०२ उत्तरभागः

देहद्वयार्धघटनारचितं शरीरमेकं ययोरनुपलक्षितसन्धिभेदम् ।
वन्दे सुदुर्घटकथापरिशेपसिद्ध्यै सृष्ठेर्गुरू गिरिसुतापरमेश्वरौ तौ ॥ १ ॥
व्याधूतकेसरसटाविकरालवक्त्रं हस्ताग्रविस्फुरितशङ्खगदासिचक्रम् ।
आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि ॥ २ ॥
आर्यं यमर्चति गृहे गृह एव लोकः पुण्यैः कृतस्य यत एव ममात्मलाभः।
सृष्टैव येन च कथेयमनन्यशक्या वागीश्वरं पितरमेव तमानतोऽस्मि ॥ ३ ॥
याते दिवं पितरि तद्वचसैव सार्धं विच्छेदमाप भुवि यस्तु कथाप्रबन्धः ।
दुःखं सतां तदसमाप्तिकृतं विलोक्य प्रारब्ध एव स मया न कवित्वदर्पात् ॥ ४ ॥
गद्ये कृतेऽपि गुरुणा तु तथाक्षराणि यन्निर्गतानि पितुरेव स मेऽनुभावः ।
एकप्लवामृतरसास्पदचन्द्रपादसम्पर्क एव हि मृगाङ्कमणेर्द्रवाय ॥ ५ ॥
गङ्गां प्रविश्य भुवि तन्मयतामुपेत्य स्फीताः समुद्रमितरा अपि यान्ति नद्यः ।
आसिन्धुगामिनि पितुर्वचनप्रवाहे क्षिप्ता कथानुघटनाय मयापि वाणी ॥६॥
कादम्बरीरसभरेण समस्त एव मत्तो न किञ्चिदपि चेतयते जनोऽयम् ॥
भीतोऽस्मि यन्न रसवर्णविवर्जितेन तच्छेपमात्मवचसाप्यनुसन्दधानः ॥ ७ ॥
बीजानि गर्भितफलानि विकाशभाञ्जि वप्त्रैव यान्युचितकर्मबलात्कृतानि ।
उत्कृष्टभूमिविततानि च यान्ति पुष्टिं तान्येव तस्य तनयेन तु संहृतानि ॥ ८॥

अपि चेदानीमानीतस्यापि कुमारस्य न ददाति तरलतालज्जिता लज्जैव दर्शनम् । मनो भवविकारवेदनाविलक्षं वैलक्ष्यमेव न पुरस्तिष्ठति । अप्रतिपत्तिसाध्वसजडा जडतैव नोपसर्पति । स्वयमुपसर्पणलघुलाघवमेव तत्प्रतिपत्तिस्थैर्यं नावलम्बते । बलात्तदानयनापराधभीता भीतिरेव न सम्ममुखीभवति । अथ कथञ्चिद्गुरुजनत्रपया वा, राजकार्यानुरोधेन वा, चिराव लोकितसहसंवर्धितबन्धुजनोत्कण्ठया वा,सुहृन्मुखकमलदर्शनेन वा,पुनरागमनखेदपरिजिहीर्षया वा, निजगृहावस्थानरुच्या वा, जन्मभूमिस्नेहेन वा, अनिच्छया वास्य जनस्योपरि पाद पतनेनापि नानेतुमेव पारितो यदा मयि स्नेहात्कृतयत्नयापि प्रियसख्या पत्रलेखया तदा सुतरामेव न किञ्चित् । किं चाधुनौप्यधिकमुपजातम्। सैवाहं कादम्बरी यानेन कुमारेण मत्तमदमुखरमधुकरकुलकलकोलाहलाकुलिते कोककामिनीकरुणजिते विरहिजनमनोदुःखे विकचदलारविन्दनिस्यन्दसुगन्धमन्दगन्धवाहानन्दितदशदिशि प्रदोषसमये, विकसितकुसुमामोदमुकुलितमानिनीमानग्रहोन्मोचनहस्ते कुसुमायुधे, कर्पूरविशदकरनिकरनिर्भरावर्जितज्योत्स्नाजलासारवर्पिणि चन्द्रमसि, दूरविक्षिप्तदलनिवहकुमुदकाननामोदवासितदिगन्तायाः कुमुदिन्यास्तटे, चन्द्रकरस्पर्शप्रवृत्तशशिमणिशिखरनिर्झरझङ्कारिणि क्रीडार्वतनितम्बके, हृद्यहरिचन्दनरसकणिकाजालकच्छलेन तत्करतलस्पर्शसुखसम्भवस्वेदजलनिवहमिव वहति तत्कालहारिणि मुक्ताशिलापट्टशयने, कुसुमामोदसुरभितदशदिशि तुषारकणविकरहोरिण्यपि बहिरेव देहदाहमानकायहारिणी सर्वरमणीयानां सन्दोहभूते हिमगृहे कुसुमस्रस्तरावलम्बिनी वीक्षिता ममापि चापुनरुक्ततद्दर्शनस्पृहे ते एवैते लोचने, ययोरालोकनपथमसौ यातः । तदेव चेदमप्रतिपत्तिशून्यं हतहृदयम् , येनान्तः प्रविष्टोऽपि न पारितो धारयितुम् । तदेव चैतच्छरीरम्, येन तत्समीपे चिरमुदासीनेन स्थितम् । स एव चायं पाणिः, योऽलीकगुरुजनापेक्षी नात्मानं परिग्राहितवान् । अनपेक्षितपरपीडश्चन्द्रापीडोऽपि स एव, योऽत्र वारद्वयमागत्य प्रतिगतः। मय्येवोपक्षीणमार्गणतया वाकिञ्चित्करोऽन्यत्र पञ्चशरोऽपि स एव, यस्त्वयावेदितो मे ।

प्रतिज्ञातं च मया महाश्वेतायाः ‘त्वयि दुःखितायां नामात्मनः पाणिं ग्राहयिष्यामि’ इति तामहं पुनरप्यवदम् । सा तु ‘देवि, मैवं स्म मनसि करोः । कुमतिरियम् । अतिदारुणोऽयं पापकारी मकरकेतुः कदाचिददृश्यमाने प्रियजने जनितहृदयानुरागाज्जीवितमध्यपहरति’ इत्यब्रवीत् । तदपि नास्त्येव मे । मदनेन वा, देवेन वा, विरहेण वा, यौवनेन वा, अनुरागेण वा, मदेन वा, हृदयेन वा, अनेन वा केनापि दत्तः सङ्कल्पमयः कुमारो जनसन्निधावपि केनचिदविभाव्यमानः सिद्ध इव सर्वदा मे ददाति दर्शनम् । अपि चासाविव नायमकाण्डपरित्यागनिष्ठुरहृदयः । अयमेवास्माद्विरहकातरः । नायं नक्तं दिवं लक्ष्म्या समाकुलः । न पृथिव्याः पतिः । न सरस्वतीमपेक्षते । न कीर्तिशब्दं वर्धयति । पश्यामि चाहनि शमासीनोत्थिता भ्राम्यन्ती शयाना जाग्रती निमीलितलोचना चलन्ती स्वप्नायमाना शयने श्रीमण्डपे गृहकमलिनीषूद्यानेषु लीलादीर्घिकासु क्रीडापर्वतके बालगिरिनदिकासु च यथा तमज्ञजनविडम्बनैकहेतुं विप्रलम्भकं कुमारं ते तथा कथितमेव मया । तदलमनया तदानयनकथया’ इत्यभिदधानातर्कितागतमूर्च्छेव निमीलिताक्षी पक्ष्माग्रसम्पिण्डितनयनजलवर्षिणी विलीयमानेवोत्पीड्यमानेवान्तर्जातमन्युवेगेन तथैव वेदिकाविताननाभिदामांशुकावलम्बिन्यां बाहुलतिकायामच्छसलिलप्रसृतायां मृणालिकायामिव जलाहतिश्यामारुणतामरसमिवाननमुपावेश्य तूष्णीमुत्कीर्णेव तस्थौ । अहं तु तच्छ्रुत्वा समचिन्तयम् -‘सत्यमेव गरीयः खलु जीवितालम्बनमिदं वियोगिनीनाम्, यदुक्तं सङ्कल्पमयः प्रियो नितरां कुलाङ्गनानां विशेषतः कुमारीणाम् । तथा हि । अनेन सार्धमकृतदूतिकापादपतनदैन्यान्यानि च प्रतिक्षणं समागमशतान्यकालरमणीयानि स्वेच्छाभिसरणसौख्यान्यत्यन्ताषितकन्यकाभावानि सुरतानि, सुरतेपु चाकृतस्तनव्यवधानदुःखान्यालिङ्गनानि, अजनितव्रणदर्शनव्रीडानि नखदन्तपदानि, अनाकुलितकेशपाशाः कचग्रहमहोत्सवाः, शब्दविहीनानि निधुवनानि, अनुत्पादितगुरुजनविभावितक्षतवैलक्ष्याण्यधरखण्डनविलसितानि । नैनमन्धकारराशिरन्तरयति, न जलधरधारापातः स्थगयति, न नीहारनिकरस्तिरोदधाति’ इत्येवं चिन्तयन्त्या एव मेऽनुरागकथारसप्लावेनेव रक्ततामगाद्दिवसः। तत्क्षणं प्रकृटितरागं हृदयमिव कादम्बर्यास्त्रपया पलायमानमदृश्यत रविमण्डलम् । पल्लवशयनमिव सन्ध्यारागमरचयद्यामिनी । परिचारक इव चन्द्रमणिशिलातलतल्पमकल्पयत्प्रदोषः । अत्रान्तरे चागत्य खं स्वं नियोगमशून्यं कुर्वाणा दूरतो दीपिकाधारिण्यो गन्धतैलावसिक्तसु रभिगन्धोद्गारिणीभिर्दीपिकाभिर्विरचितचक्रवालिका बालिकाः पर्यवारयन । अथ निर्मल लावण्यलक्षितानि दीपिकाप्रतिविम्बानि ज्वलितानि मदनसायकस्य शल्यकानीवाङ्गलमानि समुद्वहन्तीं नवनिरन्तरकलिकाचितां चम्पकलतामिव तथास्थितां तां पुनर्व्यजिज्ञपम्-‘देवि, प्रसीद । नार्हस्यखेदारे हृदयखेदकारिणं संतापमङ्गीकर्तुम् । संहर मन्युवेगम् । एषाहमादायचन्द्रापीडमागतैव’ इति । अथानेन देवनामग्रहणगर्भेण मद्वचसा विपापहरणमन्त्रेण विषमूर्च्छितेव झटित्युन्मील्य नयने सस्पृहं मामवलोक्य ‘कः प्रदेशेऽस्मिन्’ इति परिजनमपृच्छत् ।

अथ धवलवसनोल्लासितगात्रयष्टयः, द्वारप्रदेशसम्पिण्डिताङ्ग्यः, परशुरामशरविवरविनिर्गता इव राजहंसपङ्क्तयः, कलहंसकलालापमधुररवैः प्रतिवाचमिव प्रयच्छद्भिर्नूपुरैः पतत्कर्णपूरपल्लवोल्लासितैश्वाज्ञाश्रवणाय धावद्भिरिव श्रवणैमौक्तिककुण्डलांशुजालकानि स्कन्धदेशनिक्षि तानि चामराणीव वहन्त्यः, समाहतकपोलस्थलैः कुण्डलैर्बलादिव वाह्यमानाः, वाचालैः कर्णो त्पलमधुकरैः ‘समाज्ञापय’ इति व्याहरन्त्यः कन्यकाः समधावन् । आज्ञाप्रतीक्षासु च मुखक मलावलोकिनीषु च तासु क्रमेण दृष्टिं पातयन्ती मैरकतशिलातले न्यषीदत् , अब्रवीच—-‘पत्र लेखे, न खलु प्रियमिति ब्रवीमि । त्वामेव पश्यन्ती संधारयाम्येव जीवितमहम् । तथापि य द्ययं ते ग्रहस्तत्साधय समीहितम्’ इत्यभिधायाङ्गस्पृष्टनिवसनाभरणताम्बूलप्रदानप्रदर्शितप्र सादातिशयां मां व्यसर्जयत् । ___ इत्यावेद्य च किंचिदिव नमितमुखी शनैः पुनर्व्यजिज्ञपत्–‘देव, प्रत्यप्रदेवीप्रसादातिश याहितप्रागल्भ्या दुःखिता च विज्ञपयामि । देवेनाप्येतदवस्थां देवीं दूरीकुर्वता किमिदमापन्न वत्सलायाः स्वप्रकृतेरनुरूपं कृतम्’ इति । चन्द्रापीडस्तु तथोपालम्भगर्भ-विज्ञप्तः पत्रलेखया तं च कादम्बर्याः स्नेहोक्तिपुरःसरम् , गम्भीरं च, सतापं च, सपरिहासंच, साभ्यर्थनं च, साभिमानं च, सावलेहं च, सप्रसादं च, सनिर्वेदं च, सानुरागं च, सकोपं च, सनि विशेषं च, सावष्टम्भं च, सात्मार्पणं च, सोत्प्रासं च, सोपालम्भं च, सानुक्रोशं च, सस्पृहं च, सावधारणं च, मधुरमपि दुःश्रवम् , सरसमपि शोषहेतुम , कोमलमपि कठोरम, नम्रमप्युन्नतम , पेशलमप्यहंकृतम् , ललितमपि प्रौढमालापमार्योत्प्रेक्ष्योत्प्रेक्ष्य च स्तिमितपक्ष्मतया दुर्विषहदुःखबाष्पोपप्लुतायताक्षं तन्मुखं स्वभावधीरप्रकृतिरपि नितरां पर्याकुलोऽभवत् । ___ अथ कादम्बरीशरीरादिवालापपदैरेव सहागत्य युगपद्गृहीतो हृदये मन्युना कण्ठे जीवितेन, अधरपल्लवे वेपथुना, मुखे श्वसितेन, नासाने स्फुरितेन, चक्षुपि बाप्पेण तुल्यवृत्तिर्भूत्वा कादम्बर्याः क्षरद्वाष्पविक्षेपपर्याकुलाक्षरमुच्चैः प्रत्युवाच - ‘पत्रलेखे, किं करोमि। अनेन दुःशिक्षितेन ज्ञानाभिमानिना पण्डितंमन्येन दुर्विदग्धेन दुर्बुद्धिनालीकधीरेण स्वयंकृतं मिथ्याविकल्पशतसहस्रभरितेनाश्रद्दधानेन मूढहृदयेन यद्यदेवानेकप्रकारं शृङ्गारनृत्ताचार्येण भगवता मनोभवेनान्तर्गतविकारावेदनाय मामुद्दिश्य वाला बलात्कार्यते, तत्तदेवादृष्टपूर्वत्वाद्धि दिव्यकन्यकानां रूपानुरूपलीलासंभावनया च तावतो मनोरथानप्यात्मन उपर्यसंभावना च सर्व सहजमेवैतदस्या इति विकल्पसंशयदोलाधिरूढं मां ग्राहयतैवमीदृशस्य देव्या दुःखस्य तव चोपालम्भस्य हेतुतां नीतोऽस्मि । मन्ये च ममाधि मनोव्यामोहकारी कोऽपि शाप एवायम् । अन्यथाप्रबुद्धबुद्धेरपि येषु न संदेह उपपद्यते, तेष्वपि स्फुटेषु मदनचिह्नपु कथं मे धीर्व्यामुह्येत । तिष्ठन्त्वेव तावदतिसूक्ष्मतया दुर्विभाववृत्तीनि तानि स्मितावलोकितकथितविहतलीलालज्जायितानि, यान्यथापि संभवन्ति । चिरानुभूतात्मकण्ठसंसर्गसुभगं हारमिममकृतपुण्यस्य मे तत्क्षणमेव कण्ठे कारयन्त्या किमिव नावेदितम् । अपि च हिमगृहकवृत्तान्तस्तु तवापि प्रत्यक्ष एव । तत्किमत्र प्रणयकोपाक्षिप्तयाप्यन्यथा व्याहृतं देव्या । सर्व एवायं विपर्ययान्मम दोषः । तदधुना प्राणैरप्युपयुज्यमानस्तथा करोमि यथा नेदृशमेकान्तनिष्ठरहृदयं जानाति मां दवी’ इत्येवं वदत्येव चन्द्रापीडेऽश्रावितैव प्रविश्य वेत्रहस्ता प्रतीहारी कृतप्रणामा व्यज्ञापयत् —‘युवराज,एवं समादिशति देवी विलासवती, कृतजल्पात्परीजनतः श्रुतं मया, यथा किल पृष्ठतः स्थिताद्य पत्रलेखात्र पुनः परागता’ इति । ‘न च मे त्वय्यस्यां च कश्चिदपि स्नेहस्य विशेषो विलसतीति मयैवेयं संवर्धिता । अपि च तवापि कापि महती वेला वर्तते दृष्टस्य । तदनया सहित एवागच्छ । मनोरथशतलब्धमतिदुर्लभं ते मुखकमलांवलोकनम्’ इति । चन्द्रापीडस्तु तदाकर्ण्य चेतस्यकरोत्-‘अहो संदेहदोलाधिरूढं मे जीवितम् । एवमम्बा निमेपमपि मामपश्यन्ती दुःखमास्ते । पत्रलेखामुखेन चैवमाज्ञापितमागमनाय मे निष्कारण वत्सलेन देवीप्रसादेन । आजन्मक्रमाहितो बलवाञ्जननीस्नेहः, वाञ्छाव्याकुलं हृदयम् , अमोच्यं तातचरणशुश्रूषासुखम् । प्रमाथी मन्मथहतकः, हारिणी गुरुजनलालना, दुःसहान्युत्कण्ठितानि, अनुबन्धिनी बान्धवप्रीतिः, कुतूह लिन्यभिनवप्रार्थना, मुखावलोकिनः कुलक्रमागता राजानः, जीवितफलं प्रियतमामुखावलोकनम्, अनुरक्ताः प्रजाः, गरीयान्गन्धर्वराजसुतानुरागः, दुस्त्यजा जन्मभूमिः, परिग्राह्या देवी कादम्बरी, कालातिपातासहं मनः, विप्रकृष्टमन्तरं हेमकूटविन्ध्याचलयोः’ इत्येवं चिन्तयन्नेव प्रतीहार्योपदिश्यमानमार्गः पत्रलेखाकरावलम्बी जननीसमीपमगात्। तत्रैव च तमनेकप्रकारजननीलालनसुखाचिन्तितदुर्विषहहृदयोत्कण्ठं दिवसमनयत् । उपनतायां चात्मचिन्तायामिवान्धकारितदशदिशि शर्वर्याम, अनिवार्यविरहवेदनोन्मथ्यमानमानसाकुलेषु कलकरुणमुच्चैर्व्याहरत्सु चक्रवाकयुगलेषु, उत्तेजितस्मरशरं समुत्सर्पमाणेषु चन्द्रमसोऽकोल्लधूलिधूसरालोकेष्वग्रमयूखेषु, विजृम्भमाणकुमुदिनीश्वासपरिमलग्राहिणि मन्दमावातुमारब्धे प्रदोषानिले च, शयनवर्ती निमीलितलोचनोऽप्यप्राप्तनिद्राविनोदो हेमकूटागमनखेदान्निपत्य विश्रान्तेनेव पादपल्लवच्छायायाम् , जैवानुरोधरोहिणा लग्नेनेव संहतयोरूर्वोः, उल्लिखितेनेव विस्तारिणि नितम्बफलके, मनेनेव नाभिमुद्रायाम् , उल्लसितेनेव रोमराज्याम् , आरूढेनेव त्रिवलिसोपानहारिणि मध्यभागे, कृतपदेनेवोन्नतिविस्तारशालिनि स्तनतटे, मुक्तास्मनेव बाह्वोः कृतावलम्बनेनेव हस्तयोः, आश्लिष्टेनेव कण्ठे, प्रविष्ठेनेव कपोलयोः, उत्कीर्णेने वाधरपुटे, प्रथितेनेव नासिकासूत्रे, समुन्मीलितेनेव लोचनयोः, स्थितेनेव ललाटशालायाम् , अन्वितेनेव चिकुरभारान्धकारे, प्लवमानेनेव सर्वदिक्पथप्लाविनि लावण्यपूरप्लवे मनसा सस्मार स्मरायतनभूतस्य कादम्बरीरूपस्य ।

उत्पन्नात्मीयबुद्धिश्च निर्भरस्नेहाचेतास्तत एव वासरादारभ्य तां प्रति गृहीतरक्षापरिकर इव यतो यत एव मण्डलितकुसुमकार्मुकं मकरध्वजमस्यां प्रहरन्तमालोकितवान्, ततस्तत एवात्मानमन्तरेऽर्पितवान् । ‘एवमम्लानमालतीकुसुमकोमलतनौ निर्घृणं प्रहरन्न लजसे’ इत्यु ‘पालभमान इव दिवसमुत्तरलतारयान्तर्बाष्पया दृष्या कुसुमचापम् , पुनः स्मरशरप्रहारमूच्छितां संज्ञामिव लम्भयितुं तामवयवरुवाह स्वेदजललवानुत्ससर्ज च दीर्घदीर्घानिःश्वासमारुतान् । तश्चेतनालम्भमुदित इव च सर्वाङ्गीणं क्षणमपि न मुमोच रोमाञ्चम् । सह्यते हैदयेन वेदना न वेति तद्वार्तां प्रष्टुमिव नियुक्तेन मनसा शून्यतामधार्षीत् । तत्प्रतिवार्ताकर्णनायैव च गृहीतमौनः सर्वदैवातिष्ठत् । तदाननालोकनान्तरितमिव सर्वमेव नाद्राक्षीत् । चन्द्रबिम्बेऽपि नास्य दृष्टिररमत । तदालोपपूरितश्रोत्रेन्द्रिय इव न किंचिदंपरमन्तःकर्णं कृतवान् । वीणाध्वनयोऽप्यस्य बहिरेवासन् । सुभाषितान्यपि न प्रवेशमलभन्त । सुहृद्वाचोऽपि पुरुषा इवाभवन् । बान्धवजनजल्पितान्यपि नासुखायन्त । भावावगमभीत्येव यथापूर्वं न कस्यचिद्दर्शनमदात् । अनवरतमुक्तज्वालेन मदनहुतभुजान्तर्दह्यमानोऽपि गुरुजनत्रपया न सद्यःसमुद्धृता र्द्रारविन्दशयनममजत । न सरसबिसलताजालकानि गात्रेष्वकरोत् । न जललवमौक्तिकक्षो दतारकितान्यंजरठपद्मिनीपत्राणि पार्श्वेऽप्यकारयत् । न कुसुमपल्लवनस्तररचनामादिदेश । नानवरतधारापातोल्लसितशिशिरशीकराबद्धदुर्दिनं ददर्शापि धारागृहम् । न मकरन्दसंततसं पातशीतलाभ्यन्तराणि हर्म्योद्यानलताभवनान्यप्यसेवत, न मलयजजललुलितपृष्ठेषु मणिकुट्टिमेष्वप्यलुठदिच्छया । न तुहिनकरकरनिकरसंक्रान्तिहृद्येषु ललनाकरकलितचन्द्रकान्तमणिदर्पणेष्वप्यसंक्रामयदात्मसंपातम् । किं बहुना नाश्यानहरिचन्दनरसचर्चामप्या चरणाददापयत् ।

एवमेव केवलं रात्रौ दिवा चाकृतनिर्वृतिरा ज्वलताप्यदहनात्मकेन दहताप्यक्षतस्नेहेन्धनेनदुःखानुभवनायैव भस्मसादकुर्वता मदनदहनेनान्तर्बहिश्च क्वाथ्यमानदेहः शोपमगान , आद्रतां पुनः प्रतिक्षणाधीयमानवृद्धिं नात्याक्षीत् । एवं च निष्प्रतिक्रियतयादुस्त्यजतया वातिवि संस्थुलेनोपास्यमानोऽपि मनसिजेनाकारमेव लोकलोचनेभ्योऽरक्षत् , न कुसुमशरसायकेभ्यो जीवितम् । तनोरेव तानवमङ्गीचकार, न लज्जायाः। शरीरस्थितावेवानादरं कृतवान् , न कुलस्थितौ । प्रजा एवान्वरुध्यत, न मन्मथोत्कलिकाः । सुखमेवावधीरयामास, न धैर्यम् । एवं चास्य पुरः कादम्बरीरूपगुणावष्टम्भाहितप्राणेन बलवतानुरागेणाकृष्यमाणस्य, पश्चाद्गुरुजनप्रतिबन्धदृढतरेण महीयसा स्नेहेन च वार्यमाणस्य, गम्भीरप्रकृतेः सरित्पतेरिव चन्द्रमसा सुदूरमुल्लास्यमानस्यापि मर्यादावशादात्मानं स्तम्भयतः कथंकथमपि कतिपयेष्वपि सहस्रसंख्या यमानेष्वतिक्रान्तेषु वासरेषु, एकदा रणरणकसकाशादिवान्तरलब्धावस्थानो निर्गय बहिर्नग योस्तरङ्गसङ्गशीतशीकरांसारमरुन्ति कलक्वणितकलहंसचक्रवाकचक्रवालाक्रान्तसरससुकुमारसैकतानि सिप्रातटान्यनुसरन्, युज्यमानांश्च विरलीभवतश्च संघट्टमानांश्च विश्लिष्यतश्चो सहमानांश्च लम्बमानांश्च परापततश्च विच्छिन्नपङ्क्तयवस्थानान्स्खलतोऽपि पततोऽप्यवसीदतोऽपि च यथाशक्ति सादिभिरुत्पीडितानिःसहतया दूरांगमनखेदमतित्वरया चागमनकार्य गौरवमावेदयतो दूरादेवातिबहूनिव तुरंगमानद्राक्षीत् ।

दृष्ट्वा चोत्पन्नकुतूहलस्तेषां परिज्ञानायान्यतमं पुरुषं प्राहिणोत्। आत्मनाप्यरुदन्नेन पयसोत्तीर्य सिप्रां तस्मिन्नेव भगवतः कार्तिकेयस्यायतने तत्प्रतिवार्तां प्रतिपालयन्नतिष्ठत् । तत्रस्थश्च कुतूहलात्तस्मिन्नेव वाजिवृन्दे निक्षिप्तदृष्टिः पार्श्वस्थितां हस्तेनाकृष्य पत्रलेखामवादीत्–‘पत्र लेखे, पश्य । य एष पुर एवार्ककिरणनिवारणोल्लासितया प्रेङ्खदालोललम्बशिखया मयूरपिच्छमय्या वङ्किकया दुर्विभाव्यवदनोऽश्ववारो ज्ञायते, केयूरकोऽयम्’ इति । यावत्तया सहैवं निरूपयत्येव, तावत्तस्मात्प्रहितपुरुषादुपलब्धात्मावस्थानं दृष्टिपथ एवावतीर्य तुरंगमादापतन्तं दूराद्रुतागमनधूलिधूसरश्यामीकृतशरीरं परिवर्तित दिवेतराकारणोज्झिताङ्गरागसंस्कारमलिनेन वपुषा विषादशून्येन च मुखेनान्तर्दुःखसंभारपिशुनया च दृष्ट्या दूरत एर्वापृष्टामपि कष्टां कादम्बरीसमामवस्थामनक्षरमावेदयन्तं केयूरकमद्राक्षीत् । दृष्ट्वा च दर्शितप्रीतिरेह्येहीत्याहूय ससंभ्रमप्रणतोपमृतमतिदूरप्रसारिताभ्यां दोर्भ्यां पर्यध्वजत तम् । अपमृत्य पुनः कृतनमस्कारे तस्मिन्ननामयप्रश्नवचसा संवर्ग्य सर्वानेव तत्सहायान्पुरःस्थितं पुनः पुनः सस्पृहमालोक्य केयूरकमवादीत्- ‘केयूरक, त्वदर्शनेनैव भद्रं देव्याः सपरिवारायाः कादम्बर्या इत्येतदावेदितम् । आगमनकारणमपि विश्रान्तः सुखितः कथयिष्यसि’ इत्युक्त्वा संभ्रान्तागतारोहकढौकितां करिणीमारुह्य ‘कुतोऽस्य जनस्य सुखिता’ इत्यभिदधानमेव केयूरकं पृष्ठतः कृत्वा पत्रलेखां चारोप्य स्वभवनमयासीत् । तत्र च निषिद्धाशेषराजलोकप्रवेशः प्रविश्य वल्लभोद्यानं सपरिवारेण केयूरकेण सहोत्ताम्यता चेतसाचेतितमेव दिवसकरणीयं विवर्तयामास । निवर्य च पत्रलेखाद्वितीयः सुदूरोत्सारितपरिजनः केयूरकमाहूयाब्रवीत् - ‘केयूरक, कथय देव्याः कादम्बर्याः समदलेखाया महाश्वेतायाश्च संदेशम्’ इत्यभिहितवति चन्द्रापीडे पुरः सप्रश्रयमुपविश्य केयूरकोऽयवादीत् -‘देव, किं विज्ञापयामि । नास्ति मयि संदेशलवोऽपि देव्याः कादम्बर्याः समदलेखाया महाश्वेताया वा । यदैव पत्रलेखां मेघनादाय समर्प्य प्रतिनिवृत्य मयायं देवस्योजयिनीगमनवृत्तान्तो निवेदितः, तदैवोर्ध्वं विलोक्य दीर्घमुष्णं च निःश्वस्य सनिर्वेदम् ‘एवमेतत्’ इत्युक्त्वोत्थाय महाश्वेता पुनस्तपसे स्वमेवाश्रमपदमाजगाम । देव्यपि कादम्बरी झटिति हृदये द्रुघणेनेवाभिहता, ह्यतर्कितापतिताशनिनेव मूर्ध्नि ताडिता, अन्तःपीडाकूणननिमीलितेन चक्षुषा मूञ्छितेव, मुषितेव परिभूतेव, वञ्चितेव, चोन्मुक्तेव चान्तःकरणेन, अविदितमहाश्वेतांगमनवृत्तान्ता, चिरमिव स्थित्वोन्मील्य नयने, विलक्षेव, लजिंतेव, विस्मृतेव, विस्मयस्तब्धदृष्टिः ‘महाश्वेतायाः कथय’ इति सासूयमिव, मामादिश्य मदलेखायां पुनर्वलितमुखी सविलक्षस्मितम् ‘मदलेखे, अस्ति केनचिदपरेणैतत्कृतं करिष्यते वा यत्कुमारण चन्द्रापीडेन’ इत्येवमभिदधत्युत्थाय निवारिताशेषपरिजनप्रवेशा शयनीये निपत्योत्तरवाससोत्त माङ्गमवगुण्ठ्य निर्विशेषहृदयवेदनां मदलेखामप्यनालपन्तीं सकलमेव तं दिवसमस्थात् । परेद्युश्व प्रातरेवोपसृतं माम् ‘एवं दृढतरशरीरेषु म्रियमाणेष्विव भवत्स्वहमीदृशीमवस्थामनुभवामि इत्युपालभमानेव, ‘न मे भवद्भिः पार्श्ववर्तिभिः कार्यम्’ इति निर्भर्त्सयन्तीव, ‘किं मे पुरस्तिष्ठसि’ इत्यन्तर्मन्युवेगेन तर्जयन्तीव च बाष्पपूरोद्रेकोत्कम्पपर्याकुलया दृष्ट्या चिरमालोकितवती । तथा दृष्टश्च तया दुःखितया देव्यादिष्टमेव गमनायात्मानं मन्यमानोऽहमनिवेद्यैव देव्यै देवपादमूलमुपागतोऽस्मि । तच्च देवैकशरणजनजीवितपरित्राणाकुलमतेः केयूरकस्य विज्ञापनाकर्णनावधानदानेन प्रसादं कर्तुमर्हसि । देव, श्रूयताम् । यदैव ते प्रथमागमनेनामोदिना मलयानिलेनेव चलितं समस्तमेव तत्कन्यकालतावनम्, तदैव सकलभुवनमनोभिरामं भवन्तमालोक्य वसन्तमिव रक्ताशोकतरुलतामिवारूढवान्मकरकेतनस्ताम् । इदानीं तु महान्तमायासमनुभवति त्वदर्थे कादम्बरी । तस्या हि दिनकरोदयादारभ्य दिवसकरकान्तोपलानलस्येव निःशब्दस्यापवनेरितस्याधूमस्याभस्मनः प्रज्वलतो मकरध्वजहुतभुजोन परिजनकरकमलकलितकोमलपल्लवलास्यलीलया प्रसरभङ्गः। नानुत्तालतालवृत्तवान्तजलजडकणिकासारसेकेन निर्वृत्तिः । न सरससहरिचन्दनपङ्कच्छटाच्छुरणेन छेदः । न विदलितमुक्ताफलवालु.

