उपोद्धात

विनन्दतु नीलसरोरुहचारु पदद्वयंमुक्तिविकालनकारु ।
यतः किल कीलितकुण्डलिधौम ब्यभादिव मञ्जलमौक्तिकदाम ॥१॥

‘गद्यं कवीनां निकषं वदन्ति ।’ को काध्यकौशलं बाधेनैव पूर्णतया परीक्ष्यत इति हि सर्वथा सत्यम् । पचं होकचरणस्यापि सौन्दर्येण संवहत्येव कामयभिख्याम् । किन्तु गद्य सर्वतः सौन्दर्य बिना निजरचयितुः प्रददाति पाण्डित्यपरिचय. मनायासादेव । किञ्च पो छन्दोबन्धानुरोधेन न स्वच्छन्दमभिसचितशब्दशय्या यथावनिर्वाहयितुं सुशका। किन्तु गधे नाऽयं प्रतिबन्धः । अत्र हि यथास्थलविनिवेशितैमौक्तिकानुकारिभिः प्रसन्नमधुरैः पदैहीर इव निजभावोद्गारः सहृदयानां हृदि सुकरतया स्थापयितुं शक्यो यदि हि काव्यसामग्रीदारियं न पुरः प्रतिबन्धकं भवति । पधे छन्दसोऽनुरोधेन कल्पनायाः शरीरं बलादेवाऽऽकुञ्चनीयं भवति । पुरः प्रदृश्य मानेऽपि हि विस्तृते कल्पनाऽङ्गणे, छन्दःप्रतिबन्धवशात्पङ्गक्रियते कविरयम् । गद्ये तु हृदयोस्थितं कल्प नोद्गारं यथामनोरथमविकृतरूपेणैव प्रकटयितुं नान्तरायः कश्चित् । __पये हि नियताक्षरबन्धेनोत्पादिता संगीतानुगामिनी कापि गतिर्निभृततरमुपादयति माधुर्य मानसे, येन हि मनागभावशैथिल्येऽपि श्लोकः श्लोकमुपयाति । गधं तु पुनरनाविष्कृतभावमाधुर्य पुर एव पिशु नयति कार्पण्यं कोः । पदान्तानुभास (‘तुक’ ‘काफिया) सापेक्षे छन्दसि तु निबद्धार्थनि हो मल्ये न यसकस्यचित्कवेः कार्यम् । तन्न हनुमालपरवशो बलादेव स्वाभिशेतमर्थ विरूपयति, अप्रचलितशब्दब न्धेन लान्छयति वा पदबन्धमात्मीयम् । अत एवाऽक्षराणां विरूपकरणं कविसंप्रदायेनाऽप्यनुमतमेत सिन् । एवंविधे छन्दसि विवशतया विरूढेपि वैगुण्ये समालोचकपुंगवस्यापि मनो मनाङ् मार्दवमुपया त्यव । भवति च कश्चिदपदेशः कचेरपि स्वकीयामशक्तिं गोपयितुम् । किन्तु गये किञ्चिदपयवये संघटित निर्वचनमभ्युपगन्तव्या भवति स्वीयेव स्थूलता। पाशकक्रीडायां पराजितःप्रमादमात्मीयं पाशकानामुपरि लिपातयितुमासादयत्यवसरम् । परं बुद्धिबल(शतरक्ष) क्रीडायां विजितस्य का स्यादपदेशोऽन्यः ? अत एवं गधगुम्फः पूर्णपरिनिष्ठितस्यैव कवेः कार्यमित्यधिगन्तव्यं भवति । गये हि स्वच्छदर्पण इवाऽविकले प्रतिफलिता विभाति कवयितुः प्रतिभा । तत एव हि चिरात्प्रसिद्ध कविगोठ्याम्-‘गां कवीनां निकर्ष वदन्ति’ इति। ___ भारतीयकवीनां सर्वविदितेऽपि सामय, संस्कृतसाहित्यमिदं गद्यकाव्यैर्भूयस्तरां शून्यमिति प्रत्यक्षमी. क्ष्यतेऽस्माभिः । प्रसिद्ध्यनुसारम्-भगवतो वाल्मीकेयथैव सेयं छन्दोबन्धरीतिलौकेऽस्मिन् प्रस्ता, तथै वास्या माधुर्यप्रभावस्तथा कविषु बद्धास्पदो बभूव यथा गद्यगुस्फः शनैःशनैर्विरलतामवाप बराकः । पद्य बन्धश्चावश्यकतातोऽप्यधिकमासादयामास प्रसारम् । नाव्यम् , गीतम् धादिनम् , काव्यम् , कोषः, आयुर्वेदः, इतिहासा, पुराणम् , धर्मः, दर्शनम्, एतदादिषु सर्वत्र पद्यबन्धस्यैव प्रसारो बभूव । किं बहुना—एकमेकं च मिलित्वा द्वे भवत इति हि गणितशास्त्रमपि पद्यबद्धमेवाऽत्राविरभूत् । पद्यकविताया मादकता भारतमात्रस्य वातावरणे तथा दृढतया ध्याताऽभूद् यथा व्यतीवेऽपि बहुतिथे समये मदोऽसों

NEPAL


.१ उक्तीनां विकासने कार ( शिल्पि, निपुणम् ) उपास्यदेवतायाः पदद्वयम् । २ साणां तेजः । ३. छन्दोऽप्येत नामकम् । ४ प्रशंसाम् । शोकोयं प्रशस्यो भवतीत्यर्थः । ५ “रलयोईलयोश्चैव शषयोबेवयोस्तथा इत्यादि । अपि मार्ष ..मर्ष कुर्याच्छन्दोभजन कारयेम’ इत्यादिः किंवदन्ती च । ६ ‘बहाना

नामाकं मस्तिष्काव्यपथाति । अधुनापि हि पद्यानां प्रवाहः प्रकामं प्रस्मृतो विलोक्यते, काम तानि पद्यानि पद्याभासाल्येव भवेयुः परं गद्यनिषद्यायां नामाकं मनो रमते। यानि किल गद्यकाव्यानि निमितानि तान्यपि पद्यमयानि कृत्वा मन्ये प्रमादपरिशोधनमिव क्रियतेऽस्माभिः । अत एव हि कादम्बर्या अपि ‘पद्यकादम्बरी’नाना पुनःसंस्करणं पुनर्जन्म वा भवति। श्लोकबद्धं दशकुमारचरितमाविर्भूतमेव पुरा जयपुरात् । अन्यत्किम् , या सिद्धान्तकौमुदी स्वच्छन्दगतिना गधेन निबद्धाप्यन्तेवासिनां यथावद्बुद्धिगता न भवति, नागेशायाः प्रगाढपण्डिता यां टीकाशतैस्तुन्दिलयन्तोपि न तृप्यन्ति, सैव पुनः पबन्धे निगडयितुं काम्यते इति किं न्यूनाऽस्माकं पधभक्तिः ?

संस्कृतभाषायां गधसाहित्यं नासीदिति तु न कथञ्चिद्वक्तुं शक्यते । संहिता-ब्राह्मणकालादेवाऽस्यो नवो नाम । सूत्र-भाष्याणां काले तु प्राचुर्यमविन्दत गद्यलेख एव । किन्तु सा शैली दार्शनिक प्रवा हमन्वसरत् , न काव्यसौन्दर्यम् । ततः पक्षधरमिन-गदाधरभट्टाचार्यादीनामनन्तरं समुज्जम्भमाणे शास्त्रार्थयुगेऽवच्छेदकताच्छिन्नैः समासाच्छन्नपदगुच्छकैरेवाच्छाद्यत संस्कृतगधाङ्गणमिदम् । न केवलं तर्कशास्त्रीया एव, व्याकरणादीनामपि ग्रन्थास्तमेष धीर वेषं वहन्तः पुरा प्रादुरभवन । महाभारतसंबद्धाद गद्यभागात , महाभाष्ये दृष्टेभ्यः ‘वासवदत्ता’ ‘सुमनोत्तरा’ ‘भैमरथी’त्यादिकथाऽऽख्यायिकानामभ्यश्च बहोः कालारपूर्वमेव यद्यपि गद्यकाच्यानां प्रादुर्भूतिरनुमातुं शक्या किन्तु साहित्यनियमानुसारी सर्वविदि तस्तद्विकासो दण्डिपण्डितादेव प्रारभ्यते । एवं तु विष्ट जन्मतः पूर्व शतकद्वयमारभ्य खिष्टीयषष्ठशत्तकपर्य न्तमुपलब्धेषु शिलालेखेष्वपि काव्यशैलीभुक्तानि गद्यानि प्राप्यन्ते किन्तु गद्यकाव्यानां व्यवस्थितं रूपं दण्डिकवेरेव प्रारभ्यत इति वक्तव्यमापतति ।

दण्डी . कचिर्दण्डी दशकुमारचरितं नाम गद्यकाव्य निर्ममौ यद्धि सर्वत्र सुप्रसिद्ध नात्मपरिचयमपेक्षते । बाण भहस्य कादम्बा पदमाधुर्यं वर्णनाचातुर्य सत्यपि, विशेषणानां बाहुल्यात सुदीर्घदीधैर्वर्णनाऽऽटोपैः कथाशे च्याघातो भवतीति बहूनां कथनम् । दशकुमारचरिते न तथा । परमन कथानामत्यन्तमेवाधिक्यं येन हि तासां मनःस्थीकरणमत्यन्त कठिनम् । दण्डिनः पदलालित्यमपि बहूनां मते प्रसिद्धम् [एतद्विषये पर” स्तादालोच्येत] । अयं हि अनुमानतः स्त्रि. षष्ठशताब्यामजायत ।

एतस्य किञ्चिदेवाऽनन्तरं सुबन्धुवासवदत्ता नाम ‘कथा’ निबबन्ध, या हि पदे पदे श्लेष-यमकादि भिर्विभूषिता । अन्न हि शब्दचमत्कारः कामं भवेत्परं विचारमार्मिकतायामर्थस्यौचित्यं बहुत्रैव विस्खलति । शब्दालंकारनिर्वाह निमीलितनयनो ग्रन्थकृत कथागतानामर्थानामौचित्योल्लङ्घनमपि नावेक्षते । कथापि न किञ्चित् । परस्परं स्वमे विलोकयन्तौ नायिका नायकौ मिथोऽनुरज्यतः। तदनन्तरं मिन्नसहचरो नायको sविष्यन्नायिकामवानोति। न कथायामाकर्षकं किञ्चिद्वैचित्र्यम् । एकसिन्पृष्ट एव सर्वापि कथा समापयितुं शक्यते । केवल शब्दचातुर्येणव ग्रन्थाभोगः पूरितः कविना। किन्तु नेतः पूर्वसेवंविधौलीभुक्त किछि दपि ‘कथा’ काव्यमासीदिति भूयसी प्रशंसा समभूत्साहिये । एतस्य समयः त्रि.षष्ठशतकादुत्तरं सप्तमश तकस्य प्रथमः पादः । यतो हि वासवदत्तावर्णने-‘न्यायस्थितिमिव उद्द्योतकरस्वरूपाम् , बौद्धसंगति मिव अलंकारभूषितां…. वासवदत्तां ददर्श’ इति वाक्यमुपलभ्यते । अन्न हि न्यायवार्तिककार उद्योत कराचार्यः, प्रसिद्धो बौद्धनैयायिको धर्मकीर्तिश्चापि निर्दिष्टोऽस्ति । अनयोः समयः खिष्टस्य षष्ठं शतकमेवै तिहासिकैः स्वीकृतः। अत एव सप्तमशतकस्यादिभाग एवं सुबन्धुर्जात इति सामञ्जस्येनोपपद्यते।

१ देवीप्रसादकविचक्रवर्तिमहोदयेन प्रकटयितुमुपक्रान्ता ‘सुप्रभात’ पत्रे दृष्टा पुरा। २ नेयं सुबन्धोवासवदत्ता । अतिप्राचीनो हि महर्षिः पतञ्जलिः । सुबन्धुस्तु षष्ठशतकोत्पन्नः । ३ ‘कवीनामगलद्दों नूनं वासवदत्तया’ (हर्षचरितम्) ।

उपोद्धातः ।

कादम्बरीकारः श्रीवाणभट्टः श्लेषे केचन शब्दगुस्फविषये केचिद्रसे चापरे ___ऽलंकारे कतिचित्सदर्थविषये चान्ये कथावर्णने ।

आ सर्वत्र गभीरधीरकविताविन्ध्याटवीचातुरी

संचारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः ॥ एतदुत्तरम्-गद्यकवीनामेव किम्, महाकवीनां चूडामणिर्बाणभट्टः प्रादुर्बभूव । महाकविर्बाणो महा राजाधिराजश्रीहर्षस्य समकालिकः । यतो ह्ययं हर्षचरितनाना श्रीहर्षस्य चरितं वर्णयामास । महाराजः श्रीहर्षवर्धनः ६०६ तम लिष्टसंवत्सरमारभ्य ६४८ तमं वर्ष यावद्राज्यशासनं कृतवानित्यैतिहासिकानां समयः । अयं हि स्थानेश्वरजनपदनायकस्य प्रभाकरवर्धनस्य पुनः । अयं भाग्यशाली महावीरो राजनैति कल सर्वानन्यान्विजित्य उत्तरभारते आत्मनश्चक्रवर्तित्वमास्थापयामास । ६२९ तमं खिष्टीयवत्सरमारभ्य ६४५ तमं यावदारते भ्रमन् चीनदेशीयो यात्री ‘हाँगकाँग्’ इत्याख्यो लिखति-‘उत्तरभारते तसिन्काले श्रीहर्ष एवैकमानोऽधिपतिबभूव । नासीत्कश्चिदन्यः प्रशासकः।’

श्रीहर्पस्स राजसभायां मातङ्गदिवाकरो बाणो मयूरश्चेति प्रथिततमाः कवयो बभूवुरिति राजशेख रेणो ल्लिखितम् । बाणो मयूरकर्भगिनीपतिरासीदिति केचित् । अन्ये तु मयूरो बाणस्य श्वशुर आसीदिति वदन्ति । परं बाणमयूरी समसामयिकावित्पन्न न संदेहः । मयूरः किल सूर्यशतकस्य निर्माता, यो हि शतकेनानेन सूर्य स्तुत्वा कुष्ठरोगान्मुक्तो बभूवेति सुप्रसिद्धम् । केचिदिमामपि किंवदन्तीमाहुर्यत-मयू रवत् बाणोपि विकलाङ्गो बभूव, ततश्च चण्डीशतकेन भगवती स्तुत्वा रोगान्मुक्तिमवाप । तदिदं शतक काव्यमालागुच्छकेषु मुद्भितम् । हर्षचरितम् , कादम्बरीपूर्वार्धम्, चण्डीशतकम्, पार्वतीपरिणयनाटक चेति बाणस्य कृतिमाहुः । मुकुटताडिकापि बाणकृतेति केचित् । किन्तु नान प्रमाणमुपलब्धम् । बहवस्तु– हर्षचरितं कादम्बरी चेलेव बाणस कृतिरित्यसाधयन् ।

अतिसमर्थो बाणकविः । ‘गद्य कवीनां निकष वदन्तीति यन्महत्वमारम्भप्रघट्टक एवं मया सूचितम् । यस्य च गद्यस्य वासवदत्ता कादम्बरी चेत्येव सर्वोपादेयं संस्कृतसाहित्ये काव्यदयमाहस्तयोरपि च काद म्बरी सर्वोत्तम गद्यकाव्यमिति मार्मिकाणामुक्तिः । तस्यपरीक्षका अभिप्रयन्ति यद् गद्यस्य गुम्फनपाटवं आणस्यालौकिकम् । यद्धि गचं पद्यतोपि सुमधुरम् , लोकानां हृदयाकर्षकम् , कर्णयोः संगीतस्येव सुस्वर लहरीप्रस्तावकं च स्यादेचंविधस्य जन्मदाता बाणमन्तरा नान्यः कश्चन सफलो दृष्टः । दण्डिनो लेखानु सारम् —-कथायामोजाप्राधान्यस्पर्शपि बाणः कादम्बयों वण्यमानरसानुरोधेन पाञ्चालीरीति सुमधुरतया निरुवाह । वर्णानां गुम्फो मौक्तिकगुम्फमपि भृशमतिशेते-कमलिनीपलाशानि जललवलाग्छितान्या दाय, गर्भधूलिकषायपरिमलमनोहराणि च कुसुदकुवलयकमलानि गृहीत्वाऽऽगत्य तस्मिन्नेव लतागृह शि लातले शयनमस्याकल्पयम् ।’ इत्यादिभिरेवाक्षरैः को वाऽपरः संपूर्ण प्रकरणं समापयितुं शक्नुयात् ? । अत एव साक्षात्सरस्वतीरूपोऽयमिति प्रशशंसुओमिकाः–‘जाता शिखण्डिनी प्राक् यथा शिखण्डी तथाऽवगच्छामि । प्रागल्भ्यमधिकमातुं वाणी बाणो बभूवेति ॥’ बाणपरितस्य प्रत्येकपात्रस्य चरि त्रचित्रणमतिस्वाभाविक कथारसानुरूपं च । चातुर्यपूर्वकमालोचनेऽस्य पात्राणां प्रत्यके चरिनं परस्परं पृथ कूप्रकारकमपि अकृत्रिमं सुस्वाभाविकम् । नामान्यप्यनुकूलानि–सेनापतिवीरतोचितों मेघनादः । ब्राह्मणो मन्त्री शुकनासस्तत्पुन्नो वैशम्पायनः, पत्नी मनोरमा । तस्य चरित्रमाने महानादरः । पुनोत्पत्ती स्वयं राजा पूर्णपानमाहरति । युवराजश्चन्द्रापीडः पितरसिव समभ्युत्तिष्ठति । तेनौचित्याहत्तासनोपि तत्स

१ शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते । शीलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥ (सरस्वतीक ठाभरणम् ।

विधे भूमावुपविशति । भृत्याश्च तं तारापीडादनन्तरमवबुध्यन्ते । अप्सरःसंभूतानां विद्याधरपत्नीनां गौरी-कादम्बरी-मदिरेत्यादीनि नामानि । एतासां सेवकाः शृङ्गारानुकूलाक्षराः केयूरकमदलेखादयः । देशदेशान्तरेषु संवादवाहकः करमका’।

