु नोभयस्यापि । स्मर तावत्प्रियामेकपत्रीं रतिं भर्तरि मकरकेतौ सकलाबलाजनहृदयहारिणि हरनयनहुताशनदग्धेऽप्यविरहितामसुभिः; उत्तरां च विराटदुहितरं बालां बालशशिनीव नयनानन्दहेतौ विनयवति विक्रान्ते च पञ्चत्वमभिमन्यावुपगतेऽपि धृतदेहाम् ॥
प्रोन्मुच्येतापि जीवितम्, संदिग्धोऽप्यस्य समागमो यदि स्यात् । भगवतृया तु ततः पुनः स्वयमेव समागमसरस्वती समाकर्णिता । अनुभवे च को विकल्पः । कथं च तादृशानामप्राकृताकृतीनां महातृमनामवितथगिरां गरीयसापि कारणेन निस्?िवैतथ्यमास्पदं कुर्यात् । उपरतेन च सह जीवन्ल्याः कीदृशी समागतिः । अतो निःसंशयमसावुपजातकारुयो महात्मा पुनः प्रत्युज्जीवनार्थमेवैनमुत्क्षिप्य सुरलोकं नीतवान् । अचिन्त्यो हि महात्मनां प्रभावः । बहुप्रकाराश्च संसारवृत्तयः । चित्रं दैवम् । आश्चर्यातिशययुक्ताश्च तपःसिद्धयः अनेकविधाश्च कर्मणां शक्तयः । अपि च सुनिपुणमपि विमृशद्भिः किमिवान्यतृतदपहरणे कारणमशङ्रक्यते जीवितप्रदानत् ऋते । न चासंभाव्यमिदमवगन्तव्यं भगवत्या । चिरप्रवृत्त एष पन्थाः । तथा हि—अर्जुनमश्वमेधतुरगानुसारिणम् आत्मजेन बभ्रुवाहननाम्रा समरशिरसि शरापहृतप्राणम्, उलूपी नाम नागकन्यका सोच्छ्वासमकरोत् । अभिमन्युतनयं च परीक्षितमश्वत्थामास्त्र पावकपरिप्लुष्टम् उदरादुपरतमेव निर्गतम्, उत्तराप्रलापोजनितकृपो भगवान्वासुदेवो दुर्लभानसून्प्रापितावान् । अत्रापि कथंचिदेबमेव भविष्यति । तथापि किं क्रियते । क उपालभ्यते । प्रभवति हि भगवान्विधिः । बलवती च नियतिः । आतृमेच्छया न
शक्यमुच्छ्वसितुमपि । अतिपिशुनानि चास्यैकान्तनिष्टुरस्य दैवहतकस्य विलसितानि न क्षमन्ते दीर्घकालमव्याजरमणीयं प्रेम । प्रायेण च निसर्गत एवानायतस्वभावभङ्गुराणि सुखानि । आयतस्वभावानि च दुःखानि । तथा हि—कथमप्येकास्मिञ्जन्मनि समगमः, जन्मान्तम् । आपतन्ति हि संसारपथमतिगहनमवतीर्णानामेते वृत्तान्ताः । धीरा हि तरन्त्यापदम्’’ इत्येवंविधैरन्यैश्च मृदुभिरुपसान्त्वनैः संस्थाप्य ताम्, पुनरपि निर्ज्ञरजलेनाञ्जलिपुटोपनीतेन अनिच्छन्तीमपि बलातृप्रक्षालितमुखीमकोरयत् ॥
अत्रान्तरे च श्रुतमहाश्वेतावृत्तान्तोपजातशोक इव समुत्सृष्टदिवसव्यापरो रविरपि भगवानधोमुखतामयासीत् । अथ क्षीणे दिवसे, महाश्वेता मन्दं मन्दमुत्तथाय, भगवतीमुपास्य पश्चिमां सन्ध्याम्, कमण्डलुजलेन प्रक्षालितचरणा, वल्ललशयनपीय सखेदमुष्णं च निःश्वस्य निषसाद । चन्द्रापीडोऽप्युत्थाय कृतसंध्यामः, तस्मिन्द्वितीये शिलातले मृदुभिर्लतापल्लवैः श्यामकलपयत् । उपविष्टश्च तस्याम्, पुनःपुनस्तमेव मनसा महाश्वेतावृत्तान्तमभावयत् । पुनः पप्रच्द चैनाम्—“भगवति, सा तव पिरचारिका वनवासव्यसनमित्रं दुःखसब्रह्मचारिणी तरलिका क गता " इति ॥
अथ साकथयत्—-““महाभाग, यतृतन्मया कथितममृतसंभवमप्सरसां कुलम्, तस्मान्मदिरेति नाम्रा मदिरायतेक्षणा कन्यकाभूत् । तस्याश्चासौ देवश्चित्ररथः पाणिमग्रहीतृ । तयोश्च दुष्टितृरत्नमुदपादि कादम्बरीति नाम्रा । सा च मे जन्मनः प्रभृति एकासनशयनपानाशना परं प्रेमस्थानमखिलविस्त्रमृभधाम द्वितीयमिव हृदयं बालमित्रम् । एकत्र तया मया च नृतृयगीतादिकलासु कृताः परिचयाः। शिशुजनोचिताभिश्च क्रीडाभिरनियन्त्नणनिर्भिरमपनीतो बालभावः । सा चामुनैव मदीयेन हतवृत्तान्तेन समुपजातशोका निश्चयमकार्षीत्—“नाहं कथंचिदपि सशोकायां महाश्वेतायाम्, आत्मनः पाणिंग्राहयिष्यामि’ इति । सखीजनस्य पुरत3 सशपथगभिहितवती च— “यदि कथमपि मामनिच्छन्तमपि बलात्तातः कदाचित्कस्मैचिद्दातुमिच्छति, तदाहमनशनन वा हुताशनेन वा रज्ज्वा वा विषेण वा नियतमात्मानमुत्स्रक्ष्यामि’ इति । सर्वं च तदात्मदुहितुर्निश्चलभाषितं कर्णप्ररंपरया गन्धर्वराजश्चित्ररथः स्वयमशृणोत् । गच्छति च काले, समुपारूढनिर्भरयौवनामालोक्य स ताम् , बलवदुपतापपरवशः क्षणमपि न धृतिमवालम्बत । एकापत्यतया च अतिप्रियतया च न शक्तः किंचिदपि ताममिधातुम्, अपश्यंश्चन्यदुपायान्तरम्, " इदमत्र प्राप्तकालम् ’ इति मत्वा, तया महादेव्या मदिरया सहावाधर्य, क्षीरोदनामनं कञ्चुकिनम् “वत्से महाश्वेते, त्वद्वयतिरेकेणैव दग्धहृदयानामिदमपरमस्मा?कमुपस्थितम् । इदानीं तु कादम्बवरीमनुनेतुं त्वं शरणम् ’ इति संदिश्य मतृसमीपमद्यैव प्रत्युषभि प्रेषितवान् । ततो मया गुरुवचनगौरवेण सखीप्रेम्णा च क्षीरोदेन सार्धं सा तरलिका “सखि कादम्बरि, किं दुःखितमपि जनमतितरां दुःखयसि । जीवन्तीमिच्छसि चेन्माम्, तत्कुरु गुरुवचनमवितथम्’ इति संदिश्य विसर्जिता । नातिचिरं गतायां च तस्माम्, अनन्तरमेवेमां भूमिमनुप्राप्तो महाभागः’’ इतृयभिधाय तूष्णीमभवत् ॥
अत्रान्तरे लाञ्छनच्छलेन विडमृबयन्निव शोकानलदग्धमध्यं महाश्वेताहृदयम्, उद्वहन्निव कुमारवधमहापतकम्, उदगात्तारकाराजः । क्रमेण चोद्गते शशाङ्कमण्डले, चन्द्रापीडः सुप्तामालोक्य महार्श्वेताम्, पल्लवशयने शनैः शनैः समुपाविशत् । “अस्यां वेलायां किं नु खलु मामन्तरेण चिन्तयति वैशम्पायनः, किं वा वराकी पत्रलेखा, किं वा राजपुत्रलोकः ’ इति चिन्तयन्नेव निद्रां ययौ ॥
अथ क्षीणायां क्षपायाम्, उषसि संध्यामुपास्य शिलातलोपबिष्टायां पवित्राण्यघमर्षणानि जपन्त्यां महाश्वेतायाम्, निर्वर्तितप्राभातिकविधौ चन्द्रापीडे, तरलिका षोलिका षोडशवर्षवयसा सावष्टम्भाकृतिना गन्धर्वदारकेण केयूरकनम्रानुगमृयमाना प्रत्युषस्येव प्रादुरासीत् । आगत्य च “कोऽयम्’ इत्युपजातकुतूहला चन्द्रापीडं सुचिरमालोक्य, महाश्वेतायाः समीपमुपसृत्य, कृतप्रणामा सविनयमुपाविशत् । अनन्तरं चातिदूरानतेनोत्तमाङ्गेन प्रणम्य, केयूरकोऽपि महाश्वेतादृष्टिनिसृष्टं नातिसमीपवर्ति शिलातलं भेते । सुमपविष्टश्च तत्र तमदृष्टपूर्वं रूपातिशयं चन्द्रापीडस्य दृष्ट्वा विस्मयमापेदे ॥
?परिसमाजपा तु महाश्वेता पप्रच्छ तरिलकाम्—-“किं त्वया दृष्टा प्रियसखी कादम्बरी कुशलिनी । करिष्यति वा तद्स्मद्वचनम्’ इति । इथ सा तरलिका विनयावनतमौलिः, ईषदालम्बितकर्णपाशम् अतिमधुरया ?
गिरा व्यजिज्ञपत्—““भर्तृदारिके, दृष्टा खलु मया भर्तृदारिका कादम्बरी । सर्वतः कुशलिनी । विज्ञापिता च निखिलं भर्तृदुहितुः संदेशम् । आकर्ण्य च यत्तया संततमुक्तस्थूलाश्रुबिन्दुवर्षं रुदित्वा प्रतिसंदिष्टम्, तदेष तयेव विसर्जितः, तस्या एव वीणावाहकः केयूरकः कथयिष्यति’’ इत्युक्त्वा विरराम । विरतवचसि तस्यां केयूरकोऽब्रवीत्—““भर्तृदारिके महाश्वेते, देवी कादम्बरी दृढदत्तकण्ठप्रहा त्वां विज्ञापयति-“यदियमागत्य मामवदत्तर?लिका, तत्कथय, किमयं गुरुजनवचनानुरोधः, किमिदं मच्चित्तपरीक्षणम्, किं गृहनिवासापराधनिपुणोपालम्भः, किं प्रेमविच्छेदाभिलाषः, किं भक्तजनपरित्.यागोपायः, किं वाप्रकोपः । जानास्येव मे सहज्प्रेमनिस्यन्दनिर्भरं हृदयम् । एवमतिनिष्टुरं संदिशन्ती कथमसि न लज्जिता । तथा मधुरभाषिणी केनासि शिक्षिता वक्तुमप्रियम् । स्वस्थोऽपि तावत्क इव सहृदयः कनीयस्यवसानविरसे कम्रणीदृशे मतिमुपसर्पयेत् । किमुतातिदुः सखाभिहतहृदयोऽस्मद्विधो जनः । सुहृहुःखखेदिते हि मनसि कैव सुखाशा, कैव निर्वृतिः, कीदृशा भो गाः, कानि वा हसितानि । येनेदृशीं दश्याामुपनीता प्रियसखी, कथमतिदारुणं तमहं विषमिवाप्रियकारिणं कामं सकामं कुर्याम् । दिवसकरास्तमयविधुरासु नलिनीषु सहवासपरिचयाच्चक्रवाकयुवतिरपि पतिसमागमसुखानि परित्यजति । किमुत नार्यः । अपि च, यत्रभर्तृविरहविधुरा परिहृतपरनपुरुषदर्शना दिवानिशं निवसति प्रियसखी, कथमिव तन्मम हृदयमपरः प्रविशेज्जनः । यत्र च भर्तृविरहविधुरा तीव्रव्रतर्शिताङ्गी प्रियसखी महत्कृच्छ्रमनुभवति, तत्राहमवगणय्यैतत्, कथमत्मसुखार्थिनी पाणिं ग्राहयिष्यामि । कथं वा मम सुखं भविष्यति । त्वत्प्रेम्णा चास्मिन्वस्तुनि मया कुमारिकाजनविरुद्धं स्वातन्त्र्यमालम्ब्य अङ्गीकृतमयशः, समवधीरितो विनयः, गुरुवचनमतिक्रान्तम्, न गणितो लोकापादः, वनिताजनस्य सहजमारणमुत्सृष्टा लज्जा । सा, कथय, कथमिव पुनरत्र प्रवर्तते । तदयमञ्जलिरुपराचेतः, प्रणामोऽयम्, इदं च पादग्रहणम् । अनुगृहाण माम् । वनमितो गतासि मे जीवितेन सह । मा कृथाः स्वप्रेऽपि पुनरिममर्थं मनसि’ इत्यभिधाय तूष्णीमभूत् ’’ इति ॥
महाश्वेता तु तच्छुत्वा, सुचिरं विचार्य, “गच्छ, स्वयमेवाहमागत्य यथार्हमाचरिष्यामि’ इत्युक्त्वा केयूरकं प्राहिणोत् । गते च केयूरके, चन्द्रापीडमुवाचः—-““राजपुत्र, रमणीयो हेमकूटः । चित्रा च । चित्ररथाराजधानी । बहुकुतूहलः किंपुरुषव्षियः । पेशलो गन्धर्वलोकः । सरलहृदया महानुभावा च कादम्बरी । यदि नातिखेदकरमिव गमनं कलयसि, नावसीदति वा गुरु प्रयोजनम्, अदृष्टचरविषयकुतूहलि वा चेतः, नावसीदति वा गुरु प्रयोजनम्, अदृष्टचरविषयकुतूहलि वाचेतः,ख्? मद्वचनमनुरुध्यते वा भवान्, ततो नार्हसिनिष्फलां कर्तुमम्यर्थनामिममान् । इतो मयैव सयह गत्वा हेमकूटमतिरमणीयतानिधाम्, तत्र दृष्ट्वा च मन्निर्विशेषां कादम्बरीम्, अपनीय तस्याः कुमतिमनोमोहविलसितम्, एकमहो विश्रम्य, श्वोभूते प्रत्यागमिष्यसि । मम हि निष्कारणबान्धवं भवन्तमालोक्यैवच दुःखान्धकारभाराक्रान्तेन महतः कालादुच्छ्वसितमवि चेतसा । श्रावयितृवा स्ववृत्तान्तमिमं सह्मतामिव गतः शीकः । दुःखितमपि जनं रमयन्ति सज्जनसमागमाः । परसुखोपपादनपराधीनश्च भवादृशां गुणोदयः’‘इत्युक्तवमीं च चन्द्रापीडः “भगवति, दर्शनात्प्रभृति परवानयं जनः । कर्तव्येषु यथेष्टमशङ्किततया नियुज्यताम्’ इत्यभिधाय तया सहैवोदचलत् ॥
क्रमेण च गतृवा हेमकूटम्, आसाद्य गन्धर्वराजलकुलम्, समतीत्य काञ्चनतोरणानि सप्त कक्षान्तराणि, ?कन्यान्तःपुरद्वारभवाप । महाश्वेतादर्शनप्रधाविंतेन दूरादेव कृतप्रणामेन कनकवेत्रताहस्तेन प्रतीहारजनेनोपदिश्यमानमार्गः प्रविश्य, असंख्येयनरीशतसहस्त्रसंबाधम्, हयत्तां ग्रहीतुमेकत्र त्रैलोक्यस्रैणभिव संहतम्, अपुरुषमिव सर्गान्तरम्, अनेककल्पल्पनार्थमुत्पाद्य स्थापितभिवाङ्गनाकोशम्, शृङ्गारमयामिव सान्दर्यमयमिव कुतूहलमयमिव कुमारः कुमारीपुराभ्यन्तरं ददर्श ॥
यत्र च कन्यकाजनस्य लोचनान्येव कर्णोतृपलानि, निःश्वासा एवाविधासगन्धुयक्तयः, आलापा एव तन्त्रीनिनादाः, करतलान्येव लीलाकमलानि, निजदेहप्रभैवांशुकावगुयठनम्, कोमलाङ्गुलिरागएव चरणालकृतकरसः । यत्र चालक्तकरसोऽपि चरणातिभारः, अबतंसकुसुमधारणमपि श्रमः, सखीदर्शनेष्वकृतहस्तावलम्बनसुत्थानम् अतिसाहसम्, कुसुमावचयेषु द्वितीयकुसुमग्रहणमप्युवतिजनोचितम्, कन्यकाविज्ञानेषु माल्यय्रथनम् असुकुमारजनव्यापारः ॥
तस्य चैवंविधस्य किंचिदभ्यन्तरमतिक्रम्य, इतश्चेतश्च परिभ्रमतः कादम्बरीप्रत्यासन्नस्य परिजनस्य तांस्तानमिनोहरानालापान् शृण्वन्नेव, कादम्बरीभवनसमीपमुपययौ ॥
पुलिनायमानमुपवनलतागलितकुसुमरेणुपटलैः, काञ्च़नद्वीपायमतानं चम्पकदलोपहारैः, सेवार्थमागतेनोभयत ऊर्ध्वस्थितेन स्त्रीजेने प्राकरेणेव लावण्यमयेन कृतदीर्घ्ज्ञरथ्यामुखाकारं मार्गमद्राक्षीत् । तेन चान्तर्निपतितमाभरणकिरणालोकं संपिण्डितं नदी?वेणिकाजलप्रवाहमिव वहन्तमपश्यत् । तन्मध्ये च प्रतिस्त्रोत इव गत्वा प्रतिहारीमण्डलाधिष्ठितपुरोभागे श्रीमण्डपं ददर्श ॥
तत्र च मध्यभागे, पर्यन्तरचितमण्डलोपविष्टेन चानेकसहस्त्रसंख्येन परिस्फरदाभरणसमूहेन कल्पलतानिवहेनेव कन्यकाजनेन परिवृताम्, नीलांशुकप्रच्छदपटप्रावृतस्य नातिमहतः पर्यङ्कस्योपाश्रये धवलोपधानन्यस्तद्विगुणभुजलतावष्टमृभेनावस्थिताम्, निपतितप्रतिबिम्बतयाधस्तान्मणिकुट्टिमेषु नागैरिवापह्रियमाणाम्, उपान्ते च रत्रमित्तिषु दिक्पालैरिव नीयमानाम्, उपरि मणिमण्डपेष्वमरैरिवोत्क्षिप्यमाणाम्, अकृतपुण्यमिव मुञ्चन्तीं बालभावम्, पादाभरणरत्नांशुलेखासंदेहदायिनीभिरतिकोमलतया नखविवरेण वमन्तीमिरिव रुधिरधारावर्षमङ्गुलिभिरुपेताभ्यां विदुमरसनदीमिव चरणाभ्यां प्रवर्तयन्तीम्, प्रजापतिकरदृढनिष्पीडितमध्यभागलितं जघनशिलातलप्रतिघाताल्लावण्यजलस्त्रोत इव द्विधागतमूरुद्वयं दधानाम्, सर्बतः प्रसारितदीर्घमयूखमण्डलेनेर्ष्यया परपुरुषदर्शनमिवनिरुन्धता काञ्चीदाम्रा नितम्बबिम्बस्य विरचितपरिवेषाम्, प्रजापतेः स्पृशतः सौकुमार्यादङ्गुलिमुद्रामिव निमग्रां नाभिमण्डलीमावर्तिनीमुद्वहन्तीम्, नखकिरणविसरवर्षिणा च माणिक्यवलयगौरवश्रमवशात्स्वेदजलधाराजालकमिवमुञ्चता करयुगलेन समुद्भासिताम्, अभिनवयौवपनक्षोभितस्य रागसागरस्य तरङ्गाभ्यामिवोद्गताभ्यां विद्गुमलतालोहिताभ्यामधराभ्यां रक्तावदातस्वच्छकान्तिना च मदिरारसपूर्णमाणिक्यशुक्तिसंपुटच्छविना कपोनयुगलेन रतिपरिवादिनीरत्नकोणचारुणा च नासावंशेन गतिप्रसरनिरोधिश्रवणकोपादिव किंचिदारक्तापाङ्गेन लोचनयुगलेन च विराजमानाम्द्व उन्मदयौवनकुञ्जरमदंराजिभ्यां भ्रूलताभ्यां मनः शिलापङ्कलिखितेन च वदनलग्रेन तिलकबिन्दुना विद्योतितललाटपट्‌टाम्, उत्कृष्टहेमानीपट्टाभरणमयं कर्णपाशं दोलायमानमरकतमाणिक्यकुण्डलं दघीम्, पाटलीकृतललाटेन सीमन्तचुम्बिनश्चूडामणेः क्षरतांशुजालेन प्रक्षाल्यमानदीर्घकेशकलापाम्, रजनिजागरखिन्नस्य परिचितचक्रवाकमिथुनस्य स्वप्तुं क्रीडानदिकासु कमलधूलिवालुकाभिर्बालपुलिनानि कारयन्तीम्, आत्मसंवर्धितलताप्रथमकुसुमनिर्गमनिर्गमनिवेदनागतामुद्यानपाली मशेषाभरणदानेन संमानयन्तीम्, उपनीतविधिवनकुसुमफलपूर्णपत्रपुटामविज्ञायमानालापतया हासहेतुं पुनः पुनः क्रीडापर्वतपत्रशबरीमालापयन्तीम्, गौरीमिव श्वेतोत्तमाङ्गभरणाम्, दिनमुखलक्ष्मीमिव भास्वन्मुक्तांशुभिन्नपह्मराग्रपसाधनाम्, कल्पतरुलतामिव कामफलप्रदाम्, पुरः समीपे सुमुखोपविष्टम् ““कोऽसौ? कस्य वापत्यम् ? किमभिधानो वा? कीदृशमस्य रूपम् ? कियद्वा वयः? किमभिधत्ते? भवता किमभिहितः? कियच्चिरं दृष्टस्त्‌वया? कथं चास्य महाश्वेतया सह परिचय उपजातः? किमयमत्रागमिष्यति?’’ इति मुहुर्मुश्चन्द्रापीडसंबद्धालापं तद्रूपवर्णनामुखरं केयूरकं पृच्छन्तीं कादम्बरीं ददर्श ॥
तस्य तु दृष्टकादमृबरीवदनचन्द्रलेखालक्ष्मीकस्य सागरस्येवामृतमुल्लास हृदयम् । आसीच्चास्य मनसि—““शेषेन्दियाण्यपि मे वेधसा किमिति लोचनमयान्येव न कृतानि । किं वानेन कृतमवदातं कम्र चक्षुषा, यदिनवारिमेनां पश्यति । अहो चित्रमेतदुत्पादितं वेधसा सर्वरमणीयानामेकं धाम । कुत एते रूपातिशयपरमाणवः समासादिताः । तन्नूनमेनामुत्पादयतो विधेः करतलपरामर्शल्लेशेन ये विगालिता लोचनुयुगलादश्रुबन्दिवः, तेभ्य एतानि जगति कुमुदकमलकुबलयसौगन्धिकवनान्युत्पन्नानि’‘इत्येवं चिन्तयत एवास्य तस्या नयनयुगले निपपात चक्षुः । तदा तस्या अपि “नूनमयं स केयूरलेणावेदितः ’ इति चिन्तयत्या रूपातिशयविलोकनविस्मयस्मेरं निश्चलनिबद्धलक्षं चक्षुस्तस्मिन्सुचिरं पपात । दृष्ट्वा च प्रथमं रोमोद्गमः, ततो भूषणरवः, तदनु कादम्बरी समुतृतसथौ । अथ तस्याः कुसुमायुध एव स्वेदमजनयत् ; ससंभ्रमोत्थानश्रमोऽपदेशोऽभवत् । ऊरुकम्प एव गतिं रुरोध; नूपुररवाकृष्टहंसमण्डमपयशो लेभे । निश्वासप्रवृत्तिरेवांशुकं चलं चकार, चामरानिलो निमित्ततां ययौ । आनन्द एवाश्रुजलमपातयत् ;
चलितकर्णावसंकुसुमरजो व्याज आसीत् । लज्जैव वक्तुं न ददौ; मुखकमलपरिमलागतालिबृन्दं द्वारतामगात्॥
कादम्बरीं तु कृच्छ्रादिव दत्तकतिपयपदा महाश्वेतां स्त्रेहनिर्भरं चिरदर्शनजातोत्कण्ठां सोत्कण्ठं कण्ठे जग्राह । महाश्वेतापि दृढतरदत्तकण्ठग्रहा तामवादीत—““सखि कादमृबरि, भारते वर्षे राजा रक्षितप्रजापीडस्तारापीडो नाम । तस्यायं निजभुजशिलास्तमृभविश्रान्तविश्वश्विंमरापी?डश्चन्द्रापीडो नाम सूनुर्दिग्विजयप्रसङ्गेनानगतो भूमिमिमाम् । एष च दर्शनात्प्रभृति प्रकृत्या मे निष्कारणबन्धुतां गतः । परित्यक्तसकलसङ्गनिष्टुरामपि मे सविशेषैः स्वभावसरलैर्गुणंराकृष्य चित्तवृत्तिं वर्तते । दुर्लभो हि दाक्षिण्यपरवशो निर्निमित्तमित्रमकृत्रिमहृदयो विदग्धजनः । यतो दृष्ट्वोममहमिव त्वमपि निर्माणकौशलं प्रजापतेः, निःसपत्रतां च रूपस्य, स्थानाभिनिवेशित्वं च लमृक्ष्याः, सद्भर्तृतासुखं च पृथिव्याः, सुरलोकातिरिक्ततां च मर्त्यलोकस्य, सफलतां च मानुषीलोचनानाम्, एकस्थानसमागमं च सर्वकलानां ज्ञास्यसीति बलादानीतोऽयम् । कथिता चास्य मया बहुप्रकारं प्रियसखी । तदपूर्वदर्शनोऽयमिति विमुच्य लज्जाम, अनुपजातपरिचय इत्युत्सृच्याविस्त्रम्भताम्, अविज्ञातशील इत्यपहाय शङ्काम्, यथा मयि, तथात्रापि वर्तितव्यम् । एष ते मित्रं च, बान्धवश्च, परिजनश्च’‘इत्यावेदिते तया, चन्द्रापीडः प्रणाममकरोत् ॥
कादम्बरी तु सविभ्रमकृतप्रणामा महाश्वेतया सह पर्यङ्के निषसाद । ससंभ्रमं परिजनोपनीतायां च हेमपादाङ्कितायां पीठिकायां चन्द्रापीडः समुपाविशत् । महाश्वेतानुरोधेन च विदितकाम्बरीचित्ताभिप्रायाः संवृतमुखन्यस्तहस्तदत्तशब्दनिवारणसंज्ञाः प्रतिहार्यः, वेणुरवान्वीणाघोषान्गीतध्वनीन्मागधीजयशब्दांश्च सर्वतो निवारयांचक्रुः । त्वरितपरिजनोपनीतेन च सलिलेन कादम्बरी स्वयमुत्थाय महाश्वेतायाश्चरणौ प्रक्षाल्य, उत्तरीयांशुकेनापमृज्य, पुनः पर्यङ्कमारुरोह । चन्द्रापीडस्यापि कादमृबर्याः सखी रूपानुरूपा जीवितनिर्विशेषा सर्वविस्रम्भभूमिर्मदलेखेति नाम्रा बलादनिच्छतोऽपि प्रक्षालितवती चरणौ । महाश्वेता तु कर्णाभरणप्रभावर्षिण्यंसदेशे सप्रेमपाणिना स्पृशन्ती, चामरपचनविधुतिपर्यस्तां चालकवल्लरीमनुष्वजमाना कादमृबरीमनामयं प्रपच्छ । सा तु सखीप्रेम्णा गृहनिवासेनकृतापराधेवानामयेनैव लज्जमाना कृच्छ्रादिव कुशलमाचचक्षे । मुहूर्तापगमे च ताम्बूलदानोद्यतां महाश्वेता तामभाषत—“सखि कादम्बरि संपव्रतिपन्नमेवसर्वाभिरस्माभिरयमभिनवागतश्चन्द्रापीडआराधनीयः। तदस्मै तावद्दीयताम्’ इत्युक्ता च किंचिद्विवर्तिततावनमितमुखी शनैरव्यक्तमिव “प्रियसखि, लज्जेऽहमनुपजातपरिचया प्रागल्भ्येनानेन । गृहाण, त्वमेवात्मै प्रयच्छ’ इत्युवाच सा ताम् । पुनः पुनरभिर्धायमाना च तया कथमपि ग्राम्येव चिराद्दानाभिमुखं मनश्चके । महाश्वेतामुखादनाकृष्टदृष्टिरेव साध्वसपरवशा पतामीति लगितुमिबकुतप्रयत्ना प्रसारयामास ताम्बूलगर्भं हस्तपल्लवम् । चन्द्रापीडस्तु जयकुञ्जरकुम्भस्थलास्फालनसंक्रान्तसिन्दूरमिव स्वभावपाटलं प्रसारितवान्पाणिम् । तत्र च सा तेनानिबद्धलक्षशून्यप्रसारितेन हस्तेन स्वेदसलिलपातपूर्वकम् “गृह्मतामयं मन्मथेन दत्तो दासजनः’इत्यात्मानमिव प्रतिग्राहयन्ती ताम्बूलमदात् । गृहीत्वा चापरं ताम्बूलं महाश्वेतायै प्रायच्छत् ॥
अथ सहसैव त्वरितगतिः, त्रिवर्णरागमिन्द्रायुधमिव कुण्डली कृत कण्ठेन वहता मन्थरगतेन शुकेनानुबध्यमाना, शारिका सक्रोधमवादीत्—““भर्तृदारिके कादम्बरि, कस्मान्न निवारयस्येनमलीकसुभगाभिमानिनमतिदुर्विनीतं मामनुबघ्रन्तं विहङ्गापशदम् । यदि मामनेन परिभूयमानामुपेक्षसे, ततोऽहं नियतामात्मानमुत्सृजामि । सत्यं शपामि ते पादपङ्कजस्पर्शेन ’’ इत्येवमभिहिता तया कादम्बरी स्मितमकरोत् । अविदितवृत्तान्ता तु महाश्वेता “किमियं वदति’ इति मदलेखां पप्रच्छ । सा चाकथयत–““एषा भर्तृदुहितुः सखी कादम्बर्याः कालिन्दीति नाम्रा शारिका । इयमस्य च परिहासनाम्रः शुकस्यभर्तृदारिकयैव पाणिग्रहणपूर्वकं जायापदं ग्राहिता । अद्य चायमनया प्रत्युषसि कादम्बर्यास्ताम्बूलकरङ्कवाहिनीमिममां तमालिकामेकाकिनीं किमपि पाठयन्दृष्टो यतः, ततः प्रभृति संजातेर्ष्या कोपपराङ्मुखी नैनमुपसर्पति, नालपति, न स्पृशति, न विलोकयति । सर्वाभिरस्माभिः प्रसाद्यमानापि न प्रसीदति’‘इति । एतदाकर्ण्य, स्फुटस्फरितकपोलोदरश्चन्द्रापीडो मन्दं मन्दं विहस्याब्रवीत्—-“अस्त्येषा कथा, श्रूयत एवैतद्राजकुले कर्णपरया, परिजनोऽप्येवमामन्जत्नयते, बहिरपि जनाः कथयन्त्येवम्,
दिगन्तरेष्रूवप्ययमालापो वर्तत एव, अस्माभिरप्येतदाकर्णितमेवः; यथा किल—देव्याः कादब्बर्यास्ताम्बूलवाहिनीं तमालिकां कामयमानः परिहासनामा शुको मदनपरवशो गतान्यपि दिनानि न वेत्तीति । तदयमास्तां तावद्वामाचारः परित्यक्तनिजकलत्रो निस्त्रपोऽनया सह । देव्यास्तु कादम्बर्याः कथमेतद्युक्तम्—यन्न निवारयतीमां चपलां दुष्टदासीम् । अथवा देव्यावि कथितैव निःस्त्रेहता प्रथममेव वराकीमिमां कालिन्दीमीदृशाय दुर्विनीताय विहङ्गाय प्रयच्छन्त्या । किमिदानीमियं करोतु ? यदेतत्सापत्नयकरणं नारीणां प्रधानं कोपकारणम्, अग्रणीर्विरागहेतुः, परं परिभवस्थानम् । इयमेव केवलमतिधीरा, यदनयानैन दौर्भाग्यगरिम्णा जातवैराग्यया विषं वा नास्वादितम्, अनलो वा नासादितः, अनशनं वा नाङ्गीकृतम् । न ह्मेवंविधमपरमस्ति योषितां लघिम्रः कारणम् । यदि चेयमीदृशेऽप्ययपराधेऽनुनीयमानानोन प्रत्यासत्तिमेष्यति, तदा धिगिमाम्, अलमनया, दूरतो वर्जनीयेयमभिभवनिरस्या । क एनां पुनरालापयिष्यति, को वावलोकोयिष्यति, को वास्या नाम ग्रहीष्यति ’’ इत्येवमभिहितवति तस्मिन्, सर्वास्ताः सह कादम्बर्या क्रीडालापभाविता जतहसुरङ्गनाः ॥
परिहासस्तु तस्य नर्मभाषितमाकर्ण्य जगाद—““धूर्त राजपुत्र, निपुणेयम् । न त्वयान्येन वा लोलापि प्रतारयितुं शक्यते । एषापि बुध्यत एवैतावतीर्वक्रोक्तीः । इयमपि जानात्येव परिहासजल्पितानि । अस्या अपि राजकुलसंपर्कचतुरा मतिः । विरम्यताम् । अभूभिरेषा भुजङ्गभङ्गिभाषितानाम् । इयमेव हि वेत्ति मञ्जुभाषिणी कालं च कारणं च प्रमाणं च विषयं च प्रस्तावं च कोपप्रसादयोः ’’ इति ॥
अत्रान्तरे चागत्य कञ्चुकी महाश्वेतामवोचत्—-“आयुष्मति, देवश्चित्ररथो देवी च मदिरा त्वां द्रष्टुमाह्यतः’ इत्येवमभिहिता च गन्तुकामा ‘सखि, चन्द्रापीडः क्कास्ताम् ’ इति कादम्बरीमपृच्छत् । असौ तु “ननु पर्याप्तमवानेकस्त्रीहृदयसहस्स्रावस्थानमनेन’इति मनसा विहस्य प्रकाशमवदत्—-““सखि महाश्वेते, किं त्वमेवमभिदधासि । दर्शनादारभ्य शरीरस्याप्ययमेव प्रभुः, किमुत भवनस्य, विभवस्य, परिजनस्य वा । यत्रास्मैः रोचते, प्रियसखीहृदयाय वा, तत्रायमास्ताम्’’ इति । तच्छ्रुतृवा महाश्वेता “तदत्रैव त्वत्प्रासादसमीपर्तिनि प्रमदवने क्रीडापर्वतकमणिवेश्मन्यास्ताम् ’ हत्यभिधाय, गन्धर्वराजं द्रष्टुं ययौ ॥
चन्द्रापीडोऽपि तयैव सह निर्गत्य, विनोदार्थं वीणावादिनीभिश्च वेणुवाद्यनिपुणाभिश्च सुभाषितपाठिकाभिश्च कादम्बरीसमादिष्टप्रतीहारीप्रेषिताभिः कन्याभिरनुगम्यमानः, पृर्वदृष्टेन केयूरकेणोपदिश्यमानमार्गः, क्रीडापर्वतमणिमन्दिरमगातृ । गते च तस्मिन्गन्धर्वराजपुत्री विसर्ज्य सकलं खसीजनं परिजनं च, परिमितपरिचारिकाभिरनुगम्यमाना, प्रासादमारुरोह । तन्न च श्यनीये निपत्य दूरस्थिताभिर्विनयनिभृताभिः परिचारिकाभिर्विनोद्यमाना कुतोऽपि प्रत्यागतचेतना चैकाकिनी तस्मिन्काले “चपले, किमिदमारब्धम्’ इति निगृहीतेव लज्जया, “गन्धर्वराजपुत्रि, कथमेतद्युक्तम्’ इत्पुपालब्धेव विनयेन, “भीरु, नायं कुलकन्यकानां क्रमः ’ इति गर्हितेव महत्त्वेन, “दुर्विनीते, रक्षाविनयम् ’ इति तर्जितेवाचारेण, “मूढे मदनेन लघुतां नीतासि’ इत्यनुशासितेवाभिजात्येन, “कुतस्तवेयं तरलहृदयता’ इति धिक्कृतेव धैर्येण, “स्वच्छन्दचारिणि, अप्रमाणीकृताहं त्वया’ इति निन्दितेव कुलस्थित्या, अतिगुर्वी लज्जमुवाह ॥
समचिन्तयच्चैवम्—-““अगणितसर्वशङ्कया तरलहृदयतां दर्शयन्त्याद्य मया किं कृममिदं मोहान्धया हताशया । तथा हि—“अदृष्टपूर्वोऽयम् ’ इति साहसिकया मया न शङ्कितम् । “लघुहृदयां मां लोकः कलयिष्यति’इति निर्हीकया नाकलितम् । “कास्य, चित्तवृत्तिः ’ इति मूढया न परीक्षितम् । “दर्शनानुकूलाहमस्य न बा’इति तरलया न कृतो विचारक्रमः । प्रत्याख्यानवैलक्ष्यान्न भीतम् । गुरुजनान्न त्रस्तम् । लोकापवादान्नोद्विग्रम् । तथा च “महाश्वेता दुःखिता’ इति निर्दाक्षिण्यया नापेक्षितम् । “आसन्नवर्ती सखीजनोऽप्युपलक्षयर्ति ’ इति मन्दया न लक्षितम् । “पार्श्वस्थितः परिजनः पश्यति’इति नष्टचेतनया न दृष्टम् । स्थूलबुद्धयोऽपि तादृशीं विनयच्युतिं विभावयेयुः, किमुतानुभूतमदनवृत्तान्ता महाश्वेता, सकलकलाकुशलाः सख्यो वा, राजलकुलसंचारचतुरो वा नित्यमिङ्गितज्ञः परिजनः । ईदृशेष्वतिनिपुणतरदृष्टयोऽन्तःपुरदास्यः । सर्वथा हतास्मि मन्दपुण्या । मरणं मेऽद्य श्रेयः, न लज्जाकरं जीवितम् । श्रुत्वैतं वृत्तान्तं किं वक्ष्यत्यम्बा तातो वा गन्धर्वलोको वा । किं ?करोमि । कोऽत्र प्रतीकारः । केनोपायेन स्खलितामिद्रं प्रच्छादयामि । कस्य वा