कापटलोलनेन व्युपरमः । नोत्कीलितयन्त्रमयकलहंसपङ्क्तिमुक्ताम्बुधारेण धारागृहेण प्रशमः यथा यथा चलितजलयन्त्रविगलिताभिरतिशिशिरशीकरनिकरतारकिताभिरम्बुधाराभिराहन्यते तथा तथा वैद्युतानलसहोदर इव स्फुरति मदनपावकः । सुतरां च शिशिरः कुन्दकलिकाकै लापमञ्जरीमिव विकासयति स्वेदजललवजालकसंततिमुपचारः। चित्रं चेदम् । मकरकेतुहुतभुजा दह्यमानमप्यमिशौचमंशुकमिव नितरां निर्मलीभवति लावण्यम् । मन्ये च मृदुस्वभावमपि जलमिव मुक्ताफलतामुपगतं कठिनीभवत्युत्कण्ठितं हृदयमबलाजनस्य, तत्तादृशेनातिसंतापेनापि नविलीयते । बलवती खलु वल्लभजनसंगमाशा, यत्तथाविधमप्यनुभववेदनाविह्वलितप्राणमति कष्टं प्राण्यते । किं करोमि, कथय कथं कथ्यते, कया वृत्त्या वर्ण्यते, कीदृशेनोपायेन प्रदर्श्यते, केन प्रकारेणावेद्यते, कया युक्त्या प्रकाश्यते, कतमया वेदनयोपनीयते । तदुत्कण्ठास्वप्नपु विगलितवेदनाः स्फुटं प्राणिनः, प्रतिदिवसं दृश्यमानोऽपि यन्न पश्यसि तामीदृशीमवस्थाम् ।

