कादम्बरीकथासारः

[[कादम्बरीकथासारः Source: EB]]

[

KÂVYAMÂLÂ.11.

<MISSING_FIG href="../books_images/U-IMG-1729228384Screenshot2024-10-18104222.png"/>

THE

KÂDAMBARÎKATHÂSÂRA

OF

ABHINANDA.

<MISSING_FIG href="../books_images/U-IMG-1729228416Screenshot2024-10-18104317.png"/>

EDITED BY

PAṆDIT DURGÂPRASÂDA

AND

KÂŚÎNÂTH PÂṆDURANG PARAB

REVISED BY

WÂSUDEV LAXMAṆ SHÂSTRÎ PAṆŚÎKAR.

Third Reviesd Edition.

————————

PUBLISHED

BY

PÂNDURANG JÂWAJÎ,

PROPRIETOR OF THE “NIRNAYA-SAGAR”PRESS,

BOMBAY.

————

1925.

————

[All rights reserved by the publisher.]

PUBLISHER - Pandurang Jawaji,
PRINTER - Ramchandra yesu shedge,

at the ‘Nirnaya-sagar’ press. 26-28,
Kolbhat lano, bombay,

काव्यमाला.११.

<MISSING_FIG href="../books_images/U-IMG-1729192720Screenshot2024-10-18004750.png"/>

महाकविश्रीमदभिनन्दविरचितः

कादम्बरीकथासारः।

<MISSING_FIG href="../books_images/U-IMG-1729192745Screenshot2024-10-18004851.png"/>

जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना महामहोपाध्याय–
पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह्न-
पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः,
स च पणशीकरोपाह्णलक्ष्मणशर्मात्मज-
वासुदेवशमेणा च संस्कृतः।

———————————————
तृतीयावृत्तिः।

सच

मुम्बय्यां

पाण्डुरङ्ग जावजी

इत्येतै; स्वीये निर्णयसागराख्ययन्त्रालयेमुद्गयित्वा प्रकाशितः।

१९२५

काव्यमाला।

<MISSING_FIG href="../books_images/U-IMG-1729483451Screenshot2024-10-21093332.png"/>

काश्मीरकमहाकविश्रीमदभिनन्दप्रणीतः
कादम्बरीकथासारः।

<MISSING_FIG href="../books_images/U-IMG-1729233293Screenshot2024-10-18120440.png"/>

प्रथमः सर्गः।

श्रियंदिशन्तु वः शौरेर्द्वयेतुल्यश्रमाः क्रमाः।
ये चादौगोष्पदं पश्चात्रैलोक्यं क्राम्यतश्च ये॥१॥
सरसाः सदलंकाराः प्रसादमधुरागिरः।
कान्तास्तातजयन्तसय जयन्ति जगतीगुरोः॥२॥

————————————————————————————————————————————————————————————

१.अयमभिनन्दमहाकविः कश्मीरेषुख्रिस्ताब्दीयाष्टशतकोत्तरभागे समुत्पन्न इति प्रतीयते, यतोऽस पञ्चमः पूर्वपुरुषः शक्तिस्वामी कर्कोटवंशोद्भवस्यमुक्तापीडनरपतेर्मन्त्रिप्रवर आसीदिव ग्रन्थारम्भेस्फुटमस्तिमुक्तापीड इति तुं सप्तमशतकोत्तरभागे कश्मीराज्पालयतोललितादित्यस्यनामान्तरमस्तीति राजतरङ्गिप्यां (४।३९—४३) प्रसिद्धमेव.तस्माद्धाणभट्टानन्तरं किंचिन्न्यूनाधिकसार्धशतवर्षेतीतेष्वभिनन्दः समुत्पन्न इति सुव्यक्तमेव, दशमशतकसमाप्तिसमुद्धूतः श्रीमदाचार्याभिनवगुप्तोऽपि ध्वन्यालोकलोचने तृतीयोद्द्योते कादम्बरीकथासारस्यस्मरति स्म. एवंक्षेमेन्द्रः सुबृत्ततिलके तर तृतीयबिन्यासे “तस्यां निजभुजोद्योग’— (१।१६) इत्यादि पद्यम्‌ भोजदेवश्च सरस्वतीकण्डाभरणे पश्चमपरिच्छेदे ‘चद्धापीडंसा च जग्राह कण्ठे— (८।७९) इत्यादि पद्यं कादम्बरीकथासारस्थमुदाहृतवान्‌ ,सुवृत्ततिलके “अनुष्टुप्सततासक्ता साभिनन्दस्य नन्दिनी। विधाधरस्यवदने गुलिकेवप्रभावभूः॥’ इत्यनुष्टुप्छन्दोनिर्माणेऽभिनन्दकविं क्षेमेन्द्रःस्तौति स्म, कादम्बरीकथासारमपहायान्यः कोऽपि ग्रन्थोस्यकवेर्नोपलभ्यते, रामचरितकाब्यस्यप्रणेता तु कश्चिदन्य’ एवं शताननन्‍दसूनुरभिनन्दोऽस्ति. ग्रन्थोऽयं पण्डितापरनाम्निकाशीविद्यासुधानिधौ मासिकपत्रे १८६७ खि्रस्ताष्दे प्रथमद्वितीयभागयोमुद्रितोऽपि न सर्वसुलभो नातिशुद्धश्चेति पुनरेतस्यमुद्रणमस्माभिरूपकान्तम् ,तत्र काश्मीरकपुस्तकस्यप्रतिरूपकमेकं पुस्तकंप्रायः शुद्धमष्टत्रिंशत्पत्रात्मकं श्रीपण्डितसरयुप्रसादशर्मणां सकाशादभिगतं क-संज्ञकम्‌. अपरं चतुरशीतिपत्रात्मकं १८०९ मिते विक्रमाब्देलिखितं नातिशुद्धं, पण्डितमुद्रितपुस्तकस सहोदरमिव राजगुरुपर्वणीकरनारायणभट्टानां संग्रहात्प्राप्तं ख-संज्ञकम्‌. एतत्पुस्तकद्वयाधारेणैतन्मुद्रणमारभ्यतइति शिवम्‌।, ‘क्रामतः ख. २. ‘जगतांगुरोःख.

गुणोद्द्योतनदीपानां सतां न परमुज्ज्वलम्‌।
यावन्मलिनमप्येषां कर्म दृष्टेः प्रसाधनम्‌॥३॥

गुणः कृशोऽपि प्रथते पृथुरप्यपचीयते।
प्राप्य साधुस्वलौचन्द्रः पक्षाविव सितासितौ॥४॥

शक्ति1नामाभवद्गौडो भारद्वाजकुले2 द्विजः।
दार्बा3भिसारमासाद्यकृतदारपरिग्रहः॥५॥

तस्यमित4्रभिधानोऽभूदात्मजस्तेजसां निधिः।
जनेन दोषो5परमप्रबुद्धेनार्चितोदयः॥६॥

स शक्तिस्वामिनं पुत्रमवाप श्रुत6शालिनम्‌।
राज्ञः कर्कोटवंशस्य मुक्तापीडस्य मन्त्रिणम्‌॥७॥

कृल्याणस्वामिनामास्ययाज्ञवल्क्यइवाभवत्‌।
तनयः शुद्धयोगर्द्धिनिर्धूतभवकल्मषः॥८॥

अगाधहृदयात्तस्मात्परमेश्वरमण्डनम्‌।
अजायत सुतः कान्तश्चन्द्रो दुग्धोदधेरिव॥९॥

पुत्रं कृतजनानन्दंस जयन्तमजीजनत्‌।
आसी7त्कवित्ववक्तृत्वफलायस्य सरस्वती॥१०॥

वृत्तिकार इति व्यक्तं द्वितीयं नाम बिभ्रतः
वेदवेदाङ्गविदुषः सर्वशास्त्रार्थवादिनः॥११॥

जयन्तनाम्नःसुधियः साधुसाहित्यतत्त्ववित्‌।
सूनुः समुदभूत्तस्मादभिनन्दइति श्रुतः॥१२॥ (युग्मम्‌)

काव्यचिस्तरसंधानखेदारसधियः8प्रति।
तेन कादम्बरीसिन्धोः कथामात्रं समुद्धृतम्‌॥१३॥

पुरुहूतपुरस्पर्धिविभवा9 च त्रुटितः") भूषणं भुवः।
बभूव विदिशानाम पुरी वेन्नवतीतटे॥१४॥

या पुण्यकर्मिणां तेजःशालिनां द्यौरिवास्पदम्।
रेजे रत्नगृह10ज्योतिर्जालैरिन्द्रायुधप्रभैः॥१५॥ (युग्मम्‌11)

तस्यां निजभुजोद्योगविजितारातिमण्डलः।
आखण्डलइव श्रीमान्राजा शूद्रकइत्यभूत्‌॥१६॥

अष्टानां लोकपालानां रूपं बिभ्रदपि प्रजाः।
शश्वदानन्दयंस्ताभिश्चन्द्रमा इत्यवेदि यः॥१७॥ (युग्मम्12)

स मेदिनीं विनिर्जित्य चतुर13म्भोधिमेखलाम्‌।
सचिवार्पिततद्भारस्तस्यामास्त14 यथासुखम्‌॥१८॥

तेनानुद्वेजितजनैरर्थ15धर्माविरोधिभिः।
विनोदैरत्यनी16यन्त नवे वयसि वासराः॥१९॥

तस्य चानन्यलभ्यानां सुखानां पारदृश्वनः।
यूनोऽपि सुरतक्रोडापराङ्मुखमभून्मनः॥२०॥

प्रयत्नेनापि नावापि सा योषिद्विषमेषुणा।
हर्तुं शशाक या तस्य हृदयं चक्षुरेव वा॥२१॥

अथ बाह्यङ्गणस्थानवर्तिनं तं कदाचन।
प्रसृत्य प्रणय17प्रह्वाप्रतीहारी व्यजिज्ञपत्‌॥२२॥

दूरादुपायनीकृत्य शुकमाश्चर्यचेष्टितम्‌।
चण्डालदारिका काचिदागता दर्शनार्थिनी॥२३॥

श्रुत्वा क्षणं परामृश्य मुखमालोक्य मन्त्रिणाम्‌18
समादिदेश तां राजा को दोषः प्रविशत्विति॥२४॥

निजेन लक्ष्मणा लोकस्पर्शं परिहरन्त्यथ।
मातङ्गकन्यकाविक्षदनुज्ञाता नृपाङ्गणम्‌॥२५॥

तया19 च सह हत्सस्थसशुकस्वर्णपञ्जरः।
वहन्नहिंस्रमाकारं चण्डालस्थविरोऽविशत्‌॥२६॥

प्रविशन्तीं तु तां दृष्ट्वाकन्यामद्भुतदर्शनाम्‌।
परं व्यस्मयत क्ष्मापः क्षणं चैवमचिन्तयत्‌॥२७॥

इदं रूपमियं कान्तिरिमे लावण्यशीकराः20
मर्त्यतामपि21 न प्राहुर्मातङ्गत्वे तु का कथा॥२८॥

तत्सत्यमेव22 पश्यामि नूनंमातङ्गमायया।
छन्नेयं देवता काचिन्मर्त्यलोकमुपागता॥२९॥

इत्यादि चिन्तयन्तं सा प्रगल्भवनितेव तम्‌।
प्रणनाम महीपालमनाकुलविलोकिनी॥३०॥

ततः क्षितितलन्यस्तजानुः प्रणतकंधरः।
गाढोभयकरासक्तपञ्जरः स्थविरोऽब्रवीत्‌॥३१॥

वैशम्पायननामायं रत्नमत्यद्भुतं शुकः।
रत्ननां23 चास्पदं देवो दुग्बोदधिरिवापरः॥३२॥

इत्यादरेण24 नः स्वामिदुदित्राय्पाहृतः।
प्रसादः क्रियताभस्या25विहगः परिगृह्यताम्‌॥३३॥

इत्युक्स्वा सोऽग्रतो राज्ञः पञ्जरं मणिकुट्टिमे।
विनिधाय प्रणम्यैन सप्रश्रयमपासरत्‌26॥३४॥

इङ्गितज्ञा प्रतीहारी विवृतद्वारसंपुटम्।
अकरोत्पञ्जरं तस्मान्निर्ययौच विहंगमः॥३५॥

उत्क्षिप्य दक्षिणं पादं जयशब्दमुदीर्यसः।
प्रयुक्तेवेदमन्त्राशीरिमामार्यमथापठत्‌27॥३६॥

स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्ने।
चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम्॥३७॥

तामाकर्ण्यं28 महीपालो विस्मयोत्फुल्लोलोचनः।
कुमारपालमानं प्रधानामात्यमब्रवीत्‌29॥३८॥

दृष्टंभवद्भिराश्चर्यमीदृशं श्रुतमेव वा30
तिर्यक्त्वेडतिशयः31 सोऽयं यो मनुष्येषु दुर्लभः॥३९॥

श्रुताध्ययनसंस्कारो32मातङ्गजनसंगतिः।
मातङ्गेषु च कन्येयमित्याश्चर्यपरम्परा33॥४०॥

अमात्यस्त्वभ्यधाद्देव34 पूर्वसंस्कारकारिताः।
भवन्त्यतिशयाः35 प्रायः प्राणिनां कोऽत्र विस्मयः॥४१॥

एतानि तानि जिङ्गानि परलोकानुमां प्रति।
तार्किकैरुपपाद्यन्ते36 लोकायतनिराकृतौ37॥४२॥

विचित्रा वेधसः सृष्टिर्विचित्रा38 कर्मवासना।
विचित्रस्तद्विपाकश्च39 विचित्रः कालपर्ययः॥४३॥

इत्यादिशुकसंबन्धिकथाविच्छेदुकारणम्‌।
उदभुत्तारगम्भीरो मध्याह्नपटहध्वनिः॥४४॥

बहिः प्रकल्प्यतामस्या40सुखायावसथादिकम्41
अयं चाभ्यन्तरं पत्ररथभूपः प्रवेश्यताम॥४५॥

इत्यादिश्य प्रतीहारीं सभामौज्झन्महीपतिः।
विससर्जच राजन्यचक्रं सेवार्थमागतम्‌॥४६॥

ततः कृताल्पव्यायामः स्नातः पूजितेदैवतः।
हुताग्निश्रुतविप्राशीर्भुक्त्वा श्य्यागृहं ययो॥४७॥

तत्र पर्यङ्कमारुह्यध्यात्वैव42 किमपि क्षणम्‌।
तमन्तः पुरविश्रान्तं शुकमानाययत्पुनः॥४८॥

तं च कञ्चुकिनानीतमादौपृष्ट्वासुखासिकाम्‌43
पप्रच्छ कौतुकाक्षिप्तस्तद्वृत्तान्तमनन्तरम्‌॥४९॥

वैशम्पायन को नु त्वं क्व जातः क्वोषितश्चिरम्‌।
कुतस्त्यमिदमीदृक्ते कलाशास्रादि कौशलम्‌॥५०॥

मन्ये जातिस्मरः कोऽपि भवान्भूमिमिमां44 गतः।
नह्यस्त्यतिशयप्राप्तिरियती पक्षिजातिषु॥५१॥

केन वा भवतो नाम कृतं विप्रजनोचितम्‌।
ईदृशान्यभिधानानि कुतोऽन्त्यजनवेश्मसु45॥५२॥

कथं चण्डालसंपर्कं46इह वा कथमागमः।
इति कार्त्स्न्येन वृ्त्तान्तमात्मनो वक्तुमर्हसि॥५३॥

इति पृष्टः क्षितीशेन बहुमानपुरःसरम्‌।
क्षणं बुद्ध्यानुसंधाय शुको वक्तुं प्रचक्रमे॥५९॥

देव विन्ध्याटवी तावत्तव श्रुतिपथं गता।
पूर्वापरपयोराशिवेलासंस्पर्शशालिनी॥५५॥

यदेकदेशेकण्डूलगण्डेभदलितद्रुमे।
उषितौदण्डकारण्ये ससीतौ रामलक्ष्मणौ॥५६॥(युग्मम्‌)

यत्रागस्त्यमुनेरासीदाश्रमः शमिनां मतः।
लोपामुद्राकराक्षिप्तजलसंवर्धितद्रुमः॥५७॥

तस्योपकण्ठे पम्पाख्यमस्ति पुण्यजलंसरः।
सीताकरतलोल्लूनश्रवणाभरणोत्पलम्॥५८॥

तस्यास्ति पश्चिमे तीरे जीर्णःशाल्मलिपादपः।
आरोहपरिणाहाभ्यां व्याप्तव्योमदिगन्तरः॥५९॥