शृङ्गारमनश्शीलं प्रेक्षामहे । ‘औचित्योपनिबन्धस्तु रसस्योपनिषत्परा’ इति ध्वनिकृत् । तत्रापि शृङ्गारो रसः परमोज्वल । अस्याचियेन निर्वाहोऽनेन सफलत्तयां कृतः । यद्यपि कुमारीपुरे भतिरिक्त सुरतमि वाभ्यस्वन्तीनाम् इत्याधुच्यते, (पृ. ३८१) किन्तु शशारभूमिकारम्भाय, कुमारीणां प्राप्तयौवनत्वसूच नाय, तन्न तथाऽश्लीलम् । प्रत्युत कुमारस्य शृङ्गारोद्भवाय उपयुक्तमेव तत् ।

लोकचरित्रावेक्षणम् लोकावेक्षणमपूर्व बाणस्य । श्रूयते यदयं स्वतन्नचरित्रैमिन्त्रैः सह भूयांसं कालं स्वतन्त्रतया लोकानां वचनीयतामिवावहन् पर्यन्ततो यथेच्छं बनाम । एतस्य मित्रेषु सर्वविधा एव कलाज्ञातारोऽभूवन् । माक्षिक-नर्तक-संवाहक-ताम्बूलिकानारभ्य महाकविप्रभृतयः सर्व एवाऽभवन् । ज्ञानानुभवाय सोय प्रघट्टक उल्लिख्यतेऽधस्तात

“अभवंश्चास्य वयसा समानाः सुहृदः सहायाश्च । तद्यथा-नातरौ पारशवौ चन्द्रसेनभातृषेणौ, भाषा कविरीशानः परं मित्रम् । प्रणयिनौ रुद्रनारायणौ । विद्वांसौ बारबाणवासवानौ । वर्णकविर्वेणीभारतः प्राकृत कृरकुलपुनो वायुविकारः । बन्दिमावभङ्गबाणसूचीबाणौ । कात्यायनिका चक्रवाकिका । जाङ्गुलिको मयूरकः । ताम्बूलदायकवण्डकः। भिषक्सुनो मन्दारकः । पुस्तकवाचकः सुदृष्टिः । कलादश्वामीकरः । हैरिकः सिन्धुसेनः । लेखको गोविन्दकः । चित्रकृद्वीरवर्मा । पुस्तककृरकुमारदन्तः । मार्दङ्गिको जीमूतः। गायनौ सोमिलग्रहादियौ । सैरन्ध्री कुरङ्गिका । वांशिकौ मधुकरपारावतौ । गान्धर्वोपाध्यायो दर्दुरकः । संवाहिका केरलिका । लासकयुवा ताण्डविकः । माक्षिक आखण्डलकः । कितवो भीमकः । शैलालियुवा शिखण्डकः । नर्तकी हरिणिका । पाराशरी सुमतिः । क्षपणको वीरदेवः । कथको जयसेनः । शैवो वक्र धोणः । मन्त्रसाधकः करालः । असुरविवरव्यसनी लोहिताक्षः। धातुवादविद्विहङ्गमः । दार्दुरिको दामोल दरः। ऐन्द्रजालिकश्वको राक्षः । मस्करी ताम्रचूडः।” [ पीटर्सन् इन्द्रोडक्शन् ]

कविः किल गुणदोषादीनां सर्वेषामेव मार्मिको भवतीति प्रसिद्ध्यनुसार सर्वमेव लोकचरित्रमयमेतेषा संगत्या संजनाह । एतस्य प्रतिफलमस काव्येषु स्पष्टमुपलभ्यते । गृहस्थस्य कार्याणि [जन्मारभ्य पालन पर्यन्तानि-यथा प्रसूतायाः किं किं संविधानकमिति मन्ये अतिप्रगल्भाः कुलवृद्धाः स्त्रियोपि न जानीयु

र्यानि किल बाणेन चन्द्रापीडप्रसवे वर्णितानि ॥ संतानार्थ के के व्रत-देवताभ्यर्थनादिकाः क्रियन्ते तेषां सर्वाङ्गपूर्णः कोष इव दर्शितः (चन्द्रापीडकथायाम् )। रुग्णय कथमुपचर्या, कानि कान्यरिष्टलक्षणानि, रुग्णावस्थायां रोगिणः का परिस्थितिश्चेष्टा चेति सर्वमनिकलं चित्रयामास (हर्षचरिते)।तान्त्रिकाः स्वस्थ सिद्धिप्राप्तये, निध्यादीनामुपलम्भाय च कीदृशीमुत्कटा लालसा वहन्ति, कश्च तेषामुपायसंरम्भ इति सर्वाण्यपि साकल्येनोपनिबबन्ध (‘जरददचिडधार्मिकस्य चरिते)।एतदेव सर्वविध लोकनैपुण्यमवेक्ष्य बाणत्याग्रे कस्यापि कवेः प्रतिभा नाधिक प्रतिभासते। न च कादम्बर्याः संमुखे किंचिदपि ‘कथा’ काव्य मुत्कर्ष लभते, लेभे च । एतस्य रोचकतामुपलक्ष्यैव हि कादम्बरीरसज्ञेभ्य भाहारोपि न रोचते’ इति सहृदयसमाजे प्रासिध्यत् । . .

बाणश्चान्ये गधकाराश्च गद्यकाव्यकृत्सु सुबन्धुर्दुरूहश्लेषयमकादिशब्दचमत्कारविषये कदाचित्प्रभवेत्परम् औचित्य निर्वाह कथा संघटनायां च न बाणतः कथमप्युत्कृष्यत इति पूर्वमुक्तमेव, अतो न पुनः प्रपञ्चनमावश्यकम् । ये पुन दैपिडरचनां बाणलेखनीत उत्कृष्टामुलपन्तः श्रूयन्ते ते तु रचनापरीक्षणे न मार्मिका इति प्रतिभाति । मत

एव तेषां मतालोचनमनावश्यकमिव । तेहि ‘दण्डिनः पदलालित्यम् इत्यामाणकं श्रुत्वैव तथा जल्पन्ति । किन्तु बाणात्पूर्व तदिदं सूक्तं कदाचिरसंघटितं स्यात् । कादम्बरीसंमुखे तु सेयमुक्तिः ‘श्रोतुर्वितनीरिक ताड्यमाना’ । तन्नापि कथाकल्पनबाहुल्यम्, वर्णने निशेषणानामनाधिक्यात्कथानिर्वाहसोक्यम्, इत्या दिगुणश्चेद्दण्डिनः (दशकुमारचरितस्य) गीयेत तदपि सारसह्यम् । किन्तु पदलालित्यमादाय बाणापे क्षया दण्डी चेदुत्कृष्यते तईि समाता काव्यपरीक्षा । न केनचिद्चनामर्मविदा तदिदं कथंचिन्मृष्येत । - ‘स्वलोकशिखरोरुरुचिररत्नरत्नाकरवेलामेखलायितधरणीरमणीसौभाग्यभोगभाग्यवान् , शरदिन्दुकुन्द धनसारनीहारहारमृणालमरालसुरगजनीरक्षीरगिरिशाहहासकैलासकाशनीकाशमूर्त्या रचितदिगन्तराल. पूा कीाऽभितः सुरभितः, (राजहंसो नाम भूपो बभूक)।’ इत्यादिपदबलेनैव किं दण्डी बाणं विजयेत? एवंविधोत्कलिकाप्रायगद्यलेखे हि सिद्धहस्तो बाणः । स्थाने स्थाने च दत्तः परिचयस्तस्य, कियद्वा इहोल्लिख्यताम् ? किन्तु कथाकाव्यम्। वर्तमानकालिक उपन्यास Novel’स्थानीयमिति न विसतव्यं स्यात् । अत एवात्र प्राक्तनसाहित्यकारकृत ‘कथाख्यायिका लक्षणानुरोधेन दीर्घसमासताद्योजोगुणस्पर्श ऽपि माधुर्यमेकान्तत एव न गलहस्तयितव्यं भवेत् । मधुराक्षरैरेवोपनिबद्धा कथा सहृदयानां हृदि दृढतरं पदमादधातीति स्वाभाविकी वार्ता। बाणश्व नेदं क्षणमपि विसरति । अत एव दीर्घसमासतायामपि द्वीपान्तरागतानेकभूमिपालमौलिमालालालितचरणयुगलो वलयमिव लीलया भुजेन भुवनमारमुबहन.. (शुदकः प्रथमे वयसि सुखमतिविरमुवास) इत्यादिमधुरतरैरक्षरैरुपनिबन्नाति । द्वयोरपि राजवर्णना क्षरेषु माधुर्यस्य कियत्तारतम्यमिति सहृदयानां हृदयमेव साक्षि ।

किञ्च इथताम्–एकमात्रं पश्यं यथा रसस्य कस्यचित्प्रकटनाय प्रभवति तथा गद्यस्य एकमानं वाक्यं रसस्य परिपोषे प्रभवेदिति न यत्रकुन्नचिदृश्येत । बाणस्यैव लेखनी तदेतस्मिन्प्रकर्षे प्रभवति । विन्ध्या टच्यामगस्त्याश्रमवर्णने आह-‘अधुनापि यत्र जलघरसमये गम्भीरमभिनवजलधरनिवहलिनादमाकण्य भगवतो रामस्य त्रिभुवन विवरव्यापिनश्चापघोषस्य सरन्तो न गृह्णन्ति शष्पकवलमजनमश्रुजललवलुलि तदृष्टयो वीक्ष्य शून्या दश दिशो जराजर्जरितविषाणकोटयो जानकीसंवर्धिता जीर्णमृगाः, । (पृ. ४६) अनेन हि कारुण्याई हृदयं भवति न वेति कश्चित्सहृदयः पृच्छयताम् । ‘जललवलुलितदृष्टयो वीक्ष्य शून्या दश दिशः’ इत्यनेन मृगाणां कीदृशं प्रत्यक्ष प्रणयदैन्यं चिनितम् ? ..

.. अन्यदण्यालोक्यताम्-‘तातस्तु तं महान्तमकाण्ड एव प्राणहरमप्रतीकारमुपप्लवमुपनतमालोक्य द्विगुणतरोपजातवेपथुमरणभयादुद्रान्ततरलतारको विषादशून्यामश्रुजलालुता दशमितस्ततो दिक्षु विक्षि पन् , उच्छुष्कतालुरात्मप्रतीकाराऽक्षमस्वासस्नस्तसंधिशिथिलेन पक्षसंयुटेनाच्छाथ मां तत्कालोचितं प्रती कारं मन्यमानः, स्नेहपरवशो मदक्षणाकुलः किंकर्तव्यताविमूढः क्रोडविभागेन मामवष्टभ्य तस्थौ ।’ (पृ. ७२) अत्र हिंमुमूर्षतो जराजीर्णस्य शुका निजशावकोपरि फीडशमसामान्य वात्सल्यमतितम् ।

हास्यरसस्थाऽवतारणं यथा जरद्रविडभार्मिकवर्णने-‘असकृदभिमन्त्रितसिद्धार्थकाहतिधावितैः पिला चगृहीतकैः करतलताडननिबिडीकृतश्श्रवणनासापुटेन [पिशाचाविष्टानामुपरि अभिमन्त्रितान् सर्षपान्यथै बायं विकिरति तथैवैते धावित्वाऽस्य श्रवणयोनासिकायां च चपेटां प्रददति येन चिपिटीकृतश्रवणनासि कोऽयम् ], दिवसमेब मशककणितानुकारि किमपि कम्पितोत्तमागायता, गृहीततुरगब्रह्मचर्यतयाऽन्य.. देशागतोषितासु जरत्प्रवजितासु बहुकृत्वः संप्रयुक्तस्त्रीवशीकरणचूर्णेन [अनेन घोटकवत् प्रतिबन्धवशा देव ब्रह्मचर्य गृहीतं न तु वास्तवम् । अत एव याः प्रदेशागता जरत्संन्यासिन्यस्तदुर्गामन्दिरे रात्रौ निवसन्ति तदुपरि जरद्रविडधासिकमहाभागा वशीकरणचूर्णस्य प्रयोग करोति!1, असकृत्सब देवमान तृगृहवास्यूक्षनखजर्जरितकपोलेन [अलीककामुकत्वाभिनयवशात् अभिसारलीलया आरण्यकेषु निर्जन भनदेवगृहेषु महाभागोऽयं प्रविशति यत्र हि तद्गृहवासिभिः शतशोऽयं जर्जरितकपोलो जाता, शतशः श्रीफलतरुशिखरच्युतिचूर्णितोत्तमा न [लोलुपतया बिल्वफलाहरणाय सदृक्षमारोहति। चापल्-वशाच ततोप्यधोमुखः पतति येन निकेशतया चमत्कुर्वन्मस्तकमस्य चूर्णीभवति], …जरगविडधार्मि केणाधिष्ठितां चण्डिकामपश्यत् ।’ (पृ. ४६१-६३) __ यस्मादियं किंवदन्ती (‘दण्डिनः पदलालित्यम्’)लोके प्राचरत् , मूलप्रस्रवणभूतस्य तस्य पधस्योप यपि किञ्चिदालोचनाहग् दीयते । पद्यं हि-‘उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदला. लित्यं माघे सन्ति त्रयो गुणाः ॥’ इति । अवश्यं महाकवेः कालिदासस्य विषये यदुच्येत तब्यूनम् । सिद्ध सारस्वतवैभवो महाकविचूडामणिः कालिदासो ह्यनिर्वचनीयेन काव्यगुणगौरवेण गरिष्ठः । अर्थगाम्भीर्य पदलालित्यं प्रौढि रित्यादिः सर्वोप्यभिनन्दनीयः काव्यगुणगणस्तस्मिन्वर्तत इत्युपमापि तस्याऽन्यकविभ्योऽ तिशायिनीति न कस्यचिद्विमतिः। प्रतिपदमुपलभ्यते हि तादृशमेवोपमासामञ्जस्यम् । भारवेरथगौरवमपि ‘स्थादेतत्’ इति भङ्गया तावत्स्वीकुर्मः। समयान्तरेऽस्य विचारः प्रस्तूयेत । किन्तु ‘माघे सन्ति यो

गुणाः’ इति यचतुर्थ चरणं तन्त्र मन्ये बहूनामेव मार्मिकाणां विचारः प्रसज्येत ।

माघस्य सुन्दर शिशुपालवधम् । ‘नवसर्ग गते माघे नवशब्दो न विद्यते इति किंवदन्त्यनुसारमपि शब्दगुम्फे प्रौढाऽस्य लेखनी। अलंकारादिविन्यासेन शब्दार्थयोश्चमत्कारोऽपि स्थाने स्थानेऽभिनन्दनीय एव । किन्तु कालिदासस्य पाटवमेकदेशि, यतो हि स उपमाप्रयोगे एव सिद्धहस्तः । भारविरथंगाम्भीर्य गवेषणायामेव, दण्डी पदलालित्य एव, इति सर्वेप्येकैकदेशिकाव्यसौष्ठवे पटिष्ठाः। परं माधः सर्वैरप्ये तैर्गुणैर्युक्त इति सार्वदेशिककाव्यसौन्दयेणाभिनन्दनीय इति यदि पद्यस्यास्य तात्पर्य तर्हि मन्ये स्पष्टमेव सर्वेषां प्रतीयेत यन्माघस्यातिभक्तिसूचकः प्ररोचनापरोऽयमर्थवाद एव । यतो हि कालिदासतुलनायामपि सर्वथोत्कृष्टो माधः? यतो हि यदर्थ कालिदासस्य प्रशंसा कविसमाजे प्रसका तदेतत् उपमाप्रयोगपाट बम्, तत्त्वस्त्येव माघे। तदधिको गुणस्त्वयं यत्कालिदासः केवलमपमापटिष्ठ एव, अयं तु अर्थगाम्भी र्यपदलालियादिगुणैरप्यभ्यर्हितः । एवं सति कालिदासापेक्षयापि काव्यसौष्ठवसामग्रीसमृद्धत्वं मावस्य, मार्मिक विचारसापेक्षं सिध्येत् ।

। बहवः किल संगिरन्ते यन्माघः केवलं ‘शब्दकविः । यथाकथा शब्दगुम्फ एवायं पटुः । अर्थे गाम्भी. यस्य का कथा, सामान्यत औचित्यमपि तत्र मृग्यमेव । नारदमुनेः कुथ (‘झुल’)धारिणा न केवलं हस्तिना, अपि तु पर्वतानां राज्ञा हिमालयेन साहय कियदौचित्यमावहति? मनेरागमने शान्तिमयी चित्तवृत्तिर्भवेत् , दिव्यप्रभावपूर्ण च सर्वतो वातावरण स्थादित्येव हि मुनिसमागमवर्णनख सौन्दर्य नाम ।

अथा भारवेः-‘मधुरैरवशानि लम्भयन्नपि तिर्यञ्चि शमं निरीक्षितैः।

परितः पटु बिभ्रदेनसां दहनं धाम विलोकनक्षमम् ॥१॥ प्रसादलक्ष्मी दधतं समनां वपुःप्रकर्षेण जनातिगेन ।

प्रसह्य चेतःसु समासजन्तमसंस्तुतानामपि भावमाम् ॥२॥’ अन्नं तु मुनेरागमने भूमिः कम्पते-(ते कथंचित्फणिनां गणैरंधः’)। कुलाचला दोलायन्ते, इत्यादिः खण्डप्रलयस्येव समयः समुपस्थितो भवति । कुतो वा न स्यात, स्वयं कविः कृष्णनारदयोर्वर्णने आह ‘तुषाराअनपर्वताविव ! यत्र हि द्वयोः काल-धवलयोः पर्वतयोः संघर्ष उपतिष्ठति तन्त्र का वा प्रलये न्यू नता? भगवतो रामस्य (बलभद्रस्य) यत्स्वरूपं चित्रितं तद्भयंकर मद्यपायिनमप्यतिशेते । अस्य सभामध्ये , भागमन एव घोरेण मद्यगन्धेन व्याप्तोऽभूत्सापि स्थानोद्देशः । अस्तु. एवं माघस्य वर्णनापाटवमालोचना चक्रे वक्रेण दृष्टिकोणेन चेत्परीक्ष्यते तहि माघे सन्ति त्रयो गुणाः’ इत्येष प्रस्तावो न किल सर्वसंमत्या स्त्री कर्तव्यः सिध्येत्ततश्च तत्पथगता अन्येयंशा विचारणीया एवेत्यलमन्यत्र विचारणीयेन प्रसकानुप्रसकेन ।