प्रचण्डकिरणसहस्रातपसहानि कमलानि शयनीकृतानि म्लानिमुपनयन्त्या दिवसकरमूर्तिरपि निर्जिता तया निजोष्मणा । निष्करुणेन चाकारणामेन कामेन मैथ्यमानास्तास्ताश्चेष्टाः करोति । तथा हि । सासोढमदनवेदने, त्वमतिकठिने मनसि निवससि’ इति मृदुनि कुसुम शयने कथमपि सखीजनेन पात्यते । कुसुमशयनगता च संतापगलितचरणतलालक्तकलवपाटलितैश्च शय्याकुसुमैः कुसुमशरेण शरतामुपनीतैः सरुधिरैरिव हृदयात्पतितैर्भयमुपजनयति । सर्वाङ्गीणमनङ्गशरनिवारणाय कवचमिव भवदनुस्मरणरोमाञ्चमुद्वहतिारोमाञ्चिनि कुचयुगल श्वासगलितमंशुकं निदधाना त्वत्पाणिग्रहणतृष्णया कण्टकशयनव्रतलीलामिव दक्षिणकरकमलमनुभावयति । वामं नु वामकपोलभरंजडाङ्गुलिमुल्लसत्पद्मरागवलयप्रभांशुरज्यमानं ज्वलित मदनहुताशनविप्लुप्यमाणमिव हस्तकमलं विधुनाति । नलिनीदलव्यजनपवनविक्षिप्यमाणकर्णकुवलयं वदनमजस्रस्रवदश्रुभयपलायमानलोललोचनमिव बिभर्ति । प्रतिक्षणं क्षामतां व्रजन्ती न केवलं मङ्गलवलयं पतनभयेन दोलायमानं हृदयमपि मुहुर्मुहुः पाणिपल्लवेनारुणद्धि । शिशिरवारिक्षोदक्षरिण्या लीलाकमलमालिकयेव वपुषि निहितया सखीजनहस्तपरम्परया परिक्लाम्यति । तथा च चरणयुगलेन रसनाकलापम , नितम्ब विस्तारेण मध्यम् , संगमाशया हृदयम् , हृदयेन भवन्तम् , तरसा बिसिनीपलाशप्रावरणम् , कण्ठेन जीवितम् , करकमलेन कपोलपालीम् , त्वदालापेनाश्रुपातम् , ललाटफलकेन चन्दनलेखिकाम् , अंसेन वेणीमधुना धारयति । त्वद्दिदृक्षया विघटमानं हृदयमभिवाञ्छति । गोत्रस्खलनेनेव जीवितेन लज्जते । प्रियसख्येव मूल्या मनसि मुहुर्मुहुः स्पृश्यते । परिजनेनेव च रणरणकेन वदनपरवशा कुसुम अयनादुत्थाप्यते । परिचारिकयेवार्त्या स्रस्ताङ्गी संचार्यते । मुहुः पवनप्रङ्खोलितमुत्कण्ठाव्यजनपल्लवभङ्गभयकम्पितमिव लतामण्डपमधिवसति । मुहुः सत्कोशकलिकं बिसवलयसंरक्ष णरचिताञ्जलिपुटमिव स्थलकमलिनीवनमधिशेते । मुहुरुद्वन्धनभयादिव निरन्तरकिसलया च्छादितलतापाशमुद्यानमासेवते । मुहुनिष्पतदविरतरोदनाताम्रनयनप्रतिबिम्बं खस्तरास्तरण त्रासनिमज्जत्कमलमिवोपवनसरोजलमवगाहते । तस्मादुत्थाय तमालवीथीमुपैति । तस्यां शा खावलम्बोर्ध्वभुजलतानिहितनिमीलितलोचनवदना चम्पकदलमालिकोद्बद्धदेहाशङ्कामुत्पादयन्ती मुहूर्त विश्रम्य संगीतकगृहमाविशति । ततो मधुरमुरजरवलयललितलास्यलीलयोद्वेज्यमाना मयूरीव मुक्तधारं धारागृहमभिपतति । ततोऽपि धनजलधारासीकरपुलकितकाया कादम्बकलिकेव कम्पमाना शुद्धान्तकमलिनीतीरमपसर्पति । तस्माच्च भवनकलहंसरवमसहमाना प्रस्थिता तत्कालावतारितनूपुरयुगला निपुणप्रक्षामिव क्षामताभिनन्दति । वलयरच नाम्लायितमृणालकुपितैरिव भवनवापीचक्रवाकमिथुनैः कूजितेन खेद्यते । शय्याविलासमृदितकुसुमसंचयामर्षितैरिव प्रमदवनमधुकरैर्विरुतेनोद्वेज्यते । निर्भरोत्कण्ठागीतनिर्जितरवरोपितैरिवाङ्गणसहकारपिकवृन्दैः कलकलेनाकुलीक्रियते । मदनपाण्डुगण्डपरिभूतगर्भपत्रकान्तिभिर्विद्धेवोद्यानकेतकीसूचिभिरुद्भूतवेदना भवति । एवंप्रायैश्च मदनदुश्चेष्टितायासैः परिणाममुपैति दिवसः । चन्द्रोदये चास्यास्तिमिरमयीवापैति धृतिः, कमलमयमिव दूयते हृदयम् कुमुदमय इव विजृम्भते मकरकेतनः, चन्द्रकान्तमयमिव प्रक्षरति नयनयुगलम्, उदधिजलमयानीव प्रवर्धन्ते श्वसितानि, चक्रवाकमया इव विघटन्ते मनोरथाः, शीतज्वरातुरेव मणिकुट्टिमोदरसंक्रान्तस्य तुषारकिरणमण्डलस्योपरि वेपथुलुलिततरलाङ्गुलिनिकरं करयुगलं प्रसारयन्ती शशिसंतापमनक्षरं कथयति । सीत्कारेषु दशनांशुव्याजेन मन्मथशरजर्जरितहृदयप्रविष्ठानिन्दुकिरणानिवोद्गिरति । वेपथुषु व्यजनीकृतकदलीदलकम्पोपदेशमिव गृह्णाति । विजृम्भिकासु कण्ठागतजीवितनिर्गममार्गमिवोपदिशति । गोत्रस्व लितविलक्षस्मितेषु हृदयं निपतितमदनशरपुष्परज इव वमति । वाष्पमोक्षेपु स्थूलाश्रुसंतानवेणिकावाहिनी विलीयत इव । शशिमणिदर्पणेषु विस्फुरितानेकप्रतिबिम्बनिभेन शतधेव विदलति । कुसुमशयनेषु परिमललालसागतालिमालाकुलिता धूमायत इव । अमलकमलस्रस्तरेपु कि जल्करजःपुजपिञ्जरिता ज्वलतीव । स्वेदप्रतीकारेपु विशदकर्पूरक्षोदधूलीधवलिता भस्मीभवतीव। न विज्ञायते किं मुग्धतया, किं विलासेन, किमुन्मादेन, संगीतमृदङ्गध्वनितेषु केकाशङ्कया धारागृहमरकतमणिमयूरमुखानि स्थगयति । दिवसावसानेषु विश्लेषभीता मृणालसूत्रैश्चित्रभित्तिविलिखितानि चक्रवाकमिथुनानि संघटयति । चिन्तारतारम्भेषु मणिप्रदीपानवतंसोत्पलैस्ताडयति । उत्कण्ठालेखेषु संकल्पसमागमाभिज्ञानानि लिखति। दूतीसंप्रेषणेषु स्वप्नापराधोपालम्भान्संदिशति । अपि च तस्याश्चन्दनपरिमल इव दक्षिणानिलेन सह समागच्छति मोहः । चक्राह्वशाप इव निशया सहापतति प्रजागरत्रासः। प्रतिरुतानीव वलभीकपोतकूजितैः सहाविर्भवन्ति दुःखानि । मधुकर इवोपवनकुसुमामोदेन सहोपसर्पति मरणाभिलाषः । तथा च जलकणिकेव पद्मिनीपलाशस्थिता कम्पते । प्रतिच्छायेव स्फटिकोपलसलिलम णिदर्पणमणिकुट्टिमतलेषु दृश्यते । नलिनीव शशिकरस्पर्शेन म्लायति । हंसीव सरसमृणालिकाहार व्यतिकरण जीवति । शरदिव कुमुदकुवलयसंपर्कमनोहरगन्धवहा सकुसुमबाणा च विजृम्भते । चन्द्रमूर्तिरिव कमलप्रकरस्खलितपादपल्लवा संचरन्ती निशां नयति । कुमुदिनीव रजनिकरकिरणकृतजोगरा दिवसमलीकनिद्रयातिवाहयति । मुररिपुजलशयनलीलेव मन्दोच्छ्वसितशेषा निमीलितलोचना किमपि चिन्तयति । मलयान्निम्रगेव सरसहरिचन्दनकिसललयलाञ्छितेषु शिलातलेष्वभिपतति । कुन्दकलिकेव तुषारसिक्तपल्लववर्तिनी वनानिलनायास्यते । भुजंगीवासह्यसंतापालिङ्गितचन्दना शिखिकुलकोलाहलेन ताम्यति । हरिणीव केसरिकाननं परिहरति । कुसुमघटितशिलीमुखमनोहरान्मदनचापादिव प्रमदवनात्रस्यति । जानकीव पीतरक्तेभ्यो रजनिचरेभ्य इव चम्पकाशोकेभ्यो विभेति । उपेव स्वप्नसमागमेनापि कृतार्थतामेति । ग्रीष्मलक्ष्मीरिवानुदिनमतिक्षामा श्यामा भवति । सर्वथा तस्याः कंदर्पवेदनयाङ्गानि, दिवसैर्जीवितसंधारणवस्तुनि, वलयरचनया गृहकमलिनीमृणालानि, उपदेशैः सखीजनवचनानि, शय्यापरिकल्पनेनोपवनकुसुमानि, अनवरतमोक्षेण मदनायुधानि निःशेषं क्षीणानि । किं बहुना संप्रति तस्यास्त्वन्नामा सर्वसखीजनः, वत्संबद्धानि सर्वरहस्यानि, त्वत्समागमोपायान्वेषिणः सर्वसमवायाः, त्वद्वार्तोपलम्भनंपराः सर्वप्रभाः, त्वद्वृत्तान्तमुखरः परिजनः, त्वदालापनिर्मिताः सर्वविनोदाः, त्वदाकारमयश्चित्रकलाभ्यासः, त्वदुपालम्भगर्भा मागधीमङ्गलगीतयः, त्वद्दर्शनपुनरुक्ताः स्वप्नाः, त्वत्परिहासप्रायामदनज्वरदाहविप्रलापाः, त्वन्नामग्रहणैकोपायगम्यप्रबोधा मोहमहावेगाः, इत्यावेदयन्तं च केयूरकम् ’ भवतु । संप्रति न शक्नोम्यतः परं श्रोतुम् ’ इत्यामीलनदत्तसंज्ञेव कादम्बरीव्यथाश्रवणवेदनासंभवानुकम्पयेव चन्द्रापीडमाक्रमन्ती मूर्छा न्यवारयत् , न तु पुनरवस्थानिवेदनपरिसमाप्तिः। । तथा मूर्छानिमीलितश्च तामेवानुध्यायन्निव ससंभ्रमप्रतिपन्नशरीरेण केयूरकेण संभाविततालवृन्तया च पत्रलेखयानुभाव्यार्थसज्जया च नियत्या संज्ञां लम्भितश्चन्द्रापीडः स्वकृतपीडापराधेन भीतमिव लज्जितमिव विलक्षमिव निभृतस्थितं केयूरकमन्तर्बाष्पोपरुध्यमानकण्ठः कथमपि स्खलिताक्षरं प्रत्युवाच- ‘केयूरक, येन प्रकारेणैवमेकान्तनिष्ठुरहृदयमात्मन्यनुत्पन्नरागमेव मां संभाव्य देव्या कादम्बर्या दूरीकृतपुनर्मदागमनसंभावनया न त्वमागमनायादिष्टः, न संदिष्टं वा किंचिन्महाश्वेतया समुपहृतानुबन्धया मदलेखया वा त्वन्मुखेन नोपालब्धोऽम्मि । तथा मयि पत्रलेखया सर्वमाख्यातम् , तदभिजाततया महानुभावत्वादुदारतया समानशीलतया दक्षिणतया चैकान्तपेशलतया च स्वभावस्यात्मानमात्मना न कलयति देवी कादम्बरी । चन्द्रमूर्तेरालोकेनैव निश्चेतनस्य चन्द्रकान्ताख्यस्य पाषाणखण्डस्यार्द्रभावोपगमनमेवायत्तम्, न पुनस्तत्कराकर्षणम् । नितरां पक्षपातिनोऽपि च मधुकरस्याभिगमनमेवाधीनम् । मकरन्द लाभे तु कलिकाश्रयिणी जृम्भैव प्रभवति । दिवससंतापक्लान्तेन चोन्मुग्वता कुमुदाकरेण करणीया विकाशयति पुनस्तम् । ज्योत्स्नाभिरामा रजन्येव निर्भरमन्तःसरसतायां सत्यामपि मधुमासलक्ष्मीपरिग्रहाद्विना पल्लवानुरागदर्शनस्य कृते किं करोतु पादपः । तत्र देव्याः कादम्बर्या एवाशापराधिनी, ययाधरस्पन्दितमात्रप्रतीक्षे पुरःस्थायिनि दासजने निष्करणतयात्मानमव्यापारयन्त्या सुखप्रतिपन्थिनी दुःखदानैकनिषुणा परहृदयपीडानपेक्षिणी लज्जापेक्षिता न जीवितसंदेहदायिनी देव्याः समाचष्ट । अथवा देव्याः परिजनस्यापि कोऽयमेवंविधो व्यामोहः, येदनिच्छन्त्यपि बलादसौ न व्यापारिता । कीदृशी चरणतलप्रतिबद्धस्य दासजनस्योपरि लज्जा, कीदृशं वा गौरवम् , को वानुरोधः, अविश्वस्तचित्तता वा केयमीदृशी, यदेवात्मनः शिरीषपुष्पकोमलस्येयमतिदारुणा पीडाङ्गीकृता, न कृतार्थितो मे मनोरथः । ‘अथवा क्रमागतमन्तर्धानं वामलोचनानां विशेषतोऽपरित्यक्तनिःशेषबालभावानामनतिप्रबद्ध मुग्धमनसिशयानां कन्यकानां लजा न पारिता नामास्मिञ्जने स्वयं परित्यक्तुं देव्या । मदलेखा तु द्वितीयं हृदयमस्याः । तया किमेवमहार्यसंयमधनैर्मुनिभिरंप्यरक्षितहृदयापहारेणानिग्राह्यचौरेण शुचिभिरप्यपरिहार्यस्पर्शनाबहिष्कार्यचाण्डालेन भस्मीकृतापर्यवसानप्राणिसहस्रेणानिर्वाप्यश्मशानाग्निना सर्वदोषाश्रयेणाशरीरव्याधिना रूपापहारिणा काण्डव्याधेन मर्मभेदिनालीकधनुर्धरेण सद्यःप्राणापहारक्षमेणाकालमृत्युनानिरूपितस्थानास्थानप्रवर्तिना परापकारकृतार्थेन हृदयवासिनापरप्रत्ययेन स्वयोनिना कामेन दुरात्मनायास्यमानं देवीशरीरमुपेक्षितम् । किमिति तत्रस्थस्यैव मे कर्णे नावेदितम् । अधुना श्रुत्वापि दिवसक्रमगम्येऽध्वनि किं करोमि । मलयानिलाहतलताकुसुमपातस्याप्यसहं देवीशरीरम् । वज्रसारकठिनहृदयैर स्मद्विधैरपि दुर्विपहाः स्मरेषवः । न ज्ञायते निमेषमात्रेणैव किं वा भवतीति प्रायेण च देव्याप्यनुभवनीय एवायमर्थः । यथा चास्य दुःखैकदानव्यसनिनो दुर्घटघटनापण्डितस्य यत्किचन कारिणो निष्कारणकुपितस्य हतविधेः सर्वतो विसंस्थुलं समारम्भं पश्यामि, तथा जानामि नैतावता स्थास्यतीति । अन्यथा क्व निष्प्रयोजनीश्वमुखानुसरणेनामानुषभूमिगमनम् , क्व च तत्रं तृषितस्याच्छोददर्शनम् , क्व तत्र तीरे विश्रान्तस्यामानुषगीतध्वनेराकर्णनम् , क्व तज्जिज्ञासा गतस्य महाश्वेतावलोकनम् , क्व तत्र तरलिकया सह तवाभिगमनेन मद्गमनप्रस्तावः, क्व महाश्वेतया सह हेमकूटगमनम् , क्व तत्र देवीवदनदर्शनम् , क्व रागोत्पत्तिरस्मिञ्जने देव्याः, क्व वापरिपूर्णमनोरथस्य मे पितुरलङ्घनीयागमनाज्ञा । तत्सुदूरमारोप्य पातिता वयं खल्वनेनाकार्यकारिणास्मत्कर्मबलनियोगदक्षेण दग्धवेधसा । तथापि देवीं संभावयितुं प्रयतामहे ।’ इत्यभिदधत्येव चन्द्रापीडे ‘नितरामयमनेनैव कादम्बरीवृत्तान्तेन संतापितः तत्किमपरमहमेनमात्मतेजसा संतापयामि’ इत्युत्पन्नदय इव भगवांस्तिग्मदीधितिरुत्तप्तकनकद्रवस्फुलिङ्गपिङ्गलद्युति दिग्विकीर्णधूर्जटिजटामण्डलानुकारि संजहार करसहस्रम् । अस्तानुसारेण च रवेर्वासरोऽपि यथोच्छ्रिततरुशिखरावलम्बिनो रक्तातपच्छेदानाकर्पन्नपससार । क्रमेणैव संजातकरुणानुबन्धयेव संध्ययाप्युपरि जलार्द्रपट इव प्रसार्यमाणे स्वरागपटले, निशागमेनाप्येवमस्य शून्यताविक्लवस्य मा भूदर्शनमित्याप्तेने सर्वतो नीलीपरिलम्बमानायामिव भ्राम्यमाणायां तिमिरलेखायाम्, कमलेष्वपि दुःसहत्वाच्छोपकारिणः संतापस्य तल्पकल्पनाभीतेष्विवसंकुचत्सु, कुमुदेष्वपि शुचिस्वभावतयार्दाद्रेषु शयनसंपादनायेवाहमहमिकयोदलत्सु, चक्रवाकेष्वपि सहचरीविरहविधुरेषु, कादम्बरीसमीपगमनोपदेशदानायेव कलकरुणमुच्चैर्मुहुर्मुहुव्याहरत्सु, चन्द्रमस्यपि भगवति संकलभुवनैकातपत्रे सुधारजतकलशे पूर्वदिग्वधूवदनचन्दनतिलके गगनतललक्ष्मीलावण्यमहाह्रदे सकललोकाह्लादकारिणि, सुधालिप्तैः करैरिव स्प्रष्टुम् , उच्छासहेतुना तं ज्योत्स्नाजलेन च सेक्तुम् , उदयगिरिशिखरमारूढे प्रौढे प्रदोपसमये चन्द्रापीडस्तस्मिन्नेव वल्लभोद्याने, चन्द्रातपस्पर्शदर्शितविशदजललवोद्भेदहारिणि चन्द्रमणिशिलातले विमुच्याङ्गानि चरणसंवाह नोपसृतं केयूरकमवादीत्-‘केयूरक, किर्माकलयसि । यावद्वयं परापतामस्तावत्प्राणान्धारयिष्यति देवी कादम्बरी । पारयिष्यति वा तां विनोदयितुं मदलेखा । आगमिष्यति वा पुनस्तत्समाश्वासनाय महाश्वेता । मत्परिचयोद्वेजिता प्रतिपत्स्यते वा शरीरस्थितये तयोरैभ्यर्थनाम् । द्रक्ष्यामि वा पुनस्तस्याः स्मेरसृक्कोपान्तमालोलतारकमुत्रस्तहरिणशावकायतेक्षणं मुखम्’ इति । स तु व्यज्ञपयत्-‘देव, धैर्यमवलम्ब्य गमनाय यत्नः क्रियताम् । तिष्ठतु तावदासन्नंवर्ती सखीजनः परिजनो वा । तस्या हि त्वदालोकनेच्छैव स्वेच्छया निमेषितुमपि न ददाति । समागमाशयैवावष्टब्धं हृदयम् । श्वसितमेव सुखे वहितम् । रोमाञ्च एव क्षणमपि शरीरं न मुञ्चति । दिवानिशं बाष्प एव लोचनपथस्थायी । प्रजागर एव रात्रावपि दत्तदृष्टिः । अरतिरेव नैकाकिन्याः क्षाम्यत्यवस्थानम् । जीवितमेव कण्ठस्थानान्नापसरति एवं वदन्तं तैमादिदेश विश्रान्तये केयूरकम् । आत्मनापि गमनचिन्तां प्राविशत् । यदि तावदकथयित्वानभिपत्य चरणयोरनाघ्रातः शिरस्यगृहीताशीः सहसानुत्संकलित इव तातेनाम्बयोक्तमपक्रम्य गच्छामि । ततो गतस्यापि मम कुतः सुखम् , कुतः श्रेयः, कुतो वोच्चफलावाप्तिः, कीदृशी वा हृदयनिर्वृतिः । अथवा तिष्ठतु तावदियमुत्तरकालागामिनी चिन्ता । अपक्रम्य गैत एव कथमहं यत्तातेन दुस्तराहवार्णवोत्तरणमहासेतुबन्धादवन्ध्यवाञ्छितफलप्रदानकल्पद्रुमादहितविक्रान्तियशो निष्क्रान्तिद्वारार्गलदण्डादशेषभुवनभवनोत्तम्भनस्तम्भात्स्वभुजादवारोप्य मय्येव राज्यभार आरोपितः, तदनाख्याय पदमपि निर्याते मय्यवश्यमपरिमितकरितुरगरथगमनसंक्षोभितधरातलैरालोलकदलिकाकाननाकुलीकृतमाखद्गभस्तिभिरुर्ध्वध्रियमाणधवलातपत्रमण्डलच्छायान्तरितवासरव्यतिकरैः, अतिबहलरेणूगमाविच्छेदापूरितभुवनकुहरैः, पुरः प्रसृतजवनवाजिभिः अनुसंतापलग्नवेतण्डप्रायसाधनैः, श्रान्तै रपि बुभुक्षितैरप्यकृतगतिविलम्बैरा पयोधेरैष्टाभ्यो दिग्भ्यो राजभिरनुधावितव्यम् । तिष्ठन्तु तावत्सेवापरा राजानः । सुखपरिभुक्ताः प्रजा अपि तातस्नेहात्परित्यक्तपुत्रदाराः पृष्ठतो लगन्तीति मे चेतसि । अपि च तातस्यापि कोऽपरोऽस्ति, यस्मिन्मदीयं स्नेहं संक्रमय्य मय्यपक्रान्ते यातु क्रिमनेन गेतेनागतेन वेत्यविनयकोपितोऽवष्टम्भं कृत्वा स्थास्यति । कस्य चाप रम्य मुखमालोकयन्ती सुखायमानहृदया मत्प्रत्यानयनाय कृतार्तप्रलापा न तातमेवाकुलीकरोत्यम्बा । ताते च पृष्ठतो लग्नेऽष्टादशद्वीपमालिनी मेदिन्येव लग्ना भवतीति । तदा मया क्व गतम् क्व स्थितम्, क्व विश्रान्तम् , क्व यातम् , क्व भुक्तम् , कापमृतम् , क्वात्मा मया गोपीयितव्यः, समासादितेन चात्र कथं मया वदनं दर्शयितव्यम् , पृष्टेन वा किमुत्तरं दातव्यम् । अथापि कथंचिद्दवनियोगानिःसृतोऽस्मि, तथाप्यनायासनीयं तातमेवं महीयस्यायासे तातप्रसादाददृष्टदुःखामम्बां वा निजापक्रमणशोकार्णवे पातयता किं कृतं भवत्यपुण्यवता । अपि च सुबहुदिवसप्रवासोपतप्तः स्कन्धावारोऽपि मेऽद्यापि न परापतति, तेनापरसंविधानादर्धपथादेव निवृत्य पुनः प्रधावितव्यम् । अथावेद्य तातस्याम्बायाश्च ताभ्यां च विसर्जितः संविधानेन गच्छामि, तत्रापि किमिति कथयामि । मम स्नेहदुःखिता गन्धर्वराजपुत्री कादम्बरी मामुद्दिश्य मकरकेतुनायास्यमाना दुःखं तिष्ठतीति । किं वा बलवान्मे तस्यामनुरागः । ने तया विनाहं प्राणान्संधारयामीति । किं तस्या मम च द्वयोरपि जीवितनिबन्धनहेतुभूतया महाश्वेतया तत्परिणयनाय मे संदिष्टमिति । किं वा तदुःखमपारयन्सोढुमयं केयूरकस्तद्भक्त्या मामानेतुमागत इति । अपरोऽपि वा कश्चिद्व्यपदेशो न शक्यत. एव पुनर्गमनाय कर्तुम् । संप्रत्येव समधिकादर्पत्रयात्प्रसाध्य वसुधां प्रत्यागतोऽस्मि । अद्यापि साधनमेव न परापतति। अकथयित्वा च गमनकरणं कथमात्मानं मोचयामि । कथं वा मुञ्चतु तातोऽम्बा वा । तत्सुहृत्साध्येऽस्मिन्नर्थेऽनर्थपतितः किं करोम्येकाकी । वैशम्पायनोऽप्यसंनिहितः पार्थे मे । कं पृच्छामि । केन सह निरूपयामि । को मे समुपदिशतु । को वापरो मे निश्चयाधानं करोतु । कस्यापरस्य वा विवेकिनी प्रज्ञा । कस्य वान्यस्य श्रुतं श्रोतव्यम् । को वापरो वेत्ति वक्तुम् । कस्य वापरस्य मय्यसाधारणस्नेहः । केन वापरेण सह समानदुःखो भवामि । को वापरो मयि दुःखिते दुःखी, सुखिते सुखी। को वापरो रहस्यावेदनस्थानम् । कस्यापरस्यो परि कर्तव्यभारमवक्षिप्य निर्वृतात्मा तिष्ठामि । कस्य वापरस्य मत्कार्ये पर्याकुलता। को वापरो मया कोपितं तातमम्बां च परिबोध्य भामानेतुं समर्थः’ इत्येवं चिन्तयत एवास्य सा क्षपा दुःखदीर्घापि क्षयमगमत् । प्रातरेव च किंवदन्ती शुश्राव, यथा किल दशपुरं यावत्परागतः स्कन्धावार इति। तां च श्रुत्वा समुच्छ्रसितचेताश्चकार चेतसि— ‘अहो धन्योऽस्मि । अहो, विधेर्भगवतोऽनुग्राह्योऽस्मि यस्य मेऽनुध्यानानन्तरमेव परागतो द्वितीयं हृदयं वैशम्पायनः’ इति । प्रहर्पपरवशश्च प्रविशन्तमालोक्य दूरत एव कृतप्रमाणं केयूरकमवादीत्-‘केयूरक, करतलवर्तिनी सिद्धिमधुनावधारय । प्राप्तो वैशम्पायनः’ इति । स तु तदाकर्ण्य गमनपरिलम्बकृतया चिन्तयान्तःशून्य एव ‘भद्रकमापतितम् , महती हृदयनिर्वृतिर्देवस्य जाता’ इत्यभिदधदेवोपसृत्योपविश्य पार्थेवैशम्पायनागमनालापमेवानुबध्य मुहूर्तमिव संज्ञोत्सारितसमस्तपरिजनं चन्द्रापीडं व्यज्ञपयत् -‘देव, सर्वतो विस्फुरन्ती तडिदिव बलाहकोनाहम् ,उपारूढश्यामिका मेघलेखेव सलिला गमनम, उपदर्शितपाण्डुच्छविः प्राचीव चन्द्रोदयम्, परिमलग्राहिणी मलयानिलागतिरिव वसन्तमासावतारम्, समुच्छसितमकरध्वजा मधुमासलक्ष्मीरिव पल्लवोद्भेदम् , उल्लसितरागा पल्लवोद्गतिरिव कुसुमनिर्गमम् , विकसितकाशकुसुममञ्जरीव शरदारम्भम्, अवस्थैवयमा वेदयति निःसंशयं देवस्य गमनम् । अवश्यं च देवस्य देवीप्राप्त्या भवितव्यम् । केन कदा वावलोकितो ज्योत्स्नारहितश्चन्द्रमाः, कमलाकरो वा मृणालिकया विना, उद्यानभागो वा लताशून्यः । अपि च न राजत एव सहकारकुसुममञ्जरीपरिग्रहमन्तरेण सर्वजनसुभगोऽपि कुसुममासः, असंभावितदानलेखालक्ष्मीकं वा वदनं यूथाधिपतेः । किंतु यावद्वैशम्पायनः परापतति, यावञ्चैतेने सह गमनसंविधानं निरूपयति देवः, तावदवश्यं कालक्षेपेण भाव्यम्। यादृशी चाकालक्षमा देव्या; शरीरावस्था, तादृशी निवेदितैव मया । सर्वोऽपि प्रत्याशया धार्यते । देव्यास्तु पुनर्देवदर्शनेनाद्ययावनिष्प्रत्याशमेव हृदयं केनाश्वासनेन वर्तताम् । मद्वार्तोपलम्भादेतदुपपत्स्यते चेतसि, यथास्ति कार्य मे जीवितेन, दुःखान्यपि सहन्ती धारयाम्येतदिति । अतो विज्ञापयामि, चेतसा त्वग्रतो गत एव देवः, शरीरेणाप्यनुपदमुञ्चलित एव । किमपरं मयात्र स्थितेन साधनीयम् । तद्देवागमनोत्सवावेदनाय गमनानुज्ञया प्रसादं क्रियमाणमिच्छति मे प्रणयप्रसाददुर्ललितं हृदयमिदानीमेव’ इति विज्ञापिते केयूरकेणान्तःपरितोषवि- कसितया विकचनीलोत्पलपुज्जमालिकयेव दृष्ट्या दर्शितप्रसादश्चन्द्रापीडः प्रत्युवाच- ‘किमुच्यते । कस्यापरस्येदृशोऽस्मदुःखासहिष्णुरनपेक्षितस्वशरीरशक्तिरुत्साहः । कस्यापरस्येदृशी देशकालज्ञता । को वापरोऽस्मास्वेवं निर्व्याजभक्तिः । तत्साधु चिन्तितम । गम्यतां देव्याः प्राणसंधारणाय ममागमनप्रत्ययार्थ च पत्रलेखाप्यग्रतस्त्वयैव सह यातु देवीपादमूलम् । इयमपि प्रसादभूमिरेव देव्याः। इमामप्यालोक्य कियत्यपि धृतिरवश्यमुत्पद्यत इति मे चेतसि। अपि चास्या अपि देव्यामस्त्येव स्नेहो भक्तिश्च’ इत्यभिधाय पृष्ठत उपविष्टामेवं तां पत्रले खामद्राक्षीत् । सातु किंचिदवनतमुखी ‘निजाज्ञाक्षराणि प्रयच्छतु देवः’ इति व्यज्ञपयत् । कृतप्रस्थितिनिश्चयायां च तस्यां मेघनादाह्वनाय प्रतीहारीमादिदेश । आदेशानन्तरमेव चागतं दूरतः प्रणतमाज्ञाप्रतीक्षं स्वयमेवाहूय सोपग्रहमादिदेश-‘मेघनाद, यस्यां भूमौ पत्रलेखानयनाय मया त्वं प्रस्थापितस्तां भूमिमेव पत्रलेखामादाय केयूरकेण सहाग्रतो गच्छ । अह- मपि वैशम्पायनमालोक्यानुपदमेव ते तुरङ्गमैः परागतः’ इत्यादिश्य, ‘यदाज्ञापयति देवः’ इति कृतनमस्कृतौ त्वरितगमनसंविधानाय निष्क्रान्ते मेघनादे ‘देव, किमतःपरं विलम्बेन’ इत्यभिधाय, मेघनादनिर्गमानन्तरं गमनप्रणामोत्थितं केयूरकं सस्नेहमाहूय, सबाष्पया दृष्ट्या पुनःपुनरालोक्य, परिष्वज्य च सपुलकाभ्यां दोर्भ्याम्, आत्मकर्णादपनीयानेकवर्णरुचिरं संदेशमिव कर्णाभरणमस्य कर्णे कृत्वा कण्ठागतबाष्पर्गद्गदिकागृह्यमाणाक्षरमवादीत्-‘केयूरक, त्वया तु मे देवीसंदेशो नानीत एव । तत्किं तव हस्ते तदनुरूपं संदिशाम्यपूर्वम् । विज्ञापयितव्या देवी । तत्रापि किमलीकलज्जाजालभारोद्वहनेन त्वामायासयामि । यात्येव पत्रलेखा देवीपादमूलम् । इयं विज्ञापयिष्यति’ इत्यभिदधदेवातर्कितोपनतात्मविरहपीडाम, अमङ्गलशङ्कया कृतयत्नापि बाष्पवेगमपारयन्तीं संधारयितुम्, उत्प्लुताबद्धलक्षशून्यदृष्टिसंचारणां चरणपाताभिमुखी पत्रलेखां प्रणयेनाभिमुखो भूत्वा बद्धाज्जलिरभाषत- पत्रलेखे, साज्जलिबन्धेन शिरसा प्रणम्य मदीयेन विज्ञाप्या देवी कादम्बरी, येन सर्वखलानां धुरि लेखनीयेन तथा प्रथमदर्शनेऽपि वत्सलत्वात्स्वभावस्य दर्शितप्रसादातिशयां देवीं प्रणामेनाप्य॑संभाव्य गच्छता प्रज्ञा जडतया, ज्ञानं मौढ्येन, धीरता तरलत्वेन, स्नेहलता रौक्ष्येण, गौरवं लघुतया, प्रियंवदता पारुष्येण, मृदुहृदयता नैष्ठुर्येण, स्थैर्य चंचलतया, दयालुता निस्त्रिंशत्वेन, आर्जवं मायाजालेन, सत्यवादितालीककाकुसंपादनेन, दृढभक्तितावज्ञानेन, पेशलता कौटिल्येन, लज्जा, धाष्टर्येन, औदार्यं क्षुद्रतया, दाक्षिण्यममहानुभावतया, प्रश्रयोऽभिमानेन, कृतज्ञता कृतघ्नतया, शीलं पौरोभाग्यतया, सर्वगुणा एंव दोपैः परिवृत्ताः । स कर्मिवापरं गुणमवलम्ब्य पुनः परिग्रहाय विज्ञापयतु । केन चाङ्गीकरोतु देवी । किमुपदर्शिता लीकात्मार्पणेन न प्रतारितं देव्या हृदयमिति किं प्रकृतिपेशलं हृदयमपहृत्य नापक्रान्तोऽस्मीति, किमियं प्राणसंदेहकारिणी निष्करुणेन शरीरावस्था नोपेक्षितेति, किमहमस्याः न कारणमित्येतत्सर्वदोषाश्रयेणाप्यनुवृत्त्या चरणावाराधिताविति वा । तदेवमात्मना सर्वगुणहीनस्यापि मे देवीगुणा एवावलम्बनम् । इयमेव ते स्वभावसरसा दूरस्थमपि मदनहुतभुजा दह्यमानं रक्षत्येव सरलता । मुहुर्मुहुराह्वयत्येव स्नेहलता, आनयत्येव स्थिरप्रतिज्ञता, ढौकयत्येव दक्षिणता, अभिपद्यत एव वत्सलता, चरणपतितं न निर्भर्त्सयत्येव मृदुहृदयता, उत्थाप्य संभावयत्येव महानुभावता, आलपत्येव प्रियवादिता, ददात्येव हृदयेऽवकाशमत्युदारता । यच्च तथापि गत्वा निर्लजहृदयः पुनर्वदनदर्शनदानसाहसमङ्गीकरोमि । अत्रापि सत्प्रकृतयो देवी प्रसादा एव कारणम् । एते हि विशदत्वादुदारभावात्संगतत्वाञ्च क्षणपरिचिता अपि समारोपितजीवितप्रत्याशा न किंचिन्न कारयन्ति । स्मारयन्ति सेव्यताम् , देव्याश्चरणपरिचर्यायै समुत्साहयन्ति, शिक्षयन्ति सेवाचातुर्यम् , उपदिशन्त्याराधनोपायान , चाटुकारो भवेत्यस कृदाज्ञापयन्ति, एवं स्थीयतामिति स्वयमेवोपदर्शयन्ति, मुखावलोकिनामकालोपसर्पणकोपेऽनुनयन्ति, परितोषावसरेऽनुगृह्णन्ति गुणानुवादेन, लज्जापसृतं हठादाकृष्योपसर्पयन्ति, नान्यत्र क्षणमपि ददत्यवस्थातुम् । अपि चैतेऽनुग्राहकत्वादेवापरित्याज्याः, गुरुत्वादेव कृतावष्टम्भाः, विस्तीर्णत्वादेवालङ्घनीयाः, प्रभूतत्वादेवापरिहार्याः । तदेभिरहं विनाप्यागमनाज्ञया सुदूरमपक्रान्तोऽपि बलादेवाकृष्य देवीपादमूलमानीये’ इति । यया वानपेक्षितगमनाज्ञया नियन्त्रणत्वाद्गतोऽहमिति विज्ञप्तम् , सैव वाणी विज्ञापयति । यथा च मे न निष्फलमागमनं भवति, जगद्वा शून्यम् , तथा देव्यात्मसंधारणायात्मनैव यत्नः कार्य इति संदिश्य पुनराह - ‘पत्रलेखे, त्वयापि यान्त्याध्वनि न मद्विरहपीडा भावनीया, न शरीरसंस्कारेऽनादरः करणीयः, नाहारवेलातिक्रमणीया, न येनकेनचिदज्ञातेन पथा यातव्यम् , न यत्रतत्रैवानिरूप्यावस्थातव्यम् , उषितव्यं वा । न यस्यकस्यचिदपरिज्ञायमानस्यान्तरं दातव्यम्, । सर्वदा शरीरेऽप्रमादिन्या भाव्यम् । किं करोमि । त्वत्तोऽपि मे वल्लभतरा देवीप्राणाः, येनैवमेकाकिनी तेषां संधारणाय विसर्जितासि । अपि च मम जीवितमपि तवैव हस्ते वर्तते । तन्नियतं त्वयात्मा यत्नेन परिरक्षणीयः, इत्युक्त्वा सस्नेहं परिष्वज्य केयूरकं पुनस्तदवधानदानाय संविधाय ‘महाश्वेताश्रमं यावत्पुनस्त्वयैव सहानया मन्नयनायागन्तव्यम्’ इत्यादिश्य व्यसर्जयत् । निर्गतायां च केयूरकेण सह पत्रलेखायाम् ‘किं शीघ्रमेते यास्यन्ति न वेति, अन्तरा वा गच्छतां परिलम्ब उत्पत्स्यते न वेति, कियद्भिर्वा दिवसैः परापतिष्यन्ति’ इत्यनयैव चिन्तया शून्यहृदयः क्षणमिव स्थित्वा स्कन्धावारवार्तास्फुटीकरणाय वार्ताहरं विसर्ज्य बहुदिवसान्तरितदर्शनस्य वैशम्पायनस्य प्रत्युद्गमनायात्मानं मोचयितुं पितुः पादमूलमंयात् । तत्र चोभयतः ससंभ्रमापसृतप्रतीहारमण्डलवितीर्णविस्तीर्णालोकनमार्गो दूरादेवापसव्यजानुकरतलावलम्बितविमलमणिकुट्टिमोदरसंक्रान्तप्रतिमो द्विगुणायमानायतकुन्तलकलापः पितुः प्रणाममकरोत् । अथ तारापीडस्तथा दूरत एव कृतप्रणामं चन्द्रापीडमालोक्य निर्भरस्नेहगर्भेण सलिलभरमन्थरेणेव जलधरध्वानेनिभेन स्वरेण सधीरम् ‘एह्येहि’ इत्याहूय ससंभ्रमप्रधावितमपि संभावितशुकनासप्रणाममुपसृत्य पार्श्वे भूमावुपविशन्तमाकृष्य हठात्पादपीठे समुपवेश्यापरिसमाप्तावलोकनस्पृहेण चक्षुषा सुचिरमालोक्यास्योपारूढयौक्नभराभिरामतराण्यङ्गप्रत्यङ्गानि पाणिना स्पृष्ट्वा दर्शयन्शुकनासमवादीत् - ‘शुकनास, पश्येयमायुष्मतश्चन्द्रापीडस्योत्सर्पिणी महानीलमणिप्रभेव कनकशिखरिणः, गण्डमण्डलोद्भासिनी मदलेखेव गन्धद्विपस्य, उपस्तिकान्तिपतिपरभागा लक्ष्मच्छायेव चन्द्रमसः, विकाशशोभापेक्षिणी मधुकरावलीव कमलाकरस्य, रूपालेख्योन्मीलनकालाञ्जनवर्तिका, तारुण्यभरजलधरोत्तानश्यामिका, उज्ज्वलत्कन्दर्पदीपकजलशिखा, कुरत्प्रतापानलधूमराजी, मकरध्वजोपवनतमालवल्ली, मनोभवदोषारम्भबालतिमिरोद्गतिः, उद्वाहमङ्गलभ्रूसंज्ञा श्मश्रुराजिलेखा समन्तात्समुद्भिन्ना । विवाहमङ्गलयोग्यां दशामारूढोऽयम् । तद्देव्या विलासवत्या सह समेत्याभिजनरूपा निरूप्यतां काचिजगति राजकन्यका । दृष्टं हि दुर्लभदर्शनं वत्सस्य वदनम् । संप्रति वधूमुखकमलदर्शनेनानन्दयाम आत्मानम्’ इत्युक्तवति तारापीडे शुकनासः प्रत्युवाच – ‘साधु चिन्तितं देवेन । अनेन तु सहृदयेन हृदये समारोपिता एव सर्वविद्याः, संभाविता एव सर्वाः कलाः, स्वीकृता एव सर्वप्रजाः, गृहीता एव सर्वदिग्वधूनां कराः, स्थापितैव निश्चला कुटुम्बिनीपदे राजलक्ष्मीः, ऊदैव चतुरुदधिमेखलाकलापभूषणा भूः। किमतः परमवशिष्यते, येनानेन न परिणीयते’ इत्यभिहितवति शुकनासे लज्जावनम्रवदनश्चन्द्रापीडश्चकार चेतसि-‘अहो संवादः, येन मे कादम्बरीसमागमोपायचिन्तासमकालमेवेदृशी तातस्य बुद्धिरुत्पन्ना । तद्यदुच्यते — अन्धकारे प्रविष्टस्यालोकः, वनगहनप्रविष्टस्य देशिकदर्शनम् , महार्णवपतितस्य यानपात्रोभ्या गमनम् , म्रियमाणस्योपर्यमृतवृष्टिरिति, देतदापतितं मयि । सर्वथा वैशम्पायनदर्शनमात्र कान्तरिता वर्तते मे कादम्बरीप्राप्तिः’ इत्येवं चिन्तयत्येव चन्द्रापीडे क्षितिपतिरुत्तस्थौ । उत्थाय च तमेव विनयावनेतपूर्वकायं समवलम्ब्यांसदेशे सकलमेदिनीभारोद्वहनगुरुणा दोर्दण्डेन शनैः शनैः संचरञ्शुकनासेनानुगम्यमानो विलासवतीभवनमगमत् । गत्वा च ससंभ्रमकृताभ्युत्थानामिन्दूदयावलोकनविलोलामिव समुद्रवेलां विलासवतीमूर्ध्वस्थित एवावादीत् —–‘देवि, पश्यैषा त्वमपि वधूमुखावलोकनसुखस्य कृते न ताम्यसीत्युपालभमानेवे देवीं वत्सस्य यौवनारम्भसूत्रपातरेखा, आवयोस्तारुण्यदुर्विलसितनिवर्तनाज्ञा, विजृम्भमाणा श्मश्रुरागशोभा विवाहमङ्गलसंपादनायादिशति । त्वमपरं किमादिशसीति प्रष्टव्या । तदादिशतु देवी कथ्यमानेऽपि किमपरम् । अद्याप्यपहरसि वदनमन्यतो ब्रीडया । पृष्टा वा कर्तव्यं नाज्ञापयसि । वरमातासि संवृत्ता । जानामि चन्द्रापीडस्योपर्यप्रीतिरेषा, यदेवमे तत्कार्येष्वनादरोऽवधारणा च’ इत्येवंविधैर्नर्मप्रायैरालापैः सुखायमानचेताश्चिरमिव स्थित्वा शरीरस्थितिसंपादनाय निरंगमत् । चन्द्रापीडोऽपि शुकनासमुखेनैव वैशम्पायनप्रत्युद्गमनायात्मानं मोचयित्वा जननीभवन एव निर्वर्तितशरीरस्थितिर्वैशम्पायनप्रत्युद्गमनसंविधानविनोदेनैव तं दिवसमनयत् । अवतीर्णायां च तस्यां यामिन्यां सुहृद्दर्शनौत्सुक्येन शयनगतोऽपि जाग्रदेव समधिकमिव यामद्वयं स्थित्वा परिवर्तयद्भिरिव स्वकान्त्या नीलिमानमम्बरतलस्य, अपहरद्भिरिव हरिततां तरुगहनानाम् , अधस्तादपि छिद्रयित्वेव प्रविशद्भिनिर्वासयद्भिरिव तरुतलच्छायाम् , देरीकुहरकुलोदरेष्वपि निलीनं तिमिरमक्षान्येव प्रविश्योत्पाटयद्भिः, विवरप्रवेशव्याजेन च रसातलमिव प्रवेष्टुमारब्धैः, अन्यथा पुनर्धवलयद्भिरिव धवलतां सौधानाम् , उद्धूलयद्भिरिव कर्पूररेणुना दिङ्मुखानि, लिम्पद्भिरिव सान्द्रचन्दनद्रवेण यामिनीम्, उन्नामयद्भिरिव मेदिनीम् , उपनयद्भिरिव द्याम् , संक्षिपद्भिरिव तारकाग्रहनक्षत्रमण्डलानि, विस्तारयद्भिरिव सरित्पुलिनानि, पृथक्पृथक्कमलवनान्युत्पीड्येव धारयद्भिः, उद्दलितदलविकासानेकीकुर्वद्भिरिव कुमुदाकरान् , अपि च पर्यस्तैरिव शिखरिशेखरेषु, अवर्जितैरिव प्रासादमूर्धसु, तरद्भिरिव जलतरङ्गेषु, पिण्डीभूय वहद्भिरिव, रथ्यामुखेषु प्रसारितैरिव सैकतस्थलेषु, हंससाथैः सहकीभूतैरिव, संविभक्तैरिव चन्द्राश्रयप्रसुप्तकामिनीकपोललावण्येन, क्षालितैरिव चन्द्रकान्तच्युतजलधारासहजैः । तथा च गर्भगृहेष्वप्यविहतप्रवेशैः, दन्तवलभीभ्योऽपि लब्धपरभागः, पद्मिनीपत्रखण्डेष्वप्यखण्डितधवलिमभिः, आरामेष्वपि दिवसबुद्धिमुत्पादयद्भिः, परस्परोद्भिन्नक्रमेणोद्गिरद्भिरिव, आवर्जयद्भिरिव, विक्षिपद्भिरिव, विस्तारयद्भिरिव, वर्षद्भिरिव सर्वतोज्योत्स्नाप्रवाहम् , कादम्बरीसमागमत्वरादानाय स्मरसर्वास्त्रमोक्षमिव कुर्वद्भिश्चन्द्रपादैर्द्विगुणीकृतमन्मथोत्साहो गर्मनसंज्ञाशङ्खनादायादिदेश । अथ गगनतललब्धविस्तारः, विजृम्भमाण इव दिकुञ्जेषु, आवर्तमान इवाभ्रंलिहनगरीप्राकारमण्डलोभ्यन्तरे, समारोहन्निवोत्तुङ्गगोपुराट्टालकशिखराणि, चलन्निव हर्म्यान्तरालेषु, विकसन्निव चतुष्कचत्वरेषु, प्रसरनिव राजमार्गेषु, परिभ्रमन्निव भवनसंकटेषु, प्रविशन्निवोद्यानगवनगह्वरेषु, संमूर्च्छन्निव प्रासादकुक्षिषु, तत्क्षणप्रतिबोधितानां गृहसरोजिनीसारसा नामनुवर्त्यमान इव तारतरदीर्घेण रणितेन, विच्छिद्यमान इव मुहुर्मुहुः स्वभावगद्गदेन भवनहंसानांकलरवेण,निर्धार्यमाण इवच श्रोत्रप्रवेशिना गमनवेलाप्रणामसंभ्रान्तस्य वाराङ्गनाजनस्य चलवलयनू पुररसनाकलकलेन तारदीर्घतरः शङ्खध्वनिरुदतिष्ठत् । अनन्तरं चोत्था प्यमानैश्वोत्थितैश्वाकृष्यमाणैश्चाकृष्टैश्चारोप्यमाणपर्याणैश्च पर्याणितैश्च नीयमानैश्चानीयमानैश्च विलेभ्यमानैश्चाच्छिद्यमानैश्चागच्छद्भिश्चागतैश्च पूज्यमानैश्च पूजितैश्च पङ्क्तिस्थितैश्च वाह्यमानैश्च तिष्ठद्भिश्च प्रतिपालयद्भिश्च पर्याप्तराजद्वाराङ्गणैरप्रभूतचत्वरैर्निस्तुषितसकलरथ्यान्तरतयान्तर्बहिश्व संकटायमाननगरीविस्तारैस्तुरङ्गमसहस्रैस्तत्क्षणं कुन्तवनमयमिवान्तरिक्षम्, खुररवमयीव मेदिनी, हेषारवमयानीव श्रोत्रविवराणि, फेनपिण्डस्तबकमयमिव युवराजभवनद्वाराङ्गणम्, खलीनरवमय्य इव दशदिशः, अश्वालंकाररत्नप्रभामया इवाभवशशाङ्करश्मयः । अचिराञ्च गृहीतमायोगोऽङ्गणात्तमिन्द्रायुधमारुह्य पुरस्ताच्चलितेनालोकहेतोद्वितीयचन्द्रमण्डले नेव हंसधाम्ना मङ्गलातपत्रेणावेद्यमाननिर्गमो यथादर्शनमितस्ततः तुरङ्गमगतैरेव प्रणम्यमानो राजपुत्रसहस्रैः प्रसुप्तपुरजनतंयासंबाधेनापि राजवर्त्मना बहुत्वात्तुरङ्गमबलस्य कृच्छलब्धसं चारः कथंकथमपि निर्जगाम नगर्याः । निर्गत्य चादूरत एव निर्भरत्वाज्योत्स्नापूरस्याच्छ तया च दुर्विभाव्यपानीयामुपरि कलकूजितानुमीयमानोत्रस्तहंससार्थोत्पतनव्यतिकराङ्गुलिना नीयमानामिव सर्वतो जडतरतरङ्गानिलस्पर्शमात्रोपलक्ष्यसलिलसंनिधिमुत्तीर्य शिप्रामतिप्रहतत्वादसंकटत्वाञ्च वर्धयतेव गमनोत्साहमतिविस्तीर्णेनापि पुरोविस्तारितेनेव चन्द्रपादैर्दशपुर गामिना मार्गेण प्रावर्तत गन्तुम् । अथोह्यमानैरिव रयवाहिना सकल दिङ्मुखप्रसृतेन ज्योत्स्नाजलस्रोतसा वैशम्पायनालोकनत्वरितस्य चन्द्रापीडमनस इव तुल्यं वहतो जङ्घानिलेनेन्द्रायुधस्याकृष्यमाणैरिव वाजिभिस्तावत्येवापररात्रवेलया योजनत्रितयमेवालङ्घयत् । अथाध्वश्रमापहरणायेव प्रवृत्ते वातुमाह्लादकारिणि निर्भरज्योत्स्नाजलावगाहादार्द्रस्पर्शेऽवश्यायशीकरावर्षिणि रेजोलुलितविविधवन पल्लवानिलवीजिते विनिद्रकुमुदिनीपरिमलनलग्नपरिमले परिमलाहितजाडिग्नि रजनीविरामपि शुने मातरिश्वनि, क्रमेण चापरदिग्वधूवदनचुम्बिनि तदाकल्पकाले च दुर्विषहशर्वरीविरहचि न्तयेवासन्नदिनकरोदयविषादेनेवाप्रदोषादुत्तानितमुखैः कुमुदराशिभिः पीयमानस्य धाम्नः परिक्षयेणेव सर्वाम्बरसरःपयःपायिपयोदविभ्रमाश्वरजःसंघातोपघातेनेव पाण्डुतां गतवति चन्द्रबिम्बे, प्रत्यप्रगगनलक्ष्मीवियोगसंतापोज्झिते धवलोत्तरीयांशुक इव शशाङ्कलग्ने गलति चन्द्रिकालोके, अपरजलधिपातिना जोत्स्नाजलप्रवाहेणेव सहसा फेनबुद्बुदावलीष्विव नश्यन्तीषु तारकापङ्क्तिषु, गलदवश्यायक्षालनादिव शनैः शनैर्दलितमुक्तागौरज्योत्सानुभावमुत्सृजन्तीष्वाशासु, पुनर्विभाव्यमानसहजश्यामकान्तिषु सलिलादिवोन्मज्जत्सु तरुलताविटपेषु, समुल्लसति पूर्वदिग्वधूकर्णपूररक्ताशोकपल्लवेऽम्बरसरस्तामरसे दिवसमुखकरिकुम्भसिन्दूररेणौ तरणिरथरक्तध्वजांशुके संध्यारागे, संध्यातपचरितान्तेष्वालग्नदावानलेष्विव वयःसंघातैर्जनिताशिवमुत्सृज्यमानेषु निवासपादपेषु, सशेषनिद्रालसैश्विरप्रसारणाविशदजङ्घिङ्घ्रिनिभिर्हठाकृष्टदीर्घपदसंचारिभिमृगकदम्बकैरुन्मुच्यमानासूषरशय्यासु,इच्छावखण्डितोत्खातपल्वलोपान्त रूढमुस्ताग्रग्रन्थिष्वरण्यगह्वराभिमुखेषु वराहयूथेषु, निशावसानप्रचारनिर्गतैर्गोधनैरितस्ततो धवलायमानासु ग्रामसीमान्तारण्यस्थलीषु, आलोक्यमानजनपदविनिर्गमेषु प्रसूयमानेष्विव ग्रामेषु, यथार्क किरणावलोकोद्गमं चोन्नाम्यमान इव पूर्वदिग्भागे समुत्सार्यमाणास्विवाशासु, अपसर्पत्स्विवारण्येषु विस्तार्यमाणास्विव ग्रामसीमासु, उत्तानीभवत्स्विव सलिलाशयेषु, अवच्छिद्यमानेष्विव शिखरिषु, उद्भियमाणायामिव मेदिन्यामदृश्यतामिव यान्तीषु, कुमुदिनीषु, तिरोधानकारिणी नीलतिरस्करिणीमिव करैरुत्सार्य तिमिरमालाम्, विरहविधुरां कमलिनीमिवालोकयितुमुदयगिरिशिखरमारूढेभगवति सप्तलोकैकचक्षुषि,सप्तवाहे,विहायस्तलमुद्भास्य दिगन्तराण्युद्भासयन्तीषु सकलजगद्दीपिकासु दिवसकरदीधितिषु, दृष्टिप्रसरक्षमाया वेलाया सहसैवाग्रतोऽर्धगव्यूतिमात्र इव रात्रिप्रयाणकायातम्,अन्तःक्षोभभीतेन रसातलेनेवोद्गीर्यमाणम्, असोढसंघातभरया मेदिन्येव विक्षिप्यमाणम्, अपर्याप्तप्रमाणाभिर्दिग्भिरिव संहियमाणम्, अपरिमाणरजोनिरोधाशङ्कितेन गीर्वाणवर्त्मनेवावकीर्यमाणम्, अर्कावलोकेनेव सह वि स्तीर्यमाणम् ,आयासितायततरदृष्टिभिरप्यदृष्टपर्यन्तम् , अनुजीविभूभृच्छतसहस्रकल्पितावष्टम्भम् , संचारिणं द्वितीयमिव मेदिनीसंनिवेशम् ,अजलवाहिनीप्रवेशगम्भीरं प्राणिमयमपरपारमष्टममिव महासमुद्रम् , उद्रिक्तरजःसंततिदूरतया चापरिस्फुटविभाव्यसर्ववृत्तान्तमपीतस्ततोवलितधवलकदलिकोद्भासितानेककरिघटासहस्रसंकुलम् ,अविरलबलाकावलीविभ्राजिताम्भोदसंघातं मूर्तिमन्तमिव मेघसमयारम्भम्, आवासभूमिग्रहणसंभ्रमाभिप्रधावितासंख्यकरितुरगनरपरम्परोर्मिसंबाधतया मन्दमन्दरास्फालनलुलितकल्लोलजालाकुलस्य महाजलधेर्लीलया निविशमानं स्कन्धावारमद्राक्षीत् । दृष्ट्वा चाकरोच्चेतसि-‘अहो भद्रकं भवति, यद्य चिन्तितागमन एव प्रविश्य वैशम्पायनं पश्यामि’ इति । एवं चिन्तयित्वा छत्रचामरादिभिः स्वचिह्नैः सह निवारिताशेषराजपुत्रलोको जवविशेषग्राहिभिस्त्रिचतुरैस्तुरङ्गमैरनुगम्यमानो मूर्धानमावृत्योत्तरीयेण रयविशेषग्राहिणेन्द्रायुधेन नानाव्यापारव्यग्रसकललोकमचिन्तित एव स्कन्धावारमाससाद । प्रविशंश्च प्रत्यावासकं वहन्नेव ‘कस्मिन्प्रदेशे वैशम्पायनावासः’ इति पप्रच्छ । ततस्तत्संनिहिताभिः स्त्रीभिरितरत्वादप्रत्यभिज्ञाय यथारब्धकर्मव्यग्राभिरेवोद्वाष्पशून्यवदनाभिः ‘भद्र, किं पृच्छसि । कुतोऽत्र वैशम्पायनः’ इत्यावेद्यमाने ‘आः पापाः, किमेवमसंबद्धं प्रेलपथ’ इति शून्य हृदय एव ताः प्रतारयन्नन्तर्भिन्नहृदयत्वान्नापराः पृच्छन्नेवोत्रस्त इव हरिणशावकः, यूथपरिभ्रंशविलोल इव करिकलभः, धेनुविरहादुत्कर्ण इव तर्णकः, ने कि चिद्वदन् न किंचिदाकर्णयन्, न किंचिन्निरूपयन्, न क्वचित्तिष्ठन् , न कंचिदाह्वयन , क्वागतोऽस्मि, किमर्थमागतोऽस्मि, के चलितोऽस्मि, क्व गच्छामि, किं पश्यामि, किमारब्धं मया, किं वा करोमि, इति सर्वमेवाचेतयमानोऽन्ध इव, बधिर इव, मूक इव, जड इव, आविष्ट इव, कटकमध्यदेशं यावत्तादृशेनैव वेगेनावहत् ॥ अथेन्द्रायुधप्रत्यभिज्ञानाद्वार्तयैवानुप्रधावितराजपुत्रदर्शनाच्च देवश्चन्द्रापीड इति समन्तात्ससंभ्रमप्रधावितानामचेतितोत्तरीयस्खलनानामुद्बाष्पशून्यदृष्टीनां दूरादेव लज्जया प्रणामक्रियया च सममेवावनमतां राजन्यसहस्राणां मुखान्यवलोक्य ‘क्व वैशम्पायनः’ इत्यपृच्छत् । ततश्च ते सर्वे सममेव ‘अस्मिंस्तरुतलेऽवतरतु तावद्देवः । ततो यथावस्थितं विज्ञपयामः’ इति न्यवेदयन् । चन्द्रापीडस्य तेन तेषां स्फुटाख्यानादपि कष्टतरेण वचसान्तःशल्यगर्भ स्फुटितमिव हृदयमासीत् । केवलं तत्कालप्रणयिनी मूर्छा सा धारणमकरोत् । तुरगादवतारितं च कुथोपविष्टं च पितुः समवयोभिरनतिक्रमणीयैर्मूर्धाभिषिक्तपार्थिवैधृतमात्मानं न वेदितवान् । उपलब्धसंज्ञोऽपि च वैशम्पायनस्यादर्शनान् ‘किमेतत् । क्वाहं वर्ते । किं वा मर्यंतचरितम्’ इति भ्रमारूढ इव मुह्यद्भिरिवेन्द्रियैः सर्वमेवानुत्प्रेक्षमाणः केवलं स्कन्धावारागमनेनव तस्याभावादन्यदसंभावयन्, दुर्विषहपीडाभिहतेनेव चेतसा ‘किमारटामि, किं हृदयमवष्टभ्य तूष्णीमासे, किमात्मानमाहत्य हृदयात्प्राणैर्वियोजयामि, किमेकाकी कांचिद्दिशं गृहीत्वा प्रव्रजामि’ इति कर्तव्यमेव नाध्यगच्छत् । अन्तर्द्रवन्निव दह्यमान इव स्फुटनिव सहस्रधा दुःखेन चकार चेतसि- ‘अहो मे रम्योऽप्यरमणीयः संवृत्तो जीवलोकः । वसन्त्यपि शून्यीभूता पृथिवी । सचक्षुपोऽप्यन्धाः ककुभो जाताः । सुनिष्पन्नमपि हतं जन्म । सुरक्षितमपि मुषितं जीवितफलम् । कं परं पश्यामि । कमालपामि । कस्मै विश्रम्भं कथयामि । केन सह सुखमासे । किमद्यापि मे जीवितेन कादम्बर्यापि च । वैशम्पायनस्य कृते क्व कं पृच्छामि । कमभ्यर्थये । को मे ददातु पुनस्तादृशं मित्ररत्नम् । कथं मया तातस्य शुकनासस्य चात्मा वैशम्पायनेन विना दर्शयितव्यः । किमभिधाय च तनयशोकविह्वलाम्बा मनोरमा वा संस्थापयितव्या । किं भूमिः काचिदसिद्धा तां साधयितुं पश्चात्स्थिता । उत नरपतिः कश्चिदसंघटितस्तत्संघटनाय पश्चात्परिलम्बितः । आहोखित्काचि द्विद्यागृहीता तां गृहीतुं मयोत्संकलितः’ इत्येतानि चान्यानि चान्तरात्मना चिरमधोमुख एव विकल्प्य हृदयास्फुटनाद्विलक्ष्यमिवापराधिनमिव महापातकिनमिवात्मानं मन्यमानो वदनमदर्शयञ्शनैः शनैः कृच्छ्रादिव तानप्राक्षीत्-‘मय्यागते किं कश्चिदेवंविधोऽन्तरे सङ्ग्राम उत्पन्नः, व्याधिर्वा कश्चिदाशुकार्यसाध्यरूपः समुपजातः,येनैतदतर्कितमेव महावज्रपतनमुपनतम्’ इति । ते त्वेवं पृष्टाः सर्वे सममेव करद्वयापिहितश्रुतयो व्यज्ञपयन —-‘देव, शान्तं पापम् । देवशरीरमिव सामं वर्षशतं ध्रियते वैशम्पायनः’ इत्येतदाकर्ण्य चोजीवित इवानन्दबाष्पनिर्भरः संभाव्य तान्सर्वानेव कण्ठग्रहेणावादीत्-‘जीवतो वैशम्पायनस्यान्यत्र क्षणमप्यवस्थानमसंभावयता मयैवं पृष्टा भवन्तस्तज्जीवतीत्येतानि तु तावत्कणे कृतान्यक्षराणि । अधुना किं वृत्तमस्य, येनासौ नागतः, क्व वा स्थितः, केन वा प्रसङ्गेन, कथं वा तमेकाकिनमुत्सृज्यायाता भवन्तः कथं वा भवद्भिर्बलादपि नानीतोऽसावित्येतदवगन्तुमुत्ताम्यति मे हृदयम्’ इति । ते चैवं पृष्टा व्यज्ञपयन्-‘देव, श्रूयतां यथावृत्तम् । पृष्ठतः स्कन्धावारमनुपालयद्भिः शनैः शनैवैशम्पायनेन सह भवद्भिरागन्तव्यमित्यादिश्य गतवति देवे तस्मिन्दिवसे सुगृहीतत्वाद्वासेन्धनादिकस्योपकरणजातस्य न दत्तमेव प्रयाणं स्कन्धावारेण । अन्यस्मिन्नहन्याहतायां प्रयाणभेर्यां सज्जीक्रियमाणे साधने प्रातरेवास्मान्वैशम्पायनोऽभ्यधात् । अतिपुण्यं ह्यच्छोदाख्यं सरः पुराणे श्रूयते । तदस्मिस्नात्वा प्रणम्य चास्यैव तीरभाजि सिद्धायतने भगवन्तं भवानीप्रभुं महेश्वरं शशाङ्कशकलशेखरं व्रजामः । दिव्यजनसेविता केन कदा पुनः स्वप्नेऽपि भूमिरियमालोकिता’ इत्यभिधाय चरणाभ्यामेवाच्छोदसरस्तीरमयासीत् । तत्र चातिरम्यतयैव सर्वतो दत्तदृष्टिः संचरन्नमरकामिनीश्रोत्रशिखरारोहणप्रणयोचितैस्तरंगानिलाहतिविलोलवृत्तिभिः सलयैरविरलकुसुममकरन्दलोभपुञ्जितानां च मत्तमधुलिहां मञ्जुना सिञ्जितरवेण दूरादाह्वयन्तमिव, मरकतमणिश्यामया प्रभयानुलिम्पन्तमिव समं दशदिग्भागान् अदत्तदिवसकरकिरणप्रवेशतया दिवाप्यन्तनिशीथिनीमिव बिभ्राणम् , चिरपरिचितैरपि मेघोद्माशङ्कया मुहुर्मुहुरुन्मुक्तमधुरकेकारवैर्वनशिखण्डिभिरुत्कंधरैरवलोक्यमानं पदमिव जलदकालस्य, प्रतिपक्षमिव सर्वसंतापानाम् , निजावासमिव जडिम्नः, निर्गममार्गमिव सुरभिमासस्य, आश्रयमिव मकरध्वजस्य, उत्कण्ठाविनोदस्थानमिव रतेः, आस्पदमिव सर्वरमणीयानाम्, अनवरतवेलितसुरभिशीतलाच्छोदसरस्तरंगमारुताभिवीजिताभ्यन्तरशिलातलमन्यतमं तटलतामण्डपमद्राक्षीत् । दृष्ट्वा च तमतिचिरान्तरितदर्शनं भ्रातरमिव तनयमिव सुहृदमिव चानन्यदृष्टिविस्मृतनिमेषेण चक्षुषा विलोकयन्स्तम्भित इव, मूर्च्छयोन्मुच्यमान इवेन्द्रियैः, झगित्युन्मुक्ताङ्गः समुपविश्य भूमौ किमप्यन्तरात्मना स्मरन्निवानुध्यायन्निव निर्विकारवदनो गलितलोचनपयोधारासंतानस्तूष्णीमधोमुखस्तस्थौ । तथावस्थितं तमवलोक्यास्माकमुदपादि चेतसि चिन्ता, येन केनचिदपह्रियन्त एव रसिकहृदयाः परिणामधीरमतयोऽपि, किं पुनः कुतूहलास्पदे प्रथमे वयसि वर्तमानाः तस्मानियतमियमस्येमामतिमनोहरां भूमिमालोक्य भावयतो हृदयविकृतिरीदृशी जातेति । न चिराच्च तमेवमवदाम वयम् । दृष्टादर्शनीयानामवधिरेषा । तदुत्तिष्ठ । संप्रति निवर्तयामः स्नानविधिम् । अतिमहती वेला । सज्जीभूतं साधनम् । प्रयाणाभिमुखः सकलः स्कन्धावारस्त्वां प्रतिपालयन्नास्ते । किमश्चापि विलम्बितेन’ इति स त्वेवमुक्तोऽप्यस्माभिरश्रुतास्मदीयालाप इव, जड इव, मूक इव, अशिक्षित इव, वक्तुं न किंचिदपि प्रत्युत्तरमदात् । तमेव केवलमनिमेषपक्ष्मणा निश्चल स्तब्धतारकेण संतताश्रुस्रोतसा लिखितेनेव चक्षुषा लतामण्डपमालोकितवान् । पुनः पुनश्चास्माभिरागमनायानुरुध्यमानस्तद्ग्रथितदृष्टिरेवास्मान्परिच्छेदनिष्ठरमाह स्म - मया तु न यात व्यमस्मात्प्रदेशात् । गच्छन्तु भवन्तः स्कन्धावारमादाय । न युक्तं भवतां चन्द्रापीडभुजबलपरिरक्षितं गते तस्मिन्महासाधनं गृहीत्वास्यां भूमो क्षणमप्यवस्थानं कर्तुम् । ‘इत्युक्त वन्तं तमकस्मान्नाम किंचिदस्य दैवादेव वैराग्यकारणमुत्पन्नमित्याशङ्कय सानुनयमागमनाय पुनः पुनः प्रतिबोध्य तादृशासंबद्धानुष्ठानेन जातपीडा निष्ठुरमप्यभिहितवन्तो वयम् । एवं न युक्तमस्माकं स्थातुम् । ‘भवतः पुनर्देवस्य तारापीडस्यानन्तरादार्यशुकनासाल्लब्धजन्मनो देव्या विलासवत्याङ्कलालितस्य देवेन चन्द्रापीडेन सहैकत्र संवृद्धस्य तथा विद्यागृहे महता यत्नेनैव शिक्षितस्य युक्तमिदम् , यज्ज्येष्ठे भ्रातरि सुहृदि वत्सले भर्तरि जगन्नाथे च गुणवति च भवति सर्वमर्पयित्वा गते तत्परित्यागेनावावस्थानं कस्यापरस्येदृशो युक्तायुक्तपरिच्छेदः । तिष्ठतु तावदस्माकं तवोपरि स्नेहो भक्तिर्वा । अस्मिंस्तु शून्यारण्ये भवन्तमेकाकि नमुत्सृज्य गताः सन्तो देवेन चन्द्रशीतलप्रकृतिना चन्द्रापीडेनैव किं वक्तव्या वयम् । कि मन्यो देवश्चन्द्रापीडोऽन्यो वा भवान् । तदुन्मुच्यतामयं संमोहः । गमनाय धीराधीयताम् इत्यभिहितोऽस्माभिरीषदिव विलक्षहासेन वचनेनास्मानवादीत्-‘किमहमेतावदपि न वेद्मि, यद्गमनाय मां भवन्तः प्रबोधयन्ति । अपि च चन्द्रापीडेन विना क्षणमप्यहमन्यत्र न पार यामि स्थातुम् । एषैव मे गरीयसी परिबोधना । तथापि किं करोमि । अनेनैव क्षणेन सर्वत्र विगलितं मे प्रभुत्वम् । तथाहि स्मरन्निव किमप्ति मनो नान्यत्र प्रवर्तते, पश्यन्तीव किमपि न दृष्टिरन्यतो वलति, आसक्तमिव कापि हृदयं किमपि न जानाति, निगडिताविव पदमपि दातुं न चरणावुत्सहेते । कीलितेव चास्मिन्नेव स्थाने तनुः। तदात्मना त्हमसमर्थो यातुम। अथ बलाद्भवन्तो मां निनीषवः; तत्रापि चलितस्यास्मात्प्रदेशादात्मनो जीवितधारणं न संभावयामि । अत्र तु पुनस्तिष्ठतो यदेतदन्तर्हृदये किमप्यनवसीयमानं विपरिवर्तते मे । येनैव विधृतोऽस्मि तेनैवावश्यं धार्यन्ते प्राणा इति चेतसि मे । तदलं निर्बन्धेन । गच्छन्तु भवन्तः । भवतु यावज्जीवमा तृप्तेश्चन्द्रापीडदर्शनसुखम् । अल्पपुण्यस्य तु तन्मे प्राप्तमपि रतलादेवैबमाच्छिद्य दैवेन नीतम्’ इत्यभिदधानश्च कौतुकात् ‘किमेतत् , येनैवं भाषसे । नायासि देवस्य चन्द्रापीडस्य समीपम्’ इत्यस्माभिः पुनःपुनः पृष्टोऽप्यम्यधात्’लज्जेऽहमेवं वक्तुम् । तथापि शपामि वयस्यचन्द्रापीडस्यैव जीवितेन, यदि किंचिदपि जानामि यत्केन कारणेन न शक्नोम्यतो गन्तुमिति । अपि च भवतामपि प्रत्यक्ष एवायं वृत्तान्तः । तद् व्रजन्तु भवन्तः’ इत्युक्त्वा तूष्णीमभूत् । मुहूर्तादिव चोत्थाय तेपु तेपु रम्यतरेषु तरुतलेपु लतागहनेषु सरस्तीरेषु तस्मिंश्च देवायत ने किमपि नष्टमिवान्विष्यन्ननन्यदृष्टिर्बभ्राम । भ्रान्त्वा च चिरमिव स्विन्नान्तरात्मा सनिर्वेदमूर्ध्व निःश्वस्य तस्मिल्लतागहने पुनरूपविश्य तस्थौ । वयमपि कृतवीरुत्संनिधानास्तत्प्रतिबोधनप्रत्याशया स्थिता एव । गतवति समधिक इव यामद्वये शरीरस्थितिकरणायास्माभिरभ्यर्थितः प्रत्युवाच—‘वयस्यचन्द्रापीडस्य खल्वमी स्वजीवितादपि वल्लभतराः प्राणाः । तद्यदि बलादपि परित्यज्य मां गच्छन्ति, तथाप्येपां संधारणे मया यत्नः कार्यः । किं पुनरगच्छतःमेव । चन्द्रापीडदर्शनेनैव चाहमर्थी । न मृत्युना । तदभ्यर्थनैवात्र निष्फला’ इत्यभिधायोत्थाय स्नात्वा कन्दमूलफलैर्वनवासोचितां शरीरस्थितिमकरोत् । निर्वर्तितशरीरस्थितौ तस्मिन्वयमपि कृतवन्तः । अनेनैव च क्रमेण विस्मितान्तरात्मानो रात्रौ च दिवा च किमेतदिति तद्वृत्तान्तमेवानुभावयन्तो दिनत्रयं स्थित्वा निष्प्रत्याशास्तदागमनानयनयोः सुकृतशम्बलसंविधानं तत्परिकरं तत्र स्थापयित्वा चागता वयम् । यच्चाग्रतो न प्रेषितः संवादकस्तदेकं तावदन्तरा गच्छतो देवस्यासौ न परापतत्येव। अपरमपि चिरात्प्रविष्टमात्रस्यैव देवस्य मा पुनरागमनक्लेशोऽभूत्’ इति । चन्द्रापीडस्य तु तं स्वप्नेऽप्यनुप्रेक्षणीयं वैशम्पायनवृत्तान्तमाकर्ण्य युगपदुद्वेगविस्मयाभ्यामाकान्तहृदयस्योदपादि चेतसि—‘किं पुनरीदृशस्य सर्वपरित्यागकारिणो वनवासैकशरणस्य वैराग्यस्य कारणं भवेत् । स्वीयं च न पश्यामि किंचित्स्खलितम् । तातप्रसादात्तु मामिव तमपि चरणतललुलितचूडामणयोऽर्चयन्त्येव राजानः । ममेव तस्यापि चेच्छाधिकेषु सर्वोपभोमेषु न किंचिदपि हीयते । ममेव तस्याप्याज्ञा न विहन्यत एव । अहमिव सोऽपि प्रसादान्करोत्येव । मत्त इव तस्मादपि बिभेत्येवापराधिजनः । मयीव तस्मिन्नपि सर्वाः संपदः । तमप्यालोक्य मामिवोत्पद्यते स्पृहालोकस्य । अथागच्छंस्तातेनाम्बया वार्यशुकनासेन मनोरमया च तनयस्नेहोचितेन सौहार्देन न संभावितः । विनयाधिक्येच्छुना तातेन शुकनासेन वा किंचित्पीडाकरमभिहितम् । ताडितो वा । तत्रापि नैवासावेव स्नेहतः पिशुनस्वभावो वा, गुरुजनाभक्तो वा, गुणोपादानविमुखो वा, तरलचित्तो वा। यत्किंचनकारी यःकश्चिदिव क्षुद्रप्रकृतिराढ्यपुत्रतागर्वितो दुःशिक्षितो दुर्विनीतो वा, पुत्रैकतादुर्ललितो वा । यो जन्मनः प्रभृति सर्वप्रकारोपकारिणो गुरुजनस्योपरि खेदमेवं कुर्यादनुबन्धाद्विरमेद्वा । प्रशमस्यापीदृशस्य नैष कालः । अद्याप्यसौ विद्जनोचिते गार्हस्थ्य एव न निवेशितः, देवपितृमनुष्यानामानृण्यमेव नोपगतः, अगत्वा चानृण्यमृणत्रयेण बद्धः क गतः। न तेन पुत्रपौत्रसंतत्या वंशः प्रतिष्ठां नीतः। नानन्तदक्षिणैर्महाक्रतुभिरिष्टम् । न सत्रकूष्प्रपाप्रासादतटाकारामादिभिः कीर्तनैरलंकृता मेदिनी । नाकल्पस्थायि दिशोयायि यशो विप्रकीर्णम् । न गुरवोऽनुवृत्त्या सुखं स्थापिताः। न स्निग्धबन्धूनामुपकृतम। न प्रणयिनो निर्विशेषविभवतां नीताः । न साधवः परिवर्धिताः। नानुजीविनः संविभक्ताः। न दृष्टाः श्रुता वाङ्गनाः । न जातेन जीवलोकसुखान्यनुभूतानि । न तेन पुरुषार्थसाधनानां धर्मार्थकामानामेकोऽपि हि प्राप्तः । क्रिमेतत्तेन कृतम्’ इत्याक्षि प्रचेताश्चिन्तयंश्चिरमिव तस्मिन्नेव तरुतले स्थित्वा शून्यहृदयोऽपि यथाक्रियमाणप्रसादसंमान संभावनासंभावितं विससर्ज सकलमेव राजकम् । उत्थाय तत्क्षणकृतमुत्तम्भिततुङ्गतरतो- रणाबद्धचन्दनमालमुभयपार्श्वस्थापितोत्पल्लवमुखपूर्णहेमकलशम् , द्वारात्प्रभृति सिक्तमृष्टभूमिभागम्, अन्तर्बहिश्च प्रकीर्णसुरभिकुसुमप्रकरम्, इतस्ततः संचरता कर्मान्तिकलोकेन गृहीतविविधभृङ्गारम्, मणिचामरतालवृन्तरत्नपादुकाधुपकरणपाणिभिर्वारवनिताभिश्चाकीर्णम्, वितानतलवर्तिना मदामोदाधिवासितदिगाननेन राजहस्तिना गन्धमादनेन सनाथीकृतैकपार्श्वम्, अपरपार्श्वेऽपि कल्पितेन्द्रायुधावस्थानमुपवाह्यकरेणुकाक्रान्तबाह्याङ्गणम्, अशेषद्वारावहितबहुवेत्तृलोकम्, महत्त्वाद्गम्भीरतयानेकसत्त्वशरणतसा च महाजलनिधिमनुकुर्वाणम् । तथा हि सवेलावनमिव योमावस्थितानेककरिघटापरिकरेण, अन्तःप्रविष्टमहाशैलमिव गन्धमादनेन, सकल्लोलमिव संचरत्संभ्रान्तकर्मान्तिकलोकोर्मिपरम्पराभिः, सावर्तमिव प्राहरिकजनमण्डलावस्थानैः, सलक्ष्मीकमिव वराङ्गनाभिः, सरत्नमिव महापुरुषैः, ‘सहंसमालमिव सितपताकाभिः, सफेनपटलमिव कुसुमप्रकरैः, हरिमिवानन्तभोगपरिकरं कायमानमविशत् । प्रविश्य । चागृहीतप्रतिकर्मतया मलिनवेषाभिरुद्विग्नदीनमुखीभिरितस्ततो वराङ्गनाभिर्यामिकलोकेन कर्मान्तिकैश्च प्रणम्यमानस्तूष्णीमिवालोककारकेणेवै मदामोदेनावेदिते निसृष्टशून्यदृष्टिर्गन्धमादने शनैःशनैर्वासभवनमयासीत् । तत्र चावनीतसमायोगो विमुच्यानि शयनीये तैरुतालवृन्तानिलेन संवीज्यमानोऽङ्गसंवाहकारिभिश्च शनैःशनैरपनीयमानागमनखेदः सकलरजनीप्रजागरखिन्नोऽपि चाप्राप्तनिद्रासुखो दुःखासिकया पुनरपि दुःखान्तरहेतुं चिन्तामेवाविशत् - ‘यदि तावदप्रतिमुक्तस्तातेनाम्बया वा महति शोकार्णवे निक्षिप्य तौ तनयविरहशोकविक्लवं तातं शुकनासमम्बां च मनोरमामनाश्वास्यास्मादेव प्रदेशाद्गच्छामि, तदा मयापि वैशम्पायनस्यानुकृतं भवति । निवृत्य पुनर्गमने चामुक्तिपक्षमाशङ्कते मे हृदयम् । तत्किं करोमि । अथवास्थान एवाप्रतिमुक्तिशङ्का मे प्रियसुहृदात्मानं मां च परित्यजताप्यपरेण प्रकारेण गमनमुत्पादयता कादम्बरीसमीपगमनोपायचिन्तापर्याकुलमतेरुपकृतमेव । तदधुना वैशम्पायनप्रत्यानयनाय यान्तं न तातो नाम्बापि नार्यशुकनासोऽपि निवारयितुं शक्नोति ॥माम् । गतश्च वैशम्पायनस हितस्तेनैव पार्श्वेन पुरस्ताद्गमिष्यामि । ’ इति निश्चित्य तत्कालकृतं वैशम्पायन वियोगदुःखं परिणामसुखमौषधमिव बहुमन्यमानो मुहूर्तमिव स्थित्वा विश्रान्तः सुखितैरङ्गैरापूरिते तृतीयार्धयामशङ्के शरीरस्थितिकरणायोदतिष्ठत् । उत्थाय च यत्रैव कादम्बरी तत्रैव वैशम्पायन इति स्वधैर्यावष्टम्भेनैव संस्तभ्य हृदयं शून्यान्तरात्मा पुनरेव संवर्गिताशेषराजलोकः शरीरस्थितिमकरोत् । कृताहारश्चान्तर्ज्वलतो मदनानलस्य वैशम्पायनविर हशोकाग्नेश्च बहिरपि संतापदानाय साहायकमिव कर्तुमुपरिस्थितश्चातिकष्टमष्टास्वपि दिक्षु युगपत्प्रसारितकरः करोम्ययत्नेनैव संतापमित्याकलय्येव गगनतलमध्यमाढे सवितरि आतपव्याजेन रजतद्रवमिवोत्तप्तमुगिरति रश्मिजाले, निर्भिद्य विशन्तीष्विव शरीरमातपकणिकासु, पुञ्यमानप्राणिसंघातासु तलप्रवेशासंकटायमानासु पादपच्छायासु, बहिरालोकयितुं चाप्यपारयन्तीषु दृष्टिषु, ज्वलत्स्विव दिङ्मुखेपु, दुःस्पर्शासु भूमिषु, निःसंचारेषु पथिषु, संकटप्रपाकुटीरोदरोदपीतिपुजितेष्वध्वन्येषु, नाडिंधमश्वासातुरेषु स्वनीडावस्थायिषु पत्ररथेषु, पल्वलान्तर्जलप्रवेशितेषु महिषवृन्देषु, अरविन्ददलशकलकिंजल्कविच्छरितमिच्छाविलोडितोत्रुटितबिसकाण्डच्छेददन्तुरं निपानसरःपङ्कमारोहत्सु करियूथेषु, रक्ततामरसकान्तिपु ललनाकपोलोपान्तेषु, दलितमुक्ताक्षोदानुकारिणीषु विराजमानासु घर्मजलकणिकावलीषु, स्मर्यमाणायां ज्योत्स्नायां गृह्यमाणेषु तुपारगुणेषु, वाञ्छयमाने पयोदकालाभ्यागमे, अभ्यर्थ्यमाने दिवसपरिणामे प्रदोषदर्शनाकाटिपु हृदयेषु, उत्थाय सरस्तीरकल्पितमनवरतापतजला सारसेकनिवारितोष्णकरकिरणसंतापम्, एकसंतानावलीधारवर्षवेगवाहिन्या निर्झरिण्येव कुल्यया परिक्षिप्तम्, अन्तरालम्बितजलजम्बूप्रवालाहितान्धकारम्, आमुक्तकुसुमपल्लवलतावृता खिलस्तम्भसंचयम्, आमोदमानसरसस्फुटितारविन्दराशिदत्तप्रकरम्, आकीर्णसरसबिसकाण्डम्, अकाण्डकल्पितप्रावृट्कालमितस्ततो वर्पन्तीभिः शैवलप्रवालमञ्जरीभिः, जलदेवताभिरिव, सद्यःस्नानाचिकुरहस्ताभिरुपगृहीतसुरभिकोमलजलाकाभिरनाश्यानचन्दनाङ्गरागहारिणीभिर्हारवलयमात्राभरणाभिरवतंसितबालशैवलप्रवालाभिर्मृणालतालवृन्तकर्पूरपटवासहरिचन्दनचन्द्रकान्तमणिदर्पणाधुपकरणपाणिभिर्बह्वीभिर्वाराङ्गनाभिरुपेतम्, परिभवस्थानमिव निदाघसमयस्य, निदानमिव शीतकालस्य, निवेशमिव वारिवाहानाम् , तिरस्कारमिव रविकिरणानाम् , हृदयमिव सरसः, सहायमिव हिमगिरेः, स्वरूपमिव जडिम्नः, आवासमिव विभावरीणाम, प्रत्याघातमिव दिवसस्य जलमण्डपमयासीत् । तत्र चातिरम्यतया क्षुभितमकरध्वजोत्कलिकासहस्रविषमं जलासारशिशिरतया संधुक्षितसुहृद्वियोगानलं महासमुद्रमिव गम्भीरं तं दिवसमेकाकी कथंकथमपि स्वधैर्ययानपात्रेणालङ्घयत् । लोहितायमानातपेच सायाह्ने निर्गत्य बहुलगोमयोपलेपहरिते मन्दमन्दमारुताहतोत्तरलायमानधवलकुसुमप्रकरशोभिनि वासभवनाङ्गणे क्षणमिवास्थाने समासन्नपार्थिवैः सह वैशम्पायनालापेनैव ‘स्थित्वा द्वितीय एव यामे चलितव्यम् । सजीकुरुत साधनम्’ इत्यादिश्य बलाध्यक्षमृक्षोदय एव विसर्जिताशेषराजलोको वासभवनमध्यवसत् । अथातिचिरान्तरितोज्जयनीदर्शनोत्सुको विनापि प्रयाणनान्द्या सकल एव कटकलोकः संवृत्य प्रावर्तत गन्तुम् । आत्मनाप्यलब्धनिद्राविनोदोऽवतरत्येव तृतीये यामे तुरगकरिणीप्रायवाहनेनानतिबहुना राजलोकेन सह विरलकटकसंमर्दैन वर्त्मनावहत् । अथाध्वनैव सह क्षीणायां यामवत्या रसातलादिवोन्मजसु सर्वभावेषु उन्मीलन्तीष्विव दृष्टिषु, पुनरिवान्यथा सृज्यमाने जीवलोके विभज्यमानेषु निनोन्नतेषु, विरलायमानेष्विव वनगहनेषु, संकुचत्स्विव तरुलतागुल्मेषु, गगनतलमारोहन्त्याः पदे इव बहुललाक्षारसालोहिते दिवसश्रियः, अवश्यायसेकानवपल्लव इवोद्भिद्यमाने पूर्वाशालतायाः, कमलिनीरागदायिनि दिवसकरबिम्बे विस्पष्टे, प्रभातसमये कटकलोकेनैव सह परापतिलवानुजयनीम् । अथ दूरत एव प्रसृतिद्वन्द्वसंस्थितैश्च पुज्यमानैश्च पुजितैश्चाबद्धमण्डलैश्वोपविष्टैः वैलितैश्च दत्तकतिपयशून्यपदैश्च निवर्त्यमानैश्चागच्छद्भिश्चोन्मुखैश्चाधोमुखैश्चोद्वाष्पदृष्टिभिश्च विवर्णदीनवदनैश्च महाकष्टशब्दमुखरैश्च दुःखाधिक्याहितमौनैश्च मुनिभिरपि मुमुक्षुभिरपि वीतरागैरपि निःस्पृहैरप्युदासीनैरपि दुर्जनैरपि स्नेहपरवशैः पितृभिरिव सुहृद्भिरिव स्निग्धबन्धुभिरिव च नगरीनिर्गतैरार्यापृच्छयमानं कथ्यमानं च विचार्यमाणं चानुभाव्यमानं च वैशम्पायनवृत्तान्तमेव समन्ताच्छुश्राव । शृण्वंश्च चकार चेतसि-‘बाह्यस्य तावज्जनस्येयमीहशी समवस्था किं पुनर्येनासावङ्केन लालितः संवर्धितो वा बालचाटवोऽस्यानुभूताः । तदतिकष्टं मे वैशम्पायनेन विना तातस्य शुकनासस्याम्बाया मनोरमाया वा दर्शनम् ’ इत्येवं चिन्तयन्नासानिहितोद्वाष्पदृष्टिरदृष्टसर्ववृत्तान्त एव विवेशोज्जयनीम् । अवतीर्य च स राजकुलद्वारि प्रविशन्नेवार्यशुकनासभवनं सह देव्या विलासवत्या गतो राजेति शुश्राव । श्रुत्वा च निर्यर्तयत्रैव जगाम । गच्छंश्च समीपवर्ती ‘हा वत्स वैशम्पायन, अद्यापि मदङ्कलालनोचितो बाल एवासि । कथं त्वमेकाकी व्यालशतसहस्रभीषणे निर्मानुषे तस्मिञ्शून्यारण्ये स्थितः । केन तवापि सर्वसत्त्वव्याघातकारिणी शरीररक्षा कृता । केन वैषम्यप्रतिपन्थिनी शरीरस्थितिः संपादिता । केन निद्रासुखदायि शयनीयमुपकल्पितम् । कस्त्वयि बुभुक्षिते तृषिते सुषुप्सति वा दुःखितो ममोत्सङ्गमुत्सृज्य । समानसुखदुःखा वधूरपि न पुलक, त्वयोपात्ता । आगत मावस्यैव ते पितरमनुज्ञाप्यात्यर्थ वधूमुखमालोकयिष्यामीति यन्मया चिन्तितं केवलं तन्मे मन्दपुण्याया न संपन्नम् । अपरं तवापि देर्शनं दुर्लभं भूतम् । वत्स, यत्र तेऽवस्थातुमभिरुचितं नयस्व तत्रैव मामपि पितरं विज्ञप्य । वामपश्यन्ती न जीवामि । तात, त्वयाहं शैशवेऽपि नावमानिता, कुतस्तवेयमेकपद एवादृशी निष्ठुरता जाता । आ जन्मनः प्रभृति न दृष्टमेव यस्य कुपितमाननम् , तस्य ते कुतोऽयमेवंविधो मय्यकस्मादेव कोपो यदेवं परित्यज्य स्थितोऽसि । गतोऽप्यागच्छ । शिरसा प्रसादयामि त्वाम् । कोऽपरोऽस्ति मे । देशान्तरपरि चयान्मुक्तो नामास्मासु स्नेहः । भणमप्यनन्तरितदर्शनस्य चन्द्रापीडस्योपरि कथं तवेदशी निःस्नेहता जाता । तात, न भद्रकं त आपतितम् । सर्व एव सुखं स्थापनीयो गुरुजनो दुःखं स्थापितः । न जानाम्येवं कृत्वा किं त्वया प्राप्तव्यम् । एतानि चान्यानि चान्तर्भवनगतां प्रत्यग्रतनयविरहविह्वलां स्वयं देव्या विलासवत्या संस्थाप्यमानामपि मनोरमां विप्रलपन्तीमश्रौषीत् । तेन चातिकरुणेन तत्प्रलापविषेण विह्वल इव निद्रागमेनेव घूर्णमानो निश्चेतनतामनीयत । कथंकथमपि सहजसत्त्वावष्टम्भेनैव संस्तम्भितात्मा प्रविश्य पितुरपि लज्जमानो वदनमुपदर्शयितुमधोमुख एव निस्पन्दसर्वाङ्गेण मन्दराद्रिणेव शुकनासेन सह मथनावसानस्तिमितमिव महार्णवं प्रणम्य पितरं दूरत एवोपाविशत् । उपविष्टं च तं क्षणमिव दृष्ट्वा राजान्तष्पिभरगद्गदेन ध्वनिनाभ्यर्णवर्ष इव जलधरोऽभ्यधात्- ‘वत्स चन्द्रापीड, जानामि ते स्वजीवितादपि समभ्यधिकां भ्रातुमपरि प्रीतिम् । पीडा च सुखैकहेतोर्वल्लभजनोदवासंभाव्यायासमुत्पद्यते । तथैव हि न किंचिन्न क्रियते । तजन्मनः स्नेहस्य वयसः शीलस्य श्रुतस्य गुरुजनानुशासनस्य विनयाधानस्य च सर्वस्यैवानुचितमिमं भ्रातुः सुहृदश्च ते वृत्तान्तमाकयेत्वदोषमाशङ्कते मे हृदयम् । इत्येवंवादिनो नरपतेर्वचनमाक्षिप्य युगपच्छोकामर्षाभ्यामन्धकारिताननः प्रावृडारम्भ इव तडिल्लतादुष्प्रेक्ष्यो विस्फूजितेनैव स्फुरिताधरेण शुकनासोऽब्रवी त्—‘देव, यदि चन्द्रमस्यूष्मा, दहने चातिशीतलत्वम् , अंशुमालिनि वा तमः, तमखिन्यां वा दिवसः, महोदधौ वा शोषः, क्षितेरधारणं वा शेषे, परार्थानुद्यमो वा साधोः, अप्रियवचननिर्गमो वा खजनमुखात्संभाव्यते, ततो युवराजेऽपि दोषः। तत्किमेवमेवानिरूप्य तस्यानात्मजस्य मूढप्रकृतेर्दुर्जातस्य रोजापथ्यकारिणो मातृपितृघातिनो मित्रद्रुहः कृतघ्नस्य कर्मचण्डालस्य महापातकिनः कृते कृतयुगावतारयोग्यमात्मनोऽपि गुणवन्तमत्युदारचरितं चन्द्रापीडमेवं संभावयति देवः । न ह्यतः परमपरं कष्टतमं किंचिदपि पीडाकारणम् , यद्गुणेषु वर्तमानो दोषेषु संभाव्यत इतरजनेनापि । किं पुनर्गुरुजनेन। यो गुणी गुणैरेवाराधनीयः । कस्यापरस्यात्मा गुणवाननेन ज्ञापनीयः । अपि च जन्मनः प्रभृति देवस्य देव्या विलासवत्याश्चाङ्कलालनया यो न गृहीतस्तस्य मरुत इव दुर्घहप्रकृतेश्चन्द्रापीडोऽपि किं करोतु । स्वयमेवोत्पद्यन्त एवंविधाः शरीरसंभवा महाकमयः सर्वदोषाश्रया महाव्याधयः, अन्तर्विषा महा व्यालाः, विनाशहेतवो महोत्पाताः, भुजङ्गवृत्तयो महावातिकाः, वक्रचारिणो महामहाः, त मोमयाः प्रदोषाः, मलिनात्मकाः कुलपांसवः, निःस्नेहाः खलाः, निर्लज्जाः केपणकाः, निः संज्ञाः पशवोऽपि च, अकाष्ठा दहनाः,निर्गुणा जालिनः, अतीर्था जलाशयाः, निर्गौरवाः ख रप्रकृतयः, अशिवमूर्तयो महाविनायकाधिष्ठिताः। ये सकलङ्काः कृपाणा इव स्नेहेनैव पारुष्यं लभन्ते । मलिनस्वभावाः करिकपोला इव दानेनैव मलिनतरतामापद्यन्ते । निर्वर्तयो मणि प्रदीपा इव प्रसादेनैव ज्वलन्ति । अङ्गलग्ना भुजङ्गा इव दाक्षिण्यपरिग्रहेणैवेतरे वााः संजा यन्ते । गुणमुक्ताः सायका इव सपक्षाश्रयेण फलनैव दूरं विक्षिप्यन्ते । सरागाः पल्लवा इव दि वसारूढयैवापरज्यन्ते । भूतिपरामृष्टा दर्पणा इवाभिमुख्येन सर्व प्रतीपं गृह्णन्ति । अन्तरव गच्छन्ति । ये च स्निग्धेष्वपिस्नेहलेष्वपि रक्षा अस्निग्धाः, ऋजुष्वपि सरलेप्वपि वका वामाः, साधुष्वपि सजनेष्वप्यसाधवो दुष्टाः, गुणवत्स्वपि गुणोपयुक्तेष्वपि दुष्ट प्रकृतयोऽशुभस्वभावाः, भर्तर्यपि खामिन्यप्यभृत्यात्मानोऽसेवकाः, रागिष्वपि च्छवृत्तयः सलिलाशया इव गाढावगाहनेनैव कालुष्यमुपयान्ति । ये च स्निग्धेष्वपि रुक्षाः, ऋजुष्वपि वक्राः, साधुष्वप्यसाधवः, गुणवत्स्वपि दुष्टप्रकृतयः, भर्तर्यप्यभृत्यात्मानः, रागिष्वपि क्रुद्धाः, निरीहादप्यादित्सवः, मित्रेष्वपि द्रोहिणः, विश्वस्तानामपि घातकाः, भीतेष्वपि प्रहारिणः,प्रीतिपरेष्वपि द्वेषिणः, विनीतेष्वप्युद्धताः, दयापरेष्वपि निर्दयाः, स्त्रीष्वपि शूराः, भृत्ये ष्वपि क्रूराः, दीनेष्वपि दारुणाः । येपां च विपरीतानां गुरव एव लघवः, नीचा एवोचैः, अगम्या एव गम्याः, कुदृष्टिरेव सदर्शनम् ,अकार्यमेव कार्यम्,अन्याय एव न्यायः,अस्थितिरेव स्थितिः, अनाचार एवाचारः, अयुक्तमेव युक्तम्, अविद्यैव विद्या, अविनय एव विनयः, दौःशील्यमेव सुशीलता, अधर्म एव धर्मः, अनृतमेव सत्यम् । येषां च क्षुद्राणां प्रज्ञा पराभिसंधानाय न ज्ञानाय, श्रुतम, पराक्रमः प्राणिनामुपघाताय नोपकाराय, उत्साहो धनार्जनाय न यशसे, स्थैर्य व्यसनासङ्गाय न चिरसंगताय, धनपरित्यागः कामाय न धर्माय । किं बहुना सर्वमेव येषां दोषाय न गुणाय । तदसावपीदृश एव कोऽप्यपुण्यवानुत्पन्नो यस्यैवं कुर्वतो मित्रमहं चन्द्रापीडस्य कथं तस्य द्रोहमाचरामीति नोत्पन्नं चेतसि । एवं कृते चलितवृत्तानां शासितावश्यं तारापीडो देवः पीडितान्तरात्मा मयि कोपं करिष्यतीत्येवमपि नाशङ्कितं मनसा । मातुरहमेवैको जीवितनिबन्धनम् , कथं मया विना वर्तिष्यत इत्येतस्य नृशंसस्य हृदयेनापतितम् । पिण्डप्रदो वंशसंतानार्थमहमुत्पादितः पित्रा कथमननुज्ञातस्तेन सर्वपरित्यागं करोमीत्येतदपि यथाजातस्य न बुद्धौ संजातम् । तदेवमसत्पथप्रवृत्तेन नष्टात्मना सुदूरमुद्धान्तेन दुर्दर्शमदृष्टं तावन्न नाम कुदृष्टिना दृष्टम् । दृष्टमपि येन न दृष्टं तस्याज्ञानतिमिरान्धस्य किं क्रियताम् । अपरमसौ तिर्यङ्महता यत्नेन शुक्र इव पाठितः पुष्टश्च देवेन । अथवा विनोददा नात्तिरश्चामपि सफल एव शिक्षणायासो भवति । तेऽपि पोषिताः पोषितरि स्नेहमाबध्नन्ति । तेऽपि कृतं जानन्ति । तेऽपि परिचयमनुवर्तन्ते । तेषामपि सहजस्नेहो मातापित्रोरुपरि दृश्यत एव । न पुनरस्य नष्टोभयलोकस्य पापकारिणो दुर्जातस्य यस्य सर्वमेवाधस्ताद्गतम् । अपि चेदृशाचरितेन तेनाप्यवश्यमेव कस्यांचित्तिर्यग्योनौ पतितव्यं येन तावदुरात्मना जातेनं केवलं सुखं न स्थापिताः सर्व एव वयम् । अपरमेवं दुःखार्णवे निपातिताः। सर्व एव ह्यनाक्षिप्तचेताः प्रवर्तते स्वहिताय परहिताय च । तस्य तु पुनरस्मानेवं दुःखं स्थापयतो न स्वहितं नापि च परहितम् । किमनेनैवमात्मद्रुहाकृतंमिति मतिरेतावन्न बोधपदवीमवतरति । सर्वथादुःखायैवास्माकं तस्य पापकर्मणो ग्रहोपसृष्टस्य जन्म’ । इत्युक्त्वा हेमन्तकालोत्पलिनीमिवोद्वाष्पां दृष्टि मुद्वहन, उद्वेपिताधरश्च बहिरलब्धनिर्गमेण स्फुटन्निवान्तर्मन्युपूरेण निःश्वसन्नेवावतस्थौ । तदवस्थं च तं तारापीडः प्रत्युवाच—‘एतत्खलु प्रदीपेनाग्नेः प्रकाशनम् ,वासरालोकेन भास्वतः समुद्भा सनम् , अवश्यायलेशैराह्लादनममृतांशोः, मेघाम्बुबिन्दुभिरापूरणं पयोधेः, व्यजनानिलैरति वर्धनं प्रभञ्जनस्य, यदस्मद्विधैः परिबोधनमार्यस्य । तथापि प्राज्ञस्यापि बहुश्रुतस्यापि विवेकिनोऽपि धीरस्यापि सत्त्ववतोऽप्यवश्यं दुःखातिपातेन विशुद्धमपि वर्षसलिलेन सर इव मानसं कलुषीक्रियते सर्वस्य । कलुषीकृते च मानसे किमिदमिति सर्वमेव दर्शनं नश्यति। न चित्तमालोचयति ।न बुद्धिर्बुध्यते।न विवेकोऽपि विविनक्ति। येन ब्रवीत्यदः। मत्तो लोकवृत्तमार्य एव सुतरां वेत्ति । किमस्ति कश्चिदसावियति लोके, यस्य निर्विकारं यौवनमतिक्रान्तम् । यौवना वतारे हि शैशवेनैव सह गलति गुरुजनस्नेहः । वयसैव सहारोहत्यभिनवा प्रीतिः । वक्षसैव सह विस्तीर्यते वाञ्छा । बलेनैव सहोपचीयते मदः । दोर्द्वयेनैव सह स्थूलतामापद्यते धीः । मध्येनैव सह कार्श्यमुपयाति श्रुतम् । ऊरुयुगलेनैव सहोपचीयतेऽविनयः। श्मश्रुभिरेव सहोज्जृम्भते मलिनताहेतुर्मोहः । आकारेणैव सहाविर्भवन्ति हृदयाद्विकाराः । तद्यथा धवलमपि सरागं सर्वथा दीर्घाभवदपि न दीर्घं पश्यति चक्षुः। अनुपहतेऽपि न प्रविशति गुरूपदेशः श्रोत्रे । स्त्रीरागिण्यपि न विद्यान्तरं विन्दति हृदये । न स्थैर्यमस्थिरप्रकृतौ तरलतायाम् । परित्याज्येषु व्यसनेष्वासङ्गेषु विकाराणां च कारणं प्रायः सरसता । सा च सर्वमेव जलप्रायं कुर्वाणा वर्षातिवृद्ध्यैवोपजायते । अपि च दिवसो दोषागमाय, दोषागमोऽनालोकाय, अनालोकोऽसद्दर्शनार्थम् , असद्दर्शनमविवेकाय, अविवेकोऽसन्मार्गप्रवृत्तये, असन्मार्गप्रवृत्तं च मोहान्धं चेतो भ्राम्यदवश्यमेव स्खलति । स्खलिते चेतसि तल्लग्ना पतत्येव लज्जा । त्रपावर- णशून्ये च हृदि प्रविश्य पदं कुर्वन्केन वा विनिवारितो दुर्निवारः सर्वाविनयहेतुः कुसुमधन्वा । विलसति च कुसुममार्गणे केन कार्येण छिद्रसहस्राणि न भवन्ति, यैः सत्त्वमेंवाधस्ताद्व्रजति । सत्त्वे चाधो गते किमाश्रित्य न गलति शीलम् । किमवलम्बनं विनयस्य । किं करोत्वनाधारं धैर्यम् । क्व पदमाधत्तांधीः । क्व समाधानमाबध्नात्ववष्टम्भः । केन वावष्टभ्य बलान्निश्चलीकृतं मनः । विप्रतिपद्यमानानि केन नियत्रितानीन्द्रियाणि । जगन्निन्द्यानि केन निवारितानि दुश्चरितानि । केन वालोकभूतेन तमोभिवृद्धिहेतुरुत्सारितो दोपाभिषङ्गो दृष्टेरुपहन्ता । किं वा दृश्यतामसति बहुदर्शित्वे । बहुदर्शित्वं च तावतः कालस्यैवासंभवात्कुतो भवतु, प्रथमे वयसि येनान्वयव्यतिरेकाभ्यां निश्चित्य वर्जयति मलिनताम् । अपि च परिणामेऽपि पुण्यवतां केषांचिदेव हि केशैः सह धवलिमानमापद्यन्ते चरितानि । तन्मोहविषयमहाहौ मदविकारगन्धमातङ्गे दुर्विलसितैकराज्ये रतिनिद्रावेश्मनि नवरागपल्लवोद्गमलीलान्तविशेषदुश्चरितचक्रवर्तिनि तारुण्यावतारे सर्वस्यैव विषमतरविषयमार्गपतितस्य स्खलितमापतति । किमेवमार्येण लालनीयस्य पालनीयस्य शिशुजनस्योपर्यादवेशो गरीयान्गृहीतः, यद्नुचितमपत्यस्नेहस्याक्रोशगर्भमेवमुक्तम् । स्वप्नायमानानामपि यद्गुरूणां मुखेभ्यो निष्क्रामति शुभमशुभं वा शिशुषु तदवश्यं फलति । गुरवो हि दैवतं बालानाम् । यथैवाशिषो गुरुजनवितीर्णा वरतामापद्यन्ते, तथैवाक्रोशाः शापताम्। तद्वैशम्पायनमुद्दिश्य कोपावेशादेव सति परुषमभिदधत्यार्ये महती मे चेतसः पीडा समुत्पन्ना । स्वयमारोपितेषु तरुषु यावदुत्पद्यते स्नेहः किं पुनरङ्गसंभवेष्वपत्येषु। तदुत्सृज्यतामयममर्षवेगो वैशम्पायनस्योपरि । विरूपकं तु तेन न किंचिदप्याचरितम । सर्वपरित्यागं कृत्वा स्थित इत्येतदपि कारणमविज्ञाय किमेवं दोषपक्षे निक्षिपामः । कदाचिद्गुणी भवत्येवमयमविनयनिष्पन्नो दोष एव । आनीयतां तावदसौ। बुध्यामहे किमर्थमयमेवंविधस्तस्य वयसोऽनुचितोऽपि संवेग उत्पन्नः । ततो यथायुक्तं विधा- स्यामः।’ इत्युक्तवति तारापीडे पुनः शुकनासोऽभ्यधात्—‘अत्युदारतया वत्सलत्वाचैवमा दिशति देवः । अन्यदतःपरं किमिवास्य विरूपकं भवेत् , यद्युवराजमुत्सृज्य क्षणमप्यन्यत्रावस्थानमात्मेच्छया चेष्टितम् ।’ इत्युक्तवति शुकनासे कशयेवान्तस्ताडिंतो दोषसंभावनयानया पितुरुद्वाष्पदृष्टिरुपविष्ट एवोपसृत्य चन्द्रापीडः शनैः शनैः शुकनासमवादीत्—‘आर्य, यद्यपि निरुक्तितो वेद्मि न मदीयेन दोषेण नागतो वैशम्पायन इति, तथापि तातेन संभावितमेव कस्य वापरस्य संभावना नोत्पन्ना। मिथ्यापि तत्तथा यथा गृहीतं लोकेन, विशेषतो गुरुणा । प्रसिद्धिरत्रायशसे यशसे वा दोषगुणाश्रया वाफलवती।परत्र फलदायी कुत्रोपयुज्यते परमार्थः। तदस्या दोषसंभावनायाः प्रायश्चित्तमार्यो दापयतु मे वैशम्पायनानयनाय गमनाभ्यनुज्ञां तातेन । नान्यथा मे दोषशुद्धिर्भवति । किं कारणम् । अनागते तु वैशम्पायने तातस्यानया संभावनया नापगन्तव्यम् । अपगते च मयि वैशम्पायनेनागन्तव्यम् । यद्यसावन्येनानेतुमेव पार्येत, तदा तातस्याप्यनुल्लकनीयवचनैरवनिपतिसहस्रैरानीत एव स्यात् । तदार्यः कारयतु मे गमनानुज्ञया प्रसादम् । न च तुरंगमैर्गच्छतो मे दृष्टायां भूमौ स्वल्पोऽपि गमनपरिक्लेशः । वैशम्पायनमादायागतमेव मामवधारयत्वार्यः । अपि च बाह्यखेदादसह्योऽन्तःखेद एवैतद्वियोगजन्मा । अनुपदमेव स्कन्धावारमादायागच्छतीत्यमुना हेतुना विना तेनागतोऽहम् । अन्यथा जन्मनः प्रभृति कदा मया गतं स्थितं क्रीडितं हसितं पीतमशितं सुप्तं प्रबुद्धमुच्छसितं वा विना वैशम्पायनेन । यच्च श्रुत्वा तस्मादेव प्रदेशान्न गतोऽस्मि, तन्मा तेनैव तुल्योऽभूवभिति । तदप्रतिगमनदोषाद्रक्षन्तु मामार्याः ।’ इत्यभिहितवति चन्द्रापीडेऽन्तःपीडोपरागरक्ते रक्ततामरसानुकारिणि मुखे सपक्षपातां षट्पदावलीमिव दृष्टिं निवेश्यैवं गमनाय विज्ञापयति युवराजः । ‘किमाज्ञापयति देवः’ इति शनैःशनैः शुकनासो राजानमप्राक्षीत् । तथा पृष्टश्च शुकनासेन किंचिदिव ध्यात्वा तारापीडः प्रत्यवादीत्–‘आर्य, मया ज्ञातमेतेष्वेव दिवसेषु संपूर्णमण्डलस्येन्दोज्योत्स्नामिव करावलम्बिनीं वत्सस्य वधूं द्रक्ष्यामीति यावदयमपरोऽन्तर्हि ताशापथो जलदकाल इव प्रत्यूहकारी वैशम्पायनवृत्तान्तो विलोमप्रकृतिना विधात्रान्तरा पातितः । यथा चायुष्मताभिहितमेवैतत् । न तमन्यः शक्नोत्यानेतुम । न च तेन विनायमत्र स्थातुम् । तदवश्यमेव तावन्निस्तरितव्यो व्यसनार्णवोऽमुना पोतेन । वैशम्पायनप्रत्यांनयनाय चावश्यं देव्यपि विलासवती विसर्जयिष्यत्येवैनमिति निश्चयो मे । तद्यातु । किंत्वतिदूरं वत्सेन गन्तव्यम् । तद्गणकै सहादरादार्यों दिवसं लग्नं च गमनायास्य निरूपयतु, संविधानं च कारयतु’ इत्येतदभिधाय शुकनासमुद्रोपलोचनश्चिरमिर्व चन्द्रापीडमालोक्याहूय च विनयावनम्रमंसदेशे शिरसि बाह्वोश्च पाणिना स्पृशन्नादिशत्—‘वत्स, गच्छ त्वमेव प्रविश्याभ्यन्तरं मनोरमासहिताया मातुरावेदयात्मगमनवृत्तान्तम् ।’ इत्यादिश्य चन्द्रापीडमात्मना शुकनासमादाय स्वभवनमयासीत् । चन्द्रापीडस्तु तामक्लिष्टवर्णां कादम्बरीसंवरणस्रजमिव गमनाभ्यनुज्ञां हृदयेनोद्वहन्प्रहृष्टान्तरात्माप्यपहर्षदृष्टिःप्रविश्य कृतनमस्कारो मातुःसमीपे समुपविश्यात्मदर्शनद्विगुणीभूतवैशम्पायनविरहशोकविह्वलां मनोरमामाश्चास्यावादीत्-‘अम्ब, समाश्वसिहि । वैशम्पायनानयनाय तातेन मे गमनमादिष्टम् । तत्कतिपयदिवसान्तरितं वैशम्पायनाननदर्शनोत्सवमविकल्पं त्वं मामेव विसर्जय।सा त्वेवमभिहिता प्रत्युवाच-‘तात, किमात्मगमनवचसा मां समाश्वासयसि । कः खलु मे त्वयि तस्मिंश्च विशेषः । तदेकधा तमेकं न पश्यामि कठिनहृदया। त्वयि पुनर्गते च दयितस्यादर्शने जीवितप्रतिबन्धहेतुभूतं त्वदर्शनं तदपि दूरीभवति । तन्न गन्तव्यम् । वत्स, एकेनापि हि युवयोरावां पुत्रवत्यौ द्वे अपि । नागतो नामासौ निष्ठुरात्मा’ इत्युक्तवत्यां मनोरमायां विलासवती धीरमुवाच—प्रियसखि, तव मम चैवमेतद्यथा त्वया प्रोक्तम् । अयं पुनर्वैशम्पायनेन विना कं पश्यतु । तदास्ताम। किमेतन्निवारयसि । वारितेनाप्यनेन नैव स्थातव्यम्। मन्ये च पित्राप्ययमेतदेवाकलय्य गम नायानुमोदितः । तद्यातु । वरमावाभ्यां कतिपयदिवसाननयोरप्यदर्शनकृतान्क्लेशाननुभूतान्न पुनरस्य वैशम्पायनावलोकनदुःखदीनं दिने दिने वदनमीक्षितुम् । तदुत्तिष्ठ । ‘गच्छावो गम- नसंविधानाय वत्सस्य चन्द्रापीडस्य । इत्यभिदधत्येव मनोरमा हस्ते गृहीत्वोत्थाय चन्द्रापीडेनानुगम्यमाना निजावासमयासीत् । चन्द्रापीडोऽपि मातुः समीपे गमनालापेनैव क्षणमिव स्थित्वा गृहमगात् । तत्र चापनीतसमायोगो गमनायोत्ताम्यता हृदयेन गणकानाहूय रहस्याज्ञापितवान्-‘यथा विना परिलम्बेन मे गमनं भवति, तथा भवद्भिरार्यशुकनासाय पृच्छते ताताय वा दिनमावेदनीयम्’ इति । एवमादिष्टास्ते यज्ञापयन्—‘देव, यथा सर्व एव ग्रहाः स्थिताः, तथास्मन्मतेन देवस्य गमनमेव वर्तमानेन शस्यते । अपरमपि कर्मानुरोधाद्राजेच्छैव कालः । तत्रापि न कार्यमेवाहनिरूपणया । राजा कालस्य कारणम् । यस्यामेव वेलायां चित्तवृत्तिः सैव वेला सर्वकार्येषु’ इति विज्ञापिते मौहूर्तिकैः पुनस्तानब्रवीत्-‘तातेनैवमादिष्टमिति ब्रवीमि । अन्यदात्यन्तिकेपु कार्येषु कार्यपराणां प्रतिक्षणोत्पादिषु च दिवसनिरूपणैव कीदृशी। तत्तथाकथयिष्यत यथा श्व एव मे गमनं भवेत्’ इति । ‘देवः प्रमाणम्’ इत्यभिधाय गतेषु च तेषु शरीरस्थितिकरणायोदतिष्ठत् । निवर्तितशरीरस्थितिं च मौहूर्तिकास्ते पुनः प्रविश्य शनैर्न्यवेदयन् -‘कृतोऽस्माभिर्देवादेशः। सिद्धश्च तनयविरहविक्लवतयार्यशुकनासस्य । तदतिक्रान्ते श्वस्तनेऽहनि रात्रावितः प्रस्थातव्यं देवेन’ इत्यावेदिते तैः ‘साधु कृतम्’ इति मुदितचेतास्तान भिष्टुत्य दृष्टिविषयवर्तिनीमेव कादम्बरी च वैशम्पायनं च मन्यमानोऽप्रविष्टायामेव पत्रलेखायां परापतामीत्यग्रप्रधावितेनावधारयंश्चेतसा चतुःसमुद्रसारभूतानिन्द्रायुधरयानुगामिन- स्तुरंगमानगणेयानवगणिततुरंगमगमनखेदानुत्साहिनो राजपुत्रांश्च निरूपयन्ननन्यकर्मा तं दिवसमेकां च यामिनी कथंकथमप्यस्थात् ।
अथानुरक्तकमलिनीसमागमाप्राप्तिसंतापादिव समं दिवसेनास्तमुपगतवति तेजसांपतौ, तेजःपतिपतनाच्चितानलमिव संध्यारागमपराशया सहविशति पश्चिमे गगनभागे, संध्यनलस्फुलिङ्गनिकर इव स्फुरति तारागणे, दिवसविरामान्मूर्छागमेनेव तमसा निमील्यमाणेषु दिङ्मुखेषु, विवासाभिमुखमुखरेपु वियद्वियोगदुःखादिव कृतान्तप्रलापेषु वयः समूहेषु जनितप्रकाशं जन्मैवालोक्य दोषागमं निरालोकं गर्भमिव तमःप्रविष्टे पुनर्जीवलोके, निजालोकाद्विकाशितपूर्वदिग्वधूवदने जन्मान्तरागत इवोदयगिरिवर्तिनि नक्षत्रसमागमसुखमनुभवति भगवति भूयोभूयः स्वकान्तिनिर्भरानिष्कलङ्क इव नक्षत्रनाथे, विस्पष्टायां निशीथिन्यां प्रस्थानमङ्गले प्रणामायोपगतं चन्द्रापीडं पीडयान्तर्विलीयमानेव वाष्पोत्पीडमपारयन्ती निवारयितुमत्यायताभ्यामपि नेत्राभ्यां कृतप्रयत्नाप्यमङ्गलशङ्कया विलासवती तं मन्युरागावेगगद्गदि कोपरुध्यमानाक्षरमवादीत्—‘तात, युज्यते ह्यङ्कलालितस्य गर्भरूपस्य प्रथमगमने गरीयसी हृदयपीडा, यस्मिन्प्रथममेवाङ्कादपैति । मम पुनर्नेदृशी प्रथमगमनेऽपि ते पीडा समुत्पन्ना, कीदृशी तव गमनेनाधुना । दीर्यत इव मे हृदयम् । समुत्पाट्यन्त इव मर्माणि । उत्कथ्यत इव शरीरम् । उत्प्लवत इव चेतः । विघटन्त इव संधिबन्धनानि । निर्यान्तीव प्राणाः । न किंचित्समादधाति धीः। सर्वमेव शून्यं पश्यामि । न पारयाम्यात्मानमिव हृदयं धारयितुम् । धृतोऽपि बलादागच्छति मे बाष्पोत्पीडो मुहुर्मुहुः । समाहितापि मङ्गलसंपादनाय ते चलति मतिः। न जानाम्येव किमुत्पश्यामीति । किंनिमित्तं चेयमीदृशी में" हृदयपीडेत्येतदपि न वेद्मि । किं बहुभ्यो दिवसेभ्यः, कथमप्यागतो मे वत्सो झटित्येव पुनर्गच्छतीति । किं वैशम्पायनवियोगादुद्विग्नस्य गमनमेकाकिनस्ते समुत्प्रेक्षेति। न पुनवैशम्पायनवृत्तान्तादात्मन एवं दुःखिततयेति । न चैवंविधया पीडया वैशम्पायनानयनाय गच्छतस्ते गमनं विनिवारयितुं पारयति वाणी । हृदयं पुनर्नेच्छत्येव त्वदीयं गमनम् । तदीदृशी मे पीडां विभोव्य यथा पुरा स्थितं न तथा क्वचिदासंगमावध्यतिदीर्घकालमायुष्मता स्थातव्यम् । अस्य चार्थस्य कृते साञ्जलिबन्धेन शिरसाभ्यर्थये वत्सम्’ इत्यादिशन्तीं स्वमातरं सुदूरं प्रसारितावनम्रमूर्तिश्चन्द्रापीडो व्यजिज्ञपत् - ‘अम्ब, तदा दिग्विजयप्रसङ्गास्थितम् । अधुना पुनरयमेव कालक्षेपो यावत्तमुद्देशं परापताभि । तत्पुनश्चिरागमकृता न भावनीया मनागपि हृदये पीडा त्वया’ इत्येवं विज्ञप्ता चन्द्रापीडेन संनिरुध्योद्वाष्पवेगात्कथंकथमपि संस्तभ्यात्मानं निर्वतितगमनमङ्गला गलता प्रस्रवेण सिञ्चन्ती शिरसि चोपाघ्राय गाढं सुचिरमालिङ्गय गच्छद्भिरिव प्राणैः कृच्छ्रान्मुमोच “तं माता । मुक्तश्च मात्रा पितुः प्रणतये वासभवनमगमत् । तत्र च ‘देव, गमनाय नमस्करोति युवराजः’ इत्यावेदिते द्वाररक्षिणा प्रविश्य क्षोणीतलनिवेशितशिरसा शयनवर्तिनो ननाम दूरस्थित एव पितुः पादौ । अथ तथा प्रणतमालोक्य किंचिदुन्नमितपूर्वकायः शयनगत एवाहूय तं पिता चक्षुषा पियन्निव प्रेम्णा परिष्वज्य गाढमिव सहसोद्गताविरलबाष्परयपर्याकुलाक्षोऽन्तःक्षोभावेगक्षिप्ताक्षरमवादीत्-‘वत्स, पित्राहं दोषेषु संभावित इत्येषा मनागपि मनसि वत्सेन दुःखासिका न कार्या । विनयाधानात्प्रभृति सम्यक्परीक्षितोऽस्यस्मामिः । परीक्ष्य च गुणगणैरेवाधिगम्यो राज्यभारस्त्वय्यारोपितो न तनयस्नेहादेव । राज्यं हि नामैतत्पृथ्वीभारेणैवातिदुरुद्वहम्, महीभृत्संबाधतयैवातिसंकटम्, कुटिलनीतिप्रचारेणैवातिदुःसंचरम्, चतुःसमुद्रव्याप्त्यैवातिमहत्, महासाधनप्रसाध्यतयैवातिर्दुःसाध्यम्, अपर्यवसायकार्यतन्त्रजालेनैवातिगहनम् , उत्तुङ्गवंशप्रतिष्ठिततयैवातिदुरारोहम्, अहितसहस्रोद्धरणेनैवातिदुरुद्धरम्, अपि च समवृत्तितयैवातिविषमम्, अनेकतीर्थकल्पनयैव दुरनतारम्, केण्टकशोधनेनैव दुर्ग्रहम, अखिलप्रजापालनव्यवहारेणैव दुःपालम् , नौविक्रान्ते नामहोत्साहे नाप्रियवादिनि नासत्यसंधे प्राज्ञे नाविवेकिनि नाकृतज्ञे नानुदारव्यवहृतौ नासंविभागशीले नान्यायवर्तिनि नाधर्मरुचौ नाशास्त्रव्यवहारिणि नाशरण्ये नाब्रह्मण्ये नाकृपालौ नामित्रवत्सले नावश्यात्मनि नानिर्जितेन्द्रिये नासेवके पदमेवादधाति । यः खलु समग्रैर्गुणैराकृष्य बलात्प्रतिबन्धमस्य चञ्चलप्रकृतेः कर्तुं समर्थः, तत्रास्ते । गुरवोऽप्यपगतस्खलितभीतयस्तत्रैव समारोपयन्त्येतदालोचितपरावराः । तदनेनैव बोद्धव्यमिदं वत्सेन नास्ति मयि दोष इति । अपि च संप्रति कस्मिन्भारमवक्षिप्याणुमपि दोषमाचरसि । त्वयैव सकललोकानुरञ्जने यतितव्यम् । गतः खलु कालोऽस्माकम् । अस्माभिरस्वखलितैश्चिरं पदे स्थितम् । न पीडिताः प्रजा लोभेन । नोद्वेजिता गुरवो मानेन । न विमुखिताः सन्तो मदेन । नोत्रासिताः प्राणिनः क्रोधेन । न हासित आत्मा हर्षेण । न हतः परलोकः कामेन । न राजधर्मोऽनिरुद्धः । स्वरुच्या वृद्धाः समासेविता न व्यसनानि । सतां चरितान्यनुवर्तितानि नेन्द्रियाणि । धनुरवनामितं न मनः । वृत्तं रक्षितं न शरीरम् । वाच्याद्भीतं न मरणात् । उपभुक्तानि सुरलोकदुर्लभानि सर्वविषयोपभोगसुखानि । यौनेच्छया पर्याप्तम कार्यपरिहरात् । कार्यानुष्ठानाच्चोपार्जितः परोऽपि लोकः । चेतसि मे त्वजन्मना चे कृतार्थ एवास्मि । तदयमेव मे मनोरथः । दारपरिग्रहात्प्रतिष्ठिते त्वयि सकलमेव में राज्यभारमारोप्य जन्मनिर्वाहलघुना हृदयेन पूर्वराजर्षिगतं पन्थानमनुयास्यामीति । अस्य च मेऽतर्कितमेवायमग्रतः प्रतिरोधको वैशम्पायनवृत्तान्तः स्थितः । मन्ये च न संपत्तव्यमेवानेन । अन्यथा क्व वैशम्पायनः । क्व चैवंविधमस्य स्वप्नेऽप्यसंभवनीयं समाचेष्टितम् । तद्गतेनापि तथा कर्तव्यं वत्सेन, यथां न चिरकालमेप मे मनोरथोऽन्तर्हृदय एव विपरिवर्तते’ इत्यभिधाय किंचिदुत्तानितेन मुखेनैव ‘संपीडितं हृदयमिव ताम्बूलमर्पयित्वा व्यसर्जयत् । चन्द्रापीडस्तु तया पितुः संभावनया सुदूरमुन्नमितोऽप्यवनम्रतरमूर्तिरुपसृत्य पुनः प्रणामेनोन्नमितात्मा निर्ययौ । निर्गत्य च शुकनासभवनमयासीत् । तत्र च तनयचिन्तापरीतमुन्मुक्तमिवेन्द्रियैः शून्यशरीरं शुकनासमवारिताश्रुपातोपहतमुखीं च मनोरमां प्रणम्य तादृशाभ्यामेव ताभ्यां संभाव्याशिषा समारोपयद्भ्यामिव स्वदुःखभारमनुगतो निवर्तनाय तयोनिवर्तिताननो मुहुर्मुहुराद्वारनिर्गतेर्गत्वाग्रतो ढौकितमपि कृतापसर्पणमकृतहर्षहेषारवमनुत्कर्णकोषमसुखखनममनस्कमनाविष्कृतगमनोत्साहं दीनमिन्द्रायुधमालोक्यापि पुनर्निवारणाशङ्कया वैशम्पायनावलोकनत्वरया कादम्बरीसमागमौत्सुक्येन चाकृतपरिलम्बो मनागप्यारुह्य रयेणैव निरगान्नगर्याः । निर्गत्य च सिप्रातटे तत्प्रस्थानमङ्गलावस्थानायोपकल्पितं कायमानमप्रविश्य बहिरेव गतो युवराज इति जनितकलकलेनातर्किततत्कालगमनसंभ्रान्तेन परिजनेन राजपुत्रलोकेन चेतस्ततो धावतानुगम्यमानो गब्यूतित्रितयमिव गत्वा सुलभपयोयवसे प्रदेशे निवासमकल्पयत् । उत्ताम्यता हृदयेनाप्रभातायामेव यामिन्यामुत्थाय पुनरवहन् । वहश्च तस्मादेव वासरादारभ्यैवमचेतित एव परापत्य कृतापकान्तेस्त्रपया पृष्ठतोऽनुगम्य बलादत्तकण्ठग्रहः क्व परं पलाय्यत इति वैशंपायनस्य वैलक्ष्यमपनयामि, एवं तत्समागमसुखमनुभूय निष्कारणप्रसन्नामनघामतर्कितोपनतमदवलोकनोपजातहर्षविशेषां पुरस्ताद्गमनसिद्धये पुनर्महाश्वेतां पश्यामि, एवं महाश्वेताश्रमसमीपे पुनःस्थापिताशेषतुरगसैन्यस्तया सहैव हेमकूट गच्छामि, एवं तत्र मत्प्रत्यभिज्ञानसंभ्रमप्रधावितेनेतस्ततः कादम्बरीपरिजनेन प्रणम्यमानः प्रविश्य मदागमननिवेदनोत्फुल्लनयनेन सखीजनेनापह्रियमाणपूर्णपात्राम् ‘क्वासौ, केन कथितम्, कियद्दूरे वर्तते’ इति तत्प्रश्नोन्मुखीम् तत्क्षणोत्पन्नया तापोपशान्त्या त्रपया च युगपदुरसि निहितं पद्मिनीपत्रमपनीयोत्तरीयांशुकाञ्चलं कुचावरणतामुपनयन्तीम् आभरणतानीतानि कमलिनीमृणालान्यपास्य भूषणेभ्योऽधिकां स्वशरीरशोभामेव सर्वाभरणस्थानेषु धारयन्तीम् तापोपशमार्पितहारमात्राभरणाम् अत्युल्बणहरिचन्दनचर्चान्तरितलावण्यशोभान्यङ्गानि करपरामर्शप्रयत्नेन दर्शनीयतरतां नयन्तीम् अङ्गालग्लानि शयनीयकृतकमलकुमुदकुवलयदलकिंञ्जल्कशकलानि पुलकोद्गमेनैवापास्यन्तीम् कपोलसङ्गिनीं च मेणिदर्पणे विलोक्यायथास्थितां करेण कबरीमंसदेशे निवेशयन्तीम् आनन्दजन्मना नेत्रपुटावर्जितेन बाष्पसलिलेनैव मकरध्वजानलसंतापाय जलाञ्जलिमिव प्रयच्छन्तीम् उत्सृष्टशेषेणाश्यानमलयजरसेनैवाङ्गलग्नेन भस्मनेव मदनहुतभुजो निवृत्तिमावेदयन्तीम् अभ्युत्थानप्रसङ्गेनैव कुसुमशय्यां दूरीकुर्वन्ती कादम्बरीमालोकयन्दर्शनीयावलोकनफलेन चक्षुषी कृतार्थतां नयामि, एवं मदलेखां साजलिप्रणामेन कण्ठग्रहेण संभाव्य चरणपतितां पत्रलेखामुत्थाप्य केयूरकं पुनःपुनः परिष्वज्य निर्भरमेवं महाश्वेतोपपादितोद्वाहमङ्गलस्त्वरितसखीवृन्दनिर्वतितवैवाहिकस्नानमङ्गलविधिर्भुव इव वर्षाभिषिक्तायाः करग्रहणं देव्या निर्वतयामि, एवमतिबहलकुङ्कुमकुसुमधूपानुलेपरामोदोद्दीपितहृदयजन्मनि वासभवने शयनवर्तिनो मम समीपमुपविश्य क्षणमपि कृतनर्मालापायां निर्गतायां मदलेखायां त्रपावनम्रमुखीमनिच्छन्तीं किल बलाद्दोर्भ्यामादाय शयनीयं शयनीयादङ्कमंकाच्च हृदयं देवीं कादम्बरीमारोपयामि, एवमुद्भटनीवीग्रन्थिदृढतरार्पितपाणिद्वयायास्त्रपानिमीलितलोचने चुम्बन्नवञ्चितात्मा चिराद्भवामि, एवं सुरैरपि दुर्लभं तदधरामृतमा तृप्ते निपीय सुजीवितमात्मानं करोमि, एवमतिकोमलतयान्तर्विलीय विशन्त्या इवाङ्ग गाढालिङ्गनसुखरसभरेण मकरध्वजानलदग्धशेषं निर्वापयामि शरीरम् , एवं परवत्यापि स्वेच्छाप्रवृत्तयेव निष्प्रयत्नयाप्यभियुञ्जानयेवापसर्पन्त्यापि कृतात्मार्पणयेव संगोपितसर्वाङ्गयाप्युपदर्शितभावयेव देव्या कादम्बर्या सह न किमपि सर्वजनसुलभमपि योगैकगम्यम्, स्पर्शविषयमपि हृदयग्राहि, मोहनमपि प्रसादनमिन्द्रियाणाम्, उद्दीपनमपि मदनहुतभुजो ‘निर्वृतिकरम्, उपाहितसर्वाङ्गस्वेदमप्याह्लादकरम्, उपजनितविषमोच्छ्वासश्रममस्वेदमपि ससीत्कारपुलकजननम्, अनुभूयमानमप्युत्पादितानुभूयमानस्पृहम्, सहस्रवारानुभूतमप्यपुनरुक्तम्, अतिस्पष्टमप्यनिर्देश्यस्वरूपम्, अचिन्त्यमसमासङ्गमतुलस्पर्शमनुपमरसमनाख्येयप्रीतिकरं परमध्यानसहस्राधिगतं निर्वाणमिवापरप्रकार सुरताख्यं सुखान्तरमनुभूय निमेपमप्यकृतविरहस्तया सह तेषु तेषु रम्येषूद्देशेषु रममाणः स्वभावरम्यमपि रमणीयतरता यौवनमुपनयामि, एवमुत्पन्नविश्रम्भा देवीमेवाभ्यर्थ्य वैशम्पायनस्यापि मदलेखया सह घटनां कारयामि’ इत्येतानि चान्यानि च चिन्तयनचेतितक्षुत्पिपासातपश्रमोज्जागरव्यथो दिवारात्रौ चावहत् । एवं च वहतोऽप्यस्य दवीयस्तयाध्वनोऽर्धपथ एव कालसर्पो वर्त्मनः, प्रबलपङ्को ग्रीष्मस्य निशागमो गभस्तिमतः, स्वर्भानुरमृतदीधितेः, धूमोद्गमो वज्रानलस्फुरितानाम्, मदागमो मकरध्वजकुञ्जरस्य, मरणान्धतमसप्रवेशो विरहातुराणाम्, अमोघकालपाशवागुरोत्कण्ठितकामिहरिणानाम्, अभेद्यलोहार्गलदण्डो दिग्वारणानाम्, अच्छेद्यहिजीरशृङ्खलावाहानाम्, अनुन्मोच्यनिगलबन्धोऽध्वगानाम्, अलजयकान्तारलेखा प्रोषितानाम्, कालायसपञ्जरोपरोधोजीवलोकस्य, उद्गर्जन्नलिकुलगवलमलिनघनघटाभोगभीषणो विषमविस्फूर्जितनिधिमतरतडिद्गुणाकर्षी मण्डलितविकटशक्रकार्मुकोऽनवरतधाराशरासारवर्षप्रहारी पुरोमार्गमुपरुन्धन्विरुद्ध इवान्धकारितमुखो निस्विंशशतसहस्रसंपातदुष्प्रेक्ष्योऽक्षिणी प्रतिघ्ननिवाशुगमनविघ्नकारी बभूव जलदकालः । तत्र च प्रथममस्य चेतनाहारिभिर्मूर्च्छावेगैरन्धकारतामनीयन्त दश दिशः, ततो जलधरैः । अग्रतः समुत्प्लुतेन चेतसा क्वाप्यगम्यत, पृष्ठतो हंसैः । पुरस्तात्परिमलिनोऽस्य निःश्वासमेरुतः प्रावर्तन्त, पश्चात्कदम्बवाताः । पूर्व तुलितनीलोत्पलवनकान्तिनयनयुगलमस्य सलिलं समुत्ससर्ज, चरममम्भोमुचां वृन्दम् । आदावापूर्यमाणमुद्वेगेनोत्कलिकासहलपर्याकुलं मनोऽस्याभवत्, अवसाने स्रोतस्विनीनां पात्रम् । अपि च दुस्तरैर्नदीपूरैरेव सहावर्धन्त मन्मथोन्माथाः । वर्षाजलविलुलितैः कमलाकरैरेव सह ममज्ज कादम्बरीसमागमप्रत्याशा । धारारयासहैः कन्दलैरेव सहाभिद्यत हृदयम् । अम्भोदवाताहतैर्धाराकदम्बकुङालैरेव सहाकम्पतोत्कण्टकिता तनुः । अनवरतजलपतनजर्जरितपक्ष्मभिः शिलीन्धैरेव सह ताम्रतामधत्त नयनयुगलम् । उत्कूलसलिलोत्खन्यमानमूलैः सरित्तटैरेव सहापतन्प्राणाः । परिमलमयैर्मालतीमुकुलैरेव सहाजृम्भत रणरणकाः । तथातिगुरुनिर्घातैरेवाभज्यन्त मनोरथाः । तीक्ष्णतरकोटिभिः केतकीसूचिभिरेवात्रुट्यन्त मर्माणि । उच्छिखैः शिखिभिरेवादह्यन्त गात्राणि । अन्धकारितदिशा मेघतमसैवावर्धत मोहान्धकारम् । तिरस्कृतध्वान्तेन तडिदातपेनैवातन्यत संतापः । भैरेणैव गम्भीरगर्जितैकसंतानोत्कम्पितधरापीठबन्धैर्नभसि नवधनैः, धनजलधारातिपातवाचालितचञ्चभिरन्तराले चातकैः, उद्दाममहारावराविभिरवनिमूले दर्दुरैः, अनवरतझांकाररवजर्जरितधाराम्बुभिराशासु जलदानिलैः, उन्मुक्तमदकलकेकाकोलाहलैः काननेषु कलापिभिः, असमशिखरोपलस्खलनकलकलमुखरैगिरिषु निर्झरैः, उल्लोलकल्लोलास्फालविस्फारितविषमनिर्घोषात्कारिभिः सरित्सु पूरैः, सर्वतश्च विततेन स्थलीषु, संहतेन कन्दरेषु, उच्चण्डेन शिखरिषु, कलकलेनाम्बुपु, पटुना पर्वततटेषु, मृदुना शाद्वलेषु, चारुणा कपोलेषु, सान्द्रेण शाखिषु, तनुना तृणोपलेषु, उल्बणेन तालीवनेषु, यथाधाराश्मपतनमाकर्ण्यमानेन सर्वप्रकारमधुरेण हृदयप्रवेशिना धारारवेणोत्कलिकाकलितो न रात्रौ न दिवा न ग्रामे नारण्ये नान्तर्न बहिर्न वने नोपवने न वर्मनि नावासे न वहन्न तिष्ठन्न वैशम्पायनस्मरणेन न कादम्बरीसमागमानुध्यानेन कथंचिदपि न क्वचिदपि निर्वृतिमेवाध्यगच्छत् । अनधिगतनिर्वृतिश्चातिकष्टतया वज्रानलस्येव जलदसमयेन्धनस्य मदनहुतभुजो भस्मसात्कर्तुमेवोद्यतस्य धीरस्वभावोऽपि प्रकृतिमेवोत्ससर्ज । प्लावितसकलधरातलैर्राजलैरप्यशोष्यत द्योतितदशदिशा शतह्रदालोकेनापि मूर्छान्धकारेऽक्षिप्यत । आह्लादितजीवलोकैर्जलदानिलैरप्यदह्यत । पयोभारमेदुरैर्घनैरपि तनुतामानीयत । पाटलितशाद्वलैः शक्रगोपकैरपि पाण्डुतां प्रत्यप्रद्यत । कुसुमधवलैः कुटजैरपि रागपरवशोऽक्रियत । तथापि सकलजगज्जीवनहेतुनापि जीवितैसंदेहदोलामारोपितो जलदकालेनोत्कूलगामिषु विधिविलसितेपु सरित्पूरेषु चोत्प्लवमानोऽनवरतवर्षाजलजनितेपु मूर्छागमेषु पङ्कपटलेषु च निमज्जन्, जलभरस्थगितवर्त्मनि विलोचने च स्खलन्, विकासिनीषु कादम्बरीप्राप्तिचिन्तासु धाराकदम्बरजोवृष्टिपु चामीलयन् , अनुबन्धिषु गमनविघ्नेषु जलधरध्वनितेषु च मुह्यन्, सुदुर्लङ्घयवेगान्युत्कण्ठितानि सहस्रशः स्रोतांसि चोल्लचयन, धनोपाहितवृद्धिना कादम्बरीसमागमौत्सुक्येन पयःप्लवरयेण चोहमानो जीवितप्रत्याशामवहन् , तुरङ्गमांश्च परित्यजन्, तर्ज्यमान इव तडिद्भिः, अवष्टभ्यमान इव जलधरैः, निर्भयमान इव विस्फूर्जितैः, शकलीक्रियमाण इव शतशो निविंशवृत्तिभिर्धारासारैः, निरुद्धास्वपि जलदकालेनैवाशुगमनविघ्नभूतास्वाशासु कादम्बरीसमागमाशा सुतरां नानुरुध्यतास्य, बया तादृशेऽपि यथास्थाननिगडितसमस्तप्राणिनि प्रावृद्धाले कलामप्यकृत परिलम्बोऽनीयत तं पन्थानम् । धाराहतिविकूणिताक्षेण च मुहुर्मुहुर्वलितानमिताननेनश्चोतदासक्तिसंपिण्डितकेसराग्रेणैकसंतानकर्दमानुमनाबुरेणादृश्यनिम्नोन्नतस्खलद्गतिना विशीर्यमाणपर्याणसंमायोगेनोपर्युपरिवाहिनीतीरोत्तारसंतानावानपृष्ठेनापचीयमानबलजवोत्साहेन वाजिसैन्येनानुगम्यमानो जीवितसंधारणाय यथा तथा निवर्तिताशनमात्रकोऽभ्यहितराजलोक वचसाप्यप्रतिपन्नशरीरसंस्कारो दिवसमेव केवलमवहत् । वहंश्च त्रिभागमात्रावशिष्टेऽध्वनि निवर्तमान मेघनादमद्राक्षीत् । दृष्ट्वा च दूरत एव कृतनमस्कारं तमप्राक्षीन्-‘तिष्ठतु तावत्पुर रस्तात्पत्रलेखागमनवृत्तान्तप्रश्नः । वैशम्पायनवृत्तान्तमेव तावत्पृच्छामि । अयि, दृष्टस्त्वयाच्छोदसरसि वैशम्पायनः । पृष्टो वावस्थानकारणम् । पृष्ठेन वा किंचित्कथितं न वा । पश्चातापी वास्मत्परित्यागेन । स्मरति वास्माकम् । पृष्टोऽसि वानेन किंचिन्मदीयम् । उपलब्धो वाभिप्रायः । उत्पन्नो वालापो युवयोः । मातापित्रोर्वा संदिष्टं किंचित् । प्रतिबोधितो वा त्वयागमनाय । आवेदितं वास्य मदीयमागमनम् । नापयास्यति वा तस्मात्प्रदेशात् । दास्यति वा दर्शनम् । ग्रहीष्यति वास्मदनुनयम् । आगमिष्यति वा पुनर्मया सह । किं कुर्वन्दिव समास्ते । को वा विनोदोऽस्य तिष्ठतः’ इति । स त्वेवं पृष्टो व्यज्ञपयत्—‘देव, देवेन तु वैशम्पायनमालोक्यानुपदमेव तुरंगमैरागत एवाहम्’ इत्यादिश्य विसर्जितोऽहम् । अच्छोदसरसः प्रतीपं वैशम्पायनो गत इत्येषान्तरा वार्तैव नोपयाता। चिरयति च देवे जलदसमयारम्भ मालोक्य कदाचिदेतेपु दिवसेपु देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च कृतप्रयत्नोऽपि न मुच्यत एवागन्तुं देवश्चन्द्रापीडः । त्वया चैकाकिना न स्थातव्यमेवास्यां भूमौ । परागतप्रायाश्च वयम् । तनिवर्तयास्मादेव प्रदेशादित्यभिधाय पत्रलेखया केयूरकेण च त्रिच- तुरैः प्रयाणकैरप्राम एवाच्छोदं यावद्वलान्निवर्तितोऽस्मि’ इति । एवमावेद्य विरराम । विरतवचनं च तं पुनरपृच्छत् । किमाकलयस्यद्यतनेनाह्रा यावत्परापतिता पत्रलेखा नेति । स तु व्यज्ञपयत्—‘देव, यद्यन्तरा कश्चिदन्तरायोन भवति विलम्बकारी, तदा विना संदेहेन परा पतितैवागच्छति मे हृदयम् ।’ इत्युक्तवति मेघनादे घनसम यवर्धिताभोगमकरध्वजार्णवमध्य पातिनी स्वानुमानात्कादम्बरीमुत्प्रेक्ष्योत्प्रेक्ष्य विक्लवीभवतः पर्यावर्त्यन्त इवास्य जलधराः काल- पुरुषैः,तडितो मदनानलशिखाभिः,अवस्फूर्जितं प्रेतपतिपटहस्वनैः, आसारधाराः स्मरेषुभिः, आमन्द्रगर्जितं मकरध्वजधनुर्ज्यागुञ्जिताभोगेन, कलापिकेकाः कालदूतालापैः, केतकामोदो विषपरिमलेन, खद्योताः प्रलयानलस्फुलिङ्गराशिभिः, अलिवलयानि कालपाशैः, बलाकाश्रेणयः प्रेतपतिपताकाभिः, आपगाः सर्वक्षयमहापूरप्लवैः, दुर्दिनानि कालरात्र्या, कुटजतरवः कृतान्तहासैः । अपि च शरीरेऽपि सत्त्वं कातरतया, बलं क्षामतया, कान्तिर्वैवर्ण्येन, मतिर्मोहेन, धैर्यं विषादेन, हसितं शुचा, नयनमश्रुणा, आलपनं मौनेन, अङ्गान्यसहतया, करणान्यपाटवेन, सर्वमेवारत्या । दिवसैश्वोल्लिख्यमानमिवानवरतवाहिनाश्रुपूरप्रवाहेणावभज्यमानमिव सततैर्निश्वासप्रभज्जनैरुत्खन्यमानमिव । संततैः सान्तर्मदनदुःखोत्कलिकासहस्रैरजस्रपातिभिरितस्ततो जर्जरीक्रियमाणमिव । अपि च सहस्रैर्मकरध्वजशरासारैर्वपुषैव च सह क्षीयमाणमिव स्वल्पावशेषं संकल्पलिखितेन निर्विशेषवृत्तिना कादम्बरीशरीरेणैव सह कण्ठलग्नं कथंकथमपि जीवितं धारयन्, धाराधरक्लिन्नतीरतरुतलमाप्लावितोपान्तहरितशा- द्वलम्,अशेषतंटलतावनम्, अनवरतरोधोजलप्रवेशकलुषितप्रान्तम्, अवशीर्यमाणोदण्डकुमुददलगहनम्, आमग्नकमलखण्डम् ,उत्प्लवमानाश्यानकिंजल्कदलकमलम् , आजर्जरितकह्लारकुवलयम्, उद्धान्तभ्रमदलिवलयम्, उड्डीन हंससार्थत्यक्तम्, अनवस्थानसारसारसितकरुणम्, अवशिष्टदलतलनिलीयमानोच्चकितचक्रवाकयुगलम्, उत्कम्पितकादम्बकदम्बकाश्रियमाणोपकू लनड्वलम्, उत्कलविरुतकलापिबकबलाककलापाध्यासितोपान्तपादपम्, आहतं प्रावृषान्यदिव दृष्टपूर्वमप्यदृष्टपूर्वमिव, अदृदृष्टिसुखम्, अनुत्पादितहृदयाहादम्, अनुपजनितमानसप्रीति, तदेवाच्छोदमुपाहितद्विगुणदुःखमाससाद । आसाद्य चोपसर्पनेव सर्वाश्ववारानादिदेश । कदाचिदसौ वैलक्ष्यादस्मानालोक्यापसर्पत्येव । तच्चतुर्ष्वपि पार्श्वेष्ववहिता भवन्तु भवन्त इत्यात्मनापि तुरगगत एव खिन्नोऽप्यखिन्न इव विचिन्वंलतागहनानि वृक्षमूलानि शिलातलानि लसन्मण्डपांश्च समन्ताद्वभ्राम । भ्राम्यंश्च यदा न कचिदपि किंचिदवस्थानचिह्नमप्यद्राक्षीत्तदा चकार चेतसि—नियतमसौ पत्रलेखासकाशान्मदागमनमुपलभ्य प्रेथममेवापक्रान्तो येनावस्थानचिह्नमात्रकमपि कथमपि नोपलक्ष्यते । निरुद्धोद्देशं गतश्च काप्यस्माभिरसावेवान्विष्टोऽपि न दृष्टः । तत्कष्टतरमापतितम् । वैशम्पायनमदृष्ट्वास्मात्प्रदेशात्पदमपि गन्तुं पादावेव नोत्सहेते । मे मन्मथशरविक्षिप्ताश्च कादम्बरीदर्शनमात्रलम्बनाः क्षणमपि विलम्बमन्तरीकर्तुमक्षमाः क्षामतया मा यासिषुः प्राणाः । सर्वथा विनष्टोऽस्मि, न दृष्टा देवी कादम्बरी, नापि वैशम्पायन इति । एवमुत्पन्ननिश्चयोऽप्यपरिच्छेद्यस्वभाव त्वात्प्रत्याशायाः कदाचिदस्य वृत्तान्तस्याभिज्ञा महाश्वेतापि भवत्येव । तत्तां तावत्पश्यामि । ततो यथायुक्तं प्रतिपत्स्य इत्यारोप्य हृदये तदाश्रमस्यैव नातिदूरे निवेशिततुरगसैन्यः सैन्यसमायोगमपनीय सर्पनिर्मोकपरिलघुनी घनोज्झितज्योत्स्नाभिरामे परिधाय वाससी तथास्थितपर्याणमेवेन्द्रायुधमारुह्य महाश्वेताश्रममुपाजगाम । तत्र च प्रविशन्नेवावतीर्य महाश्वेतावलोकनकुतूहलात्पश्चादाकृष्टेनेन्द्रायुधपरिजनेनानुगम्यमानो विवेश । प्रविश्य च गुहाद्वार एव धवलशिलातले समुपविष्टामधोमुखीमसह्यमन्युवेगोत्कम्पितसर्वावयवामनवरतनयनजलवर्षिणीमुञ्चण्डवाताहतां लतामिवोद्वाष्पदीनदृष्ट्या कथंकथमपि तरलिकया विधृतशरीरां महाश्वेतामपश्यत् । दृष्ट्वा च तां तादृशीमस्योदपादि हृदये—‘मा नाम देव्याः कादम्बर्या एव किमप्यनिष्टमुत्पन्नं भवेत् । येनेयमीदृश्यवस्था हर्षहेतावपि मदागमनेऽनुभूयते महाश्वेतया ।’ इत्याशङ्काभिन्नहृदयोऽयमुड्डीनैरिव प्राणैः पदे पदे स्खलन्निव पतन्निव मुह्यन्निवोपसृत्योपविश्य च तस्यैव शिलातलस्यैकदेशे प्रोद्वाष्पविषण्णवदनः किमेतदिति तरलिकामपृच्छत् । सा तु तथावस्थाया अपि महाश्वेताया एव मुखमवलोकितवती । अथानुपसंहृतमन्युवेगापि गद्गदिकावगृह्यमाणकण्ठा महाश्वेतैव प्रत्यवादीत्—‘महाभाग, किमियमावेदयति वराकी । यया दुःखाभिघातैककठिनहृदयया पुनरप्यदुःखश्रवणार्हेऽपि दुःखमात्मीयं श्रावितम् , सैवाहं मन्दभाग्या महामाग, जीवितव्यसनिनी निर्लज्जा निघृणा च दुःश्रवणमपि श्रावयामि दुःखमिदम् । श्रूयताम् ।’ केयूरकाद्भवद्गमनमाकर्ण्य विदीर्य माणमनसा न मया चित्ररथस्य मनोरथः पूरितः, न मदिरायाः प्रार्थना कृता, नात्मनः समीहितं संपादितम् , न गृहाभ्यागतस्य चन्द्रापीडस्य प्रियमनुष्ठितम्, न चापि हृदयवल्लभसमागमनिर्वृत्ता प्रियसखी कादम्बरी वीक्षितेत्युत्पन्नानेकगुणवैराग्या गाढबन्धांन्कादम्बन्मुरीस्नेहपाशानपि छित्त्वा पुनःकष्टतरतपश्चरणायात्रैवायाता यावदत्र महाभागस्यैव तुल्याकृतिमुक्तमिवान्तःकरणेन शून्यशरीरमुत्तरलमुखमुत्प्लुताबद्धलक्ष्यशून्यया दृष्ट्या प्रनष्टंमिव किमपीत स्ततो विलोकयन्तं ब्राह्मणयुवानमपश्यम् । स तु मामुपसृत्यानन्यदृष्टिरदृष्टपूर्वोऽपि प्रत्यभिजानन्निव, असंस्तुतोऽपि चिरपरिचित इव, असंभावितोऽप्युपारूढप्रौढप्रणय इव, अस्निग्धोऽपि परवानिव, प्रेम्णा शून्योऽपि किमप्यनुस्मरनिव,दुःखिताकारोऽपि सुखायमान इव, तूष्णीमपिस्थितः प्रार्थयमान इव, अपृष्टोऽप्यावेदयन्निवात्मीयामेवावस्थाम, अभिनन्दनिव, अनुशोचनिव, हृष्यन्निव, कृष्यन्निव, विषीदन्निव, बिभ्यदिव; अभिभवन्निव, हृत इव, आकाङ्क्षन्निव, अनुस्मरन्निव विस्मृतम् । अनिमेषेण निश्चलस्तब्धपक्ष्मणान्तर्बाष्पपूरार्द्रेण कर्णान्तचुम्बिना विकसितेनेवामुकुलिततारकेण चक्षुषा मत्त इवाविष्ट इव वियुक्त इव पिबन्निवाकर्पन्निवान्तर्विशन्निव च सुचिरमालोक्याब्रवीत्—वरतनु, सर्व एव हि जगति जन्मनो वयस आकृतेर्वा सदृशमाचरन्न वचनीयतामेति । तव पुनरेकान्तवामप्रकृतेर्विधेरिव विसदृशानुष्ठाने कोऽयं प्रयत्नः । यदियमक्लिष्टमालतीसुकुमारा मालेव कण्ठप्रणयैकयोग्या तनुरनुचितेना मुना कष्टतरतपश्चरणपरिक्लेशेन ग्लानिमुपनीयते । रूपवयसोरनुरूपेण सुमनोहारिणी लतेव रसाश्रयिणा फलेन कथं न संयोज्यते । जातस्य हि रूपगुणविहीनस्यापि जन्मोपनतानि जीवलोकसुखान्यनुभूय शोभते परत्रसंबन्धी तपश्चरणपरिक्लेशः। किं पुनराकृतिमतो जनस्य । तदुःखयति मामयमस्यास्ते स्वभावसरसायास्तनोमृणालिन्या इव तुहिनपातस्तपः परिक्लेशः । यदि च त्वादृशी जीवलोकसुखेभ्यः पराङ्मुखी तपसा क्लेशयन्त्यात्मानं तदा वृथा वहति धनुरधिज्यं कुसुमकार्मुकः । निष्कारणमुदयति चन्द्रमाः । वृथा वसन्त मासाभ्यागमः । निष्फलानि कुमुदकुवलयकह्लारकमलाकरविलसितानि । निष्फला जलदसमारम्भाडम्बराः। निरर्थकान्युपवनानि । किं ज्योत्स्नया । किं वा लीलासरित्पुलिनैर्मलयानिलेन वा’ इति ।
अहं तु देवस्य पुण्डरीकस्यैव वृत्तान्तादपेतकौतुका सर्वथा तं वदन्तम् ‘अपि कस्त्वम् , कुतो वा समायातः, किमर्थं वा मामेवमभिदधासि,’ इत्यपृष्ट्वैवान्यतोऽगच्छम् । गत्वा च देवार्चनकुसुमान्याचिन्वती तरलिकामाहूयाब्रुवम्—‘तरलिके, योऽयं युवा कोऽपि ब्राह्मणाकृतिरस्यावलोकयतो वदतश्चान्यादृश एवाभिप्रायो मयोपलक्षितः । तन्निवार्यतामयं यथा पुनरत्र नागच्छति । अथ निवारितोऽपि यद्यागमिष्यति तदावश्यमेवास्याभद्रकं भविष्यति’ इति । स तु निवार्यमाणोऽपि ‘दुर्निवारवृत्तेर्मदनहतकस्य दोषैर्भवितव्यतया वानर्थस्य नात्याक्षीदेवानुबन्धनम् । अतीतेपु केषुचिद्दिवसेष्वेकदा गाढायां यामिन्यामुद्गिरत्स्विव भरणोद्दीपितस्मरानलं ज्योत्स्नापूरमिन्दुमयूखेषु लब्धनिद्रायां तरलिकायामप्राप्तसुखा संता पनिर्गत्यास्मिन्नेव शिलातले विमुक्ताङ्गी कह्लारसुरभिणा मन्दमन्देनाच्छोदानिलेनावीज्यमाना वर्णसुधाकूर्चकैरिव करैर्धवलितदशाशामुखे चन्द्रमसि निहितदृष्टिरपि नामायमेभिरमृतवर्षिभिरखिलजगदाह्लादकारिभिः करैश्चन्द्रमास्तमपि हृदयवल्लभं मे वर्षेदित्याशंसाप्रसङ्गेन देवस्य सुगृहीतनाम्नः पुण्डरीकस्य स्मरन्ती कथमभाग्यैर्मे, मन्दपुण्यायास्तादृशस्यापि दिव्याकृतेमहापुरुषस्य तस्य नभसोऽवतीर्णस्य भापितमलीकमुपजातं जातानुकम्पेन वा यथाकथंचिंज्जीवितुमित्येव समाश्वासिता जीवितप्रिया तपस्विन्यपि येन पुनर्दर्शनमेव तेर्ने ममन दत्तम् । किं करोतु देवः सुगृहीतनामा पुण्डरीको यः परासुरेवोत्क्षिप्य नीतः। कपिज्जलस्तु जीवनगतः कथमियता कालेन गतेनापि निष्करुणेन वार्तापि मे न संपादिता’ इत्येतानि चान्यानि चालनालानि दुर्जीवितगृहीता चिन्तयन्ती जाग्रत्येवातिष्ठम् । अथ निभृतपदसंचरणमा चरणादुत्कण्टकमनवरतनिपतितमदनशरशल्यनिकरनिचितमिव शरीरमुद्वहन्तम्, ‘उद्विकासिकेतकरजःपटलधवलं प्रथमतरमेव भस्मसात्कृतमिव मदनहुतभुजा भुजारेण कुण्डलीकृतमृणालमुपर्युषितशासनवलयमिवावश्यमरणाय सकलजगदप्रतिहतशासनेन कुसुमधन्वना विसर्जितं दधानम्, उद्भूतसाध्वसोत्कम्पतरलितया केतकी गर्भसूच्या क परं गम्यते हतोऽसि मयेति मन्मथप्रथमसहायस्य चन्द्रमसः कलयेव कर्णान्तलग्नया तर्ज्यामानमुद्वेगावर्जितेन नयनजलस्रोतसात्मने जलमिव प्रयच्छन्तम्, आत्मेच्छयैव मत्करग्रहणाय निर्वर्तितस्नानमिव स्वेदाम्भसा न युक्तमेव ते परहृदयमविज्ञायोपगन्तुमिति पदे पदे निवार्यमाणमिव गुरुणोरुस्तम्भेन दूंरत एव मदालिङ्गनालीकाशया प्रसारितभुजयुगलम्, उत्कलिकासहस्रविषमं रागसागरमिव प्रतरन्तम्, अनवरतप्रवृत्तैराकृष्यमाणमिव पुरस्ताद्दीर्घैनिःश्वासमरुद्भिरुह्यमानमिव दिङ्मुखप्लाविना ज्योत्स्नापूरेण रणरणकशून्यमुच्छुष्काननं प्रोन्मुक्तं सत्त्वेन, प्रतिपन्नं कृपणतया, अवधीरितं धैर्यण, संगृहीतं तरलतया, विसर्जितं लज्जया, अधिगतं धार्ष्टेन, दूरीकृतं परलोकभीत्या, विमुक्तं, युक्तायुक्तविचारेण, संकल्पजन्मन एव केवलं वशे स्थितम् , आविष्टमिव मत्तमिवोन्मादादापतन्तम् , दूरतोऽपि दिवसनिर्विशेषेण चन्द्रातपेन विभाव्यमानं तमेव युवानमद्राक्षम् । दृष्ट्वा च तं तादृशं निःस्पृहाप्यात्मनि परं भयमुपगतवती चेतस्यचिन्तयम्—अहो, कष्टमापतितम् । यद्ययमुन्मादादागत्य पाणिनापि स्पृशति मां तदा मयेदमपुण्यहतकं शरीरमुत्सृष्टव्यम् । तचिरादेवस्य पुण्डरीकस्य पुनर्दर्शनप्रत्याशया दुःखोत्तरमप्यङ्गीकृतं व्यर्थतां में यातं प्राणसंधारणम्’ इति । स त्वेवं विचिन्तयन्तीमेव मामुपमृत्याब्रवीत्—‘चन्द्रमुखि, हन्तुमुद्यतो मामयं कुसुमशरसहायश्चन्द्रमाः । तच्छरणमागतोऽस्मि । रक्ष मामशरणमनाथमार्तमप्रतीकारक्षममात्मना त्वदायत्तजीवितम् । शरणागतपरित्राणं हि तपस्विनामपि धर्म एव । तद्यदि मामात्मप्रदानेन नात्र संभावयसि तदा हतोऽहमाभ्यां कुमुमशरशिशिरकराभ्याम्’ इति । अहं तु तदाकर्ण्य धिगित्युत्तमाङ्गनिर्गतज्वालेव रोषानलेन निर्दहन्तीव तम्; उन्मिषदांष्प स्फुलिङ्गया दृष्ट्या तदातर्जयतीव, आपादतलादुत्कम्पितगात्रयष्टिराविष्टेव, आत्मानमप्यचेतयमाना क्रोधावेगरूक्षाक्षरमवदम्—‘आः पाप, कथमेवं वदतो मामुत्तमाङ्गे ते न निपतितं वज्रम्, अवशीर्णा वा न सहस्रधा जिह्वा, विह्वलतां न गता वा वाणी, नष्टानि वा नाक्षराणि । मन्ये च न सन्त्येव तेऽस्मिञ्शरीरे सकललोकशुभाशुभसाक्षिभूतानि पञ्चमहाभूतानि । येनैवं वदन्नाग्निना भस्मीकृतोऽसि, न वायुनाधूतोऽसि, नाम्भसा प्लावितोऽसि, न धरित्र्या रसातलं प्रवेशितोऽसि, नापि तत्क्षणमेवाकाशेनात्मनिर्विशेषतां नीतोऽसि, अव्यवस्थितो व्यवस्थितेऽस्मिल्लोके कुतस्त्वमुत्पन्न एवंविधः । यस्तिर्यग्जातिरिव कामचारी न किंचिदपि वेत्सि । येनैवं खलु हतविधात्रा केनाप्युपदर्शितमुखरागः स्वपक्षपातमात्रप्रवृत्तिरनिरूपितस्थानास्थानवादी शुक इव वक्तुमेवं शिक्षितस्तेनैव किमुत तस्यामेव जातौ न ‘निक्षिप्तोऽसि । तेनैकान्तहासहेतुरेवं वदन्नपि न क्रोधमुत्पादितवानसि । त्वदुक्तेर्दुःखिताहं ते संविभागमिमं करोमि, येनात्मवचनानुरूपां जातिमापन्नो नैवास्मद्विधाः कामयसे’इत्युक्त्वा चन्द्राभिमुखीभूत्वा कृताञ्जलिः पुनरवदत्—‘भगवन् , परमेश्वर, सकलभुवनचूडामणे, लोकपाल, यदि मया देवस्य पुण्डरीकस्य दर्शनात्प्रभृति मनसाप्यपरः पुमान चिन्तितस्तदानेन मे सत्यवचनेनायमलीककामी मदुदीरितायामेव जातौ पततु’ इति । मद्वचसोऽस्यानन्तरमेव च न वेद्मि किमसह्यवृत्तेर्मदनज्वरस्यावेगात, उत सद्योविपाकस्यात्मनो दुष्कृतस्य गौरवात् , आहोस्विन्मद्वचसः सामर्थ्यादेव च्छिन्नमूलस्तरुरिवाचेतनः क्षितावपतत् । अति- क्रान्तजीवितेऽस्मिन्कृताक्रन्दान्तर्जनाच्छ्रुतवती यथासौ महाभागस्यैव मित्रं भवति’ इत्युक्त्वा च त्रपावनम्रमुखी महीं महीयसाश्रुवेगेने तूष्णीमेवाप्लावितवती । चन्द्रापीडस्य तु तदाकर्ण्य कर्णान्तायतलोचनद्वयामीलनभग्नदृष्टेभ्रष्टवचनसौष्ठवस्य ‘भगवति, कृतप्रयत्नायामपि भगवत्यामपुण्यभाजास्मिञ्जन्मनि मया न प्राप्तं देव्याः कादम्बर्याश्चरणपरिचर्यासुखम् , तजन्मान्तरेऽपि मे भगवती संपादयित्री भूयात्’ इति गदत एव कादम्बरीसमागमाप्राप्तिदुःखेनेव भेदोन्मुखं मुकुलमिव शिलीमुखाघातात्स्वभावसरसं हृदयमस्फुटत् । अथ महाश्वेतायाः शरीरमुत्सृज्य संभ्रमप्रतिपन्नचन्द्रापीडशरीरायाम ‘भर्तृदारिके, किं लज्जया । पश्यं तावदन्यथैव कथमप्यास्ते देवश्चन्द्रापीडोऽयम् । भनेवास्य ग्रीवा न मूर्धानं धारयति । विचालितोऽपि न किंचिच्चेतयते । नान्तःप्रविष्टतारके समुन्मीलयति विलोचने । नायं यथावस्थितानां गात्राणामावरणं करोति । नोच्छसिति हृदयेन । हा देव चन्द्रापीड, चन्द्राकृते, कादम्बरीप्रिय, क्वेदानीं त्वया विना गम्यते’ इत्युक्त्वामुक्तार्तवचसि तरलिकायां तिर्यगाभुनचन्द्रापीडमुखनिहितनिखिलस्तब्धदृष्टिनिश्चेष्टायां महाश्वेतायाम् ‘आः पापे दुष्टतापसि, किमिदं त्वया कृतम् । अपकृताखिलजगत्पीडस्य तारापीडस्य कुलमुत्सारितम् । अनाथीकृताः प्रजाः सहास्माभिः । भग्नाः पन्थानो गुणानाम् । अर्गलिताः ककुभोऽर्थिलोकस्य । कस्य वदनमीक्षतां लक्ष्मीः । कोऽवलम्बनं भवतु भूमेः । कं सेवन्तां सेवकाः । त्वया विना संप्रति व्यसनमेव सेवा संवृत्ता। वृत्तं समानशीलत्वम् । अस्तमिता च परिजनश्लाघा। लघूकृतो भृत्यादरः । दूरं गतानि प्रियालपितानि । समाप्ताः परित्यागकथाः । त्वं कथं कथा वशेषीभूतोऽसि । भूतपूर्वाः कमुपयान्तु संप्रति प्रजाः । ‘क्व संप्रति साधूनां समाधानम् । अधुना धूर्धरे त्वयि विपन्ने कः समुद्वहतु देवेन तारापीडेनोढां धुरम् । धीरस्यापि ते कथं कातंरस्येव शुचा भिन्नं हृदयम् । दयालोरपि ते केयमद्येदृशी जाता निर्दयत्तास्मासु । देव, प्रसीद सकृदप्याज्ञापय । देहि भक्तजनस्याभ्यर्थनाम । प्रतिपद्यस्व प्राणान् । न त्वया विना क्षणमपि प्राणिति पुत्रवत्सलो देवस्तारापीडः, न देवी विलासवती, नाप्यायः शुकनासः, न मनोरमा, न राजानः, नापि प्रजाः । परित्यज्य च सर्वानेकाकी क प्रस्थितोऽसि । कुतस्तवेयमेकपद एवेदृशी निष्ठुरता जाता । क सा गुरुजनस्योपरि भक्तिर्यदेवमनपेक्ष्य प्रयासि’ इत्युक्तवत्यवनितलविभुक्तात्मन्यारटति परिजने तदाकर्णनोत्कणे हा हा, किमेतत्’ इत्युद्धान्तमनसि समापतति राजपुत्रलोके समुत्प्लुतोत्पक्ष्मनयनदार्शिनि चन्द्रापीडवदननिवेशितदृशि दीनतरहेषारवकृताक्रन्दे शुचेव पर्यायोत्क्षिप्तखुरचतुष्काहतक्ष्मातले मुहुर्मुहुरात्मोन्मोचनाये वाच्छोदितखरखलीनकनकशृङ्खलयोगे तुरंगमतां मुमुक्षतीवेन्द्रायुधे पत्रलेखानिवेदितचन्द्रापीडागमना चन्द्रोदयोल्लासिनी वेलेव महोदधेः समकरध्वजा व्याजीकृत्य महाश्वेतादर्शनं मातापित्रोः पुरःप्रतिपन्नशृङ्गारवेषाभरणा रणर्नूपुरयुगेन मुखरमेखलादांना रम्योज्ज्वलाकल्पेन कल्पितानङ्गबलविभ्रान्तिना गृहीतसुरभिमाल्यानुलेपनपटवासाद्युपकरणेन नातिबहुना परिजनेनानुगम्यमाना पुरः केयूरकेणोपदिश्यमानमार्गा पत्रलेखाहस्तावलम्बिनी मदलेखया सह कृतालापा ‘मदलेखे, पत्रलेखा कथयति प्रेत्यहमहं पुनस्तस्यैकान्तनिष्ठुरहृदयस्य शठमते निघृणमनसो निस्पृहागमनमेव न श्रद्दधे । किं न स्मरसि तत्तस्य मदवस्थामश्रद्दधानस्य हिमगृहके मद्धितविमर्शाय दुर्विदग्धबुद्धेर्वक्रभाषितं यत्र सस्मितमालोकितया त्वयैवास्मै सुतरामेवासंशयकारि प्रत्युत्तरं दत्तम् । तदसौ मरणेऽपि मे न श्रद्धधात्येवेमामवस्थाम् । अन्यथा यदि मदर्थे दुःखमेवभियमनुभवतीत्येतदस्याभविष्यत्तदा तथागमनमेव नाकरिष्यत् । तथा गतोऽप्यसौ यत्किमपि वक्तव्यस्त्वयैव । मया पुनर्दष्टोऽपि नालपितव्यो नोपालब्धव्यो न चरणपतितस्याप्यनुनयो ग्राह्यो नाहं प्रियसख्या प्रसादनीया’ इत्यभिदधानवाचेतितागमनखेदा कादम्बरी चन्द्रापीडदर्शनायोत्ताम्यन्ती तत्रैवाजगाम । आगम्य चोद्धतामृतमिव रत्नाकरम् , इन्दुविरहितमिव निशाप्रबन्धम्, अस्तमिततारागणमिव गगनम्, अपचितकुसुमशोभमिवोपवनम्, उत्खातकर्णिकमिव कमलम्, उत्खण्डिताङ्कुरमिव मृणालम् , अवलुप्ततरलमिव हारम् , उन्मुक्तजीवितं चन्द्रापीडमद्राक्षीत् । दृष्ट्वा च तं सहसा ‘हा, किमिदम्’ इत्यधोमुखी धरातलमुपयान्ती कथंकथमपि मुक्ताक्रन्दया मदलेखया धार्यत । पत्रलेखा पुनरुन्मुच्य कादम्बरीकरतलमचेतना क्षितिमुपागमत । चिराच्च लब्धसंज्ञापि कादम्बरी तथैव मूढेव निश्चलस्तब्धदृष्टिराविष्टेव स्तम्भितेव निष्प्रयत्ना निश्वसितुमपि विस्मृतान्तमन्युभारनिष्पन्देव चन्द्रापीडवदनसमर्पिताक्षी श्यामारुणानना ग्रहोपरक्तेन्दुबिम्बेव पौर्णमासी निशा निशितपरशुपातोत्कम्पिनी लतेव वेपिताधरकिसलया लिखितेव स्त्रीस्वभावविरुद्धेन चेतसा तस्थौ । तथावस्थितां च तामुन्मुक्तार्तनादा सपादपतनं मदलेखाब्रवीत् - प्रियसखि, प्रसीद । उत्सृजेमं मन्युसंभारमरटन्ती । बाष्पमोक्षेणामुच्यमानेऽस्मिन्नियतमतिभारोत्पीडितं तटाकमिव सरसमृदु नियतं सहस्रधा स्फुटति ते हृदयमित्यपेक्षस्व देवीं मदिरां देवं च चित्ररथम् । त्वया विना कुलद्वयमपि नास्ति’ इत्युक्तवती मदलेखां कादम्बरी विहस्याब्रवीत्—‘अय्युन्मत्तिके, कुतोऽस्य मे वज्रसारकठिनस्य हतहृदयस्य स्फुटनम् । यन्नालोक्यैवं सहस्रधा स्फुटितम् । अपि च या जीवति तस्याः सर्वमिदं माता पिता बन्धुरात्मा सख्यः परिजन इति । मया पुनम्रियमाणया जीवितभूतं कथंकमपि समासादितमिदं प्रियतमशरीरं यजीवदजीवद्वा संभोगेनानुमरणेन वा द्विधापि सर्वदुःखानामेवोपशान्तये । तत्किमिति । देवेनागच्छता मदर्थ प्राणांश्चोत्सृजता सुदूरमारोपितं गुरुतां च नीतमात्मानमश्रुपातमात्रेण लघूकृत्य पातयामि । कथं स्वर्गगमनोन्मुखस्य देवस्य रुदिते नामङ्गलं करोमि । कथं वा पादधूलीरिव पादावनुगन्तुमुद्यता हर्षस्थानेऽपि रोदिमि । किं मे दुःखमेवंविधम् । अधुना तु मे सर्वदुःखान्येव दूरीभूतानि । किमद्यापि रुद्यते । यदर्थ कुलक्रमो न गणितः, गुरवो नापेक्षिताः, धर्मो नानुरुद्धः, जनवादान्न भीतम् , लज्जा परित्यक्ता, मदनोपचारैः सखीजनः खेदितः, दुःखिता मे प्रियसखी महाश्वेता । तस्याः कृते प्रतिज्ञातमन्यथा जातं मयेत्येतदपि चेतसि न कृतम् । तस्मिन्मदर्थमेवोज्झितप्राणे प्राणेश्वरे प्राणान्प्रतिपालयन्ती त्वयैवं किमुक्ताहम् । अस्मिन्समये मरणमेव जीवितम् । जीवितं पुनर्मरणम् । तद्यदि ममोपरि स्नेहः करोषि मत्प्रियं हितं वा, तेन्ममोपरि स्नेहाबद्धयापि प्रियसख्या तथा कर्तव्यं यथा न तातोऽम्बा च मच्छोकादात्मानं परित्यजतः । यथा च मयि वाञ्छितं मनोरथं त्वयि पूरयतः । परलोकगताया अपि मे जलाञ्जलिदानाय पुत्रकस्त्वयि भवः । यथा च मे सखीजनः परिजनो वा न स्मरति, शून्यं वा मैद्भवनमालोक्य न दिशो गृह्णन्ति, तथा करिष्यसि । पुत्रकस्य मे भवनाङ्गणे सहकारपोतरः त्वया मच्चिन्तयैवं ‘माध वीलतया सहोद्वाहमङ्गलं स्वयमेव निवर्तनीयम् । मच्चरणतललालितस्याशोकविटपस्य कर्णपूरार्थमपि न पल्लवः खण्डनीयः । मत्संवर्धिताया मालत्याः कुसुमानि देवतार्चनायवोच्चेयानि वासभवने मे शिरोभागनिहितः कामदेवपटः पाटनीयः । मया स्वयं रोपिताश्चुतवृक्ष । यथा फलं गृहन्ति तथा संबधनीयाः पजरबन्धदुःखाद्वराकी कालिन्दी सारिका शुकश्च परिहासो द्वावपि मोक्तव्यौ । मदङ्कशायिनी नकुलिका स्वाङ्क एव शाययितव्या । पुत्रको मे बालहरिणस्तरलकः कस्मिंश्चित्तपोवने समर्पणीयः । पाणितलसंवर्धितं मे जीवंजीवमिथुनं क्रीडापर्वते यथा न विपद्यते तथा कर्तव्यम् । पादसहसंचारी हंसको यथा न हन्यते केन चित्तथा विधेयः । अपरिचितगृहवसतिः सा च बलाद्विधृता तपस्विनी वनमानुषी वन एवोत्स्रष्टव्या । क्रीडापर्वतकः कस्मैचिदुपशान्ताय तपस्विने प्रतिपादयितव्यः । शरीरोपक रणानि मे ब्राह्मणेभ्यः प्रतिपादनीयानि । वीणा पुनरात्मन एवाङ्कप्रणयिनी कार्या । अपरमपियत्ते रोचते तदपि स्वीकर्तव्यम् । अहं पुनरिमममृतकिरणरश्मिभिरनाश्यानचन्दनचर्चाभिरनवरतधारागृहासारसेकैरनेकसंतानतुहिनकिरणकिरणनिकरतारकिततारहारार्पणैर्मणिदर्पणश्रणयनेन मलयजजलार्द्रपद्मिनीपत्रास्तरणेन सरसबिसकिसलयप्रस्तरैरकठोरमृणालतल्पकल्पनयोगविकसितकमलकुमुदकुवलयशयनीयैश्च दग्धशेषमुज्ज्वलचिताज्वालामालिनि विभावसौ देवस्य कण्ठलमा निर्वापयाम्यात्मानम्’ इत्यभिदधानैव कृतावधारणानुबन्धां मदलेखामवक्षिप्योपमृत्य महाश्वेतां कण्ठे गृहीत्वा निर्विकारवदनैव पुनस्तामवादीत्-‘प्रियसखि, तवास्ति कीदृश्यपि प्रत्याशा ययानुरागपरवशा पुनः समागमाकाङ्किणी क्षणे क्षणे मेरणाभ्यधिकानि दुःखान्यनुभवन्ती जीवितमलज्जाकरमननुशोच्यमनुपहसनीयमवाच्यं धारयसि । मम पुनः सर्वतो हताशायाः सापि नास्ति । तदामन्त्रये प्रियसखी पुनर्जन्मान्तरसमागमाय’ इत्यभिधायोत्पंद्यमानपुलककेसरोद्भासिन्यसमसाध्वसानिलाहतोत्कम्पोत्तरंग्यमाणानन्दवाष्पवेगोर्मितरला संगलत्स्वेदमकरन्दबिन्दुनिस्यन्दिनी मुकुलायमाननयनकुमुदा कुमुदिनीव चन्द्रापीडचन्द्रास्तमयविधुरा तदवस्थेऽपि हृदयवल्लभे समागमसुखमिवानुभवन्ती सरभसमुपरिपर्यस्तचिकुरहस्तोद्वान्तकुसुमनिवहेन मूर्ध्नार्चयित्वा चन्द्रापीडचरणौ सक्त्स्वेदामृतार्द्राभ्यां कराभ्यामुत्क्षिप्याङ्केन धृतवती । अथ तत्करस्पर्शेनोच्छ्वसत इव चन्द्रापीडदेहाज्झटिति तुहिनमयमिव संकलमेव तं प्रदेशं कुर्वाणमव्यक्तरूपं किमपि चन्द्रधवलं ज्योतिरिवोज्जगाम । अनन्तरं चौन्तरिक्षे क्षरन्तीवामृतमशरीरिणी वागश्रूयत—‘वत्से महाश्वेते, पुनरपि त्वं मयैव समाश्वासितव्या वर्तसे । तत्ते पुण्डरीकशरीरं मल्लोके मत्तेजसाप्यायमानमविनाशि भूयस्त्वत्समागमनाय तिष्ठत्येव । इदमपरं मत्तेजोमयं स्वत एवाविनाशि विशेषतोऽमुना कादम्बरीकरस्पर्शेनाप्यायमानं चन्द्रापीडशरीरं शापतोषाद्विमुक्तमप्येन्तरात्मना कृतशरीरसंक्रान्तेयोंगिन इव शरीरमवैव भवत्योः प्रत्ययार्थमा शापक्षयादास्ताम् । नैतदग्निना संस्कर्तव्यम् । नोदके प्रक्षेप्तव्यम् । नापि वा समुत्स्रष्टव्यम् । यत्नतः परिपालनीयमा समागमप्राप्तेः’ इति । तां तु श्रुत्वा किमेतदिति विस्मिताक्षिप्तहृदयः सर्व एवं परिजनो गगनतलनिवेशितनिनिमेषलोचनो लिखित इव पत्रलेखावर्जमतिष्ठत् । पत्रलेखा तु तेन तस्य ज्योतिषस्तुषारशीतलेनाह्लादहेतुना स्पर्शेन लब्धसंज्ञोत्थायाविष्टेव वेगाद्धावित्वा ‘परिबद्धकहस्तादाच्छिद्येन्द्रायुधम् अस्मद्विधानां यथा तथा भवतु, त्वं पुनरेवमेकाकिनि विना वाहनं दूरं प्रस्थिते देवे क्षणमप्यवस्थानुं न शोभसे’ इत्यभिदधाना तेनैवेन्द्रायुधेन सहात्मानमच्छोदसरस्यक्षिपत् । अथ तयोनिमज्जनसमयानन्तरमेव तस्मात्सरसः सलिलाच्छैवलोत्करमिव शिरसि लग्नं गलज्जलबिन्दुसंदोहमयथावलम्बिदीर्घशिखं मुखोपरिपरस्परासक्तेरसंस्कारमलिनतया चोपसूचितचिरोलबन्धं जटाकलापमुबहञ्जलार्द्रदेहासक्तेन बिसतन्तुमयेनेव ब्रह्मसूत्रेणोद्भासमानो मलानारविन्दनीलपलाशपृष्ठपाण्डुरेण जीर्णमन्दारवल्कलेनाबद्धपरिकरः करेणाननावरोधिनीर्जटाः समुत्सारयन्नश्रुजलच्छलेनाच्छोदसरःसलिलमिवान्तःप्रविष्टमाताम्राभ्यामुहल्लोचनाभ्यामुद्विमाकृतिस्तापसकुमारकः सहसैवोदतिष्ठत् । उत्थाय च दूरत एवोदामबाष्पजल निरोधपर्याकुलयाप्यलब्धलक्ष्यया दृष्ट्या विलोकयन्ती महाश्वेतामुपसृत्य शोकगद्गदमवादीत्– ‘गन्धर्वराजपुत्रि, जन्मान्तरादिवागतोऽपि प्रत्यभिज्ञायतेऽयं जनो न वा’ इति । सा त्वेवं पृष्टा शोकानन्दमध्यवर्तिनी संसंभ्रममुत्थाय कृतपादवन्दना प्रत्यवादीत—‘भगवन्कपिञ्जल, अहमेवंविधापुण्यवती या भवन्तमपि न प्रत्यभिजानामि । अथ युक्तैवेदृशी मययनात्मज्ञायां संभावना याहमेकान्तत एव व्यामोहहता स्वर्गं गतेऽपि देवे पुण्डरीके जीवामि । तत्कथय केनासावुत्क्षिप्य नीतः, किमर्थं वा नीतः, किंवास्य वृत्तम्, क्व वर्तते, किं वा तवोपजातम्, येनैतावतापि कालेन वार्तापि न दत्ता, कुतो वा त्वमेकाकी देवेन विना समागतः । स त्वेवं पृष्टो महाश्वेतया विस्मयोन्मुखेन कादम्बरीपरिजनेन चन्द्रापीडानुगामिना च राजपुत्रलोकेनोपर्युपरि पातिना वीक्ष्यमाणः प्रत्यवादीत्–‘गन्धर्वराजपुत्रि, श्रूयताम् । अहं हि तथा कृतार्तप्रलापामपि त्वामेकाकिनी समुत्सृज्य वयस्यस्नेहादाबद्धपरिकरः ‘क्व मे प्रियसुह्रुदमपहृत्य गच्छसि’ इत्यभिधाय तं पुरुषमनुबध्नञ्जवेनोदपतम् । स तु मे प्रतिवचनमदत्त्वैव गीर्वाणवर्त्मनि विस्मयोत्फुल्लनयनरवलोक्यमानो वैमानिकैरवगुण्ठितमुखीभिरवमुच्यमानमनमार्गो दिव्याङ्गनाभिरभिसारिकाभिरालोलतारकेक्षणाभिरितस्ततः प्रणम्यमानस्तारकाभिरम्बरसरःकुमुदाकरमतिक्रम्य तारागणं चन्द्रिकाभिगमसकललोकं चन्द्रलोकमगच्छत् । तत्र च महोदयाख्यायां सभायामिन्दुकान्तमये महति पर्यङ्के तत्पुण्डरीकशरीरं स्थापयित्वा मामवादीत् - कपिञ्जल, जानीहि मां चन्द्रमसम् । अहं बलूदयं गतो जगदनुग्रहाय स्वव्यापारमनुतिष्ठन् अनेन ते प्रियवयस्येन कामापराधाजीवितमुत्सृजता निरपराधः संशप्तः ‘दुरात्मन्निन्दुहतक, यथाहं त्वया करैः संतोपित उत्पन्नानुरागः सन्नसंप्राप्तहृदयवल्लभासमागमसुखः प्राणैर्वियोजितस्तथा त्वमपि कर्मभूमीभूतेऽस्मिन्भारते वर्षे जन्मनि जन्मन्येवोत्पन्नानुरागोऽप्राप्तसमागमसुखस्तीव्रतरां हृदयवेदनामनुभूय जीवितमुत्स्रक्ष्यसि’ इति । अहं तु तेनास्य शापहुतभुजा झटिति ज्वलित इव निरंगाम् । किमनेनात्मदोषानुबन्धेन निर्विवेकबुद्धिना शप्तोऽस्मीत्युत्पन्नकोपस्त्वमपि मत्तुल्यदुःखसुख एव भविष्यसीति प्रतिशापमस्मै प्रायच्छम् । अपगतामर्षश्च विवेकमागतया बुद्ध्या विमृशन्महाश्वेताव्यतिकरमस्याधिगतवानस्मि । वत्सा तु महाश्वेता मन्मयूखसंभवादप्सरसः कुलाल्लब्धजन्मनि गौर्यामुत्पन्ना । तैया चायं भर्ता स्वयं वृतः । अनेन च स्वयंकृतादेवात्मदोषान्मया सह मर्त्यलोके वारद्वयमवश्य भुत्पत्तव्यम् । अन्यथा जन्मनि जन्मन्येषा वीप्सैव न चरितार्था भवति । तद्याचदयं शोषदोषादपैति तावदस्यात्मना विरहितस्य शरीरस्य मा विनाशोऽभूदिति मयेदमुक्षिप्य समानीतम् । वत्सा च महाश्वेता समाश्वासिता । तदिदमन मत्तेजसाप्यायमानमा शापक्षयात्स्थितम् । अधुना त्वं गत्वैनं वृत्तान्तं श्वेतकेतवे निवेदय । महाप्रभावोऽसौ कदाचिदत्र प्रतिक्रियां कांचिदपि करोति’ इत्युक्त्वा मां व्यसर्जयत् । अहं तु विनों वयस्येन शोकावेगान्धो गीर्वाणवर्मनि धावन्नन्यतममतिक्रोधनं वैमानिकमलङ्घनम् । स तु मां दहनिव रोषहुतभुजा भृकुटीविकरालेन चक्षुषा निरीक्ष्याब्रवीत्.–‘दुरात्मन, मिथ्यातपोबलगर्वित, यदेवमतिविस्तीर्णे गगनमार्गे त्वयाहमुद्दामप्रचारिणा तुरंगमेणेवोपलचितस्तस्मात्तुरंगम एव भूत्वा मर्त्यलोकेऽवतर ’ इति । अहं तु तमुद्बाष्पपक्ष्माकृताञ्जलिरवदम् -‘भगवन्, वयस्य शोकान्धेन त्वं मयोल्लङ्घितो नावज्ञया । तत्प्रसीद । उपसंहर शापमाशु त्वमिमम्’ इति । स तु मां पुनरवादीत्- ‘यन्मयोक्तं तन्नान्यथा भवितुमर्हति । तदेतत्ते करोमि । कियन्तमपि कालं यस्यैव वाहनतामुपयास्यसि तस्यैवावसाने स्नात्वा विगतशापो भविष्यसि’ इति । एवमुक्तस्तु पुनस्तमहमवदम्-‘भगवन्, यद्येवं ततो विज्ञापयामि । तेनापि मत्प्रियवयस्येन पुण्डरीकेण चन्द्रमसा सह शापदोपान्मर्त्यलोक एवोत्पत्तव्यम् । तदेतावन्तमपि भगवान्प्रसाद करोतु मे दिव्येन चक्षुषावलोक्य यथा तुरङ्गमत्वेऽपि मे तेनैव प्रियवयस्येन सहावियोगेन कालो यायात्’ इति । स त्वेवमुक्तो मुहूर्तमिव ध्यात्वा पुनर्मामवादीत्—‘अनया स्नेहलतया ते ममौद्रीकृत हृदयम् । तदालोकितं मया । उज्जयन्यामपत्यहेतोस्तपस्यतस्तारापीडनाम्नो राज्ञः सनिदर्शनं चन्द्रमा तनयत्वमुपगन्तव्यम् । वयस्येनापि ते पुण्डरीकेण तन्मत्रिण एवं शुकनासनाम्नः । त्वमपि तस्य महोपकारिणश्चन्द्रात्मनो राजपुत्रस्य वाहनतामुपयास्यसि’ इति । अहं तु तद्वचनानन्तरमेवाधःस्थिते महोदधौ न्यपतम् । तस्माच्च तुरङ्गीभूयैवोदतिष्ठम । संज्ञा तु मे तुरंगमत्वेऽपि न व्यपगता । येनायं मयास्यैवार्थस्य कृते किंनरमिथुनानुसारी भूमि मेतामानीतो देवचन्द्रमसोऽवतारश्चन्द्रापीडः । योऽप्यसौ प्राक्तनानुरागसंस्कारादभिलषनजानन्त्या त्वया शापाग्निना निर्दग्धः सोऽपि मे वयस्यपुण्डरीकस्यावतारः’ इति । एतच्छ्रुत्वा ‘हा देव पुण्डरीक, जन्मान्तरेष्वविस्मृतमदनुराग, मत्प्रतिबद्धजीवित, मच्छरण, मन्मुखावलोकिन् , मन्मयसकलजीवलोक, लोकान्तरगतस्यापि तेऽहमेव राक्षसी विनाशा- योपजाता दग्धप्रजापतेरियदेव मन्निर्माणे दीर्घजीवितप्रदाने च प्रयोजनं निष्पन्नं यत्पुनः पुनस्ते व्यापादनं स्वयं हत्वा च पापकारिणी कमुपालभे, किं ब्रवीमि, किमाक्रन्दामि, कमुपयामि शरणम् , को वा करोतु मयि दयाम्, याचेऽहमात्मनैवाधुना । देव, प्रसीद। कुरु दयाम् । देहि मे प्रतिवचनम् । इत्येतान्यक्षराण्युचारयन्त्यपि लज्जे । मन्ये च तवाप्येवमुत्पन्नं मन्दभाग्यायां मयि वैराग्यं येनैवमपि विप्रलपन्त्यां न प्रतिवचनं ददासि । हा, हतास्म्यनेनैवात्मनो जीवितस्योपर्यनिर्वेदेन’ इत्युन्मुक्तार्तनादा सोरस्ताडमवनावात्मानंमपातयत् । कपिज्जलस्तु तथार्तकृतप्रलापां तां सानुकम्पमवादीत्—‘गन्धर्वराजपुत्रि, कस्तवात्र दोपो येनैवमनिन्दनीयमात्मानं निन्दापदैर्योजयसि । ‘को नाम वाधुना सुखपाकेऽनुभवनीये दुःखस्यावसरः, येनैवात्मानं शुचा व्यापादयसि। यदसह्यतरं तत्त्वया निर्व्यूढं हतहृदयस्यैव समागमप्रत्याशया । यथा च शापदोषादिदमुपगतं भवत्योर्द्वयोरपि दुःखं तथा मया कथितमेव । चन्द्रमसोऽपि भारती भवतीभ्यां श्रुतैव । तदुन्मुच्यतामयमात्मनो वयस्यस्य चाश्रेयस्करः शोकानुबन्धः । द्वयोरेव श्रेयसे यदेव भवत्याङ्गीकृतं तदेवानुबध्यतां व्रतपरिग्रहोचितं तपः । तपसो हि सम्यकृतस्य नास्त्यसाध्यं नाम किंचित् । देव्या हि गौर्यास्तपसः प्रभावाद तिदुरासदं स्मरारेरपि यावदासादितं देहार्धपदम्। एवं त्वमपि नचिरात्तथैव मे वयस्यस्याङ्के निजतपःप्रभावात्पदवाप्स्यसि’ इति महाश्वेतां पर्यबोधयत् । उपशान्तमन्युवेगायां च महाश्वेतायां विषण्णदीनमुखी कादम्बरी कपिज्जलमप्राक्षीत्-भगवन्कपिञ्जल, पत्रलेंखया त्वया चास्मिन्सरसि जलप्रवेशः कृतः । तत्किं तस्याः पत्रलेखायाः संवृत्तमित्यावेदनेन प्रसादं करोतु भगवान्’ इति । स तु प्रत्यवादीत्—रोजपुत्रि, सलिलपातानन्तरं न कश्चिदपि तद्वृत्तान्तो मया ज्ञातः । तदधुना क्क चन्द्रात्मकस्य चन्द्रापीडस्य ‘क्क पुण्डरीकात्मनो वैशम्पायनस्य जन्म किं वास्याः पत्रलेखाया वृत्तमिति सर्वथैवास्य वृत्तान्तस्यावगमनाय गतोऽहं प्रत्यक्षलोकत्रयस्य तातस्य श्वेतकेतोः पादमूलम्’ इत्यभिदधान एव गगनमुदपतत् ।