चापलमिदमेतेषां दुर्विनीतानामिन्द्रियाणां कथयामि । क्क वानेन दग्धहृदयेन गृहीता गच्छामि । तिाा महाश्वेताव्यतिकरेण प्रतिज्ञा कृता । तथा च केयूरकस्य हस्ते संदिष्टम् । न खलु जानामि मन्दभागिनीशठविधिना वा पूर्वकृतापुण्यसंचयेन वा मृत्युहतकेन वान्येन वा केनाप्ययमानीतो मम विप्रलम्भकश्चन्द्रापीडः । कोऽपि वा, न कदाचिहृष्टो नानुभूतो न च श्रुतो न चिन्तितो नोत्प्रेक्षितो मां विडम्बयितुमुपागतः, यस्य दर्शनमात्रेणैव संयम्य दत्तेवेन्द्रियैः, गृहीतगुणपणेन विक्रीतेव हृदयेनोपकरणीभूतास्मि । न मे कार्यं तेन चपलेनं’ इति क्षणमिव संक्रल्पमकरोत् । कृतसंकल्पा तत्परित्यागसंकल्पसमकालप्रस्थितेन कालप्रस्थितेन कण्ठलग्रेन पृष्टेव जीवितेन, “अविशेषज्ञे, “अविशेषज्ञे, पुनरपि प्रक्षालितलोचनया दृश्यतामसौ जनः प्रत्याख्यानयोग्यो न वा ’ इति तत्कालागतेनाभिहितेव बाष्पेण, पुनरपि तथैव चन्द्रापीडाभिमुखहृदश्या बभूव । तद्रेवमस्तमितप्रतिसमाधानबला जालवातायनेन तमेव क्रीडापर्वतमवलोकयन्त्यतिष्ठत् । तत्रस्था च सा तमानन्दजलव्यवधानोद्विग्रेव स्मृत्या ददर्श, न चक्षुषा । अङ्गुलीगलितस्वेदपरामर्शभीतेव चिन्तया लिलेख, न चित्रतूलिकया । तत्संगमकालातिपातासहेव मनो गमनाय नियुक्तवती, न परिजनम् ॥
चन्द्रापीडोऽपि प्रविश्य मणिगृहम्, शिलातलास्तीर्णायाम् उभयत उपर्युपरि निवेशितबहूपधानायां कुथायां निपत्य केयूरकेणोत्सङ्गे गृहीतचरणयगलः, ताभिर्यथादिष्टेषु भूमिभागेषूपविष्टाभिः कन्यकाभिः परिवृतः, दोलायमानेन चेतसा चिन्तां विवेश—““किं तावदस्या गन्धर्वराजदुहितुः कादम्बर्याः सहभुव एते विलासा एवेदृशाः सकललोकहृदयहारिणः । आहोस्विदनाराधितप्रसन्नेन भगवता मकरेकतुना मयि नियुक्ताः । येन मां सास्त्रेण सरागेण कूणितत्रिभागेण चक्षुषा तिर्य्ग्विलोकयति । मद्विलोकिता च घवलेन स्मितालोकेन दुकूलेनेव लज्जयात्मानमावृणोति’’ । पुनश्चाचिन्तयत्—-““प्रायेण मानुष्यकसुलभा लघुता मिथ्यासंकल्पसहस्त्रैरेवं मां विप्रलभते । लुप्तविवेको यौवनमदो मदयति मदनो वा । यतस्तिमिरोपहतेव यूनां दृष्टिरल्पमपि कालुष्यं महत्पश्यति । स्त्रेहलवोऽपि वारिणेव यौवनमदेन दूरं विस्तार्यते । स्वयमुत्पादितानेकचिन्ताशतकुला कविमतिरिव तरलता न किंचिन्नोत्प्रेक्षते । निपुणमन्मथगृहीता चित्रवर्तिकेव तरुणचित्तवृत्तिर्न किंचिन्नालिखति । संजातरूपाभिमानाकुलटेवात्मसंभावना न क्कचिन्नात्मानमर्पयति । स्वप्र इवाननुभूतमपि मनोरथो दर्शयति । इन्द्रजालपिच्छिकेवासंभाव्यमपि प्रत्याशा पुरः सथापयति’’ । भूयश्च चिन्तितवचान्—-““किमनेन वृथैव मनसा खेदितेन । यदि सत्यमेवेयं धवलेक्षणा मय्येवं जातचित्तवृत्तिः, तदा न चिरात्स एवैनामप्रार्थितानुकूलो मन्मथः प्रकटीकरिष्यति । स एवास्य संशयस्य च्छेत्ता भविष्यति’’ इत्यवधार्योत्थायोपविश्? च, ताभिः कन्यकाभिः सहाक्षैर्गेयैश्च विपञ्चीवाद्यैश्च स्वरसंदेहविवादैश्च सुभाषितगोष्ठीभिश्चान्यैश्च तैस्तैरालापैः सुकुमारैः कलाविलासैः क्रीडन्नासांचक्रे । मुहूर्तं च स्थित्वा निर्गम्योपवनालोकनकुतूहलाक्षिप्तचित्तः, क्रीडापर्वतकशिखरमारुरोह ॥
कादम्बरी तु तं दृष्ट्वा, “चिरयति’ इति महाश्वेतायाः किलवर्त्मावलोकयितुं विमुच्य तं गवाक्षम्, अनङ्गाक्षिप्तचित्ता सौधस्योपरितनं तलं कैलासशिखरमिव गौर्यारुरोह । तत्र च विरलपरिजना सकलशशिमण्डपाण्डुरेणातपत्नेण हेमदण्डेन निवार्यमाणातपा, चतुर्भिर्वालव्यजनैश्च फनशुचिभिरुद्धूयमानैरुपर्वाज्यमाना, मुहुश्चामरशिखां समासज्य, मुहुश्छत्नदण्डमवलम्बय, मुहुस्तमालिकास्तकन्धे करौ विन्यस्य, मुहुर्मदलेखां सखीं परिष्वज्य, मुहुः परिजनान्तरितसकलदेहा नेत्रत्रिभागेणावलावकोकृय, मुहुर्निश्चलकरविधृतामधरपल्लवे वीटिकां विनिवेश्य, मुहुरुद्गीर्णोत्पलप्रहारपलायमानपरिजनानुसरणदत्तकतिपयपदा, विहस्य तं विलोकयन्ती, तेन च विलोक्यमाना, महान्तमपि कालमतिक्रान्तं नाज्ञासीत् । आरुह्म च प्रतीहार्या निवेदिप्तमहाश्वेताप्रत्यागमना, तस्माग्दवततार । स्त्रानादिषु मन्दादरापि महाश्वेतानुरोधेन दिवसव्यापारमकरोत् । चन्द्रापीडोऽपि तस्मादवतीर्य, प्रथमविसर्जितेनैव कादम्बरीपरिजनेन निर्वर्तितस्त्रानविधिः, निरुपहतशिलार्चिताभिमतदैवतः, क्रीडापर्वतक एव सर्वमाहारादिकमहःकर्म चक्रे ॥
क्रमेण च कृताहारः, क्रीडापर्वतकप्राग्भागभाजि मनोहारिणि मरकतशिलातले समुपविष्टः, दृष्टवान्सहसैवातिबहुलघाम्रा धवलेनालोकेन विलिप्यमानम्बरतलम् ॥
कुतूहलाच्चालोकानुसारप्रहितचक्षुः, अद्राक्षीत् अनल्पकन्यकाकदमृबपरिवृताम्, घ्रियमाणधवलातपत्राम्, उद्धूयमानचामरद्वयाम्, कादमृबरीप्रतीहार्या वामपाणिना वेत्रलतागर्भेणार्द्रवस्त्रशकलावच्छन्नमुखं चन्दनानुलेपनसनाथं नालिकेरसमुद्‌रकमुद्वहन्त्या दक्षिणकरेण द्त्तहस्तावलम्बाम्, केयूरकेण च निश्वासहार्ये निर्मोकशुचिनी धौतकल्पलतादुकूले दधता निवैद्यमानमार्गाम्, मालतीकुसुमदामाधिष्ठितकरतलया च तमालिकयानुगम्यमानागच्छन्तीं मदलेखाम् ; तस्याश्च समीपे तरलिकाम् ; तया च सितांशुकोपच्छदे पटलके गृहीतम्, सहभुवमिव चन्द्रमसः, हासमिव श्रियः, प्रतिमातरागणमिव जलनिधिजलादुद्धृतम्, यशोराशिमिर्वकत्र घटितं सर्वसागराणाम्, शरच्छशिनमिव घनमुक्तरांशुनिवहधवलितदिङ्मुखम्, प्रभाव?र्ष्ज्ञिणमतितारं हारम् ॥
दृष्ट्वा चायमस्य चन्द्रापीडश्चन्द्रातपद्युतिमुषो धवलिम्रः कारणमिति मनसा निश्चित्य, दूरादेव प्रत्युत्थानादिना समुचितेनोपचारक्रमेण मदलेखामापतन्तीं प्रतिजग्राह । सा तु तस्मिननेव मरकतग्राबणि मुहूर्तमुपश्यि, स्वयमुत्थाय, तेन चन्द्रनाङ्गरागेणानुलिप्य, ते च द्वे दुकूले परिधाप्य, तैश्च मालतीकुसुमदामभिरारचितशेखरं कृत्वा, तं हारमादाय, चन्द्रापीडमुवाच—-““कुमार, तवेयमपहस्तिताहंकारकान्ता पेशलता प्रीतिपरवशं जनं किमिव न कारयति । प्रश्रय एव ते ददात्यवकाशमेवंविधानाम् । अनया चाकृतृया कस्यासि न जीवितस्वामी । जनेन चाकारणाविष्कृतवात्सल्येन चरितेन कस्य न बन्धुत्वमध्यारोपयसि । एषा च ते प्रकृतिमधुरा व्यवहृतिः कस्य न वयस्यामुतृपादयति । कं वा न समाश्वासयन्त्यमी स्वभावसुकुमारवृत्तयो भवद्गुणाः । त्वमन्मूर्तिरेवात्रोपालम्भमर्हति, या प्रथमदर्शन एव विस्त्रम्भमुपजनयति । इतरथा हि त्वद्विधे सकलभुवनप्रथितमहिम्रिप्रयुज्यमानं सर्वमेवानुचितमिवाभाति । तथा हि—संभाषणमप्यः करणमिवापतति । आदरोऽपि प्रभुताभिमानमिवानुमापयति । स्तुतिरप्यातृमोतृसेकमिव सूचयति । उपचोऽपि चपलतामिव प्रकाशयति । प्रीतिरप्यनात्मज्ञतामिव ज्ञापयति । विज्ञापनापि प्रगल्भ्यमिव ज्ञायते । सेवापि चापलमिव दृश्यते । दानमपि परिभव इव भवति । अपि च, स्वयंगृहीतहृदयाय किं दीयते । जीवितेश्वराय किं प्रतिपाद्यते । प्रथमकृतागमनमहोपकारस्य का ते प्रत्युपक्रिया । दर्शनदत्तजीवितफलस्य सफलमागमनं केन ते क्रियते । प्रणयितां चानेन व्यपदेशेन दर्शयति कादमृबरी, न विभवमृ । अप्रतिपाद्या हि परस्वता सज्जनविभवानाम् । आस्तां तावद्विभवः । भवादृशस्य दास्यमप्यङ्गीकुर्वाणा नाकर्यकारिणीति नियुज्यते । दत्त्वात्मानमपि वा?ञ्चिता न भवति । जीपितमप्यर्पयित्वा न पश्चात्तप्यते । प्रणयितनप्रतृयाख्यानपराङ्मुखी च दाक्षिण्यपरवती महत्ता सताम् । न च तादृशी भवति याचमानानाम्, यादृशी ददतां लज्जा । यत्सतृयममुना व्यतिकरेण कृतापराधमिव त्वय्यात्मानमवगच्छति कादम्बरी । मदयममृतमथनसमुद्धूतानां सर्वरत्नानामेकः शेष इति शेषनामा हारोऽमुनैव हेतुना बहुमतो भगवताम्भसां पतृया गृहमुपगताय प्रचेतसे दत्तः, पाशभृतापि गन्धर्वराजाय, गन्धर्वराजेनापि कादम्बर्यै । तयापि त्वद्वपुरस्यानुरूपमाभरणस्येति विभावयन्त्या, नमःस्थलमेवोचितं सुधासूतेर्धाम न धरेत्यवधार्यानुप्रेषितः । यद्यपि निगुणगणाभरणभूषिताङ्गयष्टयो भवादृशाः क्लेशहेतुमितरजनबहुमतमाभरणभारमङ्गेषु नारोपयन्ति, तथापि कादमृबरीप्रीतिरत्र कारणम् । किं न ककृतमुरसि शिलाश्याकलं कौस्तुभाभिधानं लक्ष्म्याः सहजमिति बहुमानमाविष्कुर्वता भगवता शर्ङ्गपाणिना । न च नारायणोऽत्रभवेन शेषमतिशेते । न चापि कादमृबरीमाकारानुकृतिकलयाप्यल्पीयस्या लक्ष्मीरनुगन्तुमलम् । अतो1़र्हतीयमिमं बहुमानं त्वत्तः । न चाभूमिरेषा प्रीतिप्रसरस्य । नियतं च भवता भग्रप्रणया महाश्वेतामुपालम्भसहस्त्रैः खेदयित्वा स्वात्मानमुत्स्त्रक्ष्यति । अत एव महाश्वेता तरलिकामपीमं हारमादाय त्वत्सकशं प्रेषितवती । तयापि कुमारस्य संदिष्टमेव—- न खलु महाभागेन मनसापि कार्यः कादम्बर्याः प्रथमप्रणयप्रसरभङ्गः’’ हत्युक्वा, तं तस्य वक्षःस्थले बबन्ध ॥
चन्द्रापीडस्तु विस्मयमानः प्रत्यवादीत्—-““मदलेखे, किमुच्यते । निपुणासि । जानासि ग्राहयितुम् । उत्तरावकाशमपहरन्त्या कृतं वचसि कौशलम् । अयि मुग्धे, के वयमातृमनः । के वा वयं ग्रहणस्याग्रहणस्य वा । गता खल्वियमस्तं कथा । सौजन्यशालिनीभिर्भवतीभिरुपकरणीकृतोऽयं जनरो यथेष्टमिष्टेष्वनिष्टेषु वा व्यापारेषु विनियुज्यताम् । अति?दक्षिणाया खलु देव्याः कादम्बर्या निदमृबर्या नि र्दाक्षिण्यमपि गुणा न कंचिन्न
दासाकुर्वन्ति’’ इत्युक्त्वां च, कादम्बरीसंबद्धाभिरेव कथाभिः सुचिरं स्थित्वा, विसर्जयाम्बभूव मदलेखाम् । अनतिदूरं गतायां च तस्याम्, क्रीडापर्वतकगतुमुदयगिरिगतमिव चन्द्रमसं चन्द्रनदुकूलहारधवलं चन्द्रापीडं द्रष्टुसुत्सारितवेत्रच्छत्रचामरचिङ्गानिषिद्धाशेषपरिजनानुगमना, तमालिकाद्वितीया, चित्ररथसुता पुनरपि तदेव सौधशिखरमारुरोहं । तत्रस्था च पुनस्तथैव विधिविलासतरङ्गितैर्विकारिविलोकितैर्जहारास्य मनः ॥
अथ शनैःशनैरदर्शनमुपगते भगवति गभस्तिमालिनि, जातायां चादर्शनक्षमायां वेलायाम्, सौधशिखरादवततार कादम्बरी, क्रीडापर्वतकनितम्बाच्च चन्द्रापीडः । उच्छ्रिते च ततो न चिरादिव कुसुमायुधाधिराज्यैकातपत्रेश्वेतभानौ, चन्द्रापीडो गृहकुमुदिन्यास्तीरे हरिचन्दनरसैः प्रक्षालितं कादमृबरी?परिजनोपदिष्टं मुक्ताशिलापट्टं चन्द्रशीतलमधिशिश्ये । तत्रस्थस्य चास्यागत्याकथयतृकेयूरकः—-
अथ चन्द्रापीडः ससंभ्रममुत्थाय, आगच्छन्तीम्, अल्पसखीजनपरिवृताम्, अपनीताशेषराजचिङ्गाम्, इतरामिवैकावलीमाभरणाम्, मदलेखया दत्तहस्तावलम्बां कादम्बरीमपश्यत् । आगत्य च प्रीतिपेशलतां दर्शयन्ती प्राकृतेव परिजनोविचते भूतले सा समुपाविशत् । चन्द्रापीडोऽपि “कुमार, अध्यास्यतां शिलातलमेव’ इत्यसकृदनुबध्यमानोऽपि मदलेखया भूमिमेबाभजत । सर्वासु चासीनासु मुहूर्तमिव स्थित्वा, वकृतुमुपचक्रमे चन्द्रापीडः—-““देवि, दृष्टिपातमात्रप्रीते दासजने संभाषणादिकस्यापि प्रसदस्य वकाश्याः । किमुतैतावतोऽनुग्रहस्य । न खलु चिन्तयन्नपि निपुणं तमात्मनो गुणलवमवलोकयामि, यस्यायमनुरूपोऽनुग्रहातिरेकः । अतिसरलता तवेयमपगताभिमानमधुरा च सुजनता, यदभिनवसेवकजनेऽप्येवमनुरुध्यते । प्रायेण मामुपचारहार्यमदक्षिणं देवी मन्यते । धन्यः खलु परिजनस्ते, यस्योपरि नियन्त्रणा स्यात् । आज्ञासंविभागकरणोचिते भृत्यजने क इवादरः । परोपकारोपकरणं शरीरम्, तृणलवलघु च जीवितम् , अपत्रपे त्वत्प्रतिपत्तिभिरुपायनीकर्तुमेवमागतायास्ते । वयमेते, शरीमिदम्, एतज्जीवितम्, एतानीन्द्रियाणि; एतेषामान्यतरदारोपय परिग्रहेण गरीयस्त्वम्’’ इति । अथैवंवादिनोऽस्य वचनमाक्षिप्य मदलेखा सस्मितमवादीत्—““कुमार, भवतु, अतियन्त्रणया खिद्यते खलु सखी कादम्बरी । किमर्थं चैवमुच्यते । सर्वमिदमन्तरेणापि वचनमनया परिगृहीतम् । किं पुनरमुनोपचारफल्गुना वचसासंदेहदोकलामारोप्यते’’ इति ॥
स्थित्वा च कंचित्कालं कृतप्रस्तावा, “कथं राजा तारापीडः, कथं देवी विलासवती, कथमार्थः शुकनासः, कीदृशी चोज्जयिनी, कियत्यध्वनि सा च, कीदृग्भारतं वर्षम्, रमणीयो वा मर्त्यंलोकः इत्यशेषं प्प्रच्छ । एवंविधाभिश्च कथाभिः सुचिरं स्थित्वोत्थाय, कादम्बरी केयूरकं चन्द्रापीडसमीपशायिनं समादिश्य परिजनं च, शयनसौधशिखरमारुरोह । तत्र च सितदुकूलवितानतलास्तीर्णं शय नीयमलंचकार । चन्द्रापीडोऽपिव तस्मिन्नेव शिलातले निर?भिमानतामभिरूपतामतिगम्भीरतां च कादमृबर्याः, निष्कारणवत्सलतां च महाश्वेतायाः, सुजनतां च मदलेखायाः, महानुभावतां च परिजनस्य, अतिसमृद्धिं च गन्धर्वराजलोकस्य, रम्यतां च किंपुरुषदेशस्य मनसा भावयन्, केयूरकेण संवाह्ममानचरणः क्षणादिव क्षणदां क्षपितवान् ॥
अथ समुद्गते सवितरि, शिलातलादुत्थाय चन्द्रापीडः प्रक्षालितमुखकमलः कृतसंध्यानमस्कृतिः, गृहीतताम्बूलः “केयूरक, विलोकय, देवी कादम्बरी प्रबुद्धा न वा क्क वा तिष्ठति’ इत्यवोचत् । गतप्रतिनिवृत्तेन च तेन “देव, मन्दरप्रादस्याघस्तादङ्गनसौधवेदिकायां महाश्वेतया सहवितिष्ठते ’ इत्यावेदिते, गन्धर्वराजतनयामालोकयितुमाजगाम । ददर्श च जटाजिनमौञ्जीवल्कलाषाढधारिणीभिर्वर्णिचिड्गाभिस्तापसीभिरुपास्यमानाम् अन्तःपुराभ्यर्हिताश्च सादरं नमस्कारैराभाषणैरभ्युत्थानैरासन्न्वेत्रासनदानैश्च संमानयन्तीं महाश्वेताम्, पृष्ठतश्च समुपविष्टेन किंनरमिथुनेन मधुकीकरमधुराभ्यां वंशाभ्यां दत्ते ताने, कलगिरा गायन्त्या नारदुहित्रा पठ्यमाने च सर्वमङ्गलमहीयसि महाभारते दत्तावधानां कादमृबरीम् । समुपसृत्यकृतनमस्कारः, तस्यामेव सुधावेदिकायां विन्यस्तमासनं भेजे । स्थित्वा च कंचित्कालम्, महाश्वेताया वदनं विलोक्य, स्फुरितकपोलोदरं मन्दस्मितमकरोत् । असौ तु तावतैव विदिताभिप्राया कादम्बरीमब्रवीत्—-”” सखि, भवतृया गुणैश्चन्द्रापीडश्चन्द्रकान्त इव चन्द्रमयूखैरार्द्रीकृतो न शक्रोति वक्तुम् । जिगामिषति खलु कुमारः । पृष्ठतो दुःखमविदितवृत्तान्तं राजचक्रमास्ते । अपि च,
युवयोर्दूरस्?थतयोरपि स्थितेयमिदानीं कमलिनीकमलबान्धवयोरिव कुमुदिनीकुमुदनाथयोरिव प्रीतिरा प्रलयात् । अतोऽभ्यनुजानातु भवती ’’ इति ॥
अथ कादमृबरी “साखि, स्वाधीनोऽयं सपरिजनो जनः कुमारस्य स्व इवान्तरात्मा । क इवात्रानुरेधः ’ इत्यभिधाय, गन्धर्वकुमारानहूय “प्रापयत कुमारं स्वां भूमिम्’ इत्यादिदेश । चन्द्रापीडोऽप्युत्थाय प्रणम्य प्रथमं महाश्वेताम्, ततः कादम्बरीम्, तस्याश्चप्रेमस्त्रिग्धेन चक्षुषा मनसा च गृह्ममाणः, “देवि, किं ब्रवीमि । बहुभाषिणो न श्रद्दधाति लोकः । स्मर्तव्योऽस्मि परिजनकथासु’इत्यभिधाय, कन्यकान्तः पुरान्निर्जगाम । कादमृबरीवर्जमशेषकन्यकाजनो गुणगौरवाकृष्टः परवश इव तं प्रजन्तमा बहिस्तोरणादनुववाज । निवृत्ते च कन्यकाजने, केयूरकेणोपनीतं वाजिनमारुह्म, गन्धर्वकुमारकैस्तैरनुगम्यमानः, हेमकूटातृप्रवृत्तो गन्तुम् । गच्छतश्चास्य चित्ररथतनया न केवलमन्तः, बहिरपि सैव सर्वाशानिबन्धनमासीत् । क्रमेण च प्राप्य महाश्वेताश्रमम्, अच्छोदसरस्तीरे संनिविष्टमिन्द्रायुधखुरपुटानुसारेणैवागतमात्मत्कन्धावारमपश्यत् । निवर्तिताशेषगन्धर्वकुमारश्च, सानन्देन सकुतूहलेन सविस्मयेन च स्कन्धावारवर्तिना जनेन प्रणम्यमानः, स्वभवनं विवेश । संमानिताशेषरजलोकश्च वैशम्पायनेन पत्रलेखया च सह “वं महाश्वेता, एवं कादम्बरी, एवं मदलेखा, एवं तमरालिका, एवं केयूरकः’ इत्यनयैव कथया प्रायो दिवसमनैषीत् । कादमृबरीरूपदर्शनविद्विष्टेव नास्य पुरेव प्रीतिमकरोद्राजलक्ष्मीः । तामेव च घवलेक्षणामाबद्धरणरणकेन चेतस्म चिन्तयतो जाग्रत एव सा जगाम रात्रिः ॥
अपरेद्युश्च समुत्थिते भगवति रावौ, आस्थानमण्डपगतः, तद्रतेनैव मनसा सहस्त्रैव प्रतीहारेण सह प्रविशन्ते केयूरकं ददर्श । दूरादेव च क्षितितलस्पर्शिना मौलिना कृतपादपतनम् “एह्मेहि’ इत्युक्त्वा प्रथममपाङ्गविसर्पिणा चक्षुषा, ततो हृदयेन, पश्चाद्भुजाभ्यां प्रधावितः प्रथितं तमालिलिङ्ग बाढम् । उपावेशयच्चैनमात्मनः समीप एव । पप्रच्छ च-” केयूरक, कुशलिनी देवी ससखीजना कादमृबरी, भगवती महाश्वेता च?’ इति । असौ तु तेन राजसूनोः प्रीतिप्रकर्षजन्मना स्मितेनैव स्त्रपित इवानुलिप्त इव सद्य एवापगताध्वखेदः प्रणमृयादृततरमवोचत्—-अद्य कुशलिनी, यामेवं देवः पृच्छति’ इत्यभिधाय, अपनीयार्द्रवस्त्रकर्पटावगुण्ठितं बिससूत्रसंयतमुखमार्दचन्द्रनपङ्कन्यस्बालमृणालवलयमुद्रं नलिनीपत्रपुटमदर्शयत् । उद्धाट्य च तत्र कादम्बरीप्रहितान्यभिज्ञानान्यदर्शयत् । तद्यथा—- मरकतहरिन्ति व्यपनीतत्व?ञ्जिरीभाञ्जि क्षीरीणि पूगीफलानि, शुककामिनीकपोलपाण्डूनि तामृबूलीदलानि, हरचन्द्रखण्डस्थूलशकलं च कर्पूरम्, अतिबहुलमृगमदामोदमनोहरं च मलयजविलेपनम् । अव्रवीच्च-““चूडामणिचुम्बिनाञ्जलिना देवमंर्चयति देवीकादमृबरी, महाश्वेता च सकण्ठग्रहेण कुशलवचसा, नमस्कारेण च मदलेखा, सचरणरजःस्पर्शेन च पादप्रणामेन तमालिका । संदिष्टं च तव महाश्वेतया– “धन्याः खलु ते, येषां न गतोऽसि चक्षुषोर्विषयम् तथा नाम समक्षं भवतस्ते तुहिनशीतलाश्चन्द्रमया इव गुणा विरहे विवस्वन्मया इव संवृत्ताः । स्पृहयन्ति खलु जनाः कथमपि दैवोपपादितायातीतदिवसाय । त्वया वियुक्तं विनिवृत्तमहोत्सवालसमिव वर्तते गन्धर्वराजनगरम् । जानासि च मां कृतसकलपरित्यागाम् । तथाप्यकारणक्षपातिनं भवन्तं द्रष्टुमिच्छत्यनिच्छन्त्या अपि में बलादिव हृदयम् । अपि च, बलवदस्वथशरीरा कादम्बरी । स्मरति च स्मेराननं स्मरकल्पं त्वाम् । अतः पुनरागमनगौरवेणाईसौमां गुणवदभिमानिनीं कर्तृम् । उदारजनादरो हि बहुमानमारोपयति । अवश्यं सोढव्या चेयमस्मद्विधजनरिचयकदर्थना कुमारेणाभवत्सुजनतैव जनत्यनुचितं संदेशप्रागल्भयम्’’ इत्युक्त्वा, “एष देवस्य शयनीये विस्मृतः शेषो हारः प्रहितः ’ इत्युत्तरीयपटान्तसंयतं विमुच्य चामरप्राहिण्याः करे समर्पितवान् ॥
अथ चन्द्रापीडः “महाश्वेताचरणाराधनतपःफलमिदम्, यदेवं परिजनेऽप्यनुस्मरणादिकं प्रसादभारमतिमहान्तमारोपयति देवी कादम्बरी’ इत्युक्त्वा, तत्सर्वं शिरसि कृत्वा, स्वयमेव जग्राह । तेन च स्पर्शवताह्लादिना सुरभिणा विलेपनेन विलिप्य, तमेव कण्ठे हारमकरोत् । आगृहीतताम्बूलश्च, मुहूर्तात्थाय, वामबाहुना स्कन्धदेशे समवलम्बय केयूरकम्, शनैः शनैर्गन्धमादनं करिणं द्रष्टुमयासीत् । तत्र ?च स्थित्वा क्षणमिव, तस्मै स्वयमेव शष्पकबलमवकीर्य, वल्लभतुरंगमन्दुराभिमुखः प्रतखे । गच्छंश्चोभयतः किंचिर्त्किचिदिव तिर्यग्वलितदनः परिजनं विलोकयाबभूव ॥
अथ चित्तज्ञैः प्रतीहारैः प्रतिषिद्धानुगमने निखिले समुत्मारिते परिजने, केयूरकद्वितीय एव मन्दुरां प्रविवेश । उत्सारणभयसंभ्रान्तलोचनेषु प्रणम्यापसृतेषु मन्दुरापालेषु, इन्द्रायुधस्य पृष्टावगुण्ठनपटं किंचिदेकपाश्वैगलितं समीकुर्वन्, उत्सारयंश्च कूणितनेत्रत्रिभांगस्य दृष्टिनिरोधिनीं कुङ्कुमकपिलां केसरसटाम्, खुरधारणीविन्यस्तचरणः, लीलाभन्दं मन्दुरादारुदत्तदेहभरः सकुतूहलमुवाच"“केयूरक, कथच— मन्निर्गमादारभ्य को वा वृत्तान्तो गन्धर्वराजकुले? केन वा व्यापारेण वासरमतिनीतवती गन्धर्वराजपुत्री? किं वाकरोन्महाश्वेता? भवतो वा को व्यापार आसीत् ? आसीद्वा काचिदस्मदाश्रयिणी कथा?’’ । केयूरकस्तु सर्वमाचचक्षे—”” देव, श्रूयताम्— निर्गते त्वयि देवी कादमृबरी सपरिजना सौधशिखरमारुह्म, तुरगधूलिरेखाधूसरं देवस्यैव गमनमार्गमालोकितवती । तिरोहितदर्शने च देवे, मदलेखास्कन्धनिक्षिप्तमुखी प्रीत्या तं दिगन्तं पश्यन्ती, सुचिरं तत्रैव स्थितवती । तस्माच्च कथमपि सखेदमवतीय्र क्षण?मिवास्थनमण्डपं स्थित्वा, उत्थाय तमेव क्रीडापर्वतकमागतवती, यत्र स्थितवान्देवः । तमुपेत्य च “देवेनात्र शिलातले स्थितम्, अत्र स्त्रातम्, अत्र भगवानर्चितः शूलपाणिः, अत्र भुक्तम्, अत्र सुप्तम् इति पारिजनेन पुनरुक्तं निवेद्यमानानि देवस्यैव स्थानचिङ्गानि पश्यन्ती, क्षपितवती दिवसम्।दिवसावसाने च कथमपि महाश्वेताप्रयत्नादनभिमतमपि तस्मिन्नवे स्फटिकमणिवेश्मन्याहारमकरोत् । अस्तुमुपगते च भगवति रवौ, उदिते चन्द्रमसि, तत्रैव कंचित्कालं स्थित्वा , करौ कपोलयोः कृत्वा किमपि चिन्तयन्ती, मुकुलितेक्षणा क्षणमात्रं स्थितृवा, उत्थाय कृच्छ्रादुत्क्षिपन्ती पदानि शय्यागृहमगात् । शयननिक्षिप्तगात्रयष्टिश्च ततः प्रभृति प्रबलया शिरोवेदनया विचेष्टमाना, दारुणेन च दाहरूपिणा ज्वरेणाभिभूयमाना, केनाप्याधिना मङ्गलप्रदीपैः कुमुदाकरैश्चकवाकैश्च सार्धमनिमीलितलोचना दुःखपदुःयखेन क्षणदामनैषीत् । उषसि च मामाहूय देवस्य वार्ताव्यतिकरोपलम्भाय सोपालम्भमादिष्टवृती’’ ॥
चन्द्रापीडस्तदाकर्ण्य जिगमिषु “अश्वोऽश्वः ‘इति वदनद्व भव्र नान्निर्ययौ । आरोपितपर्याणं च त्वरिततुरगपरिचारकोपनीतमिन्द्रायुधमारुह्म, पश्वादारोप्य पत्रलेखाम्, स्कन्धावारे स्थापयित्वा वैशम्पायनम्, अशेषं परिजनं निवर्त्य च, अन्यतुरगारूढेनैव केयूरकेणानुगम्यमानः, हेमकूटं ययौ । आसाद्य च कादम्बरीभवनद्वारमवततार । अवतीर्य च द्वारपालापिर्ततुरगः कादम्बरीप्रथमदर्शनकुतूहलिन्या च पत्रलेखयानुगम्यमानः प्रविश्य, “क्क देवी कादमृबरी तिष्ठति’ इति संमुखगतमन्यतमं वर्षवरमप्राक्षीत् । कृतप्रणामेन च तेन " देव, मत्तमयूरस्य क्रीडापर्वतकस्याधस्तात्कमलवनदीर्घिकातीरेविरचितं हिमगृहमध्यास्ते ’ इत्याबेदिते, केयूरकेणोपदिश्यमानवर्त्मा गत्वा किंचिदध्वानम्, निरन्तरनलिनीदलच्छ हिमगृहमपश्यत् । ततश्च तत्र बहुविधान् शिशिरोपचारोपकरणकल्पनाव्यापारान् परिजनेन कृतान् क्रियमाणांश्च वीक्षमाणः, हिमगृहकस्य मध्यभागम्, हृदयमिव हिमवतः, जलक्रीडागृहमिव प्रचेतसः, कुलगृहमिव सर्वचन्द्रनवनदेवतानाम्, संकेतसदनमिव सवर्पावृषाम्, आससाद । क्रमेण च तत्रान्तर्बहिश्रातिबहलेन पिण्डहार्येणेवोपलिप्यमानोऽतिशीतलस्पर्शेनामन्यतात्मनो मनश्चन्द्रमयम्, कुमुदमयानीन्द्रियाणि, ज्योत्स्रामयान्यङ्गानि, मृणालिकामयीं धियम् ॥
एवंविधस्य च तस्यैकदेशे सखीकदमृबकपरिवृताम्, कुल्याभ्रमिभ्रमितेन कर्पूरसस्त्रोतसा कृतपरिवेषाया मृणालदण्डमण्डपिकायास्तले कुसुमशयनमधिशयानाम्, अवतंसमधुकररवदहनदग्धमिवश्रोत्रमपाङ्गनिर्गतेनाश्रुस्त्रोतसा सिञ्चन्तीम, मुहुर्मुजलतया तुषारशिलासालभञ्जिकामालिङ्गन्तीम्, मुहुः कपंलफलकेन कर्पूरपुत्रिकामाश्लिष्यन्तीम्, मुहुश्चरणा?रविन्देन चन्दनपङ्कप्रतियातनामास्पृशन्तीम्, कुसुमचापलेखामिव मदनारोपितगुणकोटिकान्ततराम्, मधुमासदेवतामिव शिशिरहारिणीं कादम्बरीं व्यलोकयम् ॥
अथ सा यथादर्शनमागत्यागत्य चन्द्रापीडागमनमनावेदयन्तं परिजनमुत्तरलतारकेण चक्षुषा “कथय, किं सत्यमागतः? दृष्टस्त्वया? कियत्यध्वनि? कासौद्व इति प्रतिमुखं निक्षिप्तेनानक्षरं पप्रच्छ । प्रबर्धमानधवलिम्रा चक्षुषा दृष्ट्वा च संमुखमापतन्तं तम्, दूरादेव वरारोहा संभ्रमच्युतोत्तरीयका, मणिकुट्टिमनिहितेन वामकरतलेन हस्तावलम्बनं निजप्रतिमामिव याचमाना, स्त्रचमाना, स्त्रस्तकेशकलापसंयमनश्रमितेन गलत्स्वेदसलिलेन दक्षिणकरेण समभ्युक्ष्येवात्मानमर्पयन्ती, चक्षुषा क्षरन्ती शिशिरमानन्दजलम् , किंचिदधोमुखी,
तत्क्षणमपाङ्गभागपु?ञ्जिततारकया तन्मुखलग्रयेव दीर्घया दृष्टयाकृष्यमाणा, कुसुमशयनादुत्तस्थौ । चन्द्रापीडस्तु समुपसृत्य पूर्ववदेव तां महाश्वेताप्रणामपुरःसरं दर्शितविनयः प्रणनाम । कृतप्रतिप्रणामायां च तस्यां पुनस्तस्मिन्नेव कुसुमशयने समुपविष्टायाम्, प्रतीहार्या समुपनीतां जाम्बूनदमयीमासन्दिकां पादेनैवोत्सार्य, क्षितावेवोपाविशत् ॥