उपर्युक्तेन प्रघहकेन बाणरचनायां पदमाधुर्य त्वसाधारण सिद्धमेव, किन्तु तत्तद्रसानुकूलं गधनिबन्ध नचातुर्यमप्यसामान्य सिध्यति । एतदादिकमेव सर्वमालोच्य प्रोक्त जयदेवेन-‘हृदयवसतिः पञ्चबाणस्तु बाणः’ इति । अर्थात् सर्वासामपि कविताकामिनीनां हृदयदत्तस्थानतया सर्वा अपि कनिगिरो माणमाद

स्विन उन्नतत्वेन वा सर्वदा सरन्तीति रसपरिपोषपाटवमसाधारणं सूच्यते । एतस्मिन्विषये मान्यः कश्चित्कविर्वाणस्य मातिद्वन्ध्ये स्थातुमशकत् । अत एवालोचनामार्मिकैः प्रोक्तम्—–

‘युक्तं कादम्बरीं श्रुत्वा कवयो मौनमागताः।

बाणध्वनावनध्यायो भवतीति श्रुतिर्यतः ॥ [कीर्तिकौमुदी भा. २ ] ससमशताब्दीत उत्तरं ताशस्य नवीनगद्यकाव्यस्योत्पत्तिरेव न जातेति बेवरपण्डितादीनां मतम् । बाणसदृशैः समर्थैः पद्यकविताप्रभावो यः किञ्चिल्लोकानां हृदयादपसारितः स पुनर्यथावत्प्रबभूव । किन्तु संस्कृतसाहित्यस्य विगुणदैववशादाणस्य कृतिः कादम्बरी न बाणस्य लेखनीतः पूर्णा बभूव ।

उत्तरकादम्बरी पूर्वभागमेव समाप्य लोकान्तरमुपगते महाकवी बाणे, एवं विधमधुरकथाया अकाण्डे विच्छेदो महते रसानिधाताय, पितुः कीर्तिप्रसारप्रतिबन्धाय चेति भावयन् बाणपुत्रस्तदुत्तरंभार्ग विनिर्माय कयां पूरया. मास । एतस्य नाम केषांचिन्मतेन भूषणभट्टः’ इति । भपरे ‘पुलिन्दः’ इत्याहुः

‘केवलोपि स्फुरन् बाणः करोति विमदान्कवीन् ।

किं पुनः क्लप्तसंधानःपुलिन्दकृतसंनिधिः॥ (धनपालस्य तिलकमलरी) . अन्ये ‘पुलिनः’ इति नाम निरदिशन् । केषांचन मतेन ‘निचुलः’ इत्यपि नामधेयम् । एतदपि कथा अन्तः केचन श्रुता यत्—

स्थानादसात्सरसनिचुलादुत्पतोदङ्मुखः खं

दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ इति मेघदूते महाकविकालिदान निर्दिष्टः सोयमेव निचुल इति । सोयं भ्रम एव तेषाम् । महाक विणिस्तरपुत्रश्च कालिदासस्य बहोः कालादनन्तरं जातः । न तस्य सरणं पूर्वभाविना कालिदासेन कर्तु शक्यते । मेघदूतं चादिमकालिदासस्यैवेति तु क्षेमेन्द्रेण ‘कविकण्ठाभरणे’ मन्दाक्रान्ताच्छन्दो महाकवेः कालिदासस्यैव सर्वापेक्षया मधुरमिति प्रस्तावे प्रोक्तम् । किञ्च मेघदूते निर्दिष्टेन-चिन्नकूटादारभ्य कैला. सपर्यन्तेन मेघगमनमागंण ‘महाकविः कालिदासो भूगोलविषयेपि परममार्मिकोऽभूत्’ इति गवेषक साध्यते । ततश्च सर्वथा सोऽयमकाण्डसंलाप एव केषांचिदिति निश्चितम् ।…. .’ यत्किञ्चिदस्तु, एवंविधः पुत्रो विरलैरेव महाकविभिरवातः स्याद् येन हि अकाण्डे, विच्छिन्ना पिता कृतिरेवमविभावितविभाग संयोजिता स्यात् । सर्वतः काठिन्यमिदमेव यत्पूर्वाध नाधिका कथाभागः सूचितश्च संगृहीत कविना । तन हि राज्ञः शूद्रकस्य सविधे शुकस्यागमनम् , तन्मुखेन चन्द्रापीडस्य जन्म, दिग्विजययात्राप्रसङ्गेन महाश्वेताश्रमे गमनम् , तन्मुखात्तस्याः पुण्डरीकेण प्रणयः, समागमात्पूर्व मेव पुण्डरीकस्य देहत्यागः, आकाशवाण्या पुनःसमागमसूचनात्तप्रत्याशायां तपश्चरणम्, ततो महाधेता नुरोधेन कादम्बरीदर्शनम्, तत्प्रणयः, चन्द्रापीडेन कादम्बरीसविधे पूर्व प्रापितायाः पत्रलेखाया कादम्ब

रीसंदेशं तदुपालम्भं चादाय चन्द्रापीडसविधे आगमनम्, भस्सिन्स्थान एव पूर्वभागस्य समातिभवति ॥ पुण्डरीकस्य शापवशाद् वारद्वयं भूमौ चन्द्रमसो जन्मना भाव्यमिति कथासंघटनाय चन्द्रापीडस हृदय स्फोटः, पुनस्तेनैव देहेन कादम्बरीसमागमः, पुण्डरीकस्य वैशम्पायननान्ना जन्म, महाश्वेताशापेन शुक देहप्राप्तिः, तस्यैव शुकस्य शूद्रकसविधे गमनम् , चन्द्रापीडस्य शूद्रकनाना भूमौ संभवः, शापविमुक्तो छ

ड-पुण्डरीकादीनां सर्वेषां स्वस्वाभीष्टप्रातिरिति सोप्यकाण्डविच्छिन्नः कथाभागो बाणपुत्रेणेष संघटित इति महदेव मेधावत्वं संघटयितुः सोयं सूचयति । .. अवश्यं बाणो बाण एव, तत्पुनश्च तत्पुनः । इतिहासपुराणादिषु. बाणस ययापकं पाण्डित्यम्, व्याकरणादिषु या व्युत्पत्तिः, रचनायां प्रसादा, अक्षरसंघटनायां माधुर्यम्, एतदादिगुणेषु उत्तरकादम्ब

मिवश्यं न्यूनता विलोक्येत । रचनायाः प्रौतिः, परिपाकश्च वयाक्रमेणैव जायते । श्रीमतो बाणस्यैव हर्षचरिते या रचना तदपेक्षया कादम्बर्यामसाधारण्येव प्रौतिः, प्रौढताप्रकर्षेपि अभूतपूर्वमेव माधुर्यम् , प्रतिपदं प्रस्फुरन्प्रसादश्चाप्यवलोक्येत । एष किल परिपाकोऽनुभवेन वयसा च समुत्पद्यते, यौवने न तस्योडवः सुसंभवी । अत एवैतत्कृता त्रुटिर्न किश्चिद् गणनीया । तस्मादेव-अपि चेदानीमानीतस्यापि कुमारस्यः’ इत्यादिः प्रारम्भिक एवं वाक्यसंदर्भः परस्परमन्वयेऽर्थांशसंघटने च वाचयितुः काठिन्यमु स्पादयति । किन्तु सर्वतो विकीर्णा विच्छिन्ना च कथा छानेन तथा संघटिता यथा तत्प्रवाहपतिताः सर्वा अपि त्रुटयो न सहृदयस्य मनस्यास्खलन्ति ।

वर्तमानकालिकाः ‘उपन्यास’कारा घटनावैचित्र्यस्याभिमानमावहन्ति । किन्तु कादम्बरीकथायां घट नागतं तादृशमाश्चर्य यस्य हि पूर्वापरसंघटनपूर्वकं मार्मिकतयाऽऽलोचने कृते संघटन चतुरस्यापि चेतश्चि श्रीयेत । यः शुको यश्च शूद्रकः कथायाः प्रारम्भिके दृश्येऽस्मसंमुखमायाति, एतदेव दृश्यमन्तिमतया परिणमति । शुकपक्षरमादाय या ‘चाण्डालदारिका’ राजसभी प्रविशति तस्या वर्णने-‘किरातवेषामिव भवानीम्, नारायणदेहप्रभाश्यामलितामिव श्रियम्, रुधिररक्तचरणा मिव कात्यायनीम्’ इत्यादीनि पूज्य. देवतासाम्यसूचकानि चाण्डालकन्यकाविशेषणानि हृदये किञ्चिदाश्चर्यम् , कवीनां निरङ्कुशतां च निर्विश कमरयन्ति । किन्तु सत्यमेव सा अन्ते लक्ष्मीः परिणमति ! कि वर्तमानकालिकोपन्यासघटनातो न्यून मिदम् । एवंकथानिर्माणपाटवेऽपि कवयितुर्विनयः पितृभक्तिश्च किञ्चिदालोच्यतां यत् कृतिसमाप्तौ स्वस्य मामपर्यन्तमपि न निर्दिष्टम् । ‘बाणतनयः’ इति संकेतेनैव स्वपरिचयो दत्तः ।

बाणस्य वंशश्चरित्रं च - कान्यकुशप्रदेशे शोणनंदस्य पश्चिमतटे प्रीतिकूटनामा प्रामो बाणभट्टस्य पारम्परिको वासः । वास्थ गोत्रजातो वैदिकक्रियाकुशलो वैदिकप्रवरः कुबेरनामा पण्डितः सर्वतः पूर्वमिमं प्राममध्यवात्सीत् । तस्य पुत्रः पाशुपतः, तत्तनयश्चार्थपतिरासीत् । अर्थपतेरेकादश पुत्रा अभूवन् । तेषामष्टमाचित्रभानो राजद्रे व्यभिधानायां भार्यायाममाकं चरितनायकस महाकविशिरोमणेः श्रीमतो बाणस्य जन्माऽभवत् । बाणस्य जननी शैशव एव परलोकमगात् । चित्रभानुरेव तनयं बाणं मातृवत्परमप्रेम्णां परिपोषयन् , उपा घ्यायचदावश्यकं पाख्यजातं शिक्षयन्, पौगपडं प्रापयामास । यथाविधिसंस्कारोसरं बाणस्य चतुर्दशे ‘वर्षे चित्रभानुर्लोकान्तरमगात् । यौवनसमये संगदोषेण बाणस्य चरिने स्वातन्त्र्यमधिकमुदियाय । एतस्य ये ये सहचराःसमभवम् तेषां नाम-परिचयादिकं पूर्व सूचितवानसि । तैः साकं स्वदेशानिर्गतोऽयं नाना विधान्देशान्पर्यटन , बहूनां नरपालानां सभामुपतिष्ठमानः, नानाविधैः पण्डितैश्च सह सख्यं च संवादं

च संबननयं बहुतरमेवानुभवं ज्ञानं चोपार्जयामास ।

मध्ययौवने देशाटनजन्यं बहुतरं लाभमुपाय सोयं स्वदेशं प्रत्याववृते । पितृपरम्परातो बाणसाश्रय दाता कान्यकुब्जेश्वरो हर्षवर्धनो बाणस्यागमन परिज्ञाय दूतमुखेन तमाजुहाव । लोकानां मुखाराणस्य स्वातन्यादिविगुणचरितानि पूर्वत एव श्रुतवान् कान्यकुब्जाधिपतिः ‘महाभुजङ्गः खल्वयमागतः’ इति समीपस्थं सदस्यं प्रति व्याजहार । अतीव मार्मिको बाणो निभृतजल्पितमपि तदाकण्यं ज्ञानगौरवानि जापमानमाकलयन् मनसि परमं चुकोप । ‘निजविचारेण निर्णीयतामखिलम्’ इति जल्पन मनस्वी सोय सगौरवं सभामिमामातस्थौ । अथ प्रसङ्गेन सभास्थितैः परमप्रगल्भैरपि पण्डितैः सह शास्त्र विचारे सर्वा धिक वैचक्षण्यं ख्यापयन् सोय कान्यकुलेश्वरस्य हृदि परमं गौरवमास्थापयामास । राजा बाणं प्रधानोपा ध्यायपदमध्यारोपयामास ।

• हर्षवर्धनस्य सभायाम् ‘मयूरभह-मातङ्गदिवाकर नामानावन्यावपि राजकवी आस्ताम् । शनैः शनैराभ्यां सह बाणस्य सुदृढः संबन्धोऽभूत् । एनयोरनुरोधेन बाणो हर्षवर्धनस्य चरितं ‘हर्षचरित’नाम्ना आख्यायि काकाव्येन मधुरं निबबन्ध । वयसोऽन्तिमभागे ‘कादम्बरी’नामिकामिमां कथामारेभे, यां हि अर्धमात्रा मेव निर्माय बाणः परलोकपथिको बभूव । तत्तनयेन ‘भूषणभट्टेन’ पूरिता साऽस्माकं संमुखगा वर्तते ।

अयं बाणभट्ठस्य वंशवृक्षा

ब्रह्मा


पुलह

चात्त्यः

कुबेर

___ अध्युतः

ईशानः

हरः पाशुपतः

मर्थपतिः

भृगुः इंसः शुचिः कविः महीदत्तः धर्मः जातवेदाः चित्रभानुः व्यक्षः अहिंदत्तः विश्वरूपः

।. . । ..,

बाणभट्टः

. .. भूषणभट्टः

बाणसमये सामाजिकी परिस्थितिः तमिन्समये वेषविन्यासो विचित्र एवं प्राप्यते । राज्ञः शूद्रकस्य वर्णनेन ज्ञायेत यद् राजापि केवल विसंस्थुलपाय श्वेतवस्त्रं शिरसि घेष्टयति । अङ्गे च केवलमुत्तरीयं स्कन्धयोहति । यतो बङ्गरागः शरीरे विलिप्यमानः स्फुटमवभासते । सर्धेषामेव पात्राणां वर्णने भङ्गरागस्य सुमहबाहुल्यम्, बस्त्रस्य च वैर व्यम् । कादम्बरीप्रेरितः केयूरकनामा वीणावाहकः केवलमधोवसमेव धारयति, नोत्तरीयमपि-अधर वास एव केवलं वसानेन… (पृ. १७४)

थेषविन्यासादिषु वैचित्र्येऽपि बयः सामाजिकप्रथा वर्तमानकाल इव तदाऽप्यासन् । होलिकायां नानोपद्वाः, विरूपरूपक (स्वाँग)निःसारणादिप्रथा यथा साम्प्रतमति तथा बाणसमयेऽप्यासीदिति चित्रम् । द्रविडधार्मिकपरिचये यथा-‘सर्वदा वसन्तक्रीडिना जनेनोक्षिसखण्डखदारोपितवृद्धदासीवि वाहप्रासविडम्बनेन (पृ. ४६३).

बाणस्य समये आन्ध्रदविद्धसिंहलादिदेशीयाः (आदिमनिवासिनः) मध्यदेशीय राजभिर्विजिल्ला खाधीना अक्रियन्त । अत एव कृष्णसुदृढगाना वीरप्रायासे राक्षां सेवाकार्येषु बहुलतया उपायोज्यन्त । प्रतिष्ठा शोभा च तादृशैः सेवकवर्गस्तदा भूपालानामज्ञायत । सूच्यते तदिदमैतिहासिक वृत्तमुजयिनी राजभवनवर्णने-‘धवलचन्दनस्थासकखवितभुजोरदण्डेन बद्धासिधेनुकेनान्ध्रद्रविडसिंहलप्रायेण सेव कजनेन…’ (पृ. १९४)

एवमादयस्तसामयिक्यो भूयस्यो घटनाः सूच्यन्तेऽस्मिन् ग्रन्थे, यासां गवेषणेन बहुतरमैतिहासिक सामाजिक च तथ्यमवगतं भवति । किन्तु भूमिकायां भूयान विस्तरः स्यादिति समयान्तरार्थ तत्परित्यज्य ‘वर्णिका (‘बानगी) मात्रमिह दर्शितम् ।

स्वयं बारस्यस्तु पुलहार’ इति ब्रह्मवैवर्तपुराणम् । वात्स्यांदनन्तराणां बहूनामेव पुरुषाणां नामानि न लभ्यन्ते । २ हर्षचरिते स्फुटमिदम् ।

.

1

1 1

'

.

..

P

.

LAB

'

.

मि

.


'

.

.

.

.

:.:.:.::: ::..

PREHEN

A-BASE

.