तस्मिन्कृतकुलायानि वीतभीतीनि दुर्गमे।
विहंगमसहस्राणि निवसन्ति निरन्तरम्‌॥६०॥

दिवा तान्यभिनिर्वर्त्य47प्राणयात्रामितस्ततः।
तत्रागत्य48 स्वनीडेषु सुखं रात्रिषु शेरते॥६१॥

तत्रैवबद्धबसती अभूतां पितरौ मम।
जातोऽहमेकस्तनयस्तयोर्वयसि49 पश्चिमे॥६२॥

उद्वेढुमसमर्थासा तीव्रांप्रसववेदनाम्‌।
तयैव पञ्चतां नीता जननी मेदुरात्मनः॥६३॥

जायावियोगदग्धोऽपि50 तातः51 पुत्रैषणातुरः।
शोकमुत्सृज्य मत्प्राणपोषणे यत्नमग्रहीत्॥६४॥

न शशाक कचिद्गन्तुमात्मनः प्राणवृत्तये।
मां वक्षसि निधायास्त नीड एव दिवानिशम्‌॥६५॥

अन्यपत्ररथानीतभुक्तोज्झितफलादिना।52
मदाप्यायनशिष्टेन सोऽकरोद्वृत्तिमात्मनः॥६६॥

अतिक्रामति कालेऽथ किंचिदुद्भिन्नपक्षतौ।
तातवक्षःस्थलस्थेऽपि मय्युड्डयनलालसे॥६७॥

अकस्मादेव संभ्रान्तमृगपक्षिकुलश्रुतः।
अभूत्कलकलस्तसिन्नरण्ये यमदुन्दुभिः॥६८॥(युग्मम्‌)

ततस्तातोरसः किंचिदुन्नमय्य शिरोधराम्‌।
कुतूहलवशाच्चक्षुर्दिक्षुनिक्षिप्तवानहम्53॥६९॥

अथापश्यमसंख्यातकिरातपरिवारितम्‌54
वने शबरसेनान्यमायान्तं मृगयारसात्‌॥७०॥

ततो मृतमिवात्मानमुत्खातमिव शाल्मलिम्‌55
परिवृत्तमिवारण्यं भयेनाहमचिन्तयम्‌56॥७१॥

हतप्राणिसह57स्राङ्गस्रवद्रुधिरचर्चितैः।
मुहूर्तादेव तद्व्याधैर58थारण्यमपूर्यत॥७२॥

सेनापतिः स59निस्त्रिंशो मृगयाजनितश्रमः।
निषसाद ततः60 पम्पासरसस्तीरशाद्वले61॥७३॥

क्षणं विश्रम्य पीत्वापः प्राश्यबालमृणालिकाः।
पुलिन्दैः सह सेनानीः स जगाम यथागतम्‌॥७४॥

एको जरत्पुलिन्दस्तु पापस्तत्र व्यलम्बत62
प्रांशुर्भयंकराकारः कृतान्तस्येव किंकरः॥७५॥

अजातपिशितप्राप्तिरनुभूतवृथाश्रमः।
यमदूतीमिव दृशं स ददौ तत्र शाल्मलौ॥७६॥

स दुरारोहतां तस्य जानन्नपि महातरोः।
जातानध्यवसायोऽपि यत्नमारोहणेऽकरोत्‌॥७७॥

अथाहम63समत्रासविपर्यासितमानसः।
अविशंपितुरुत्सङ्गं तत्पक्षा64वृतविग्रहः॥७८॥

स तु पापस्तमारुह्यतरुं नीडनिवासिनः।
हत्वाहत्वा यथाशक्ति शुकान्भूमावपातयत्‌॥७९॥

क्रमेण स दुराचारस्तातस्यापि शिरोधराम्‌।
बभञ्च तं च65 चिक्षेप क्षितो विगतजीवितम्‌॥८०॥

तदा मम न तच्छोको नान्यर्किचिञ्च66चेतसि।
केवलंसहजातेन भयेनैवास्मिविप्लुतः॥८१॥

ततोऽहं पितुरुत्सङ्गाद्विनिर्गत्य ससाध्वसम्‌।
अन्तरं तरुशीर्णानां पर्णानां तूर्णमाविशम्‌॥८२॥

पापः सोऽप्यवरुह्याथ शाल्मलेर्मूलवर्तिनः।
शुकान्गतासूनादाय व्याघाननुसरन्नगात्‌॥८३॥

अहं विधिनियोगात्तुतेन दुष्कृतकारिणा67
जीर्णपर्णसवर्णत्वात्तदानीं नावधारितः॥८४॥

ततो दूरमतिक्रान्ते तस्मिन्दारुणकर्मणि।
संजातजीविताशं मां पिपासा पर्यबाधत॥८८॥

अनुड्डयनसामर्थ्यात्पभ्द्यामेव यथातथा।
पम्पापुलिनपर्यन्तं गन्तुमैच्छं पिपासितः॥८६॥

तथाप्यति68निरुत्साहः पतन्मुहुरितस्ततः69
तमेव पापकर्माणं शङ्कमानः पदे पदे॥८७॥

चिरं हा तात तातेति शोचन्कण्ठान्तवर्तिभिः70
प्राणैरायास्यमानोऽहमतिष्ठमतिनिष्ठरः॥८८॥(युग्मम्‌)

तस्मादनतिदुरेऽस्ति71सरसस्तपसां निधेः।
निर्धुतक्लेशजालस्य जावालेराश्रमो मुनेः॥८९॥

ततस्त72स्मिन्सुतस्तस्य सरसि स्नातुमागतः।
हारीतनामा मां तत्रतदवस्थं व्यलोकयत्‌॥९०॥

कष्टं केनापि पापेन पातितः शुकशावकः।
कुलायात्क्लाम्यतीत्युक्त्वा73 कृपया मां करेऽग्रहीत्‌॥९१॥

अपाययत्पयोबिन्दून्मरुताश्वासयन्मुहः।
कृताह्निकश्च कारुण्यादनयत्पितुराश्रमम्‌॥९२॥

समाश्वस्तस्यहारीततातं दृष्ट्यैवपश्यतः।
पदं स्थिरमिव न्यस्तंहृदि मे जीविताशया॥९३॥

नीडच्युतोऽयमानीतो मया विहगपोतकः।
इति पित्रे प्रणम्यासौ74 पाणिस्थं माभदर्शयत्‌75॥९४॥

अथ जाबालिमद्राक्षं साक्षादिव पितामहम्‌।
महात्मभिः परिवृतं सानुकम्पेैस्तपोधनैः॥९५॥

जराधवलमूर्धानं धाम्ना प्रसरता वहिः।
अनतिस्फुटसंलक्ष्यशरीरावयवाकृतिम्‌॥९६॥ (युग्मम्‌ )

स तुमां क्षणमुद्वीक्ष्य स्मयमान इवावदत्‌।
इदं हि भुज्यतेऽनेन फलं स्वयैव कर्मणः॥९७॥

त्रिकालदर्शी भगवान्स हि दिव्येन चक्षुषा।
विश्वं पश्यति पाणिस्थ76बदरामलकादिवन्‌॥९८॥

वचस्तदाकर्ण्यकुतूहलाकुलाःसमेत्य सर्वे मुनयस्तमब्रुवन्।
वभूव कोऽयं भगवन्भवान्तरे किमस्य77 वा दुश्चरितं तदुच्यताम्‌॥९९॥

अभ्यर्थितो78मुनिभिरित्युपरुध्यमान-
स्तानब्रवीत्कुरुत तावदहः क्रियाः स्वाः।
सांध्यं विधाय विधिमस्खलितावधान-
माकणेयिष्यथ कथां पृथुमेतदीयाम्‌॥१००॥

उक्तास्तथा79 भगवता मुनयो निजेन
कर्मक्रमेण दिवसं गमयांबभूवुः।
हारीतहस्तविहितैश्च80 मनोविनोदै-
स्तैस्तैरनीयत मयापि दिनावशेषः॥१०१॥

इति श्रीविपश्चिद्वराग्रगण्याचार्यभट्टश्रीजयन्तसूनोरभिनन्दस्य81 कृतौकादम्बरीकथासारे

प्रथमः सर्गः।
————

द्वितीयः सर्गः।

अथ संध्यासमाध्यन्ताः82 समाप्य मुनयः क्रियाः।
शुश्रूषवः समागम्य यथा83स्थानमुपाविशन्‌॥१॥

अहमप्यात्मवृत्तान्तविस्तरश्रवणोत्सुकः।
संहृत्य चापलंसर्वमासं स्थिरमनास्तदा॥२॥

अथ दुग्धाब्धिकल्लोलधवलैरमृातञ्चितैः।
सिञ्चन्निव करैरिन्दुरुदगादाश्रमस्थलीम्‌84॥३॥

भगवानथ85 जाबालिः सुखासीनः स्वविष्टरे।
वल्कलाहितपर्यङ्कवन्धो वक्तुंप्रचक्रमे॥४॥

सर्वे दत्तावधानाः स्थश्रृणुतेमां तपोधनाः।
अमुष्य पूर्ववृत्तान्तप्रस्तावोपनतां86 कथाम्‌॥५॥

अस्त्यवन्तिषुसंसारसलक्ष्म्याः प्रसवभूरिव।
निधिरुज्जयिनी नाम नगरी गुणसंपदाम्‌॥६॥

लङ्कारकामरावत्यो येषां वसतयः प्रियाः।
तेऽपि यामभिपश्यन्तः सुखं तासुन शेरते॥७॥

किमन्यद्यत्र87 कैलासनिवासप्रीतिमुज्झता।
महाकालाभिधानेन रुद्रेण खयमास्यते॥८॥(तिलकम्‌88)

तस्यां89भरतमांघातृभगीरथपृथूपमः।
तारापीड इति श्रीमान्बभूव90पृथिवीपतिः॥९॥

परस्परविरोधेन विप्रकीर्णैरितस्ततः।
विस्त्रब्धमास्यते यत्र संभूय सकलैर्गुणैः91॥१०॥ (युग्मम्‌)

विहसन्बुद्धिविभवैर्भृगूद्वहबृहस्पती92
अमात्य शुकनासाख्यो ब्राह्मणस्तस्य चाभवत्‌॥११॥

त्रिविक्रमपदाक्रम्यस राजा पृथिवीमिमाम्‌।
तस्मिन्मन्त्रिणि तद्भारं निचिक्षेप मरक्षमे॥१२॥

तथा च93 पालयामास स मन्त्रीसकलाः प्रजाः।
यथा त्रिविधमप्येता न दुःखं किंचिदस्पृशत्‌94॥१३॥

यथा यथा च लोकोऽस्मिन्पितरीवान्वरज्यत95
राजा तथा तथात्मानं कृतकृत्यममन्यत॥१४॥

अक्लेशमर्पितं96 तेन स्वभुजे जगद97र्जनम्‌।
संभोगविघ्नकारीति पालनं मन्त्रिसात्कृतम्॥१५॥

कृतकत्यतया चासौ कार्यशेषमचिन्तयन्।
विषयेष्वाहितप्रीतिरासांचक्रे यथासुखम्‌॥१६॥

शोभा हि कृतकृत्यस्य राज्ञो भोगविभूतयः।
असमाप्तजिगीपस्य ता एव तु विडम्बनाः॥१७॥

स युवा मधुराकारस्तरुणीनयनोत्सवः।
कलासु98 कुशलःकामी बुभुजे भोगसंपदः॥१८॥

न ते भोगा99 न ताः क्रीडा न ता गोष्ट्यो न ते रसाः।
न ते विलासा येष्वस्य100पारगं नाभवन्मनः॥१९॥

समग्रसुखसंभोगभूमिज्ञोऽपि स101भूपतिः।
सुखमेकं तु नाज्ञासीदपत्यालोकनोद्भवम्‌॥२०॥

यथा यथास्य कालेन व्यतीयाय नवं वयः।
निर102पत्यतया शोको वर्धते स्म तथा तथा॥२१॥

मुख्यभूता च सर्वस्मिन्नन्तःपुरकदम्बके।
राज्ञी विलासवत्याख्या तस्य103प्राणसमाभवत्‌॥२२॥

सा राजमहिषी गौरीमभ्यर्चयितुमेकदा।
देवतायतनं बाह्यं ययौभर्तुरनुज्ञया॥२३॥

पुराणे वाच्यमानेऽथ104प्रसङ्गपतितांश्रुतिम्‌।
अपुत्रस्य कुतो लोका इति शुश्राव तत्र सा॥२४॥

प्रतप्तलोहसूचीव सा श्रुतिः श्रवणान्तरम्‌।
विवेश ददती105 तस्याः परां कामपि वेदनाम्‌॥२५॥

ततः प्रतिनिवृत्ताथ प्रविश्यभवनं निजम्‌।
वस्रावृत्तमुखी भूमावुपविश्य रुरोद सा॥२६॥

सखीभिः प्रार्थ्यमानापि न स्वामभजत स्थितिम्‌।
नोद106स्थात्कर्तुमाहारं विरराम न रोदनात्‌॥२७॥

अथोपलभ्य तत्पीडा107वार्तांपरिजनान्नृपः।
प्रविश्यान्तःपुरं प्राह स्वैरमेनां प्रसादयन्‌॥२८॥

प्रिये किमिदमारब्धं रुद्यतेकिमकारणम।
न त्वया मत्कृते108 मन्युरनुभूतः कदाचन॥२९॥

अन्योऽपि भन्मुखप्रेक्षी109मदधीनात्मजीवितः।
कस्तवोत्पादयेन्मन्युं यस्मैकुप्यसि सुन्दरि॥३०॥

इति प्रसाद्यमाना सा यदा नोवाच किंचन।
तदा विदितवृत्तान्तस्तत्सख्या नृपतिः110 कृतः॥३१॥

तेन व्यतिकरेणाथ सोऽपि शोकपरायण111:।
रुरोद वक्षसि न्यस्तसबाप्पदयितामुखः॥३२॥

चिरं रुदित्वा निःशब्दं स्वयमुन्सृज्य लोचने।
जगाद गद्गदं राजा महिषीमुपसान्त्वयन्‌॥३३॥

ममापि नन्वियं देवि चिरात्प्रभृति दुःसहा।
दुनोति हृदयं चिन्ता112 निष्प्रतीकाररोगवत्‌॥३४॥

विफलं बत मे राज्यं विफला मम संपदः113
विफला मम संभोगा विफलं मम जीवितम्‌॥३५॥

कुतोऽस्माकमभव्या114नामियत्यो भाग्यसंपदः।
यद्द्रक्ष्यामस्तवोत्सङ्गबालकापत्यमण्डितम्‌॥३६॥

वाञ्छन्क्रीडनकंकिंचित्कदा115 मे पापकर्मणः।
आकृष्यति सुतः कूर्चं किमप्यव्यक्तमालपन्‌॥३७॥

इत्यादि विलपत्यस्मिन्बाष्पाकुलितलोचने।
शुकनास इमां वार्तां116श्रुत्वासत्वरमाययौ॥३८॥

निरपत्यः कृतः सोऽपिराजेव हतवेधसा।
तस्याप्यनेन शोकेन गृहे रोदिति गेहिनी॥३९॥

स तु स्वामिगतं दुःखं दुःखमित्यवधारयन्‌।
तद्दुःखापनयोपायप्रवणो धीरमभ्यधात्‌117॥४०॥

क्व धीरप्रकृतिर्देवः क्वेयं विप्लवचित्तता।
शोकोऽवकारां लभते हृदये न भवादृशाम्‌॥४१॥

यदि118 हि स्त्रीस्वभावेन देवी विक्लवतां गता।
तत्किं प्रलम्बकूर्चस्ययुक्तं देवस्य रोदितुम्‌॥५२॥

कोऽयं हिताहितप्राप्तिपारिहारक्रियाक्रमः।
यत्कपोलतलन्यस्तहस्तं निःश्वस्यते चिरम्‌॥४३॥

यदि दुःखासिका119 सत्यमनपत्यतया तव।
बुद्धिराधीयतां धर्मे धर्मात्सर्वमवाप्यते॥४४॥

दीयतां वस्तु विप्रेभ्यः पूज्यन्तां सर्वदेवताः।
प्रवर्त्यन्तां प्रपारामाः स्वन्यन्तां सलिलाशयाः॥४५॥

नास्तिनाम97 जगत्यस्मिन्पुरुषार्थः सं कश्चन।
यो धर्मनिरतैर्धीरै120स्त्वादृशैर्नाधिगम्यते॥४६॥

इत्यादि शुकनासोक्तमाकर्ण्य विगतज्वरौ।
उत्थाय स्वस्थवत्सर्वा दपंती चक्रतुः क्रियाः॥४७॥

ततः प्रभृति दानानि यागहोमतपांसि तौ121
चित्राण्य122कुरुतां सर्बाव्यस्मयन्त ततः123 प्रजाः॥४८॥