अथ केयूरकः “देवि, देवस्य चन्द्रापीडस्य प्रसादभूमिरेषा पत्रलेखा नाम ताम्बूलकरङ्कवाहिनीं इत्यभिधाय पत्रलेखामदर्शयत् । अथ कादमृबरी दृष्ट्वा ताम्, “आहो मानुषीषु पक्षपातः प्रजापतेः’ इति चिन्तयांबभूव । ?कृतप्रणामां च तां सादरम् “एह्मेहि’इत्यभिधाय, आत्मनः समीपे सकुतूहलं परिजनेन दृश्यमानां पृष्ठतः समुपावेशयत् । दर्शनादेवोपारूढप्रीत्यतिशया च मुहुर्मृहुरेनां सोपग्रहं करकिसलयेन पस्पर्श ॥
चन्द्रापीडस्तु समदि कृतसकलागमनोचितोपचारः, तदवस्थां चित्ररथतनयामालोक्याचिन्तयजत्— “अतिदुर्विदग्धं ?हि मे हृदयमद्यापि न श्रद्दधाति । भवतु, पृच्छामि तावदेनां पिनुणालापेन’ इति । प्रकाशमब्रवीत्—““देवि, जानामि, कामरतिं निमित्तीकृत्य प्रवृत्तोऽयमविचलसंतापतत्रो व्‌याधिः । सुतनु, सत्यम्,
न तथा त्वामेष व्यथयति, यथास्मान् । इच्छाभ देहदानेनापि स्वस्थामत्रभवतीं कर्तुम् । उत्कम्पिनीमनुकम्पमानस्य कुसुमेषु पीडया पतितमवेक्षमाणस्य पततीव मे हृदयम् । अनङ्गदे तनुभूते ते भुजलते । गाढसंतापया च दृष्टया वहसि स्थलकमलिनीमिव रक्ततामरसाम् । दुःखितायां च त्वयि परिजनेऽपि चावरतकृताश्रुबिन्दुपातेन वर्तते मुक्ताभरणता । गृहाण स्वयं वरार्हाणि मङ्गलप्रसाधननि । सकुसुमशिलीमुखा हि शोभते नवा लता’’ इति ॥
अथ कादम्बरी बालतया स्वभावमुग्धापि, कन्दर्पेणोपदिष्टयेव प्रज्ञया तमशेषमस्याव्यक्तव्याहारसूचितमर्थं मनसा जग्राह । मनोरथानां तु तावतीं भूमिमसंभावयन्ती, शलीनतां चावलम्बमाना, तूष्णीमेवासीत् । केवलमुत्पादितान्यव्यपदेशा तत्क्षणं स्मितालोकमकरोत् । ततों मदलेखा प्रत्यवादीत्—-““कुमार, किं कथयामि । दारुणोऽयमकथनीयः खलु संतापः । अपि च, कुमारभावोपेतायाः किमिवास्याः, यन्न संतापाय । तथा हि—मृणालिन्याः शिशिरकिसलयमपि हुताशनायते । ज्योत्स्राप्यातपायते । ननु किसलयतालवृन्तवातैर्मनसि जायमानं किं न पश्यसि खेदम् । वीरत्वमेव प्राणसंधारणहेतुरस्याः ““इति । कादम्बरी तु हृदयेन तमेव मदलेखालापमस्य प्रत्युत्तरोचकार । चन्द्रापीडोऽप्युभयथाघटमानार्थतया संदेहदोलारूढेनैव चेतसा महाश्वेतया सह प्रीत्युपचयचतुराभिः कथाभिर्महान्तं कालं स्थित्वा, तथैव महता यत्रेन मोचयित्वात्मानम्, स्कन्यावारगमनाय कादम्बरीभवनान्निर्ययापै ॥
निर्गतं च तं तुरंगमनारुरुक्षन्तं पश्चादागत्य केयूरकोऽभिहितवान्—- "” देव, मदलेखा विज्ञापयति— " देवी कादम्बरी प्रथमदर्शनजनितप्रीतिः पत्रलेखां निवर्त्यमानामिच्छति, पश्चाद्यास्यति’इति श्रुत्वा देवः प्रमाणम्’’ इत्याकर्ण्य चन्द्रापीडः ““केयूरक, धन्या स्पृहणीया च पत्रलेखा, यामेवमनुबध्राति दुर्लभो देवीप्रसादः । प्रवेश्यताम्’’ इत्यभिधाय, पुनः स्कन्धावारमेवाजगाम । प्रविशन्नेव पितुः समीपादागतमभिज्ञाततरं लेखहारकमद्राक्षीत् । धृततुरंगमश्च प्रीतिविस्फारितेन चक्षुषा दूरादेवापृच्छत्—-“अङ्ग, कच्चित्कुशली तातः सह सर्वेण परिजनेन, अम्बा च सर्वान्तः पुरैः ? ’ इति ॥
अथासावुपसृत्य प्रणामानन्तरम् “देव, यथाज्ञापससि’इत्यभिधाय, लेखद्वितयमर्पयांबभूव । युवराजस्तु शिरसि कृत्वा, स्वयमेव महाराजाधिराजो देवस्तारापीडः सर्वसंपदामायतनं चन्द्रापीडमुत्तमाङ्गे चुम्बन्नन्दयति । कुशलिन्यः प्रजाः । किंतु कियानपि कालो भवतो दृष्टस्य गतः । बलवदुत्कण्ठितं नो हृदयम् । देवी च सहान्तःपुरैर्म्लानिमुपनीता । अतो लेखवाचनविरतिरेव प्रयाणकालतां नेतव्या’’ इति । शुकनासप्रेषिते द्वितीयेऽप्यमुमेवार्थं लिखितमवाचयत् । अस्मिन्नैवासरे समुपसृत्यै वैशम्पायनोऽपि लेखद्वितयमपरमात्मीयमस्मादभिन्नार्थमेवादर्शयत् ॥
अथ “यथाज्ञापयति तातः’ इत्युक्त्वा, तथैव च तुरगाधिरूढः प्रयाणपटहमवादयतृ । समीपे स्थितं च महातश्वीयेन परिवृतं महाबलाधिकृतं वलाहकपुत्रं मेघनादनामनमादिदेश—-““भवता पत्रलेखया सहागन्तव्यम् । नियतं च केयूरकस्तामदायैतावतीं भूमिमागमिष्यति । तन्मुखेन च विज्ञाप्या प्रणम्य देवी कादमृबरी—-
““नन्वियं सा त्रिभुवननिन्दनीया निरनुरोधा निष्परिचया दुर्ग्रहा प्रकृतिर्मर्त्यानाम्, येषामकाण्डविसंवादिन्यः प्रीतयो न गणयन्ति निष्कारणवत्सलाम् । एवं गच्छता मयात्मनो नीतः स्त्रेहः कपठकूटजालिकताम् । प्रापिता भक्तिरलीककाकुकरणकुशलताम् । पातितमुपचारमात्रमधुरं धूर्ततायामात्मार्पणम् प्रकटितं वाङ्मनसयोर्भिन्नार्थत्वम् । आस्तां तावदात्मा । अस्थानाहितप्रसादा दिव्ययोग्या देव्यति वक्तव्यातां नीता । जनयन्ति हि पश्चाद्वैलक्ष्यमभूमिपातिता व्यर्थाः प्रर्सादामृतवृष्टयो महताम् । न खलु तथा देवी प्रति प्रबललज्जातिभारमन्थरं मे हृदयम्, यथा महाश्वेतां प्रति । नियतभेनामलीकाध्यारोपणवर्णितास्मद्गुणसंभारामस्थानप्रक्षपातिनी मसकृदुपालप्स्यते देवी । तत्किं करोभि । गरीयसी कुरोमि । गरीयसी गुरोराज्ञा प्रभवति देह मात्रकस्य । हृदयेन तु हेमेमटनिवासव्यसनिना लिखितं जन्मान्तरसहस्त्रस्य दास्यपत्रं देव्याः । सर्वथा गतोऽस्मि पितुरादेशादुज्जयिनीम् । प्रसङ्गतोऽसज्जनकथाक्रीर्तनेषु स्मर्तव्यः खलु चन्द्रापीडचण्डालः । मा चैवं मंस्थाः, यथा—जीवन्नुर्देवीचरणारीविन्दवन्दनानन्दमनुनभूय स्थास्यति चन्द्रापीडः’ इति । महाश्वेतायाश्च सप्रदक्षिणं शिरसा पादौ वन्दनीयौ । मदलेखायाश्च कथनीयः प्रणमपूर्वमशिशिलः कण्ठग्रहः । गाढमालिङ्गनीया च तमालिका । अस्मद्वचनादशेषः प्रष्टव्यः कुशलं कादम्बरीपरिजनः । रचिताञ्चलिना च भगवानामन्?त्रणीयो हेमकूटः ’’ इति ॥
एवमादिश्य तम्, “सुहृदादिसाधनल्लेशयतता शनैः शनैर्गन्तव्यम् ’ इत्युक्त्वा वैशम्पायनं स्कन्धावारभरे न्ययुङ्क्त । स्वयमपि च ताथारूढ एव कान्तकुन्तलतावनवाहिना तरुणतुरग्रप्रायेणाश्वसैन्येनानुगम्यमानः, तमेव लेखहारकं पर्याणलग्रमभिनवकादम्बरीवियोगशनून्येनापि हृदयेनोज्जयिनीवार्ता पृच्छन्प्रतस्थे ॥
क्रमेण च गजपतिपातितपादपपरिहारवक्रीकृतमार्गया, जनजनिततृणपर्णकाष्ठकोटिकूटप्रकटितवीरपुषघातस्थानया, महापादपमूलोत्कीर्णकान्तारदुर्गंया, अध्वगोत्खातवालुकाकूपकोपलभ्यमानकलुषस्वल्पसलिलाभिः शुष्कगिरिनदिकाभिर्विषमीकृतानन्तरालया, कुक्कुटकुलकौलेयकराटितानुमीयमानगुल्मगहनग्रामटिकया शून्यया दिवसमटव्या गत्वा, परिणते रविबिम्बे, बिम्बारुणातपतपविसरे वासरे, हरितालकपिलपक्कवेणुविटपिदलरचितवृतिभिर्मृगभयकृततृणपुरुषकैर्विपाकपाण्डुभिः फलिनैः प्रियङ्गुप्रायैरटवीक्षेत्रैर्विरलीकृतवनप्रदेशेचिरप्ररूढस्य रक्तचन्दनतरोरुपरि बद्भम्, जिह्लालतालोहिनीभी रक्तपाकाभिः केशकलापकान्तिना च कृष्णचामरावचूलेन प्रत्यग्रविशसितानां जीवानामिवावयवैरुपरचितदण्डमण्डनम्, परिणतवराटकघटितबुद्दुदार्धचन्द्रखण्डखविचतम्, दोलायितशृङ्गसङ्गिलोहशृङ्खलावलमृबमानधर्धररवघोरघण्टया च घटितकेसरिसटारुचिरचामरया काञ्चनत्रिशूलिकया लिखितनभःसथलम्, इतस्ततः पथिकपरुषोपहारमार्गमिवालोकयन्तम्, महान्तं रक्तध्वजं दूरत एव ददर्श ॥
तदभिमुखश्च किंचिदध्वानं गत्वा, केतीसूचिखण्डपाण्डुरेण वनद्विरददन्तकपाटेन परिवृतात्, लोहतोरणेन च रक्तचामरालिपरिकरां कालायसदर्पणमण्डलमालां बिभ्राणेन सनाथीकृतद्वारदेशाम्, अभिमुखप्रतिष्ठितेन च विनिहितरक्तचन्दनहस्तकतया रुधिरारुणयमकरतलास्फालितेनेव शोणितलवलोभलोलशिवालिह्ममानलोहितलोचनेन लोहमहिषेणाध्यासिताञ्जनशिलावेदिकाम्, क्कचिदङ्कुरितामिव कुटिलहरिणविषाणकोटिकूटैः पल्लवितामिव सरसजिह्वाच्छेदशतैः कुसुमितामिव रक्तनयनसहस्त्रैः फलितामिव मुण्डमण्डलैरुपहारहिंसां दर्शयन्तीम् , शाखान्तरालनिरन्तरनिलीनरक्तकुक्कुटकुलैश्च भयादकालदर्शितकुसुमस्तबकैरिव रक्ताशोकविटपैर्विभूषिताङ्गनाम् , अवलम्बमानदीपधूमरक्तांशुकेन ग्रथितशिखिगलवलयावलिना पिष्टपिण्डपाण्डुरितघनघण्टामालभारिणा त्रापुष्ज्ञसिहमुखमध्यस्थितस्थूललोहकण्टकदत्तदन्तदण्डार्गलंलसत्पीतनीललोहितदर्पणस्फुरितबुद्बुदमालं कपाटपट्टद्वयं दधानेन गर्भगृहद्वारदेशेन दीप्यमानाम्, पतितकृष्णचामरप्रतिबिम्बानां च
शिरश्छेदलग्रकेशजालकानामिव परशुपट्टिशप्रभृ?तीनां जीवविशसनशस्त्राणां प्रभाभिर्बद्धहलान्धकारतया पातालनिवासिनीमिवोपलक्ष्यमाणाम् , रक्तचन्दनखचितस्फुरत्कलपल्लवकलितैश्च बिल्वपत्रदामभिर्बलकमुप्रालम्बैरिव कृतमण्डनाम्, प्रलम्बकूर्चधरैश्छागैरपि धृतव्रतैरिव कृष्णजिनप्रावृताङ्गैः कुरङ्गैरपि प्रतिशयितैरिव ज्वलितलोहितमूर्धरत्ररश्मिभिः कृष्णसर्पैरपि शिरोधृतमणिदीपकैरिवारध्यमानाम्, सर्वतः कठोरं वायसगणैन च रटता स्तुतिपरेणव स्तूयमानाम्, स्थूलस्थूलैः सिराजालकैर्गोधागोलिकाकृकलासकुलैरिव दग्धस्थाण्वाशङ्कया समारूढैर्गवाक्षितेन, अलक्ष्मीसमुतृखातलक्षणस्थानैरिव विस्फोटव्रणबिन्दुभिः कल्माषितसकलशरीरेण, अम्बिकापादपतनश्यामललाटवर्धमानार्बुदेन, कुवादिदत्तसिद्धाञ्जनस्फुटितैकलोचनतया त्रिकालमितरलोचनाञ्जनदानादरश्लक्ष्णीकृतदारुशलाकेन, प्रत्यहं कटुकालाबुस्वेदप्रारब्धदन्तुरताप्रतीकारेण, कथंचिदस्थानदत्तेष्टकाप्रहारतया शुष्कैकभुजोपशान्तमर्दनव्यसनेन, सूचीस्यूतसिरासंकोचितवामकराङ्गुलिना, असम्यक्कुतरसायनानीताकालज्वरेण, जरां गतेनापि दक्षिणापथाधिराज्ययरप्रार्थनाकदर्थितदुर्गेण, दुःशिक्षितश्रमणादिष्टतिलकाबद्धविभवप्र्याशेन, हरितपत्ररसाङ्गारमषीमलिनशम्बूकवाहिना, पट्ठिकालिखितदुर्गास्तोत्रेण, धूमरक्तालक्तकाक्षरतालपत्रकुहकतन्त्रमन्त्रपुस्तिकासंगाहिणा, जीर्णमहापाशुपतोपदेशलिखितमहाकालमतेन, आषिर्भृतनिधिवादव्याधिना, संजातधातुवादवायुना, लग्रासुरविवरप्रवेशपिशोचन, प्रवृत्तयक्षकन्यकामित्वमनोरथव्यामोहेन, वर्धितान्तर्धानमन्स्त्रसाधनसंग्रहेण, श्रीपर्वताश्चर्यवार्तासहस्त्राभिज्ञेन, असकृदभिमन्त्रितसिद्धार्थकप्रहतिप्रधावितैः पिशाचगृहीतकैः करतलताडनचिपिटीकृतश्रवणपुटेन, अविमुक्तशैवाभिमानेन, दुर्गृहीतालाबुवीणावदनोद्वेजितपथिकपरिहृतेन, स्वदेशभाषानिबद्धभागीरथीभक्तिस्तोत्रनर्तकेन, गृहीततुरगब्रह्मचर्यतयान्यदेशागतोषितासु जरत्प्रव्रजितासु बहुकृत्वः संप्रयुक्तस्त्रीवशीकरणचूर्णेन, अतिरोषणतया कदाचिदुर्न्यस्ताष्टपुष्पिकापातोत्पादितक्रोधेन चण्डिकामपि मुखभङ्गिविकारैर्भृशमुपहसता, कदाचिन्निवार्यमाणावासरुषिताध्वगारब्धबहुबाहुयुद्धपातभग्रपृष्ठकेन, कदाचित्कृतापराधबालकपलायनामर्षपश्चत्प्रधावितस्खलिताधोमुखनिपातोपलस्फटिताशिरः कपालभुग्रग्रीवेण, कदाचिज्जनपदकृतनवागतापरधार्मिकादरमत्सरोद्वद्धात्मना, निःसंस्कारतया यत्किंचनकारिणा, खञ्जतया मन्दं मन्दं संचारिणा, बधिरतया संज्ञाव्यवहारिणा, रात्र्यन्धतया दिवाविहारिणा, लम्बोदरतया प्रभूताहारिणा, अनेकशः फलपातनकुपितवानरखोल्लेखच्छिद्रितनासापुटेन, सहस्त्रशः शयनीकृतासंस्कृतशून्यदेवकुलकासर्पदष्टेन, सर्वदा सवन्तक्रीडिता जनेनोत्क्षिप्तखण्डखट्वारोपितवृद्धदासीविवाहप्राप्तविडम्बनेन, अनेकायतनप्रतिशयितनिष्पलोत्थानेन, मूर्खतामपि बहुव्यसनानुगतां प्रसूतानेकापत्यामिव दर्शयता, क्लेशमपि सर्वावयवज्जलितदीपिकादाहव्रणविभावितं बहुमुखमिव प्रकटयता, शुष्कवनलतानिम्रितबृहत्कुसुमकरण्डकेन, वेणुलतारचितपुष्पपातनाङ्कुशिकेन, क्षणमप्यमुक्तकाललम्बलखण्डखोलेन, जरद्द्रविडधार्मिकेणाधिष्ठितां चण्डिकामपश्यत् । तस्यामेव च वासमरचयत् ॥
अथावतीर्य तुरगात्, प्रविश्य भक्तिप्रवणेन चेतसा तां प्रणनाम । कृतप्रदक्षिणश्च पुनः प्रणमृय, प्रशान्तोद्देशदर्शनकुतूलेन ?परिभ्रमन्, उच्चैरारटन्तमाक्रोशन्तं च कुपितं द्रविडधार्मिकमेकदेशे ददर्श । दृष्ट्वा च कादम्बरीविरहोत्कण्ठोद्वेगदूयमानो1़पि सुचिरं जहास । न्यवारयच्च तेन सार्धं संरब्धकलहानुपहसतः स्वसैनिकान् । उपसान्त्वनैश्च कथमपि प्रियालापशतानुनयैः प्रशममुपनीय, क्रमेणजन्मभूमिं जातिं विद्यां च कलत्रमपत्यानि विभवं वयःप्रमाणं प्रव्रज्यायाश्च कारणं स्वयमेव पप्रच्छ । पृष्टश्चासाववर्णयदात्मानम् । अतीतस्वशौर्यरूपविभववर्णनवाचालेन तेन सुतरामरज्यत राजपुत्रः । विरहातुरहृदयस्य तच्चरितं विनोदनतामिवागात् । उपजातपरिचयश्चास्मै ताम्बूलमदापयत् ॥
अस्तमुपगते च भगवति संप्तंसप्तो, शितितललुठनपांसुलसटाबधूननुमितोत्साहेषु पीतोदकेषु स्त्रानाद्रपृष्ठतया विगतश्रमेषु पुरोनिखातकुन्तयष्टिषु संयतेषु वाजिषु, चन्द्रापीडः परिजनेनैकदेशे संयतस्यैन्द्रासयुधस्य पुरः परिकल्पितं प्रतीहारनिवेदितं शयनीयमगात् । निषण्णस्य चास्य तत्क्षणमेव पस्पर्श
दुःखासिका हृदयम् । अरतिगृहीतश्च विसर्जयांगभूव राजलोकम् । अतिवल्लभानपि नाललापपार्श्वस्थान् । निमीलितलोचनो मुहुर्मुहुर्मनसया जगाम किंपुरूषविषयम् । अनन्यचेताः सस्मार हेमकूटस्य । निष्कारणबान्धवतामचिन्तयन्महाश्वेताप्रसादानाम् । जीवितफलमभिललाष पुनः पुनः कादग्बरीदर्शनम् । अपगताभिमानपेशलाय नितरामस्पृहयन्मदलेखापरिचयाय । तमालिकां द्रष्टुमाचकाङ्क्ष । केयूरकागमनमुत्प्रैक्षत
। हिमगृहकमपश्यत् । उष्णमायतं पुनुरुक्तं निशश्वास । बबन्ध चाधिकां प्रीतिं शेषहोर । पश्चात्स्थितां प्रण्यभागिनीममन्यत पत्रलेखाम् । एवं चानुपजातनिद्र एव तामनयन्निशाम् । उषसि चोत्थसाय, तस्य उरद्द्रविडधार्मिकस्यैव्च्छया निसृष्टैर्धनविसरैः पूरयित्वा मनोरथमभिमतम्, अभिरमणीयेषु प्रदेशेषु निवसन्, अल्पैरेवाहोभिरुज्जयिनीमाजगाम् ॥
आकस्मिकागमनप्रहृष्टसंभ्रान्तानां पौराणां नमस्काराञ्जलिसहस्त्राणि प्रतीच्छन, अतर्कित एव विवेश नगरीम् । अहमहमिकया च प्रधावितादतिरभसहर्षरसविह्वलात्परिजनात् “द्वारि देव, चन्द्रापीडो वर्तते’इत्यपुलभ्य, अस्य पिता प्रहर्षनेत्रजलबिन्दुवर्षी, प्रत्यासन्नवर्तिभिः प्रतिपन्नासिवेत्रच्छत्त्नकेतुचामरैरनुगम्यमासनो राजसहस्त्रैः, चरणाभ्यामेव प्रत्युज्जागाम । दृष्ट्वा च पितरम्, दूरादेवावतीर्य वाजिनः, चूडामणिमरीचिमालिना मौलिना महीमगच्छत् । अथ प्रसारितभुजेन “एह्मेहि’ इत्याहूय पित्रा सुचिरं गाढमुपगूढः, तत्कालसंनिहितानां च माननीयानां कृतनमस्कारः करे गृहीत्वा विलासवतीभवनमनीयत राज्ञा । तयापि तथैव सर्वान्तःपुरपरिवारया प्रत्युद्गम्याभिनन्दितागमनः, कृतागमनमङ्गलाचारः, दिग्विजयसंवद्धाभिरेव कथाभिः कंचित्कालं स्थित्वा शुकनासं द्रष्टुमाययौ । तत्राप्यमुनैव क्रमेण सुचिरं स्थित्वा, निवेद्य वैशम्पायनं स्कन्धावारवर्तिनं कुशलिनम्, आलोक्य च मनोरमाम्, आगत्य विलासवतीभवनएव सर्वाः स्त्रानादिकाः परवश एव क्रिया निरवर्तयत् । अपराह्णेनिजमेव भवनमयासीत् । तत्र च रणरणकखिद्यमानमानसः, कादमृबर्या विना न केवलमातृमानं स्वभवनमवन्तिनगरं सकलमेव महीमण्डलं शून्यममन्यत । ततो गन्धर्वराजपुत्रीवार्ताश्रवणोत्सुकश्च महोत्सवमिवेप्सितवरप्राप्तिकालमिव पत्रलेखागमनं प्रत्यपालयत् ॥
ततः कतिपयदिवसापगमे मेघनादः पत्रलेखामादायगच्छत् । उपनयच्चैनाम् । कृतनमस्कारां च दूरादेव स्मितेन प्रकाशितप्रीतिश्चन्द्रा?पीडः, प्रकृतिवल्लभामपि कादमृबरीसकाशात्प्रसादलब्धापरसौभाग्यामिव वल्लभतरतामुपागतामुत्थायातिशयदर्शितादरमालिलिङ्ग पत्रलेखाम् । मेघनादं चप्रणतं पृष्टे करकिसलयेन पस्पर्श । समुपविष्टश्चाब्रवीत्—-““पत्रलेखे, कथय—तत्रभवत्या महाश्वेतायाः समदलेखाया देव्याः कादम्बर्याश्च कुशलम् ? कुशली वा सकलस्तमालिकाकेयूरकादिः परिजनः?‘‘इति । साब्रतीत्—- “देव, यथाज्ञापयसि, भद्रम् । त्वामर्चयति शेखरीकृताञ्जलिना ससखीजना सपरिजना देवी कादमृबरी ’ इत्येवमुक्तवतीं पत्रलेखामादाय, मन्दिराभ्यन्तरं विसर्जितराजलरोको विवेश । तत्र चोत्ताम्यता मनसा धारयितुमपारयन्मकुतूहलमति?प्रीत्या, दूरमुत्सारितपरिजनः प्रविश्य, कस्यचित्पत्रमण्डपस्य तले चरणारिवन्देन समुत्सार्य सुखप्रसुप्तं हंसमिथुनमुपविश्याप्राक्षीत्—- ““पत्रलेखे, कथय—-कथमसि स्थिता ? कियन्ति वा दिनानि? कीदृशो वा देवीप्रसादः? का वा गोष्ठयः समभवन् ? कीदृश्यो वा कथाः समजायन्त? कोवातिशयेनास्मन्स्मरति? कस्य वा गरीयसी प्रीतिः?‘‘इत्येवं पृष्टा च व्यजिज्ञपत्—‘‘देव, दत्तावधानेन श्रूयमाम्—-
ततः खल्वगते देवे, केयूरकेण सह प्रतिनिवृतृयाहं तथैव कुसुमशयनीयसमीपे समुपाविशम् । अतिष्ठं च सुखं नवनवाननुभवन्तीदेवीप्रसादान् । किं बहुना । प्रायेण मम चक्षुषि चक्षुः, वपुषि वपुः, करे करपल्लवः, नामाक्षरेषु वाणी, प्रीतौ हृदयम्, देव्याः सकलमेव तं दिवसमभवत् । अपराह्णे च मामेवावलम्बय, निष्कम्य हिमगह्वकात्, संचरन्ती यदृच्छया निषिद्धपरिजना वल्लभबालोद्यानं जगाम् । तत्र सुधावलां मरकतसोपानमालया प्रमदवनवेदिकामध्यारोहत् ॥
अथ मया विदिताभिप्रायया “आज्ञापय’ इति विज्ञापिते, निजावयवैरपि वेपथुद्भिर्निवार्यमाणेव, रहस्यश्रवणलज्जयात्मप्रतिमाभपि लिखितमणिकट्टिमेन चरणाङ्गष्ठेनापक्रमायेवामृशन्ती,
वनदेवताश्रणशङ्कितेव मुहुर्मुरितस्ततो विलोकयन्ती, वक्तुकामापि न शक्रोति स्म किंचिदपि लज्जाकलितग्ददा गदितुम् । केवलं दुःखसहस्त्रगणनायं मुक्ताक्षमालिकामिव कल्पयन्ती गलद्भिरस्पृष्टकपोलस्थलैः शुचिभिरधोमुखी नयनजलबिन्दुभिर्दुनमदर्शयतृ । तदा च तस्याः सकाशादशिक्षतेव लज्जापि लज्जालीलाम्, विनयोऽपि विनयातिशयम्, मुग्धतापि मुग्धताम्, वेदग्ध्यमपि वैदग्ध्यम्, भयमपि भीरुताम्, विलासोऽपि विलासम् । तथाभूता च “देवि, किमिदम्’ इति विज्ञापिती मया, प्रमृज्य लोहितायमानोदरे लोचेन, वेदिकाकुसुमपालिकाग्रथितकुसुममालामवलम्बय, समुन्नतैकभुलताव मृत्युमार्गमिवालोकयन्ती, दीर्धमुष्णं च निःश्वसितवती । तद्दुःखकारणमुत्प्रेक्षमाणया च कथनाय पुनःपुनरनुबध्यमाना मया, व्रीडया नखमुखलिखितकेतकीदला लिखित्वेव बक्तव्यमर्पयन्ती, विवक्षास्फुरिताधरा क्षितितलनिहितनिश्चलनयना सुचिरमतिष्ठत् ॥
क्रमेण च भूयो मन्मुखे निधाय दृष्टिम्, कथमपि व्याहराभिमुखमात्मानकरोत् । अब्रवरच्च माम्—““पत्रलेखे, वल्लभतया तस्मिन्स्थाने न तातः, नाम्बा, न महाश्वेता, न मदलेखा, न जीवितम्, यत्र मे भवती । दर्शनात्प्रभृति प्रियासि । न जाते, केनापि कारणेनापहस्तितसकलसखीजनं त्वयि विश्वसिति मे हृदयम् । कमपरमुपालभे । कस्व वान्यस्य कथयामि परिभवम् । केनं वान्येन सह साधारणीकरोमि दुःखम् । दुःखभारभिममसह्मं निवेद्यं भवत्यास्त्यक्ष्यामि जीवितम् । जीवितेनेव शपामि ते । स्वहृदयेनापि विदितवृत्तान्तेनामुना जिह्रेमि, किमुतापरहृदयेन । कथमिव मादृशी रजनिकरकिरणावदातं कौलीनेन कुलं कलङ्कयिष्यति । कुलक्रमागतां च लज्जां परिज्यक्ष्यति । अकन्यकोचिते वा चापले प्रवर्तयिष्यति । साहं न संकल्पिता पित्रा । न दत्ता मात्रा । नानुमोदिता गुरुभिः । न किंचित्संदिशाभि । न किंचित्प्रेषयामि । नाकारं दर्शयाभि । कातरेवानाथेव बलादवलिप्तेन गुरुगर्हणीयतां नीता कुमारेण चन्द्रापीडेना कथय, महतां किमयमाचारः? किं परिचयस्येदं फलम्? यदेवमभि नवविसकिसलयन्तुसुकुमारं मेनः परिभूयते । अपरिभवनीयो हि कुमारिकाजनो यूनाम् । प्रायेण प्रथमं मदनानलो लज्जां दहति, ततो हृदयम् । आदौ विनयादिकं कुसुमेषुशराः खण्डयन्ति, पश्चान्मर्माणि । तदामन्त्रये भवतीं नुनर्जन्मान्तरसमागमाय । न हि मेत्वत्तोऽन्या प्रियतरा । प्राणपरित्याग्रप्रायश्चित्ताचरणेन प्रक्षालयाम्यात्मनः कलङ्कम् ’’ इत्यभिधाय तूष्णीमभूत् ॥
अहं तु यत्सत्यमविदितवृत्तान्ततया ह्रीतेव भीतेव विलक्षेवविसंज्ञेव संविषादं विज्ञापितवती—-““देवि, श्रोतुमिच्छामि । आज्ञापय, किं कृतं देवेन चन्द्रापीडेन । को वापराधः समजनि । केन वा खल्वविनयेन खेदितमखेदनीयं देव्याः कुमुदकोमलं मनः । श्रुत्वा प्रथममुत्सृष्टजीवितायां मयि, पश्चातृसमुत्स्रक्ष्यसि जीवितम्’‘हत्येवमभिहिता च पुनरवदत्—-““आवेदयामि ते । अवहिता शृणु । स्वग्रेषु प्रतिदिवसमागत्यागत्य मे रहस्यसंदेशेषु निपुणघूर्पः पञ्जरशुकशारिका दूतीः करोति । सुप्तायाः श्रवणदन्तपत्रोदरेषु व्यर्थमनोरथमोहितमानसः संकेतस्थानानि लिखति । उपवनेष्वेकाकिन्या गूहणभयपलायमानायाः पल्लवलग्रांशुकदशाप्रतिहतगमनाया मिथ्याप्रगल्भः पराङ्मुख्याः परिष्वङ्गमाचरति । शीतलैर्मुखमरुद्भिः श्रमलशीकरतारकितावलीकचाटुकारः कपौलौ वीजयति । भवनाशोकताडनोद्यतान्पादप्रहारान्दुर्बुद्धिविडमिृबतः शिरसा प्रतीचछति । मन्मथमूढमानसश्च कथय, हे पत्रलेखे, केन प्रकारेण बश्चेतनो निषिध्यते । प्रत्याख्यानमपीर्ष्यां संभावयति । आक्रोशमपि परिहासमाकलयति । असंभाषणमपि मानं मन्यते । दोषसंकीर्तिनमपि स्मरणोपायमवगच्छति । अवज्ञानमप्यनियन्त्रणप्रणयमुत्प्रेक्षते । लोकापवादमपि यशो गणयति’’ इति ॥
तामेवंवादिनीमाकर्ण्य, प्रहर्षरसमिनिर्भरा विहस्याब्रबम्—-“देवि, यद्येवम्, उत्सृज कोपम् । प्रसीद । नार्हसि कामापराधैर्देवं दूषयितुम् ।
एतानि खलु कुसुमचापस्य चापलानि शठस्य न देवस्य’ इत्येवमुक्तवतीं मां पुनः सकुतूहला सा प्रत्यभाषत—“योऽयं कामः, कोऽपि वा, कथय, कानि कान्यस्य रूपाणि ’ इति । तामहं व्यजिज्ञपम्—
““देवि, कुतोऽस्य रूपम् । अतनुरेष हुताशनः । तथा हि—-अपग्रकाशयन् ज्वालावलीः संतापं जनयति ।
अप्रकटयन्धूमपटलमश्रु पातयति । न च तद्भूतमेतावति त्रिभुवने, अस्य शरशरव्यतां यन्न यातं याति यास्यति वा । को वास्य भ्रश्यति । गृहीतकुसुमकार्मको बाणैर्बलवन्तमपि विध्यति । अपि चानेनाधिष्ठितानां कामिनीनां पश्यन्तीनां चिन्तया प्रियमुखचन्द्रसहस्त्राणि, संकटमम्बरतलम् । लिखन्तीनां दयिताकारान्, अविस्तीर्णं महीमण्डलम् । गणयन्तीनां वल्लभगुणान्, अल्पीयसी संख्या । शृण्वतीनां प्रियकथाम्, अवबहुभाषिणी सरस्वती । ध्यायन्तीनां प्राणसमसमागमशतानि, हूसीयान्कालो हृदयस्यापतीति ’’ इति ॥
एतादकर्ण्य च, क्षणं विचिन्या, प्रत्यवादीत्—-““पत्रलेखे, यथा कथयसि, तथा जनोऽयं कारितः कुमारे पक्षातं पञ्चेपुणा । यान्य स्यैतानि रूपाणि, संमधिकानि वा, तानि म??यि वर्तन्ते । हृदयादव्यतिरिक्तासि । इदानीं भवतीमेव पृच्छामि । उपदिश त्वम् , यदत्र मे सांप्रतम् । एवंविधानां वृत्तान्तामनभिज्ञास्मि । अवि च, मे गुरुजनवक्तव्यतां नीताया नितरां लज्जिताया जीवितान्मरणमेव श्रेयः पश्यति हृदयम्’’ इति ॥
एवंवादिनीं भूयस्तामहमेवमवोचम्— ““अलमलमिदानीं देवि, किमनेनाकारणमरणानुबन्धेन । अनाराधितप्रसन्नेन कुसुमशरेण भगवता ते वरो दत्तः । का चात्न गुरुजनवक्तव्यता? यदा खलु कन्यकां गुरुरिव पञ्चशरः सकल्पयति, मातेवानुमोदते, पितेवच ददाति, सखीवोत्कण्ठां जनयति, धात्रीव तरुणतायां रत्युषचारं शिक्ष्यति । कति वा कथयामि ते, याः स्वयं वृतवत्यः पतीम् । यदि च नैवम्, अनर्थका एव त?िर्ह धर्मशास्त्रोपदिष्टः स्वयंवरधिधिः । तत्प्रसीद । देवि, अलममुना मरणानुबन्धेन । शपे ते पादपङ्कजस्पर्शेन । संदिश, प्रेषय माम् । यामि, आनयामि देवि, ते हृदय?यितम् ’’ इति ॥
एवमुक्ते मया प्रीतिद्रर्वार्द्रया दृष्ट्या पिबन्तीव मां प्रहर्षविह्वलान्तः करणापि कान्यकाजनसहजां लज्जामिवाबलम्बय शनैरवदत्.—-““जानामि ते गरीयसीं प्रीतिम् । केवलमकठोरशिरीषपुष्पसृदुप्रकृते कुतः प्रागल्भ्यमेतावन्नारीजनस्य, विशेषतो बालभावभाजः कुमारीलोकस्य । मन्ये साहसकारिण्यस्ताः, याः सव्यं संदिशन्ति समुपसर्पंन्तिवा । स्वयं साहसं संदिशन्ती बाला जिह्रेमि । किं वा संदिशामि ? अतिप्रियोऽसीति, पौनरुक्त्यम् । अवाहं प्रियात्मेति, जडप्रभ्रः । त्वयि गरीयाननुराग इति, वेश्यालापः । त्वया विना न जीवामीति, अनुभवविरोधः । अवश्यमागन्तव्यमिति, सौभाग्यगर्वः । स्वयमागच्छामीति, स्त्रीचापलम् । अनन्यरक्तोऽयं परिजन इति, स्वभक्तिनिवेदनलाघवम् । प्रत्याख्यानशङ्कया न संदिशामीति, अप्रबुद्धबोभनम् ।
ज्ञास्यसि मरणेन प्रीतिमिति, असंभाव्यमेब ॥

इति कादमृबरीसंग्रहे पूर्वभागः समाप्तः ॥

 ?0.........\*.........  

*********************************************************************************

.