S

कादम्बरी।

वर्णनायामत्युक्तयः सौन्दर्यवर्णनादिष्वत्युक्तयः प्रायः पूर्वत एक्प्रचलिताः कवीनां खभावसिद्धा इव । ‘मुखं दृष्ट्वा चन्द्रोड यमिति बुद्ध्या पूर्णिमावतकारिणस्तदग्रत एव कुसुमाय व्यतरन् । ‘तस्या मुखकान्या तत्प्रतिवेशे सर्वा तिथयः पूर्णिमा एव भवन्ति । अन्यास्तिथयस्तु पञ्चाङ्गेनैव बोध्याः’ इत्यादि । एवमुदात्तालंकारविधया राजादीनां समृद्ध्यतिशयोपि पुरातनैः प्रचुर प्रख्यापित एव । ‘राजाश्रितानां कवीनामपि सदनेषु महाघ मुक्तामणयः संमार्जनीभिर्दूरमवक्षिप्यन्ते ।’ ‘वृक्षाणामालवालाश्चन्द्रकान्तमाणिभिनिर्मिताः । अत एवं चन्द्रकिरणसंस्पर्शास्त्रवजलपूर्णेषु तेषु स्वतः सिच्यन्ते पादपाः।’

बाणोऽप्यसिन्विषये न कसाचित्महीणः । कादम्बर्याः शीतोपचाराय मौक्तिकानि संचूर्य प्रतिक्षणं जलं विकिरता यन्नवृक्षाणामालवाला विरचिताः । हरिचन्दनद्रवस्य दीर्घिकाः पूरिताः । गन्धोदकपूरितेपु कूपेषु घटीयत्राणि (मरहट) तादृशानि कृतानि यन्त्र केतकपत्रमयानि पुटकान्येव जलाधारपात्राणि । कुवलयावलीनां रज्जुः’ इत्यादि (पृ. १३९)। कादम्बरी गन्धर्वराजपुत्री । अत एव दिव्यमिदं वैभवं संभवेत् । किन्तूजयिनीराजभवनेपि निष्कुटेषु मणिभिः क्रीडापर्वता एव निर्मिताः । येषां मणिशिलासु अबलानां चरणालतकैरद्धव शोभा भवति । जालवातायनविवरेभ्यो महायरल किरणास्तथा निष्पतन्ति बे मणिखचितकनकशृङ्खला इव बहिनिःसरन्तः प्रतीयन्ते (पृ. १९०)।

एतत्सर्व धनसमृद्धिप्राचुर्यम् । प्राकृतशोभाप्राचुर्यमपि समृद्धिशालिषु भूपभवनेष्वत्सद्भुतमेव । गृहो. थानेषु चकोरकादम्बहारीतादयस्तु वृक्षेषु बिहरन्तः शोभन्त एव । किन्तु कस्तूरिकाकुरङ्गा अपि तत्रेत स्ततः संचरन्ति । ते च नैकद्धाः, अपि तु अपरिमिताः, गृहवासिनां च परिचिताः । येषां नाभिपरिमलेन दिकमुखान्येव सुरभित्तानि भवन्ति (पृ. १९५) । कस्तूरिकामृगो न यत्रकुत्रचित्स्थातुं शक्नोति । हिमा लपस्य हिमाच्छादितस्थलेष्वेव स प्रकृतिनियमतः प्राप्यते इत्यभिज्ञा वदन्ति । किन्तु कविप्रतिभा तमपि राजभवने निगडयामास । …समृदिमिव राज्ञां संमानमध्यसामान्य कविरेष चित्रयामास । न केवलमाश्रिता एव, अपि तु मूर्दा भिषिका राजानोपि तारापीडस्य चरणो मौलिमालाभिरुपरजयन्ति । राजकीयपुरुषं दृष्टैव सर्वे ससंमान. मभिगच्छन्ति । राजा, राजसचिवादयोऽपि राजधर्म परिनिष्ठिताः, सब्यवहारिणः । अतीवनम्रा उपचार चतुराश्च । राजकुमारश्चन्द्रापीडोऽप्युपचारस्य चरमसीमानं स्पृशति । ‘चरणरजोरूपाः दासानुदासावय’मि त्यादीनि विनम्रवचनानि प्रसिद्धान्येव । यवनभाषापटवोपि ‘खाकसार’ इत्यात्मानं व्यपदिशन्तो विनयाति कायमसामान्यमभिनयन्ति । किन्तु बाणेन तत्सीमाप्यतिललिता । चन्द्रापीडः स्वविनयमभिग्यनकि

क्षसजनकथाकीर्तनेषु सर्तव्यः खलु चन्द्रापीडचण्डालः । [पृ. ४५२] ।

कादम्बरीकथा सेयं कादम्बरीकथा बाणभट्टेन तत्समयसुप्रसिद्धाया बृहत्कथाया भाधारण गुम्फिता । यतो हि सद्ग तमकरन्दिकोपाख्यानमेतस्या मूलम् । तदीयपात्राणां नामान्तराणि विधाय, कथायाश्च रसानुकूल्येन किञ्चिव्यत्यासमारचय्य सेयं कथोझाविता । महाकविक्षेमेन्द्रसोमदेवयोः.. समयपर्यन्तम् (सि. १०६१ वर्षपर्यन्तम्) गुणाब्यरचिता बृहत्कथा सुलभासीत् । अत एव हि तदाधारेण ताभ्यां बृहत्कथामारी कथासरित्सागरौ रचितौ । एवं च लि. षष्ठशतकोत्पन्नस्य बाणस्य सा समुपजीव्या स्यादन किमाश्चर्यम् ।

H

-2

BE

SHETRA

PRE-RE

‘..

सार

'

'

FOR

*——…—

१ ‘हसितः प्रशंतसा सखि विरमावसथिकजनः पत्या। विधुरिति तव किल वदने बितीर्णकुसुमाअलिविलक्षः ॥’ (गाथासप्त० ४१४६) २ पत्रा ही तिथि पाइथे वा घरके चहुँपास । नितप्रति पूनोंही रहत आनन ओप उजास ॥’ (विहारी) तद्गृहममितस्तिथिमहो पञ्चाङ्गादवयाति । वदनविभाप्रतिभासतः प्रतितिथि पूर्णा भाति ॥ [साहित्यवैभवम् ] १ ‘संमार्जनीभिः परतः क्रियन्ते विसंत्रहारावलिमौक्तिकानि ॥’ (नवसाइसाइचरितम्) ४ नैषधीयचरिते प्रसिद्धमेव ।

SE

11

  • Si

उपोद्घातः।

M

-:

.

……

किञ्च बृहत्कथाधारेणैव कादम्बरी व्यरध्यतेत्यस्थाऽन्यदपि चिह्नमधिगम्यते । कथाभागेन सह चित चिचमत्कारकोऽर्थोऽलंकारादिकश्चापि बाणेनाविकलं बृहत्कथाया एवोपजीवितः । यतो हि बृहत्कथामञ्जयां यो वृहत्कथागतो वर्णनाचमत्कारः संक्रान्तः कादम्बामपि सोऽबिकलमुपलभ्यते । यथा ‘कर्णीसुखशा कटकः स्तेयशास्त्रप्रवर्तकः । ख्यातौ तस्य सखायौ द्वौ विपुलाचलसंज्ञकौ ॥ शशो मत्रिवरस्तस्य’….“इति (मकरन्दिकोपाख्याने बृहत्कथामजरी)। एवं विन्ध्याटवीवर्णने-‘कर्णीसुतकथेव संनिहितविपुलाचला, शाशोपगता च।’ (कादम्बरी)। ‘यस्यां वसति विश्वेशो महाकालवपुः स्वयम् । शिथिलीकृतकैलासनि भासव्यसनो हरः ॥’ इति (कथासरित्सागरः)। ‘मलयानलशिखाकलापकपिलजटाभारभ्रान्तसुरसि मधुरन्धकारातिभंगवानुत्सृष्टकैलासवासप्रीतिर्महाकालाभिधानः स्वयं निवसति’ इति (उज्जयिनीवर्णन कादम्बरी)। ‘पुरा मुनयः किन्नरराज्ये द्रुमनामकं नृपमभिषेचयामासुः’ इति बृहत्कथा । ‘किंपुरुषाधि राज्यमिव मुनिजनगृहीतकलशाभिषिच्यमानगुमम्’ इति जाबाल्याश्रमवर्णनकादम्बरी।

कथासरित्सागराधारेण कादम्बरी विरचितेति वदतां श्रीहरिदाससिद्धान्तवागीशादीनां मन्ये कथास रित्सागरपदेन बृहत्कथातस्तात्पर्यम् । अन्यथा सुतरां प्राचीनः सि. षष्ठशतकोत्पन्नो बाण एकादशशतको पकं कथासरित्सागरं कथंकारमुपजीवेत् । अस्तु. बृहत्कथागता कादम्बरीमूलकथा संप्रति कथासरित्साग रख उनषष्टितमतरङ्गान्तर्मकरन्दिकोपाख्याने द्रष्टुं शक्या। तत्र हि कानि नामानि, बाणभट्टेन च कानि परिवर्तितानीत्यधो दीयन्ते

कथासरित्सागरे

. कादम्बर्याम् काञ्चनपुरी

विदिशा सुमनाः .

शुद्धका मुक्तालता

चाण्डालदारिका शास्त्रगाः (शुकः)

वैशम्पायनः हिमालयपादे रोहिणतरुः

विन्ध्याटव्यां शाल्मलीत मरीचिः

हारीतः पौलस्त्यः

जाबालिः .. रखाकरं पुरम् : …..

उज्जयिनी नगरी … ज्योतिष्प्रभः

तारापीडा… हर्षवती

विलासवती . सोमप्रभः

चन्द्रापीडः प्रभाकरः

शुकनासा प्रियङ्करः.

वैशम्पायनः आशुश्रवाः (उच्चैःश्रवसः पुत्रः)

इन्द्रायुधः पाकूटः

हंसः हेमप्रभा :

गौरी मनोरथप्रभा

महाश्वेता दीधितिमान

श्वेतकेतुः रश्मिवान्. . …

पुण्डरीका सिंहविक्रमः (विद्याधरराजः)

चित्ररथः (गन्धर्वराजा) मकरन्दिका

कादम्बरी, देवजयः सिंहविक्रमा शुको जात

पुण्डरीको मध्ये वैशम्पायननामा मनिपुत्रा

परस्ताच्च तमामक एव शुकोभवत् । रश्मिवान् सुमना अभूत्।

चन्द्रापीडः अबकोऽभवत् ।

विद्यार्थिनां कृते काव्यस्वरूप-नायकादिनिरूपणमधस्ताहीयते : कादम्बरीनामेदं कथाकाव्यम् । यथा साहित्यदर्पणे

‘कथायां सरसं वस्तु गद्यैरेव विनिर्मितम् ।

क्वचिदन भवेदार्या कचिद् वापक्रके।

— भादौ पद्यनमस्कारः खलादेवृत्तकीर्तनम् ॥ असिन्काव्ये साहिले लक्षितानि चतुर्विधान्येव गद्यानि दृश्यन्ते । किन्तु, उत्कलिकाप्रायमेव गद्यमाधि क्येन । कचिचूर्णकमपि । तेषां लक्षणानि यथा

‘वृत्तबन्धोज्झितं गद्यम्-‘मुक्तकम्’, ‘वृत्तगन्धि’ च । भवेत् ‘उत्कलिकामायम्’ ‘चूर्णकं’ च चतुर्विधम् ॥ आधं समासरहितं वृत्तभागयुतं परम् ॥

अन्यदीर्घसमासाढ्यं तुर्य चाल्पसमासकम् ॥’ भन्न अनुकूलो धीरोदात्तचन्द्रापीडो नायकः । लक्षणं यथा

___ ‘अनुकूल एकनिरतः अविकत्थनः क्षमावानतिगम्भीरो महासत्वः ।

स्थेयानिगूढमानो धीरोदात्तो दृढयतः कथितः ॥’ नायिका कन्या (परकीया) मुग्धा कादम्बरी । यथा

‘कन्या स्वजातोपयमा सलजा नवयौवना’

_ ‘परकीया द्विधा प्रोक्ता परोढा कन्यका तथा ।’ . । ….. प्रथमावतीर्णयौवनमदनविकारा, रतौ वामा।

कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ॥’ परिणयोत्तर स्वकीया मध्यापि च नायिका, किन्तु (उत्तरार्द्ध) तत्प्रसङ्ग स्वल्प एव। ।

काग्येऽस्मिन् विप्रलम्भशृङ्गारोऽङ्गी रसः। तस्यापि भेदेषु-पूर्वार्धे, उत्तरार्धस्य कियदंशे च पूर्व रागाख्यः। उत्तरार्भशेषे तु करुणविप्रलम्माख्यः। संभोगङ्गारोप्यस्ति, परं परिणयोत्तरं तसूचनमात्रमेव । लक्षणादि यथा

‘यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसौ ।’ . ‘श्रवणाहर्शनाद्वापि मिथः संख्ढरागयोः।

. दशाविशेषो योऽप्राप्तौ पूर्वरागः स उध्यते ॥’

‘यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये।

विमनायते यदैकस्तदा भवेत् करुणविप्रलम्भाश्यः ॥’ भातथा हाखादयोऽन्येपि रसाः सन्ति । - बाहुल्येनात्र माधुर्य गुणः । यथा

. ‘चित्तद्रवीभावमयो लादो माधुर्यमुच्यते ।

संभोगे करुणे विप्रलम्भे शान्तेऽधिकं कमात् ॥’ प्रसादगुणोपि बहुत्र । रीतिरन्न पाञ्चाली’ बाहुल्येन यथा–.

‘वर्णैः शेषैः पुनयोः (वैदर्भागौडीययोः परिगृहीतेभ्यो वर्णेभ्यः शेषैरित्याशय

समस्तपञ्चषपदो बन्धः पाञ्चालिका मता.॥’ अन्या भपि रीतयो यथास्थानं सन्ति, परम प्रधान ताः।

माता का नाम

कमान

45–14A

HRAgreaternakpieleliveryHARAPATRIEDyayiw

उपौद्धातः । विद्यार्थिनां सौकर्याय सर्वसंग्रहश्लोकोयम्

‘चन्द्रापीडोऽनुकूलः सकलगुणधरो नायकोऽस्मिन्नुदात्तो

नेत्री कन्याऽन्यदीया मृदुललिततनुर्मुग्धकादम्बरी च । पाञ्चाली नाम रीतिर्विलसति बहुला, विप्रलम्भो रसोऽङ्गी __ माधुर्याख्यो गुणो वा, कविमुकुटमणेः काव्ययोरन्त्यमेतत् ॥’

टीका

श्रीभानुचन्द्रगणि-तच्छिष्यसिद्धचन्द्रगणिमहोदयाभ्यां विरचिता सेयं व्याख्या मोगलसम्राजोऽकबरस्य समये निरमीयत । यतो हीमो अकबरसम्राजा सभाजिताविति ताभ्यामेव पुष्पिकायां स्वहस्तेन लिखितम् । गुरवे भानुचन्द्रगणिने सनाजा महोपाध्यायपदमर्पितम् । महाभागेन चानेन ‘शत्रुजय’ करो मोचितः । शिष्योपि सम्राजा ‘घुस्युदमा’ इत्युपपदेनालङ्कृतः । सेयं व्याख्या प्रत्येकपदस्य पर्यायप्रकटन एवं व्यग्रा, कामं स पर्यायशब्दः ‘इन्द्रस्य टीका बिडीजाः एव किं न भवेत् । एको यः शब्दः पर्याय स्वेनादौ परिगृहीतः, अन्तपर्यन्तमपि स एव पदे पदे व्यवहियते । यथा-ग्रन्थे यत्र यत्रापि सुखपदमा यातं तत्र तत्र ‘सातम्’ इत्यनेनैव व्याख्यातं महाभागेन । ‘भ्रान्तिः आरेका, जरा विस्त्रसा, कुवलयं कुवेलम्’ इत्यादिरूपेणैव सर्वत्र व्याख्यातवानयम् । पर्यायशब्दनिवेशो हि जिज्ञासूनां सारख्येन बोध नायैव भवति । सरलस्यापि पर्यायपदनिवेशः करणीय एवेति न ब्रह्मवाक्यम् , किन्त्येतस्योपरिन मनागपि दृष्टिनिक्षेपष्टीकाकर्तुः । स्नानप्रकरणे आगतं स्नान’ पदं कादम्बरीमारभमाणस्य कृते न बज्रसार स्यात् , किन्तु सानपीठस्य पर्यायपदम् ‘आप्लवनचतुष्किकाम्’ इत्येव कृत्वाऽयं कृती भवति । कुत्रचित्तु मूलपदं साध्यं भवति, टीकाकर्तुयाख्या तु ज्ञातमप्यर्थ श्रमिचक्रे निपातयति । यथा ‘इन्द्रगोपैः (वर्षाकीटेः)’ इत्यस्य व्याख्या ‘अग्निरजोभिः’ इति । कोऽस्यार्थ इति हि विदन्तु विद्वांस एव । ‘विन्ध्यः जलवालका, निगडः अन्दुकः, मदनः जराभीहा, धूमो दहनकेतनः, जानु नलकीलकः’ इत्यादिरूपेण कृता व्याख्या क्रियते उपकारायेति चिमुशन्तु मनीषिण एव ।

· कुत्रचित्तु व्याख्यापाटवं तथा प्रकाशयति यथा कृतबुद्धिरपि वराको अन्थस्वारखं विहाय व्याख्यापदा नामर्थबोधायैव व्यग्रो भवति । नगरं ‘द्रङ्गम्’ इति कृत्वा व्याख्याति । ‘लता’पदस्य हि सुप्रसिद्धोर्थः । किन्तु टीकाकारस्तदर्थमाह-‘सरलघुक्षः’ । अन्न हि तन्नामको वृक्षविशेषः सर्वस्यैव बुद्धिनिष्ठो भवेत् । भूयस्सु स्थलेषु तु टीकाकारस्य व्याख्यामालोक्य क्षमाशीलस्यापि मानसमुढेलं भवति । ‘निर्लक्षणा पाण्डुरपृष्ठा’, ‘दावानलशङ्का वनवालिद्वापरः’, ‘वसन्त इव इप्य इव’, इत्यादिव्याख्या कस्य क्षोभाय न भवेत् ? .. काव्ये च साहित्ये च टीकाकारमहोदयस्य कियत्पाण्डित्यमिति स्वने निवेदयिष्यामि, किन्तु पर्यायश ब्दान्वेषणे सर्वमपि वैदुष्यमेष निःशेषयतीति तु प्रत्येकमार्मिकस्यैवाऽवगतं भवेत् । ‘निष्पतन्तीम्’ इत्यस्य टीका करोति अधःसंयोगफलिका क्रियां कुर्वन्तीम् । श्वसन्ती’ इत्यस्यार्थमाह ‘एतनं गृह्णन्ती’ । ‘एतनं गृह्णन्ती’ इत्यस्यार्थ एतस्मिन्काले किमु सहसैवोदयेत् ? परं सर्वस्यापि पदस्य यत्किञ्चित्पर्यायपदमवश्यं निवे श्यम् । पर्यायस्थापनेनैव टीका सुटीका भवतीति महोदयस्यास्य विचारः । किन्तु पर्यायनिरपेक्षस्य पदस्य : बलात्पर्यायसंनिवेशे कुत्रचित्कुत्रचित्कीदशोऽनर्थः संभवतीति तु नास्य महाभागस्य विचारशक्तिरपि ।

सूक्ष्ममीक्ष्यतां तावत्–गमकाव्यं हि कवीनां कृतित्वपरीक्षायै निको नाम । गधकाव्येष्वपि ‘कथा’ काव्यमतिमनोहरम् , यद्धि वर्तमानकालिक उपन्यास (Novel) स्थापनीयम्। तत्रापि-वाचयतामाहार रुचिमपि तिरोदधत्तदिदं काव्यमस्ति यस्य लेखको मार्मिकाणां शिरोमणिः श्रीमान्बाणः । तस्यैव काव्यस्य नायिकायाः सौन्दर्यसारसंघटिताया देवाङ्गनायाः (कादम्बाः ) सौन्दर्यवर्णने महोदयोय ‘नाभिम्’

::.