अथ गते तस्मिन्विस्मयान्तरितशोकवृत्तान्ता चन्द्रापीडमालोक्य गलितनयनपयसि यथास्थानमपसृत्य स्थितवति सपरिजने राजपुत्रलोके कादम्बरी महाश्वेतामवादीत्—‘प्रियसखि, तुल्यदुःखितां त्वया सह नयता न खल्वसुखं स्थापितास्मि भगवता विधात्रा । अद्य मे शिरः समुद्घाटितम् । अद्य ते वदनं दर्शयन्ती प्रियसखीति चाभाषमाणा न लज्जे । तवाप्यहमद्यैव प्रियसखी संजाता । संप्रति मरणं जीवितं वा न दुःखाय मे । तत्कोऽपरः प्रष्टव्यो मया। केन वापरेणोपदेष्टव्यम् । तदेव गते यत्करणीयं तदुपादिशतु मे प्रियसखी । नाहमात्मना किंचिदपि वेनि किं कृत्वा श्रेयः’ इत्युक्तवतीं कादंबरी महाश्वेता प्रत्यवादीत–“प्रियसखि, किमत्र प्रश्र्नेनोपदेशेन वा । यदेवेयमनतिक्रमणीया प्रियतमसमागमप्रत्याशा कारयति तदेव करणीयम् । पुण्डरीकवृत्तान्तोऽद्य कपिञ्जलाख्यानात्स्फुटीभूतः । तत्कालं तु वाध्यात्रकेणैव समाश्वासितया मया न पारितमन्यत्किंचिदपि वक्तुम् । तत्त्वमन्मत्किं करोषि यस्याः प्रत्ययस्थानमिदं चन्द्रापीडशरीरमङ्क एवास्ते । तदन्यथात्वेऽस्य करणीयचिन्ता । यावत्पुनरिदम विनाशि तिष्ठति तावदेव तस्यानुवृत्तिं मुक्त्वा किमन्यत्करणीयम् । अप्रत्यक्षाणां हि देवतानां मृदश्मकाष्ठमय्यः प्रतिमाः श्रेयसे पूजासत्कारेणोपचर्यन्ते । किं पुनः प्रत्यक्षदेवस्य चन्द्रापीडनामान्तरितस्य चन्द्रमसो मूर्तिरनाराधितप्रसन्ना’ इत्युक्तवत्यां मेहाश्वेतायां कादम्बरी तूष्णीमेवोत्थाय तरलिकया मदलेखया चोत्थाप्य तामखेदार्हां चन्द्रापीडतनुमन्यतरस्मिन्छी तवातातपवर्षादिसर्वद्वन्द्वदोषरहिते शिलातले शनैःशनैरखेदयन्ती स्थापयित्वापनीतशृङ्गाररवे षाभरणा मङ्गलमात्रकावस्थापितैककररत्नवलया स्नानशुचिर्भूत्वा परिधाय धौतशुचिनी दुकूले प्रक्षाल्य पुनःपुनर्गाढलग्नमधर किसलये ताम्बूलरागमुपर्युपरिनिमीलितागतबाष्पवेगोत्तरललोचचान्यदेव किमप्यचिन्तितमनुत्प्रेक्षितमशिक्षितमनभ्यस्तमनुचितमपूर्वं बाला बलाद्विलोमप्रकृतिनाकार्यपण्डितेन दग्धवेधसा कार्यमाणा यान्येव सुरभिकुसुमधूपानुलेपनानि सुरतोपभोगायानीतानि तैरेव देवतोचितामपचितिं संपाद्य चन्द्रापीडमूर्तौ मूर्तिमतीव शोकवृत्तिरातरूपा रूपान्तरमिव क्षणेनेवागता विगतजीवितेव शून्यमुखी मुखावलोकिनी चन्द्रापीडस्य’ पीडितो त्पीडितहृदयापि रक्षन्ती बाष्पमोक्षमुद्दामवृत्तेः शोकादपि मरणादपि कष्टतमामवस्थामनुभवन्ती तथैवाङ्के समारोपितचन्द्रापीडचरणद्वया दृरागमनखिन्नेनापि बुभुक्षितेनाप्यप्रतिपन्न स्नानपानभोजनेनापि मुक्तात्मना राजपुत्रलोकेन खपरिजनेन च सह निराहारा तमशेष दिवसमक्षिपत् । यथैव च जीवसमशेषं तथैव तां गम्भीरमेघोपरोधभीमामनवरतगर्जितध्वानकम्पितहृदयबन्धामाबद्धकलकलापिकुलकेकाकोलाहलाकुलितचेतोवृत्तिमुद्दामदर्दुरारटितबधिरितश्रोत्रेन्द्रियां दुर्दर्शतडित्संपातपीडितदिशमति निह्रादापादितभुवनज्वरां ज्वलत्खद्योतनिकरजर्जरिततरुर्गहनतलतमःप्रसरभीषणतमां तमस्विनीमपि दूरीकृत्याबलासहभुवं भीतिमपरित्यक्तचन्द्रापीडचरणकमलाचेतितस्वशरीरखेदा जामती समुपविष्टैव क्षणमिव क्षपां क्षपितवती । प्रातश्च तदुन्मीलितं चित्रमिव चन्द्रापीडशरीरमवलोक्य शनैः शनैः पाणिना स्पृशन्ती पार्वस्थितां मदलेखामवादीत्—‘प्रियसखि मदलेखे, न वेद्मि किं रुचेर्वशादुत निर्विकारतयैवेति । अहं तु तादृशीमेवेमां तनुमवलोकयामि । तत्त्वमपि तावदादरतो निरूपय’ इति । एवमुक्ता मदलेखा तां प्रत्यवादीत्—‘प्रियसखि, किमत्र निरूपणीयम् । अन्तरात्मनो विरहाद्व्यापारमात्रकमस्यामुपरतम् । अन्यत्तादृशमेवेदं व्याकोशशतपत्राकारं मनागप्यनुन्मुक्तं श्रिया वदनम् । तथा च संवेल्लिताप्रभागः स्निग्धः कुन्तलकलापः । तथैवेयमिन्दुशकलानुकारिणः कान्तिर्ललाटस्य । तादृशमेवेदमामुकुलितनीलोत्पलद्युतिहारि कर्णान्तायतं लोचनद्वयम् । तथैव चेमावहसतोऽपि विकसिताविवोद्भासितकपोलमूलौ सृक्कोपान्तौ । तादृश एवाभिनवकिसलयच्छविरधरः । तथैव चेदं विद्रुमालोहितनखाङ्गुलीतलं पाणिपादम् । तदेवे दमविमलितसहजलावण्यसौकुमार्याणां सौष्ठवमङ्गानाम् । तत्सत्या सा भारती कपिज्ज्जलावेदितश्च शापवृत्तान्त इति संभावयामि’ इत्युक्तवत्यां मदलेखायामानन्दनिर्भरा महाश्वेतायै दर्शयित्वा चन्द्रापीडचरणतलनिबद्धजीविताय राजपुत्रलोकयापि दर्शितवती । स तु विस्मयोत्फुल्ललोचनः सर्व एवावनितलनिवेशितशिराः प्रणम्य चन्द्रापीडचरणौ रचिताञ्जलिर्जानुद्वयेनावनौ स्थित्वा कादम्बरी व्यज्ञापयत्—‘देवि, त्वत्प्रभावोऽयं यदेवास्मानपुण्यवतः परित्यज्य दूरं गतस्यापि देवस्य तादृशमेवेदं प्रसन्नेन्दुमण्डलद्युतिहारि वीक्ष्यते वदनम् । तथैव चेदं चरणयुगलमवभाति पुरेव प्रोत्फुल्लतामरसच्छायम् । तथैव च पुनः प्रसादानुभवप्रत्याशालालसं हृदयम् । अन्यञ्चैतन्मनुष्यलोकेषु केन कदा वा दृष्टं श्रुतमनुभूतं वा यदस्माभिः पुण्यवद्भिः’ इत्यभिहितवति राजलोके ससखीजना सपरिजना चोत्थाय स्वयमेवावचित्य देवतार्चनकुसुमानि स्नात्वा निर्वर्तितचन्द्रापीडशरीरपूजासंस्कारा शरीरस्थितिकरणायादिदेश सकलमेव राजलोकम् । निर्वर्तितस्नानाशने च तस्मिन्नात्मनापि महाश्वेतयोपनीतानि तथैव सह सपरिवारा फलान्युपभुक्तवती । कृताहारा च पुनस्तथैव चन्द्रापीडचर णावकेनोद्वहन्ती तमपि दिवसमनयत् । अन्येद्युश्च संजातदृढतरप्रत्यया चन्द्रापीडशरीराविनाशं प्रेति मदलेखामवादीत्–‘प्रियसखि, देवस्य शरीरमिदमुपचरन्तीभिरवश्याशयाशापक्षयादस्माभिरधुनात्र स्थातव्यम् । तदिदमत्यद्भुतं वृत्तान्तं तातस्याम्बायाश्च गत्वा निवेदय । येने नान्यथा मां संभावयतो दुःखेन वा मदीयेन न तिष्ठतः । यथा मामेवंविधां दुःखभा- गिनीमागत्य न पश्यतस्तथा करिष्यसि । न शक्नोम्यहं तातमम्बां च दृष्ट्वा शोकवेगं धारयितुम् । मया चोपरतमेवं देवमालोक्य न रुदितम् । सा किमपरमधुना निःसंशयितजीविते देवे प्रतिपन्ननियमा रोदिमि’ इत्यभिधाय तां व्यसर्जयत । गत्वागतया च तया ‘प्रियसखि, सिद्धं तेऽभिवाञ्छितम् । एवं संदिष्टं तातेन चित्ररथेनाम्बया च मदिरया गाढंगाढं पुनरालिङ्ग्य शिरस्युपाघ्राय च वक्तव्यावयोर्वचनात् ‘वत्से, कालमेतावन्तं मनस्येव नैतदावयोरासीद्यथा जामातृसहिता वत्सा द्रष्टव्येति । तदयमेवावयोः परमानन्दो यद्वत्सया स्वयं जामाता वृतः । तत्राप्यपरं भगवतो लोकपालस्य चन्द्रमसोऽवतारः । तत्कल्याणैः शापावसाने जामात्रा सहैवानन्दबाष्पनिर्भरानना रविन्दं ते द्रक्ष्यावः’ इत्यावेदिते निवृत्तेनान्तरात्मना दैवतवदुपचरन्ती तच्चन्द्रापीडशरीरमतिष्ठत ।