॥ श्रीः ॥

॥ का द म्ब री सं ग्र हः ॥

उत्तरभाग: ॥

अपि च, इदानीमानीतस्?या??पि कुमारस्?य नददाति तरलताल?ज्जिता लज्जैव दर्शनम् । अप्रतिपत्तिसाध्वसजडा जडतैव नोपसर्पति । बलात्तदानयनापराधीता भीतिरेव न सुमुखीभवति । अथ कथंचिद्गुरुजनत्रपया वा, राजकार्यानुरोधेन वा, पुनरागमनखेदृपरिजिहीर्षया वा, जन्मभूमिस्त्रेहेन वा, अनिच्छया वास्य जनस्योपरि, पादपतनेनापि नानेतुमेव पारितो यदा मयि स्त्रेहात्कृतप्रयत्नयापिं प्रियसख्या, तदा सुतरामेव न किंचित् किंचित् । किं वाधुनाभ्यधिकमुपजातम् ? सैवाहं कादम्बरी, यानेन कुमारेण हिमगृहे कुसुमस्तरावलम्बिनी वीक्षिता । तदेव चेदमप्रतिपत्तिशून्यं हतहृदयम्, येनान्तः प्रविष्टोऽपि न पारितो धारयितुम् । स एव चायं पाणिः, योऽलीकगुरुजनापेक्षी नात्मानं परिग्राहितवान् । अनपेक्षितपरपीडश्चन्द्रापीडोऽपि स एव, योऽत्र वारद्वयमागत्य प्रतिगतः । मय्येवोपक्षीणमार्गणतया चाकिंचित्करोऽन्यत्र पञ्चशरोऽपि स एव, यस्त्वयावेदितो मे॥
प्रतिज्ञातं च मया महाश्वेतायाः—- “त्वयि दुःखितायाम्, नाहमातृमनः प्राणिं ग्राहयिष्यामि’ इमि । सा तु “सखि, मैवं स्म मनसि करोः । कुमतिरियम् । अतिदारुणोऽयं पापकारी मकरकेतुः कदाचिददृश्यमाने प्रियजने, जनितहृदयानुरागो जीवितमप्यपहरति’ इत्यब्रवीत् । एतदपि नास्त्येव मे । मदनेन बा, दैवे वा, हृदयेन वा, अन्येन वा केनापि दत्तः संकल्पमयः कुमारो जनसंनिधावपि केनचिदविभाव्यमानः, सिद्ध इव सर्वदा मे ददाति दर्शनम् । अपि च, असाविव नायमकाण्डपरित्यागनिष्टुरहृदयः । अयमेवास्मद्विरकातरः । पश्यामि चाहर्निशमासीना उत्थिता भ्राम्यन्ती शयाना जाग्रती शयने मण्डपे उद्यानेषु क्रीडापर्वतके च यथा तं विप्रलम्भकं कुमारम्, ते तथा कथितमेव मया । तदलमनया तदानयनकथया’’ इत्यभिदधाना, पक्ष्माग्रसंपिण्डितनयजलर्षिणी, तथैव वेदिकाविताननाभिदामांशुकावलम्बिन्यां बाहुलतिकायामाननमुपवेश्य तूष्णीमुत्कीर्णेव तस्थौ ॥
अहं तु तच्छ्रुत्वा समचिन्तयम्— "” सत्यमेव गरीयः खलु जीवितालम्बनमिदम्, विनोदश्च वियोगिनीनाम्–यदुत संकल्पमयः प्रियः, नितरां कुलाङ्गनानां विशेषतः कुमारीणाम् । नैनमन्धकारराशिरन्तरयति । न जलधरधारापातः स्थगयति’’ इत्येवं चिन्तयन्त्या एव मे रक्ततामगाद्दिवसः॥
अत्रान्तरे चागत्य स्वं स्वं नियोगमशून्यं कुर्वाणाः दूरतो दीपिकाधारिण्यो बालिकाः पर्यवारयन् । अथ निर्मललावण्यलक्षितानि दीपिकाप्रतिबिम्बानि ज्वलितानि मदनसायकशल्यानीवाङ्गलग्रानि समुद्वहन्तीं तां पुनर्व्यजिज्ञपम्—-““देवि, प्रसीद । नार्हस्यखेदार्हा हृदयखेदकारिणं संतापमङ्गीकर्तुम् । संहर मन्युवेगम् ।
एषाहमादाय चन्द्रापीडमागतैव’‘इति । अथानेन देवनाग्रहणगर्भेण मद्वचसा विषापहरणमन्त्रेणेव विषमूर्च्छिता ज्ञटित्युन्मील्य नयने सस्पृहं मामवलोक्य “कः प्रदेशेऽस्मिन्’ इति परिजनमपृच्छत् ॥
अथ धवलवसनोल्लासितगात्रयष्टयो द्वारप्रदेशसंपिण्डिताङ्गयः कन्यकाः समधावन् । आज्ञाप्रतीक्षासु च तासु क्रमेण दृष्टिं पातयन्ती मरकतशिलातले न्यषीदत् । अब्रवीच्च—““पत्रलेखे, न खलु प्रियमिति ब्रवीमि । त्वामेव पश्यन्ती संधारयामि जीवितमहम् । तथापि यद्ययं ते ग्रहः, तत्सधय समीहितम्’‘इत्यभिधाय मां व्यसर्जयत् ॥
इत्यावेद्य च, किंचिदिव नमितमुखी शनैः पुनर्व्यजिज्ञपत्—-”” देव, प्रत्यग्रदेवीप्रसादातिशयाहितपागल्भ्या दुःखिता च विज्ञापयामि । देवेनाप्येतदवस्थां देवीं दूरीकुर्वता किमिदमापन्नवत्सलायाः स्वप्रकृतेरनुरूपं कृतम्’’ इति । चन्द्रापीडस्तु तथोपालम्भगर्भं विज्ञप्तः पत्रलेखया, तं च कादम्बर्याः साभ्यभ्यर्थनं च सनिर्वेदं च सानुरागं च सोपालम्भं च ललितमपि प्रौढमालापमाकर्ण्य, उत्प्रेक्ष्योत्प्रेक्ष्य च दुर्विषहदुःखबाष्पोपप्लुतायताक्षं तन्मुखम्, स्वभावधीरप्रकृति?रपि नितरां पर्याकुलोऽभवत् ॥
अथ कादम्बरीशरीरादिवालापपदैरेव सहागत्या युगपद्गृहतो हदये मन्युना, कण्ठे जीवितेन, चक्षुषि च बाष्पेण, तुल्यवृत्तिर्भूत्वा कादम्बर्याः, क्षरद्वाष्पविक्षेपपर्याकुलाक्षरमुच्चैः प्रत्युवाच—-““पत्रलेखे, किं करोमि ।
अनेन दुरात्मना दुःश्?िक्षितेन पण्डितंमन्येन अलीकधीरेणस्वयं कृतमिथ्याविकल्पशतसहस्त्रभरितेनाश्रद्दधानेन मूढहृदयेन, यद्यदेवानेकप्रकारं शृङ्गारनृत्ताचार्येण भगवता मनोभवेनान्तर्ग?तविकारावेदनाय मामुद्दिश्य बाला बलात्कार्यते तत्तदेवादृष्टपूर्वत्वारिद्दव्यकन्यकानां रूपानुरूपलीलासंभावनया च तावतो मनोरथस्याप्यात्मन उपर्यसंभावनया च सर्वं सहजमेवैतदस्या इति विकल्पसंशयदोलाधिरूढं मां ग्राहयता, एवमीदृंशस्य देव्या दुःखस्य तव चोपालम्भस्य हेतुतां नीतोऽस्मि । मन्ये च, ममापि मनोव्यामोहकारी कोपि शाप एवायम् । अन्यथा अप्रबुद्धबुद्धेरपि येषु न संदेह उपपद्यते, तेष्वपि स्फुटेषु मदनचिह्नेषु कथं मे धीर्व्यामुह्मेत् । तिष्ठन्त्वेव तावदतिसूक्ष्मतया दुर्विभाववृत्तीनि तानि स्मितावलोकितकथितविहृतलीलाज्जायितानि, यान्यन्यथापि संभवन्ति । चिरानुभूतात्मकण्ठसंसर्गसुभगं हारमिममकृतपुण्यस्य मे तत्क्षणमेव कण्ठे कारयन्त्या किमिव नावेदितम् । अपि च, हिमगृहकवृत्तान्तस्तु तवापि प्रत्यक्ष एव । तत्किमत्र प्रणयकोपाक्षिप्तयाप्यन्यथा व्याहृतं देव्या । सर्वं एवायं विपर्ययान्मम दोषः । तदधुना प्राणैरप्युपयुज्यमानस्तथा करोमि, यथा नेदृशमेकान्तनिष्टुरहृदयं जानाति मां देवी’‘इति ॥
एवं वदत्येव चन्द्रापीडे, अश्रावितैव प्रविश्य वेत्रहस्ता प्रतीहारी कृतप्रणामा व्यज्ञापयत्—- ““युवराज, एवं देवी विलासवती समादिशति—-कृतजल्पात्परिजनतः श्रुतं मया, यथा किल—-पृष्टतः स्थिताद्य पलेखात्र पुनः परागतेति । न च मे त्वय्यस्यां च किश्चदपि स्त्रेहस्य विशेषो विलसति । मयैवेयं संवर्धिता अवि च, तबापि कापि महती वेला वर्तते दृष्टस्य । तदनया सहित एवागच्छ । मनोरथशतलब्धमतिदुर्लभं ते मुखकमलाकोकनम्’’ इति ॥
चन्द्रापीडस्तु तदाकर्ण्य, चेतस्यकरोत्—-““अहो संदेहदोलारूढं मे जीवितम् । एवमम्बमम्बा निमेषमपि मामपश्यन्ती दुःखमास्ते । पत्रलेखामुखेन चैवमाज्ञापितमागमनाय मे निष्कारणवत्सलेन देवीप्रसादेन । आजन्मक्रमाहितो बलबाञ्जननीस्त्रेहः । वाञ्छाकुलं हृदयम् । अमोच्यं तातचरणशुश्रूषासुखम् । प्रमाथी मन्मथहतकः । हारिणी गुरुजनलालना । दुःसहान्युतृकण्ठितानि । कालातिपातासहं मनः । विप्रकृष्टमन्तरं हेमकूटविन्धाचलयोः ’’ इत्येवं चिन्तयन्नेब प्रतीहार्योषदिश्यमानबर्त्मा, पत्रलेखाकारावलमृबी, जननीसमीपमगात् । तत्रैव च तमनेकप्रकारजननीलालनसुखाचिन्तितदुर्विषहहृदयोत्कण्ठं दिवसमनयत् ॥
उपनतायां चात्मचिन्तायामिवान्धकारितदशदिशि शर्वर्याम्, शयनवर्ती निमीलितलोचनोऽप्यप्राप्तनिद्राविनोदः, मनसा सस्मारस्मरायतनभूतस्य कादम्बरीरूपस्य । उत्पन्नात्मीयबुद्धिश्च निर्भरस्त्रेहार्द्रचेचेताः, त एव वासरादारभ्य तां प्रत गृहीतरक्षापरिकर इव, यतो यत एव मण्डलितकुमुमकार्मुकं मकरध्वजमस्यां प्रहरन्तमालोकितवान्, ततस्तत एवात्मानमन्तरेऽर्पितवान् । सह्मे हृदयेन वेदना न वेति तद्वार्तां प्रष्टुक्तेन मनसा शुन्यतामधार्षीत् । तत्प्रतिवार्ताकर्णनायेव च गृहीतमौनः सर्वदेवातिष्ठत् । तदाननालोकनान्तरितमिव सर्वमेव नाद्राक्षीत् । भावावगमभीत्येव यथापूर्वं न कस्यचिद्दर्शनमदात् । अनवरतमुक्तज्वालेन मदनहुतभुजान्तर्दह्ममानोऽपि गुरुजनत्रपया न सद्यः समुद्धृतार्द्रारविन्दशयनमभजत । नाश्यानहरिचन्दनरसचर्चामप्या चरणाददापयत् ॥
एवमेव केवले रात्रौ दिवा चाकृतनिर्वृतिः, निष्प्रतिक्रियया अतिविसंष्टुलेनायास्यामानोऽपि मनसिजेन, आकारमेव लाकारमेव लोकलोचनेभ्योऽरक्षत् ; न कुसुमशरसायेभ्यो जीवितम् । तनोरेव तानवमङ्गीचकार; न लज्जायाः । शरीरस्थितावेवानादरं कृतवान् ; न कुलक्रमस्थितौ । सुखमेवावधीरयामास; न धैर्यम् । एवं चास्य गम्भीरप्रकृतेः सरित्पतेरिव चन्द्रमसा सुदूरमुल्लास्यमानस्यापि मर्यादावशादात्मानं स्तम्भयतः, कथंकथपि
कतिपयेष्वतिक्रान्तेषु वासरेषु, एकदा निर्गत्य बहिर्नगर्याः, सिप्रातटान्यनुसरन्नातिदूरमिव चरणाभ्यामेव बभ्राम । भ्राम्यंश्च रुद्रतनयायतनम्, रयेणागच्छतः सावष्टम्भया गत्या, स्खलतोऽपि पततोऽपि यशाशक्ति सादिभिरुत्पीडितान्, निःसहतया दूरागमनखेदम् अतित्वरया आगमनकार्यगौरवमावेदयतो दूरादेवातिबहूनिव तुरंगमानद्राक्षीत् । आत्मनाप्यूरुदध्रेन पयसोत्तीर्य सिप्राम्, तस्मिन्नवे भगवतः कार्तिकेयस्यायतने तत्प्रतिवार्तां प्रतिपालयन्नतिष्ठत् ॥
तत्रस्थश्च कुतूलात्तस्मिन्नेव वाजिबृन्दे निक्षिप्तदृष्टिः, पार्श्वस्थितां हस्तेनाकृष्य पत्रलेखामवादीत्—-
““पत्रलेखे, पश्य, य एष पुर एव मयूरपिच्छमय्या छत्रिकया दुर्विभाववदनोऽश्ववारः, ज्ञायते केयूरकोऽयम्’’ इति । यावत्तया सहैवं निरूपयत्येव, तावत्तस्मात्प्रहितपुरुषादुपलब्धात्मावस्थानम् , विषादशून्येन मुखेनान्तर्दुःखसंभारपिशुनया च दृष्ट्या दूरत एवापृष्टामपि कष्टां कादमृबरीसमवस्थामनक्षरमावेदयन्ते केयूरकमद्राक्षीत् । दृष्ट्वा च दर्शितप्रीतिः “एह्मेहि’ इत्याहूय परिष्वज्य, पुनः सस्पृहमालोक्य, केयूरकमवादीत्— "” केयूरक, त्वद्दर्शनेनैव भद्रं देव्याः सपरिवाराया इत्येतदावोदितम् । आगमनकारणमपि विश्चान्तः सुखितः कथयिष्यसि ’’ इत्युक्त्वा करिणीमारुह्म, “कुतोऽस्य जनस्य सुखिता इत्याभिदधानमेव केयूरकं पृष्टतः पत्रलेखां चारोप्य, स्वभवनमयासीत् । तत्र च निषिद्धाशेषराजलोकप्रवेशः, प्रविश्य वल्लभोद्यानम्, सपरिवारेण केयूरकेण सहोत्ताम्यता चेतस अचेतितमेव दिवसकरणीयं निर्वर्तयामास । निर्वर्त्य च पत्रलेखाद्वितीयः केयूरकमाहूयाब्रवीत्—-“केयूरक, कथय देव्या3 कादम्बर्याः समदलेखाया महाश्वेतायाश्च संदेशम्’ ॥
इतृयभिहितवति चन्द्रापीडे, पुरः सप्रश्रयमुपविश्य, केयूरकोऽप्यगादीत्—- "” देव, किं विज्ञापयामि । नास्ति मयि संदेशलवोऽपि देव्या कादम्बर्याः, समदलेखाया महाश्वेताया वा । यदैव पत्रलेखां मेधनादाय समर्प्य, आगतेन प्रतिनिवृत्य मयायं देवस्योज्जयिनीगमनवृत्तान्तो निवेदितः, तदैवोर्ध्वं विलोक्य दीधर्ममुष्णं च निश्वस्य, सनिर्वेदम् “एवमेतत्’ इत्युक्त्वोत्थाय, महाश्वेता पुनस्तपसे स्वमेवाश्रमपदमाजगाम् । देव्यपि कादमृबरी झटिति हृदये द्रुघणेनेवाभिइता, उन्मुक्तेव चान्तःकरणेन, अविदितमहाश्वेतोगमनवृत्तान्ता, चिरमिव स्थित्वा “महाश्वेतायाः कथय ’ इति सासूयमिव मामादिश्य, मदलेखायां पुनर्वलितमुखी, सविलक्षस्मितम् “मदलेखे, अस्ति केनचिदपरेणैतत्कृतं करिष्यते वा, यत्कुमारेण चन्द्रापीडेन’इत्येवमभिदधती, उत्थाय शयनीये निपत्य, उत्तरवाससोत्तमाङ्गमवगुण्ठय, निर्विशेषहृदयवेदनां मदलेखामप्यनालपन्ती, सकलमेव तं दिवसमस्थात् । अपरेद्युश्च प्रातरेवोपसृतं माम् "” एवं दृढतंरशरीरेषु ध्रियमाणेष्वेव भवत्सु, अहमीदृशीमशीमवस्थामनुभवामि’’ इत्युपालभमोनव चिरमालोकितवती । तथा दृष्टश्च दुःखिमया देव्या, आदिष्टमेव गमनायत्मानं मन्यमानोऽहम्, अनिवेद्यव देव्यै, देवपादमूलमुपागतोऽस्मि । तच्च देवैकशरणजनजीवितपरित्राणाकुलमतेः केयूरकस्य विज्ञापनाकर्णनावधानदानेन प्रसादं कर्तुमर्हति देवः । देव, श्रूयताम्—- यदैव ते प्रथमागमनेनामोदिना मलयानिलेनेव चलितं समस्तमेवतत्कन्यकालतावनम्, तदैव सकलभुवनमनोभिरामं भवन्तमालोक्य समारूढान्मकरकेतनस्ताम् । इदानीं तु महान्तमायासमनुभवति त्वदर्थे कादमृबरी । चित्र चेदम् । मक?रकेतुहुतभुजा दह्ममानमप्यग्रिशैचमंशुकमिव नितरां निर्मलीभवति लावण्यम् । मन्ये च, मृदुस्वभावमपि जलमिव मुक्ताफलतामुपगं कठिनीभवत्युत्कण्ठितं हृदयवल्लभजनसंगमाशा , यत्तथाविधमप्यनुभवेदनाविह्वलितप्राणमतिकष्टं प्राण्यते । किं करोमि । कथय, कथं कथ्यते, कया युक्तया प्रकाश्यते, कतमया वेदनयोपमीयते बलवती तदुत्कण्ठा । स्वग्रेषु विगलितवेदनाः स्फुटं प्राणिनः, प्रतिदिनं दृश्यमानोऽ यन्न पश्यसि तामीदृशीमवस्थाम् । प्रण्डकिरणकिरणसहस्त्रातपसहानि कमलानि शयनीकृतानि म्लानिमुपनयत्या दिवसकरमूर्तिरपि निर्जिता तया निजोष्मणा । मुहुर्लतामण्डपमधिवसति । मुहुः स्थलनलिनीवनमधिशेते । मुहुरुपवनसरोजलमवगाहते । तस्मादुत्थाय तमालवीथीमुपैति । एवंप्रायैश्च मदनदुश्चेष्टितायासैः परिणाममुपैति दिवसः ॥
चन्द्रोदये चास्यास्तिमिरयीवापैति धृतिः । कमलमयमिवदूयते हृदयम् । कुमुदमय इव विजृमृभते मकरकेतनः । चन्द्रकान्तमयमिव प्रक्षरति नयनयुगलम् । न विज्ञायते, किं मुग्धतया, किमुन्मादेन, संगीतकमृदङ्गध्वनितेषु केकाशङ्कया धारागृहमरकतमणिमयूरमुखानि स्थगयति । विसावसानेषु विश्लोषभीता मृणालसूत्रैश्चत्रभित्तिविलिखितानि चक्रवाकमिथुनानि संघटयति ॥
अपि च, तस्याश्चन्दनपरिमल इव दक्षिणानिलेन सह समागच्छति मोहः । प्रतिरुतानवि वलभीकपोतकूजितैः सइहाविर्भवन्ति दुःखानि । तथा च जलकणिकेव पह्मिनीपलाशस्थिता कम्पते । नलिनीव शशिकरस्पर्शेन म्लायति । चन्द्रमूर्तिरिव कमलप्रकस्स्खलितपादपल्लवा संचरन्ती निशां नयति । ?कुगुदिनीच रजनिकरकिरणकृतप्रजागरा दिवसमलीकनिद्रयातिवाहयति । किं बहुना । संप्रति तस्याः, त्वन्नामा
सर्वसखीजनः, त्वद्वृत्तान्तमुखरः परिजनः, त्वदालापनिर्मिताः सर्वविनोदाः, त्वदाकारमयश्चित्रकलाभ्यासः, त्वदुपालम्भगर्भा मागधीमङ्गलगीतयः, त्वद्दश्रनपुनरुक्ताः स्वप्राः, त्वन्नामग्रहणैकोपयागम्यप्रबोधा मोहमहावेगाः’‘इत्यावेदयन्तकं केयूरकं “भवतु, संप्रति न शक्रोम्यतः परं श्रीतुम्’ इति आमीलनाद्दत्तसंज्ञेव चन्द्राषीडमाक्रामन्ती मूर्च्छा न्यवारयत् ; न तु पुनरवस्थनिवेदनपरिसमाप्तिः ॥
तथा मूर्च्छानिमीलितश्च तामेवानुध्यायन्निव ससंभ्रमप्रतिपन्नशरीरेण केयूरकेण संभाविततालवृन्तया च पत्रलेखयानुभाव्यार्थसज्जया च नियत्या संज्ञां लम्भितश्चन्दापीडः, स्वकृतपीडापराधेनभीतमिव लज्जितमिव निभृतस्थितं केयूरकमन्तर्बाष्पोपरुध्यमानकण्ठः कथमपि स्खलिताक्षरं प्रत्युवाच—”” केयूरक, येन प्रकारेणैवमेकान्तनिष्टुरहृदयमात्मन्मन्यनुत्पन्नानुरागमेव मां संभाव्य देव्या कादम्बर्यादूरीकृतपुनर्भमदागमनसंभावनया न त्वमागमनायादिष्टः, न संदिष्टं वा किं चिन्महाश्वेतया समुपहृतानुबन्धया, मदलेखया वा त्पन्मुखेन नोपालब्धोऽस्मि, तथा मयि पत्रलेखया सर्वमाख्यातम् । तदभिजाततया दक्षिणतया चात्मानमातृमना । न कलयति देवी कादमृबरी । चन्द्रमूर्तेरालोकेन निश्चेतनस्य चन्द्रकान्ताख्यस्य पाषाणखण्डस्यार्द्रभावेपगमनमेवायत्तम्, न पुनस्ततृकराकर्षणम् । तत्र देव्याः कादम्बर्या एवाज्ञापराधिनी, ययाधरस्पन्दितमात्रप्रतीक्षे पुरः स्थायिनि दासजने निष्करुणतयात्मानमव्यापारयन्त्या परहृदयपीडासनपेक्षिणी लज्जापेक्षिता, न जीवितसंहदायिनी देव्याः समवस्था । अथवा देव्याः परिजनस्यापि कोऽयमेवंविधो व्यामोहः; यदनिच्छन्त्यपि बलादसौ न व्यापारिता । कीद्दशी चरणतल्प्रतिबद्धस्य दासजनस्योपरि लज्जा । कीदृशं वा गौरवम् । अथवा क्रमागतमन्तर्धानं वामलोचनानाम्, विशेषतः कन्यकानाम् । लज्जा न पारिता नामास्मिञ्जने स्वयं परित्यक्तुं देव्या । मदलेखा तु द्वितीयं हृदयमस्याः । तया किमेवमहार्यसंयमधनैर्भुनिभिरप्यरक्षितहृदयापहारेणणअनिग्राह्मचौरण कामेन दुरात्मनायास्यमानं देवीशरीरमुपेक्षितम् । किमिति तत्रस्थस्यैव मे कर्णे नावेदितम् । अधुना श्रुत्वापि दिवसक्रमगम्येऽध्वनि किं करोमि । यथा चास्य हतविधेः सर्वतो विसंष्टुलं समारमृभं पश्यामि, तथा जानामि– नैवायमेतावता स्थास्यतीति । अन्यथा क्?कनिष्प्रयोजनाश्वमुखभिथुनानुसरणेनामानषभूमिगमनम् । क्क च तत्र तृषितस्याच्छोददर्शनम् । क्क तत्तीरे विश्रान्तस्यामानुषगीतध्वनेराकर्णनम् । क्क तज्जिज्ञासागतस्य महाश्वेतालोकनम् । क्क महाश्वेतया सह हेमकूटगमनम् । क्क तत्र देवीवदनदर्शनम् । क्क वा अपरिपूर्णमनोरथस्य मे पितुरलङ्घर्नाया आगमनाज्ञा । तत्सुदूरमारोप्य पातिता वयं खल्वनेनाकार्यकारिणा दग्धवेधसा । तथापि देवीं संभावयितुं प्रयतामहे’’ ॥
इत्यभिदधत्येव चन्द्रापीडे, भगवांस्तिग्मदीधितिः संजहार करसहस्त्रम् । अथ भगवति चन्द्रमसि उदयगिरिशिखरमारूढे, चन्द्रापीडस्तस्मिन्नवे वल्लभोद्याने चन्द्रमणिशिलातले विमुच्याङ्गानि, चरणसंवाहनोपसृतं केयूरकमवादीत्—– "” केयूरक, किमाकलयसि । यावद्वयं परापतामः, तावत्प्राणान्संधारयिष्यति वा देवी कादग्बरी । आगमिष्यति वा पुनस्तत्समाश्वासनाय महाश्वेता । द्रक्ष्यामि वा पुनस्तस्याः समुत्रस्तहरिणशाबकायताक्षं मुखम् ॥ ’’ इति ॥
एवं वदन्, तमादिदेश विश्रान्तये केयूरकम् । आत्मनापि गमनचिन्तां प्राविशत्— ““यदि तावदकथयत्वा अनिपस्य चरणयोरगृहीताशीः सहसानुत्संकलित एव तातेनाम्बया यावक्रम्य गच्छामि, ततो गतस्यापि मम कुतो वा फलावाप्तिः, कीदृशी वा हृदयनिर्वृतिः । अथवा तिष्ठतु तावदियमुत्तरकालागामिनी चिन्ता । अपक्रमृय गत एव कथमहम् । तातेन स्वभुजादवरोप्य मय्येव राज्यभारः समारोपितः । तदनाख्याय पदमपि निर्याते मयि, अवश्यं सेवापरा राजानः, सुखपरिभुक्ताः प्रजा अपि, पृष्ठतो लगन्तीति मे चेतसि । अपि च, तातस्यापि कोऽपरोऽस्ति, यस्मिन्मदीयं स्त्रंहं संक्रमय्य, मय्यपक्रान्ते, “यातु किमनेन गतेनागतेन वा’ इत्यविनयकोपितोऽवष्टम्भं कृत्वा स्थास्यति । ताते च पृष्टतो लग्रे, अष्टाशदशद्वीपमालिनी मेदिन्येव लग्रा भवति । तदा मया क्क गतम् । क्क स्थितम् । क्क विश्रान्तम् । क्क भुक्तम् । क्वात्मा मया गोपायितव्यः । समासादितेन वात्र कथं मया वदनं दर्शयितव्यम् । पृष्टेन वा किमुत्तरं दातव्यम् । अपि च, सुबहुदिबसप्रवासवोपतप्तः स्कन्धावारोऽपि मेऽद्यापि न परापतति । तेनापरसंविधानादर्शपथादेव निवृत्य
पुनर्धावितव्यम् । अथावेद्य तातस्याम्बायाश्च, ताभ्यां च विसर्जितः, संविधानेन गच्छामि । तत्रापि किं कथयामि— मम स्त्रेहेन गन्धर्वराजपुत्री कादम्बरी दुःखं तिष्ठतीति; किं वा बलवान्मे तस्यामनुरागः, नानया विनाहं प्राणान्संधारयामीति । अपरोऽपि वा कश्चिद्व्यपदेशो न शक्यत एव पुनर्गमनाय कर्तुम् । अकथयितृवा च गमनकारणम्, कथमात्मानं मोचयामि । कथं वा मुञ्चतु तातोऽम्बा वा । तत्सुहृत्साध्येऽस्मिन्नर्थेऽनर्थपतितः किं करोम्येकाकी । वैशम्पायनोऽप्यसंनिहितः पार्श्वे मे । कंपृच्छामि । केन सह निरूपयामि । को मे समुपदिशतु । को वापरो मयि दु3खिते दुःखी, सुखिते । को वापरो मयानुकोपितं तातमम्बां च परिबोध्य मां नेतुं समर्थः ’’ इति ॥
एबं चिन्तयत एवास्य सा क्षपा दुःखदीर्घापि क्षयमगमत् । प्रातरेव च किंवदन्तीं शुश्राव, यथा किलः— दशपुरं यात्परागतः स्कन्धावार इति । तां च श्रुत्वा, समुच्छ्वसितचेताश्चकार चेतसि—- “अहो धन्योऽस्मि, अहो विधेर्भगवतोऽनुग्राह्मोऽस्मि, यस्य मेऽनुध्यानानन्तरमेव परागतो द्वितीयं हृदयं वैशम्पायनः’ इति । प्रहर्षपरवशश्च प्रविशन्तमालोक्य दूरत एव कृतप्रणामं केयूरकमवादीत्—- “केयूरक, करतलवर्तिनीं सिद्धिमधुना सिद्धिमधुनावधारय । प्राप्तो वैशम्पायनः’इति ।
स तु तदाकर्ण्य, गमनपवरिलम्बकृतया चिन्तायान्तःशून्य एव “भद्रकमातितम् । महती हृदयनिर्वृतिर्देवस्य जाता’ इत्यभिदधदेवोपसृत्योपश्यि, चन्द्रापीडं व्यज्ञापयत्—- "” देव, उपश्रितपाण्डुच्छविः प्राचीवच चन्द्रोदयमवस्थैवेयमावेदयति निःसंशयं देवस्य गमनम् । अवश्यं च देवस्य देवीप्राप्त्या भवितव्यम् । केन कदा वावलोकिलो ज्योत्स्त्रारतिश्चन्द्रमाः । किं तु यावद्वैशम्पायनः परापतति, यावच्च तेन सह गमनसंविधानं निरूपयिति देवः, तावदवश्यं कालक्षेपेण भाव्यम् । यादृशी चाकालक्षमा देव्याः शरीरावस्था, तादृशीनिवेदितैव मया । सर्वोऽपि प्रत्याशया धार्यते । देव्यास्तु पुनर्देवदर्शनेऽद्य यावन्निष्प्रतृयाशमेव हृदयं केनाश्वासनेन वर्तताम् । मद्वार्तोपलम्भदेततदुत्पत्स्यते चेतसि, यथा— “अस्ति कार्य मे जीवितेन । दुःखान्यपि सहन्ती धारयाम्येतत् ’ इति । अतो विज्ञापयामि । चेतसा त्वग्रतो गत एव देवः, शरीरेणाप्यनुपदमुच्चलित एव । किमपरं मयात्र स्थितेनापि साधनीयम् । तद्देवागमनोत्सवावेदनाय गमानानुज्ञया प्रसादं क्रियमाणमिच्छति मे प्रणयप्रसाददुर्ललितं हृदयमिदानीमेव ’’ ॥
इति विज्ञापिते केयूरकेणप, अन्तःपरितोषविकसितया दृष्टया दर्शितप्रसादश्चन्द्रापीडः प्रत्युवाच—- ““किमुच्यते । कस्यापरस्येदृशी देशकालज्ञता । को वापरोऽस्मास्वेवं निर्व्याजभक्तिः । तत्साधु चिन्तितम् । गम्यतां देव्याः प्राणसंधारणाय । मदागमनप्रत्ययार्थं च पत्रलेखाप्यग्रतस्त्वयेव सह यातु देवीपादमूलम् । इत्यमपि प्रसादभूमिरेव देव्याः ’’ इत्यभिधाय पृष्ठतः समुपविष्टाम् " एवं न? ’ इति पत्रलेखामप्राक्षीत् ॥
कृतप्रस्थितिनिश्चयायां च तस्याम्, मेधनादमाहूय सोपग्रहमादिदेश—”” मेघनाद, यस्यां भूमौ पत्रलेखानयनाय पूर्वं मया त्वं स्थापितः, तां भूमिं यावत्पत्रलेखामादाय केयूरकेण सहाग्रतो गच्छ । अहमपि वैशम्पायनमालोक्यानुपदमेव ते तुरङ्गमैः परगातः "” इत्यादिश्य, गमनप्रणामोत्थितं केयूरकं सस्त्रेहमाहूय परिष्वज्य च, आत्मकर्णादपनीय कर्णाभरणाम्, अस्य कर्णे कृत्वा, गद्गदिकागृह्ममाणाक्षरमवादीत्— "” केयूरक, त्वया तु मे देवीसंदेशो नानीति एव । तत्किं तव हस्ते तदनुरूपं प्रतिसंदिशाम्यपूर्वम् । विज्ञापयितव्या देवी । तत्रापि किमलीकलज्जाजालभारोद्वहनेन त्वामायासयाभि । यात्येव पत्रलेखा देवीपादमूलम् । इयं विज्ञापयिष्यति’’ इत्यभिदधदे, पत्रलेखां प्रणयेनाभिमुखो भूत्वा बद्धाञ्जलिरभाषत—-”” पत्रलेखें, साञ्जलिबन्धेन शिरसा प्रणम्य मदीयेन विज्ञाप्या देवी कादमृबरी—येन सर्वखलानां धुरि लेखनीयेन, तथा प्रथमदर्शनेऽपि वत्सलत्वात्स्वभावस्य दर्शितप्रसादातिशयां देवी प्रणामेनाप्यसंभाव्य आगच्छता, प्रज्ञा जडतया, गौरवं लघुतया, प्रियंवदता पारुष्येण, कृतज्ञया कृतघ्रतया, सर्वगुणा एव दोषैः परिवर्तिताः ; स कथमिवापरं गुणमवलम्बय पुनः परिग्रहाय विज्ञापयतु? केन चाङ्गीकरोतु देवी? तदेवमात्मना सर्वगुणहीनस्यापि मे देवीगुणा एवावलम्बनम् । इयमेव ते स्वभावसरसा दूरस्थमपि मदनहुतभुजा दह्ममानं रक्षत्येव सरलता । आनयत्येव स्थिरप्रतिज्ञता । संभावयत्येव महानुभावता । आलपत्येव प्रियवादिता । यच्च तथापि गतृवा निर्लज्जहृदयः पुनर्वदनदर्शनसाहसमङ्गीकरोमि, अत्रापि सत्प्रकृतयो देवीप्रसादा एव कारणम् । एते हि
उदारभावात् क्षणपरिचिता अपि सभारोपितजीवितप्रत्याशाः, न किंचिन्न कारयन्ति । शिक्षयन्ति सेवाचातुर्यम् । लज्जापसृतं हठादाकृष्योपसर्पयन्ति । यया वानपेक्षितगमनाज्ञया अनियेन्त्रणतृवात् “गतोऽहम्’ इति विज्ञप्तम्, सैव वाणी विज्ञापयति—-यथा च मे न निष्फलमागमनं भवति, जगद्वा शून्यम्, तिथा देव्यात्मसंधारणायात्मनैव यत्नः कार्यः ’’ इति संदिश्य पुनराह—– "” पत्रलेखे, त्वयापि यान्त्याध्वनि न मद्विरहपीडा भावनीया । न शीरसंस्कारेऽनादरः करणीयः । नाहारवेलातिक्रमणीया । न येन केनचिदज्ञातेन पथा यातव्यम् ।? किं करोमि । त्वन्तोऽपि मे वल्लभतरा देवीप्राणाः, येनैवमेकाकिनी तेषां संधारणाय विसर्जितासि । अपि च, मम जीवितमपि तवैव हस्ते वर्तते । तन्नियतं त्वयात्मा यत्रेन परिरक्षणीयः’’ इत्युक्त्वा, सस्त्रेहं परिष्वज्य, केयूरकं पुनस्तदवधानदानाय संविधाय, “महाश्वेताश्रमं यावत्पुनस्त्वयैव सहानाया मन्नयनायागन्तव्यम्’ इत्यादिश्च व्यसर्जयत् ॥
निर्गतायां च केयूरकेण सह पत्रलेखायाम्, “किं शीघ्रमेते यास्यन्ति नवेति, कियर्द्भिर्वा दिवसैः परापतिष्यन्ति ’ इत्यनयैव चिन्तया शून्यहृदयः क्षणामिव स्थित्वा, स्कन्धावारवार्तास्फटीकरणाय वार्ताहरं विसर्ज्य, वहुदिवसान्तरितदर्शनस्य वैशम्पायनस्य प्रत्युद्ग्रमनयातृमानं मोचयितुं पितुः पादमूलमगात् ॥