.

J

१ महामहोपाध्यायहरिदाससिद्धान्तवागीशभट्टाचार्थटीकाभूमिकायाः सोयं संदर्भ उद्धृतः ।

कादंबरी प्र० ३

"

M

Santa

..

SENTIANE

T

ARA

H

TENIMATRAGRAT

E

xaoratTATIrrf… 33. ’ .,

"

us

-’. TRESe…

-.”.

:-.

.-

.:

:21 EM

7

3

05

….

ai

A


कादम्बरी। व्यपदिशति ‘तुन्दकूपीम्’ इति ! तुन्दपदं हि प्रचण्डोदरायाः कस्याश्चित्पम्फुल्यमानमुदरं सूचयत् (यतः प्रफुल्लोदरस्तुन्दिल इत्युच्यते) गहनान्धकारितं महान्तं नाभीगत चेतसि चित्रयतीति मन्ये न वक्तव्यं भवेन्मार्मिकाणां कृते । किन्तु सर्वतो निमीलितनयनोऽयं न किञ्चित्पश्यति । येन केनापि रूपेण पर्याय पदस्थापनायैव सहस्त्रनयनः सन् सोयं जागरूकः । अन्यदपि व्याख्यानं दृश्यताम्-‘तडिशिः ऐराव तीभिः’, ‘शुष्काणि वानानि’, ‘पिपासा उदन्या’, ‘वल्कलोपान्तेन चोचाञ्चलेन । वल्कलोपान्तमित्यस्य योऽथ न ज्ञातवान् तदर्थ ह्येषा’ व्याख्याऽपेक्षिता, तस्य कृते चोचाञ्चल मिति किं सुखबोध्यं भवेत् ? प्रसिद्धाऽप्रसिद्धयोरन्तरं न विदन्नेव किं निरन्तरव्याख्या’कारो भवति ?

टीकाकारमहाभागस्य व्याकरणज्ञानमध्यलौकिकम् । कर्म-कर्तृवाच्ययोः सर्वत्रापि निरर्गलं प्रयोगः । ‘कृतान्तमुखकुहरादिव विनिर्गतमात्मानं मन्यमानः (अहम्) इत्यत्र ‘मन्यमानः’ इति कर्तृवाच्यक्रि यायाः ‘ज्ञायमानः’ (पृ. ७४) इति ब्याख्या । एवं प्रायः सर्वत्रैव । आत्मनेपद-परस्मैपदव्यत्ययाः पदे पदे । ‘बजमानानीव’ संचरमाणानीव’ (तृतीयान्तयोगं विनापि)। ‘निमज्जमानम्’ ‘कम्पति सति’ ‘उत्पश्यमानः’ (पृ. ७५) ‘अजनिषम्’ इत्यादीनि स्थाने स्थाने । लिङ्गव्यत्ययाः प्रतिपदम्-‘बाहुव

यालिङ्गनान्’ ‘दन्तक्षतान्’ ‘कर्णावतंसानि’ ‘त्यज्यमानासु सत्सु, श्वेतायमानासु सत्सु’ (पू. ५४७)। ध्वनिशब्दस्य, ‘रक्तिमा’ इत्यादिइमनिच्प्रत्ययान्तानां च प्रायः स्त्रीत्वमेव प्रयुक्तम् । ‘पुस्तकान शास्त्रान्’ (२०५)। ‘अप्रापम् , अप्रार्थयत,’ इत्याद्यपि बहुत्र । शिष्या इत्यस्य लोकोत्तरा व्याख्या ‘शिष्यिणी’ इति (पृ. २२०) । ‘पराभवितस्य’ ‘रुदनम्’ (पृ. ६८२) ‘कार्यताम्’ इत्येतस्य व्याख्या ‘काराय्यताम् इत्यादि (‘कराइये’ इति ‘हिन्दी दृष्ट्वा’) (पृ. ६६३)

अलौकिक व्याख्यानपाण्डित्यं तु स्थाने स्थाने, यस्य शोधन ‘चषक टिप्पण्या कर्तुमाचेष्टितम् । इह तस्योल्लेखे मुधैव भूमिकाकायवृद्धिः स्यात् । यथा.‘दिग्विजयमालध्वजेन,……त्रिभुवनमलङ्घयत रजसा’ अर्थात् सैन्यसंघर्षोत्थं रजश्चन्द्रापीडकृतदिग्विजय मालध्वजः (माङ्गलिककेतुदण्डस्वरूपः)। ध्वजवदुस्थानसादृश्यात् रजसि धनजस्वरूपणम् । टीकाकारमहाभागो व्याचष्टे-‘दिशां ककुभां यो विजयः तत्र यन्मङ्गलं विघ्ननिवारकदधिदूर्वादिः तस्य ध्वजेन केतुना’ (पृ. २४९)। (इयं लक्ष्मीः ) पुस्तम स्यापि (अचेतनपुत्तलिकारूपापि) इन्द्रजालमाचरति [अकस्मात् लक्ष्म्या विलोपात्] । ‘पुस्त’पदस्य पुत्तलिकार्थे प्रयोगो यथा—‘पुस्तस्त्रीहस्तनियंत्’ इत्यादि वाग्भटे । टीकाकारो व्याख्याति-‘पुस्तक मस्यापि ज्ञानमय्यपि’ । निन्दो कुर्वाणस्य ज्ञानमयीति निर्देशः कियत्स्वाभाविक इति न विचारितं वराकेण (पृ. २२९) । ‘अपि च अनेन (कामेन) अधिष्ठितानां चिन्तया (चिन्तावशात) प्रियमुखचन्द्रसह खाणि पश्यन्तीनां कामिनीनां कृते संकटमम्बरतलम् (मुखचन्द्रसहस्रसंकीर्णतया) संबाधं भवति । ‘लिखन्तीनां दयिताकारानविस्तीर्ण महीमण्डलम्, [अनेनाधिष्ठितानाम् अत एव विनोदार्थ दयितस्य प्रतिकृतीलिखन्तीनां (कामिनीनां हृदये)महीमण्डलमविशालम्, यतो हि तञ्चित्रिता दयिताकारास्तन्त्र न मान्ति ] । ‘बल्लभगुणान् गणयन्तीनामल्पीयसी संख्या’ (गुणगणनाकाले परार्धान्तापि संख्या अप याता भवतीत्यर्थः)। शुण्यतीनां प्रियतमकथामबहुभाषिणी सरस्वती’ (प्रियकथां शृण्वतीनां कृते वाग्देवतास्वेन प्रसिद्धापि सरस्वती न्यूनभाषिणी । अनन्तयापि कथया तासां श्रवणेच्छान पूर्यत इत्यर्थः)। ‘ध्यायन्तीनां प्राणसमसमागमसुखानि हसीयान् कालो हृदयस्थापतति’ [ध्यानवेलायां कालः सहसैव समाप्यत इत्यर्थः ] । टीकाकारमहाशयो व्याख्याति-अनेन कन्दर्पणाधिष्ठितानाम् आश्रितानां कामि नीनां हृदयस्य इसीयान हासकृत्काल आपतति, भकलादागच्छति [भयं महाभागः हसीयान काल इति सर्ववाक्येषु योजयति] । ‘अथ कामिनीनां विशेषणानि-किं कुर्वन्तीनाम् । चिन्ताजमितं यत्प्रिय मुखसहस्रं तेन संकटं संकीर्ण यदम्बरतलं तत्पश्यन्तीनां त्रिलोकयन्तीनाम् ००’ इत्यादि । (पृ. ४७७)।

….-

.

.

20

उपोद्धातः।

पाठपरिवर्तनम् सर्वमौलिभूतो दोषस्स्वयमस्याष्टीकाया यन्मूलपाठस्तथा तोस्ति येन कादम्बर्याः शोभायाः का कथा वराकी सा लजेत । अवश्यं अन्थपाठः प्रारलिखितपुस्तकाधीनः किन्तु यष्टीक लेखितुं परिकरमाब भाति तस्यापि बुद्धः किञ्चिन्मूल्यं जनसमाजेनाशंसनीयं भवति । गुरुतरं ह्यासनं टीकायाः । यद्धि धाक्यं सामान्यशिक्षितोपि न लेखितुं पारयति तादृशं वाक्यं बाणसहशो मार्मिकचूडामणिः कथं वा कवि

ण्डलमण्डनभूते स्वग्रन्थे चिलिखेदित्यक्षरसुखस्यापि विचारो भवत्येव । किन्स्वाश्वयं नास्थात्र गन्धोपि। नापि चान लेखक-मुद्रकदोषोपि संभावयितुं शक्यः, व्याख्याक्षराणां तथैवाऽभिप्रायात् । ग्रन्थस्य प्रायः प्रतिपदमेव सेयं दशा । टिप्पण्यां च सूचितमिदं स्थाने स्थाने । अत्र तदुद्धरणे मुधा विस्तरः स्यात् । किन्तु मार्मिका द्विनेरुदाहरणैस्तद्वर्णिकाम् (बानगी) परीक्षितुं पारयेयुः ।

‘विबुधसद्मन्यप्सरसो नाम कन्यकाः सन्तीति’ मन्ये सर्वबोध्योयं विषयः । किन्तु टीकाकारेण मूल पाठः परिगृहीतोऽस्ति-विबुधसभन्यपसरसेना नाम कन्यकाः सन्तीति’ । व्याख्यानं चास्य दृश्यताम् ‘विबुधसमनि किनरगृहे । अप्सरसेनाः। नामेति कोमलामन्त्रणे । कन्यकाः पुन्यः सन्तीति’। ‘किंनरंगृहे’ इति समीक्षणीयं तावत् । भविवाहितत्वात् ‘कन्यकाः’ इति बाणलेखन्योल्कीर्णम्, तस्य ‘पुन्यः’ इति पर्यायः कियत्स्वारस्यवाहीति सर्वैर्बुध्येतैव (पृ. २९३)।

‘हेमकूटधाम्नां किरातानां सुवर्णपुरं नाम निवासस्थानम्’ इत्यस्य स्थाने पाठोऽस्ति ‘हेमजकूटनाम्नां किरातानाम् । व्याख्यानं दृश्यताम्-‘हेमजकूट इति नाम येषामेवंविधानां किरातानां मिल्लाना म्लेच्छानां वा (पृ. २५७)।

गन्धर्वराजधान्या हेमकूटे (कादम्बरी निवासस्थाने) यदा चन्द्रापीडो जगाम तदाऽनुरक्ता काद- .. म्बरी प्रेमोपायनं शेषाख्यं रहारं तस्मै प्रजिवाय । तदेतदुपायनमादाय कादम्बर्याः प्राणप्रिया सखी मद लेखा तरलिकया सह चन्द्रापीडमुपजगाम । प्रणयमार्गाचितमिदम् । न हि स्वयं नायिकाया इदमौचि त्यमावहति । बाणोपि तथैवोपनिबबन्ध । अत एव हारसमर्पणे तत्प्रशंसायामाह-(सोय हारः) अम्भसा पत्या प्रचेतसे दत्तः । पाशभृता गन्धर्वराजाय । गन्धर्वराजेन कादम्बौं’ इति । न हि कादम्बरी स्वयमेवं ब्रूयात् । अत एव तदागमनावसरे पाठोऽस्ति-… कादम्बरीप्रतीहार्या दक्षिणकरेण दत्तहस्ता वलम्बां मदलेखाम्, तरलिकाम् “अद्राक्षीत्” इत्यादिः । किन्तु टीकाकारः पाठमाह-कादम्बरी प्रती हार्या दत्तहस्तावलम्बाम्’ इत्यादिः। न हि लेखक-मुद्रकदोषोऽन्न संभाव्यः। पदच्छेदपूर्वकं स्पष्टं व्याख्या ति-‘चन्द्रापीडः कादम्बरीम् , अथ चागच्छन्ती मदलेखाम् , तस्याः समीपे तरलिकाम् ,…पान विशेष गृहीतं हार चानाक्षीत्’ इति । पुनरपि स्पष्टयति—‘अथ कादम्बरी विशिनष्टि’ इत्यादिना (पृ. ४१४)।

केयूरकश्चन्द्रापीडसविधे कादम्बर्याः प्रणय-विह्वलतादिकं निवेदयति-निर्गते त्वयि हृदयसहस्रप्रया. णपटहकलकलमिव नूपुरकणितेन कन्यकान्तःपुरे कुर्वति। कन्यकान्तःपुरे नूपुरकणितेन, हृदयसहस्राणां यत्प्रयाणम् गृहं प्रत्यागच्छता स्वया सह प्रस्थानम्) तस्य पटहकलकलमिवः कुर्वति सति’ इति सप्त म्यन्तः पाठः । अर्थात् कन्यकानां नूपुरशब्दा नासन , मन्ये स्वया सह प्रस्थितानां कन्यकाहृदयसहस्त्राणां प्रयाणे पटहध्वनय एवाऽभूवन्निति । किन्तु टीकाकारपाठोऽस्ति-..“पटहकलकल मिव नूपुरक्षणितेन कुर्वन्ती देवी कादम्बरी…’ इत्यादि । एकस्यास्तस्या नूपुराभ्यां पटहकोलाहलः कथमिति न विचारयितु मिच्छति टीकाकारपुंगवः । न चात्रापि लेखक-मुद्रकदोषः। ‘कुर्वन्ती सूजन्ती’ इति स्फुट व्याख्यानात । लेखकदोषेण हवदीर्घयोयत्ययो न जात इत्येतस्य साक्षी नुमागमः, नहि सप्तम्यां नुमः स्पर्शशङ्कापि (पृ. ४३३)।

कुत्रचिरकुत्रचिच दुष्पाठपरिग्रहणेन तथा मन्थस्य सर्वनाशः कृतोऽस्ति यं दृष्ट्वैव सभ्यताऽवगुण्ठने


N

LE

or.

.

.

सन

NAYER-58

HAYARI

कादम्बरी। गोपितोपि दुःखप्रेरितोऽमर्षों बलास्प्रकटीभवत्येव । अत एव टिप्पण्या लेखनीमुखाद्यःशब्दा अपि विवश निःसृता इति क्षम्यासुः सहृदयमहोदयाः। घोरदुःखमिदं यजानतापि मया हन्त कवितः पाठो निर खते । मूलटीकयोः संवादानुरोधेन ग्रन्थनंशकरो दुष्पाठ एव च स्त्रकरण निवेश्यते । परं क्वचित्त तथा मे मनो विवशमभूद् यथा भ्रष्टतमं तं पाठं लेखितुं लेखन्येव न प्रचचाल । अत एव मूलटीकयोः संवाद नियममुलक्यापि समुचितं पाठं मूले बलान्यवेशयम्, तं च धोरपाठं नीचैः पाठान्तरे । यथा-शबर सेनापतिवर्णने-.-‘रचिताभरणेन"वक्षःस्थलेनोद्धासमानम् शबरसेनापतिमपश्यम्’ इति । अन्न टीका कारमहाभागेन पाठो दत्तोऽस्ति–चक्षुःस्थलेनोद्धासमानम् । अस्यैव साक्षात्संनिधौ यद्यपि विशेषण मस्ति ‘विन्ध्यशिलाविशालेन’ इति । न हि चक्षुः शिलाविशालं भवति । किन्तु लोके शिलाविशालमी दृशं हृदयमवश्यमस्ति यद्धि वक्षःस्थलस्थाने चक्षुःस्थलं क्लिभाति । नानापि लेखक-मुद्धकदोषशङ्का । स्पष्टमस्ति व्याख्यानम्—-‘चक्षुःस्थलेन नेत्रस्थानेनोत्प्राबल्येन भासमानम्’ इति । नैतदेव, अने पुन रस्ति–‘चक्षुस्थलं विशिनष्टि’ इति । यदि ‘नेनस्थानेन’ इति पर्यायकरणमपि लेखकमुद्कदोष एव तर्हि मन्ये न क्वचिनीलपीतादिष्यपि लोके मिथो भेदः (पृ. ६५)। .

टीकायाः स्थाने स्थाने-समासविग्रहादिषु नामिका अशुद्धयोऽवलोक्यन्ते । तत्र तन्न कोष्टके समुचि ताक्षरनिर्माणेन शोधनस्य चेष्टा कृता । यथा—‘स्वीकृता यतिजनानामुचिता यात्रा उपवरणम्’ इत्पन्न ‘उपव(क)रणम्’ इति । ‘आबद्धं मण्डलं यस्याः’ इत्यत्र (यया) इति कोष्टके दत्तम् । यत्र तु किञ्चि दधिकं वर्तते तदपि कोष्ठके निबद्धम् । पाठका विवेकेन उभयोरुपयोगं जानीयुः। ..