अथापगतवति जलदसमयं घननिरोधोदन्धादिवोन्मुक्ते जीवलोके प्रसरन्तीष्विवाशासु, फलभारावनम्रकलमवनपिञ्जरासु ग्रामसीमासु, काशकुसुमधवलास्वरण्यस्थलीषु, सेव्यतामुपगतेषु प्रासादतलेषु कहारहारिपु पल्वलेषु, कुमुदामोदशीतलासु यामवतीषु, शेफालिकापरिमलग्राहिपु, निशावसानमातरिश्वसु, चन्द्रप्रभाभिरामेपु प्रदोषेषु, उद्दामफुल्लेन्दीवररजोवासंसुरभिषु वासरेषु, सलिलापसरणक्रमतरङ्गयमाणासु सुकुमारतीरसैकतरेखासु सुखोत्तारतामापन्नास्वापगासु, पङ्कपरिहरणशुष्केष्वप्रहतरूढतृणोलपच्छन्नेषु मन्दाश्यानकर्दमोद्भिद्यमा नाभिनवपदवीकेषु पुनरपि पार्थिवलोकेन प्रवर्तितेषु प्राञ्जलवर्त्मसु जम्बालविगमात्सर्वतस्तुरगखुरसहासु भूमिष्वेकदा चन्द्रापीडचरणमूलोपविष्टां कादम्बरीमुपसृत्य मेघनादो व्यजिज्ञपत्—‘देवो युवराजश्चिरयतीत्युत्ताम्यता हृदयेन देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च वार्ताहराः प्रहिताः । ते च देव्या एव शोकशल्यघटनां परिहरद्भिर्यथावृत्तं सर्वमाख्यायास्माभिरभिहिताः भवतां हस्ते देवेन चन्द्रापीडेन न किंचित्प्रतिसंदेष्टव्यम् । नापि देव्या कादम्बर्या । तदकृतविलम्बा एव गत्वैवमखिलवृत्तान्तं लोकार्तिहरायावनितलपतये देवदेवाय तारापीडायावेदयत्’ इत्येवमभिहितास्तु तेऽस्मान्मन्युनिर्भराः प्रत्यवदन् ‘यथा भवद्भिः कथितं तत्तथा । तिष्ठतु तावत्क्रमागतस्नेहो भक्तिरनुवृत्तिर्वा । कार्यगौरवकृतं कुतूहलमेव देवावलोकनं प्रति बलात्प्रेरयत्यस्मान् । यदि भवतामपि वार्तामात्रकोपलभ्य एवायमर्थः, ततो युज्यतेऽस्माकं भवद्भ्यः समुपालभ्य प्रतिगमनम् । अथ नयनविषयगामी तदा वयमपि नेदृशा एवापुण्यकर्माणो ये न पश्यन्ति देवम् । अस्माभिरपि चिरतरं चरणपरिचर्यया देवस्य पवित्रित एवात्मा । अस्माकमपि सर्वदा दर्शनगोचरावस्थानेन प्रसादं कृतवानेव देवः । किमद्य जातं येन देवस्य पादारविन्दवन्दनाप्रसादेनासंविभज्य विसृज्यामहे । त एव वयं पादलग्नाश्चरणरेणवः । यद्विज्ञाप्य देवी देवस्य युवराजस्य पादप्रणामेनास्माकं सफलयतु भवानागमनपरिश्रमम् । अन्यथा भूमिमेतावतीमागत्य संभवे सत्यप्रत्यक्षीकृतयुवराजशरीरा गताः सन्तः किं देवदेवेन तारापीडेन वक्तव्या वयम् । किं वास्माभिर्देवो विज्ञापयितव्यः’ इत्यावेदिते ‘देवी प्रमाणम्’ इति विज्ञाप्य पुनस्तूष्णीं स्थितवति मेघनादे तत्कालं समुत्प्रेक्षितानांश्वास्य श्वशुरकुलवैक्लव्याद्विलीयमानेव शुचान्तःसंचितं बाष्पमाकुलिततरलतारकाभ्यामापिबन्ती लोचनाभ्यामुद्गदिकयावगृह्यमाणकण्ठी कथंकथमपि चिरात्कादम्बरी प्रत्युवाच— ‘स्थान एव हि तैरगमनमङ्गीकृतम् । अनवलोक्य देवमेवमेव याताः सन्तः किमुच्यन्ताम् । अपि च वृत्तान्त एवायमेवंविधो लोकातीतो यत्नावलोकनेनापि न संप्रत्ययः समुत्पद्यते । किं पुनरनालोकनेनापि । कैतवमात्रकोपदर्शितप्रेमपल्लवा वल्लभतमजीविता वयमपिं यावत्पश्यामस्तं तावदनपेक्षितप्राणवृत्तयः स्नेहसद्भावनया सद्वृत्त्या न पश्यन्तीत्य घटमानकमिदम् । तदपरिलम्बितं प्रवेश्यताम् । पश्यन्तु देवम् । सफलयित्वागमनपरिश्रमेण सार्धं लोचने ततो यास्यन्ति’ इत्याज्ञानन्तरं च मेघनादेन प्रवेशितान्दूरत एव समं बाष्पपातेन पञ्चाङ्गालिङ्गितमहीतलांश्चन्द्रापीडचरणवन्दनसद्भावनिहितोत्पक्ष्मनिभृतदृष्टींस्ताननन्यदृष्टिश्चिरमिवालोक्य कादम्बरी स्वयमेवाभाषत—‘भद्रमुखाः, परित्यज्यतामयं क्रमागतस्नेहसद्धावसुलभः शोकावेगः। यत्खल्वनालोचितावधि दुःखावसानमेव दुःखं तन्मरणभीरोर्भवतु नाम शोकावेगाय । यत्पुनः सुखोदर्कं तत्पुरःस्थितया सुखप्रत्याशयैवान्तरितं नापतति हृदये । तदेष वृत्तान्त एवंविधो येन न केवलमत्र निरवकाशता शोकस्य प्रत्युत सुदूरभिन्नवृत्तेर्विस्मयस्यावसरः । किमत्र परिबोधनेन । अन्यत्रादृष्टपूर्वो मनुष्येषु प्रत्यक्षीकृत एवायं वृत्तान्तः । भवद्भिरपि दृष्टं च पुरेवाक्षततनोर्देवस्य वदनम् । संभाषणापि या देवेन विना न संभवंति सापि संभावितैव । तद्गम्यतामधुना वार्तोत्सुकमतेर्देवस्य पादमूलम्।