अथ तारापीडो दूरत एव कृतप्रणामं चन्द्रापीडमपरिसमाप्तावलोकनस्पृहेण चक्षुषा सुचिरमालोक्य, अस्योपारूढयौवनभराभिरामतराण्ङ्गप्रत्यङ्गानि पाणिना स्पृष्ट्वा, दर्शयञ्शुकनासमवादीत्—- "” शुकनास, पश्य, इयमायुष्मतश्चन्द्रापीडस्योपाहितपरभागा लक्ष्मच्छायेव चन्द्रमसः श्मश्रूराजिलेखा समन्तात्समुद्भिन्ना । विवाहमङ्गलयोग्यां दशामारूढोऽयम् । तद्देव्या विलासवत्या सह संमन्त्रय, साभिजनरूपा निरूप्यतां काचिज्जगति राजकन्यका । दृष्टं हि दुर्लभदर्शनं वत्सस्य वदनम् । संप्रति वधूमुखकमलदर्शनेनान्दयाम आत्मानम्’’ इत्युक्तवति तारापीडे, शुकनासः प्रत्युवाच—– "” साधुचिन्तितं देवेन । अनेन तु सहृदयेन हृदये समारोपिता एव सर्वविद्याः । स्वीकृता एव सर्वाः प्रजाः । ऊढैव चतुरुदधिमेखलाकलापभूषणा भूः । किमपरमवशिष्यते, येन न परिणीयते’‘इत्यभिहितवति शुकनासवे, लज्जावनम्रवदनश्चन्द्रापीडश्चकार चतसि—”” अहो संवादः ! येन मे कादम्बरीसमागमोपायचिन्तासमकालमेवेदृशी तातस्य बुद्धिरुत्पन्ना । तद्यदुच्यते— अन्धकारे प्रविष्टस्यालोकः, म्रियमाणस्योपर्यमृतवृष्टिरिति, तदेतदापतितं मयिं । सर्वथा वैशम्पायनदर्शनमात्रकान्तरिता वर्तते मे कादम्बरीप्राप्तिः’’ इत्येवं चिन्तयत्येव चन्द्रापीडे क्षितिपिरुत्तस्थौ । उत्थाय च तमेव समवलम्ब्यासदेशे, विलासवतीभवनमगमत् । गत्वा च ससंभ्रमकृताभ्युत्थानां विलासवतीमूर्घ्वस्थित एवावादीत्—- "” देवि पश्य, एषा वत्सस्य विजृम्भमाणा श्मश्रुराजिशोभा विवाहमङ्गलसंपादनायादिशति । त्वमपरं किमादिशसीति प्रष्टव्या । तदा?दिशतु देवी । कथ्यमानेऽपि, किमपरम्, अद्यापहरसि वदनमन्यतो व्रीडया । पृष्टा वा कर्तव्यं नाज्ञापयसि । वरमातासि संवृत्ता । जानामि, चन्द्रापीडस्योपर्यप्रीति?रेषा, यदेवमेतत्कार्येष्वनादरोऽवधींरणा च’’ इत्येवंविधैंर्नर्भप्रायैरालापैः सुखायमानचेताश्चिरमिव स्थित्वा, शरीरस्थितिसंपादनाय निरगात् ॥
चन्द्रापीडोऽपि शुकनासमुखेनैव वैशम्पायनप्रत्युद्गमनायात्मानं मोचयित्वा, जननीभवन एव निर्वर्तितशरीरस्थितिः, वैशम्पायनप्रत्युद्गमनसंविधानविनोदेनैव तं दिवसमनयत् ॥
अवतीर्णायां च तस्यां यामिन्याम्, सुहृद्दर्शनौत्सुक्येन शयनगतोऽपि जाग्रदेव समधिकमिव यामद्वयं स्थित्वा, सर्वतो दिवसबुद्धिमुत्पादयद्भिः वर्षद्भिरिव ज्योत्स्त्राप्रवाहं चन्द्रपादैर्द्विगुणीकृतगमनोतृसाहः, गमनसंज्ञाशङ्खनादायादिदेश ॥
अनन्तरं चोत्थाप्यमानैश्च उत्थितैश्च आरोप्यमाणपर्याणैश्च पर्याणितैश्च अपर्याप्तराजद्वराङ्गनैस्तुरंगमसहस्त्रैः, तत्क्षणं कुन्तवनमयभिवांन्तरिक्षम्, सुररवमयीव मेदिनी, हेषारवमयानीव श्रोत्रविवराण्यभवन् । अचिराच्च गृहीतसमायोगः, अङ्गनगतमिन्द्रायुधमारुह्म, बहुत्वात्तुरंगमबलस्य कृच्छ्रलब्धसंचारः, कथं कथमपि निर्जगाम नगर्याः । निर्गत्य चादूरत एव निर्भरत्वाज्जयोत्स्त्रापूरस्याच्छतया च दुर्विभावपानीयामुत्तीर्य सिप्राम्, अतिप्रहतत्वादसंकटत्वाच्च वर्धयतेव गमनोत्साहं दशपुरगामिना मार्गेण प्रावर्तत गन्तुम् ॥
अथोह्ममानैरिव रयवाहिना सकलदिङ्मुखप्रसृतेन ज्योत्स्नांजलस्त्रोतसा वाजिभिः, तावत्यैवापंररात्रवेलया योजनत्रिमयमलङ्घयत् । अथाध्वश्रमापहरणायेव प्रवृत्ते वातुमाह्लादकारिणि रजनिविरामपिशुने मातरिश्वनि, क्रमेण च प्रत्यग्रगगलक्ष्मीवियोगसंतापोज्झिते धवलोत्तरीयांशुक इव शशाङ्कलग्रे गलति चन्द्रिकालोके, अपरजलधिपातिना ज्योत्स्त्राजलप्रवाहेणेव सहसा फेनबुद्बुदावलीष्विव नश्यन्तीषु तारकापङ्क्तिषु, पुनर्विभाव्यमानसहजश्यामकान्तिषु सलिलादिवोन्भज्जत्सु तरुलताविटपेषु, तिरोधानकारिणीं नीलतिरस्करणीमिव करैरुत्सार्य तिमिरमालां विरहविधुरां कमलिनीमिवालोकयितुमुदयगिरिशिखरमारूढे भगवति सप्तलोकचक्षुषि सप्तवाहे, दृष्टिप्रसरक्षमायां वेलायाम्, सहसैवाग्रतोऽर्धगव्यूतिमात्र एव रात्रिप्रयाणकायातम् , आयासितायतरदृष्टिभिरप्यदृष्टपर्यन्तम् संचारिणं द्वितीयमिव मेदिनीसंनिवेशम्, स्कन्धावारमद्राक्षीत् ॥
दृष्ट्वा च “अहो भद्रकं भवति, यद्यचिन्तितागमन एव प्रश्यि वैशम्पायनं पयाभि’ इत्येवं चिन्तयित्वा मूर्धानमावृत्योत्तरीयेणप, रयविशेषग्राहिणेन्द्रायुधेन स्कन्धावारमाससारद । प्रविशंश्च प्रत्यावासकं वहन्नेव “कस्मिन्प्रदेशे वैशम्पायनावासः’ इति पप्रच्द । ततस्तत्संनिहिताभिः स्त्रीभिः, इतरत्वादप्रत्यभिज्ञाय, यथारब्धकर्मव्यग्राभिरेवोद्वाष्पशून्यवदनाभिः “भद्र, किं पृच्छसि, कुतोऽत्र वैशम्पायनः” इत्यावेद्यमानः, “आः पापाः, किमेवमसंगद्धं प्रलपथ’ इति शून्यहृदय एव ताः प्रतारयन्, अन्तर्भिन्नहृदत्वान्नापराः पृच्छन्, न किंचित्पश्यन्, न किंचिद्वदन्, क्वागतोऽस्मि, किमर्थमागतोऽस्मि, किं वा करोभि, इति सर्वमेवाचेतयमानः, अन्ध इब, मूक इव, कटकमध्यदेशं यावत्तादृशेनैव वेगेनावहत् ॥
अथेन्द्रायुधप्रत्यभिज्ञानात् “देवश्चन्द्रापीडः’ इति समन्तात्ससंभ्रमप्रधावितानामुद्वाष्पशून्यदृष्टीनां राजन्यसहस्त्राणां मुखान्यवलोक्य, “क्व वैशम्पायनः’ इत्यपृच्छत् । ततस्ते सर्वे सममेव विचार्य, " अस्मिंस्तरुतलेऽवतरतु तावद्देवः । ततो यथावस्थितं विज्ञापयामः ’ इति न्यवेदयन् । चन्द्रापीउस्य तेन तेषां स्फुटाख्यानादपि कष्टतरेण वचसान्तःशल्यगर्मं स्फुटितमिव हृदयमासीम् । केवलं तत्कालप्रणयिनी मूर्च्छा सा धारणमकरोत् । तुरगादवतारितं च पार्थिवैर्धृतमातृमानं तदानीं न वेदितवान् ॥
उपलब्धसंज्ञोऽपि च वैशम्पायनस्यादर्शनात् "” किमारटामि, किं हृयमवष्टभ्य तूष्णींमासे, किमात्मतानमाहत्य हुदयात्प्राणैर्वियोजयामि, किमेकाकी कांचिद्दिशं गृहीत्वा प्रव्रजामि’’ इति कर्तव्यमेव नाध्यगच्छत् । चकार च चेतसि— ““अहो मे रम्योऽप्यरमणीयः संवृत्तो जीवलोकः । वसन्त्यपि शून्यीभूता पृथ्वी । सुरक्षितमपि मुषितं जीवितफलम् । कं पश्यामि । केन सह सुखमासे । किमद्यापि मे जीवितेन, कादमृबर्यापि । ?वैशम्पायनस्य कृते क्क गच्छामि । को मे ददातु पुनस्तादृशं मित्ररत्रम् । कथं मया तातस्य शुकनासस्य चात्मा वैशम्पायनेन विना दर्शयितव्यः । किमभिधाय च तनयशोकविह्वलाम्बा मनोरमा वा संस्थापयितव्या । किं भूमिःकाचिदसिद्धा, यां साधयितुं पश्चात्स्थितः’’ इत्येतानि चान्यानि चान्तरात्मना चिरमधोमुख एव विकल्प्य कृच्छ्रादिव तानप्राक्षीत्—- ““मय्यागते, किं कश्चिदेवंविधोऽन्तरे उत्पन्नः? व्याधिर्वा कश्चिदशुकार्यसाध्यरूपः समुपजातः? येनैतदतर्कितमेव महावज्रपतनमुपनतम्’’ इति ॥
ते त्वेवं पृष्टाः सर्वे सममेव करद्वयापिहितश्रुतयो व्यज्ञपयन्—“देव, शान्तं पापम् । देवशरीरमिव साग्रं वर्षशतं घ्रियते वैशम्पायनः’ इति । एतदाकर्ण्य चोज्जीवित इवानन्दबाष्पनिर्भरः, संभाव्य तान्सर्वानेव कण्ठग्रहेण, अवादीत्—- ““जीवतो वैशम्पायनस्यान्यत्र क्षणमप्यवस्थानमसंभावयता मथैवं पृष्टा भवन्तः । तज्जीवतीत्येतानि तु तावत्कर्णे कृतान्यक्षराणि । अधुना “किं वृतृतमस्य? येनासौ नागतः । कथं वा भवद्भिर्बकादपिव नानीतोऽसौ’ इतृयेदवगन्तुमुत्ताभ्यति मे हृदयम्’‘इति । तेचैवं पृष्टा व्यज्ञपयन्—-““देव, श्रूयतां यथवृत्तम्—गतवति देवे, तस्मिन्दिवसे न दत्तमेव प्रयाणं स्कन्धावारेण । अन्यस्मिन्नहनि, आहतायां प्रयाणभेर्याम्, प्रातरेवास्मान्वैशम्पायनोऽभ्यधात्— " अतिपुण्यं ह्मच्छोदाख्यं सरः पुराणे श्रूयते । तदस्मिन्स्त्रात्वा प्रणम्य भगवन्तं महेश्वरं व्रजामः । दिव्यजनसेविता केन कदा पुनः स्वप्रेऽपि भूमिरियमालोकिता’ इत्यभिधाय, चरणाभ्यामेवाच्छोदसरस्तीरमयासीत् । तत्र चातिरम्यतयैव सर्वतो दत्तदृष्टिः संचरन्, आस्पदमिव सर्वरमणीयानाम्, अन्यतमं तटलतामण्टपमद्राक्षीत् ॥
दृष्ट्वा च तम्, अतिचिरान्तरितदर्शनं सुहृदमिवानन्यदृष्टिर्विस्मृतनिमेषेण चक्षुषा विलोकयन्, स्तम्भित इव, किमप्यन्तरात्मना स्मरन्निव गलितलोकचनपयोधारसंतानः, तूष्णीमधोमुखस्तस्थौ । तथा वस्थितं च तमवलोक्य, अस्माकमुदपादि चेतसि त्तिन्ता—- " येन केनचिदपाह्रियन्त एव रसिकहृदयाः परिणामधीरमतयोऽपि, किं पुनः कुतूहलास्पदे प्रथमे वयसि वर्तमानाः । तस्मान्नियतमियमस्येमामतिमनोहरां भूमिमालोक्य भावयतो हदयविकृतिरीदृशी जाता, इति । चिराच्च तमेवमवदाम वयम्—- “दृष्टो दर्शनीयानामवधिरेषः । तदुत्तिष्ठ । संप्रति निर्बर्तयामः स्त्रानविधिम् । अतिमहती वेला । सज्जीभूतं साधनम् साधनम् । प्रयाणाभिमुखः स्कन्धावारस्त्वां प्रतिपालयन्नास्ते । किमद्यापि विलम्बितेन’इति । सत्वेवमुक्तो1़प्यस्माभिः, अश्रुतास्मदीयालाप इव तमेव केवलमनिमेषपक्ष्मणा चक्षुषा लतामण्डपमालोकितवान् ॥
पुनः पुननश्चात्माभिरागमनायानुरुध्यमानः, तद्ग्रथितदृष्टिरेवास्मान्परिच्छेदनिष्टुरमाह स्म— “मया तु न यातव्यमस्मात्प्रदेशात् । गच्छन्तु भवन्तः स्कन्धावारमादाय । न युक्तं भवतां चन्द्रापीडभुजवलपरिरक्षितं गते तस्मिन्महासाधनं गृहीत्वास्यां भूमौ क्षणमप्यवस्थानं कर्तुम् ’ इत्युक्तवन्तं तादृशासंबद्धानुष्ठानेन जातपीडा निष्टुरमप्यभिहितवन्तो वयम्—- “एवं न श्युक्तमस्माकं स्थातुम् । भवतः पुनर्देवस्य तारापीडस्यानन्तरादार्यशुकन्मसाल्लब्धजन्मनो देवेन चन्द्रापीडेन सहैकत्र संवृद्धस्य युक्तमिदम्— यज्जयेष्ठे भ्रातरि सुहृदि वत्सले भर्तरि च भवति सर्वमर्पयित्वा गते, तत्परित्यापगेनात्रावस्थानम् । कस्यापरस्येदृशो युक्तायुक्तपरिच्छेदः । तिष्ठतु तावदस्माकं तवोपरि स्त्रेहो भक्तिर्वा । अस्मिंस्तु शून्यारण्ये भवन्तमेकाकिनुमुत्सृजृय गताः सन्तो देवेन चन्द्रशीतलप्रकृतिना चन्द्रापीडेनैव किं ?वक्तव्या वयम् । किमन्यो देवश्चन्द्रापीडः, अन्यो वा भवान् । तदुन्मुच्यतामयं संमोहः । गमनाय धीराधीयताम् ’ इत्यभिहितोऽस्माभिः, ईषदिव विलक्षहासेन वचनेनास्मानवादीत्—- " किमहमेतावदिप न वेह्मि, यद्गमनाय मां भवन्तः प्रबोधयन्ति । अपि च, चन्द्रापीडेन विना क्षमणप्यहमन्यत्र न पारयामि स्थातुम् । एषैव मे गरीयसी परिबोधना । तथापि किं करोमि । अनेनैव क्षणेन सर्वत्र विगलितं मेप्रभुत्वम् । तथा हि—- स्मरदिव किमपि, मनो नान्यत्र प्रवर्तते । पश्यन्तीव किमपि, न दृष्टिरन्यतो वलति । निगडिताविव पदमपि दातुं न चरणावुत्सहेते । कीलितेव चास्मिन्नेव स्थाने तनुः । तदात्मना त्वहमसमर्थो यातुम् । अथ बलाद्भवन्तो मां निनीषवः, तत्रापि चलितस्यास्मात्प्रदेशादात्मनो जीवितधारणं न संभावयामि । अत्र तु पुनस्तिष्ठतः, यदेतदन्तर्हृदये किमप्यनवसीयमानं परिवर्तते मे, येनैव विधृतोऽस्मि, तेनैवावश्यं धार्यन्ते प्राणा इति चेतासि मे । तदलं निर्बन्धेन । गच्छन्तु भवन्तः । भवतु यावज्जीवमा तृप्तेश्चन्द्रापीडदर्शनसुखम् । अल्पपुण्यस्य तु तन्मे प्राप्तमपि करलादेवमाच्छिद्यदैवेन नीतम् ’ इत्यभिदधानश्च, कौतुकात् “किमेतत्? येनैवं भाषसे । नायासि देवस्य चन्द्रापीडस्य समीपम्?’ इत्यस्माभिः पुनः पुनः पृष्टोऽभ्यधात्—- “लज्जेऽहमेवं वक्तुम् । तथापि शपामि वयस्यचन्द्रापीडस्यैव जीवितेन—- यदि किंचिदपि जानामि, यत्केन कारणेन न शकोम्यतो गन्तुमिति । अपि च, भवतामषि प्रत्यद्वा एवायं वृत्तान्तः । तद्व्रजन्तु भन्तः ’ इत्युक्त्वा तृष्णीमभूत् ॥
मुहूर्तादिव चोत्थाय, किमपि नष्टमिवान्विष्यन् बभ्राम । भ्रान्त्वा च चिरमिव खिन्नान्तरात्मा सनिर्देदमूर्ध्वं निश्वस्य, तस्मिन् लतागहने पुनरुपविश्य तस्थौ । वयमपि तत्प्रतिबोधनप्रत्याशया स्थिता एव । गतवति समधिक इव यामद्वये, शरी?रस्थितिकरणायास्माभिरभ्यर्थितः प्रत्युवाच—- “वयस्यचन्द्रापीउस्य खल्मी स्वजीवितादपि वल्लभतराः प्राणाः । तद्यदि बलादपि परितृयजृय मां गच्छन्ति, तथाप्येषां संधांरणे मया प्रयत्रः कार्यः । किं पुनरच्छतामेव । चन्द्रापीडदर्शनेनैव चाहमर्थी, न मृत्युना । तदभ्यर्थनैवात्र निष्फला ’ इत्यभिधायोत्थाय, स्त्रीत्वा, कन्दमूलफलैर्वनवासोचितां शरीरस्थितमिकरोत् । निर्वर्तिशरीरस्थितौ तस्मिन्, वयमपि कृतवन्तः । अनेनैव च क्रमेण विस्मितान्तरात्मानो रात्रौ च दिवा च"किमेतत्’ इति तद्वृत्तान्तमेवानुभावयन्तो दिनत्रयं स्थित्वा, निष्प्रतृयाशा आगता वयम् । यच्चाग्रतो न प्रेषितः संवादकः, तदेकं तावत्—- अन्तरा गच्छतो देवस्यासौ न परापतत्येव; अपरमपि—- चिरात्प्रविष्टमात्रस्यैव देवस्य मा पुनरागमनल्लेशो भूदिति’’ ॥
चन्द्रापीडस्य तु तं स्वप्रेऽप्यनुत्प्रेक्षणीयं वैशम्पायनवृत्तान्तमाकर्ण्य,
युगपदुद्वेगविस्मयाभ्यामाक्रान्तहृदयस्यस्?योदपादि चेतसि—- "” किं पुनरीदृशस्य वैराग्यस्य कारणं भवेत् ? स्वीयं च नपश्यामि किंचित्स्खलितम् । तातप्रसादात्तु मामिव तमप्यर्चन्त्येव राजासनः । ममेव तस्यापि चेच्छाधिकेषु सर्वोपभोगेषु न किंचिदपि हीयते । अप्यागच्छंस्तातेनाम्बया चार्यशुकनासेन मनोरमया च तनयस्त्रेहोचितेन सौहार्देन न संभावितः । विनयाधिक्येच्छुना तातेन शुक्रनासेन वा किंचित्पीडाकरमभिहितम् । ताडितो वा तत्रापि नैवासावेवमस्त्रेहलः, यः कश्चिदिव क्षद्रप्रकृतिः, आढ्यपुत्रतागर्वितः, पुत्रैकतादुर्ललितो वा, योजन्मनः प्रभृति सर्वप्रकारोपकारिणो गुरुजनस्योपरि खेदमेवं कुर्यात्, अनुबन्धाद्विरमेद्वा प्रशमस्यापीदृशस्य नैष कालः । अद्याप्यसौ द्विज्जनोचिते गार्हस्थ्य एव न निवेशितः । देवपितृमनुष्याणामानृण्यमेव नोपगतः । अगत्वा चानृण्यम्, ऋणत्रयेण बद्धः क्क गतः । न तेन पुत्रपौत्रसंतत्या वंशः प्रतिष्ठां नीतः । नानन्तदक्षिणैर्महाक्रतुभिरिष्टम् । न गुरवोऽनुवृत्त्या सुखं स्थापिताः। न स्त्रिग्धबन्धूनामुपकृतम् । न जातेन जीवलोकसुखान्यनुभूतानि । न तेन पुरुषार्थसाधनानां धर्मार्थकामानामेकोऽपि हि प्राप्तः । किंमेतत्तेन कृतम्’’ इतृयाक्षिप्तचेताश्चिन्तयंश्चिरमिवि तस्मिन्नेव तरुतले स्थित्वा, ततस्तत्क्षणकृतम् उभयपार्श्वस्थापितोत्पल्लवमुखपूर्णहेमकलशं कायमानमविशत् ॥
प्रविश्य चागृहीतप्रतिकर्मतया मलिनवेषैः कर्मान्तिकैः प्रणम्यमानः, तूष्णीभेव शनैः शनैर्वासभवनमयासीत् । तत्र चापनीतसमायोगः, विमुच्याङ्गानि शयनीये, पुनरपि चिन्तामेवाविशत्—- ““यदि तावदप्रतिमुक्तस्तातेनाम्बया वा, महति शोकार्णवे निक्षिप्य तौ, तनयविरहशोकविक्लबं तातं शुयनासमम्बां च मनोरमांमनाश्वरस्य, अस्मादेव प्रदेशादच्छामि, तदा मयापि वैशम्पयानस्यानुकृतं भवति । निवृतृय पुनर्गमने च, अमुकिृतपक्षमाशङ्कते मे हृदयम् । तत्किं करोमि । अथवा अस्थान एवाप्रतिमुक्तिशङ्का मे । प्रियसुहृदा आत्मानं मां च परित्यताप्यपरेण प्रकारेण गमनमुत्पादयता कादम्बरीसमीपगमनोपायचिन्तापर्याकुलमतेरुपकृतमेव मे । तदधुना वैशम्पायनप्रत्यानयनाय यान्तं न तातो नाम्बापि नार्यशुकनासोऽपि निवारयितुं शकोति माम् । गतश्च वैशम्पायनसहितस्तेनैव पार्श्वेन पुरस्ताद्गमिष्यामि’’ इति निश्चित्य, तत्कालकृतं वैशम्पायनवियोगदुःखं परिणामसुखमौषधमिव बहु मन्यमानः, मुहूर्तमिव स्थित्वा विश्रान्तः सुखितैरङ्गैः, आपूरिते तृतीयार्धयामशङ्खे शरी?रस्थितिकरणायोदतिष्ठत् ॥
उत्थाय च “यत्रैव कादम्बरी, तत्रैव वैशम्पायनः ’ इति स्वधैर्यावष्टम्भेनैव संस्तभ्य हृदयम्, शून्यान्तरात्मा शरी?रस्थितिमकरो?त् । कृताहारश्च गगनतलमध्यमारूढे सविजतरि, निर्भिद्य विशन्तीष्विव शरीरमातपकाणिकासु, उत्थाय सररस्तीरकल्पितं जलमण्डपमयासीत् ॥
लोहितायमानातपे च सायाङ्गे, निर्गत्य वासभवनाङ्गणे क्षणमिव स्थित्वा, “द्वितीय एव यामे चलितव्यम्, सज्जीकुरुत साधनम्’ इतृयादिभ्य बलाध्यक्षम्, वासभवनमध्यवसत् । अथातिचिरान्तरितोज्जयिनीदर्शनोत्सुको विनापि प्रयाणनान्द्या सकल एव कटकलोकः संहत्य प्रावत्रत गन्तुम् । आत्मनाप्यलब्धनिद्राविनोदः, अवतरत्येव तृतीये यामे, राजलोकेन सहावहत् । अथाध्वनैव सह क्षीणायां यामवत्याम्, रसातलादिवोन्मज्जत्सु सर्वभावेषु, पल्लव इवोद्भिद्यमाने पूर्वांशालताया दिवसकरबिम्बे, कटकलोकेनैव सह परापतितवानुज्ययिनीम् ॥
अथ दूरत एव दत्तकतिपयशून्यपदैश्च, महाकष्टशब्दमुखरैश्च, दुःखाधिक्याहिमतौनैश्च, निःस्पृहैरपि, उदासीनेरिपि, दुर्जनैरपि स्त्रेहपरवशैः, पितृभिरिव, सुहृद्भिरिव च, नगरीनिर्गतैः, आर्त्या पृच्छ्यमानं च कथ्यमानं च वैशम्पायनवृत्तान्तमेव समन्ताच्छुराव ॥
शृण्वंश्च चकार चेतसि—- ““बाह्मस्य तावज्जनस्येयमीदृशी समवस्था । किं पुनर्येनासावङ्केन लालितः संवर्धितो वा । तदतिकष्टं मे वैशम्पायनेन विना तातस्य शुकनासंस्याम्बाया मनोरमाया वा दर्शनम्’’ इत्येवं चिन्तयन्, नासानिहितोद्बाष्पदृष्टिः, अदृष्टसर्ववृत्तान्त एव विवेशोज्जयिनीम् । अवतीर्य च स राजकुलद्वारि विशन्नेव “आर्यशुकनासभवनं सह देव्या विलासवत्या गतो राजा’इति शुश्चाव । श्रुत्वा च निवृत्य तत्रैव जगाम । गच्छंश्च समीपवर्तीं, ““हा वत्स वैशम्यायन, अद्यापि मदङ्कलालनोचितो बाल एवासि । कथं त्वमेकाकी व्यालशतसहस्त्रभीषणे निर्मानुषे तस्मिञ्शून्यारण्ये स्थितः । केन ते तत्रापि शरीररक्ष कृता । केन
शरीस्थितिः संपादिता । केन निद्रासुखदायि शयनीयुमुपक्लिपतम् । कस्त्वयि बुभुक्षिते तृषिते सुषुप्सति वा दुःक्षितः । ममोत्सङ्गमुत्सृज्य समानसुखदुःखा वधूरपि न पुत्रक, त्वयोपात्ता । आगतमात्रस्यैव ते पितरमनुज्ञापयात्यर्थं वधूमुखभवलोकयिषमीति यन्मया चिन्तितम्, न केवलं तन्मे मन्दपुण्याया न संपन्नम् ; परं तवापि वदनदर्शनं दुर्लभं भूतम् । वत्स, यत्र तेऽवस्थातुमभिरुचितम्, नयस्व तत्रैव मामपि पितरं विज्ञाप्य । तृवामपश्यन्ती न जीवामि । तात, त्वयाहं शैशवेऽपि नावमानिता । कुतस्तवेयमेकपद एवेदृशी निष्टुरता जाता । जन्मनः प्रभृति न दृष्टमेव यस्य कुपितमाननम् ; तत्य ते कुतोऽयमेवंविधो मय्यकस्मादेव कोपः । यदेवं पिरतृयज्य स्थितोऽसि । गतोऽप्यागच्छ । शिरसा प्रसादयामि त्वाम् । कोऽपरोऽस्ति भे । देशान्तरपरिचयान्मुक्तो नामास्मासु स्त्रेहः । क्षणमप्यनन्तरितदर्शनस्य चन्द्रापीडस्योपरि कथं तवेदृशी निःस्त्रेहता जाता । तात, न भद्रकं ते समापतितम् । सर्व एव सुखं स्थापनीयो गुरुजनो दुःखं च स्थापितः । न जानाम्येवं कृत्वा किं त्वया प्राप्तव्यम्’’ इत्येतानि चान्यानि चान्तर्भवनगतां स्वयं देव्या विलासवत्या संस्थाप्यमानामपि मनोरमां विलपन्तीमश्रौषीत् ॥
तेन चातिकरुणेन तत्प्रलापविषेण निश्चेतनतामनीयत । कथं कथमपि सहजसत्त्वावष्टमृभैवं संस्तम्भितात्मा, प्रविश्य पितुरपि लज्जमानो वदनमुपदर्शयितुम्, अधोमुख एव शुकनासेन सह प्रणम्य पितरम्, दूरत एवोपाविशत् । उपविष्टं च तं क्षणमिव दृष्ट्वा राजान्तर्बाष्पभरगद्गदेन ध्वनिनाभ्यधात्—- ““वत्स चन्द्रापीड, जानाभि ते स्वजीवितादपि समभ्यधिकां भ्रातुरुपरि प्रीतिम् । पीडा च सुखैकहेतोर्वल्लभजनादेवासंभाव्या या संभवति, तयैव हि न किंचिन्न क्रियते । तज्जन्मनः स्त्रेहस्य शीलस्य विनयाधानम्य च सर्वस्यैवानुचितमिमं भ्रातुः सुहृदश्च ते वृत्तान्तमाकर्ण्य, त्वद्दोषमाशङ्कते मे हृदयम् ’’ इति ॥
एववंवादिनो नरपतैर्वचनमाक्षिप्य, युगपच्छोकामर्षाभ्यामन्धकारिताननः शुकनासोऽब्रवीत्—- "” देव, यदि चन्द्रमस्यूष्मा, महोदधौ वा शोषः, संभाव्यते ततो युवराजेऽपि दोषः । तत्किमेवमनिरूप्य तस्यानात्मज्ञस्य मित्रद्रुहः कृतघ्रस्य कृते कृतयुगावतारयोग्यमात्मनोऽपि गुणवन्तं चन्द्रापीडमेवं संभावयति देवः । न ह्मतः परमपरं कष्टतरं किंचिदपि पीडाकारणम्, यद्गुणेषु वर्तमानो दोषेषु संभाव्यते इतरजनेनापि, किं पुनर्गुरुजनेन । अपि च, जन्मनः प्रभृति देवस्य देव्या विलासवत्याश्चाङ्कलालनया यो न गृहीतः, तस्य मरुत इव दुर्गहप्रकृतेश्चन्द्रापीडोऽपि किं करोतु । स्वयमेवोत्पद्यन्ते एवंविधाः शरीरसंभवा महाकृमयः, सर्वदोषाश्रया महाव्याधयः । ये सकलङ्काः कृपाणा इव स्त्रेहेनैव पारुष्यं भजन्ते । सरागाः पल्लवा इव दिवसारूढ्यैवापरज्यन्ते । भूतिपरामृष्टा दर्पणा इवाभिमुख्येन सर्वं प्रतीपं गृह्णन्ति । ये च स्त्रिग्धेष्वपि रूक्षाः, ऋजुष्वपि वक्राः, स्त्रीष्वपि शूराः, भृत्येष्वपि क्रूराः, दीनेष्वपि दारुणाः । येषां च विपरीतानां गुरव एव लघवः, नीचा एवोवोच्चैः, कुदृष्टिरेव सद्दर्शनम्, दौःशील्यमेव सुशीलता, अनृतमेव सत्यम् । येषां च क्षुद्राणां प्रज्ञा पराभिसंधानाय न ज्ञानाय, पराक्रमः प्राणिनामुपघाताय नोपकाराय, उत्साहो धनाज्रनाय न यशसे, धनपरित्यागः कामाय न धर्माय । किं बहुना, सर्वमेव येषां दोषाय न गुणाय । तदसावपीदृश एव कोऽप्युण्यवानुतृपन्नः, यस्यैवं कुर्वतः “मित्रमहं चन्द्रापीडस्य, कथं तस्य द्रोहमाचरामि’ इति नोत्पन्नं चेतसि । “मातुरहमेवैको जीवितनिबन्धनम्, कथं मया विना वर्तिष्यते’ इत्येतस्य नृशंसस्य हृदये नापतितम् । “पिण्डप्रदो वंशसंतानार्थमहमुत्पादितः पित्रा, कथमननुज्ञातस्तेन सर्वपरितृयागं करोमि ’ इत्येतदपि यथाजातस्य न बुद्धौ संजातम् । तदेवमसत्पथप्रवृत्तेन दुर्दर्शमदृष्टं तावन्न नाम कुदृष्टिना दृष्टम् । येन न दृष्टम्, तस्याज्ञानतिमिरान्धस्य किं क्रियताम् । अपरम्—- असौ तिर्यङ्महता यत्रेन शुक इव पाठितः पुष्टश्च देवेन । अथवा विनोददानात्तिरश्चामपि सफल एव शिक्षणायासो भवति । तेऽपि पोषिताः पोषितरि स्त्रेहमाबध्रन्ति । तेषामपि सहजन्मस्त्रेहो मातापित्रोरपरि दृश्यत एव । अपि च, ईदृशाचरि?तेन तेनाप्यवश्यमेव कस्यांचित्तिर्यग्योनौ पतितव्यम् । सर्वं एव ह्मनाक्षिप्तचेताः प्रवर्तते स्वहिताय परहिताय च । तस्य तु पुनरम्मानेवं दुःखं स्थापयतो न स्वहितं नापि च परहितम् । किमनेनैवमातृमद्रुहा कृतमिति मतिरेव तावन्न बोधपदवीमवतरति । सर्वथा दुःखायैवास्माकं तस्य पापकर्मणो जन्म ’’ इत्युक्त्वा निश्वसन्नेवावतस्थे ॥
तदवस्थं च तं तारापीडः प्रत्युवाच— ““एतत्खलु प्रदीपेनाग्रेः प्रकाशनम्, व्यजनानिलैरतिवर्धनं
प्रभञ्जनस्य, यदस्मद्विधैः परिबोधनमार्यस्य । तथापि प्राज्ञस्यापि सत्त्ववतोऽप्यवश्यं दुःखातिपातेन विशुद्धमपि वर्षसलिलेन सर इव मानसं कलुषीक्रियते सर्वस्य । येन ब्रवीमि । अन्यदस्मत्तो लोकवृत्तमार्य एव सुतरां वेत्ति । किमस्ति ?कश्चिदसावियति लोके, यस्य निर्विकारं यौवनमतिक्रान्तम् । यौवनावतारे हि शैशवेनैव सह गलति गुरुजनस्त्रेहः । दोर्द्वयेनैव सह स्थूलतामापद्यते धीः । आकारेणैव सहाविर्भवन्ति हृदयाद्विकाराः । विकृतं च मोहान्धं चेतो भ्रामृयदवश्यमेव स्खलति । स्खलिते च चेतसि, तल्लग्रा पतत्येव लज्जा । त्रपावरणशून्ये च हृदि प्रविश्य पदं कुर्वन्केन वा निवारितो दुर्निवारः सर्वाविनयहेतुः कुसुमधन्वा । तन्मोहविषयविषमहाहौ तारुण्यावतारे सर्वस्यैव स्खलितमापतति । किमेवमार्येण लालनीयस्य पालनीयस्य शिशुजनस्योपर्यावेशे गरीयान्गृहीतः, यदनुचितमपत्यस्नेहस्याक्रोशगर्भमेवमुक्तम् । स्वप्रायमानानामपि यद्गुरूणां
मुखेभ्यो निष्क्रामति शुभमशुभं वा, शिशुषु तदवश्यं फलति । गुरवो हि दैवतं बालानाम् । यथैवाशिषे गुरुजनवितीर्णा वरतामापह्मन्ते, तथैवाक्रोशाः शापताम् । तद्वैशम्पायनमुद्दिश्य कोपावेशादेवमतिपरुषमभिदधत्यार्ये, महती मेचेतसः पीडा समुत्पन्ना । स्वयमारोपितेषु तरुषु तावदुत्पद्यते स्नेहः । किं पुनरङ्गसयंभवेष्वपत्येषु । तदुत्सृज्यतामयममर्षवेगो वैशम्पायनस्योपरि । विरूपकं तु तेन न किंचिदप्याचरितम् । सर्वपरित्यागं कृत्वा । स्थित इत्येतदपि कारणमविज्ञाय किमेवं दोषपक्षे निक्षिपामः । कदाचिद्गुणीभवत्येवमयमविनयनिष्पन्नो दोष एव । आनीयतां तावदसौ । बुध्यामहे—- किमर्थमयमेवंविधस्तस्य वयसोऽलनुचितोऽपि संवेग उत्पन्नः । ततो यथायुक्तं विधास्यामः ’’ ॥
हत्युक्तवति तारापीडे, पुनः शुकनासोऽभ्यधात्—- ““अत्युदारतया वत्सलत्वाच्चैवमादिशति देवः । अन्यदतः परं किमिवास्य विरूपकं भवेत्, यद्युवराजमुत्सृज्य क्षणमप्यन्यत्रावस्थानमात्मेच्छयचेष्टितम् ’’ इत्युक्तवति शुकनासे, चन्द्रापीडः शनैः शनैः शुकनास मवादीत्—- "” आर्य यद्यपि निरुक्तितो वोह्मी—- न मदीयेन दोषे नागतो वैशम्पायन इति । तथापि तातेन संभावितमेव । कस्य वापरस्यंभावना नोत्पन्ना । मिथ्यापि तत्तथा, यथा गृहीतं लोकेन, विशेषतो गुरुणा । तदस्या दोषसंभावनायाः प्रायश्चित्तमार्यो दापयतु मे वैशम्पायनानयनाय गमनाभ्यनुज्ञां तातेन । नान्यथा मे दोषशुद्धिर्भवति । न च तुरंगमैर्गच्छतो मे दृष्टायां भूमौ स्वल्पोऽपि गमनपरिक्लेशः । अनुपदमेव स्कन्धावारमादायागच्छतीत्यमुना हेतुना विना तेनागतोऽहम् । अन्यथा जन्मनः प्रभृति कदा मया गतं स्थितं क्रीडितं हसितं पीतमशितं सुप्तं प्रबुद्धमुच्छुसितं वा विना वैशम्पायनेन । यच्च श्रुत्वा तस्मादेव प्रदेशान्न गतोऽस्मि, तन्मा तेनैव तुल्यो भूवमिति । तदप्रतिगमनदोषाद्रक्षतु मामार्यः ’’ ॥