महाकविर्वाणः पुराण-महाभारतादिषु परिनिष्ठितः । स्थाने स्थानेऽयं रामायणमहाभारतादीनामुपा ख्यानानि खरचनायां सूचितवान् । किन्तु जैनष्टीकाकारमहोदयस्तेषामपरिचितः । अत एव बहुन विप रीतं जल्पति । यथा-शुक-करिणामग्निशापवशाजिह्वापरिवर्तनस्य कथा टीकाकारेण महाभारततो वैपरी लेन केवलं प्रवाद इति स्थूलैरशरैर्गदिता । अस्तु. टिप्पण्या स्थाने स्थाने तत्कथानां परिचयाय प्रयति तम् । एवम्-बाणस्य स्फुटं सनातनधर्मावलम्बित्वेऽपि टीकाकारो व्याख्यायां बहुत्र स्वसंप्रदायप्रणयं पिशु नयत्येव । यथा-‘न प्रणमन्ति देवताभ्यः’ इत्यत्र ‘हरिहरादिदेवेभ्यः’ इति स्फुटेऽप्यर्थं ‘अहंजयः’ इति व्याख्याति (पृ. २३५)। एवं महाधेतावर्णने-‘ज्यम्बकस्य अम्बिकायाः कार्तिकेयस्य विश्रवणस्य कृष्णस्य “पुण्याः स्तुतीः पठन्तीभिः’ इत्यन्न ‘कृष्णस्य जिनस्य’ इति व्याख्यातवान् (पृ. ४२७)।

किमधिकं परिवादेन, अनुपमकाव्यस्यास्य कादम्बर्या यादृशी व्याख्याऽपेक्षिता न तस्सीमस्पर्शिन्यपि सेयम् । बहवो हि व्याख्याकारा मूलकारस्य कल्पना तथा प्रगुणयन्ति यथा कवेश्चमत्कारातिशयेन सह व्याख्याया अप्यलौकिकी काचिदभिख्या प्रस्फुरति । दूरे सा संकथा, इह तु ग्रन्थस्यार्थस्पशॉपि दुर्लभो बहुन्न । किन्तु यस्मिन्काले सेयमिदंतया प्रथमममुद्रयत वसिन्काले न प्रस्ताभूत्काचिदन्या विस्तृता व्याख्या। प्रतिपदव्याख्यैव च प्रारम्भतः पठतां विद्यार्थिनामुपयोगिनीति बहूनां दृष्टिः । सेयं च व्याख्या स्वयमात्मानमपदिशति ‘निरन्तरव्याख्या’ ‘प्रतिपदव्याख्या’ इत्यादि । अत एवान्तेवासिनामधिकोपकार मालक्ष्य सेयमारम्भतोऽद्यावधि सप्तभिः संस्करणैः प्राकाश्यत । प्रथमतष्टीकाकारेणानेन मूलपाठ एवं विरूपोऽधिगतः, ततोपि स्वयमेतद्वयाख्यापुस्तकमप्यशुद्धमेवासादितं प्रकाशकैः । अत एवाद्यावधिसंस्कर णेषु यथाजातैव सेयं टीका प्रकाशिताभूत् । अष्टमसंस्करणावसरे स्वस्मिन् नवीनटीकाप्रकाशनाय सूचिता अपि मुद्रायन्नाध्यक्षाः पूर्वतः प्रचलिताया अस्याष्टीकायाः प्रक्रमस्य प्रणयस्य च भङ्गं नान्वमन्यन्त । मत. एव हि मत्संमतिमग्रिमसंस्करणार्थमुपेक्ष्य, इमामेव टीका संस्कर्तुमाज्ञापयन् ।

अस्तु. मूलटीकयोः पाठसंवादनियमे जाग्रति किमप्यन्यत्कर्तुं परवशोहं टिप्पण्याऽनया स्थाने स्थाने मूलस्य टीकायाश्च विषये आवश्यक संशोधनं विवक्षितं च किञ्चिदभिव्यञ्जितवानस्मि। नैतस्योपयोगिता विषये मम वक्तव्यं शोभते । गुणगृह्याः स्वयमनुगृह्मासुः कृपाकटाक्षदानेन ।

:.

..

3


4mnment

‘:


MINS

Biodivasi

divakdilinesamshelternkatha Aiyaayaawaramseerapyehirygvi am

उपोद्धातः। कादम्बरीय चिरापाठ्यपुस्तकवेन परिगृहीता । अत एव पठतामुपयोगाय–

9-गद्यकाव्यानां विकासक्रमः। २-बाणस्य समयः, जीवनचरितम् , वंशवृक्षादिकं च । ३-बाणलमये सामाजिकी परिस्थितिः। ४-~-बाणकृतस्तत्वविमर्शः। ५५…. अन्यकत्रिभिः सह तुलनात्मकमालोचनम् । .

–कादम्बरीबृहत्कथयों कथानकस्य पात्राणां च मिथोविमर्शः। ७—-अन्थे वर्णितानां नायकनायिका-रस-गुण-रीत्यादीनां निरूपणम् । ‘‘कादम्बरीसार नाना पूर्वोत्तरकादम्बयो कथासंक्षेपः।

९—-विषयानुक्रमणिका। एवमादयो विषयाः संनिवेशिताः । पूर्वाधसंशोधने उपोद्धाते च महामहोपाध्यायश्रीहरिदाससि द्धान्तवागीशभट्टाचार्यटीकापुस्तकात्, उत्तरार्धे च श्रीजीवानन्दविद्यासागरपुस्तकाच भूयसी सहायता धिगता । सिद्धान्तवागीशमहोदयस्य वैदुष्यमभिनन्दन्नुपकारभारमिममसामान्यमधिमानयामि ।

बाणादुद्भूय भूमानमभीमेष्वपि विन्दती । सेयं कादम्बरीगङ्गा रससङ्गाविषेव्यताम् ॥

__. मकरसंक्रान्तिः १९९६

  • जयपुर

१९६ } मञ्जुनाथोपनामा (कविशिरोमणि)भट्टश्रीमथुरानाथशास्त्री.

.

.

'

.

..

.

.

..3

7 :. ….

१ अर्जुनशरादुर्भूय भीष्मे एव महिमानं प्रकाशयन्त्याः प्रसिद्ध(बाण)गङ्गातः अभीष्मेषु (काव्यभावनाकोमलहृदयेषु) महत्व प्राप्नुवती बाणरचनारूपा गङ्गा विशिष्टेति सेवनीयेत्याशयः ।

कादम्बरीसारः

॥ श्रीः॥

कादम्बरीसारः।

विद्वत्कृपासनाथेन मञ्जुनाथेन निर्मितः।
सोयं कादम्बरीसारो हृदि हारोऽस्तु धीमताम् ॥१॥

[पूर्वकादम्बरी ]

विदिशेतिख्यातनाम्न्यां राजधान्यामासीत्समस्तगुणाकरो राजा शूद्रको नाम । सभास्थानमलं कुर्वति तस्मिन्नेकदा तत्प्रतीहारी कस्याश्चिच्चाण्डालदारिकाया आगमनमावेदयामास । अथ कौतुकिना भूमिपतिना दत्तानुमतिः सा पुरोयायिना वृद्धेन, पञ्जरवाहिना शिशुना चैकेन सम मागत्य राजानं प्रणनाम । वृद्धस्त्वसौ वैशम्पायनाभिधानं शुकमेकं पञ्जरगतं राज्ञः पुरो निधाय, तद्गुणावली चाभिधाय सहसाऽपससार । गते तु तस्मिन् स शुको दक्षिणं चरणमुन्नमय्य

‘स्तनयुगमभुस्नातं समीपतरवर्ति हृदयशोकानेः।

चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥’ इत्यार्यया नरपतिमेनमभिननन्द । सह सदस्यैर्विस्मयमापन्नो राजा शुकमेनमन्तःपुरे प्रवेशयितु. माज्ञाप्य सभास्थानादुदतिष्ठत् । कृताहिककृल्यस्तु राजा परमबुद्धिमता कुमारपालिताभिधानेन मन्निवरेण सह सुखोपविष्टः शुकमेनमानाय्य समग्रं तद्वृत्तान्तमावेदयितुमाज्ञापयामास । शुकोऽप्येवं कथयामास–“विन्ध्याटव्यां विशाल एकस्मिन् शाल्मलीवृक्षे कृतनीडौ मत्पितरौ न्यवास्ताम् । मां प्रसूय लोकान्तरमुपगतायां जनन्यां वृद्धो मे पिता मामपालयत् । एकदा मृगयार्थमागतस्य मतङ्गनामकस्य शबरसेनापतेरनुगतः कश्चिदृद्धशबरः शाल्मलीवृक्षमेनमारुह्य स्नेहवशात्पक्षपुटेन मामाच्छादयन्तं जनकं मे व्यापाथ, मामपि वृक्षादधः शुष्कपल्लवपुञोपरि न्यपातयत् । भाग्यवशाज्जीवितोहं जलान्वेषणार्थं प्रचलन् स्नानागतेन हारीतनाम्ना मुनिकुमारेण निजपितुर्जाबालेराश्रममुपनीतः । स मुनिर्मामालोक्य हसन् , कौतुकादन्यैर्मुनिभिः पृष्ठो मद्

तान्तमेवं निशि निजगाद–

[इति कथामुखम् ]

“अवन्तिदेशे उज्जयिन्यां राजधान्यां महाप्रतापस्तारापीडो नाम राजासीत् , यस्य महिषी विलासवती । निखिलगुणाकरो मन्त्री तु तस्य शुकनासाख्योभूत् यस्य पत्नी मनोरमा । निःसंता नतया परमविषण्णा विलासवती यावदपत्यार्थं व्रतादिकमाचरति तावदकस्मादेकदा राझ्या मुखे प्रविशन्तं चन्द्रं ददर्श खप्ने राजा । शुकनासोपि, विप्रेण केनचिन्मनोरमायाः क्रोडे निहितं पुण्ड रीकमेकमालोकयामास खप्ने । ततश्च विलासवल्याश्चन्द्रापीडः, मनोरमायाश्च पुण्डरीकाभिधानः सुतोऽभवत् । मिथः सौहार्दमापन्नौ द्वावप्येतौ कुमारी राज्ञा सकलविद्यासु पारग़ामितामुपनीतौ । ततो विद्यास्नातकोसौ चन्द्रापीडो राजाज्ञया बलाहकाभिधानेन सेनाध्यक्षेण समानीतमिन्द्रायुधना

मानं तुरगवरमारुह्य विद्यागृहादाजधानीमाययौ । जनकजनन्योः संदर्शनेनानन्दितः, मृगयां विधाय नगरमुपागतो जनन्या प्रेषितां पत्रलेखामवाप्य मुदितः शुकनासोपदेशेन प्रगुणीकृतः, तारापीडेन यौवराज्येभिषिक्तोसौ दिग्विजयाय प्रातिष्ठत । त्रिभिः संवत्सरैः सर्वा दिशो विदिशश्च विजित्य, हेमकूटवासिकिरातानामावासं सुवर्णपुरमधितिष्ठन्नेकाकी चन्द्रापीडः कदाचिदिन्द्रायुध मारुह्य मृगयार्थमटन् किनरयुगलानुसरणप्रसङ्गेन पञ्चदशयोजनानि - ययौ । किंनरमिथुने गिरिशिखरमारूढे, भृशमनुतप्तः श्रमेण तृषातुरो जलमन्विष्यन् विशाल-मनोरममच्छोदाख्यं सरः प्राप्तवान् । जलावगाहन-पानोत्तरं तत्तटे विश्राम्यन् , वीणाकणसहितं गानमाकर्ण्य तदनुसरन् , अतिगौरमनोरमामेकां कन्यका शिवालयगतां ददर्श । अथ प्राप्तातिथिसत्कारेण तेन पृष्टा सा निजतपोवृत्तमेवमाह स्म- . . ___“अरिष्टातनयो गन्धर्वराजो हंसः सोममयूखसंभवकुलजातां गौरी परिणीतवान् । तयो स्तनया महाश्वेतानाम्यहमतिक्रान्तशैशवां कदाचिदस्मिन् सरसि स्नातुमागत्य कुतोप्यलौकिकं , सौरभमाजिघ्रती तदनुसरणं च विदधती केनचिदन्येन कुमारेण सहितं मूर्तिमन्तमिव मन्मथं मुनि कुमारमेकमवलोक्य ‘कोयं युवा, ‘किनामकस्य तरोरियं सुरभिता मञ्जरी’ इति तत्सहचरं कुमार मप्राक्षम् । स प्रत्युवाच-‘महर्षेः श्वेतकेतोः सौन्दर्यमोहितायां-लक्ष्मीदेव्यामुत्पन्नः पुण्डरीकमध्ये जाततया पुण्डरीकनामा सोयं कुमारः । नन्दनवनदेवतया सादरमुपहृता सेयं पारिजातस्य मञ्जरी ।’ निर्जितमारः स तु कुमारः-‘कुतूहलिनि ! किं वा प्रश्नायासेन । यदि रुचिता तर्हि गृह्यतामियम्’ इत्यभिधाय मञ्जरी तां मे करें कुर्वन् हस्तान्निपतितामक्षमालामपि न ज्ञातवान् । अहं तु मालामिमामगृह्णाम् । मन्मथविकारमिममालोक्य कुपितेन द्वितीयेन कुमारेण तिरस्क्रियमाणः कुमारोसौ (पुंडरीका) मामुपेत्य मालामयाचत् । अहं तु मुक्तामयं निजहारमेव कण्ठादुन्मुच्य तस्मै समर्प्य, तां च स्फटिकमयीं जपमालां कण्ठे वहन्ती जनन्या सह कृतस्नाना गृहमुपाग च्छम् । ततो मत्परिचारिकाः तरलिका तेन कुमारेण कृतं मत्परिचयादिप्रश्नवृत्तं मह्यमावेद्य पत्र मेकमर्पितवती, यत्र चेयमार्याऽऽसील्लिखिता

‘दूर मुक्तालतया बिससितया विप्रलोभ्यमानो मे।

हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥ … सायं तु तत्सहचरः कुमारः ( कपिञ्जलः) कामविह्वलां मां तस्य कुमारस्य मन्मथव्यथा यावदावेदयति तावदेव समागच्छन्ती मज्जननी ज्ञात्वा स त्वरित परावर्तत । प्रतिगतायां जनन्याम् , उपस्थितायां च रजन्याम् , समुदिते चन्द्रमसि, उत्कण्ठिताहं तरलिकाद्वितीया निभृतं गृहान्निर्गत्य तमभिसरन्ती दूरात्कपिञ्जलविलापमाकर्ण्य द्रुततरमभिपतन्ती मन्दभाग्या महाभाग्यं तं कुमारमुपरतमद्राक्षम् । शोकात्कृतमरणव्यवसायां माम्-‘वत्से महाश्वेते ! न त्वया , त्याज्याः प्राणाः, पुनरपि ते भविष्यत्यनेन सह समागमः’ इति चन्द्रमण्डलादवतीर्णः कश्चिन्म हापुरुषोऽभिधाय तं कुमारदेहं कराभ्यामुक्षिपन् नभसि न्यलीयत । ‘क मे सुहृदमपहरसि’ इति रोषाबद्धपरिकरः कपिञ्जलोऽपि तमन्वसरत् । विस्मयविषादाभ्यां गृहीताऽहं तु संसारानि विण्णा व्रतमेतदवालम्बिषि” । इति

अथ ‘परिचारिका सा तरलिका क गता’ इति चन्द्रापीडेन जिज्ञासिते. सा पुनरवदत् “गन्धर्वराजाच्चित्ररथान्मदिरादेव्यां जाता कुमारी कादम्बरी मम द्वितीयं हृदयम् । सा ममाऽनेन शोकवृत्तान्तेन प्रतिज्ञामकरोत्-‘सशोकायां महाश्वेतायां नाहमात्मनः पाणिं ग्राहयिष्यामि’ । काद म्बरीपाणिग्रहणायाऽनुने गन्धर्वराजेन कृतानुरोधाऽहमथैव कादम्बरीसकाशे तां प्राहैषम्” इति ।

द्वितीयेऽहनि प्रातरेव तरलिकया सह समागतः केयूरकनामकः कादम्बरीवीणावाहकः पाणि ग्रहणे तस्या असंमतिमावेदयत् । कादम्बरीबोधनाय हेमकूटं प्रयान्त्या महाश्वेताया अमुरोधेन

चन्द्रापीडोपि गन्धर्वराजधानी गतोऽलौकिकसौन्दर्यशालिनी कादम्बरीमालोक्य प्रणयपरतन्त्रोऽ भवत् । कादम्बर्यपि तत्प्रणयवशंवदा दिव्यं दुकूलयुगं शेषनामकं रत्नहारं च निजसख्या मदलेखाया हस्तेन तस्मै प्रजिघाय । अथ प्रीतिपरतन्त्रः स कादम्बर्या हृदयमादाय निजस्कन्धावार प्रत्यागतः सुहृद वैशम्पायनाय सर्व वृत्तमाचल्यौ । द्वितीयेऽहनि प्रत्यूष एव समुपेतेन कादम्बरीवैकल्य निवेदकेन केयूरकेण सह पत्रलेखामादाय हेमकूटं गतश्चन्द्रापीडो हिमगृहगतां मदनपरवशां ‘कादम्बरी ददर्श । तया सह व्यङ्ग्यार्थगर्भ ललितमालप्य, तदनुरोधात्पत्रलेखां तत्रैवावस्थाप्य निज स्कन्धावार पराववृते । तत्र च पितुः पत्रमवाप्य, ‘पत्रलेखामादाय त्वया परस्तादागन्तव्यम्’ इति सेनापतिसुतं मेघनादमादिश्य, तत्रैव चावस्थाप्य, मार्गे द्रविडधार्मिकाधिष्ठितां चण्डिकां पश्यन्नु ज्जयिनीमाजगाम । कतिचिदिनानन्तरं मेघनादेन’ सहागता पत्रलेखा कादम्बर्या विरहावस्थामु पालम्भोक्तिं च चन्द्रापीडाय न्यवेदयत् ॥

[कादम्बरीपूर्वभागः]

उत्तरकादम्बरी हेमकूटात्प्रत्यागता पत्रलेखा चन्द्रापीडविरहनिमित्तं कादम्बर्याः परमं वैकल्यमावेदयांबभूव । तेन हि कादम्बर्याः प्रेमणि संदिहानश्चन्द्रापीडो भृशमात्मानमुपालेभे । तदिनादारभ्य बहिरप्रकाश यन्नपि हृदये वियोगवह्निनाऽतितरामदूयत । एकदा मनोविनोदाय सायं नगराबहिर्भमन् बहु भिस्तुरगैः सह दूरादायान्तं केयूरकमकस्माद्ददर्श । नगरे आगत्य केयूरको रहसि कादम्बर्याः सुभृशमुपचितं मदनसंतापं तथाऽऽवेदयद् यथा शोकेन मूतिप्रतिबुद्धश्चन्द्रापीडः प्रत्यु वाच–‘किमित्यहं नाहूतो देव्या । संप्रत्यहं प्राणपणेनापि तत्तापनिवृत्तये संनद्धः । केयूरकः शीघ्रगमनाय चन्द्रापीडं प्रार्थयत । निशि चन्द्रापीडः-‘पित्रादीननिवेद्य गमनं नोचितम् । आज्ञाग्रहणे तु इदानीमेव दिग्विजयप्रत्यागताय मे तौ गमनानुमति. दास्यतो न वेति संदेह एव । वैशम्पायनोपि अच्छोदसरस्तटे त्यक्तः । कोऽधुना में सहायकः’ इति नानाचिन्तामकरोत् ॥