कदाचिदथ भूपालःस्वप्नेऽपश्यन्निशाकरम्‌।
विलासवत्या वदनं प्रविशन्तमखण्डितम्‌॥४९॥

तथा मनोरमा नाम शुकनासस्यगेहिनी।
स्वप्नेसपुण्डरीकाङ्कासापि तेन व्यकोक्यत॥५०॥

अन्येद्युरुदये भानोर्मङ्गलाचारपूर्वकम्‌।
तं स्वप्नंकथया124मास शुकनासाय भूपतिः॥५१॥

सानन्दं सोऽभ्यधादेनंसंपन्ना97स्ते मनोरथाः।
अचिरात्सोष्यते देवी पुत्रं पूर्णेन्दुसुन्दरम्‌॥५२॥

दिनेष्वथ व्यतीतेषु केषुचिद्गर्भमग्रहीत्‌।
महिषी तत्सखीभ्यश्च तमज्ञासीन्नरेश्वरः॥५२॥

ताभ्यः प्रादात्सवासांसि चित्राण्याभरणानि च।
क्रमेण गर्भलिङ्गेषुव्यक्तेषु मुमुदेतराम्‌॥५४॥

शुकनासाय चोवाच प्रहर्षोत्फुल्ललोचनः।
चक्राङ्क्षचातको मेघानिव प्रसववासरान्‌॥५५॥

संपूर्णे125 दशमे मासि देवी सुतमसूत सा।
हर्षेण च जगत्सर्वंपरिवृत्तमिवाभवत्‌॥५६॥

राजा महोत्सवानन्दपूर्णपात्रमुपाहृतम्‌126
दृष्ट्वालोकेषु माति स्मत्रिविक्र127मवत्रिषु॥५७॥

शुकनासस्तु राजानं कण्टे जग्राह निर्भरम्128
ओत्सुक्यात्सूतिकावासं ताबुभावषि जग्मतुः॥५८॥

ततो ददृशतुर्व्यक्त129सकलाङ्गंकुमारकम्‌।
इन्दोरुदयरागार्द्रंनवं बिम्बमिवोदितम्‌॥५९॥

शुकनासो निरूप्याङ्गमेकैकं निपुणंशिशोः।
हस्ते भूपालमालम्ब्य हर्षगर्भमभाषत॥६०॥

अयंशङ्खइदं चक्रमियमूर्णेदमम्बुजम्‌।
पश्य130वालस्यचिह्नानिदृश्यन्ते चक्रवर्तिनाम्‌॥६१॥

योऽसौ स्वप्नेत्वया दृष्टश्चन्द्रो देवीमुखं131विशन्।
स एवायमिहोत्पन्न इति मा संशयंकृथाः॥६२॥

इति तद्दर्शनानन्दमुधाप्लावितयोस्तयोः।
शुकनासस्य132 राज्ञश्च हर्षाब्धिर्ववृधेतराम्‌॥६३॥

अत्रान्तरे133 मन्त्रिगृहादागत्य द्वाररक्षकः।
शुकनासगृहे पुत्रजन्मोत्सवमचीकथत्‌॥६४॥

शुकनासमथा134भीक्ष्णमालिलिङ्गमहीपतिः।
उत्तरीयं जहारास्य पूर्णपात्रमिति स्वयम्‌॥६५॥

उवाच चैनं पश्येदं सुखस्योपरि नः सुखम्‌।
इमे ते पतिताः सत्यं तुहिने सोमरश्मयः॥६६॥

साध्विदं वेधसारब्ध॑ चित्ता135नुगुणमावयोः।
सहैव पात्रतां नीतौयदावां सुखदुःखयोः॥६७॥

ततस्तूर्यरवैर्नृत्यैश्चर्चरीतालनिःस्वनैः।
सिन्दूरघनसारादिक्षोदैःकुङ्कुमकर्दमैः॥६८॥

अनपेक्षितनीचोच्चव्यवहारनिरर्गला।
केलिः प्रववृते तत्र राजगेहमहोत्सवे॥६९॥ (युग्मम्‌)

राजा तु स्वगृहे केलिविमर्दं वीक्ष्य तादृशम्‌।
शुकनासगृहं गत्वा द्विगुणंतमकारयत्‌॥७०॥

कृतेऽथ जातकर्मादौ136वृत्ते षष्ठीप्रजागरे।
विलासवत्यां स्नातायां शुचौ कालडपस्थिते॥७१॥

प्रशस्तेऽहनि देवज्ञैरनुज्ञातो महीपतिः।
स्नातः सुवर्णलक्षेण137 पूजयित्वा द्विजोत्तमान्‌॥७२॥

स भूषणानि वासांसि वर्षन्परिजने शिशोः।
चन्द्रापीड इति स्वप्नसदृशंनाम निर्ममे॥७३॥ ( तिलकम्)

शुकनासोऽपि संपूज्य विप्रान्विप्रजनोचितम्‌।
वैशम्पायन इत्यात्मसूनोर्नाम प्रणीतवान्138॥७४॥

क्रमेण वर्धमानोऽथ कृतचूडादिमङ्गलः।
चन्द्रापीडोऽभवत्पित्रोः परमुत्सङ्गमण्डनम्‌॥७५॥

आकारेणेन्दुका139न्तेन मधुरैर्बालवल्गितैः।
अव्यक्तवर्णैरालापैर140हरत्स तयोर्मनः॥७६॥

प्राप्तेऽथसप्तमे वर्षे विद्यागृहमकारयत्‌।
चन्द्रापीडस्य नगराद्बहिर्बहुगुणंनृपः॥७७॥

कृतोपनयनंचैनं काले क्षत्रजनोचिते।
तत्र न्यवेशयद्राजा विद्याधिगमसिद्ध्ये॥७८॥

तर्कव्याकरणाभिज्ञान्धनुर्वेद्विशारदान्‌।
दण्डनीत्यादिनिपुणानाचार्यान्पर्यकल्पयत्‌॥७९॥

शुकनासोऽपि तं पृत्रमुपनीय यथाविधि।
राजपुत्रानुगं चक्रे विद्यागृहनिवासिनस्‌॥८०॥

नृपतिस्त्वगमद्द्रष्टुंपुत्रं गुरुकुले141स्थितम्‌।
प्रार्थितोऽपि142 स तन्मात्रा नैनमानाययद्धहम्‌॥८१॥

पूर्णषोडशवर्षोऽथ143 राजपुत्रः कुशाग्रधीः।
सकृदध्यापितो विद्याःपूर्वाभ्यस्ता इवाग्रहीत्‌॥८२॥ .

सर्वशास्त्रार्थतत्त्वज्ञः सर्वेभाषासु सत्कवीः।
सर्ववादेषु144 वक्ताभूत्सर्वशास्त्रेषु कोविदः॥८३॥

प्रोढःकलासु सर्वासुदक्षः सर्वेषु कर्मसु।
सर्वेषु145व्यवहारेषु सोऽभूदस्खलितक्रमः॥८७॥

क्रमेण वर्धमानश्च स व्यायाममसेबत।
शुशुभे च146तदभ्यासप्राप्तसर्वाङ्गसौष्ठवः॥८५॥

प्रलम्बबाहुः पीनांसः पृथुवक्षास्तनूदरः।
गम्भीरबाहुर्वृत्तोरुस्तरुणः करिसद्गतिः॥८६॥

शुकनाससुतस्तस्य प्रतिबिम्ब147 इवाभवत्‌।
गुणैरशेषैरन्यत्र शरीरप्राणगोरवात्‌॥८७॥

राजा तु तं सुतं बुद्धा कृतार्थं गुरुवेश्मनः।
शुकनासगिरा गेहमानेतुमुपचक्रमे॥८८॥

स बलाहकनामानमाहूय ध्वजिनीपतिम्‌।
पुण्येह्निग्राहिणोत्पुत्रमानेतुंकृतमङ्गलः॥८९॥

सहस्त्रंराजपुत्राणां विनीतं बाहुशालिनाम्‌।
विससर्ज148 च तेनैव सह पुत्रा149नुवर्तिनम्‌॥९०॥

तथैन्द्रायुधनामानं प्रेषयामास वाजिनम्‌।
जितोच्चैः श्रवसं तैस्तैरनन्यसदृ150शैर्गुणैः॥९१॥

बलाहकस्ततोगत्वाविद्यागृहनिवासिनम्‌151
अद्राक्षीद्राजपुत्र तं प्रणनाम च सादरम्‌॥९२॥

आचचक्षे च राजाज्ञां गृहभागम्यतामिति।
सनामग्रहणं चास्मै97राजपूत्रान्न्यवेदयत्‌॥९३॥

ततो बलाहकाख्यातशौर्यादिगुणगौरवाः।
राजपुत्राः प्रणेमुस्तं पुरं97दरमिवामराः॥९४॥

पर्याणरत्नज्योतिर्भिजनितेन्द्रायुधप्रभम्‌।
इन्द्रायुधं प्रवेश्याश्वं152पुनराह बलाहकः॥९५॥

इममारोह सिन्धूस्थमश्वरत्नमयोनिजम्‌।
पारसीकाधिपतिना देवस्योपायनीकृतम्‌॥९६॥

चन्द्रापीडस्तु तं दृष्ट्वा153तुरंगममनुकत्तमम्‌।
परं विस्मयमापेदे चिरं चैवम154चिन्तयत्‌॥९७॥

हृदयं मे ब्रवीत्येवं155नैष सत्यंतुरंगमः।
कोऽपि केनापि शापेन156 नूनं तुरगतां गतः॥९८॥

अयोनिजत्ववार्तेयमेत157त्संकल्पसाक्षिणी।
रम्भा किलाप्सरःकन्याशापेन वडवाभवत्‌॥९९॥

गरुत्मतीदमुच्च158त्वमुच्चैःश्रवसि वा भवेत्‌।
तेजसामाकृते159र्वापि न सामान्येषु वाजिषु॥१००॥

इति बुद160्ध्वाविकल्प्याथ बलाहकसमर्पितैः।
कुसुमस्रगलंकारदुकूलैःकृतमण्डनः161॥१०१॥

गुरूनामन्त्र्य दत्ताशीर्ब्राह्मणैर्बन्दिमिः स्तुतः।
वैशम्पायनमारूढमालोक्य तुरगान्तरम्‌॥१०२॥

योऽसि सोऽसि नमस्तुभ्यमारोहातिक्रमस्स्वया।
मर्पणीयोऽयमस्माकमारुरोहेति तं वदम्‌॥१०३॥ (तिलकम्‌)

स इन्द्रायुधमारुह्यवैनतेयमिवाच्युतः।
अपि त्रिजगतीं कृत्स्नांमेने हस्तगतामिव॥१०४॥

सवैशम्पायनः सोऽथ निर्गत्य भवनात्ततः।
राजपुत्रैः परिव्रतो विवेश नगरीं शनैः162॥१०५॥

तमथ पुरतरुण्यो राजमार्गेण यान्तं
ददृशुरतुलकान्तिंसौधवातायनस्थाः।

व्यपगतगुरुलज्जाः संभ्रमोत्कम्पिताङ्ग्यः`
स्मरजनितविकारैर्लौचनैरर्चयन्त्यः॥१०६॥

इति भ्रीविपश्चिद्वराप्रगण्याचार्यभट्टजयन्तसूनोरमिनन्दसय कृतौ कादम्बरीकथासारे

द्वितीयः सर्गः।

——————————

तृतीयः सर्गः।

स प्राप्य नृपतिद्वारमवतीर्य तुरंगमात्‌।
राजधानीं ससेनानीः सवैशम्पायनोऽविशत्‌॥१॥

प्रविश्य च सभामध्ये हर्षवाष्पाद्रेचक्षुषः।
न्यस्तजानुः क्षितौ मूर्ध्नाववन्दे चरणों पितुः॥२॥

आलिलिङ्गच163 तं राजा चुचुम्ब शिरसि क्षणात्‌164
ग्रहीतमेच्छदुत्सङ्गे स तु भूमावुपाविशत्‌॥२॥

द्रष्टुंपुनःपुनः स्प्रष्टु165मतृप्तेनापि भूभुजा।
विसृष्टोऽथ क्षणं166 स्थित्वा मातरं वन्दितुं ययो॥३॥

तां सुतालोकनानन्दक्षरत्क्षीरपयोधराम्‌।
प्रणम्य जननीः सर्वानन्दयामास वन्दनैः।५॥

अभिनन्द्यक्रतं ताभिरवतारणमङ्गलम्‌।
शुकनासमथ द्रष्टुमयासीत्तस्थ मन्दिरम्‌॥६॥

द्वारि वाजिनमुत्सृज्य प्रविश्य प्रश्रयेण तम्‌।
पितृवत्प्रणनामासौ167मौलिना मेदिनीं स्पशन्‌॥७॥

नमन्तमेनमुत्थाप्य स्वयमुत्थाय सादरम।
शुकनासस्तु जग्राह कण्ठे पुलकिताननः॥८॥

कृतयत्नोऽपि नाध्यास्त चारुचामीकरासनम्‌।
चन्द्रापीडः क्षितावेव तस्य न्यविशताग्रतः॥९॥

शुकनासं च मुञ्चन्तमासनं स्वंन्यवारयत्‌।
तत्र क्षणमिव स्थित्वा द्रष्टु168भागान्मनोरमाम्‌॥१०॥

सप्रश्रयं प्रणम्याथ तां विलासवतीमिव।
ततोऽवाप्तविचित्राशीर्मङ्गलो निरियाय सः॥११॥

यादृक्च169चन्द्रापीडस्य दर्शनालिड्गनक्रमः।
स वैशम्पायनस्यापि तादृगेव गृहद्वये॥१२॥

न कश्चन सुतस्नेहे विशेषश्च तयोरभूत्‌।
मन्त्रिणो राजपुत्रे वा मन्त्रिपुत्रे नृपस्यवा॥१३॥

सर्वोपकरणोपेतं पित्रा पूर्वं प्रकल्पितम्‌।
जगाम चन्द्रापीडोऽथकुमारभवनंमहत्‌॥१४॥

सुसं170निवेशमालोक्य रेमे171 तत्र चिराय सः।
स्थितिमिन्द्रायुधस्थापि स्वबासे पर्यकल्पयत्‌॥१५॥

ततः97 स्नातानुलिप्ताङ्गंकृताहारं सुखस्थितम्‌।
मात्रा विसृष्ट आगत्य172 कञ्चुकी तमभाषत॥१६॥

इयं हि पत्रलेखाख्या कुलू173तेश्वरकन्यका।
केनापि दैवयोगेन परिभ्रष्टा पितुर्गृहात्‌॥१७॥

बालैव वर्धिता देव्या स्वयमन्तःपुरे निजे।
योग्या सकलविस्रम्भमूमिस्ते पाश्चेवर्तिनी॥१८॥

मत्वेति देव्याप्रहिताकुमार प्रतिगृह्यताम्‌।
इत्युक्त्वोपाहरत्कन्यां विनीतां प्रियदर्शनाम्॥१९॥ (तिलकम्‌ )

सा तु तेनार्पिता कन्या ततः प्रभृति तं तथा।
असेवत यथा चास्य174निजं175 चित्तामिवाभवत्‌॥२०॥

चकार तां च ताम्बूलकर176ङ्कस्याधिकारिणीम्‌।
तुतोष च गुणैरस्याः शीलाचारनयादिभिः॥२१॥

संमन्त्र्य शुकनासेन सह विस्रम्भनिर्भरम्‌।
संभारसंग्रहारम्भमकरोत्कृतमङ्गल॥२३॥

संनिकृष्ठाभिषेकं च दर्शनार्थमुपागतम्‌।
चन्द्रापीडमथोवाच शुकनासः सविस्तरम्‌॥२४॥

तात विज्ञातशास्त्रस्यविनयाचारशालिनः177
नाल्पमप्युपदेष्टव्यमसि स्थिरमतेस्तव॥२५॥

किं तु लोकोत्तरा लक्ष्मीरभिराममिदं वपुः।
नवं वयः परा शक्तिरिति दुर्विषहोभरः॥२६॥

लक्ष्मीर्नाम परं178 पुंसामन्यथाभावकारणम्‌।
विरलास्ते विकाराय न येषां तत्परिग्रहः॥२७॥

पुष्णाति तीव्रमूष्माणं हिनस्ति व्यक्त179वादिताम्‌।
करोति भक्त180विद्वेषमसमः श्रीकृतो ज्वरः॥२८॥

न पश्यन्ति न शृण्वन्ति नापे181क्षन्ते हिताहितम।
न विद्मःकिं97 नु चेष्टन्ते कष्टं श्रीविप्लुतानराः॥२९॥

क्रमा182गतेति नैतस्यामाश्चासः कोऽपि विद्यते।
ह्योऽपि यत्रोषिता लक्ष्मीस्तत्रै183वाद्यन न दृश्यते॥३०॥