न चायं प्रत्यक्षदृष्टोऽप्युपरतशरीरावि नाशवृत्तान्तः प्रकाशनीयः । दृष्टोऽस्माभिरच्छोदसरसि तिष्ठत्येतदेवावेदनीयम् । यतः कारणादुपरतिः खल्ववश्यंभाविनी प्राणिनां कथंचित्प्रत्ययमुत्पादयति । शरीरविनाशः पुनः प्राणैविनाकृतानां दृश्यमानोऽप्यश्रद्धेय एव । तदस्यावेदनेन सुदूरस्थितमपि गुरुजनं मरणसंशये निक्षिप्य वर्तमाने प्रयोजनमेव नास्ति । प्रत्यागतजीविते जीवितेश्वरे स्वयमेवायमत्यद्भुतभूतोऽर्थों गुरुजनेष्वाप्रकटीभविष्यति’ इत्येवमादिष्टाश्च ते व्यज्ञापयन्-‘देवि, किं विज्ञापयामः । द्वाभ्यामेवापरिज्ञानमस्य वस्तुनः संभवेदगमनेनास्मदीयेनाकथनेन वा । तदस्माकं तु हस्ते द्वयमप्येतन्नास्ति । युवराजवैशम्पायनयोर्वार्तां विना दुःखं तिष्ठता देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन संभाव्य प्रेषितानामप्रोपितजीवितानामगमनं तु दुरापेतमेव । गत्वापि दयिततमतनयवार्ता श्रवणलालसस्य राज्ञो देव्या आर्यशुकनासस्य दुःखप्लुताक्षीण्युद्वीक्ष्य मुखानि निर्विकारवदनानामस्माकमवस्थानमशक्यमेव’ इति विज्ञापिता तैरेवमेतदित्युक्त्वा कादम्बरी मेघनादमवादीत्–‘मेघनाद, वेद्मि संस्तुतजनस्यैतदनुचितमिति । तथापि गुरूणांचेतःपीडामवेक्ष्यमाणया मयैवमभिहितम् । इतरदपि दुःखमायाति । कीदृशं भवति किं पुनरिदं महावज्रपतनसदृशम् । तदेतदपि भवतु । एभिः सहापरः कश्चिच्छद्धेयवचाः प्रत्यक्षदृष्टसकलवृत्तान्तः संप्रत्ययाय व्रजतु’ इति । एवमादिष्टस्तु मेघनादो व्यज्ञापयत्—‘देवि, राजलोके तु का कथा । भृत्यवर्गोऽपि सकल एवायं कन्दमूलफलाशी निश्चयं कृत्वास्थितो यथाऽस्माकं मध्यादेकेनापि देवपादान्विना न प्रतीपं गन्तव्यमिति ।भृत्या अपि त एव ये संपत्तेर्विपत्तौ सविशेषं सेवन्ते । समुन्नम्यमानाः सुतरामवनमन्ति । आलाप्यमाना न समालापाः संजायन्ते। स्तूयमाना नोत्सिच्यन्ते । क्षिप्यमाणा नापरागं गृह्णन्ति । उच्यमाना न प्रतीपं भाषन्ते । पृष्टा हितप्रियं विज्ञपयन्ति । अनादिष्टाः कुर्वन्ति । कृत्वा न जल्पन्ति । पराक्रम्य न विकत्थन्ते । विकथ्यमांना अपि लजामुद्वहन्ति। महाहवेष्वग्रतो ध्वजभूता इव लक्ष्यन्ते । दानकाले पलाय्य पृष्ठतो निलीयन्ते । धनात्स्नेहं बहु मन्यन्ते । जीवितात्पुरो मरणमभिवाञ्छन्ति । गृहादपि स्वामिपादमूले सुखं तिष्ठन्ति । येषां च तृष्णा चरणपरिचर्यायाम, असंतोषो हृदयाराधने, व्यसनमाननावलोकने, वाचालता गुणग्रहणे, कार्पण्यमपरित्यागे भर्तुः । ये च विद्यमानेऽपि स्वात्मन्यस्वाधीनसकलेन्द्रियवृत्तयः पश्यन्तोऽप्यन्धा इव, शृण्वन्तोऽपि बधिरा इव, वाग्मिनोऽपि मूका इव, जानन्तोऽपि जडा इव, अनुपहतकरचरणा अपि पङ्गव इव क्लीबा इवाकिंचित्कराः, स्वात्मनः स्वामिचिन्तादर्शे प्रतिविम्बवद्वर्तन्ते । तत्सर्वमेवं स्थितो भृत्यलोकः । देवस्य च स्थाने देवी वर्तते । तदाज्ञापितं कृतमवधारयतु देवी’ इत्युक्त्वा मेघनादस्त्वरित कनामानं कुमारबालसेवकमाहूय तैः सह व्यसर्जयत्।