प्रातः सहसा शुश्राव ‘दशपुरं यावत्परागतः स्कन्धावारः’ इति । ततश्चात्र प्रत्यागतेन धैशम्पायनेन सह कादम्बरीमनुसरिष्यामीति हृदि संतुतोष चन्द्रापीडः । केयूरकस्तु ‘यावद्वैशम्पा यनेन सह देवो हेमकूटाय प्रतिष्ठते ततः पूर्वं भवदागमननिबेदनाय विसर्जयतु मां देवः’ इति गम नानुमतिं ययाचे । चन्द्रापीडस्तु खागमनप्रत्ययार्थ पत्रलेखामपि तेन सह पुरतो विससर्ज ।

चन्द्रापीडश्चिरवियुक्तस्य प्रियसुहृदो वैशम्पायनस्य मार्ग एव प्रत्युद्गमनाय पितृभ्यां शुकनासा वानुमतिमाचकाङ्क्ष । तारापीडश्चन्द्रापीडस्य यौवनारोहमालोक्य विवाहस्य प्रस्तावमाकलयन शुकनासमुखेन प्रत्युद्गमनानुमतिं ददौ । अथ चन्द्रापीडस्तुरगसैन्यमादाय वैशम्पायनाभिमुख प्रतस्थे । मार्गे च निजं स्कन्धावारमागच्छन्तमालोकयत् । सुहृद्दर्शनप्रत्याशया तत्र गतोपि शुश्राव यत् “वैशम्पायनोऽच्छोदसरस्तटे आगल्य सहसैव विकृतचित्तोऽभवत् । स्नानभोजनादिकं परित्यज्य लतामण्डपैकदत्तदृष्टिरस्मान् गन्तुमाज्ञापयत । आगमनाय कृतानुरोधस्तु सोत्तेजनमवादीत् ‘नाहं गन्तुं शक्नोमि । न मे देहो मनो वा वशे । अत एव कुमारस्य कार्योपरोधहरणाय यूयं गच्छत इति’ । दिनत्रयं तत्सान्त्वनचेष्टायां निष्प्रत्याशाः संप्रति वयं तत्प्रबन्धं तत्रैव विधाय कुमार सूचनाय परावृत्ताः स्मः” इति ।

कथमकस्मादिदं तस्य चित्तवैकृत्यमभूदिति विषण्णचित्तो बहुधा विकल्पयस्तुरङ्गसैन्येनोजयिनी पराववृते कुमारः । तारापीडो वैशम्पायनवैराग्ये चन्द्रापीडस्य कश्चिदपराधमाशशके, किन्तु शुक नासः सर्वमिदमपममार्ज । परतस्तु-वैशम्पायनानयनाय अच्छोदतटे गमनानुज्ञामयाचच्चन्द्रापीडः। प्रवासाय प्रेषयन्ती माता हृदयेऽभूतपूर्व विषादमकस्मादनुभूय अतिशीघ्रमागन्तुमाज्ञाप्य यथाक थंचिद्विससर्ज । मनसि नानामनोरथानावर्तयश्चन्द्रापीडो मार्गे यात्राविघ्नकरं प्रावृट्कालं यापया मास । त्रिभागमात्रावशिष्टे चाध्वनि अच्छोदात्परावर्तमान मेघनादम् ( सेनाध्यक्षम् ) अलोक यत् । उत्कण्ठितेन चन्द्रापीडेन-‘अच्छोदसरस्तटे दृष्टस्त्वया वैशम्पायनः ?’ इति पृष्टः सेनाध्यक्षो व्यजिज्ञपत्-‘अच्छोदसरःसमीपे वैशम्पायनागमनस्य कथैव न श्रुता मया । विशेषतश्च पत्र लेखाकेयूरकाभ्यामहमुज्जयिनी विसर्जितो यत्त्वरितमागमनाय कृतप्रतिज्ञोपि कुमारः प्रावृष्यस्यां न राजदम्पतिभ्यां प्रेषितः । तत्तवानुपदमावामप्यागतावेव’ इति ।

चन्द्रापीडस्तु विरहविकलायाः कादम्बर्याः का दशा स्यादस्यां प्रावृषि, इति नानाविचार संतप्तो यथाकथंचिदच्छोदमासाद्य तत्र च सर्वतो विचिन्वन्नपि वैशम्पायनमनासाद्य तद्वृत्तान्तोप लम्भाशया महाश्वेतामुपजगाम । तत्र’च तरलिकया यथाकथंचिदवस्थाप्यमानशरीरामतिविकलां तां ददर्श । ‘हन्त न किञ्चिदनिष्टं स्याद्देव्याः कादम्बर्याः’ इति मनसि विषीदन्कुमारो वैकल्यस्य कारणं पप्रच्छ। गद्गदकण्ठा सा जगाद-“महाभाग, मन्दभाग्याहं हेमकूटाद्यावदिह परावृत्ता तावदेव भवत्तुल्याकृतिमेकं ब्राह्मणयुवानं प्रनष्टमिव किश्चिद्विचिन्वन्तमितस्ततो व्यलोकयम् । स तु मां दृष्ट्वैव परिचित इव स्निग्धया दृष्टया विलोकयन्, भूयसा निवार्यमाणोपि चाटूनि वदन् कामाकूतेन मुहुरभ्यसरत् । अहं तु तमनभिवीक्ष्यैवोपेक्षयाऽन्यतोऽगच्छम् । अथैकदा ज्योत्स्ना पूरप्लानितायां गाढयामिन्यां सर्वेषु सुप्तेषु निभूतपदसंचारी, मदनाविष्टतया युक्तायुक्तविचार शून्योसौ मामागत्य-‘चन्द्रमुखि ! हन्तुमुद्यतो मामेष कुसुमशरसहायश्चन्द्रमाः । तत्त्वां शरण मागतोऽस्मि’ इत्यादि शुक इव नाना प्रलपन् मुद्दनिवार्यमाणोपि यदा न व्यरमत्तदा प्रियतमशो कोद्दीप्तमन्युश्चन्द्राभिमुखी भूत्वा ‘सकलभुवनचूडामणे ! यदि मया देवस्य पुण्डरीकस्य दर्शना

प्रमृति न मनागप्यपरः पुमाश्चिन्तितस्तर्हि शुक इव परप्रणोदितं जल्पन्नयं तस्यामेव जातौ पततु’ इत्यशपम् । स तु मद्वचनानन्तरमेव छिन्नमूलस्तरुरिवाचेतनः क्षितावपतत्’। … … ..

एतदाकण्र्यैव कादम्बरीविरहदुःखेन पूर्वमेव भेदोन्मुखं चन्द्रापीडस्य हृदयं सहसाऽस्फुटत् । अनेनानर्थेन हा किमिदमिति मुक्ताक्रन्दायां तरलिकायाम् , स्तब्धदृष्टिनिश्चेष्टायां महाश्वेतायाम् , नानाविधं विलपत्सु चन्द्रापीडपरिजनेषु, केयूरकाचन्द्रापीडागमनमाकर्ण्य तदर्शनोत्कलिकावगृहीता कादम्बरी पत्रलेखाहस्तावलम्बिनी तत्रैवाजगाम । सा तून्मुक्तजीवितं तमालोक्य निश्चलस्तब्ध दृष्टिर्न व्यलपन्न रुरोद । अनुमरणाय कृताध्यवसाया सा यावच्चन्द्रापीडचरणौ स्पृशति तावदेव तत्करस्पर्शादुच्छृसत इव चन्द्रापीडदेहाकिमपि चन्द्रधवलं ज्योतिरुज्जगाम, अन्तरिक्षे चाशरीरिणी वागश्रूयत—‘वत्से महाश्वेते, पुनरपि त्वं मयैव समाश्वासयितव्या वर्तसे । तत्ते पुण्डरीकशरीरं मल्लोके मत्तेजसाऽऽप्याय्यमानं भूयस्त्वत्समागमाय तिष्ठत्येव । इदमपरं मत्तेजोमयं चन्द्रापीडस्य शरीरं शापदोषादात्मशून्यमपि, कृतशरीरान्तरसंक्रान्तेयॊगिन इवाऽत्रैव भवत्योः प्रत्ययार्थमा शाप क्षयादास्ताम् । नेदमग्निना संस्कर्तव्यम् । यत्नतः पालनीयमा समागमप्राप्तेः’ । ___ अथ किमेतदिति विस्मयाक्षिप्तहृदयेषु सर्वेषु, आविष्टेव पत्रलेखा ‘विना वाहनमेकाकिनि प्रस्थिते देवे, न क्षणमपि शोभसे त्वम्’ इतीन्द्रायुधमाकर्षन्ती सह तेनाच्छोदसरस्यपतत् । तत्क्ष णमेव च तस्मादच्छोदाम्भसो निर्गल्य कपिञ्जलो महाश्वेतामुपजगाम । सप्रहर्ष कृतवन्दनया तया सर्व वृत्तजातं पृष्ठोसौ. जगाद—”-‘क मे प्रियसुहृदमपहृत्य गच्छसि’ इत्यभिधाय पुण्डरीकशरी रमुरिक्षपन्तं तं पुरुषमनुबन्ननहं तेन सह चन्द्रलोकं गतोऽस्मि । पुरुषोसौ स्वयं चन्द्रमाः । असौ तच्छरीरं पर्यके स्थापयित्वा मामवादीत-“कपिञ्जल ! जानीहि मां चन्द्रमसम् । अनेन (पुण्ड.) हि स्वव्यापारमनुतिष्ठन्नहम् यथाहमप्राप्तप्रियासमागम एव त्वया प्राणैर्वियोजितस्तथा त्वमपि कर्मभूमिभूतेऽस्मिन्भारते जन्मनि जन्मन्येवोत्पन्नानुरागोऽप्राप्तप्रियासमागमो जीवितमुत्स क्ष्यसि इति निरपराधमेव शप्तः । शापक्रोधाजवलितोहम् ‘स्वमपि मत्तुल्यदुःखसुख एवं भवि ध्यसि’ इति प्रतिशापमस्मै प्रायच्छम् । अपगतामर्षश्च महाश्वेताव्यतिकरं विवेकेन विचार्य दय मानहृदयोहम् , महत्तशापदोषमोचनपर्यन्तमस्य शरीरं मा व्यनशदिति शरीरमिदमानैषमहम् । वत्सा च महाश्वेता समाश्वासिता । तदनेन स्वयंकृतादात्मदोषान्मया सह मर्त्यलोके जन्मनि जन्म नीति वीप्साशाद्, वारद्वयमवश्यमुत्पत्तव्यम् । त्वमिदं वृत्त प्रतिकारं कर्तुं श्वेतकेतवे निवेदय” ।

अहं तु वयस्यशोकान्धतया सुरवर्मनि धावनेन वैमानिकमेकं लश्यन् , क्रोधोद्दीप्तेन तेन ‘तुरङ्गम इव मामबहेलयन् तुरङ्गम एव भूत्वा त्वं मर्त्यलोकेऽवतर’ इति शप्तोऽस्मि । शापप्रति संहाराय बहुशः कृतानुनयोसौ जगाद-‘उज्जयिन्यामपत्यहेतोस्तपस्यतस्तारापीडनानो राज्ञश्चन्द्र मसा- तनयत्वमुपगन्तव्यम् । वयस्येनापि ते पुण्डरीकेण तन्मन्त्रिण एव शुकनासस्य (तनयत्वम्.)। त्वमपि तस्य चन्द्रात्मनो राजपुत्रस्य वाहनतामुपगल्य सहचारी भविष्यसि ।’ अहं तु तद्वचनान न्तरमेव महोदधौ निपत्य तुरगीभूयोदतिष्ठम् । पूर्वजन्मप्रभावात्सर्व स्मरन्नहमेव किन्नरयुग्मानु सरणप्रसङ्गेन चन्द्रावतारं चन्द्रापीडमिहाऽऽनयम् । योसौ प्राक्तनसंस्कारात्त्वामभिलषन् त्वया शापामिना दग्धः सोपि मे सुहृदः पुण्डरीकस्यावतारः” ।

‘हन्त पुनरपि निघृणया मयैव देवः पुण्डरीको निपातितः’ इति सौरस्तार्ड विलपन्ती महा श्वेताम् ‘अचिरादेव पुनः समागमो भवेत्’ इत्याचास्य कपिञ्जलः श्वेतकेतोः समीपमुदपतत् । गते तस्मिन् पुनः समागमोपदेशेन समाश्चास्यमाना कादम्बरी शिलातले चन्द्रापीडतनुमवस्थाप्य प्रयता देवोचितं पूजयन्ती तस्थौ । इतो जलदकालात्यये चन्द्रापीडवार्तामादाय प्रतिगतदूतमुखेन ‘शापच्युतदिव्यप्रकृतीनामखिलं मङ्गलोदक भविष्यतीति’ समाश्चासेन मरणव्यवसायान्विवार्य माणा अपि तारापीडशुकनासादयः सान्तःपुरपरिजनाः स्नेहवशादखिलप्रजाभिरनुगम्यमाना श्चन्द्रापीडदर्शनाय तत्राजग्मुः । तत्र च शयानस्येवाऽविकृतां चन्द्रापीडस्य तनूमालोक्य विस्मिताः सर्वे सौन्दर्य-पातिव्रत्याधिदेवतामन्वहमुपचरन्ती कादम्बरीमभिननन्दुः । कादम्बरी महाश्वेताप्रबन्धेन राजोचितसपर्ययोपचर्यमाणोपि सप्रजापरिजनो राजा तपखिजनचर्ययाऽऽ

श्रमभूमिमिमामधितष्ठौ । ____ हारीतप्रमुखानामृषीणां सविधे सर्वमिमं वृत्तान्तं कथयित्वा भगवान् जाबालिः सस्मितमवा दीत्-‘योयं कामोपहततया दिव्यलोकात्परिभ्रश्य वैशम्पायननामा शुकनाससूनुरभूत्स एवैष कुपितस्य पितुराक्रोशान्महाश्वेताशापाचास्यां शुकजातौ पतितोऽस्ति’-”

राज्ञः शूद्रकस्य सविधे शुकः स्ववृत्तान्तं कथयति यत्-एवं वदल्लेव जाबालौ सुप्तप्रबुद्ध स्येव मे सकलविद्यानां पूर्वपरिचितवस्तूनां च परिचयो यथावदभूत् , आसीच मनुजस्येव वाकू । जाबालिपुत्रेण हारीतेन स्नेहादुपचर्यमाणोपि चन्द्रापीड–महाश्वेतादीनां स्मरणक्शादु

• स्कण्ठया ताम्यन् पक्षोद्भेदपर्यन्तं कालं तत्र यथाकथंचिदगमयम् । पितुः ( श्वेतकेतोः)

समीपादागतेन कपिञ्जलेन दुर्दैवावसानं यावत्तत्रैवावस्थातुमागृहीतोऽपि उत्पतनसामोदये एव महाश्वेतादीनां दर्शनार्थमुत्तदिङ्मुखो नभस्युदपतम् । अशक्ततया क्षुत्तुड्भ्यां परीतोहं विश्रमार्थ यावन्निशि मार्गतरौ विश्राम्यामि तावदेव प्रातस्तन्तुपाशैर्बद्धं चाण्डालहस्तगतं चात्मानमालो कयम् । ततः पकणाधिपतिदुहित्रा चाण्डालदारिकया पञ्जरे निबध्य मुनिभोजनोचितैः फलादि भिरेव यौवनमुपनीतोऽस्मि । कियत्कालानन्तरमेकदा प्रातरकस्मादात्मानं सुवर्णपञ्जरगतं तां च :

चाण्डालदारिकामीहशीमपश्यं यादशी देवेनाद्य दृष्टा । यावदहमाश्चर्यमिदं जिज्ञासितुं मौनमुत्सृजामि तावदेव सेयं मामादाय देवपादमूलमायाता । तत्केयम् , किमर्थ वाऽहमाबध्य इहानीत इत्यस्मिन्वि षये भवानिवाहमप्यनपगतकुतूहल एवास्मि” इत्युक्त्वा शुको विरराम । । प्रवृद्धकुतूहलेन राज्ञाऽऽहता चाण्डालकन्यका त्यागत्य स्वतेजसा राजानमभिभवन्ती प्राग ल्भ्येन बभाषे-‘कादम्बरीलोचनानन्द चन्द्र ! सर्वस्त्वयाऽस्य दुर्भतेरात्मनश्च पूर्वजन्मवृत्तान्तः श्रुत एव । अस्मिन् शुकजन्मन्यपि पित्रा निषिद्धेपि सोयं परिचितप्रणयाय प्रस्थित इत्यनेन स्वयं कथितम् । अहमस्य दुरात्मनो जननी श्रीः । दुर्दैवशमनपर्यन्तं मर्त्यलोके एवैनमभिरक्षितुं पित्राऽस्य समादिष्टा, तथाप्रस्थितमेनमिहानीतवती । भवतश्चास्य च शापावसानसमयः । तदू द्वावपि दुःखबहुले तनू परित्यज्य सममेव खेष्टजनसमागमसुखमनुभवतम् इति कथयन्त्येव । विद्युदिव चमत्कृत्य क्षितेर्गगनमुदपतत् । -

कादम्बरीसारः। जन्मान्तरस्मरणेन द्वयोरपि (शूद्रकवैशम्पायनयोः) शरीर काष्ठीभूतमभून् । इतो मनोवृत्तिमुद्दी पयतो वसन्तस्य विजृम्भणेन सहसैव प्रोद्दीपितरागा कादम्बरी आत्मानं धारयितुमपारयन्ती तां चन्द्रापीडतर्नु रागाधावत्कण्ठे गृह्णाति तावदेव कादम्बरीस्पर्शतो निवृत्तशापस्यास्थ पुनः पराववृते जीवः । सुप्तप्रबुद्ध इवायमवादीत्- ‘प्रत्युज्जीवितोस्मि तवानेन कण्ठग्रहेण । निवृत्ता सा शूद्र काख्या तनुः । तव प्रियसख्या महाश्वेताया अपि प्रियतमो मयैव सह निवृत्तशापः’ । इत्यभिद धत्येव कपिञ्जलकरावलम्बी गगनादवतरन्पुण्डरीकोपि संमुखमदृश्यत ॥ … यावत्कादम्बरी प्रियसखी महाश्वेतां प्रियसमागमप्रियाख्यानेनाभिवर्द्धयति तावदेव विलासव तीतारापीडादयोऽपि समागत्य परमं प्रमोदमन्वभवन् । चन्द्रात्मकत्वेपि तारापीडादीनां पूर्ववत्पा दयोः प्रणमस्तैश्चाशीभिरभिवर्द्धितश्चन्द्रापीडः खपित्रोस्तत्पित्रोश्च ‘एष वो वैशम्पायनः’ इति विनयविलक्षवदनं पुण्डरीकमदर्शयत् । अस्मिन्नवसरे कपिञ्जलः समुपसृत्य शुकनासमवा दीत्—‘एवं संदिष्टमार्यस्य श्वेतकेतुना–अयं पुण्डरीकः केवलं संवर्द्धितो मया, आत्मजः पुनस्तव।