वात184रक्ताभिमूतेव भिन्नपादेव कण्टकैः।
लक्ष्मीर्निधातुं शक्नोति न क्वचिन्निर्भरं पदम्‌॥३१॥

श्रीः सपत्नीमिव द्वेष्टि दृष्टिं सत्पथवर्तिनीम्।
तां विना यत्र185 तत्रैव पतन्त्यन्धा इवेश्वराः॥३२॥

सत्पथस्योपदेष्टारस्तेषां प्रविरला नराः।
धूर्तैरेते186 हि भुज्यन्ते हृदयानुप्रवेशिभिः॥३३॥

आपातरमणीयेषु विषयेषु निरर्गलम्।
तैरेव हि प्रवत्येन्ते मुखामाधुर्यपण्डितैः॥३४॥

धूर्तप्रतारिताश्चैते विषयासक्तचेतसः।
अकस्मात्प्रलयं यान्ति गीतरक्ता मृगा इव॥३५॥

विषयेष्वतिकष्टीऽयं विषयः स्त्रीति नाम यः।
जीवत्यन्येः किलाकृष्टस्तेनाकृष्टो187 जीवति॥३६॥

खलेष्वकृत188विस्रम्भी विषयेष्वनिमग्नधीः।
साधुष्वभि189मुखो नित्यं महतीं श्रियमश्नुते॥३७॥

190त्वं न वञ्चयसे धूर्तैने साधुभिरुपेक्ष्यसे।
यथा न बाध्य100से कामैः प्रयतेथास्तथा191 सदा॥३८॥

कामं भवान्प्रकृत्यैव धीरः पित्रा च संस्कृतः।
त्वद्गुणेष्वति192संतोषो मुखरीकुरुते स्म193माम्‌॥३९॥

युवराज धुरं पित्रा कल्पितामुद्वह सिराम्‌।
विजितामपि चानेन पुनर्जय वसुंधराम्॥४०॥

इत्युक्त्वा विररामासौतत्कल्याणपरायणः।
चन्द्रापीडस्तु तद्वाग्भिररुकृत इवाभवत्‌॥४१॥

अथ पुण्येऽहनि स्नातं विधिवत्कृतमङ्कलम्।
यौवराज्ये प्रियंपुत्रमभ्यषिञ्चन्महीपतिः॥४२॥

अभिषेकोत्सवस्तस्य जन्मलाभोत्सवादपि।
अधिकः सर्वकोलस्य बभूवानन्दवर्धनः॥४३॥

सर्वाभ्यो दिग्भ्य आजग्मुर्गहीतोपायना नृपाः।
द्विजाश्च तुतुषुः प्राप्त194गोभूकनकदक्षिणाः॥४४॥

अन्य195त्राहनि दैवज्ञश्लाघ्ययोग्यगुणान्विते।
ददौ दिग्विजये यात्रां युवराजो नृपाज्ञया॥४५॥

कृत196प्रस्थानहोमोऽसो विधिज्ञेन पुरोधसा।
शस्त्रास्त्रचक्रमभ्यर्च्यशास्त्रोक्तैर्मन्त्रविस्तरैः॥४६॥

कृतस्वस्त्ययनो विप्रैःप्रचुरस्वर्णतोषितैः।
यत्नरुद्धा197स्रया मात्रा कृतप्रस्थानमङ्गलः॥४७॥

शङ्खदुन्दुभिनिर्घोषमुखरीकृतदिङ्मुखः।
स्तुतस्तारं परद्भिश्च सूतमागधबन्धिभिः॥४८॥

स्रग्विलेपनदीपादिसंभारार्चितदैवतः।
पितरौशुकनासं च प्रणम्य निरगाद्गृहात्‌॥४९॥ (चक्कलकम्‌ )

इन्द्रायुधमथारुह्यपौरजानपदाशिषः।
शृण्वन्नगर्याः पूर्वेण द्वारेण निरियाय सः॥५०॥

ततोऽनुगम्यमानोऽसौबलाहकनिवेदितैः।
सहस्रसंख्यैःक्षितिपैरुल्ल198सच्छत्रचामरै॥५१॥

वैशम्पायनमेकत्र पार्श्वेश्वेताश्चवर्तिनम्‌।
अन्यत्र पत्रलेखां च पश्यन्नश्वतरीस्थिताम्‌॥५२॥

तस्मिन्नहमि स स्तोकं प्रस्था199योच्छ्रिततोरणम्‌।
चित्रं निवासमध्यास्तसिप्रा200कूले प्रक201ल्पितम्‌॥५३॥ (तिलकम्‌)

अथापरेद्युरुत्थायाशेषाभरणमभूषितः।
प्रावर्तत प्रबन्धेन प्रस्थातुमतुलोद्यमः॥५४॥

पीडयन्नथ202 सैन्येन पातालतलवासिनः।
रजसा च तदुत्थेन स्थगयन्गगनस्थितान्‌॥५५॥

नमयन्नुन्नतान्भूपानान97तान्परिपालयन्‌।
अवशा203नुत्स्वनन्कांश्चिदुत्खातान्प्रतिरोपयन्॥५६॥

विश्वासयन्नविश्वस्तान्संरक्षञ्शरणागतान्।
दस्यूनु204त्सादयन्दण्डैःसाधून्संमानयन्धनैः॥५७॥

ब्राह्मणेभ्यो ददद्भ्रामान्कुर्वन्देवकुलाबलीः।
नवानि205 निजचिह्णानि तत्र206 तत्र प्रवर्तयन्‌॥५८॥

वर्षत्रितयमात्रेण समग्रामर्णवावधिम्‌।
स वभ्राम प्रबन्धेन मांधातेव वसुंधराम्‌॥५९॥ (कुलकम्‌)

जिगाय प्रथमं प्राचीं दिशं तदनुंदक्षिणाम्‌।
ततः207 प्रतीचीं पश्चाच्च प्रतापनिधिरुत्तयाम्‌॥६०॥

अथ हेमजटाख्यानां किरातानां निकेतनम्‌।
स सुवर्णपुरं जित्वा208 दण्डं जग्राह हेलया॥६१॥

या209 च कैलाससीमान्तर्भूर्नितान्तममनोरमा।
तस्यां दिग्विजयश्रान्तः कियतोऽप्यास्त210 वासरान्‌॥६२॥
एकदा तु211 स तत्स्थानादारुह्येन्द्रायुधं वने।
मृगयानिर्गतोऽपश्यत्किंनर्यासह किंनरम्॥६३॥
आलोक्य कौतुका212कृष्टदृष्टिरश्वमुखौच तौ।
आदित्सुः प्रेरयामास तावेव प्रति वाजिनम्‌॥६४॥
अपूर्वपुरुषालोकत्रासात्कैलासकंदरस।
प्रवेष्टुकामौमहता213 वेगेनानुससार तौ॥६५॥
पार्ष्णिप्रहरणाभ्यासग्रहितोद214ग्ररंहसा।
पञ्चयोजनमाना215 भूस्तेनाश्वेन व्यलङ्घयत॥६६॥
तौच पर्वतमारूढावग्र216तस्तस्य किंनरौ।
ततस्त217द्ग्रहणाकाङ्क्षांहृदयादुत्ससर्जसः॥६७॥
अशक्नोदनु218सर्तुं च कश्चित्परिजनो न तम्‌।
तार्क्ष्येणाप्यनुगम्येत धावन्निन्द्रायुधः कुतः॥६८॥
अथ वल्गां समाकृष्य श्रमस्वेदार्द्रविग्रहम्‌।
दृष्ट्वैकाकिनमात्मानं श्वसन्तं च तुरंगमम्‌॥६९॥
निर्वर्णयंस्तमुद्देशं मानुषा219णामगोचरम्‌।
विहस्थैवात्मनात्मानं सानुतापमचिन्तयत्‌॥७०॥
अहोकिमपि मे मोर्ख्यमस्थानाभिनिवेशिनः।
यदात्मा बालकेनेव220 व्यर्थमायासितो मया॥७१॥
अगृहीतेन को221 वार्थः कोऽर्थः प्राप्तेन वामुना।222
किंनरद्वितयेनेति मया मूढेन नेक्षितम्‌॥७२॥

पन्थानिरूपितो नायमाविष्टेनेव धावता।
न चात्र लभ्यते मर्त्योमम मार्गस्यदेशिकः223॥७३॥

श्रूयते किलवर्षस्य भारतस्यावसानभूः।
कैलाससंनिकृष्टेयमिह मर्त्यस्य का कथा॥७४॥

वने पर्णतृणाकीर्णे पादमुद्राश्चवाजिनः।
न स्युर्यदन224ुसारेण यास्यामि शिबिरं निजम्‌97॥७५॥

केवलंदक्षिणामाशां पुरस्कृत्य यथातथा।
गन्तव्यं कि तु मध्याह्नसमयोऽयसुपस्थितः॥७६॥

अनुभूतोऽतिमात्रं225 च स्वेदस्तदिह सांप्रतम्‌।
लब्ध्वाकुतोऽप्यपस्ताभिर्यास्यामि विगतश्रम॥७७॥

इति226 संचिन्त्य पानीयमन्वेषितुमितस्ततः।
परिभ्रमन्घनस्निग्धं शाखिनां खण्ड227मैक्षत ॥७८॥

ततस्तदनुकूलेन पथा गच्छन्समीरणेः।
आह्लाद्यत नवोत्फुल्लकमलामोदवाहिभिः॥७९॥

मत्तद्विपपदा228सक्तमृणालदलदन्तुरम्‌।
स पन्थानमथापश्यदम्भसामनुमापकम्‌॥८०॥

तेन गत्वागखण्डस्य229 मध्ये जलधिसंनिभम्‌।
अदृष्टापारपर्यन्तमालुलोके महत्सरः॥८१॥

तदालोकनमात्रेण दूरादपगतक्लमः230
प्राप्य तत्पुलिनोपान्तं वाजिनोऽवततार सः॥८२॥

कृत्वापनीतपर्याणं तं स्थलीलुठितोत्थितम।
गृहीतशाद्वलग्राममाप्लु231ताधूतकेसरम्‌॥८३॥

उत्तार्यसरसस्तीरतरौसंयम्य वाजिनम्‌।
क्षिप्त्वासिधेनुलूनानि तृणान्येतस्य चाग्रतः॥८४॥

स्वयंसस्नौपपौवारि बुभुजे बिसकन्दलीः।
उत्तरीयशिरोधानो निषसाद शिलातले॥८५॥ (तिलकम्‌)

ततो मुहूर्तविश्रान्त उत्तरस्मिन्सरस्तटे।
समुच्चरन्तं शुश्राव गीतध्वनिममानुषम्॥८६॥

तस्यां दिशिदृढासक्तचक्षुरुत्क्षिप्तकंधरः।
तमादौ निबिडश्रोत्रशुक्तिरिन्द्रायुधोऽशृणोत्‌॥८७॥

कुतोऽत्र विजने गीतमित्याविष्कृतकौतुकः।
उत्थाय चन्द्रापीडोऽथ तामेव दिशमभ्यगात्‌॥८८॥

गीतश्रवणलुब्धेन सलीलमभिधावता।
अपृष्टेनापि232 मार्गोऽस्य मार्गे233णैव न्यवेद्यत॥८९॥

गत्वा प्रासादमैक्षिष्ट स्फाटिकं नातिदूरतः।
हसन्तमिव कैलासशोभा234विभवमंशुभि॥९०॥

देवं चतुर्मुखंतत्र रत्नपीठप्रतिष्ठितम्‌।
भगवन्तमुमाकान्तं ददर्श प्रणनाम च॥९१॥

तस्याथ दक्षिणां मूर्तिमाश्रित्य विहितासना।
उत्सङ्गनिहितां वीणां वादयन्ती कलस्वनम्235॥९२॥

देहप्रभावितानेन कुन्दगौरेण सर्पता।
साक्षाल्लक्ष्मीरिव क्षीरजलधर्मध्यवर्तिनी॥९३॥

कोपाग्निशमितानङ्गप्रत्युज्जीवनवाञ्छया।
रतिःप्रसादयन्तीव तपसा पार्वतीपतिम्236॥९४॥

नवेऽपि वयसि प्राप्तवैराग्याभ्यासवासना।
व्यलोकि कन्यकातेन धृतपाशुपतव्रता॥९५॥ `

चन्द्रापीडोऽथ237तां दृष्ट्वाविस्मयाविष्टमानसः।
केयं स्यात्कन्यका नास्या दिव्यतां प्रतिसंशयः॥९६॥

नान्तर्धानमियं गच्छेन्न वा गगनमुत्पतेत्‌।
न मौनमवलम्बेत मर्त्यसंदर्शनेन वा॥९७॥

इत्यादि चिन्तयन्नास्तस्तम्भा238च्छादितविग्रहः।
गीतावसानसमयप्रतीक्षणपरायणः॥९८॥ (तिलकम्)

साथ239 गीतं समापय्य विनिधाय च240वल्लकीम्।
प्रणम्य चन्द्रचूडाय चन्द्रापीडमभाषत॥९९॥

अतिथे स्वागतं तेऽस्तु241 सौम्य विश्रम्यतामिह242
प्राप्तोऽसि स्वामिमां भूमिमित आगम्यतामिति॥१००॥

चन्द्रापीडस्तदाकर्ण्यबह्वात्मानममन्यत।
व्रजन्तीमनु वब्राज देवतावत्प्रणम्य ताम्‌॥१०१॥

विवेश नातिदुरेऽथ243[]244निजा245श्रमगुहामसौ।
स्थिताजिनकुशलाबुपात्रदण्डकमण्डलुम्॥१०२॥

तत्र दर्भासनासीनमुपविष्टा मृगाजिने।
पप्रच्छ चन्द्रापीडं सा स्वरूपागमनादिकम्‌॥१०३॥

स तु सर्वंयथावृत्तमाचचक्षे सविस्तरम्‌।
सा च246 विज्ञातवृत्तान्ता निर्जगाम ततो247 बहिः॥१०४॥

गृहीतभिक्षापात्रा च क्षणमास्त तरोरधः।
आपूर्यत स्वयं शीर्णैः फलैस्तदमृतोपमैः॥१०५॥

ततस्तदुपयोगाय चन्द्रापीडं न्ययुङ्क्त सा।
अन्वति248ष्ठद्वचस्तस्याः स च विस्मयमानधीः॥१०६॥

तस्मिन्नथ कृताहारे गिरिप्रस्रवणान्तिकम्249
गत्वा सापि फलहारप्रक्रियामात्रमाचरत्‌॥१०७॥

आगत्यच पुनस्तसिन्नुपविष्टामृगाजिने।
तारापीडोज्जयिन्यादिकथया क्षणमास्त सा॥१०८॥

अपि नाम स्ववृत्तान्तं मद्वदेषापि250 वर्णयेत्‌।
पृष्टेत्येव251 क्षणं दध्यौ चन्द्रापीडः सकौतुकः॥१०९॥

दृष्ट्वा चास्याः प्रश252ममधुरामाकृतिं भावशुद्धिं
दाक्षिण्यं च प्रकृतिसरलं253लब्धवाक्यावकाशः।

आत्मोदन्तं नियतमखिलं वक्ष्यति प्रार्थितेयं
चन्द्रापीडः क्षण254मथ कृतप्रश्नसंप्रत्ययोऽभूत्‌॥११०॥

इति श्रीविपश्चिद्वराग्रगण्याचार्यभट्टश्रीजयन्तसूनोरभिनन्दस्यकृतौकादम्बरीकथासारे

तृतीयः स्वर्गः।

—————————

चतुर्थः स्वर्गः।

स तद्गुणप्रभावर्द्धिवर्धमानकुतूहलः।
तामवोचत माधुर्यविनयोदारया गिरा॥१॥

त्वत्प्रसादकृतेनैव प्रागल्भ्येन ममा255मुना।
मनो भगवति256 प्रश्नचापले विनियुज्यते॥२॥

न मादृशदृशां भूमिरियमाश्चर्यसंततिः।
तदाख्यानप्रसादेन जनोऽयमनुगृह्यताम्‌॥३॥

कतमो मुनिगन्धर्वसिद्धविद्याधरादिषु।
पुण्येन जन्मना वंशो257 भगवत्या विभूषितः॥४॥

पञ्चभूतात्मकं चेदं धत्ते धवलतां वपुः।
कथं कामपि दिग्दन्तिदन्तकान्त्यतिशायिनीम्‌॥५॥