इत्यभिहितवति चन्द्रापीडे, “गमनाय विज्ञापयति युवराजः, किमाज्ञापयति देवः’ इति शनैः शनैः पृष्टश्च शुकनासेन, किंचिदिव ध्यात्वा तारापीडः प्रत्यवादीत्—- ““आर्य, मया ज्ञातमेतेध्वेव दिवसेषु– वत्सस्य वधूं द्रक्ष्यामीति । तावदयमपरोऽन्तर्हिताशापथो वैशम्पायनवृत्तान्तो विलोमप्रकृतिना विधात्रान्तरा पातितः । यथा चायुष्मताभिहितम्, एवमेवैतत् । नतमन्यः शक्रोत्यानेतुम्, न च तेन विनायमत्र स्थातुम् । तदवश्यमेव ताविंन्निस्तरितव्यो व्यसनार्णवोऽमुना पोतेन । वैशम्पायनप्रत्यचानयनाय चावश्यं देव्यपि विलासवती विसर्जयिष्यतृयेवैनमिति निश्चयो मे । तद्यातु । किंत्वतिदूरं वत्सेन गन्तव्यम् । तद्गणकैः सहादरादार्यो दिवसं लग्रं च गमना यास्य निरूपयतु । संविधानं च कारयतु ’’ इत्येतदभिधाय, “वत्स, गच्छ, त्वमेव प्रविश्याभ्यन्तरम्, मनोरमासहिताया मातुरावेदयात्मगमनवृत्तान्तम्’ इत्यादिश्य, स्वभवनमयासीत् ॥
चन्द्रापीडस्तु प्रविश्य कृतनमस्कारो मातुःसमीपे समुपश्यि, मनोरमामाश्वास्यावादीत्—- " अम्ब, समाश्वासिहि । वैशम्पायनानयनाय तातेन मे गमनादिष्टम् । तत्कतिपयदिवसान्तरितवैशम्पायनाननदर्श्यानोत्सुकं मामविकल्पं विसर्जय त्वम् । सा त्वेवमभिहिता प्रतृयुवाच—-““तात, किमातृमगमनवचसा मां समाश्वासयसि । कः खलु मे त्वयि तस्मिंश्च विशेष्ज्ञः । तदेकधा तमेकं न पश्यामिकठिनहृदयम् । त्वयि पुनर्गर्त, यदपि तस्यादर्शने जीवितनिर्गमप्रतिबन्धहेतभूतं त्वद्दर्शनम्, तदपि दूरीभवति । तन्न गन्तव्यं वत्सेन । एकेनापि हि युवयोरावां पुत्रत्यौ । अपि नागतो नामासौ निष्टुरात्मा’’ इत्युकृतवत्यां मनोरमायाम्, विलासवती धीरमुवाच— ““प्रियसिख, तव मम चैवमेतत्, यथा त्वयोकृतम् । अयं पुनर्वैशम्पायनेन विना कं पश्यतु । तदास्ताम् । किमेनं निवारयसि । वारितेनाप्यनेन नैव स्थातव्यम् । मन्ये
च, पित्राप्ययमेतदेवाकलय्य गमनायानुमोदितः । तद्यातु । वरमावयोः कतिपयदिवसान् अनयोरप्यदर्शनकृतान्क्लेशाननुभवितुम् न पुनरस्य वेशम्पायनाननानवलोकनदुःखदीनं दिने दिने वदनमीक्षितुम् । तदुत्तिष्ठ, गच्दावो गगनसंविधानाय वत्सस्य चन्द्रापीडस्य’’ ॥
इत्यभिदधत्येव मनोरमां हस्ते गृहीत्वोत्थाय, चन्द्रापीडेनानुगम्यमाना निजावासमयासीत् । चन्द्रापीडोऽपि मातुः समीपे गमलालापेनैव क्षणमिव स्थित्वा गृहमगात् । तत्र चापनीतसमायोगो गमनायोत्ताम्यता हृदयेन गणकानाहूय रहस्याज्ञापितवान्— “यथा विना परिलम्बने मे गमनं भवति, तथा भवद्भिरार्यशुकनासाय पृच्छते ताताय वा दिनमावेदनीयम् ’ इति । एवमादिष्टास्ते व्यज्ञपयन्—- ““देव, यथा सर्व एव ग्रहाः, तथास्मन्मतेन देवस्य गमनमेव वर्तमाने न शस्यते । अपरमपि, कर्मानुरोधाद्राजेच्छैवकालः । तत्र न कार्यमेवाहर्निरूपणया । राजा कालस्य कारणम् । यस्यामेव वेलायां चितृतनिर्वृतिः, सैव वेला सर्वकार्येषु’ इति विज्ञापिते मौहूर्तिकैः, पुनस्तानब्रवीत्—- “तातेनैवमादिष्टमिति ब्रवीमि । अन्यत्, आत्ययिकेषु कार्येषु कार्यपराणां प्रतिक्षणोत्पादिषु च दिवसनिरूपणैव कीदृशी । तत्तथा कथयत, यथा श्व एव गमनं भवेत्’ इत्यभिधाय, निर्वर्तितशरीरस्थितिः, तं ?दिवसमेकां च यामिनीं कथं कथमप्यस्थात् ॥
अथास्तमुपगतवति तेजसां पत्यौ, संध्यानलस्फलिङ्गनिकर इव स्फुरति तारागणे, उदयगिरिवर्तिनि नक्षत्रनाथे, प्रस्थानमङ्गले प्रणामायोपगतं चन्द्रापीडं विलासवती मन्युरागवेगगद्गदिकोपरुध्यमानाक्षरमवादीत्—““तात, युज्यते ह्मङ्कलालितस्य गर्भरूपस्य प्रथमगमने गरीयसर हृदयपीडा । मम पुनर्नेदृशी प्रथमगमनेऽपि ते पीडा समुत्पन्ना । यादृशी तव गमनेनाधुना ।दीर्यते इव मे हृदयम् । निर्यान्तीव प्राणाः । न किंचितृसमादधाति धीः । सर्वमेव शून्यं पंश्यामि । धृतोऽपि बलादागच्छति मे बाष्पोत्पीडः । मुहुर्मुहुः समाहितापि मङ्लसंपादनाय ते चलति मतिः । किं निमित्तं चेयमीदृशीमे हृदयपीडेतृयेतदपि न वेह्मि— किं बहुभ्यो दिवसेभ्यः कथमप्यागतो मे वत्सो झटित्येव पुनर्गच्छतीति, उत वैशम्पायनवृत्तान्तादात्मन एव दुःखिततयेति । न चैबंविधयापि पीडया वैशम्पायनानयनाय गच्छतस्ते गमनं निवारयितुं पारयति बाणी । हृदयं पुनर्नेच्छत्येव त्वदीयं गमनम् । तदीदृशीं मे पीडां विज्ञाय, यथा पुरा स्थितम्, न तथा ?क्कचिदासङ्गमाब्ध्यातिदीर्घकालमायुष्मता स्थातव्यम् । अस्य चार्थस्य कृते साञ्जलिबन्धेन शिरसाभ्यर्थये वत्सम्’’ इत्यादिशन्ती स्वमातरं व्यजिज्ञपत्—- "” अम्ब, तदा दिग्विजयप्रसङ्गात्स्थितम् । अधुना पुनरयमेव कालक्षेपः, यावत्तमुदेशं परापतामि । तत्पुनश्चिरागमनकृता न भावनीया मनागपि हृदये पीडा त्पया’‘इत्येवं विज्ञप्ता गाढं सुचिरमालिङ्गय, गच्छद्भिरिव प्राणैः कृच्छ्रान्मुमोच तं माता ॥
मुक्तश्च मात्रा प्रविश्य पितुर्वासभवनम्, ननाम दूरस्थित एव पितुः पादौ । अथ तथा प्रणतमालोक्य तम्, पिता अन्तःक्षेभावेगविक्षिप्तारमवादीत्—- ““वत्स, पित्राहं दोषेषु संभावित इत्येषा मनागपि मनसि वत्सेन दुःखासिका न कार्या । विनयाधानात्प्रभृति सम्यक्परीक्षितो1़स्यस्माभिः । प्ररीक्ष्य च गुणगणैरेवाधिगम्यो राज्यभारस्त्वय्यारोपितः, न तनयस्त्रेहादेव । राज्यं हि नाभैतत् नामहासत्त्वे, नाविक्रान्ते, नामहोत्साहे, नाशरण्ये, नाब्रह्मण्ये, नाकृपालौ, पदमेवादधाति । यः खलु समग्रैर्गुणैराकृष्य बलात्प्रतिबन्धमस्य चच्चलप्रकृतेः कर्तुं सर्मिाः, जतत्रास्ते । तदनेनैव बोद्धव्यमिदं वत्सेनं—- नास्ति मयि दोष इति । अपि च, संप्रति कस्मिन्भारमवक्षिप्यागुपि दोषमाचरसि । त्वयैव सकललोकानुञ्जने यतितव्यम् । गतः खलु कालोऽस्माकम् । अस्माभिरस्खलितैश्विरं पदे स्थितम् । न पीडिताः प्रजा लोभेन । नोद्वेजिता गुरवो मानेन । न हतः परलोकः कामेन । राजधर्मोऽनुरुद्धः, न स्वरुचिः ?। वृद्धाः समासेविताः, न व्यसनानि । सतां चरितान्युनवर्तितानि, नेन्द्रियाणि । वृत्तं रक्षितम्, न शरीरम् । अकार्यपरिहारात्कार्यानुष्ठानाच्चोपार्जितः परोऽपि लोक इति चेतसिमे । त्वज्जन्मना च कृतार्थ एवास्मि । तदयमेव मे मनोरथः—-दारपरिग्रहात्प्रतिष्ठिते त्वयि सकलमेव मे राज्यभारस्यामीति । अस्य च मेऽतर्कित एवायमग्रतः प्रतिरोधको वैशम्पायमवृत्तान्तः स्थितः । मन्ये च, संपत्तव्यमेवानेन । अन्यथा क्क वेशम्पायनः । क्क चैवंविधमस्य स्वप्रेऽप्यसंभावनीयं समाचेष्टितम् । तद्‌गतेनापि तथा कर्तव्यं वत्सेन, यथा न चिरकालमेष मे मनोरथोऽन्तर्हृदय एव विपरिवर्तते’’ इत्यभिधाय, ताम्बूलमर्पयित्वा, व्यसर्जयत् ॥
चन्द्रापीडस्तु निर्गत्य निर्गत्य शुकनासम् अविरताश्रुपातोपहतमुखीं च भनोरमां प्रणम्य, अग्रतो ढौकितमपि कृतापसर्पणमनाविष्कृतगमनोत्साहं दीनमिन्द्रायुधमारुहृम, रयेणैव निरगान्नगर्याः ॥
निर्गत्य च सिप्रातटे तत्प्रस्थानमङ्गलावस्थानायेपकल्पितं कायमानमप्रविश्य, गव्यूतित्रितयमिव गत्वा, सुलभपयोयवसे प्रदेशे निवासकमल्पयत् । उत्ताम्यता हृदयेनाप्रभातायामेव यामिन्यामुत्थय, किमपि किमपि मनसा चिन्तयन्, अचेतितक्षुत्पिपासातपश्रमोज्जागरव्यथः, दिवा रात्रौ चावहत् ॥
एवं च वहतोऽप्यस्य दवीयस्तयाध्वनः, अर्धपथ एव, कालसर्पो वर्त्मनः, मदागमो मकरध्वजकुञ्जरस्य, आशुगमनविघ्रकारी बभूब जलदकालः ॥
तत्र च प्रथममस्य चेतोहारिभिर्मूर्च्छावेगैरन्धकारतामनीयन्त दश दिशः, ततो जलधरैः । अग्रतः समुत्प्लुतेन चेतसा क्काप्यगम्यत, पृष्टतो हंसैः । पूर्वा तुलितनीलोत्पलवनकान्ति नयनयुगलमस्य सलिलकं समुत्ससर्ज, चरममम्भोमुचां बृन्दम् । अपि च, दुस्तरैर्नदीपूरैरेव सहावर्धन्त मन्धथोन्माथाः । वर्षजलविलुलितैः कमलाकरैरेव सह ममज्ज कादमृबरीसमागमप्रत्याशा । धारारयासहैः कन्दलैरेव सहाभिद्यत हृदयम् । ततश्च विततेन स्थलीषु, कलकलेनाम्बुषु, पटुना पर्वततटेषु, उल्बणेन तालीवनेषु, यथाधारापतनमाकर्ण्यमानेन धारारवेणोत्कलिकाकलितः, न रात्रौ, न दिवा, न ग्रामे, नारण्ये, न वर्त्मनि, नावासे, न वहन्, न तिष्ठन्, न वैशम्पायनस्मरणे, न कादमृबरीसमागमानुध्याने, न कथंचिदपि, न क्कचिदिप, निर्वृतिमेवाध्यगच्छत् ॥
अनधिगतनिर्वृतिश्च धीरस्वभावोऽपि प्रकृतिमेवोत्ससर्ज । प्लावितसकलधरातलैर्धाराजलैरप्यशोष्यत ।द्योति?तदशदिशा शतह्रदालोकेनापि मूर्च्छान्धकोरऽक्षिप्यत । तथापि सकलजगज्जीवनहेतुनापि जीवितसंदेहदोलामारोपितो जलदकालेन, निरुद्धास्वपि जलदकालेनैवाशुगमनविघ्रभूतास्वाशसु, कादम्बरीसमागमाशा सुतरां नारुध्यतास्य, यया तादृशे1़पि प्रावृट्काले कलामप्यकृतपरिलम्बोऽनीयत तं पन्थानम् । धाराहतिविकूणिताक्षेण च मुहुर्मुर्बलितानमिताननेनापचीयमानबलजवोत्साहेन वाजिसैन्येनानुगम्यमानः, जीवितसंधारणाययथातथा निर्वर्तिताशनमात्रकः, दिवसमेव केवलमवहत् ॥
वहंश्च त्रिभागमात्रावशिष्टेऽध्वनि निवर्तमानं मेघनादमद्राक्षीत् । दृष्ट्वा च दूरत एव कृतनमस्कारं तमप्राक्षीत्—-““तिष्ठतु तावत्पुरस्तात्पत्रलेखागमनवृत्तान्तप्रश्रः । वैशम्पायनवृत्तान्तमेव तावत्पृच्छामि । अपि दृष्टस्त्वयाच्छोदसरसि वैशम्पायनः ? पृष्टो वावस्थानकारणम् ? स्मरति वास्माकमृ? वृष्टोऽसि वानेन किंचिन्मदीयम् ? उपलब्धे वाभिप्रायः ? उत्पन्नो वालापो युवयोः? आवेदितं वास्मदीयमागमनम् ? नापयास्यति वा तस्मात्प्रदेशात् ? ग्रहीष्यति वास्मदनुनयम् ? आगभिश्यति वा पुनर्मया सह? किं कुर्वन्दिवसमास्ते ? को वा विनोदोऽस्य तिष्ठतः ? ’’ इति ॥
स त्वेवं पृष्टो व्यज्ञपयत्—- "” देव, देवेन तु “वैशम्पायनमालोक्य, अनुपदमेव तुरंगमैरागत् एवाहम्’ इत्यादिश्च विसर्जितोऽहम् । अच्छोदसरसः प्रतीपं वैशम्पायनो गत इत्येषान्तरा वार्तैव नोपजाता । चिरयति च
देवे जलदसमयारम्भमालोक्य, “कदाचिदेतेषु दिवसेषु देवेन तारापीडेत कृतप्रयत्नोऽपि न मुच्यत एवागन्तुं देवश्यचन्द्रापीडः । त्वया चैकाकिना न स्थातव्यमेवास्यां भूमौ । परा गतप्रायाश्च वयम् । तन्निवर्तस्वास्मादेव प्रदेशात् ’ इत्यभिधाय, पत्रलेखया केयूरकेण च त्रिचतुरैः प्रयाणकैरप्राप्त एवाच्छोदं यावद्वलान्निवर्तितोतोऽस्मि’’ इति ॥
एवमावेद्य विरतवचनं तं पुनरपृच्छम्—- “किमाकलयसि, अद्यतनेनाङ्गा यावत्परापतिता पत्रलेखा, न’ इति । स तु व्यज्ञपयत्—- “देव, यद्यन्तरा कश्चिदन्तरायो न भवति विलब्मकारी, तदाविना संदेहेन परापतति । एवमवगच्छति मे हृदपयम्’ इत्युक्तवति मेधनादे, घनसमयवर्धिताभोगमकरध्वजार्णवमध्यपातिनीं स्वानुमानात्कादम्बरीमुत्प्रेक्ष्योत्प्रेक्ष्य विक्लबीभवतः पर्यावर्तन्तेवास्य जलधराः कालपुरुषैः, केतकामोदो विषपरिमलेन, कुटजतरवः कृतान्तहासैः, अपि च, शरीरेऽपि बलं क्षामतया, कान्तिर्वैवर्ण्येन, धैर्यं विषादेन, अङ्गान्सहतया, करणान्यपाटवेन, सर्वमेवारत्या । दिवसैश्चोल्लिख्यमानमिव अनवरतवाहिनाश्रुपूरप्रवाहेणावभज्यमानमिवस्वल्पावशेषम् संकल्पलिखितेन निर्विषवृत्तिना कादमृबरीशरीरेणैव सह कण्ठलग्रं क?थंकथमपि जीवितं धारयन्, उपहतं प्रावृषा, दृष्टपूर्वमप्यदृष्टपूर्वमिवादत्तदृष्टिसुखम्,
तदेवाच्छोदमुपाहितद्विगुणदुःखमाससाद ॥
आसाद्य चोपसर्पन्नेव सर्वाश्ववारानादिदेश— “कदाचिदसौ वैलक्ष्यादस्मानालोक्यापसर्पतृयेव । तच्चतुर्ष्वपि पार्श्वेष्ववाहिता भवन्तु भवन्तः’ इति । आत्मनापि तुरगगत एव खिन्नोऽप्यखिन्न इव वि चिन्वन् समन्ताद्वभ्राम भ्रम्यंश्च यदा न क्कचिदपि किंचिदवस्थानचिह्नमप्यद्राक्षीत्, तदा चकार चेतसि— ““नियतमसौ पत्रलेखासकाशान्मदागमनमुपलभ्य प्रथममेवापक्रान्तः, येनावस्थानचिङ्गमात्रं कथमपि नोपलक्ष्यंते । वैशम्पायनमदृष्ट्वास्मात्प्रदेशात्पदमपि गन्तुं पादावेव नोतृसहेते मे । सर्वथा विनष्टोऽस्मि । न दृष्टा देवी कादम्बरी, नापि वैशम्पायनः’’ इत्येवमुत्पन्ननिश्चयोऽपि, अषरिच्छेद्यस्वभावतृवात्प्रत्याशायाः, “कदाचिदस्य वृत्तान्तस्याभिज्ञा महाश्वेतापि भवत्येव । तत्तां तापतृपश्यामि । ततो यथायुक्तं प्रति?पत्स्ये’इत्यारोप्य हृदये, महाश्वेताश्रममुपजगाम । प्रविश्य च गुहाद्वार एव धबलशिपलातले समुपविष्टामधोमुखीं कथंकथमपि तरलिकया विधृतशरीरां महाश्वेतामपश्यत् । दृष्ट्वा च तां तादृशीमस्योदपादि हृदये— ““मा नाम देव्याः कादम्बर्या एव किमप्यनिष्टमुत्पन्नं भवेत्, येनेयमीदृश्यवस्था हर्षहेतावपि मदागमनेऽनुभूयते महाश्वेतया’’ इत्याशङ्कभिन्नहृदयोऽयमुङ्डीनै रेव प्राणैः पदे पदे स्खलन्निव पतन्निव प्रोद्बाष्पविषण्णवदनः, “किमेतत् ’ इति तरलिकामपृच्छत् ॥
अथानुपसंहृतमन्युवेगापि गद्गदिकावगृह्ममाणकण्ठा महाश्वेतैव प्रत्यवादीत्— ““महाभाग, किमियमावेदयति वराकी । श्रूयताम्— केयूरकाद्भवद्गमनमाकर्ण्य, विदीर्णमानसा “न मया चित्ररथस्य मनोरथः पूरितः । न गृहाभ्यागतस्य चन्द्रापीडस्य प्रियमनुष्ठितम् । न चापि हृदयवल्लभसमागमनिर्वृता प्रियसखी कादम्बरी वीक्षिर्ता इत्युतृपन्नानेकगुणवैराग्या, पुनः कष्टतरतपश्चरणायात्रैवायाता । तावदत्र महाभागस्यैव तुल्याकृतिम्, उन्मुक्तमिवान्तःकरणेन ब्राह्मणयुवानमपश्यम् । स तु मामुपसृत्यानन्यदृष्टिरदृष्टपूर्वोऽपि प्रत्यभिजानान्निव, सुचिरमालोक्याब्रवीत्—”” वरतनु, सर्व एव हि जगति जन्मनो वयस आकृतेर्वा सदृशमाचरन्न वचनीयतामेति । तव पुनरेकान्तवामप्रकृतेर्विधेरिव विसृदृशानुष्ठाने कोऽयं प्रयत्रः । यदियम?ल्लिष्टमालतीकुसुमसुकुमारा मालेव कण्ठप्रणयैकयोगय्या तनुरनुचितेनामुना कष्टतरतपश्चरणपरिल्लेशेन म्लानिमुपनीयते । जातस्य हि रूपगुणविहीनस्यापि जन्मोपनतानि जीवलोकसुखान्यनुभूय शोभते परत्रसंबन्धी तपश्चरणपरिक्लेशः; किं पुनराकृतिमतो जनस्य । तद्दुःखयति मामस्यास्ते स्वभावसरसायास्तनोस्तपःपरिक्लेशः । यदि च त्वाद्दशीजीवलोकसुखेभ्यः पराङ्मुखी तपसा क्लेशयत्यात्मानम्, तदा वृथा वहति धनुरधिज्यं कुसुमकार्मुकः ’’ ॥
अहं तु तं वदन्तमपि “कस्त्वम्, कुतो वा समायातः, किमर्थं वा मामेवमभिदधासि’ इत्यपृष्टैवान्यतोऽगच्छम् । गत्वा च देवार्चनकुसुमान्याचिन्वती, तरलिकामाहूयाब्रवम्—- ““तरलिके, योऽयं युवा
कोऽपि ब्राह्मणाकृतिः, अस्यावलोकयतो वदतश्चान्यादृश एवाभिप्रायो मयोपलक्षितः । तन्निवावार्यतामयम्, यथा पुनरत्र नागच्छति । अथ निवारितोऽप्यागमिष्यति, तदावश्यमेवास्याभद्रकं भविष्यति’’ इति । सतु निवार्यमाणोऽपि नात्याक्षीदेवानुबन्धनम् । अतीतेषु केषुचिद्दिवसेषु, एकदा गाढायां यामिन्याम्, चन्द्रमसि निहितद्दष्टिः, “अपि नामायमेभिरमृतवर्ष्ज्ञिभिरखिलजगदाह्लादकारिभिः करैश्चन्द्रमास्तमपि हृदयवल्लभं मे वर्षेत् ’ इतृयाशंसाप्रसङ्गेन देवस्य सुगृहीतनाम्रः पुण्डरीकस्य स्मरन्ती जाग्रत्येवातिष्ठम् ॥
अथ निभृतपदसंचरणम्, आ चरणादुत्कण्टकम् अनवरतपतितमदनशरशल्यनिकरनिचितमिव शरीरमुद्वहन्तम्, दूरीकृतं परलोकभीत्या, उन्मादादपतन्म्, दूरतोऽपि दिवसनिर्विशेषेण चन्द्रातपेन विभाव्यमानं तमेव युवानमद्राक्षम् ॥
दृष्ट्वा च तं तादृशम्, निस्पृहाप्यात्मनि परं भयमुपगतवती चेतस्यचिन्तयम्—- ““अहो कष्टमापतितम् । यद्ययमुन्मादादागत्य पाणिनापि स्पृशति माम्, तदा मयेदमपुण्यहतं शरीरमुत्स्त्रष्टव्यम् । तच्चिराद्देवस्य पुण्डरीकस्य पुनर्दर्शनप्रत्याशया दुःखोत्तरमप्यङ्गीकृतं व्यर्थतां मेयातं प्राणसंधारणम्’’ इति ॥
स त्वेवं चिन्तयन्तीमेव मामुपस्त्याब्रवीत्—- ““चन्द्रमुखि, हन्तुमुद्यद्यतो मामयं कुसुमशरसहायश्चन्द्रमाः । तच्छरणमागतोऽस्मि । रक्ष मामशरणमनाथमात्रमप्र?तीकारक्षममात्मना त्वदायत्तजीवितम् । शरणागतपरित्राणं
हि तपस्विनामपि धम्र एव । तद्यदि मामत्मप्रदानेन नात्र संभावयसि, तदा हतोऽमाभ्यां कुसुमशरीशिरकराभ्याम्’’ इति । अहं तु तदाकर्ण्याविष्टेवात्मानमप्यचेतयमाना, क्रोधावेगरूक्षाक्षरमवदम्— "” आः पाष, कथमेवं गदतो मामुत्तमाङ्गे ते न निपतितं वज्जुम्, अवशीर्णा वा न सहस्त्रधा जिह्ला । मन्ये च, न सन्त्येव तेऽस्मिञ्शरारे सकललोकशुभाशुभसाक्षिभुतानि पञ्चमहाभूतानि; येनैवं वदन्नाग्रिना भस्मीकृतोऽसि, न वायुना हृतोऽसि, नाम्भसा प्लावितोऽसि, न धरित्र्या रसातलं प्रवेशितोऽसि, नापित तत्क्षणमेवाकाशेनात्मनिर्विशेषतां नीतोऽसि । येनेव खलु हतविधात्रा केनाप्युपदर्शितमुखरागः स्वपक्षपातमात्रप्रवृत्तिरनिरूपितस्थानास्थानवादी शुक इव वक्तुमेवं शिक्षितः, तेनै वकिमु तस्यामेव जातौ न निक्षिप्तोऽसि; येनैकान्तहासहेतुरेवं वदन्नपि न क्रोधमुत्पादितवानसि । त्वदुक्ते दुःखिताहं ते संविभागमिमं करोमि, येनात्मवचनानुरूपां जातिमापन्नो नैवास्मद्विधाः कामयसे ’’ इत्युक्त्वा, चन्द्राभिमुखी भूत्वा कृताञ्जलिः पुनरवदम्—- “भगवन् परमेश्वर लोकपाल, यदि मया देवस्य पुण्डरीकस्य दर्शनात्प्रभृति मनसाप्यपरः पुमान्न चिन्तितः, तदानेन मे सत्यवचनेनायमलीककामी मदुदीरितायामेव जातौ पततु ’ इति । स च मे वचसोऽस्यानन्तरमेव छिन्नमूलस्तरुरिवाचेतनः क्षितावपतत् । अतिक्रान्तजीवितेऽस्मिन्, कृताक्रन्दात्तत्परिजनाच्छ्रुतवती— यथा– असौ महाभागस्यैव मित्रं भवति’’ इत्युक्त्वा च त्रपावनम्रमुखी महीं भहीयसाश्रुवेगेन तूष्णीमेवाप्लाविवती ॥
चन्द्रापीडस्य तु तदाकर्ण्य ““भगवति, कृतप्रयत्नायामपि भगबत्याम् , अपुण्यभाजास्मिञ्जन्मनि मया न प्राप्तं देव्याः कादम्बर्याश्चरणपरिचर्यासुखम् । तज्जन्मान्तरेऽपि वा भगवती संपादयित्री मूयात् ’ इति गदत एव स्वभावसरसं हृदयमस्फटत् ॥
अथ महाश्वेतायाः शरीरमुत्सृज्य संभ्रभप्रतिपन्नचन्द्रापीडशरीरायाम् ““भर्तृदारिके, किं लज्जया । पश्य तावत्, अन्यथैव कथमप्यास्ते देवश्चन्द्रापीडः । भग्रेवास्य ग्रीवा न मूर्धानं धरयति । विचालितो1़पि न किंचिच्चेतयते । नोच्छ्वसिति हृदयेन । हा देव चन्द्रापीड चन्द्राकृते कादमृबरीप्रिय, क्केदानीं त्वया विना गम्यते ’’ इत्युक्त्वार्तवचसि तरलिकायाम्, तिर्यगाभुग्रचन्द्रापीडमुखनिहितनिश्चलस्तब्धदृदष्टिनिश्चेष्टयां महाश्वेतायाम्, ““आः पापे दुष्टतापसि, किमिदं त्वया कृतम् । अपाकृताखिलजगत्पीडस्य तारापीडस्य कुलमुत्सादितम् । अनाथीकृताः प्रजाः सहास्माभिः । कस्य वदनमीक्षतां लक्ष्मीः । कोऽवलग्बनं भवतु भवतु भूमेः । कथं कथावशेषीभूतोऽसि । धीरस्यापि ते कथं कातरस्येव शुचा भिन्नं हृदयम् । देव, प्रसीद, प्रतिनपद्यस्व प्राणान् । परित्यज्य च सर्वान्, एकाकी क्क प्रस्थितोऽसि’’ इतृयुक्तवतृयारटति परिजने, चन्द्रापीडवदननिवेशितदृशि दीनतरहेषारवकृताक्रन्दे तुरंगमतां मुमुक्षतीवेन्द्रायुधे, पत्रलेखानिवेदितचन्द्रापीडागमना, व्याजीरकृत्य महाश्वेतादर्शनं मातापित्रोः पुरः ?प्रतिपन्नशृङ्गारवेषाभरणा, पुरः केयूरेकेणोपदिश्यमानमार्गा, पत्रलेखाहस्तावलम्बिनी, मदलेखया सह कृतालापैवाचेतितागमनखेदा, कादमृबरी चन्द्रापीडदश्रनायोत्ताम्यन्ती, तत्रैवाजगाम ॥
आगम्य चोद्धृतामृतमिव रत्नाकरम् , उतृखातर्णिकमिव कमलम्, उन्मुक्तजीवितं चन्द्रापीडमद्राक्षीत् । दृष्ट्वा च तम्, सहसा “हा हा किमिदम् ’ इत्यधोमुखी धरातलमुपयान्ती कथंकथमपि मुक्ताक्रन्दया ममदलेखयाधार्यत । पत्रलेखा पुनरुन्मुच्य कादमृबरीकरतलम्, अचेतना क्षितिमुपागमत् । चिराच्च लग्धसंज्ञापि कादम्बरीतथैव निश्चलस्तब्धदृष्टिः, स्तम्भितेव निष्प्रयत्ना निश्वसितुमपि विस्मृता, चन्द्रापीडवदउनसमर्पिताक्षी, स्त्रीस्वभावविरुद्धेन चेतसया तस्थैः ॥
तथावस्थितां च तामुन्मुक्तार्तनादां सपादपतनं मदलेखाब्रवीत्—-““प्रियसखि, उत्सृजेमं मन्युसंभारमारटन्ती । आष्पमोक्षेणामुच्यमानेऽस्मिन्, नियतमतिभारोत्पीडितं तटाकमिव सरसमृदु सहस्त्रधा स्फुटति ते हृदयम् । अपेक्षस्व देवीं मदिरां देवं च चित्ररथम् । त्वया विना कुलद्वयमपि नास्ति ’’ इत्युक्तवतीं मदलेखां कादम्बरी विहस्याब्रवीत्—- "” अय्युन्मत्तिके, कुतोऽस्य मे वज्रसारकठिनस्य हतहृदयस्य सफुटनम् । यन्नालोक्यैवं सहस्त्रधा स्फुटितम् ।अपि च, या जीवति, तस्याः सर्वमिदम्— माता पिता बन्धुरात्मा सख्यः परिजन इति । मया पुनर्म्रियमाणया जीवितभूतं कथंकथमपि समासादितमिदं प्रियतमशरीरम्, यज्जीवदजीवद्वा
संभोगेनानुमरेणेन वा द्विधापि सर्वदुःखानामेवोपशान्तये । तत्किमिति देवेनागच्छता मदर्धं प्राणांश्चोत्सृजता सुदूरमारोपितं गुरुतां च नीतमात्मानमश्रुपातमात्रकेण लघूकृत्य पातयामि । कथं स्वर्गमनोन्मुखस्य देवस्य रुदितेनामङ्गलं करोमि । कथं वा पादधूलिरिव पादावनुगन्तुमुद्यता हर्षस्थानेऽपि रोदिमि । किं मे दुःखमेवंविधम् । अधुना तु मे सर्वदुःखान्येव दूरीभूतानि । अस्मिन्समये मरणमेव मे जीवितम् । जीवितं पुनर्मरणम् । तद्यदि ममोपरि स्त्रेहः, करोषि मत्प्रियं हितं वा, तन्ममोपरि स्त्रेहाबद्धयापि प्रियसख्या तथा कर्तव्यम्;यथा न तातोऽम्बा च मच्छोकादात्मानं परित्यजतः, यथा च मयि वाञ्छितं मनोरथं त्वयि पूरयतः, येन परलोकगताया अपि मे जलाञ्जलिदानाय पुत्रकस्त्वयि भविष्यति । यथा च मे सखीजनः परिजनो वा न स्मरति, शून्यं वा भवनमालोक्य न दिशो गृह्लाति, तथा करिष्यसि । पुत्रकस्य मे भवनाङ्गणे सहकारपोतस्य त्वया मच्चिन्तयैव माघवीलतया सहोद्वाहमङ्गलं स्वयमेव निर्वर्तनीयम् । वासभवने मे शिरोभागनिहितः कामदेवपटः पाटनीयः । पञ्जरबन्धदुःखाद्वराकी कालिन्दी सारिका शुकश्च परितासो द्वावपि मोक्तव्यौ । क्रीडापर्वतकः कस्मै चिदुपशान्ताया तपस्विने प्रतिपादयितव्यः । शरीरोपकरणानि मे ब्राह्मणेभ्यः प्रतिपादनीयानि । अपरमपि यत्ते रोचते, तदपि स्वीकर्तव्यम् । अहं पुनरिमममृतकिरणरश्मिभिर्दग्धशेषम् उज्जवलचिताज्वालामालिनि विभावसौ देवस्य कण्ठलग्रा निर्वापयाम्यात्मानम् ’’ इत्यभिदधानैव, महाश्वेतां कण्ठे गृहीत्वा, निर्विकारवदनैव पनस्तामवादीत्—- “?‘प्रियसखि, तवास्ति कीदृश्यपि प्रतृयाशा, यया पुनः समागमाकाङ्क्षिणी क्षेण क्षेण मरणाभ्यधिकानि दुःखान्यनुभवन्ती जीवितमलज्जाकरं धारयसि । मम पुनः सर्वतो हताशायाः सापि नास्ति । तदामन्त्रये प्रियसखीं पुनर्जन्मान्तरसमागमाय ’ इतृयभिधाय, चन्द्रापीडचरणौ स्त्रवत्खेदामृतार्द्राभ्यां कराभ्यामुत्क्षिप्याङ्केन धृतवती ॥
अथ तत्करस्पर्शोनोच्छ्वसत इव चन्द्रापीडदेहान् झटिति तुहिनमयमिव सकलमेव तं प्रदेशं कुर्वाणमव्यक्तरूपं किमपि चन्द्रधवलं ज्योतिरिवोज्जगाम । अनन्तरं चान्तरिक्षे क्षरन्तीवामृतमशरीरिणी वागश्रूयत— "” वत्से महाश्वेते, पुनरपि त्वं मयैव समाश्वासयितब्या वर्तसे । तत्ते पुण्डरीकशरीरं मल्लोके मत्तेजसाप्यायमानमविनाशिभूयस्त्वत्समागमनाय तिष्ठत्येव । इदमपरं मत्तेजोमयं स्वत एवाविनाशि विशेषतोऽमुना कादमृबरीकरस्पर्शेनाप्यायमानं चन्द्रापीडशरीरं शापदोषाद्विमुक्तमप्यन्तरात्मना कृतशरीरान्तरसंक्रान्तेर्योगिन इव शरीरमत्रैव भवत्योः प्रत्ययार्थमा शापक्षयादस्ताम् । यत्नतः परिपालनीयमा समागमप्राप्तेः ’’ इति ॥
पत्रलेखा तु तेन तस्य ज्योतिषः स्पर्शेन लब्धसंज्ञोत्थाय, आविष्टेव वेगाद्धावित्वा, परिबर्धकहस्तादाच्छिद्येन्द्रायुधम्, तेनैव सहात्मानमच्छोदसरस्यक्षिपत् ॥
अथ तयोर्निमज्जनसमयानन्तरमेव, तस्मात्सरसः सलिलत् , शैवलोत्करमिव शि?रसि लग्रं जटाकलापमुद्वहन,उद्विग्राकृतिस्तापसकुमारकः सहसैवोदतिष्?ठत् । उत्थाय च दूरत एव विलोकयन्तीं महाश्वेतामुपसृत्य शोकगद्गदमवादीत्—- “गन्धर्वराजपुत्रि, जन्मान्तरादिवागतो1़पि प्रत्यभिज्ञायतेऽयं जनः, न वा’ इति । सा त्वेवं पृष्टा शोकानन्दमध्यवत्रिनी, ससंभ्रममुत्थाय कृतपादवन्दना, प्रत्यवादीत्— "” भगवन्कपिञ्जल, नाहमेवंविधापुण्यवती, या भवन्तमपि लन प्रत्यभिजानामि । अथवा युक्तैवेदृशी मय्यनात्मज्ञायां संभाबना, याहमेकान्तत एव व्यामोहहता स्वर्गं गतेऽपि देवे पुण्डरीके जीवामि । तत्कथय— केनासावुत्क्षिप्य नीतः ? किं वा तवोपजातम्, येनैतावता कालेन वार्तापि न दत्ता । कुतो वा त्वमेकाकी देवेन विना समागतः ’’ । स तु प्रत्यवादीत्— ““गन्धर्वराजपुत्रि, श्रूयताम्— अहं हि कृतार्तप्रलापामपि त्वामेकाकिनीं समुपसृज्य, तं पुरुषमनुबध्रन, जवेनोदपतम् । स तु मे प्रतिवचनमदत्त्वैवातिक्रम्य तारागणम्, चन्द्रलोकमगच्दत् । तत्र च महोदयाख्यायां सभायाम्, इन्दुकान्तमये महति पर्यङ्के, तत्पुण्डरीकशरीरं स्थापयित्वा मामवादीत्— “कपिञ्जल, जानीहि मां चन्द्रमसम् । अहं खल्वनेन तेप्रियवस्येन कामापराधज्जीवितमुतृसृजता निरपराधः संशप्तः—- “दुरात्मन्निन्दुहतकद्व यथाहं त्वया करैः संताप्योत्पन्नानुरागः सन्नसंप्राप्तहृदयवल्लभासमागमसुखः प्राणैर्वियोजितः, तथा त्वमपि कर्मभूमीभूतेऽस्मिन्भारते वर्षे जन्मनि जन्मन्येवोत्पन्नानुरागोऽप्राप्तसमागमसुखः, तीब्रतरां हृदयवदेनामनुभूय, जीवितमुत्स्त्रक्ष्यसि ’ इति । अहं तु तेनास्य शापहुतभुजा ज्ञटिति ज्वलित इव