अस्यापि भवत्खेव लग्नः स्नेहः । तद्वैशम्पायन इत्येवावगत्याऽयमविनयेभ्यो निवारणीयः’ । ___ अपरेयुः सकलगन्धर्वानुगतौ मदिरा-गौरीभ्यां सह चित्ररथहंसौ गन्धर्वराजावपि तत्रैवाज ग्मतुः । चित्ररथश्चन्द्रापीडविवाहाय खराजधानी नेतुं तारापीडं प्रार्थयत । तारापीडस्तं प्रत्य वादीत्—‘गन्धर्वराज ! मदीयं सर्वखमपि मया ते जामातरि संक्रमितम् । संप्रत्यहं सर्व सुतसा त्कृत्य तपोवन एव निवस्तुमिच्छामि ।’ सर्वैः सह हेमकूटं गतश्चित्ररथः कादम्बर्या सह समग्रमेव खं राज्यं चन्द्रापीडाय न्यवेदयत् । हंसोपि पुण्डरीकाय समं महाश्वेतया निजपदमदात् । एकदा विषण्णमुखी कादम्बरी चन्द्रापीडमूर्ति चन्द्रमप्राक्षीत-~‘आर्यपुत्र ! सर्वे वयं नियुक्ताः परस्परं संघटिताः । सा पुनर्वराकी पत्रलेखा न दृश्यते ।’ चन्द्रापीडः प्रत्यवादीत–सा खलु मदुःख दुःखिता रोहिणी । शापवशान्महीमागतेन मया सह लेहादवतीर्णा । संप्रति मया साऽऽत्मलोकं विसर्जिता, तत्रैव तां पुनर्द्रक्ष्यसि ।’ … एवं पुण्डरीके समारोपितराज्यभारः परित्यक्तखकार्ययोः पित्रोः पादावनुचरन् , कदाचिदुज यिन्यां कदाचिद्धेमकूटे कदाचिच्च पुण्डरीकप्रीत्या लक्ष्मीनिवाससरसि, यथेच्छं विहरंश्चन्द्रापीडमूर्ति श्चन्द्रः कादम्बर्या सह, कादम्बरी महाश्वेतया सह, महाश्वेता पुण्डरीकेण सह, पुण्डरीकोपि चन्द्रमसा सह परस्परावियोगेन सुखान्यनुभवन्तः सर्वे परां कोटिमानन्दस्याऽध्यगच्छन् ।

भट्टश्रीमथुरानाथ-
शर्मनिर्माणमुद्रितः ।
सोयं कादम्बरीसारः
सतां मदयतान्मनः ॥

१ निर्माणस्यैव मुद्रा (चिह्नम् ) संजाता यस्य सः । कादम्बरीनिर्यासः पात्रमुखे लाक्षादिमुद्राङ्कितो रसिकानां मनो मादयति । अयं कथानिष्कर्षों मथुरानाथकृतनिर्माणेनाङ्कितः सज्जनमनो हर्षयेदित्युभयोऽर्थः ।

विषयानुक्रमणिका।

पूर्वभागे पृष्ठाकाः विषया

पृष्ठाकाः मालाचरणम्

। तारापीडः …

… १२१-१२६ सुजनदुर्जनाख्यानम्

एकनासवणनम् …

… १२७ कविवंशवर्णनम्

राज्ञो भोगविलासः

… १२९-१३२ शुद्रकवर्णनम् …

७-१४

शुकनासगौरवम् … …. १३३ शुकमादाय चाण्डालकन्यकायाः प्रवेशः

विलासवतीगौरवम् … शुद्रकवर्णनम्

१७-२०

विलासक्तीदुःखप्रश्नः …

… १३७ चाण्डालकन्यकावर्णनम्।

२१-२४

राज्ञा विलासवतीसान्त्वनम् … १३९ शुकप्रशंसा … … २५-१७

विलासक्त्या देवताराधनम् … १४३-१४६ शूद्रकसभाविसर्जनम् ….. … २८-३० खप्नविषयालोचनम् … शुद्रकनानम् ।

गर्भवार्तावगमः … …. १४९-१५२ सभामण्डपवर्णनम् ।

३५-३६

गर्भवती विलासवती … … १५३-१५४ शुककथारम्भः

३७-३८ राज्ञो गर्भवार्तावगमः … …. १५५-१५६ विन्ध्याटवी

३९.४३ चन्द्रापीड जन्मोत्सवः … अगस्त्याश्रमः

सूतिकागृहवर्णनम् … … १५९-१६१ पम्पासरः ।

४७-५० . । जातस्य कुमारस्य वर्णनम् १६३ शाल्मलीतरुः

____५१-५२ शुकनासपुत्रजन्मोत्सवः

… १६५ - शुकानां निवासादि

चन्द्रापीडस्य शिक्षा … शुकोत्पत्तिः :

चन्द्रापीडस्य यौवनोद्गमः …..१६९ प्रभातवर्णनम्

तारापीडस्य गृहगमनादेशः … १७१ शबरमृगया

इन्द्रायुधः … … … १७३-१७७ मृगयाकोलाहला

चन्द्रापीडस्य विद्यागृहात्प्रत्यावर्तनम् १७९ शबरसन्यवर्णनम्

नगरं प्रति प्रस्थानम् . ……… १८१ शबरसेनापतिः

६५-१८ चन्द्रापीडप्रवेशे पुरनारीणां भावाः … १८३ . .’ शबरचरित्रालोचनम्

नारीणां भावालापाः… १८५-१८८ शुकम्य पतनम्

राजभवनम् … … शुकस्य खदशावर्णनम् …

चन्द्रपीडस्य मातापित्रोदर्शनम् … २०३-२०६ हारीतवर्णनम्

७८-८२ चन्द्रापीडस्य शुकनाससाक्षात्कारः … २०७-२०९ जाबाल्याश्रमः

८३-८९

शुकनास-तत्पनीसाक्षात्कारः २१० जाबालिः

सन्ध्यावर्णनम् …. … २११-२१४ शुकस्य खवृत्तान्तः

चन्द्रापीडस्य मृगया …. … ११५ सन्ध्यावर्णनम् ।

… १०३-१०४ / चन्द्रापीडस्य विश्रामभोजनादिव्यापारा २१७ रात्रिवर्णनम् ।

… १०५-१०८ ताम्बूलकरकचाहिन्याः परिचयः … २१९ । कथारम्भः-उजयिनी …. १०९-१२० शुकनासोपदेशः

… २२१-२३८


७५-७७

14

.11

.

4

१०.१…

पापर

TA

  • Li”.

PEG

ein

Andhe “THEORAVANEResthes iaTimiKISANSAVLINENERAPTASHAMEmplem

Ivame mem

pleyantiINETTIAHKNawada–५

कादम्बरी।…

..

पृष्टाकाः ।

.

DA

विषयाः

विषयाः

पृष्ठाकाः चन्द्रापीडस्य दिग्विजययात्रा __… २३९-२५४ कादम्बर्याः प्रतिसंदेशः … दिग्विजयः … … … २५५ कादम्बरीभवनप्राप्तिः … .. ३७९ किंनरमिथुनाप्राप्ती निर्वेदः … २५७-२५९ । कुमारीपुरस्य वृत्तान्तः … ३८१ সালু

…. २६१ . कुमारीपुरकोतुकानि अच्छोदसरः

… २६३-२६८ कुमारीपुरवृत्तान्तः … …. ३८५ जलपानविश्रामो

… २६९ कादम्बरीवर्णनम् … … ३८७-३९४ शिवसिद्धायतनम्

२७१-२७६ कादम्बरीचन्द्रापीडयोमिथोभावावेशः ३९५ महाश्वेता …

… २७७-२८६

चन्द्रापीडदर्शने कादम्बर्या भावावेशः ३९४-४०२ महाश्वेताकृतमातिथ्यम् .., २८७-२८९

शुकसारिकामुखेन कौतुकारम्भः … ४०३ महाश्वेता प्रति प्रश्नः

२९१ महाश्वेताया वृत्तान्तः … २९३ .

कादम्बर्याः खविकारजा चिन्ता … ४०५-४०८ … २९५

चन्द्रापीडस्य मनसि विचाराः महाश्वेताजन्म

… ४०९-४११ महाश्वेतालानागमनवृत्तान्तः … २९७

कादम्बरीप्रहितमदलेखागमनम् … ४१३ पुण्डरीका … …। … २९९.३०२

कादम्बरीप्रहितहारदर्शनम् … ४१५ ‘महाश्वेताया अवस्था … ३०३-३०६

। कादम्बरीप्रहितोपहारसमणम् … ४१७४ १९ महाश्वेतादर्शने पुण्डरीकावस्था … ३०७

सन्ध्यावर्णनम् … .. ४२१ पुण्डरीकजन्मवृत्तान्तः … ३०९-३११

कादम्बरीचन्द्रापीडयोः प्रीतिवर्धक पुण्डरीकाय कपिजलोपदेशः … ३१३

उपचारः … ४२३४२५ विरहातुरा महाश्वेता ……. ३१५

चन्द्रापीडस्य कादम्बर्युपगमनम् … ४२७ पुण्डरीकस्य प्रवृत्तिनिवेदनम् . …३१७-३२०

चन्द्रापीडस्य गृहप्रस्थानम् …. ४२९ महाश्वेताया विह्वलता …

कादम्बर्याः संवादप्रेषणम्

… ३२१ कपिजलस्यागमनम् … … ३२३

कादम्बरीविषयकः प्रश्नः मदनार्तपुण्डरीकस्य दशा … ३२५-३३०

चन्द्रापीडस्य पुनः कादम्बरीभवने प्रया० ४३५ कपिञ्चलकृत उपदेशः … … ३३१

काम्बरीभवने शीतोपचारसजा … ४३७-४४१ पुण्डरीकोपचारः .. …. . … ३३३ उत्कण्ठिता कादम्बरी …. ….४४१-४४५ . पुण्डरीकस्य कृते कपिजलस्य चिन्ता ३३५ ॥

द्वयोः सभनि भाषणम् … … ४४७ . महाश्वेतायाः खकर्तव्य विचारः .. ३३७ स्कन्धावारे तारापीडस्य पत्रप्राप्तिः ४४९ …. चन्द्रोदयः ………. … … ३३९ चन्द्रापीडस्योजयिनीप्रस्थानम् … ४५१ महाश्वेताया अभिसारः … … ३४-३४५ मागें शून्यावी …. … ४५३ उपरतः पुण्डरीकः … … ३४९-३५१ रकध्वजस्य दर्शनम् … … ४५५ महाश्वेताया विलापः … … ३५३-३५६ चण्डिकावर्णनम् … … ४५७– पुण्डरीकशरीरस्य गगने नयनम् … ३५७ जरविड धार्मिकवर्णनम् . … ४६१ महाश्वेतावृत्तान्तोपसंहारः … ३६१ द्रविडधार्मिकपरिचयः चन्द्रापीडस्य महाश्वेतासान्त्वनम् … ३६३-३६८ उजयिनीप्रवेशः .. …. महाश्वेता-चन्द्रापीडयोः सान्ध्यविधिः ३६९ पत्रलेखाया आगमनम् … … कादम्बरीजन्मादिकथा …. … ३७१..

पत्रलेखातः कादम्बरीवृत्तश्रवणम् … ४६९-४८० केयूरकेण सह तरलिकाया आगमनम् ३७३. वर्षकपूर्वार्धपूर्तिः ……. ….:४८१

पृष्ठाडाः मङ्गलाचरणम् . … … ४८३ तारापीडस्याज्ञापनम् … … ५८३ कथारम्भप्रस्तावना … … ४८७ . मातुरनुमतियाचनं यात्रासंविधानं च ५८५ पत्रलेखाद्वारा कादम्बर्याः संदेशः … ४८७-४९४ । प्रस्थापनकालिकी मातुरुक्तिः … ५८७. कादम्बयों वृत्तान्तश्रवणम् …. ४९५ पितुः शिक्षा …

… ५८९ चन्द्रापीडस्यानुतापः … … ४९७-५०० विसर्जने पितुरुक्तिः … … ५९१ चन्द्रापीडस्य मनसि विचारः . . … ५०१

मार्गे गच्छतश्चन्द्रापीडस्य भावनाः … ५९५-५९७ चन्द्रापीडस्य विरहावस्था. .. … . ५५०३-१०६ मार्ग प्राट्रकालः … ’ … ५९९ आगच्छतः केयूरकस्यावलोकनम् …. ५०७ प्रावृषा कुमारस्य वैकल्यम् … ६०१ कादम्बरीदशानिवेदनम् . … ५०९ परावर्तमानस्य मेघनादस्य दर्शनम् ६०३ कादम्बयों विरहावस्था … … ५११-५२० मेघनादसंदेशेन विषादः

विषादः … ६०५ चन्द्रापीडस्य प्रतिवचनम् … ५२१-५२४ । अच्छोदगमनम् … . … ६०७ केयूरकेण सह संलापः …

महाश्वेताश्रमे गमनम् ……….६०९ यात्रार्थ चन्द्रापीडस्य विचारः … ५२९ । तस्या वैशम्पायनवृत्तश्रवणम् वैशम्पायनस्यागमनश्रवणम् ….. ५३१ वैशम्पायनस्य महाश्वेताभिसारः … ६१५ पत्रलेखया सह केयूरकस्याग्रतो बिसर्जनम्५३३ वैशम्पायनस तिरस्कारः … ६१७ कादम्बर्यर्थ पत्रलेखायै संदेशः … ५३५ । वैशम्पायनस्य मृत्युः, चन्द्रापीडस्य .. पत्रलेखाया अभिनन्दनं विसर्जनं च ५३७ ।

हृदयस्फोटः… … ६१८ चन्द्रापीडस्य परिणयप्रस्तावः … ५३९. कादम्बर्यास्तत्रागमनम् … ६२१ चन्द्रापीडस्योत्सुक्यम् … … ५४१. अनुमरणार्थ विलापः … … ६२३-६२६ अपररात्रे यात्राशसध्वनिः । ५४३ आकाशवाण्या कादम्बर्याः सान्त्वनम् ६२७ चन्द्रापीडस्य यात्रासमारोहः … ५४५ कपिजलस्यागमनम् … ….६२९ मार्ग प्रातःकालः …….. ५४७.

कपिजलस्य वृत्तम् …… ६३१-६३३ स्कन्धावारदर्शनम् …..

कपिजलकृतं सान्त्वनम् ……… ६३५ वैशम्पायनार्थ प्रश्नः … … ५५१

महाश्वेतोपदेशात्कादम्बाश्चन्द्रापीड

………. : देहरक्षा .. ६३७ स्कन्धावारलोकेभ्यो वैशम्पायनवृत्तान्त

श्रवणम् …

शरीरस्य निर्विकारतया सर्वेषां प्रमोदः ६३९ वैशम्पायनवृत्तान्तः

५५५–५५८

। दूतानां कुमारदर्शनाग्रहः … ६४३ वैशम्पायनस्यावस्थाश्रवणम्

दूतानां सान्त्वनम् … चन्द्रापीडस्य चेतसि चिन्ता ५६.१

दूतैः सह खरितकप्रेषणम् पटमण्डपे दैनिककार्यकरणम्

देवमन्दिरे विलासवत्या दूतानामाह्वानम् ६४९-६५१ मध्याह्नः …

अशुभमनुमाय तस्या विलापः … ६५३ चन्द्रापीडस्योजयिनीयात्रा ५६७

तारापीडस्यागमनम् …… … ६५५ पितुश्चन्द्रापीडोपरि संदेहः ।

राज्ञा विलासवत्याः सान्लनम् … ६५७ शुकनासस्य चन्द्रापीडप्रशंसा

सर्व वृत्तं श्रुखा राज्ञो मरणाध्यवसायः ६५९ वैशम्पायनतिरस्कारः … … ५७५ शुकनासस्य सान्त्वनम् … … ६६१– तारापीडस्य शुकनासपरिबोधनम् … ५७७ सपरिकरस्य राज्ञो गमनम् … ६६५ चन्द्रापीडस्य यात्रानुमतियाचनम् … ५७९–५८१ । अच्छोदतीरे मेघनादस्याभिगमनम् … ६६५

पृष्ठात्राः विलासवत्याः शोकः … … … ६६९ कादम्बर्या दर्शनमालापश्च … ६७१ तारापी इस्य परि शमः … … ६७३ चन्द्रापीडादीनां जन्मप्रश्नः " … ६७५ पुनः पूर्वावस्थाप्राप्तिप्रश्नः … ६७७ गोष्ठी भक्त्वा जाबालेरुथानम् … ६७९ शुकरूपपुण्डरीकेण सह कपिजलसमागमः६८१ कपिजलस्य श्वेतकेत्वादिवृत्तनिवेदनम् ६८३ जाबाल्याश्रमं त्यक्त्वा शुकस्योड्डयनम् ६८५ वृक्षे निद्रितस्य तस्य चण्डालहस्ते गमनम् ६८७

विषयाः

पृष्ठाकाः दीनप्रार्थनोत्तरमपि पकणे नयनम् … ६८९-९२

चण्डालकन्यया पजरबन्धः …६९३ निर्वेदात शुकस्य भोजनादित्यागः … ६९५ राज्ञो जन्मान्तरसरणम् … .६९७ शुकस्य राज्ञश्च शरीरयागः … ६९९ वसन्तागमने कादम्बयुत्कण्ठा … ७०१ चन्द्रापी डस्योजीवनं पुण्डरीकस्यागमनं च ७०३.५ कपिालद्वारा श्वेतकेतुसंदेशः … ७०७ चन्द्रापीडपुण्डरीकथाविवाहः … ७०९ । चन्द्रापीडादीनां सुखलामः … ७११ .