नवे वयसि किं चातितीव्रवैराग्यकारणम्‌।
येनारण्यनिवासादि दुःखमीदृग्विषह्यते॥६॥

इति तस्मिन्वदत्येवस्थूलाश्रुकणवर्षिणी।
रुरोद वल्कलच्छन्नवदना दिव्यकन्यका॥७॥

अकम्पत मनश्चैनां चन्द्रापीडस्य पश्यतः।
इयमप्याकृतिर्नाम दुःखै258र्यदभिभूयते॥८॥

असौ चिरं रुदित्वा तु259 वल्कलोन्मृष्टलोचना।
दीर्घमुष्णं च निःश्वस्यव्याहर्तुमुपचक्रमे॥९॥

राजपुत्र किमेतेन शोकैकवसतेर्मम।
पापाया मन्दमाग्याया वृत्तान्तेन श्रुतेन ते॥१०॥

तथापि यदि ते चित्तं कुतूहलवशीकृतम्‌।
तदिदं वर्ण्यते सर्वमाकर्णय यथाक्रमम्‌॥११॥

सुप्रसिद्धमिदं तावत्तव श्रुतिपथं गतम्‌।
यत्सन्त्यप्सरसो नाम सुरसद्मनि कन्यकाः॥१२॥

चतुर्दश च तद्वंशापृथक्पृथगवस्थिताः।
सोमामृतसमीरार्कदक्षकन्या260दिसंभवाः॥१३॥

दक्षकन्योद्भवं तेषु गन्धर्वाणां कुलद्वयम्‌।
कन्ये मुनि261ररि262ष्टेति द्वेदक्षस्य बभूवतुः॥१४॥

तत्र चित्ररथो नाम गन्धर्वाणामधीश्वरः।
मुनेः263 श्रुतयशाःपुत्रश्चित्रसेनादिपूर्वजः॥१५॥

तुम्बुरुप्रभृतीनां तु ज्येष्ठोऽरिष्टासुतः कृती।
हंसाभिधानो गन्धर्वराजः प्रथितपौरुषः॥१६॥

अकृत्रिममनुत्पन्नमन्युकालुष्यदूषणम्‌॥
रूढं264परस्परं प्रेम तयोर्गन्धर्वराजयोः॥१७॥

इतश्च नातिदूरेऽस्तिनानारत्नोज्ज्बलो गिरिः।
हेमकूट इति ख्यातः स निवासस्तयोर्द्वयोः॥१८॥

तस्मिन्वसन्त्यसंख्यातास्तद्भजस्तम्भसंश्रिताः।
गन्धर्वास्तौ265च विस्रम्भभूमिर्जम्भद्विषः परा266॥१९॥

अथ यत्सोमसंभूतमेकमप्सरसां कुलम्।
गौरी नामोदभूत्कन्या तस्मिन्प्रकृतिर्विधोः267॥२०॥

हंसो गन्धर्वराजस्तामुदूहे तुहिनप्रभाम्।
ततो268 यथार्थं नामाप सर्वथा हंसगामिनी॥२१॥

चिरसंभृतविस्त्रम्भनिर्भरं गृहवासिनोः।
तयोरुदभवत्सूनुरेकोऽपि न महात्मनोः॥२२॥

अहं तु मन्दभाग्यैका कन्या दुष्कृतकारिणी।
उदभूवं तयोरस्य दुःखभारख भाजनम्‌269॥२३॥

अनपत्यतया तातो मज्जन्म सुतजन्मवत्‌।
अभ्यनन्दत्कृतानन्दः270 कृतोदारमहोत्सवः॥२४॥

देहच्छायामिमां वीक्ष्य तातः271 सोमक्रमागताम्‌।
चक्रे वर्णानुरूपं स महाश्वेतेति नाम मे॥२५॥

साहं पितृगृहे बाला वल्लकीव कलस्वना।
संचरन्ती स्वबन्धूनामङ्कादङ्कमहर्निशम्‌॥२६॥

अनवाप्तरसास्वादस्नेहादिद्वन्द्वसंततिः।
अत्यवाहयमक्लेशपेशलस्थिति शैशवम्‌॥२७॥ (युगलकम्‌)

अथ बाल्यात्परं प्रापमहं272 नानारसास्पदम्‌।
मनोभवविक्राराणामेकमायतनं वयः॥२८॥

कदाचिदथ रम्येषु मधुमासदिनेष्वहम्।
अच्छोदसरसि स्नातुमागतेह273सहाम्बया॥२९॥

अदृष्टपूर्वामन्यत्र विभूति274मिह माधवीम्‌।
सखीभिः सह पश्यन्ती कानने व्यचिरं चिरम्‌॥२०॥

एकस्मिंस्तु275प्रदेशेऽन्यपुष्पगन्धाभिभाविनम्‌।
अभ्यजिघ्रमनाघ्रातपूर्वमामोदमद्भुतम्॥३१॥

तस्य प्रभव276जिज्ञासारसेन विहितत्वरा।
नातिदूरं ततो गत्वाऽपश्यं मुनिकुमारकम्‌॥३२॥

अस्पृष्टमिव कंदर्पमीशाननयनार्चिषा।
कलङ्कविप्रुषा बिम्बमदूषितमिवैन्दवम्‌॥३३॥

विरुद्धैरपि रूपस्यमेखलाजिनवल्ककैः।
कृताधिकमनोहारिरूपातिशय विभ्रमम्॥३४॥

तेन कर्णे कृता काचिदपूर्व277तरुमञ्जरी।
ततः प्रवृत्तमामोदं समाघ्रा278तवती मुहुः॥३५॥

तं कुतोऽप्यागतं कान्तं लावण्यामृतनिर्झरम्‌।
चक्षुषा279 संपिबन्तीव कौतुकोत्क्षिप्तपक्ष्मणा॥३६॥

रूपैकपक्षपातेन गुणदोषानपेक्षिणा।
ततः कुसुमबाणेन नीतास्मिवशमात्मनः॥३७॥

ततोऽपसर्तुकामाहमप्रगल्भतया मुहुः।
केनापि प्रेर्यमाणेव तदन्तिकमुपागमम्280॥३८॥

वन्द्योमुनिजनश्चेति281 प्रचलन्मणिकुण्डलम्।
अकार्षं वन्दनं तस्मैतन्मुखन्यस्तलोचना॥३९॥

ततः कृतप्रणामायां मयि सोऽपि मनोभुवः।
पतितो गोचरे चित्रमलङ्घया282 भवितव्यता॥४०॥

स्मरोपदिष्टयेवाथबृद्ध्वातद्विकृतिं धिया।
लब्धास्था283तत्स्वरूपादिप्रश्नप्रागल्भ्यमागमम्‌॥४१॥

अथ पार्श्वस्थमप्राक्षमन्यं मुनिकुमारकम्।
तुल्यतेजस्तपोवेषं तस्य सब्रह्मचारिणम्‌॥४२॥

भगवन्कथ्यतां कोऽयं किमाख्यः किमिहा284गतः।
कर्णे च निहितानेन कस्येयं मञ्जरी तरोः॥४३॥

सोऽब्रवीत्सुरलोके285ऽस्तिसुरासुरशिरोर्चितः।
श्वेतकेतुरिति ख्यातो रुपेणाप्रतिमो मुनिः॥४४॥

पुण्डरीक286सरः स्नातुमगम287त्स कदाचन।
नित्यं संनिहिता तत्र लक्ष्मीरेनं व्यलोकयत्‌॥४५॥

सा तदालिङ्गनेनेव दर्शनेनैव केवलम्‌।
पुण्डरीके कृतार्थत्वमवाप स्वासनीकृते॥४६॥

उदपादि तदैवास्य288 कुमारः स तया श्रिया।
तवपुत्रोऽयमित्युक्त्वान्यवेदि श्वेतकेतवे॥४७॥

सोऽपि योगदृशादृष्ट्वा यथावत्सुतमग्रहीत्‌।
नाम जन्मो289चितं चास्य पुण्डरीक इति व्यधात्‌॥४८॥

योजयामास संस्कारैरेनं मुनिजनोचितैः।
अतीते290 बालभावे च न्ययुङ्क्त तपसे पिता॥४९॥

अयं स पुण्डरीकस्तेवर्णितः शृणु मञ्जरीम्‌।
चतुर्दशीति कृत्वाद्य291प्रस्थितोऽयं शिवालयम्‌॥५०॥

व्रजतो नन्दनेनास्य292 वनदेवतया स्वयम्‌।
त्वदाकृतेरलंकारस्तुल्योऽयमिति सादरम्‌॥५१॥

पारिजातद्रुमादेषा दुग्धोदधिसमुद्भवात।
आदाय मञ्जरीकर्णेऽनिच्छतोऽपि निवेशिता॥५२॥ (युगलकम्‌)

इति तस्मिन्वदत्येव चपले गृह्यतामियम्‌।
किमनेन तव293 प्रश्नलोभेनेत्यभिधाय माम्‌॥५३॥

अनायि मुनिना तेन सा सुरद्रुममञ्जुरी।
अपनीय निजात्कर्णान्मम कर्णावतंसताम्‌॥५४॥ (युगलकम्‌)

मत्कपोलतलस्पर्शप्रकम्पतरलाङ्गुलेः।
तेन294प्रस्खलिता हस्तादक्षमाखा न लक्षिता॥५५॥

अप्राप्तैवच सा भूमिंगृहीता295 सहसा मया।
अंसिन्न296वसरे छत्र्तग्राहिणी मामवोचत॥५६॥

स्नातादेवी चिरं भर्तृदारिके गम्यतामिति।
ततः प्रतिनिवृत्तायां मयि तं297 स सखावदत्‌॥५७॥

वयस्य किमिदं चेतस्तव विप्लुतमीदृशम्‌।
हृतामप्यनयाज्ञासीरक्षमालांन कन्यया॥५८॥

हृता नामेयमनया हृदयं ननु रक्ष्यताम्‌।
ततोऽसौ पुनरागत्य कृतकोपमिवावदत्‌298॥५९॥

अपहृत्याक्षमालां मे क्व चौरि ननु गम्यते।
अथ मन्दं विहस्येव मयास्य निहिता करे॥६०॥

अवमुच्या299क्षमालेति कण्ठान्मुक्तावलीनिजात्‌300
साप्यलक्ष्यत नानेन मन्मुखासक्तदृष्टिना॥६१॥ (युगलकम्‌)

सखीभिरपि मे दृष्टमिदं चापलमित्यहम्।301
किंचित्संजातलज्जेव सरसस्ती302रमागमम्‌॥६२॥

अत्राह303मस्वतन्त्रैव क्षणं304 स्नात्वायथातथा।
अगच्छ305मम्बया साकं तद्गुणाध्यायिनी गृहम्‌॥६३॥

गत्वा सवेदनास्मीति विसृज्य सकलाःसखीः।
प्रविश्यैकाकिनी गेहमासं मोहविसंस्थुला॥६४॥

क्वगतास्मिकिमुक्तास्मि306तेन कोऽसावहं च का।
किमिदं कः प्रकारोऽयमिति नाज्ञासिषं तदा॥६५॥

मुहूर्तादेव307 ताम्बूलकरङ्कग्राहिणी मम।
प्रिया तरलिका नाम प्रविश्येदमथाब्रवीत्‌॥६६॥

कर्णे मुनिकुमारेण कृता ते येन मञ्जरी।
त्वय्यागतायां पृष्टास्मि स्वरूपं तेन तावकम्‌॥६७॥

तच्छ्रुत्वा च स्वयंतेन लिखित्वा वस्त्रपट्टिका।
एकाकिन्यैत्वया तस्यैदेयेत्युक्त्वासमर्पिता॥६८॥

ततस्तरलिकायास्तां हस्तादादाय पट्टिकाम्‌।
तस्यां तु लिखितामार्यामिमामहमवाचयम्‌॥६९॥

“दूरं मुक्तालतया बिससितया विप्रलोभ्य308मानो मे।
हंस इव दर्शिताशोमानसजन्मा त्वया नीतः”॥७०॥

सा तु तैमिरिकस्येव बभूव बहुलक्षपा।
मोहायार्याप्यनार्येव309सुतरां मनसो मम॥७१॥

वदतेन किमुक्तासि स किमुक्तस्त्वयापि वा।
तदन्तिके च विस्त्रब्धमुषितासि कियच्चिरम्‌॥७२॥

इत्थं तरलिकां तत्त310दालपन्ती पुनः पुनः।
कांचिदह्नस्ततो मात्रामुन्मत्तेवात्यवाहयम् ॥७३॥

अथ प्रलम्बमानेऽर्के प्रतीहारी प्रविश्य मे।
भर्तृदारिकया दृष्टौयौतो मुनिकुमारकौ॥७४॥

तयोरन्यतरो द्वारि तिष्ठतीति न्यवेदयत्‌।
शीघ्रं प्रवेशयेत्युक्ता मया तदभिशङ्कया॥७५॥

सा च प्रवेशयामास तस्यतं सहचारिणम्‌।
सत्कारेणोचितेनाहं भक्त्या चैनमपूजयम्‌॥७६॥ (तिलकम्‌)

मुहूर्तमिव विश्रम्य पर्यङ्के मदुपाहृते।
मदुत्तरीयसंमृष्ट311सुधौतचरणद्वयः॥७७॥

दृष्टिंतरलिकायां स वक्तुकामः क्षणं न्यधात्‌312
मया सोऽज्ञा313यि पृष्टस्तु लज्जमान इवाभ्यधात्‌॥७८॥

अहं केपिञ्जलोनाम तस्य बालसुहृन्मुनेः।
न वाक्प्रवर्वते मेऽस्मिन्ननभ्यस्त इवाध्वनि॥७९॥

क्वायं मुनिजनः शान्तः क्वचामी रागविभ्रमाः।
तथापि व्यवसायोऽयं314 सुहृत्स्नेहवशा315नुगः॥८०॥

तदुच्यते316 प्रयातायां राजपुत्रि तदा त्ययि।
हस्तेमुक्तावलीं बिभ्रत्स मदन्ति317कमागतः॥८१॥

अहो रम्याक्षमालेयं त्वयानीतेति तत्क्षणम।
विहस्य स मया नोक्तः किंचिच्चिन्तो318पशान्तये॥८२॥

नोपदेशप्रकारोऽसौन स319दृष्टान्तविस्तरः।
न सोऽस्त्युपायो मन्त्रोवा यो मया नाभ्यधीयत॥८३॥

वचोभिः खिद्यमानो मे त्रपानतशिरोधरः।
क्षणमन्तार्हितो मत्तः सुतरां मामपीडयत्‌॥८४॥

कृच्छ्रादिव मया लब्धो विचित्य320 सकलंवनम्‌।
अन्य एव स संवृत्तो321वचसां यो न गोचरः॥८५॥

तदवस्थं समालोक्य विगताशः322 प्रबोधने।
अहं323 तत्प्राणरक्षार्थमेवं यत्न324परोऽभवम्‌॥८६॥

आस्तीर्यनलिनीपत्र्तशयनं चन्दनोक्षितम्‌।
तत्रस्थ325स्यास्य कर्पूरपांसूनङ्गे326ष्ववाकिरम्॥८७॥

त्रपया तदवस्थोऽपि स किचिद्वक्तुमक्षमः।
सबाष्प327मलिनांदीनां मयि दृष्टिमपातयत्‌॥८८॥

ततोऽहमिदमेवात्रप्राप्तकालमचिन्तयम्‌।
राजपुत्रि सुहृत्प्राणदक्षिणा328र्थमुपागतः॥८९॥
अतः परंतु सामर्थ्यगतार्था मम या गिरः।
कण्ठे विपरिवर्तन्ते नूनं त्वमपि वेत्थ ताः॥९०॥
इति तस्मिन्वदत्येव प्रविश्य प्राह कञ्चुकी। `
त्वमस्वस्थशरीरेति ज्ञात्वादेवी समागता॥९१॥
तच्छ्रुत्वा जनसंमर्दभीरु329र्यातः कपिञ्जलः।
330स प्रतिवचः किंचिन्मामकीनमपैक्षत॥९२॥

तदुक्तां तु दशां तस्य जनस्यावेत्य331 तादृशीम्।
आगतांनागतां वापि नाहमम्बाम332लक्षयम्॥९३॥

ततः कमलिनीं रक्तां333 त्यक्त्वाक्वापिगते रवौ।
उदिते सर्वथा वामे विधौवैधुर्य334दायिनि॥९४॥

उन्मूलितेव कामेन दग्धेव विरहाग्निना।
पुनस्तरलिकामेव साश्रुकण्ठमवादिषम्‌॥९५॥

अहं यथातथा वापि भवेयं स तु मत्कृते।
कथं भविष्यतीत्येषा चिन्ता दलयतीव335 माम्‌॥९६॥

इतः शास्त्रंकुलाचारो लज्जागुरुजनाद्भयम्‌।
इतः कामो336 वसन्तोऽपि विरहो मरणाद्भयम्‌॥९७॥