अथ सुबहुदिवसापगमे वार्तां विनोत्ताम्यन्ती चन्द्रापीडस्यैवागमनायोपयाचितं कर्तुमवन्तीनामनगरीदेवतानामवन्तीमातॄणामायतनं निर्गता विलासवती ‘देवि, दिष्ट्या वर्धसे । प्रसन्नास्तेऽवन्तिमातरः । परागता युवराजवार्ताहराः’ इति सहसैव संभ्रमप्रधावितात्परिजनादुपश्रुत्यानन्दबाष्पजललुलितया जलाद्रेन्दीवरस्रजेव विक्षेपदीर्घया दृष्ट्यार्चयन्तीव चिरं दृष्ट्वा ककुभो मृगाङ्गनेव परिभ्रष्टबालपोता प्रकृत्य प्राकृतेवार्ता ‘केनेदममृतं मे वाक्छलादृष्टम्, कस्यानुकम्पास्मिञ्जने जाता, केन दृष्टाः कियद्दूरे ‘वर्तन्ते, किं वा तैः कथितं कुशलं मे वत्सस्य’ इति पृच्छंन्त्येवाद्राक्षीदितस्ततो यथादर्शनसंबन्धशः प्रधावितेन नरपतिप्रतिबद्धेनापतिबद्धेन चोज्जयिनीनिवासिना जनेनांगतः, युवराजः कियद्दूरे भवद्भिः परित्यक्तः, दिवसेष्वेतेषु क्व वर्तते, क्व वा भवद्भिर्यात्वा दृष्टः, क्व वातिकष्टस्तेनातिवाहितो वाहनमात्रसाधनेन धाराधरागमः । तुरगपृष्ठगतस्य मन्ये वहत एवास्यापक्रान्तस्त्वरितक एतद्वेति, किमनेन वेदितेनापि । एतत्कथयतु यदर्थमयं क्लेशः कृतो युवराजेन । से दृष्टो वैशम्पायनः प्रत्यानीतो वा। मिलितोऽस्य पत्रलेखासहितो मेघनादः । दत्तः कथं कश्चिदपि संदेशो देववर्धनेन । मे मित्र मेवासावद्यारभ्य राभसिकतयैव विनाशं बलाद्गतस्य बालधर्मणो वत्सस्य बिभेम्येव वार्ता पृच्छन्नपि । जीवत्यसावस्य वाजी या युवराजेन प्रसादीकृतः । प्रसीदत । सादिनां प्रथमस्य पृथुवर्मणो मातुलस्य मे कथयत वार्ताम् । उत्प्रेक्षामहे महानश्ववारैरनुभूतः क्लेश इति । कुशलं महाश्वपतेरश्वसेनस्य । श्वशुरोऽसावस्माकम् । विस्मयः कृतोऽस्मत्पित्रापि, यश्चिह्नकमपि भवतां हस्ते न किंचित्प्रहितम् । आहितभर एवासौ युवराजभवने दृष्टो भवद्भिर्भ्राता मे भरतसेनः । सपरिजनस्य मेनापतेर्भद्रं भद्रसेनस्य । सेवाव्यसनी सूनुर्मे कुमारवर्मा । तत्र चलगतिबलाधिकृतस्य का वार्तावन्तिसेनस्य । रोषितस्तेनासीन्नासीरार्थं युवराजः राजकुले कः प्रसादवित्तो वर्धमानो मान्यते वा केन वा किं लब्धमेतावद्भिर्दिवसैः राजनिका बहवः खल्वभिनवसेवका जाताः । यातु तावत्सर्वमेवान्यत् । येन दृष्टः स कथयतु सर्वसेनसूनोर्वीरसेनस्य वार्ताम् । पितर्युपरते प्रथममेव स प्रविष्टो यात्राम् । मात्रास्य दुःखान्तरितप्रत्यग्र पतिमरणशोकादशनक्रियैव परित्यक्ता । न विन एवं कथं सा जीवति’ इत्येतानि चान्यानि च प्रतिपदं पृच्छ्यमानानप्यदत्तवचसो नासाग्रस्थितमन्युगर्भदृष्टीनाविष्टानिवाध्वश्रमनिःसहाङ्गानपि पदाकृष्टिसंभावितोद्यमायासितयागत्यागच्छतश्चातिमलिनपटश्चराच्छादितानसंस्कारमलिनकायाननेकोद्वद्धाध्वधूलिपरुषमूर्धजान्ध्वजानिवाध्वक्लेशस्याश्रयानिव श्रमस्य पदन्यासानिव दौर्मनस्यस्यावासानिव प्रवासस्य संदर्भानिव सर्वदुःखानां दूरत एव त्वरितकसमेतांस्ताल्लेखहारकान् । आलोक्य तस्मिन्नेव मातृगृहाङ्गणे स्थिता तेषामाह्वानायादिदेश । अनन्तरं चातर्कितापतितदर्शनद्विगुणितदुःखावेगान्मुषितानिवोन्मुक्तानिवेन्द्रियैर्दारुमयानिव शून्यशरीरान्निर्जीवानिवोपसर्पतः पुरस्तार्पतन्तीव बाष्पान्धा साध्वसस्खलितचरणकमला कतिचिद्गत्वा पदानि गद्गदतरमुञ्चैरकृतप्रणामानेवावादीत्—‘भद्राः, कथयताशु वत्सस्य मे वार्तामात्रम् । इदं त्वन्यथैव किमपि कथयति मे हृदयमप्रत्ययमेवाश्रयते । वत्सो दृष्टो वा न भवद्भिः’ इत्येवं पृष्टास्तु ते सहसागतबाष्पवेगमवनिनिवेशितोत्तमाङ्गाः प्रणामापदेशेनोत्सृज्य कृच्छादिवाभिमुखमुन्नमितवदना व्यज्ञापयन्-‘देवि, दृष्टोऽस्माभिरच्छोदसरस्तीरे युवराजः। शेषमेष त्वरितको निवेदयिष्यति । इत्यभिवदत एव तानुद्वाष्पमुखी प्रत्युवाच-‘किमपरमयं तपस्वी निवेदयिष्यति । दूरतः प्रभृत्यपसृतप्रहर्षेणैवोपसर्पणेन प्रतिलेखमालिकाशून्यैः शिरोभिराविषण्णदीनैराननैः प्रयत्नसंरक्षिताश्रुमोक्षदुःखिताभ्यां लोचनाभ्यां, मन्मुखसमक्षमधारणेन च दृष्टेर्यदावेदितव्यं तद्भवद्भिरेवावेदितम् । हा वत्स, जगदेकचन्द्र, चन्द्रापीड चन्द्रानन, चन्द्रशीतलप्रकृते, चन्द्राभिरामगुण, लोचनानन्दभूत, किं भूतं ते येन नागतोऽसि तातचन्द्रापीड । पीडिता ब्रवीमि न कोपादुपालभमाना । न युक्तमेतत्तवाम्ब, न परिलम्ब मनागपि करोमीति तथा मे पुरः प्रतिज्ञायान्यत्र क्वाप्यवस्थातुम् । वत्स, गच्छत एव ते मयास्य हतहृदयस्य’ शङ्कयैव ज्ञातं दुष्करं मे वत्सस्य पुनर्मुखावलोकनमिति । बलाद्गतोऽसि । किं करोमि । को वात्र दोपो वत्सस्य । मन्दभाग्याया ममैवैतान्यपुण्यानां विलसितानि । भवन्त्यपुण्यवत्योऽपि लोके न पुनर्मया सदृशी पापकारिणी । यस्यास्त्वमेक एवमकाण्ड एवा च्छिद्य कापि नीतोऽसि । विप्रलब्धास्मि दग्धवेधसा । वत्स, सुदूरस्यापि पादयोः पतामि ते । निवर्तस्वैकवारम् । अम्बेत्यालपतस्ते वदनमवलोकयितुमुत्कण्ठितं मे हृदयम् । जात दुर्लभक, न जानाम्येव किमा जन्मनः प्रभृति शैशवं ते स्मृत्वात्मानमनुशोचामि । उत यौवनाभोगकारिणी वर्तमानां रूपशोभाम् । आहोस्विदवष्टम्भधीरामुत्प्रेक्ष्योत्प्रेक्ष्यागामिनी प्रभुताम्’ इति । एवं विलपन्तीं मामवलोक्य ‘हृदयस्थितो मैवं कृथाश्चेतसि पुत्र, यथा विनापि मया जीवत्येव विलासवती । जात, त्वया विना जीवन्त्यापि पितुरेव ते कथं मया वदनं दर्शितम् । न वेद्मि किमपि । प्रियतया ते किमाकृतेः प्रत्ययादुत स्त्रीजनसहभुवो मूढभावादेवेत्यद्यापि, न श्रद्दधाति मे हृदयमनिष्टं ते । येन न सहस्रधा स्फुटति । स्फुटीकर्तुं च वार्तां भीता ते त्वरितकोपनीतामेव नेच्छामि । वरमनार्ण्यैवाश्रवणीयमुपरतास्मीति । तात, किं ब्रवीषि यथा किममुना सुतस्नेहानुचिते लोकलज्जाकरेण वैक्लव्येनेति । एषा स्थितास्मि ते ‘वत्स, वचनात्तूष्णीम् । न रोदिभि ।’ इत्यमिधानैवासन्नसखीजनावलम्बितशरीरा मोहमगमत ।