“निरागाः किमनेनात्मदोषानुबन्धेन निर्विवेकबुद्धिना शप्तोऽस्मि ’ इत्युत्पन्नकोपः “तृवमपि मत्तुल्यदुःखसुख्चा एव भविष्यसि’ इति प्रतिशापमस्मै प्रायच्छम् । अपगतामर्षश्च विवेकमागतया दुद्धया विमृशन्महाश्वेताव्यतिकरमस्याधिगतवानस्मि । वत्सा तु महाश्वेता मन्यूखसंभवादप्सरसः कुलाल्लब्धजन्मनि गौर्यामुत्पन्ना । तया चायं भर्ता स्वयंवृतः । अनेन च स्वयंकृतादेकातृमदोषान्मया सह मर्त्यलोके वारद्वयमवश्यमुत्पत्तव्यम् । अन्यथा ““जन्मनि जन्मनि ’ इत्येषा वीप्सैव न चरितार्था भवति । तद्यावदयं शापदोषादपैति, तावदस्यात्मना विरहितस्य शरीरस्य मा विनाशो भूदिति मयेदमुत्क्षिप्य समानीतम् । वत्सा च महाश्वेता समाश्वासिता । तदिदमत्र मत्तेजसाप्यायमानमा शापक्ष्यात्थितम् । अधुना त्वं गत्वैनं वृत्तान्तं श्वेतकेतवे निवेदय । महाप्रभावोऽसौ कदाचिदत्र प्रतिक्रियां कांचिदपि कांचिदपि करोत ’ इत्युक्त्वा मां व्यासर्जयत् ॥
अहं तु विना वयस्येन शोकावेगान्धो गीर्वाणवर्त्मनि धावन्, अन्यतममतिक्रोधनं वैमानिकमलङ्घयम् । स तु मां दहन्निव निरीक्ष्याब्रवीत्—- “दुरात्मन, यदेवमतिविस्तीर्णे गगनमार्गे त्वयाहमुद्दामप्रचारिणा तुरंगमेणेवोल्लङ्घितः, तस्मात्तुरंगम एव भूत्वा मर्त्यलोकेऽवतर ’ इति । अहं तु तमुद्वाष्पपक्ष्मा कृताञ्जलिरवदम्—- “भगवन्, वयस्यशोकान्धेन त्वं मयोल्लङ्घितो नावज्ञया । तत्प्रसीद । उपसंहर शापमाशु त्वमिमम् ’ इति । स तु मां पुनरवादीत्—“यन्मयोक्तम्, तन्नान्यथा भवितुमर्हति । तदेतत्ते करोमि—- कियन्तमपि कालं यस्यैव वाहनतामुपयास्यसि, तस्यैवावसाने स्त्रात्वा विगतशापो भविष्यसि ’ इति । एवमुक्तस्तु तमहमवदम्—- " भगवन्, यद्येवम्, ततो विज्ञापयामि—- तेनापि मत्प्रियवयस्येन पुण्डरीकेण चन्द्रमसा सह शापदोषान्मर्त्यलोक एवोत्पत्तव्यम् । तदेतावन्मतमपि भगवान्नप्रसाहं करोतु मे दिव्येन चक्षुषावलोक्य— यथा तुरंगमत्वेऽपि मे तेनैव प्रियवयस्येन सहावियोगेन कालो यायात् ’ इति । स त्वेवमुक्तो मुहूर्तमिव ध्यात्वा पुनर्मामवादीत्—-“उज्जयिन्यामपत्यहेतोस्तपस्यतस्तारापीडनाम्रो राहः सनिदर्शनं चन्द्रमसा तनयत्वमुपगन्तव्य ; वयस्येनापि ते पुण्डरीकेण तन्मन्त्रिण एव शुकनासनाम्रः । त्वमपि तस्य महोपकारिणश्चन्द्रात्मनो राजपुत्रस्य वाहनतामुपयास्यसि ’ झति । अहं तु तद्वचनानन्तरमेवाधःस्थिते महोदधौ न्यपतम् । तस्माच्च तुरंगीभूयैवोदतिष्ठम् । संज्ञा तु मे तुरङ्गत्वेनापि न व्यपगता ’’ ॥
इत्येतच्छ्रुत्वा “हा देव पूण्डरीक, जन्मान्तरेऽप्यविस्मृतमदनुराग, लोकान्तरगतस्यापि तेऽहमेव राक्षसी विनाशायोपजाता । दग्धप्रजापतेरियदेव मन्निर्माणे दीर्धजीवितप्रदाने च प्रयोजन निष्पन्नम्, यत्पुनः पुनस्ते व्यापादनम्’ इत्येवं कृतार्तप्रलापां महाश्वेतां कपिञ्जलः पुनरपि सानुकम्पमवादीत्—- ““गन्धर्वराजपुत्रि, कस्तवात्र दोषः, येनैवमनिन्दनीयमात्मानं निन्दापदैर्योजयसि । यथा च शापदोषादिदमुपगतं भवतृयोद्वर्ययोरपि दुःखम्, तथा मया कथितमेव । चन्द्रमसोऽपि भारती भवतीभ्यां श्रुतैव । द्वयोरेव श्रेयसे यदेव भवत्याङ्गीकृतम्, तदेवानुबध्यतां व्रतपरिग्रहोचितं तपः । तपसो हि सम्यक्कृतस्य नास्त्यसाध्यं नाम किंचित्’’ इति महाश्वेतां पर्यबोधयत् ॥
अपशान्तमन्युवेगायां च महाश्वेतायाम्, कादम्बरीकपिञ्जलमप्राक्षीत् —- “भगवन्, पत्रलेखया त्वया चास्मिन्सरसि जलप्रवेशः कृतः । तत्किं तस्याः पत्रलेख्यायाः संवृत्तमित्यावेदनेन प्रसादं करोतुभगवान् ’ इति । स तु प्रत्यवादीत्— ““राजपुत्रि, सलिलपातानन्तरं न कश्चिदपि तद्वृत्तान्तो मया ज्ञातः । तदधुना क्क चन्द्रापीडस्य जन्म, क्क वैशम्यायनस्य, किं वा पत्रलेखाया वृत्तमिति सर्वधैवास्य वृत्तान्तस्यावगमनाय गतोऽहं प्रत्यक्षलोकत्रयम्य तातस्य श्वेतकेतोः पादमूलम् ’’ इत्यभिदधन एव गगनमुदपतत् ॥
अथ गते तस्मिन्, कादम्बरीमहाश्वेतामवादीत्—- "” प्रियसखि, तुल्यदुःखतां तृवया सह नयता न खल्वसुखं स्थापितास्मि भगवता विधात्रा । अद्य मे शिरः समुद्घाटितम् । संप्रति मरणं जीवितं वा न दुःखाय मे । तत्कोऽपरः प्रष्टव्यो मया । केन वापरेणोपदेष्टम् । तदेवं गते यत्करणीयम्, तदुपदिशतु मे प्रियसखी । नाहमात्मना किंचिदपि वेह्मि— किंकृतृवा श्रेयः ’’ इत्युक्तवतीं कादम्बरीं महाश्वेता प्रत्यवादीत्—- ““प्रियसाखि, किमत्र प्रश्रेनोपदेशेन वा । यदेवेयमनतिक्रमणीया प्रियतमसमप्रत्याशा कारयति, तदेव करणीयम् । तत्त्वमन्यत्किं करोषि, यस्याः प्रत्ययस्थनमिदं चन्द्रापीडशरीरमङ्क एवास्ते । तदन्यथात्वेऽस्य करणीया
चिन्ता । यावत्पुनरिदमविनाशि तिष्ठति, तावदेव तस्यानुवृत्तिं मुक्त्वा किमन्यत्करणीयम् । अप्रत्यक्षाणां हि देवतानां मृदश्मकाष्ठमय्यः प्रतिमाः श्रेयसे पूजासत्कारेणोपचर्यन्ते । किं पुनः प्रत्यक्षदेवस्य चन्द्रापीडनामान्तरितस्य चन्द्रमसो मूर्तिरनाधितप्रसन्ना’ ॥
इत्युक्तवत्यां महाश्वेतायाम्, कादम्बरी तामखेदार्हां चन्द्रापीडतनुमन्यतरस्मिन् शिलातले शनैरखेदयन्ती स्थापयित्वा, मङ्गलमात्रकावस्थापितैककररसत्रवलया स्त्रानशुचिभर्मूत्वा, देवतोचितामपचितिं संपाद्य, तथैवाङ्के समारोपितचन्द्रापीडचरणद्वया, राजपुत्रलोकेन स्वपरिजनेन च सह निराहारा तं दिवसमक्षिपत् ॥
यथैव च दिवसमशेषम्, तथैव तां गम्भीरमेघोपरोधभीमां जाग्रती समुपविष्टैव क्षणमिव क्षपां क्षपितवती । प्रातश्च तत् उन्मीलितं चित्रमिव चन्द्रापीडशरीरमवर्लाक्य, शनैः शनैः पाणिना स्पृशन्ती, पार्श्वस्थितां मदलेखामवादीत्—- “प्रियसखि मदलेखे, न वेझि—- किं रुचेर्वशात् उत निर्विकारतयैवेति । अहं तु तादृशीमेवेमां तनुमालोकयामि । तत् त्वमपि तावदारतो निरूपय’ इत्येवमुक्ता मदलेखा तां प्रत्यवादीत्—- "” प्रियसखि, किमत्र निरूपणीयम् । अन्तरातृमनो विराद्व्यापारमत्रकमस्योपरतम् । अन्यत्, तादृशमेवेदं मनागप्यनुन्मुक्तं श्रिया वदनम् । तथैव चेदमविगलितसहजलावण्यसौकुमार्याणां सौष्ठवमङ्गानाम् । तत्सतृसा सा भारती, कपिञ्जलावेदितश्च शापवृत्तान्त इति संभावयामि’’ इत्युक्तवत्यां मदलेखायाम्, आनन्दनिर्भरा महाश्वेतायै राजपुत्रलोकायापि दर्शयित्वा कादमृबरी, शरीस्थितिकरणायादिदेश सकलमेव राजलोकम् । आत्मनापि महाश्वेतयोपनीतानि तयैव सह सपरिवारा फलान्युपभुक्तवती । अन्येद्युश्चोपजातदृढतरप्रत्यया मदलेखामवादीत्—““प्रियसखि, देवस्य शरी?रमिदमुपचरन्तीभिरवश्यम् आ शापक्षयादस्माभिरधुनात्रस्थातव्यम् । तदिममत्यद्भंतं वृत्तान्प्तं तातस्यामृबायाश्च गत्वा निवेदय । यथा मामेवंविधां दुःखभागिनीमागत्य न पश्यतः, तथा करिष्यसि । न शक्रोम्यहं तातमम्बां तातमम्बां च दृष्ट्वा शोकवेगं धारयितुम् । मया चोपरतमेव देवमालोक्य न रुदितम् । सा,किमपरम्, अधुना निःसंशयितजीविते देवे प्रतिपन्ननियमा रोदिमि’’ इत्यभिधाय तां व्यसर्जययत् ॥
गत्वा आगतया च तया ?“प्रियसखि, सिद्धं तेऽभिवाञ्छितम् । एवं संदिष्टं तातेनामृबया च-शापावसाने जामात्रा सहेवानन्दबाष्पनिर्भरमाननारविन्दं ते द्रक्ष्यावः ’ इत्यावेदिते, निर्वृतेनान्तरात्मना अतिष्ठत् ॥
अथापगतवति जलदसमये, घननिरोधोद्वन्धादिवोन्मुक्ते जीवलोके, प्रसरन्तीष्विवाशासु, सलिलापसरणक्रमतरङ्ग्यमाणासु सुकुमारतीसैकतरेखासु, एकदा कादम्बरीमुपसृत्य मेघनादो व्यज्ञपयत्—““देवो युवराजराजश्चिरयतीयतीत्यत्ताम्यता हृदेयन देवेन तारापीडेन वार्ताहाराः प्रहिताः । ते च देव्या एव शोकंशल्यघटनां परिहरद्भिर्यथावृत्तं सर्वमाख्यायास्माभिरभिहिताः— “भवतां हस्ते देवेन चन्द्रापीडेन न किंचितृप्रतिसंदेष्टव्यम् । नापि देव्या कादम्बर्या । तदकृतविलम्बा एव गत्वैवमखिलवृत्तान्तं तारापीडायावदेयत’ इत्येवमभिहितास्तु तेऽस्मान्मन्युनिर्भराः प्रत्यवदन्—- “यथा भवद्भिः क?थितम् तत्तथा । तिष्ठतु तावत्क्रमागतेस्त्रेहो भक्तिरनुवृत्तिर्वा । कार्यगौरवकृतं कुतूहलमेव देवावलोकनं प्रति बलात्प्रेरयत्यस्मान् । तद्विज्ञाप्य देवीम्, देवस्य युवराजस्य पादप्रणामेनास्माकं सफलयतु भवानागमनपरिश्रमम् । अन्यथा भूमिमेतावतीमागत्य, संभवे सति, अप्रतृयक्षीकृतयुवराजशरीरा गताः सन्तः किं तारापीडेन बक्तव्या वयम् । किं वास्माभिर्देवो विज्ञापयितव्यः ’ इत्यावेदिते, देवी प्रमाणम्’’ इति विज्ञाप्य पुनस्तूष्णीं स्थितवति मेघनादे; गद्गदिकयावगृह्ममाणकण्ठी कथमपि चिरात्कादम्बरी प्रत्युवाच— ““स्थान एव हि तैरगमनमङ्गीकृतम् । अनवलोक्य देवम्, एवमेव याताः सन्तः किमुच्यन्ताम् । अपि च, वृत्तान्त एवायमेवंविधो लोकातीतः, यत्रावलोकनेनापि न संप्रत्ययः समुत्पद्यते । किं पुनरनालोकनेन । तदपरिलम्बितं प्रवेश्यताम् । पश्यन्तु देवम् । ततो यास्यप्ति ’’ इति ॥
आज्ञानन्तरं च मेघनादेन प्रवेशितान्दूरत एव समं बाष्पपा तेन पञ्चाङ्गालिङ्गितमहीतलांस्ताननन्यदृष्टिश्चिरमिवालोक्य कादम्बरी स्वयमेवाभाषत— ““भद्रमतुखः, परित्यज्यतामयं क्रमागतस्त्रेहसद्भावसुलभः शोकावेगः । यत्खल्वनालोचिताविध दुःखावसानमेव दुःखम्, तन्मरणभीरोर्भवतु नाम शोकावेगाय । यतृपुनःसुखोदकर्मम्, तत्पुरःस्थितया सुखप्रत्याशयैवान्तरितं नापतति
हृदये । भवद्भिरपि दृष्टं च पुरेवाक्षततनोर्देवस्य वदनम् । तद्गम्यामधुना वार्तोत्सुकमतेर्देवस्य पादमूलम् । नचायं प्रत्यक्षदृष्टोऽप्युपरतशरीराविनाशवृत्तान्तः प्रकाशनीयः । “दृष्टोऽस्माभिरच्छोदरसि । तिष्ठति ’ इत्येतदेवावेदनीयम् । यतः कारणादुपरतिः खल्ववश्यंभाविनी प्राणिनां कथंचित्प्रत्ययमुत्पादयति । शरीविनाशः पुनः प्राणैर्विनाकृतानां दृश्यमानोऽप्यश्रद्धेय एव । तदस्यावेदेनेन सुदूरस्थिमपि गुरुजनं मरणसंशये निक्षिप्य वत्रमाने प्रयोजनमेव नास्ति । प्रत्यागतजीविते तथापि गुरूणां चेतःपीडामवेक्षमाणया मयैवमभिहितम् । कथ्यतां वास्तवं वृत्तम् । परं तु एभिः सहापरः कश्चिच्छ्रद्धेयवचाः संप्रत्ययाय व्रजतु’ इत्येवमादिष्टस्तु मेघनादः, त्वरितकनामानं कुमारबालसेवकमाहूय तैः सह व्यसर्जयत् ॥
अथ सुबहुदिवसापगमे वार्तां विनोत्ताम्यन्ती चन्द्रापीडस्यैवागमनायोपयाचितं कर्तुमवन्तिमातॄणामायतनं गता विलासवती, “देवि, दिष्टया वर्धंसे । प्रसन्नास्तेऽवन्तिमातरः । परागता युवराजवार्ताहराः ’ इति सहसैव संभ्रमप्रधावितातापरिजनादुपश्रुत्य, “केन दृष्टाः? कियद्दूरे वर्तन्ते ? किं वा तैः कथितं कुशलं मेवत्सस्य?’ इति पृच्छन्त्येवाद्राक्षीत् इतस्ततो यथादर्शनं संघशः प्रधावितेन नरपतिप्रतिबद्धेनाप्रतिबद्धेन चोज्जयिनीनिवासिना जनेन ““आगतो न युवराजः ? कियद्दूरे भवद्भिः परित्यक्तः ? दिवसेष्वेषु क्क वर्तते ? क्कवा भवद्भिर्यात्वा दृष्टः ? यदर्थमयं क्लेशः कृतोः कृतो युवराजेन, स दृष्टो वैशम्पायनः, प्रत्यानीतो वा ? ’’ इत्येतानि चान्यानि च प्रतिपदं पृच्छयमानाप्यदत्तवचसः, संदर्भानिव सर्वदुःखानाम्, दूरत एव त्वरितकसमेतांस्तान् लेखाहरकान् ॥
आलोक्य तस्मिन्नेव मातृगहाङ्गणे स्थित्वा, शून्यशरीरान्नि?र्जीवितानिवोपसर्पतस्तान् गद्गदतरमुच्चैरकृतनप्रणामानेवावादीत्—“भद्राः, कथयताशु वत्सस्य मे वार्तामात्रम् । इदं त्वन्यथैव किमपि कथयति मे हृदयम्’ इति । एवं पृष्टान् “देवि, दृष्टो।द्यस्माभिरच्छोदसरस्तीरे युवराजः । शेषमेष त्वरितको निवेदयिष्यति’ इत्यभिवदत एव तानुद्वाष्पमुखी प्रत्युवाच—““किमपरमयं तपस्वी निवेदयिष्यति । दूरतः प्रभृत्यप्रसृतप्रहर्षेणैवोपसर्पणेन, प्रतिलेखमालिकाशून्यैः शिरोभिः, यदावेदयितव्यम्, तद्भवद्भिरेवावेदितम्’ ॥
““हा वत्स जगदेकचन्द्र चन्द्रापीड, किं भूतं ते, येन नागतोऽसि । तात चन्द्रापीड, पीडिता ब्रवीभि, न कोपादुपालभमानान युक्तमेतत्तव “अम्ब न परिलम्बं मनागपि करोमि’ इति तथा मे पुरः प्रतिज्ञायान्यत्र क्काप्यवस्थातुम् । क्त्स, गच्छत एव ते मयास्य हतहृदयस्य शङ्कयैव ज्ञातम्—-दुष्करं मे वत्सस्य पुनर्मुखावलोकनमिति । बलाद्गतोऽसि । किं करोमि । को वात्र दोषो वत्सस्य । मन्दभाग्यायों ममैवैतान्युपण्यानां विलसितानि । भवन्त्यपुण्यवत्योऽपि लोके, न पुनर्मया सदृशी पापकारिणी; यस्यास्त्वमेक एवमकाण्डएवाच्छिद्य क्कापि नीतोऽति । विप्रलब्धास्मि दग्धवेधसा । वत्स, सुदूरस्यापि पादयोः षतामि ते । निवर्तस्वैकवारम् । “अम्ब’ इत्यालपतस्ते वदनमालोकयितुमुत्कण्ठितं मे हृदयम् । न वेझि किमपि—प्रियतया ते, किमाकृते प्रत्ययात्, उत स्त्रीजनसहभुवो मूढभावोदेवेति, अद्यापि न श्रद्दधाति मे हृदयमनिष्टं ते; येन न सहस्त्रधा स्फटति । तात, किं व्रवीषि, यथा—- “किमनेन सुतस्त्रेहानुचितेन लोकज्जाकरेण वैल्लब्येन’ इति । एषा स्थितास्मि ते वत्स, वचनात्तूष्णीम् । न रोदिमि ’’ इत्यभिदधानैवासन्नखीजनावलम्बितशरीरा मोहमगात् ॥
अथ विलासवतीतपरिजनेनावेदिते तस्मिन्वृत्तान्ते, मन्दरास्फालनोद्वेल इव महास्भोधिरुद्भ्रान्तचेताः, निर्जगाम नरपितः । उपेत्य चावन्तिमातृगृहम्, कथं कथमपि चेतनापाद्यमानां. परिजनेन, अर्धोन्मीलितलोचनयुगां विलासवर्ती दृष्ट्वा, समुपविश्य पार्श्वे, स्पर्शामृतवर्षिणा करेण स्पृशन्, शनैः शनैर्बाष्पगद्‌गदमवादीत्—““देवि, यदि सत्यमेवान्यादृशं किमपि वत्सस्य चन्द्रापीडस्य ततो न जीव्यतं एव । किमर्थमयमात्मा वत्सस्य कृते सकलोकसाधारणेनामुना वैक्लव्योपगमेन तुच्छतां नीयते । इयन्ति शुभान्युपात्तानि कर्माणि । किमपरं क्रियते । नाधिकस्य भाजनं सुखस्य वयम् । अनुपात्तं हि हृदयताडनमपि कुर्वद्भिर्न लभ्यत एवात्रात्मेच्छया । विधिर्नामापरः कोऽप्यत्रास्ते । यत्तस्मै रोचते, तत्करोति । नासौ कस्यचिदप्यायत्तः । एवं च पराधीनवृत्तौ सर्वस्मिन्, न किं वास्माभिर्लब्धम् ? वत्सस्थातिदुर्लभो जन्मोत्सवः संभावितः । गृहीतविद्यस्य गुणवत्तयानन्दितं हृदयम् । दिग्विजयागतस्य प्रणमतः परिष्वक्तान्यङ्गानि । एतावदेव मनोरथशतवाञ्छिम्— यद्वधूसमेतस्य निजपदे प्रतिष्ठां कृत्वा तपोवने न गतम् । सर्वाभिवा?ञ्छितप्राप्तिस्तु महतः पुण्यराशेः फलम् । अपरमपि, किं वृत्तं वत्सस्येत्येतदद्यापि न परिस्फुटं
केनचिदत्र कथितम् । एतावत्तु मया अव्यक्तमेव परिजनात्कथयतः कर्णे कृतम्-यथा-अस्मत्प्रहितैर्लेखहारिभिः सहापरो वत्सस्य मे बालसेवकस्त्वरितकनामा समायातः । स वेत्ति सर्वं वृत्तान्तम् । सोऽपि त्वया न पृष्ट एवेति । तत् तं तु तावत्पृच्छामः । ततो जीवितमरणयोरन्यतरदङ्गीकरिष्यामः ’’ इत्यभिवदत्येव राजनि, परिजनान्तरितं त्वरितक्रमाहूय प्रतीहारो दर्शतवान् ॥
“भद्र, कथय, किं वृत्तं वत्सस्य, येन आगमनाय मया तन्मात्रामात्येन च लिखितेऽपि नायातः । अनागमनकारणं वा किंचिन्नप्रतिलेखितवान् ’ इत्येवमादिष्टो राज्ञा त्वरितकः, गमनतः प्रभृतियथावृत्तं कथयितुमारेभे । राजा तु चन्द्रापीडहृदयस्फुटनवृत्तान्तं यावदकार्ण्य, अतिक्षुभितशोकार्णवाक्रान्तिविक्लबः, प्रसार्य करम्, आर्तस्वरस्त्वरितकमवादीत्—- ““भद्र, विरम् । संप्रति कथितं त्वया कथनीयम् । मयापि श्रुतम्, यच्छ्रोतव्यम् । पूर्णो मे प्रश्रदोहदः । आनन्दितं हृदयम् । सुखं स्थितो़ऽस्मि । हा वत्स, त्वयैकाकिना स्फुटतो हृदयस्यानुभूता देदना । निर्व्युढा त्वया वैशम्पायनस्योपरि प्रीतिः । वयं दुःखभागिनो निस्त्रिंशाः कर्मचाण्डलाः, येषां तवापि हृदयस्फटने निर्विकारत्वमेव । देवि, वज्रसारतोऽपि कठिनतरमेवेदमावयोर्हृदयम्, यन्न स्वयं सहस्त्रधा स्फुटति । तदुत्तिष्ठ, यावदेवातिदूरं न प्रयात्येकाकी वत्सः, तावदेवानुगमनाय प्रयतावहे । शुकनास, किमद्यापि तिष्ठसि । अयं स कालः स्त्रेहस्य । महाकालायतनसमीपे समादिश सपदि परिचाकांश्चितारचनाय
। यात यथाभूमि भूमिपतयः । उत्सृष्टाः स्थ । यथा च नाद्यैवानाथतादुःखं जानन्ति प्रजाः, तथा करिष्यथ’’ इत्येवमार्तप्रलापिनं तारापीडं त्वरितको व्यज्ञापयत्— " देव, स्फटितेऽपि हृदये, ध्रियते शरीरेण युवराजः । शापदोषाद्वैशम्पायनस्य युवराजस्य च यथा जन्म, तथा निरवशेषं शृणोतु तावद्देवः ’ इति ॥
तारापीडस्तु तदद्भ्रतमाकर्ण्य, दत्तावधानस्तेन कथ्यमानं यथादृष्टं यथाश्रुतं च निरवशेषं तत्सर्वमश्रौषीत् । श्रुत्वा च तमनेकचिङ्गोत्पादितप्रत्ययं युवरावैशम्पायनयोर्वृत्तान्तम्, ईषदिव विवर्तिताननः, विमर्शस्तिमिततारकां दृष्टिं निर्विशेषावस्थे शुकनासमुखेऽभ्यपातयत् । सुहृदस्तु स्वयं दुःखिता अपि निधानीकृत्यातृमदुःखम् सुहृदुःखापनोदायैव यतन्ते । यतः शुक्रनासस्तदवस्थोऽपि स्वस्थवदवनिपतिमुवाच— "” देव, विचित्रेऽस्मिन्संसारे, अनेकप्रकारमुत्पद्यमानस्य तिष्ठतो विनश्यतो वा स्थावरजङ्गमस्य न कदाचिदवस्था सा, या न संभवति । तत्कुतोऽयं देवस्यात्र वस्तुनि विमर्शः । यदि युक्तेर्विचारातृ, कियन्तृयत्र युक्तिरहितान्यागमप्रामाण्यादेवाभ्युपगतान्यविसंवादीनि दृश्यन्ते । मुद्राबन्धात् ध्यानाद्वा विषप्रसुप्तस्योत्थापने कीदृशी युक्तिः, अयस्कान्तस्य चायसः समाकर्षणे भ्रमणे वा, मन्त्राणां वैदिकानमवैदिकानां वानेकप्रकारेषु कर्मसु सिद्धौ । आगमेषु सर्वेष्वेव पुराणरामायणभारतादिषु सम्यगनेकप्रकाराः शापवार्ताः । तद्यथा— महेन्द्रपदवर्तिनो नहुषस्य राजर्षेरगस्यशापादजगरता । असुरगुरुशापाच्च ययातेस्तारुण्य एव जरसा भङ्गः । त्रिशङ्कोश्च पितृशापाच्चण्डालभावः । तिष्ठतु तावदन्त एव । योऽयममादिदेवो भगवानजः, स एव जमदग्रेरात्मजतामुपगतः ; श्रूयते च—- पुनश्चतुर्घात्मानं विभज्य, राजर्षेर्दशरथस्य, तथैव मघुरायां वसुदेवस्य। तन्मनुष्येघु देवतानामुत्पत्तिर्नैवासंभाविनी । न च पूर्वमनुष्येभ्यो गुणैः परिहीयते देवः । न चापि भगवतः कमलनाभादतिरिच्यते चन्द्रमाः । किमत्रासंभावनीयम् । अपि च, गर्भारम्भसंभवे देवेन देव्या वदने विशंश्चन्द्रमा एव दृष्टः । तथा ममापि स्वप्रे पुण्डरीकस्य दश्रनं समुपजातम् । तत् उतृपतिं प्रति तयोर्नास्येव संदेहः । विनष्टयोः शरीस्याविनाशः कथम्, कथं वा पुनर्जीवितप्रतिलम्भ इत्यत्राप्यखिललोकप्रख्यातप्रभावमम्तमेवैकं कारणमावेदितम् । तच्चन्द्रमसि विद्यत इत्येषास्त्वयेव वार्ता । तत्सर्वमेतदित्थ्ज्ञमेवावगच्छतु देवः । तयोरेवं शापः, अस्माकं पुनर्वर एव । तदस्मिन्वस्तुनि मनागपि न देवेन देव्या वा शोकः कार्यः । अपरमपि, यद्यदेवं गते श्रेयस्करं श्रूयते, ज्ञायते वा, तत्तदद्यैवारभ्य क्रियतां कार्यतां च कर्म । न खलु वैदिकानामवैदिकानां वा कर्मणामसाध्यं नाम किंचिदपि । उत्पत्तिरपि तयोः कृच्छ्रलब्धयोरीदृशैनैव प्रकारेणोपजाता ’’ ॥
इत्युक्तवति शुकनासे, सशोक एव राजा प्रत्यवादीत्—- ““सर्वमेवमेतत्, यदार्येणाभिहितम् । कोऽन्यो बुध्यते । केन वापरेण वयं परिबोधनीयाः । कि तु तद्वत्‌सस्य मे वैशम्पायनुदुःखात्स्फुटनं हृदयस्याग्रतो दृष्टिलग्रं सर्वमेवान्यदन्तरयति । तदेवमप्रत्यक्षितं वत्सस्य वदने, संस्तम्भमेवात्मनो न शकोमि कर्तृम् । यत्र च ममायमीदृशः प्रकारः, तत्र देव्याः परिबोधनं दूरापेतमेव । तद्गमनात् ऋतेऽन्य उपाय एव नास्ति
जीविंतसंधारणायेत्येवमवाधारयत्वार्यः’‘इत्युक्तवति तारापीडे, चिरात्तनयपीडया तत्पुरः परित्यज्य लज्जां विलासवती कृताञ्जलिरुच्चैर्जगाद—““आर्यपुत्र, यद्येवम्, मिकपरं विलम्बितेन । उत्ताम्यति मे हृदयं वत्सस्य दर्शनाय । दुःखापनोदार्थं स्फुटनमङ्गीकृतमासीत् । तदपि संप्रति दर्शनकाङ्क्षया न रोचत एव । जानामि— वरं दीर्घकालमपि दुःखान्यनुभवन्ती सकृदपि वत्सस्य दर्शनाय जीवितास्मि; न पुनरसहृमदुःखोपशान्तये संप्रत्येव मृतास्मीति । तदस्य पुनराशानिबन्धनस्य गमनमपि हृदयस्य तावद्विनोदतां व्रजतु ’’ इति वदन्तीमेव विलासवतीमासाद्य, अन्यतमः परिणतवयाः षट्रकर्मा समुपसृतृय स्वस्तिपूर्वकं व्यज्ञापयत्—- ““देवि, सर्वत एवापरिस्फुटेन वार्ताकलकलेनाकुलीकृतहृदया मनोरमा स्वयमेव धान्त्यागता 1 राज्ञो लज्जमानाप नोपगता स्थानमिदम् । तदेषा मातृगहस्य पृष्ठतस्तिष्ठति । पृच्छति च देवीम्— किमेभिः कथितम्? जीवति वा मे वत्सो वैशम्पायनः? स्वस्थशरीरो वा? ढौकितो वा पुनर्युवराजस्य? क्क वर्तते? तावागमिष्यतो वा? ’’ इति॥
राजा तु दीर्ण इव शुचा, विलासवतीमवादीत्—- “देवि, न श्रुतं किंचिदपि वत्सयोः प्रियख्या ते । अन्यतश्च श्रुत्वा कदाचिज्जीवितेनैव वियुज्यते । तदुत्तिष्ठ, स्वयमेव धैर्यमालमृबय, सर्ववृत्तान्तानुकथनेन संस्थापय प्रियसखीम् । तयाप्यार्यशुकनासेन सहायातव्यम्’’ इत्येवमुक्त्वा, विलासवतीं व्यसर्जयत् । आत्मनापि शुकनासेन सह गमनसंविधानमकारयत् ॥
अथोत्ताम्यता हृदयेन राजा संततमविच्छिन्नकैः प्रयाणकैर्वहन, अबहुभिरेव दिवसैराससादाच्छोदम् । आसाद्य च दूरस्थित एव प्रथममाप्ततमानश्वारान्वार्तान्वेषणाय त्वरितकेन सार्धं प्रहितवान् ॥
अथ तैः सार्धमागच्छन्तम्, परस्परावरणेनैवात्मदर्शनमभिरक्षन्तम्, अक्षतमपि हतमिव, जीवन्तमपि मृतमिव, मेघनादपुरस्सरंसकलमेव उपसर्पन्तं राजपुत्रलोकमालोक्य, उच्छ्वसित इव निवृत्य सावरणपार्याणवर्तिनीं विलासवतीमवादीत्— “देवि, दिष्ट्या वर्धसे । ध्रियते सत्यमेव शरीरेण वत्सः, येन सकल एवायं तच्चरणकमलानुजीवी राजपुत्रलोकस्ततृपादमूलादगतः’ इति । सा तु तदाकर्ण्य, किंचिदात्मपाणिनैवोत्पादमूलादगतः’ इति । सा तु तदाकर्ण्य, ?किंचिदात्मपाणिनैवोत्सारितावरणसिचयाञ्च निश्चलया दृष्ट्या चिरटितवती— “हा वत्स, कथं सहपांसुक्रीडितस्यैतावतो राजपुत्रलोकस्य मध्ये त्वमेवैको न दृश्यसे ’ इति । तथारटन्तीं तु तां समाश्वास्य, राजा मेघनादमप्राक्षत्—-“मेघना, कथय, को वृत्तान्तो वत्सस्य’ इति । स तु व्यज्ञापयत्— " देव, चेतनाविरहाच्चेष्टामात्रकमेवागतम् । शरीरे पुनः, ज्ञायते—- दिवसे दिवसेऽभ्यधिका कान्तिः समुपजायते’ इति । राजा तु तच्छ्रुत्वा, जीवितप्रतिलम्भे समुपजातप्रत्याशः, “श्रुतं देव्या मेघनादस्य वचनम् ? तदेहि, चिरात्पुनः कृतार्थयामो दर्शनेनात्मानम् । पश्यामो वत्सस्य वदनम्’इत्यभिदधान एवाभिवर्धितगतिविशेषया करेण्वा महाश्वेताश्रममगमत् ॥
अथ सहसैव तच्चन्द्रापीडगुरुजनागमनमाकर्ण्य, धावित्वा ह्रिया महाश्वेता गुहाभ्यन्तरमविशत् ; चित्ररथतनयापि मोहान्धकारम् । तदवस्थयोश्च तयोः शुकनासावलम्बितशरीरोराजा विवेशाश्रमपदम् ; तदनु मनोरमावलम्बिता विलासवीतीं । प्रविश्य च सहजयैव कान्त्या अविरहितमुपरतसर्वप्रयत्रं सुप्तमिव तंपुत्रवत्सला तन्यमालोक्य, यावन्न परापतत्येव तारापीडः, तावद्विलासवती विधारयन्तीं मनोरमामप्याक्षिप्य दूरत एव प्रसारितबाहुलताद्वया"“एहि जात दुर्लभक, चिराद्दृष्टोऽसि । देहि मे प्रतिवचनम् । आलोकय सकृंदपि माम् । अनुचितं तात, तवैतदवस्थानम् । उत्थायाङ्कोपगमनेन मे संपादय तनयोचितं स्त्रेहम् । न चानाकर्णितपूर्वं बाल्येऽपि त्वया मम वचनम् । अद्य किमेवं विलपन्त्या अपि न शृणोषि । जात, केन रोष्ज्ञितोऽसि । एषा तोषयामि वत्स, पादयोर्निपत्य । पुत्र चन्द्रापीड, प्रणम तावत्प्रत्युद्‌गम्य त्वत्स्त्रेहादेवातिदूरमागतस्य पितुः पादौ । क्क सा गता ते गुरुभक्तिः । क्क ते गुणाः । क्क सा धम्रज्ञता । क्क सा बन्धुप्रीतिः । क्क सा परिजनवत्सलता । कथमभाग्यैर्मे सर्वमेकपद एव उत्सृत्य, एवमौदासीन्यमवलम्बय स्थितोऽसि । अथवा यथा ते सुखम्, तथा तिष्ठ । वयमुदासीनहृदयास्त्वयि’’ इति कृतार्तप्रलापा, चन्द्रापीडस्य चरणावुत्तमाङ्गे कृत्वा, उन्मुक्तकण्ठमरो?दीत् । तथा रुदतीं तु तामन्तरितनिजपीडस्तारापीडो भुजाभ्यामवलम्बयाब्रवीत्—- ““देवि, यद्यप्यावयोः सुकृतैरपत्यतामुपगतः,तथापि देवतामूर्तिरेवायमशोचनीयः। तदुन्मुच्यतामयमिदानीं मनुष्यलोकोचितः शोचितव्यवृत्तान्तः । अस्मिञ्शोके कृते, न किंचिदपि भवति ।’ केवलं गल एव स्फुटति रटतः, न हृदयम् । ?