वद किं करवाण्यत्र मुह्यतीव मनो सम।
माभून्मे नरके337 विप्रप्राणबाधेन मज्जनम्‌॥९८॥

इत्यादि विलपन्त्या मे तत्कालसुलभोदया।
जहार चेतनां मूर्च्छा निद्रेव नयनद्युतिम्‌॥९९॥

अथ मां ग्राहयित्वासौसंज्ञा शीतजलानिलैः।
निपत्य पादयोः साश्रुनेत्रा तरलिकाब्रवीत्‌338॥१००॥

किं339 शास्त्रंगुरवः के च का लज्जाका कुलस्थितिः।
रक्ष्यन्तामात्मनः प्राणा युनस्तस्य च सर्वथा॥१०१॥

गन्धर्वाणां विवाहोऽयसमिच्छयान्योन्यसंगमः।
शास्त्रेषु पठितस्तस्मात्तूर्णमुत्तिष्ठ गम्यताम्‌॥१०२॥

तयै340वमुक्ता तत्कालयोग्यवेषग्रहा गृहात्‌।
तामेकामग्रतः कृत्वा निर्गताहमलक्षिता॥१०३॥

अभ्यागममिमां भूमिमौत्सुक्यचटु341लैःपदैः।
तदा मेदक्षिणं चक्षुरस्पन्दत मुहुर्मुहुः॥१०४॥

अव्यक्तमिव चाश्रौषं कानने रुदितध्वनिम्‌।
तेन चोत्पन्नशङ्काहमगच्छमधि342कत्वरम्॥१०५॥

पदानि कतिचिद्गत्वाहा वयस्य तपोनिधे।
पुण्डरीक क्वयातोऽसि शून्यं343कृत्वा जगत्रयम्‌॥१०६॥

हा हतोऽस्मिविलीनोऽस्मिदग्धोऽस्मिकरवाणि किम्‌।
गत्वा तातस्य वक्ष्यामि श्वेतकेतोः किमग्रतः॥१०७॥

अयि344 पापे महाश्वेते न तुष्टास्यक्षमालया।
हृता मे सुहृदोऽमुष्य प्राणवृत्तिरपि त्वया॥१०८॥

वयस्य देहि मे वाचं न जीवामि त्वया विना।
ततोऽशृणवमित्यादिविलपन्तं कपिञ्जलम्‌॥१०९॥ (चक्क345लकम्‌)

अथ प्रवेप346मानाङ्गी विसंस्थुलपदक्रमा।
केनाप्युत्क्षिप्य नीतेव तं प्रदेशमयाशिषम्‌॥११०॥

गत्वा तमहमद्राक्षं तत्क्षणो347त्कान्तजीवितम्‌।
किं चिरेणागतासीति रुषित्वेव तथा सितम्‌॥१११॥

एतावदुक्त्वा मुर्च्छाधिं348स्ववृत्तान्तमतः परम्‌।
विवक्षन्तीव सा कन्या निपपात शिलातरे॥११२॥

प्रनष्टचेतनां चैनां चन्द्रापीडोऽवलोक349यन्‌।
प्रश्नकारिणमात्मानं कृतागसममन्यत॥११३॥

ससंभ्रमं समुत्थाय कदलीदलमारुतैः।
तोयैश्चशिशिर350स्वच्छैःसंज्ञामेनामजिग्रहत्‌॥११४॥

अवाप्य351 चेतनामेषा स्मृत्वा तद्व्यसनं निजम्‌।
तदेवानु352भवन्तीव रुरोद विललाप च॥११५॥

तरूणामप्यभज्यन्त हृदयानि तदा353शुचा।
प्रतिशब्द354निभेनोच्चैःककुभोऽप्यरुदन्निव॥११६॥

चन्द्रापीडोऽथ तामाह बाष्प355रुद्धविलोचनः।
आस्तां न शक्यते वक्तं श्रोतुंचान्य356दतः परम्‌॥११७॥

कथमप्युपसंहृत्य शोकावेगं तु सावदत्‌।
किमतः परमस्त्यन्यद्वाच्यं श्रोतव्यमेव वा357॥११८॥

किं तु क्लेशाय येनाशा358लेशेन हतजीवितम्‌।
राजपुत्र बिभर्मीदंंतदाश्चर्यं ब्रवीमि ते॥११९॥

तदा तस्यातितीव्रस्य दुःख359भारस्य तादृशी360
न काचिन्मरणादन्या मयाग्राहि प्रतिक्रिया॥१२०॥

मरणव्यवसायनिश्चला361 कृतवत्यसि च संविधानकम्‌।
निरियाय च चन्द्रमण्डलात्पुरुषःकोऽपि हिमोपमद्युतिः॥१२१॥

सोऽवतीर्यगगनान्महीतले362 तं निधाय भुजपञ्जरान्तरे।
उत्पतन्दिवभुदार363या गिरा मामवोचत पितेव सान्त्वयन्‌॥१२२॥

विरम मरणो364द्योगादस्मात्प्रियेण तवामुना
पुनरपि महाश्वेते वत्से भविष्यति संगमः।

इति गिरमहं तस्माच्छ्रुत्वाससंभ्रमविस्मया365
किमिदमिति तं तत्रापृच्छं प्रसृत्य कपिञ्जलम्‌॥१२३॥

प्रियसखमपहृत्य क्वाधुना गच्छसीति
स्फुरितविकटकोपाटोपमुक्तो366र्ध्वदृष्टिः।
मम वचनमदत्त्वा किंचिदेवातिवेगा
कृतपरिकरबन्धः सोऽप्यगादन्तरिक्षम्‌367॥१२४॥

पश्यन्त्यां368 मयि ते त्रयोऽपि विविशुः शीतत्विषो मण्डलं
तत्संप्रत्यसंहृतोचितविधिः साहं369 श्रितेदं व्रतम्‌।

तातेनैत्य ततः प्रभृत्यहमिहासीनाथ370नेतुं गृहं
यत्नेनापि न पारितेतिसुचिरं371 स्थित्वा गतः स्वान्गृहान्‌॥१२५॥

इति श्रीविपश्चिद्वराग्रगण्याचार्यभट्टश्रीजयन्तसूनोरभिनन्दस्यकृतौकादम्बरीकथासारे

चतुर्थः सर्गः।

—————————

पञ्चमः सर्गः।

इत्यावेदितनिर्व्याजनिजवृत्तान्तविस्तरा372
विरराम महाश्वेता निःश्वासग्लपिताघरा॥१॥

चन्द्रापीडस्तु तद्ध्यायन्मनोभवविजृम्भितम्‌।
सकम्पबिस्मयोऽप्यन्तस्तामवोच373तसान्त्वयन्‌॥२॥

मया ते374 चिरवृत्तोऽपि परिणाममपश्यता।
शोकः प्रत्यग्रतां नीतः कौतुका375विष्टचेतसा॥३॥

सा त्वमर्हसि कल्याणि न शोकं कतुमीदृशम्।
आश्वासितासि376 देवेन नूनं चन्द्रमसा स्वयम्‌॥४॥

कोऽन्यस्तथाविधाकारस्तच्छक्तिर्मण्डलात्ततः।
निर्गत्य तत्रैव विशन्निशिसंभाव्यते नरः॥५॥

श्रूयन्ते गतयश्चित्रा देवतानामनेकशः।
वरशाप377तपःशक्तियोगवैचित्र्यनिर्भिताः॥६॥

श्वेतकेतुश्चतस्यास्ते378प्रजापतिसमः पिता।
नास्त्येव तस्य तपसामसाध्यं379 नाम किंचन॥७॥

इत्यादियुक्त्युपन्यासैरितिहास380निदर्शनैः।
महाश्वेतां समाश्वास्य पुनः पप्रच्छ तामसौ॥८॥

सा ते तरलिका नाम विस्रम्भनिभृता सखी।
गता भगवति क्वाद्यनहि सा त्वामविमुञ्चति॥९॥

अथोवाच381 महाश्वेता क्वासौ याति तपस्विनी।
शृण्वत्रापि निमित्तं मे यथा सा382 प्रहिता मया॥१०॥

यः स383 चित्ररथो नाम गन्धर्वाधिपतिर्मया।
वर्णितो येन देवोऽयं प्रत्यष्ठापि महेश्वरः॥११॥

येन384खानितमत्यच्छमच्छोदाख्यमिदं सरः।
येन चैत्ररथं नाम कृतमेतच्च काननम्‌॥१२॥

तस्या385मृतसमुद्भूते प्रसूताप्सरसां कुले।
महिषी मदिरा नाम जीवितादपि वल्लभा॥१३॥

तयोः कादम्बरी नाम कन्यास्ति नवयौवना।
लक्ष्मीमुपहसन्तीव रूपलावण्यविभ्रमैः॥१४॥

तया सह महत्प्रेम बाल्यात्प्रभृति मे तथा।
यथैकमेव जानाति जनो जीवितमावयोः॥१५॥

विदित्वा दग्धवृत्तान्तमिमं सपदि मामकम्‌।
साग्रहीन्नियम्वालावार्यमाणापि बन्धुभिः॥१६॥

महाश्वेतास्य386दुःखस्य यावन्न लभतेऽवधिम्‌।
तावन्मया न कर्तव्यं387 पाणिग्रहणमात्मनः॥१७॥

अतो388 यथायथा तस्या यौवनश्रीर्विजृम्भते।
तथात389था ततोधत्ते खेदं चित्ररथः परम्‌॥१८॥

संदिष्टं तेन मे पुत्रि यतस्वावहिता तथा।
यथेमंदुर्ग्रहग्रन्थिं विमुञ्चति तव स्वसा॥१९॥

अतस्त390रलिका तत्र मया प्रकरणोचितम्‌।
प्रहिताबहु संदिश्यश्वश्चागन्ते391ह सा पुनः॥२०॥

इतीत्थं कथया नीत्वा महाश्वेताश्रमेदिनम्‌।
चन्द्रापीडः प्रयातेऽस्तमर्केसंध्याविधिं व्यघात्‌॥२१॥

तत्रेन्द्रायुधमानीय संयम्य निचुले क्वचित्‌।
महाश्वेतोदिते देशे पर्णशय्यामकल्पयत्‌॥२२॥

तस्यां392 तस्य निषण्णस्य श्रान्तस्यापि यथा393श्रुताम्‌।
कथामाश्चर्यबहुलांतामेव ध्यायतश्चिरम्‌॥२३॥

पुनश्चिन्त394यतः सेनां वैशम्पायनमेव च।
पत्त्रलेखां च सा रात्रिर्गता प्रायेण जाग्रतः॥२४॥

इन्द्रायुधस्तु395बाष्पार्द्रांमहाश्वेतामुखे दृशम्।
सप्रत्यभिज्ञमश्वोऽपि भृशं396 मानुषवद्ददौ397॥२५॥

प्रयातायां तु यामिन्यां398 कृतप्राभातिकक्रिये।
समाधेरुत्थितां बुद्ध्वामहाश्वेतां तदन्ति399कम्‌॥२६॥

चन्द्रापीडेप्रविष्टेऽथ नातिदूरोदि400ते रवौ।
सगन्धर्वकुमारासौ ततस्तरलिकाययौ॥२७॥

सा प्रविश्य महाश्वेतां प्रणिपत्योपविश्य च।
सिद्धार्थासीति तत्पृष्टा वलित401ग्रीवमब्रवीत्‌॥२८॥

त्वत्संदेशं यं निश्म्योक्तं यत्तया भर्तृदारिके।
तत्त्वं402 तच्छासनायातकेयुरकमुखाच्छृणु॥२९॥

अथ केयूरकः प्राह नानभिज्ञासि चेतसः।
स्वस्य स्वमेवचेदं403ते मन्मनः किं परीक्षसे॥३०॥

अथवा404 भूमिरस्याहमुपालम्भस्य भूयसः।
तपोवननिवासिन्यां त्वयि405 स्वगृहवर्तिनी॥३१॥

आकर्ण्यतव संदेशवच406स्तरलिकामुखात्‌।
एष ते प्रतिसंदेशःप्रियसख्या निवेदितः॥३२॥

इति श्रुत्वा महाश्वेता क्षणं407 निश्चललोचना।
चिन्तयित्वा किमप्यन्तश्चन्द्रापीडमभाषत408॥३३॥

राजपुत्र तवाकारः409 सदाचारश्च पेशलः।
तनोति सर्वभावेन410 निःस्पृहाणामपि स्पृहाम्‌॥३४॥

कादम्बरीवचश्चेदं श्रुतं केयुरकात्त्वया।
तत्र को वा प्रतीकारः स्वयं मद्गमनादृते॥३५॥

इतो न दुरे गन्धर्वराजधानी तदद्यताम्‌।
पश्यास्मदनुरोधेन श्वोगन्तासि स्ववाहिनीम्‌॥३६॥

उदात्तमधुरामेतां दर्शयन्त्या तवाकृतिम्‌411
बहु गन्धर्वलोकस्य मयाप्युपकृतं भवेत्‌॥३७॥

चन्द्रापीडस्तु तां प्राह बहूक्त्वा भगवत्यलम्‌ ।
अनतिक्रमणीयं मे मुनीनामपि शासनम्‌॥३८॥

प्रावर्तत ततो गन्तं स महाश्वेतया सह।
पद्भ्यामेव नियुज्याश्वं412प्रति केयूरकं दृशा॥३९॥

केयूरकोऽग्रतो गत्वा कादम्बर्यैन्यवेदयत्‌।
तस्यागमनमाकारं गुणांश्चाहितविस्मयान्‌॥४०॥

413गत्वा किंचिदध्वानं चन्द्रापीडः समासदत्‌।
गन्धर्वराजनगरीमपराममरावतीम्‌॥४१॥

आसाद्य राजधानीं च तुङ्गस्फटिकतोरणाम्‌।
सप्त कक्षा414 अतिक्रम्य कन्यान्तः पुरमभ्यगात्‌॥४२॥

केयूरकोपदिष्टेन वर्त्मनाथ प्रविश्य सः।
भास्वन्मणिमय415स्तम्भं श्रीमण्डपमलोकयत्‌॥४३॥

तन्मध्ये मणिपर्यङ्कमध्यासीनां महीयसा।
रत्नाभरणचित्रेण स्त्रैणेन परिवारिताम्‌॥४४॥

देहप्रभावितानेन रत्नकान्त्यभिभाविना।
प्रतप्त416कनकोद्द्योतधौता विदधतीं दिशः॥४५॥

तटस्थमप्यार्द्रयतः सदाचा417रमभिन्दतः।
स्थितां नवस्य लावण्यसिन्धोरन्तस्तर418ङ्गिणः॥४६॥

सर्वोपमे419यभावानामुपमानत्वमागताम्‌।
कादम्बरीं ददर्शासौदूरविस्फारितेक्षणः॥ ४७॥(चक्क420लकम )

परातिशयकोटिस्थ421रूपलावण्यसंपदम्‌।
तस्यां निरूपयन्नन्तरचिन्त422यदथक्षणम्‌॥४८॥

सत्यं न कश्चिदाश्चर्यनिर्माणेष्ववधिर्विधेः।
ईदृशान्यपि रत्नानिस्रष्टं प्रभवति स्म423 यः॥४९॥

मोघंयाति हरेः कालोलक्ष्मीं वक्षसि बिभ्रतः।
देहार्धेन वहन्गौ424रीं वञ्चितश्चन्द्रशेखरः॥५०॥

कृतमक्ष्णांसहस्रेण निर्निमेषेण वज्रिणः।
अनन्यकर्मणा येन नित्यमेषा न दृश्यते॥५१॥

इत्यादिचिन्तयत्यस्मिन्नथ चित्ररथात्मजा।
प्रत्युद्ययौ425महाश्वेतामभ्युत्थाय ससंभ्रमम्‌॥५२॥

महाश्वेता तु426निःशङ्कमालिङ्ग्य स्नेहनिर्भरम।
तां चन्द्रापीडनिर्देशपुरःसरमभाषत॥५३॥

अयं हि भारते वर्षे सार्वभौमस्य भूपतेः।
तारापीडस्य तनयश्चन्द्रापीड इहागतः॥५४॥

अनेनेह प्रविष्टेन दृष्टेर्विषयवर्तिना।
भवत्वखिलगन्धर्वकुटुम्बकमहोत्सवः॥५५॥

अथ कादम्बरी तस्मिन्पक्ष्मोत्क्षेपविकसिनीम्‌427
आकर्णप्रसृतापाङ्गांचिरं दृशम428पातयत्‌॥५६॥

द्वारेण विवृतेनाथ तेनैव निजमायया।
मदनोऽन्तः प्रविश्यास्या बबन्ध हृदये पदम्‌॥५७॥

रत्नपीठोपविष्टे तु429 चन्द्रापीडे तदन्तिके।
अध्या430सातां कथामेकां हंसचित्ररथात्मजे॥५८॥

लज्जास्तिमितमासीनामथ431 कादम्बरीं बलात्‌।
महाश्वेता गृहाचारं चन्द्रापीडे न्यधापय432त्‌॥५९॥

शरीरनिर्विशेषास्याः कादम्बर्याःप्रिया सखी।
मदलेखाभिधानासस्यचरणक्षालनं व्यधात्‌॥६०॥

कादम्बरी तु सस्वेदप्रकम्पिक433रपल्लवा।
ताम्बूलच्छद्मनात्मानं स्वयमस्मैन्यवेदयत्‌॥६१॥

तदङ्गुलितलस्पर्शमाधुर्यहृ434तमानसा।
नालक्षयत सा रत्नवलयंस्खलितं435 करात्‌॥६२॥

चन्द्रापीडोऽपि तत्पाणिसंस्पर्श436सुखसंपदा।
तदा त्रिभुवनाधीशमिवात्मानममन्यत॥६३॥

ततस्तूष्णी437मुपासीने सर्वस्मिन्कन्यकाजने।
शुकसारिकयोरासीत्कलहः438केलिकारणम्‌॥६४॥

तत्प्रसङ्गे च सोत्प्रसं439 तयोः कलहवृद्धये।
चन्द्रापीडोऽब्रवीद्येन सर्वाजहसु440रङ्गनाः॥६५॥

ताश्च दन्तप्रभाधौतदिङ्मुखा मधुरस्वराः।
चन्द्रापीडगिरो जह्नुस्तरां441 कादम्बरीमनः॥६६॥

क्षणमात्रे442 व्यतीतेऽथ प्रविश्य प्राह कञ्चुकी।
राजपुत्र्यौयुवां द्रष्टुंदेवी निर्विघ्नमिच्छति॥६७॥

क्रीडापर्वतके कृत्वा सुतारमणिमन्दिरे।
चन्द्रापीडं443 सुखासीनमायातं मातुरन्तिकम्‌444॥६८॥

तत्राध्यासितपर्यङ्कं केयूरकपुरःसराः।
मुख्याः कादम्बरीसख्यश्चन्द्रापीडं सिषेविरे॥६९॥

स्नानानुलेपनाहारक्रियाः स445तदुपाहृतैः।
चक्रेऽमर्त्यपु446रप्राप्यैर्विभवैरुपपादिताः॥७०॥

अथ मन्दप्रभेभानौभेजे कादम्बरी निजम्।
मदलेखाद्वितीयैव महाप्रासादमस्तकम्‌॥७१॥

चन्द्रापीडं च तत्रस्थाक्रीडापर्वतवर्तिनम्‌।
निरवर्णयदाकर्णप्रसृतापाङ्गया दृशा॥७२॥

चन्द्रापीडे तदा447 तस्याः कटाक्षास्तीक्ष्णकोटयः।
समं निपेतुस्तस्यां448च कुसुमायुधसायकाः॥७२॥

कटाक्षैरुपनीतंच क्षिप्रं449कृतसमागमैः।
तल्लावण्यं पिबन्तीव मदलेखामुवाच सा॥७४॥

न मया मदनो नाम कथास्वपि सखि450 श्रुतः।
अद्य प्रत्यक्षतो दृष्टः स चन्द्रापीडविग्रहः॥७५॥

न महाश्वेतया किंचिदुक्तं प्रकृतवस्तुनि।
अथ451 चेहानयन्त्यामुं452 सर्वमुक्तमनक्षरम्‌॥७६॥

अपि नाम विकारो453 मे तदानीं लक्षितस्तया।
किं वा न लक्षये454देषा दृष्टमन्मथविक्रिया455॥७७॥

अद्यापि निजसंकल्पविरुद्धां विकिया456भिमाम।
मनसः संहराम्येव स्थुलामपि यथातथा॥७८॥

किं त्वसौ457शेषहारोऽस्यास्तुल्यंमण्डनमाकृतेः।
उरस्यनिच्छतोऽप्यस्य तूर्णमा458मुच्यतां त्वया॥७९॥

मदलेखागृहीत्वा तं हारं गत्वा तदन्तिके।
तथोवाच यथा तेन459प्रत्युक्ता सा न किंचन॥८०॥

आमुच्यत ततः कण्ठेहारोऽस्य मदलेखया।
शरदिन्दुकरोदारप्रभापूरित460दिङ्मुखः॥८१॥

चन्द्रापीडश्च हारेण रराज कृतमण्डनः।
पूर्णेन्दुरिव नक्षत्रकलापपरिवारितः॥८२॥

कादम्बरी चिरं त्वेनमवलोक्य निशागमे।
प्रासादशिखरात्तस्मान्मन्दम461न्दमवातरत्‌॥८३॥

उत्थाय चन्द्रापीडोऽथ कृतसंध्याविधिस्ततः।
अवालम्बत462 देहेन शय्यां चिन्तां च चेतसा॥८४॥

किं स्युर्गन्धर्वकन्याया विलासाः सहजा इमे।
उतेमं463जनमुद्दिश्य बालांनर्तयति स्मरः॥८५॥

दृष्टिर्निपुणदूतीव यथा464 त्वस्या विचेष्टते।
तथा465 संभावनाहीयं मम चेतसि वर्तते॥८६॥

अवैमि466 पुष्पितस्तावत्किंनरानुसृतिक्रमः।
स कालपरिणामेन न जाने किं फलिष्यति॥८७॥

अथवा यौवनोन्मादकृत एष467 मम भ्रमः।
क्व468मनुष्यः क्व गन्धर्वइति किं तेन संगतम्‌॥८८॥

आत्मसंभावनां चेयमास्तामसदृशक्रमा।
कालेन व्यज्यते सर्वं कथं च469मम सैनिकाः॥८९॥

]

कियत्स्वपि व्यतीतेषु दिवसेष्वथ पार्थिवः।
यौवराज्यविधौ सूनोर470भियोगमशिश्रियत्‌॥२२॥


  1. “शक्तिर्नामा’ ख” ↩︎

  2. " ‘कुलोख" ↩︎

  3. " दार्वाभिसारः कश्मीरदेशे कश्चन भा. ग्रामेऽस्ति, यो राजतरङ्गिण्यामपि बहुषु स्थलेषु वर्णितः. ख-पुस्तके, काश्मीविद्यासुधानिधिमुद्रिते च पुस्तके (दीर्घाभिसारं’ इति पाठोऽस्ति, " ↩︎

  4. " भिन्नः सूर्योऽपि, " ↩︎

  5. “दोषा रात्रिरपि. " ↩︎

  6. " श्रुतिशालिनम्‌” ख.” ↩︎

  7. " व्यक्ता कवित्व—ख," ↩︎

  8. “धियं प्रति, ख” ↩︎

  9. “विभावा क.पुरुहूत इत्याद्यर्धश्लोकः पण्डितपत्रे( काशीविद्यासुधानिधौ ↩︎

  10. “बृहज्ज्योति—क, " ↩︎

  11. “ख-पुस्तके नास्ति” ↩︎

  12. " ख-पुस्तके नास्ति, ,” ↩︎

  13. " “चतुर्जलधि”—क. " ↩︎

  14. “. ‘आस्तेख. " ↩︎

  15. “. अन्योन्यमविरोधिभिः’ ख.” ↩︎

  16. " अभ्यनीयन्तः क” ↩︎

  17. “विनयप्रह्ण; प्रतीहारो’ क,” ↩︎

  18. " “मन्त्रिणः’ ख.” ↩︎

  19. " ‘तया सह चः’ ख." ↩︎

  20. “. ‘सीकराः’ ख” ↩︎

  21. ““अमर्त्याअपि न प्रापुः” ↩︎

  22. “. ‘मेनकामिवः’ ख. " ↩︎

  23. “रत्नामास्पदंक.” ↩︎

  24. “.‛अत्यादरेण’ ख.” ↩︎

  25. " ‛अस्यांपतगः’ख.” ↩︎

  26. " ‛उपासरत’क." ↩︎

  27. “अधीतवेद—क.” ↩︎

  28. " ‘तदाकर्ण्य’क." ↩︎

  29. “.” ↩︎

  30. “. ‛च’ख.” ↩︎

  31. “‛तियेक्त्वातिशयः’क” ↩︎

  32. “‛कुतोऽध्ययन’—क” ↩︎

  33. “‛चित्रपरम्पराः’ ख. " ↩︎

  34. “. “एनंख. " ↩︎

  35. " मतयः ख.” ↩︎

  36. " ‛प्रतिपाद्यन्ते’ख. " ↩︎

  37. “‛निराकृतेः’ख.” ↩︎

  38. “‛विचित्राः कर्मवासनाः’ ख” ↩︎

  39. “. ‘विचित्रास्तद्विपाकाश्व’ ख.” ↩︎

  40. “. प्रकल्पतां” ↩︎

  41. " ‛सुखंख’.” ↩︎

  42. “ध्यात्वावैख.” ↩︎

  43. “‘सुखादिकं ख” ↩︎

  44. “. इहागतः’क.” ↩︎

  45. “अन्यजन” ↩︎

  46. " ‛चाण्डाल’— ख." ↩︎

  47. " ‘अभितोगत्वा’ख. " ↩︎

  48. " ‘कृत्वागत्य ख. " ↩︎

  49. " ‘एकतनयोतयोः ख" ↩︎

  50. " ‘विरह’ ख." ↩︎

  51. " ‘पिता’ख. " ↩︎

  52. " ‘फलाम्बुना’ क" ↩︎

  53. “‘विक्षिप्तवान्’ख” ↩︎

  54. " ‘परिवारिते’ख. " ↩︎

  55. " ‘शल्मलिम्क" ↩︎

  56. “.‘अकल्पयम’ ख.” ↩︎

  57. " ‘सहस्रौधैः’ख." ↩︎

  58. " ‘तदरण्यः’ ख" ↩︎

  59. " ‘तु’क." ↩︎

  60. " ‘मुहुः’ क" ↩︎

  61. " ‘शाद्वले’ ख. " ↩︎

  62. " ‘विलम्बितः’ख" ↩︎

  63. " ‘ततोऽहं ख. " ↩︎

  64. “‘पक्षावित—’ख” ↩︎

  65. " ‘तु’ख." ↩︎

  66. “‘किंचन’ख.” ↩︎

  67. " ‘कर्मणाः’ ख," ↩︎

  68. “‘तथा पथिः’ ख” ↩︎

  69. " मुकलितेक्षणः ख." ↩︎

  70. “‘कण्ठाग्र’—ख. " ↩︎

  71. " ‘अथः’ ख. " ↩︎

  72. “‘ततस्तस्य सुतस्तस्मिन्’ख” ↩︎

  73. “‘एवं’ ख.” ↩︎

  74. “‘आदौ’ क” ↩︎

  75. “‘अदीदृश्यत्’ क.” ↩︎

  76. “‘पाणिस्थं करस्थामलंयथा’ख.” ↩︎

  77. " ‘किमद्य यत्‌’क.” ↩︎

  78. “‘अभ्यर्चितो मुनिभिरित्यनुबध्यमानः’ ख.” ↩︎

  79. “‘च ते’क” ↩︎

  80. " ‘निहतेन’ख." ↩︎

  81. “‘इति श्रीनिपश्चिद्वराग्रगण्याचार्य’इति ख-पुस्तके नास्ति” ↩︎

  82. " ‘सांध्याः’ख, " ↩︎

  83. “‘यथास्थलम्’ख.” ↩︎

  84. “‘स्थलीः’ ख. " ↩︎

  85. “‘अपि’क. " ↩︎

  86. “‘उपचितां’ ख,” ↩︎

  87. “. ‘यस्यां किमन्यत्कैलासनिवासरसमुज्झता’ख.” ↩︎

  88. “ख-पुस्तके नास्ति.” ↩︎

  89. “‘यस्यां’ख.” ↩︎

  90. " ‘उवास’ क.” ↩︎

  91. “‘कुशलैः’ख” ↩︎

  92. " ‘बृहस्पतीन्’ख.” ↩︎

  93. “.‘एव’क.” ↩︎

  94. " ‘अस्पृशन्’ख." ↩︎

  95. “‘अनुरंज्यते’ख.” ↩︎

  96.  ↩︎
  97. " " ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  98. “यथाभिलषिता” ↩︎