निरर्थकं प्रलपितमेव निर्याति वदनात्, न जीवितम् । अपरम्—- अस्यामवस्थायामावाभ्यामपि तावत्परमवष्टम्भं कृत्वा मनोरमा शुकनासश्च संधारणीयौ, ययोलोकान्तरितो वैशम्पायनः । तिष्ठतां तावदेतावपि । यस्याः प्रभावात्पुनरनुभवनीयो वत्सस्य जीवितप्रतिलम्भाभ्युदयमहोत्सवः, सैवेयं गन्धर्वराजतनया वधूस्तेऽद्यापि संज्ञां न प्रतिलभते । तदेनां तावदुत्थाप्याङ्के कृत्वा चेतनां लम्भय । ततो यथेच्छं रोदिष्यसि’’ ॥
इत्यमिहिता राज्ञा विलासवती “क्क सा मे वत्सस्य जीवितनिबन्धनं वधूः ’ इत्यभिदधत्येव ससंभ्रममुपसृत्य, अप्रतिपन्नसंज्ञामवाङ्केनादय कादम्बरीम्, चन्द्रापीडस्पर्शशि?रेण च पाणिना हृदये स्पृशन्ती, “समाश्वसिहि मातः, त्वया विनाद्यैव प्रभृति केन सं धारितं वत्सस्य मे चन्द्रापीडस्य शरीरम् । मातः, त्वममृतमयीव जातासि, येन वत्सस्य पुनर्वदनमालोकितम् ’ इत्यवादीत् । कादम्बरी तु तेन चन्द्रापीडनामग्रहणेन तेन च तन्निर्विशेषवृत्तिना विलासवतीशरीरस्पर्शेन लब्धसंज्ञापि, लज्जावनमुमुखी प्रतिपत्तिमूडा, मदलेखया अङ्कादवतार्य, परवत्येव य?थाक्रममकार्यत वन्दनं गुरूणाम् ॥
अथ प्रतृयापन्नचेतनायां चित्ररथतनयायाम्, चन्द्रापीडमेवोज्जीवितं मन्यमानो राजा मदलेखामाहूयादिदेश— ““दर्शनसुखमात्रकमस्माकं विधीयमानम् । तच्चास्मामिरासादितम् । तत् यादृशेनैवोपचारेणैतावतो दिवसानुपचरितवती वधूर्वत्सस्य शरीरम्, स एवोपचारो नास्मदनुरोधाल्लजृजया वा मनागपि परिहरणीयः । वयं निष्प्रयोजना द्रष्टार एव केवलम् । किमस्माभिरिह स्थितैर्गतैर्वा । यस्याः करस्पर्शेनाप्यायितमेतदविनाशि, सैव वधूः पार्श्वेऽस्य तिष्ठतु’’ इत्यादिश्य निर्जगाम ॥
निर्गत्य चोपकल्पितं निजावासमगत्वैव तपस्विवासोचितेऽन्यतरस्मिन्नासन्न एवाश्रमरुलतामण्डपे समुपश्यि, निर्विशेषदुःखं सकलमेव राजचक्रमाहूय, सबहुमानमवादीत्—- ‘‘न भवद्भिरगन्तव्यम् यथा अद्य शोकावेगादेवैतदहमङ्गीकरोमीति । पूर्वचिन्तित एवायमर्थः, यथा— वधूसमेतस्य चन्द्रापीडस्य वदनमालोक्य संक्रामितनिजभरेण मया क्कचिदाश्रमपदे गतृवा पश्चिमं वयः क्षपयितव्यमिति । स चायं मे भगवता कृतान्तेन पुराकृतैः कर्मभिर्वा विरूपैरेवं समुपनमितः । किमपरं क्रियते । अनतिक्रमणीया नियतिः । तदिच्छामि चिरकाङ्क्षितं मनोरथं पूरयितुम् । तदस्य वस्तुनः कृते भवन्तो मया प्रार्यनीयाः’’ इत्युक्त्वा, संनिहितान्यपि परित्यज्योचितानि सर्वसुखानि, अनुचितान्यङ्गीकृत्य वन्यानि,—- तथा हि—- हर्म्यबुद्धिं वृक्षमूलेषु, संस्तुतजनस्त्रेहं हरिणेषु, आहाराहार्दं कन्दमूलफलेषु, नर्मालापं धर्मसंकथासु, तनस्त्रेहं तरुषु संक्रमय्य, तथा तपस्विजनोचिताः क्रियाः कुर्वन्, अविच्छेदात्सायं प्रातश्चानुभूतचन्द्रापीडदर्शनसुखो दुःखान्यगणयन्, नरपतिः सपरिवचारः समंदेव्या शुकनासेन च तत्रैवातिष्ठत्’’ इति ॥
एवं च कथयित्वा भगवान् जाबालिः, जराभिभवविच्छायं स्मितं कृत्वा, ताञ्छ्रावकानवादीत्— ““दृष्टमायुष्मद्भिमन्तःकथारसस्याक्षेपसामर्थ्यम् । यत्कथयितुं प्रवृत्तोऽस्मि, तत्परित्यज्यैव कथारसात्कथयन्नतिदूरमतिक्रान्तोऽस्मि । तत् यः स कामोपहतचेताः स्वयंकृतादेवाविनयाद्दिव्यलोकतः परिभ्रश्य, मर्त्यलोके वैशम्पायननामा शुकनाससूनुरभवत्, स एवैष पुनः स्वयंकृतेनाविनयेन कोपितस्य पितुराक्रोशात् महाश्वेताकृताच्च सत्याभिव्यानादस्यां शुकजातौ पतितः ’’ इति ॥
एवं वदत्येव भगवति जाबालौ, बाल्ये1़पि मे सुप्तप्रबुद्धस्येव पूर्वजन्मान्तरोपात्ताः समस्ता एव विद्या जिह्वाग्रेऽभवन् । उपदेशाय मनुजस्येव चेयं विस्पष्टवर्णाभिधाना भारती संपन्ना । विज्ञानं च सर्ववस्तुविषयं स्मरणं च संवृत्तम् । किं बहुना । मनुष्यशरीरात् ऋते सर्वमन्यत्तत्क्षणमेव मे महाश्वेतानुरागादिकमुपगतम् । तथा चोत्सुकान्तरात्मा भगवन्तं जाबालिं कथमपि शनैः शनैर्व्यज्ञापयम्—- ““भगवन्, त्वत्प्रसादादाविर्भुतज्ञानोऽस्मि संवृत्तः । स्मृताः खलु मया एर्व एव पूर्वबान्धवाः । मूढतायां च यथैव मे तेषां स्मरणं नासरत्, तथैव विरहपीडापि । अघुना पुनः स्मृत्वा च तान् स्फुटतीव मे हृदयम् । न च तान्स्मृत्वापि तथा, यथा चन्द्रापीडम् ; यस्य मदुपरतिश्रवणमात्रकात्स्फुटितं हृदयम् । तत्तस्यापि जन्माख्यानेन प्रसादं करोतु भगवान्, येनायं तिर्यग्योनिवासोऽ मे तेन सहैकत्र वसतो न षीडाकरः संजायते ’’ इति । एवं चविज्ञापितो भगवाञ्जाबालिः सस्त्रेहकोपगभं प्रत्यवादीत्—- ““दुरात्मन्, ययैतावतीं दशामुपनीतोऽसि, कथं तामेव तरलहृदयतामनुबध्रासि । अद्यापि पक्षावपि नोद्भिद्येत । तत्संचरणक्षमस्तु तावद्भव । ततो मां प्रक्ष्यसि’’ इति।
एवमुक्ते भगवता, समुपजातकुतूहलो हारीतिः पप्रच्छ— ““तात, महानयं विस्मयो मे । कथय, कथमस्य मुनिजातौ वर्तमानस्य तादृशी कामपरता जात? यया जीवितमपि न संधारयितुं पारितम् । कथं च दिव्यलोकसंभूतस्य तथा स्वल्पमायुः संवृत्तम् ’’ ॥
एवं च पृष्टः सूनुना भगवाञ्जाबालिः प्रत्यवादीत्—- ““स्पष्टमेवात्र कारणं वत्स । अयं हि कामरागमोहमयादल्पसारत्स्त्रीवीर्यादेव केवलादुत्पन्नः । हुतौ च पठ्यत एतत्— यादृशाद्वै जायते, तादृगेव भवतीति । लोऽपि च प्रायः कारणगुणभाञ्ज्येव कार्याणि दृश्यन्ते । तथा चैतदायुर्वेदेऽपि श्रूयते–यः किलाल्पसारास्त्रीवीर्यादेव केवलाज्जन्तुर्भवति, स खल्वभावातृसारभूतस्य स्थैर्यहेतोः पुरुषवीरर्यस्य यथसारं गर्भे वा विलयमापद्यते, मृतो वा जायते, जातो वा न दीर्घकालं जीवतीति । तदयमुत्पन्न एवेदृशः, येनास्य तादृशी कामपरता जाता, मरणं च तथोपनतम् । अधुनापि तादृश एवाल्पायुरयम् । शापावसानोत्तरकालमस्याक्षयेणायुषा योगो भविष्यति । तावदियं कथास्ताम् । रसाक्षेपादचेतितैवास्मिाभः प्रभातप्रया रजनी । प्रभाविरहादनुन्मृष्टरजतदर्पणाभमिदमपरान्तावलम्बि वर्तते रजनिकरबिमृबम् । एष पम्पासरःशायिनां प्रबोधाशंसी समुच्चरति कोलाहलः श्रोत्रहारी विहंगमानाम् । प्रत्यासन्ना अग्रिविहारवेला’’ इत्भिदधान एव गोष्ठीं भङ्क्त्वोदतिष्ठत् ॥
अथोत्थिते भगवति जाबालौ, वीतरागापि समस्तैव सा तपस्विपरिषत् कथारसाद्विमृतगुरूचितप्रतिपत्तिः, शृण्वतीवोत्कण्टकितलाया, स्तम्भितेव चिरमिव स्थित्वा, यथास्थानं जगाम । हारीतस्तु मामात्मपर्णशालां नीत्वा, प्राभातिकक्रियाकरणाय निर्ययौ । निर्गते च तस्मिनृद्व तेन सर्वकार्याक्षमेण तिर्यग्जातिपतनेन पीडितान्तरात्मा, चिन्तां प्राविशम्— "” अत्र तावदनेकभवसुकृतशतसहस्त्राधिगम्यं मानुष्यकमेव दुर्लभम् । तत्राप्यपरं सकलजातिविशिष्टं ब्राह्मण्यम् । ततोऽपि विशिष्टतरमासन्नामृतपदं मुनित्वम् । तस्यापि विशेषान्तरं किमपि दिव्यलोकनिवासित्वम् । तद्यैनैतावतः स्थानात्स्वदोषैरात्मा पातितः, तेन कथमधुना सर्वक्रियाविहीनेनास्यास्तिर्यग्जातेः समुद्धृतः स्यात् । तन्निष्प्रयोजनेनामुना जीवितेन किं मे परिरक्षितेन । तत्परित्यजाम्येतच्दरीरम् । पूर्यतामस्मद्व्यसननैकचिन्तादुःस्थितस्य विधेर्मनारेथः’’ इति । एवं च जीवितपरित्यागचिन्तानिमीलितं मां समुच्छ्वासयन्निव हारीतोऽभ्यधात्—- ““भ्रातर्वैशम्पायन्, दिष्ट्या वर्धसे । पितुस्ते भगवतः श्वेतकेतोः पादमूलात्कपिञ्जलस्त्वामेवान्विष्यन्नायातः ’’ इति ॥
अहं तु तच्छ्रुत्वा “क्कासौ’ इति वदन्नेव, अग्रतो गगनागमनवेगात् अयथावस्थितजटाकलापम्, मदवलोकनदुःखोद्गतं च बाष्पजललवविमरमीक्षणाभ्यां युगपदुत्सृजन्तम्, समुज्ज्ञितक्लेशमपि मदर्थे क्लिश्नन्तम्, कृतज्ञम् अकृतज्ञः, वचनकरम् अनाश्रवः, महात्मानं दुरात्म, कपिञ्जलमद्राक्षम् । दृष्ट्वा च तमवदम्—- ““सखे कपिञ्जल, एवं जन्मद्वयान्तरितदर्शनमपि त्वां दृष्ट्वा किं सरभसमुत्थाय दूरत एव प्रसारितुभुजद्वयो गाढालिङ्गनेन सुखमनुभविष्यामि । किं करेणावलम्बयासनपरिग्रहं कारयिषमि’’ इति । एवमात्मानमनुशोचन्तमेव मां कपिञ्जलः करद्वयेनोत्क्षिप्य, भूयसा मन्युवेगेनोत्तमाङ्गेकृत्वा मच्चरणौ, हतरवदरोदीत् ॥
तथा रुदन्तं तु तं वाङ्मात्रप्रतीकारः पुनरवदम्—- ““सखे कपिञ्जल, सकलक्लेशपरिभूतस्य पापात्मनो ममेदं युज्यते, यत्त्वया प्रारब्धम् । त्वं पुनर्बालोऽपि न स्पृष्ट एवामीभिः संसारबन्धात्मकैर्दोषैः । तत्किमधुना मूढजनगतेन वर्त्मना । समुपविश्य तावत्कथय यथावृत्तं वार्ताम् । अपि कुशलं तातस्य? मद्वृत्तान्तमाकर्ण्य किमुक्तवान् ? कुपितः, न वा ? ’’ इति ॥
स त्वेवमुक्तो मया, प्रक्षाल्यु मुखमाख्यातवान्—-““सखे कुशलं तातस्य । अयं चास्मृद्वृत्तान्तः प्रथमतरेमव तातेन दिव्सयेन चक्षुषा दृष्टः । दृष्ट्वा च प्रतिक्रियायै कर्म प्रारब्धम् । समारब्ध एव कर्मणि, तुरगभावाद्विमुक्तो गतोऽस्मि तातस्य पादमूलम् । गतं च मां च मां भयादनुपसर्पन्तमालोक्याहूयाज्ञापपितवान्–“वत्स कपिञ्जल, परित्यज्यतां स्वदोषशङ्का । ममैवायं खलु शठमतेः सर्व एव दोषः; येन जानताप्युत्पत्तिसमय एव वत्सस्य कृते नेदमायुष्करं कर्म निर्बर्तितम् । अधुना सिद्धप्रायमेवेदम् । न दुःखासिका भावनीया । मत्पादमूले तावत्स्थीयताम् ’’ इति । अद्य च प्रातरेवाहूय
मामाज्ञापितवान्—- ““वत्य कपिञ्जल, माहमुनेर्जाबालेराश्रमपदं सुहृत्ते प्राप्तः । जन्मान्तरस्मरणं चास्योपजातम् । तद्गच्छ संप्रति तं द्रष्टुम् । मदीयया चाशिषानुगृह्म वक्तव्योऽसौ—- वत्स, यावदिदं कर्म परिसमाप्यते, तावत्त्वयास्मिन्नेव जाबालेः पादमूले स्थातव्यम्’ इति । अपि च, त्वद्दुःखिताम्बा ते श्रीरपि तस्मिन्नेव कर्मणि परिचारिका वर्तते । तया तु शिरस्युपाघ्राय, एतदेव पुनः पुनः संदिष्टम्’’ ॥
एवमुक्त्वा दूयमानहृदयं तमवदम्—- ““सखे कपिञ्ज, किं दूयसे । त्वयापि मन्दपुण्यस्य मम कृते तुरङ्गमतामापन्नेन पराधीनदूयसे । त्वयापि मन्दपुण्यस्य मम कृते तुरङ्गमतामापन्नेन पराधीनवृत्तिना बहुतराण्येव दुःखान्यनुभूतानि । ?कथं सोमपानोचितेनामुनास्येन समुत्पादितसफनेरक्तस्त्रवाः खरखलीनक्षतयो विसोडाः । कथं च ब्रहृमसूत्रोद्वाहिनि देहेऽस्मिन्वर्ध्रोऽस्मिन्नबर्ध्रोत्पीडनकृताः पीडाः समुपजाताः’‘इति । एभिरन्यैश्च पूर्ववृत्तान्तालापैस्तत्काकविस्मृततिर्यग्जातिदुःखः सुखमतिष्ठम् ॥
उपरोहति च मध्याह्गं सवितरि, कृताहारः कपिञ्जलः क्षणमिव स्थित्वा माब्रवीत्—-““अहं हि तातेन त्वां समाश्वासयितुम्, जाबालिपादमूलात् आ कर्मपरिसमाप्तेर्न त्वया चलितव्यमित्येतच्चादेर्ष्टु विसर्जितः । अन्यत्, अहमपि तत्रैव कम्रणि व्यग्रतर एव । तद्व्रजामि संप्रति’‘इति । अहं अहं तु तच्छ्रुत्वा विषण्णवदनस्तं प्रत्यवदम्—-““सखे कपिञ्जल, एवं गते किं ब्रवीमि । किं तातस्यामृबाया वा संदिशामि । सर्वं त्वमेव वेत्सि’‘इति । सत्वेवमुक्तो मया, पुनः पुनस्तत्रावस्थानाय मां संधिवाय, अन्तरिक्षमतिक्रम्य, क्काप्यदर्शनमयात् । गते च तस्मिन्, हारीतो निर्वर्तितस्त्रानादिक्रियाकलापः सन्, आतृमनैव सहापराह्णसमये पुनर्मामाहारमकारयत् ॥
एवं संवर्ध्यमानः, कतिपयैरेव दिवसैरुत्पन्नोत्पतनसामर्थ्यः, ““गमनक्षमस्तु संवृत्तोऽस्मि । तन्न नाम चन्द्रापीडोत्पत्तिपरिज्ञानप् । महाश्वेता पुनः सैवास्ते । भवतु, तत्रैव गत्वा तिष्ठामि’’ इति निश्चित्य, एकदा प्रातर्विहारनिर्गत एवोत्तरां ककुभं गृहीत्वावहम् । अबहुदिवसाभ्यस्तगमनतया स्तोकमेव गत्वा, अवाशीर्यन्येव मेऽङ्गानि श्रमेण । तदवस्थश्च शिथिलायमानपक्षतिः, ““अत्र पतामि, अत्र पतामि’‘इति परवानेवान्यतस्य सरस्तीरतरुनिकुञ्जस्योपर्यात्मानमभुञ्चा । चिरादिवोनमुक्ताध्वक्लः, अध्वश्रमनिःसहान्यङ्गानि विरुमयितुमन्यतमां शाखामारुहृम स्थितः सन्, अध्वश्रमसुलभां निद्रामगच्छम् । चिरादिव च लब्धप्रबोधो बद्धमात्मानमपश्यम् । अग्रतश्च पाशविरहितमवि कालपुरुषम्, आशये केशेषु चास्त्रिग्धम्, वपुषि वचसि च परषम्, पुरुषमद्राक्षम् । आलोक्य च तं तादृशम्, आत्मन उपरि निष्प्रत्याश एवापृच्दम्—- ““भद्र, कस्त्वम् ? किमर्थं वा त्वया बद्धोऽस्मि? यदि आमिषतृष्णया, तत्किमिति सुप्तु एव न व्यापादितोऽस्मि । किं मया निरागसा बन्धदुःखमनुभावितेन । अथ केवलमेव कौतुकाम् । मुञ्चतु मामिदानीं भद्रमुखः’’ । एवमुक्तः स मामुक्तवान्—-““महात्मन्, अहं खलु क्रूरकर्मा जात्या चाण्डालः । न च मया त्वमामिषलोभेन कुतूहलेन वा बद्धः । मम खलु स्वामी पक्कणाधिपतिः । तस्य दुहिता कौतुकमये प्रथमे वयसि वर्तते । तस्यास्त्वं केनापि दुरातृमना कथतः । तया च श्रुत्वा, उत्पन्नकौतुकात्त्वद्ग्रहणाय बहव एवापरे मादृशाः समादिष्टः । तदद्य पुण्यैम्रयासादितोऽसि । तदहं तत्पादमूलं तृवां प्रापयामि । बन्धेमोक्षे चाधुना सा प्रभवति’’ इति ॥
अहं तु तच्छ्रुत्वा संविग्रान्तरात्मा चेतस्यकरवम्—- ““अहो मे मन्दपुण्यस्य दारुणतरः कम्रणां विपाकः, येन मया म्लेच्छजातिभिरपि दूरतः परिहृतप्रवेशमधुना पक्कणं प्रवेष्टव्यम्, चण्डालबालकजनस्य क्रीडनीयेन च भवितव्यम् । दुरात्मन् पुण्डरीकहतक, धिग्जन्मलाभं ते, यस्य कर्मणामीदृशः परिणामः । किमर्थं प्रथमगर्भ एव न सहस्त्रधा शीर्णोऽसि’’ इत्येतानि चान्यानि च चेतसा विलप्य, पुनस्तमभ्यर्थनादीनमवदम्—-”” भद्रमुख, जातिस्मरो मुनिरस्मि जात्या । तत्तवापि मामस्मान्महतः पापसंकटादुद्धृत्य धर्मो भवत्येवादृष्टसुखहेतुः । दृष्टेऽपि च, केनचिदपरेणादृष्टस्य मन्मुक्तिकृतः प्रतृयवायो नास्येव । तन्मुञ्चतु मां भद्रमुखः ’’ इत्यभिदधानश्च पादयोरपतम् । स तु विहस्य मामब्रवीत्—रे मोहान्ध, यस्य शुभशुभकर्मसाक्षिभूताः पञ्च लोकपालास्तवैवात्मशरीस्थिता न पश्यन्ति, सोऽन्यस्य भयादकार्यं नाचति । तन्नीतोऽसि मया स्वाम्याज्ञया ’’ इति । एवमभिदधान एव मामादाय पक्कणाभिमुखमगच्छत् ॥
अहं तु ““केषां पुनः कर्मणाभिद्रं मे फलम्’’ इत्यन्तरात्मनाभिध्यायन्, प्राणपरितृयागं प्रति
कृतनिश्चयोऽभवम् । नीयमानश्च तथा तेन, नानाविधग्राहकविहङ्गवाचालनकुशलैः कौलेयकमुक्तिसंचारणचतुरैश्चण्डालशिशुभिर्वृन्दशो दिशि दिशि मृगयां क्रीडद्भिर्दूरत एवामेद्यमानम्, सर्वतः करङ्कप्रायवृतिवाटम्, धवलीप्रायवाहनम्, स्त्रीमद्यप्रायपुरुषार्थम्, संनिवेशमिव सर्वश्मशानानाम्, पत्तनमिव सर्वपापानाम्, स्मर्यमाणमपि भयंकरं, पक्कणमहमपश्यम् ॥
दृष्ट्वा च तं समुत्पन्नघृणोऽन्तरात्मन्यकरवम्–““अपि नाम सा चाण्डालदारिका दूरत एव मामालोक्य उत्पन्नकरुण मोचयेत् ? न जातिसदृशमावरिष्यति? भविष्यन्त्येवंविधानि मे पुण्यानि? न निमेषमप्यत्र पदं कुर्याम्’’ इत्येवं कृताशंसमेवं मां नीत्वा स चण्डालस्तस्यै चण्डालदारिकायै दिर्शतवान् । सा तु प्रहृष्टतरवदना स्वकरयुगेनादाय माम् ““आः पुत्रक, प्राप्तोऽसि । सांप्रतं क्कापरं गम्यते । व्यपनयामि ते सर्वमिदं कामचारित्वम्’’ इत्यभिदधानेव मनादुद्धाटितद्वारे दारुपञ्जरे समं महाश्वेतावलोकनमनोरथैराक्षिप्य, अर्गलितद्वारा ““अत्र निर्वृतः संप्रति तिष्ठ’’ इत्यभिधाय, तूष्णीमसथात् ॥
अहं तु तथा संरुद्धश्चेतस्यकरवम्— ““महासंकटे पतितोऽस्मि । यदि तावदावेदितात्मावस्थः शिरसा प्रणिपत्य मुक्तये विज्ञापयाम्येनाम्, तदा य एव मे गुणो दोषतामापद्य बन्धायोपजातः, स एव संवर्धितो भवति । " साधु जल्पति’ इल्?येवाहमनया ग्राहितः ग्राहितः । कास्या मदीयया बन्धनीडया पीडा । नाहमस्यास्तनयः, न भ्राता, न बन्धुः । अथ मौनमालम्ब्य तिष्ठामि । तत्रापि शाठ्यकुपिता कदाचिदितोऽप्यधिकामवस्थां प्रापयति माम् । नृशंसतमा हि जातिरियम् । अथवा, वरगितोऽप्यधिकमुपजातम्, न पुनश्चणलैः सह वागपि विमिश्रिता । अपि च, यद्दिव्यलोकभ्रंशः, यन्मर्त्यलोके जन्म, यत्तिर्यग्जातौ पतनम्, यच्चाण्डालहस्तागमनम्, यच्चेदमेवंविधं पञ्जरबन्धदुःखम्, सर्वं एवायमनियतेन्द्रियत्वस्यैव दोषः । तत्किमेकया वाचा । सर्वेन्द्रियाण्येव नियमयामि’’ इति निश्चित्य, मौनग्रहणकरवम् ॥
उपनीतेऽपि च पानाशने, तं दिवसमनशनेनैवात्यवाहयम् । अन्येद्युश्चतिक्रामत्यशनकाले मे दूयमाने च हृदये, सा स्वपाणिनोपनीय नानाविधानि पक्कान्यपक्कानि च फलानि सुरभि शीतलं च पानीयम्, स्त्रिह्मन्तीवावोचत्—““क्षुत्पिपासार्दितानां हि पुशपक्षिणां निर्विचारचित्तवृत्तीनामुपनतेष्वाहारेष्वनुपयोगो न संभवत्येव । तत् , यद्येवंविघस्त्वं कोऽपि भोजृयाभोज्यविवेककारी पूर्वजातिस्मरोऽस्मदीयमाहारं परिहरसि, तथापि तावद्भक्ष्याभ्यविवेकराहितायां तिर्यग्जातौ वर्तमानस्य ते किं वा अभक्ष्यम् । प्रथममेवात्मा न विवेवके स्थापितः । अधुना स्वकर्मोपात्तजातिसदृशमाचरतस्ते नास्त्येवं दोषः । न चेदृशं किंचिदप्याहाराय मयोपनीतम्, यादृशेन चाण्डालाशनशङ्का समुत्पद्यते । फलानि तु ततोऽषि प्रतिगृह्मन्त एव । पानीयमपि चाण्डालभाण्डादपि भुवि पतितं पवित्रमेवेत्येवं जनः कथयति । तत्किमर्थमातृमानं क्षुधा पिपासया वा पातयसि’’ इति । अहजं तु तेन तस्या वचसा विवेकेन च विस्मितान्तरात्मा, क्षुत्पिपासोपशमायाशनक्रियामङ्गीकृतवानस्मि । मौनं तु पुनर्नात्याक्षम् ।
एवमतिक्रामति च काले, क्रमेण तरुणतामापन्ने मयि, एकदा प्रभातायां यामिन्यामृ, उन्मीलितलोचनः, अद्राक्षमस्मिन्कनकपञ्जरे स्थितमात्मानम् । सापि चाण्डालदारिका यादृशी, तादृशी देवेनापि दृष्टैव । सकलमेव च तं पक्कणममरपुरसदृशमालोक्य, ?“किमेतत्’ इति कुतूहलात्प्रष्टुकामो यावन्न परिजृयजाम्येव मौनम्, तावदेषा मामा दाय देवपादमूलमायाता । तत् केयम् ? किमर्थमनया चाण्डालतातमनः ख्यापिता? किमर्यं वाहं बद्धः? बद्धो वा किमर्थभिहानीतः? इत्यत्र वस्तुनि अहमपि देव इवानपगतकुतूहल एव’’ इति ॥
राजा तु तच्छ्रुत्वा, समुपपजाताभ्यधिककुतूहलः, तदाह्वानाय पुरः स्थितां प्रतीहारीमादिदेश । न चिरादेव प्रविश्य सा पुरस्तादूर्ध्वस्थितैव बभाषे—- ““भुवनभूषण रोहिणीपते, सर्वस्त्वयास्य दुर्मतेरात्मनश्च पूर्वजन्मवृत्तान्तः श्रुत एव । अत्रापि जन्मनि यथायं निषिद्धोऽपि पितुराज्ञामुल्लङ्ध्य वधूसमीपं प्रस्थितः, तथानेन स्वयमेव कथितम् । तदहमस्य दुरात्मनो जननी श्रीः । तथा प्रस्थितमेनं दिव्येन चक्षुषा दृष्ट्वा अस्य पित्रा अहं समादिष्टास्मि—-““सव्र एव ह्मविनयप्रवृत्तोऽनुतापा?द्विना न निवर्तते । तदयं ते तनयः कदाचिदस्याअपि तिर्यग्जातेरधस्तात्पतति । तद्यावदिदकं कर्म न परिसमाप्यते, तावदेनं मर्त्यंलोक एव बद्ध्वा धारय । यथा चानुतापेऽस्य भवति, तथा प्रतिविधेयमस्य’’ इति । तदस्य विनयायेदं विनिर्मितं मया ।
सर्वमधुना तत्कर्म परिसमाप्तम् । शापावसानसमयो वर्तते । शापावसाने च युवयोः सममेव सुखेन भवितव्यमिति त्वत्समीपमानीतो मयायम् । अत्रापि यच्चाण्डालजातिः ख्यापिता, तल्लोकसंपर्कपरिहाराय । तदनुभवतं संप्रति द्वावपि सममेव जन्मजराव्याधिमरणादिदुःखबहुले तनू तनू परित्यज्य, यथेष्टजनसमागमसुखम्’‘इत्यभिदधानैव सा झटिति क्षितेर्गगनमुदपतत् ॥
अथ राज्ञस्तद्वचनमाकर्ण्य संस्मृतजन्मान्तरस्य, मकरकेतुर्जीं वितापहरणाय प्रतिरोधक इवान्तरा पदं चकार । तत्पदाक्रान्तिनिर्वासितमिव कादम्बरीशरणमुपजगामान्तःकरणम् । तद्विशिखरजोरूषितमिव नयनयुगलमश्रुजलमुत्ससर्ज । आपाडुतां च सद्यो वदललावण्यमयासीत् । आर्दस्य दारुणो द्रव इव दद्यमानस्याङ्गेभ्यो निरगमत्स्वेदः । एवं च चिहतसर्वबाहृमक्रियस्य, तामेवाभिध्यायतः, तामेव पश्यतः, धर्मक्रियामप्यकुर्वाणस्य, आतृमन्यपि विगलितस्त्रेहस्य किं बहुना, कादमृबरीसमागमेऽप्यनुद्यमस्य, केवलमस्य काष्ठीभूतदेहस्य, दाहक्षमो झटित्येवारुरोह परां कोटिं कामानलः, राज्ञ एवतुल्यावस्थस्य महाश्वेतोतृकण्ठया पुण्डरीकात्मनो वैशम्पायनस्य च ॥
तस्मिन्नेव चान्तरे, तत्संधुक्षणायेव सकलमेव प्रेममयमिव, उतृसमयमिव, औत्सुक्यमयमिव जनयन् जीवलोकं परावर्तत सुरभिमासः; येन च पर्याकुलितहृदया कादम्बरी सायाङ्गे स्त्रात्वा निर्वर्तितकामदेपपूज्या, तस्य पुरश्चन्द्रापीडमतिसुरभिशीतलैः स्त्रपयित्वाम्भोभिः, भावार्द्रया दृशा सुचिरमालोक्योत्कण्ठानिर्भरा, सहसा तमभिपत्यु मुकुलितनयनपङ्कजा जीवन्तमिव निर्भरं कण्ठं जग्राह ॥
चन्द्रापीडस्य तु कादम्बरीकण्ठग्रहेण सद्यः सुदूरगतमपि क्कण्ठस्थानं पुनर्जीवितं प्रत्यपद्यत । उषःपरामृष्टेन्दीवरमुकुललीलयोदमीलतृकर्णान्तायतं चक्षुः । एवं च सुप्तप्रतिबुद्ध इव प्रत्यापन्नसर्वाङ्गचेष्टश्चन्द्रापीडः, तथा कण्ठलग्रां कादम्बरीं कण्ठे गृहीत्वा, भयोत्कम्पमानाङ्गयष्टिं न मोक्तुं न ग्रहीतुमात्मना पारयन्तीमवादीत्—- ““भीरु, परित्यज्यतां भयम् । प्रत्युज्जीवितोऽस्मि तवैवामुना कण्ठग्रहेण । त्वं खल्वमृतसंभवादन्सरसां कुलादुत्पन्ना । तदेतावन्त्येब दिनानि पाणिनाप ते स्पृश्यमानोऽपि न यत्प्रत्युज्जीवितोऽस्मि, तच्छापदोषात् । अद्य तु स मे द्वितीयवारं व्यगतः शापः । परित्यक्ता सा मया त्वद्विरहृदुःखदायिनी मानुषी शूद्रकाख्या तनुः । एषापि च “तवास्यां रुचिरुत्पन्ना’ इति त्वत्प्रीत्या प्रतिपन्ना पालिता च । ददयं लोकश्चन्द्रलोकश्च ते द्वावप्यधुना चरणतलप्रतिबद्धौ । अपि च, प्रियसख्या अपि ते महाश्वेतायाः प्रियतमो मयैव सह विगतशापः संजातः’’ इत्यभिदधत्येव चन्द्रापीछडशरीरान्तरितवपुषि चन्द्रमसि, तादृशेनैव वेषेण—यादृशेन महाश्वेतौत्कण्ठ्योपरतः—तथैव कण्ठेनैकावलीं धारयन्नम्बरतलादवतरन् अदृश्यत कपिञ्जलकरावलम्बी पुण्डरीकः ॥
चन्द्रापीडस्तु तं कण्ठे गृहीतृवाब्रवीत्— ““सखे पुण्डरीक, यद्यपि प्राग्जन्मसंबन्धाज्जामातासि, तथाप्यनन्तरजन्माहितसुहृत्स्रेहमद्भावेनैव मया सह वर्तितव्यं भवता’‘इत्येवं चन्द्रापीडे, चित्ररथहंसौ दिष्ट्या बर्धयितुं केयूरको हेमकूटमगम् । मदलेखापि धावमाना निर्गत्य मृर्त्युजयजपव्यग्रस्य तारापीडस्य विलासवत्याश्च पादयोः पतित्वा ““देवे देव्या सह दिष्ट्या वर्धसे । प्रत्युज्जीवितो युवराजः समं वैशम्पायनेन’’ इत्यानन्दनिर्भरमुच्चैर्जगाद । राजा तु तच्छ्रुतृवा हर्षपरवशो विलासवतीं कण्ठेऽवलम्बय, शुकनासं कण्ठे सभावयन्, तत्रैवागच्छत् । चन्द्रापीडस्तु तथा हर्षपरवशं पितरमालोक्य, पुरेव चरणयोरपतत् । अथ सत्वरापसृतः, तं तथा प्रणतमुन्नमय्य तारापीडोऽभ्यधात्— ““पुत्र, यद्यपि पिताहं तव शापदोषात्स्वपुण्यैर्वा संजातः, तथापि जगद्वन्दनीयो लोकपालस्त्वम् । अपि च, मय्यपि नमस्यो र्योऽशः, सोऽपि मया त्वय्येवं संक्रामितः । तदुभयथापि त्वमेव नमस्कार्यः’’ इतृयभिद्रघदेव, समं राजपुत्रलोकसहर्स्त्रैः प्रतीपमस्य पादयोरपतत् । विलासवती तु तं पुनः शिरसि पुनर्ललाटे पुनश्च कपोलयोश्चुम्बित्वा, गाढतरं सुचिमालिलिङ्ग । उन्मुक्तश्च मात्रा उपसृत्य पुनः कृतनमस्कारः, श्?ुकनासं प्रणनाम । आशीःसहस्त्राभिवर्धितश्च तेन, आत्मनोपसृत्य यथानुक्रमं पित्रोः शुकनासस्य मनोरमायाश्च “एष वो वैशमृपायनः “इति पुण्डरीकमदर्शयत् ॥
तस्मिन्नेव च प्रस्तावे, समुपसृत्य कपिञ्जलः शुकनासमवादीत् ““एवं संदिष्टमार्यस्य भगवता श्वेतकेतुना— अयं खलु पुण्डरीकः संवर्धित एव केवलं मया । आत्मजः पुनस्तव । अस्यापि भवत्स्वेव लग्रः
स्त्रेहः । तत् “वैशम्पायन एवायम् “इत्येवमवगत्य, अविनयेभ्योनिवारणीयः; “परोऽयम्’ इति कृत्वा नोपेक्षणीयः । यच्चापगतशापो ऽप्यात्मसमीपं नानीतः, तत्तवैवायमिति । अन्यच्च, आत्मानस्मिन्नाचन्द्रकालीनायुषि स्थापयितृवा कृतार्थस्य, संप्रत्यस्माद्दिव्यलोकादप्युपरिष्टाद्गन्तुमुद्यतं मे सत्त्वाख्यां ज्योतिः ’’ इति । शुकनासस्तु प्रत्यवादीत्—- “कपिञ्जल, सकलजगदाशयज्ञेन सता भगवता किमित्यादिष्टम् । सर्वथा स्त्रेस्यायमसंतोषः ’ इत्येवंविधैश्च पूर्वजन्मवृत्तान्तानुस्मरणलापैः सर्वेषामेव तेषामचेतितैव सा क्षणदा प्रभाता । प्रातरेव च सकलगन्धर्वलोकानुगतौ समं मदिरागौरिभ्यां चित्ररस्थहंसौ तत्रैवाजग्मतुः । आगतयोश्च तयोस्तारापीडशुकनासभ्यां सहानुभूसंबन्धेकोचितसंवादकथयोः सहस्त्रगुण इव महीत्सवः प्रावर्तत ॥
अथ प्रवर्तमान एव तस्मिन्, चित्ररथस्तारापीडभवादीत्—- ““विद्यमाने स्वभवेन किमर्थमयमरण्ये महोत्सवः क्रियते । अपि च, यद्यप्यस्माकमयमेव परस्पराभिरुचिनिष्पन्नो धर्म्यो विवाहः, तथापि लोकसंव्यवहारोऽनुवर्तनीय एव । तद्‌गम्यतां तावदस्मदीयमवस्थानम् । ततः स्वभूमिं चद्रलोकं वा गमिष्यथ’’ । तारापीडस्तु तं प्रत्यवादीत्—- ““गन्धर्वराज, यत्रैव नि?रतिशयं संपत्सुखम्, तदेव वनमपि भवनम् । तदीदृशं क्कापरत्र मया संपत्सुखं प्राप्तम् । अन्यच्च , संप्रति सर्वगृहाण्येव मया जामातरि ते संक्रामितानि । तद्वयस्य, वधूसमेतं तमेवादाय, गम्यतां गृहसुखानुभवनाय’’ इति । चित्ररथस्तु तथाभिहितः, चन्द्रापीडमादाय हेमकूटमगात् । गत्वा च चित्ररथः कादम्बर्या सह समग्रमेव स्वं राज्यं चन्द्रापीडाय न्यवेदयत् । पुण्डरीकायापि समं महाश्वेतया निजपदं हंसः । तौ तु हृदयरुचितवधूलाभमात्रकेणेव कृतार्थौ न किंचिदप्यपरं प्रत्यपद्येताम् ॥
अन्यदा निर्वृतापि कादम्बरी, विषणामुखी, चन्द्रापीडमूतिं चन्द्रमसमप्राक्षीत्—- “आर्यपुत्र, सर्वे खलु वयं ममृताः सन्तः प्रत्युज्जीविताः परस्परं संघटिताश्च । सा पुनर्वराकी पत्रलेखास्माकं मध्ये न दृश्यते । न विह्मः— किं तस्याः केवलाया वृत्तम्’’ इति । स तु प्रत्यवादीत्—- ““प्रिये, कुतोऽत्र । सा हि खलु मदुःखदुःखिनी रोहिणी शप्तं मामुपश्रुत्य “कथं त्वमेकाकी मर्त्यलोकनिवासदुःखमनुभवसि’ इत्यभिधाय, निवार्यमाणापि मया, प्रथमतरमेव मच्चरणपरिचर्यायै मर्त्यलोके जन्ममाग्रहीत् । दतश्च जन्मान्तरं गच्छता मयामदुपरमसुन्मुक्तशरीरा पुनरपि मतर्त्यलोकमवतरन्ती बलादावर्ज्यात्मलोकं विसर्जिता । तत्र पुनस्तां द्रक्ष्यसि ’’ इति । कादम्बरी तु तच्छ्रुत्वा रोहिण्यास्तयोदारतया पतिब्रततया च विस्मितहृदया परं लज्जिता, न किंचिदपि वक्तुं शशाक ॥
एवं च चन्द्रापीडस्तत्र दशरात्रं स्थित्वा, परितुष्टहृदयाभ्यां श्वशुराभ्यां विसर्जितः, पितुः पादमूलमाजगाम॥
आगत्य च समकालमेवानुभूतक्लेशं राजलोकमात्मसमं कृत्वा, समारोपितराज्यभारः पुण्डरीके, परित्यक्तसर्वस्वकार्ययोः पित्रोः पादावनुचरन्, कदाचिज्जन्मभूमिस्त्रेहादुज्जयिन्याम्, कदाचिद्गन्धर्वराजगौरवेण हेमकूटे, कदाचिद्रोहिणीबहुमानेन चन्द्रलोके, कदाचित्पुण्डरीक्रपीत्या लक्ष्मीनिवाससरसि, कादम्बरीरुच्या च सर्वत्रैवापरेष्वपि रम्यतरेषु तेषु तेषु स्थानेषु, न केवचलं चन्द्रमाः कादम्बर्या सह, कादम्बरी महाश्वेतया सह, महाश्वेता तु पुण्डरीकेण सह, पुण्डरीकोऽपि चन्द्रमसा सह परस्परावियोगेन सर्ब एव सर्वकालं सुखान्यनुभवन्तः परां कोटिमानन्दास्याध्यगच्छन् ॥