  99. “. भावाः ख.” ↩︎

  100. “. " ↩︎ ↩︎

  101. ““महीपतिः क” ↩︎

  102. " “अनपत्यतया’ ख” ↩︎

  103.  ↩︎
  104. " ‘तु प्रसङ्गात् ख," ↩︎

  105. “.दधतीः क.” ↩︎

  106. " “नो दुःखातः ख" ↩︎

  107. “तच्चित्तपीडा क” ↩︎

  108. " ‘मत्कृतो” ख" ↩︎

  109. " “मत्सुखापेक्षी” ख," ↩︎

  110. " ‘भूपतिः” क" ↩︎

  111. “‘दुःख–ख. " ↩︎

  112. " पीडाः ख,” ↩︎

  113. “देवताः ख,” ↩︎

  114. “‘अभाग्यानां” ↩︎

  115. “ख-पुस्तके द्वितीयचतुर्थचरणयोर्व्यत्ययः” ↩︎

  116. “. ‘ज्ञात्वा वार्ता” ↩︎

  117.  ↩︎
  118. “. ‘यदीह” ख” ↩︎

  119. " दुःखस्थितिः" ↩︎

  120. “वीरैःक” ↩︎

  121. " च क," ↩︎

  122. ““चक्रतुस्तु विचित्राणिः कः” ↩︎

  123.  ↩︎
  124. “. ‘वर्णयामासः क.” ↩︎

  125. ““प्राप्तेऽथ दशमे मासे” ↩︎

  126. " “उदाहृतम्‌ ख. " ↩︎

  127. “. ‘त्रिधिक्रमवरर्तिषुक-ख. " ↩︎

  128.  ↩︎
  129. " व्यक्तंक” ↩︎

  130.  ↩︎
  131. “. ‘मुखे’ ख.” ↩︎

  132. " शुकनासगृहावृद्धातत्पुत्रोत्पत्तिमभ्यघात्” ↩︎

  133. “अयं श्लोकः क-पुस्तकेनास्ति” ↩︎

  134. “अथोदारंख, " ↩︎

  135. " “चिन्ता—* ख” ↩︎

  136.  ↩︎
  137. “. सुवर्ण सददौ” ↩︎

  138. “प्रशासिवान्‌ः ख.” ↩︎

  139. " ‘इन्दुतुल्येन’ ख, " ↩︎

  140.  ↩︎
  141. “गुरुगृहेख.” ↩︎

  142. " स प्रार्थितोऽपि’ क" ↩︎

  143. “‘तु” ख. " ↩︎

  144.  ↩︎
  145. “‘सर्वसंव्यवहारेषुख” ↩︎

  146. “. सक.” ↩︎

  147. “प्रतिबिम्ब” ↩︎

  148. " व्यसर्जयच्च’ ख” ↩︎

  149. “. ‘पुत्रस्य सेवकम्‌” ↩︎

  150. “सुलभैः’ख. " ↩︎

  151. " “कृतास्पदम्‌ख. " ↩︎

  152. “अथ’ ख” ↩︎

  153. ““वीक्ष्यख” ↩︎

  154. “चैव व्यचिन्तयन्‌ख.” ↩︎

  155. " इतिः ख” ↩︎

  156.  ↩︎
  157. " ‘एतदुक्ताथ’ ख. " ↩︎

  158. " ‘उच्चैस्त्वंख." ↩︎

  159. " “आकृतिः ख." ↩︎

  160. “बुद्ध्यानुसंधायः क” ↩︎

  161. " ‘मङ्गलख, " ↩︎

  162. " ततः ख." ↩︎

  163. “, ‘सुत॑ ख” ↩︎

  164. " ‘क्षणम्‌ ख" ↩︎

  165. “. प्रष्टुंख” ↩︎

  166. “मुहुः” ↩︎

  167. “.आदौक " ↩︎

  168. “प्रागात्‌ख.” ↩︎

  169. “चन्द्रापीडस्य यादृक्षोः ख,” ↩︎

  170. “स्वयनिर्वश” ↩︎

  171.  ↩︎
  172. “चागत्य” ख. " ↩︎

  173.  ↩︎
  174.  ↩︎
  175. " चिरं” ↩︎

  176.  ↩︎
  177. " ‘शीलिनः क." ↩︎

  178. " “ज्वरः ख, " ↩︎

  179. “व्यक्तिख. " ↩︎

  180. “भक्ति ख” ↩︎

  181. " ‘नावस्यन्ति’ क” ↩︎

  182. “क्रमागतो न चैतस्यांख.” ↩︎

  183. “. तन्नाद्यैवख” ↩︎

  184. " “बातेरिताभिभूते च्‌" ↩︎

  185. “येऽत्र मोहाब्धौ” ↩︎

  186. " ‘धुर्तैरेव हि दूष्यन्ते" ↩︎

  187. “तदाकृष्टो” क,” ↩︎

  188. " अकृतसंरम्भोः क," ↩︎

  189. “‘अभिमतोख.” ↩︎

  190. " यथा नक," ↩︎

  191. “. तथातथा ख.” ↩︎

  192. “अपि’ ख़.” ↩︎

  193. " हि" ↩︎

  194. ““प्राप्तबहुसर्वस्व—” ↩︎

  195. " “अन्याहनि चक" ↩︎

  196. ““गीत—ख” ↩︎

  197. " रुद्धाश्रुको" ↩︎

  198. “अलस—क,” ↩︎

  199. ““प्रस्थानोच्छ्रित—” क,” ↩︎

  200. " ‘प्राक्‌ प्राक्कूलेख," ↩︎

  201. “अत्रकल्पितम्‌क” ↩︎

  202. “. इव ` ख.” ↩︎

  203. " ‘अवश्यान्ख." ↩︎

  204. " “उत्सारमन्‌ कः," ↩︎

  205. ““वनानिः ख” ↩︎

  206. ““यत्र तत्रक. " ↩︎

  207.  ↩︎
  208. “‘गत्वा’ ख.” ↩︎

  209. “याथ’ क” ↩︎

  210. “अध्यास्त क” ↩︎

  211. “तत्स्थ एवासौ क.” ↩︎

  212. “कौतुकाबिष्ट -” क.” ↩︎

  213. " “सहसा ख,” ↩︎

  214. " “उदार—’ क." ↩︎

  215. “मात्रा क” ↩︎

  216. “पश्यन्निःश्वस्यक. " ↩︎

  217. “. ग्रहणे काङ्क्षां ख” ↩︎

  218. " “उपसर्तुंक. " ↩︎

  219. ““मनुष्याणां कथातिगम्‌क,” ↩︎

  220. " ‘दारकेणेवका,” ↩︎

  221. “कोऽनर्थः क” ↩︎

  222. “पुनः क,” ↩︎

  223. “दैशिकः क” ↩︎

  224. " शनैः ख" ↩︎

  225. " अतिन्मात्रेणः ख," ↩︎

  226. " इत्थं विचिन्त्य” ख" ↩︎

  227. " षण्डं क" ↩︎

  228. “, मदासिक्तक " ↩︎

  229. “षण्डस्यक.वृक्षसमूहस्येत्यर्थः,” ↩︎

  230. “. श्रमः ख.” ↩︎

  231. “आप्लुतोद्भूत क.” ↩︎

  232. " ‘अथ” ख” ↩︎

  233. " मृगसमूहेनेत्यर्थः" ↩︎

  234. " लक्ष्मी” ख. " ↩︎

  235. " “कलस्वना’ क." ↩︎

  236. “प्रियम्” ख.” ↩︎

  237. " तु ख." ↩︎

  238. “स्तम्भावासित—ख” ↩︎

  239. " सा तुः ख." ↩︎

  240. " तु ख" ↩︎

  241. " तुभ्यं ख" ↩︎

  242. " ‘इति’ ख. " ↩︎

  243. “चक” ↩︎

  244.  ↩︎
  245. “निजासन—”ख.” ↩︎

  246. " तु विज्ञाय बृत्तान्तं ख " ↩︎

  247. “‘बहिर्मुहुः’ ख” ↩︎

  248. “.खादति स्माज्ञया तस्याः ख” ↩︎

  249. " ‘अन्तिकेः ख“" ↩︎

  250. " ‘महादेशेन’ ख." ↩︎

  251. " “पृष्टेति क्षणमादध्योः ख. " ↩︎

  252. “‘प्रकृति—ख.” ↩︎

  253. ““सरसं ख.” ↩︎

  254. " ‘क्षणकृतरतिः” ख. " ↩︎

  255. " अधुना ममः क," ↩︎

  256. " भगवती ख" ↩︎

  257. “वासो ख” ↩︎

  258. " द्वन्द्वैःख" ↩︎

  259. “चख” ↩︎

  260. " मन्वादि ख" ↩︎

  261. “मतिः क” ↩︎

  262. " ‘च रिष्टेति’ ख, " ↩︎

  263. " मतेः क" ↩︎

  264. " गाढं ख" ↩︎

  265. “. तेक.” ↩︎

  266. ““पुरा क.” ↩︎

  267. “. ‘श्रियः ख.” ↩︎

  268. " यतो यथार्थतामाप क. " ↩︎

  269. " भागिनी क" ↩︎

  270. “‘धृतानन्दः क. " ↩︎

  271. “ततः क” ↩︎

  272. " प्राप्तं मया नानारसोचितम्‌ः ख, " ↩︎

  273. “अस्मिख. " ↩︎

  274. “‘मञ्जरीमहमार्तवीम्‌” ख. " ↩︎

  275. “कस्मिंश्चिदपि देशे ख” ↩︎

  276. “.“प्रभाव” ख.” ↩︎

  277. “अपूर्वा ख” ↩︎

  278. “समर्थितवती क” ↩︎

  279. “‘चक्षुषैब पिबन्तीव ख” ↩︎

  280. “उपागता क” ↩︎

  281. “. ‘तेन क” ↩︎

  282. “.“अवन्ध्मा’ ख, " ↩︎

  283. “. “लब्धावकाशरूपादिः ख” ↩︎

  284. “आगम,’ ख” ↩︎

  285. “लोकेषु ख” ↩︎

  286. " पुण्डरीकं ख.” ↩︎

  287. “.अयासीत्ख” ↩︎

  288. " अथ ख” ↩︎

  289. “. ‘जन्मानुगं’ ख,” ↩︎

  290. “अतीव ख” ↩︎

  291. “मत्वाद्यक,” ↩︎

  292. “चास्यख. " ↩︎

  293. “‘तनुग्राहखेदेनख, " ↩︎

  294. " भ्रश्यन्ती तेन नाज्ञायि स्वाक्षमाला निजात्करात्‌” ख” ↩︎

  295. " “अग्राहि’ ख.” ↩︎

  296. “तस्मिन् ख” ↩︎

  297. “.तस्यः ख, " ↩︎

  298. “.‘अब्रवीत’ ख” ↩︎

  299. “‘मुक्तेयं” कः” ↩︎

  300. “निजा क, " ↩︎

  301. “.उच्चकैःख,.” ↩︎

  302. “.“सरस्तटमुपागमम्‌’ ख, " ↩︎

  303. “तत्र ख” ↩︎

  304. " मुहुः ख, " ↩︎

  305. “अगच्छंइत्यादिसार्धश्लोकःख-पुस्तके नास्ति,” ↩︎

  306. " ‘किमयाता दृष्ट ख” ↩︎

  307. “.इव ख” ↩︎

  308. " विप्रलभ्यमानः क.” ↩︎

  309. " एव ख” ↩︎

  310. " तत्र च ख” ↩︎

  311. " ‘संमृष्टमाधौतचरणद्वयमख.” ↩︎

  312. “व्यधात्‌ ख” ↩︎

  313. " स ज्ञाय ख" ↩︎

  314. " मे ख" ↩︎

  315. " ‘रुजाश्रितः’ क." ↩︎

  316. “विदूयसे” ख” ↩︎

  317. " ममान्तिकं ख," ↩︎

  318. “चिन्तोपपत्तयेः ख” ↩︎

  319. ““च क. " ↩︎

  320. " “विविच्यः ख” ↩︎

  321. " वृत्तान्तो’ ख." ↩︎

  322. “विरताशः ख” ↩︎

  323. “अथः कः” ↩︎

  324. " यक्षकरो” क" ↩︎

  325. " ततस्तस्यापि क" ↩︎

  326. “‘पांसुं” क. " ↩︎

  327. “. ‘सवाष्पमातुरां क.” ↩︎

  328. “रक्षणार्थंक” ↩︎

  329. " भीतो क” ↩︎

  330. " नैव क" ↩︎

  331. “आवेद्य ख” ↩︎

  332. “.ह्यम्बामहं क.” ↩︎

  333. “त्यक्त्वा रात्रौ ख” ↩︎

  334. “वैधेयनाशिनि ख " ↩︎

  335. “दोलायतीव” ख” ↩︎

  336. “. ‘कामोऽतिदुर्धर्षोख, " ↩︎

  337. “दुस्तरे विप्रवधैनसि निमज्जनम्‌` ख” ↩︎

  338. “अवदत्‌” ख. " ↩︎

  339. “, कि शास्त्रंइत्यादिश्लोकः ख.पुस्तके नास्ति” ↩︎

  340. “तथाख, " ↩︎

  341. “चतुरैः क” ↩︎

  342. “अधिकज्वरा” क,” ↩︎

  343. " शून्यीकृत्यःक. " ↩︎

  344. " अहो क” ↩︎

  345. " कलापकं चतुर्भिः ख” ↩︎

  346. " प्रकम्पमानाङ्गी विसंष्ठुल’ ख.” ↩︎

  347. " तत्क्षणात्क्लान्त क” ↩︎

  348. " ‘मूर्च्छर्ताक" ↩︎

  349. “व्यलोकयत्‌ ख” ↩︎

  350. ““शिशिरैः ख” ↩︎

  351. “. ‘अवाप्तचेतना चासौ’ खं.” ↩︎

  352. " तथैवः क" ↩︎

  353. ““यतस्तदा क” ↩︎

  354. “. प्रतिशब्देन चैवोच्चैर्दिशोऽपि रुरुदुश्चिरम्‌ ख " ↩︎

  355. “वाष्पैः क” ↩︎

  356. “वा ख” ↩︎

  357. “. चः ख.” ↩︎

  358. ““आशाबन्धेन’ ख,” ↩︎

  359. “. ‘दुःखदावस्य ख” ↩︎

  360. " तादृशःख.” ↩︎

  361. ““निश्चयं ख.” ↩︎

  362. " ‘महीतलंक" ↩︎

  363. “उदात्तया’ ख” ↩︎

  364. “‘मरणोपायात्‌” ख” ↩︎

  365. “. ‘विस्मयात्” क.” ↩︎

  366. ““मुक्तार्द्र—” क” ↩︎

  367. “अन्तरिक्षे क.” ↩︎

  368. " प्रत्यक्षंख." ↩︎

  369. “सास्मि ख.” ↩︎

  370. " एवं” ख, " ↩︎

  371. ““स चिरं क” ↩︎

  372. “. वृत्तान्तबहुविस्तरा ख” ↩︎

  373. " “अथोवाच’ ख." ↩︎

  374. “तवमनोवृत्तेः क.” ↩︎

  375. “‘कोतुकाक्षिप्त क. " ↩︎

  376. “आश्वासिता तदा तेन क” ↩︎

  377. " दानक. " ↩︎

  378. " असौक” ↩︎

  379. " अवश्यं ख" ↩︎

  380. “‘इतिहासैःख,” ↩︎

  381. “पृष्टोवाचः ख” ↩︎

  382. " असौ ख" ↩︎

  383. ““च’ ख.” ↩︎

  384. " येनाखानि तदत्यच्छ—” कः " ↩︎

  385. ““यस्यामृतात्समुत्पन्नेः ख,” ↩︎

  386. ““स्वदुःखस्या ख” ↩︎

  387. “.“सोढव्यं ख. " ↩︎

  388. “यतो ख” ↩︎

  389. " .“ततस्तथा तथा खेदंधत्ते ख” ↩︎

  390. “ततः ख. " ↩︎

  391. " ‘आगत्र्येव” ख.” ↩︎

  392. “‘तस्यशय्यानिषण्णस्य’ख.” ↩︎

  393. “‘यथातथा’ ख.” ↩︎

  394. “‘पुनःपुनर्महाश्वेताम्ः ख. " ↩︎

  395. “‘च वाहाग्र्यो’ख.” ↩︎

  396. “‘दृष्टिं’ख,” ↩︎

  397. “‘दधौ’क.” ↩︎

  398. “‘शर्वर्या’ ख.” ↩︎

  399. “‘तदन्तिके’ख.” ↩︎

  400. “‘दुरंगतेः ख.” ↩︎

  401. “‘चलित–‘ख.” ↩︎

  402. “‘तच्चतच्छासनाकारिः’ ख.” ↩︎

  403. “‘चेतस्ते’ख.” ↩︎

  404. “‘भूमिर्वैतादृशस्याहं’ ख.” ↩︎

  405. " ‘त्वय्यहंगृहदवासिनी’ ख. " ↩︎

  406. " ‘वाचः’क.” ↩︎

  407. “‘चिरं’ ख.” ↩︎

  408. “‘अवोचत’ख.” ↩︎

  409. “‘तवोदारोसमाचारश्च’ख.” ↩︎

  410. “‘भावेषु’ क.” ↩︎

  411. “‘त्वदाकृतिम्‌’ ख.” ↩︎

  412. " न्ययुङ्क्ताग्रे’ क." ↩︎

  413. " ‘गत्वाकथंचिदध्वानं’ख." ↩︎

  414. " ‘कक्ष्या’ क." ↩︎

  415. " ‘मरकत’ख." ↩︎

  416. “‘उत्तप्तकनकद्योत–‘ख.” ↩︎

  417. “‘स्वमाधारमसिंचतः’ ख.” ↩︎

  418. “‘रत्नतरङ्गिणीम्’ ख.” ↩︎

  419. “‘सर्वोपमान’क.” ↩︎

  420. " ‘चतुर्भिः कालापकम्‌’ख." ↩︎

  421. “‘कोटिस्थां’ख.” ↩︎

  422. “‘चिन्तयामास’ ख.” ↩︎

  423. “स्वयम्’ ख.” ↩︎

  424. “‘दधद्‌’ख.” ↩︎

  425. “प्रत्यागच्छत्’ ख.” ↩︎

  426. " ‘अथ निःसंगं’क." ↩︎

  427. “‘विलासिनीम्’ क.” ↩︎

  428. “‘दृष्टिं’ ख.” ↩︎

  429. " ‘च’क." ↩︎

  430. " ‘अध्यासिषातामेकत्र’ ख." ↩︎

  431. " ‘साथ’क." ↩︎

  432. “‘व्यदापयत’ख.” ↩︎

  433. “‘प्रकम्प’ ख.” ↩︎

  434. “‘विश्रान्तिहृतः’ क.” ↩︎

  435. “‘प्रच्युतं’ ख.” ↩︎

  436. “‘तलसंस्पर्शमात्रया’ ख.” ↩︎

  437. “‘तूष्णीमथतदासीने’ख.” ↩︎

  438. “‘केलिः कलहकारणम्‌’ख.” ↩︎

  439. " ‘सोत्प्राशं’क." ↩︎

  440. “तुतुषुःख. " ↩︎

  441. “‘तदा’ख.” ↩︎

  442. “‘क्षणं प्रविश्य तत्स्थानं मधुरं प्राह’ ख.” ↩︎

  443. “‘चन्द्रापीडसुखावासमायाता’ख.” ↩︎

  444. “‘अन्तिके’ ख.” ↩︎

  445. " ‘चतदुपाहृताः’ ख.” ↩︎

  446. " ‘शक्रपुरात्प्राप्तैः’ ख." ↩︎

  447. “‘कटाक्षाश्च तदीयाः’क.” ↩︎

  448. “‘अस्यां’क.” ↩︎

  449. “‘तीव्रं’ ख.” ↩︎

  450. “‘स विश्रुतः’ ख.” ↩︎

  451. “‘अथवा’ख.” ↩︎

  452. “‘तु’ख.” ↩︎

  453. “‘तदा नासौप्रकारो’ क.” ↩︎

  454. “‘लक्षयति’ख.” ↩︎

  455. “‘विभ्रमा’ ख.” ↩︎

  456. " ‘प्रक्रियां’ क." ↩︎

  457. " ‘पुनः’क." ↩︎

  458. " ‘त्वरितं ग्रथ्यतां’क." ↩︎

  459. " ‘अनेन’ ख" ↩︎

  460. " ‘प्लावित-‘ख." ↩︎

  461. “‘खेदमन्दं’क.” ↩︎

  462. “‘युवालम्बत’क.” ↩︎

  463. “‘अथेमं’ख.” ↩︎

  464. “‘तथा तस्या व्यचेष्टत’ क.” ↩︎

  465. “‘यथा संभावनान्यैवः’ क.” ↩︎

  466. “‘दृश्यते पुष्पितस्तावक्तिमनङ्गइति द्रुमः’ ख.” ↩︎

  467. " ‘एव’ख." ↩︎

  468. “‘क्वमनुष्याः क्वगन्धर्वा बत किंकेनः ख.” ↩︎

  469. “‘तु’क.” ↩︎

  470. " संविधानं ख" ↩︎