अथानेकसहस्रसंख्येन प्रधावता विलासवतीपरिजनेनावेदिते तम्मिन्वृत्तान्ते मन्दरास्फालनोद्वेल इव महाम्भोधिरुद्धान्तचेताः ससंभ्रममुत्थायार्यशुकनासद्वितीयो यामावस्थितां प्रजविनीं करेणुकामारुह्य रयादापिबन्निव पुरोराजमार्गं किं किमेतदित्युन्मुक्तार्तनादकलकलेन सर्वतः प्रधावताजनपदोघेनाकर्षन्निवोदवासयन्निव पृष्ठतः सगोपुराट्टालकप्राकारभवनतोरणामुज्जयिनी निर्जगाम नरपतिः । उपेत्य चावन्तीमातृगृहमवतीर्य तिर्यग्विषण्णोद्वाष्पवदनेन मलयजजलैश्च सिञ्चता, कदलीदलैश्च वीजयता, जलार्दैश्च पाणिपल्लवैः संवाहनं कुर्वता, कथंकथमपि चेतनामापद्यमानां परिजनेनार्धोन्मीलितलोचनयुगामुष्णकालकमलिनीमिव विलासवतीमपश्यत् । दृष्ट्वा च सहसा प्रवृत्तेन नेत्राम्भसा मूर्छावशेषापनयनायैव सिञ्चन्समुपविश्य पार्श्वे स्पर्शामृतवर्षिणा करेण ललाटे चक्षुषि कपोलयोरुरसि बाह्वोश्च स्पृशञ्छनैः शनैर्बाष्पगद्गदमवादीत्- ‘देवि, यदि सत्यमेवान्यादृशं किमपि वत्सस्य चन्द्रापीडस्य ततो न जीव्यन्त एव । किमर्थमयमात्मा वत्सस्य कृते सकललोकसाधारणेनामुना वैक्लव्योपगमेन तुच्छतां नीयते । इयन्ति शुभान्युपात्तानि कर्माणि । किमपरं क्रियते । नाधिकस्य भाजनं सुखस्य वयम् । अनुपात्तं हि हृदयताडनमपि कुर्वद्भिर्न लभ्यत एवात्रात्मेच्छया । विधिर्नामापरः कोऽप्यत्रास्ते । यत्तस्मै रोचते तत्करोति । नासौ कस्यचिदप्यायत्तः । एवं च पराधीनवृत्तौ सर्वस्मिन्न किं वास्माभिर्लब्धम् । वत्सस्यातिदुर्लभो जन्मोत्सवः संभावितः । अङ्कगतस्य मुखमवलोकितम् । उत्तानशयस्योच्चुम्ब्य चरणावुत्तमाङ्गे कृतौ । जानुसंचारिणो रेणुधूसरशरीरस्याङ्के लुलतः स्पर्शसुखमनुभूतम । अव्यक्तमनोहारीणि प्रथमजल्पितानि श्रोत्रे कृतानि । विचेष्टमानस्य बालचाटवो दृष्टाः । गृहीतविद्यस्य गुणवत्तयानन्दितं हृदयम् । उपारूढयौवनस्यामानुषी रूपशोभा शक्तिश्च प्रत्यक्षीकृता । अभिषिक्तस्य यौवराज्ये शिरः समाघ्रातम् । दिग्विजयागतस्य प्रणमतः परिष्वक्तान्यङ्गानि । एतावदेव मनोरथशतवाञ्छितस्य वस्तुतो न संपन्नं यद्वधूसमेतस्य निजपदे प्रतिष्ठां कृत्वा तपोवने न गतम् । सर्वाभिवाञ्छितप्राप्तिस्तु महतः पुण्यराशेः फलम् । अपरमपि किं वृत्तं वत्सस्यैतदद्यापि न परिस्फुट केनचिदेवं न कथितम् । एत्तावत्तु मयाव्यक्तमेव तदैव परिजनात्कथयतः कर्णे कृतम् । यथास्मत्प्रहितैर्लेखहारिभिः सहापरो वत्सस्य मे बालसेवकस्त्वरितकनामायातः । स वेत्ति सर्ववृत्तान्तम् । सोऽपि त्वया न पृष्ट एवेति । तत्तं तु तावत्पृच्छामः । ततो जीवितमरणयोरन्यतरदङ्गीकरिष्यामः’ इत्यभिवदत्येव राजनि परिजनान्तरितं त्वरितकमाहूय प्रतीहारस्त्वरितमारान्महीतलनिवेशितोत्तमाङ्गमालोकयतु देव इति दर्शितवान् ।

राजा तु तथा तमालोक्य चन्द्रापीडस्नेहात् ‘एह्येहि’ इत्याहूय हस्तेनोत्तमाङ्गे स्पृष्ट्वादिष्टवान्–‘भद्र, कथय किं वृत्तं वत्सस्य येनागमनाय मया तन्मात्रामात्येन च लिखितेऽपि नायातः। अनागमनकारणं वा किंचिन्न प्रतिलेखितवान’ इति । स त्वेवमादिष्टो राजांगमनतः प्रभृति यथावृत्तं कथयितुमारेभे । राजा तु चन्द्रापीडह्रदयस्फुटनवृत्तान्तं यावदाकर्ण्यातिक्षुभित शोकार्णवाक्रान्तिविक्लवः प्रसार्य करमार्तस्वरस्त्वरितकमवादीत–‘भद्र, विरम संप्रति । कथितं त्वया कथनीयम् । मयापि श्रुतं यच्छोतव्यम् । पूर्णो मे प्रश्नदोहदः। निवृत्तं श्रवणकौतुकम। कृतार्थीभूता श्रुतिः । आनन्दितं हृदयम । उत्पन्ना प्रीतिः । सुखं स्थितोऽस्मि । हा वत्स, त्वयैकाकिना स्फुटतो हृदयस्यानुभूता वेदना । निर्व्यूढा त्वया वैशम्पायनस्योपरि प्रीतिः। वयं दुःख- भागिनो निस्त्रिंशाः कर्मचाण्डालाः येषां तवापि हृदयस्फुटने ‘‘निर्विकारमेव । देवि, वज्रसारतोऽपि कठिनतरमेवेदमावयोर्हृदयम् , यन्न स्वयं सहस्रधा स्फुटति । न चापि मरणदुःखभीरवोऽमी वत्समनुगच्छन्ति स्वयं प्राणाः । तदुत्तिष्ठ । यावदेवातिदूरं न प्रयात्येकाकी वत्सस्तावदेवानुगमनाय प्रयतामहे । सशोकं शुकनास, किमद्यापि तिष्ठसि । अयं स कालः स्नेहस्य । महाकालायतनसमीपे समादिश सपदि परिचारकांश्चितारचनाय । रचयत झटिति काष्ठानि काष्ठिकाः । किं तिष्ठतैवं संकुचिताः कञ्चुकिनः । गत्वा निष्कामयत हुताशनप्रवेशोपकरणानि । निष्कारणरुदितेन किमधुना ।उपरोधपरिलम्बाद्विना दापयाशेषं देवि, द्विजेभ्यः कोषम् । कस्य कृतेऽद्यापि पाल्यते । पालनादिकं करणीयमधुना क्षीणं क्षीणपुण्यस्य मे । यात यथाभूमि भूमिपतयः । उत्सृष्टाः स्थ, यथा च नाद्यैवास्य दुःखं जानन्ति प्रजास्तथा करिष्यथ । कथावशेपीभूतो मे वत्सः । कथमपरं संविधाय यामि’ एवमार्ताप्रलापिनं तारापीडमचेतितात्मपीडया विलासवत्यैव धृतशरीरमार्ततरस्त्वरितको व्यज्ञापयत् ‘देव— , स्फुटितेऽपि हृदये ध्रियते शरीरेण युवराजः । शापदोपाद्वैशम्पायनस्य च यथा जन्म तथा निरवशेपं शृणोतु तावद्देवः’ इति ।

तारापीडस्तु तदद्भुतमाकर्ण्य कौतुकान्तरितशोकावेगो विगतनिमेषेण चक्षुषाविष्ट इव दत्तावधानतेन कथ्यमानं यथादृष्टं यथाश्रुतं यथानुभूतं च निरवशेषं तत्सर्वमश्रौषीत् । श्रुत्वा च तमनेकचिह्नोत्पादितप्रत्ययमश्रद्धेयं च निरतिशयशोककारणं च विस्मयास्पदभूतं च दुःश्रवं च कौतुककरं च युवराजवैशम्पायनयोवृत्तान्तमीषदिव विवर्तिताननो विमर्शस्तिमि ततारकां दृष्टिं निर्विशेषावस्थे शुकनासमुखेऽभ्यपातयत् । सुहृदस्तु स्वयं दुःखिता अपि निधानीकृत्यात्मदुःखं सुहृदुःखापनोदायैव यतन्ते । यतः शुकनासस्तदवस्थोऽपि स्वस्थवदवनिपतिमुवाच- ‘देव, विचित्रेऽस्मिन्संसारे संचरत्स सुखदुःखमयेषु देवासुरतिर्यग्योनिमानुषेषु त्रिगुणात्मनः प्रधानस्यापि परिणामात्परमाण्वादेब्रह्माण्डपर्यन्तस्योत्पत्तिस्थितिप्रलयकारणस्येश्वरस्येच्छया धर्माधर्मसाधनानामिष्टानिष्टफलसंबन्धकारिणां कर्मणां वा शुभाशुभानां विपाकभावाद्वा स्वयमेवानेकप्रकारमुत्पद्यमानस्य तिष्ठतो विनश्यतो वानियतवृत्तेः स्थावरजङ्गमस्य न कदाचिदवस्था सा या न संभवति । तत्कुतोऽयं देवस्यात्र वस्तुनि विमर्शः । यदि युक्ते र्विचारात्कियन्त्यत्र युक्तिरहितान्यागमप्रामाण्यादेवाभ्युपगतान्यपि संवादीनि दृश्यन्ते । मुद्राबन्धाद्ध्यानाद्वा विषप्रसुप्तस्योत्थापने कीदृशी युक्तिः । अयस्कान्तस्य चायसः समाकर्षणे भ्रमणे वा, मन्त्राणां वैदिकानामवैदिकानां वानेकप्रकारेपु कर्मसु सिद्धौ नानाविधद्रव्य संयोगानां वाभरणमान्द्याद्युत्पादनापहरणवशीकरणविद्वेषणादिपु, शक्तेः समुत्पादनादन्येषां बहुतराणामेवंविधानां च तत्र तत्र सर्वस्मिन्नेवागंमः प्रमाणम् । आगमेपु सर्वेष्वेव पुराणरामायणभारतादिषु सम्यगनेकप्रकाराः शापवार्ताः । तद्यथा । महेन्द्रपदवर्तिनो नहुषस्य राजर्षेरगस्त्यशापादजगरता । सौदासस्य च वसिष्ठसुतशापान्मानुपादत्वम । असुरगुरुशापाच्च ययातेस्तारुण्य एव जरसा भङ्गः। त्रिशङ्कोश्च पितृशापाञ्चाण्डालभावः । श्रूयते च स्वर्गवासी महाभिषो नाम राजास्मिंल्लोके शान्तनुरुत्पन्नः। तत्पत्नीत्वमुपगताया गङ्गायाः शापदोषदृष्टानामपि वसूनां मनुष्येपूस्पत्तिः । तिष्ठतु तावदन्य एव । अयमादिदेवो भगवानजः स एव जमदग्नेरात्मजतामुपगतः । श्रूयते च पुनश्चतुर्धात्मानं विभज्य राजर्षेदशरथस्य तथैव मथुरायां वसुदेवस्य । तन्मनुष्येषु देवतानामुत्पत्तिर्नैवासंभाविनी । न च पूर्वमनुष्येभ्यो गुणैः परिहीयते देवः । न चापि भगवतः कमलनाभादतिरिच्यते चन्द्रमाः । किमत्रासंभावनी यम् । अपि च गर्भारम्भसंभवे देवेन देव्या वदने विशंश्चन्द्रमा एव दृष्टः। तथा ममापि स्वप्ने पुण्डरीकस्य दर्शनं समुपजातम् । तदुत्पत्तिं प्रति तयोर्नास्येव संदेहः । विनष्टयोः शरीरस्याविनाशः कथं कथं वा पुनर्जीवितप्रतिलम्भ इत्यत्राखिललोकप्रत्याख्यातप्रभावममृतमेवैकं कारणमावेदितम् । तच्चन्द्रमसि विद्यत इत्येपास्त्येव वार्ता । तत्सर्वमेतदित्थमेवावगच्छतु देवः । अन्यच्च तादृशाकारकान्तेरखिललोकाह्लादकारिणोऽन्यत्र संभव एव नास्ति । तत्कल्याणैर्न चिराच्छावावसाने ‘‘निर्वर्तितगन्धर्वसुतोद्वाहमङ्गलस्य गलन्नयनपयसो वध्वा सह पादयोः पततः पुत्रत्वमुपगतस्य चन्द्रापीडनाम्नान्तरितस्य लोकपालस्यैव चन्द्रमसो दर्शनेनाजन्मकृतमेव संतापं परित्यक्ष्यति देवः । तयोरेवं शापोऽस्माकं पुनर्वर एव । तदस्मिन्वस्तुनि मनागपि न देवेन देव्या वा शोकः कार्यः । मङ्गलान्यभिधार्यन्ताम् । अभिमतदेवताराधनेन धनातिसजनेन चान्यजन्मोपार्जितं कुशलमभिवर्ध्यताम् । अकुशलमपि यमनियमकष्टव्रतोपवासादिना तपःक्लेशेन भयमुपनीयताम् । अपरमपि यद्यदेवंगते श्रेयस्करं श्रूयते ज्ञायते वा तत्तदद्यैवा रभ्य क्रियतां कार्यतां च कर्म । न खलु वैदिकानामवैदिकानां वा कर्मणामसाध्यं नाम किंचिदपि । उत्पत्तिरपि च तयोः कृच्छ्रलब्धयोरीदृशेनैव प्रकारेणोपजाता । इत्युक्तवति शुकनासे सशोक एव राजा प्रत्यवादीत्—‘सर्वमेतद्यदार्येणाभिहितं कोन्योऽवबुध्यते । केन वापरेण वयं परिबोधनीयाः । कस्य वापरस्यास्माभिर्वचनं करणीयम् । किंतु तद्वत्सस्य मे वैश म्पायनदुःखारफुटनं हृदयस्याग्रतो दृष्टिलग्नं सर्वमेवान्यदन्तरयति । तदेव पश्यामि । तदेव शृणोमि । तदेवोत्प्रेक्षे । तदेवमप्रत्यभिते वत्सस्य वदने संस्तम्भमेवात्मनो न शक्नोमि कर्तुम् । यत्र च ममायमीदृशः प्रकारस्त देव्याः परिबोधनं दूरापेतमेव । तद्गमनादृतेऽन्य उपाय एव नास्ति जीवितसंधारणायेत्येवमवधारयत्वार्यः । इत्युक्तवति तारापीडे चिरात्तनयपीडया तेत्पुरः परित्याजितलज्जं विलासवती कृताञ्जलिरुच्चैर्जगाद-आर्यपुत्र, यद्येवं तथापि किमपरं विलम्बितेन । निर्गता एव वयम् । दीयतां प्रयाणम् । उत्ताम्यति मे हृदयं वत्सस्य दर्शनाय । दुःखापनोदार्थ स्फुटनमङ्गीकृतमासीत् । तदपि संप्रति दर्शनकाङ्क्ष्या न रोचत एव । जानामि वैरं दीर्घकालमपि दुःखान्यनुभवन्ती सकृदपि वत्सस्य दर्शनाय जीवितास्मि । न पुनरसह्यदुःखोपशान्तये संप्रत्येव मृतास्मीति । तदस्य पुनराशानिबन्धनस्य सर्वात्ययनिवारणोपायस्य वत्साननावलोकनोत्सुकस्य गमनमपि हृदयस्य तावद्विनोदतां व्रजतु ।’ इति वंदन्तीमेव विलासवतीमासाद्यान्यतमः शुकनासस्यात्मसमः परिणतवयाः षट्कर्मा समुपसृत्य स्वस्तिपूर्वकं व्यज्ञापयत् - ‘देवि, सर्वत ऐवापरिस्फुटेन वार्ताकलकलेनाकुलीकृतहृदया मनोरमा स्वयमेव धावन्त्यागता । राज्ञो लजमाना नोपगता स्थानमिदम् । तदेषा मातगृहस्य पृष्ठतस्ति ष्ठति । पृच्छति च देवीम् । किमेभिः कथितम् । जीवति मे वत्सो वैशम्पायनः । स्वस्थशरीरो वा । ढौकिते वा पुनर्युवराजस्य । क्व वर्तते । तावागमिष्यतो वा कियद्भिर्दिवसैः’ इति । राजा तु तदुपरतिवार्ताया अपि कष्टतममाकर्ण्य हीर्ण इव शुचा शतगुणीभूतशोकोप्लुताङ्गी विलासवतीभवादीत्-‘देवि, न श्रुतं किंचिदपि वत्सयोः प्रियसख्या ते । अन्यतश्च श्रुत्वा कदाचिजीवितेनैव वियुज्यते । तदुत्तिष्ठ स्वयमेव धैर्यमालम्ब्य सर्ववृत्तान्तानुकथनेन संस्थापय प्रियसखीं तथा यथार्यशुकनासेन सह यातव्यम्’ इत्येवमुत्थाप्य, सपरिजनां विलासवतीं व्यसर्जयत् । आत्मनापि शुकनासेन सह गमनसंविधानमकारयत ।

अथ तथा प्रस्थिते राजनि राजानुरागाच्चन्द्रापीडस्नेहेन चाश्चर्यदर्शनकुतूहलाय प्रथमगतपितृपुत्रभ्रातृमित्रखजनदर्शनाय च गृहरक्षकवर्जमुज्जयिन्याः सकल एव लोको गन्तुमुदचलत् । राजा तु शीघ्रगमनविघातहेतून्समस्तानेव निवर्त्य प्रलघुपरिकरः पिबन्निव पन्थानमेकदिवसेनैव परापतितुमीहमानः स्तोकत एवाध्वनः प्रभृत्युत्ताम्यता हृदयेन कियत्यध्वन्यद्यापि वर्तामहे कतिपयैर्दिवसः परापताम इति मुहुर्मुहुस्तुरंगमारोपितं त्वरितकाहूय पृच्छन्नविच्छिन्नकैः प्रयाणकैर्वहन्नबहुभिरेव दिवसैराससादाच्छोदम् । आसाद्य च विकल्पशतदोलाधिरोहणदुःस्थितेनान्तरात्मना दूरस्थित एव प्रथममाप्ततमानश्रवारान्वार्तान्वेषणाय त्वरितकेन सार्धं प्रहितवान् ।

अथ तैः सार्धमागच्छन्तमुज्झितात्मसंस्कारमलिनकृशशरीरमवनितलनिवेशितोत्तमाङ्गमुद्वाष्पदीनतरदृष्टिं जीवितलज्जया रसातलमिव प्रवेष्टुमीहमानमहमहमिकया परस्परावरणेनै वात्मदर्शनमभिरक्षन्तमक्षतमपि हतमिव सपरिच्छदमपि मुषितमिव जीवन्तमपि मृतमिव ससंभ्रमकृतागमनमपि प्रतीपमाकृष्यमाणचरणमिवाङ्गैरेव सह गलितोत्साहं चौपेनैव सह मुक्त्वात्मानं वैक्लव्येनैव सहोपसर्पन्तं मेघनादपुरःसरं सकलमेव चन्द्रापीडचरणतलनिबद्ध जीवितं राजपुत्रलोकमालोक्योल्लसितनयनः शोकोर्मिवेगाक्रान्तोऽप्युच्छ्वसित इव दृढीभूत चन्द्रापीडदेहाविनाशप्रत्ययान्तरात्मना निवृत्य सावरणपर्याणवर्तिनीं विलासवतीमवादीत् ‘देवि, दिष्ट्या वर्धसे । ध्रियते सत्यमेव शरीरेण वत्सः। येन सकल एवायं तच्चरणकमलानुजीवी राजपुत्रलोकस्तत्पादमूलादागतः’ इति । सा तु तदाकर्ण्य किंचिदात्मपाणिनैवोत्सारितावरणसिचयाञ्चला निश्चलया दृष्ट्याचिरमिवालोक्य तनयनिर्विशेषं राजपुत्रलोकर्मविच्छि न्नाश्रुधारापि धैर्यमुन्मुच्योचैरारटितवती-‘हा वत्स, कथं सहपांशुक्रीडितस्यैतावतो राज पुत्रलोकस्य मध्ये त्वमेवैको न दृश्यसे’ इति । तथा रटन्तीं तु तां समाश्वांस्य दूरत एव राजा समं सर्वलोकेनावनितलनिवेशितोत्तमाङ्गं मेघनादम् ‘इतो ढौकस्ख’ इत्यादिश्योद्विश्याप्राक्षीत- ‘मेघनाद, कथय को वृत्तान्तो वत्सस्य’ इति । स तु व्यज्ञापयत्-‘देव, चेतनाविरहाचेष्टामात्रकमेवापगतं शरीरे पुनयते दिवसे दिवसेऽप्यधिका कान्तिः समुपजा यते’ इति । राजा तु तच्छ्रुत्वा जीवितप्रतिलम्भे समुपजातप्रत्याशः श्रुतं देव्या मेघनादस्य वचनम् । तदेहि । चिरात्पुनः कृतार्थयामो दर्शनेनात्मानम् । पश्यामो वत्सस्य वदनम्’ इत्यभिदधान एवाभिवर्धितगतिविशेषया करेण्वा महाश्वेताश्रममगमत् ।

अथ महमैव तच्चन्द्रापीडगुरुजनागमनमाकर्ण्य पुरः प्रकीर्णतारमुक्तानुकारिनयनबिन्दुसंदोहा ‘हा, हतास्मि मन्दपुण्या दुःखैकभागिनी । न जानाम्येव विस्मृतमरणा कियद्यावदहमनेनानेकप्रकारं खलीकारदानकपण्डितेन दग्धवेधसा परं दग्धव्या’ इत्यभिदधानैव धावित्वा ह्रिया महाश्वेता गुहाभ्यन्तरमविशत् । चित्ररथतनयापि सत्वरोपमृतसखीकदम्बकाव लम्बितशरीरा तूष्णीमेव मोहान्धकारम् । तदवस्थयोश्च तयोः शुकनासावलम्बितशरीरो राजा विवेशाश्रमपदम् । तदनु मनोरमावलम्बिता पुरःप्रधावितोत्प्लुतायततरदृष्टिः ‘क्व मे वत्सः’ इति पृच्छन्ती विलासवती । प्रविश्य च संह तयैव कान्याविरहितमुपरतसर्वप्रयत्नं सुप्तमिव तं पुत्रवत्सला तनयमालोक्य यावन्न परापतत्येव तारापीडस्तावद्विलासवती विधारयन्तीं मनोरमामप्याक्षिप्य दूरत एवं प्रसारितबाहुलताद्वया रयोन्मुक्तजर्जराभिर्नयनजलधाराभिः प्रस्रवेण च सिञ्चन्ती महीतलम् ‘एह्येहि जात दुर्लभक, चिरादृष्टोऽसि । देहि मे प्रतिवचनम् । आलोकय सकृदपि मामनुचितम् । तात, तवैतदस्थानम् । उत्थायाङ्कोपगमनेन मे संपादय तनयोचितं स्नेहम । न चानाकर्णितपूर्व बाल्येऽपि त्वया मद्वचनमा किमेवं विलपन्त्या अपि न शृणोपि । जात, केन रोपितोऽसि । एपा तोपयामि वत्सं पादयोर्निपत्य । पुत्र चन्द्रापीड, प्रणम तावत्प्रत्युद्गम्य त्वत्तेहादेवातिदूरमागतस्यापि पितुः पादौ । क सा गता ते गुरुभक्तिः । क ते गुणाः । क स स्नेहः। कसा धर्मज्ञता। क तत्पितृपक्षपातित्वम् । क सा बन्धुप्रीतिः क सा परिजनवत्सलता। कथमभाग्यैर्मे सर्वमेकपद एवोत्सृज्यैवमौदासीन्यमवलम्ब्यावस्थितोऽसि। अथवा यथा ते सुखं तथा तिष्ठ । वयमुदासीनहृदयास्त्वयि’ इति कृतार्तप्रलापा समुपसृत्य पुनः पुनर्गाढमालिङ्याङ्गानि शिरः समाघ्राय कपोलौ चुम्बित्वा चन्द्रापीडस्य चरणावुत्त माओं कृत्वोन्मुक्तकण्ठमरोदीत्। तथा रुदन्तीं तु तामन्तरितनिजपीडस्तारापीडश्चन्द्रापीडम परिष्वज्यैव सर्वप्रजापीडापहरणक्षमाभ्यां भुजाभ्यामवलम्ब्याब्रवीत्—‘देवि, यद्यथाक्योः सुकृतैरैपत्यतामुपगतस्तथापि देवतामूर्तिरेवायमशोचनीयः । तन्मुच्यतामयमिदानीं मनुष्य लोकोचितः शोचितव्यवृत्तान्तः । अस्मिन्छोके कृते न किंचिदपि भवति । केवलं गल एव स्फुटति रटतो न हृदयम् । निरर्थकं प्रलपितमेव निर्याति वंदनान्न जीवितम् । नि रासङ्गं नयनजलमेव पतति न शरीरम् । अपि च वत्सस्यादर्शनमात्रमेवावयोः पीडाकरम् । तच्चैमालोक्यमाने मुखेऽस्य दूरापेतम् । अपरमस्यामवस्थायामावाभ्यामपि तावत्परमवष्टम्भ कृत्वा मनोरमा शुकनासश्च संधारणीयौ ययोर्लोकान्तरितो वैशम्पायनः । तिष्ठतां तावदे तावपि । यस्याः प्रभावात्पुनरनुभवनीयो वत्सस्य जीवितप्रतिलम्भाभ्युदयमहोत्सवः सैवेयं गन्धर्वराजतनया वधूस्तेऽस्मदागमनशोकोर्मिसंक्रान्तिमूढा सनामग्रहणमुन्मुक्ताक्रन्दाभिः प्रियसखीभिग्राह्यमाणाद्यापि संज्ञां न प्रतिलभते। तदेनां तावदुत्थाप्याङ्के कृत्वा चेतनां लम्भय। ततो यथेच्छं रोदिष्यसि’ इत्यभिहिता राज्ञा विलासवती ‘क्क सा मे वत्सस्य जीवितनिबन्ध नवधूः’ इत्यभिदधयेव ससंभ्रममुपसृत्याप्रतिपन्नसंज्ञामेवाङ्केनादाय कादम्बरीं करेण मूर्च्छानिमीलनाहितद्विगुणतरनयनशोभं वदनमालोक्यानवरतनयनसलिलस्नानार्द्रमिन्दुशकलशीतलं स्वकपोलं कपोलयोर्ललाटे ललाटं लोचनयोश्च लोचने निवेशयन्ती चन्द्रापीडस्पर्शशिशिरेण च पाणिना हृदये स्पृशन्ती ‘समाश्वसिहि मातः, त्वया विनाद्यैव प्रभृति केन संधारितं वत्सस्य मे चन्द्रापीडस्य शरीरम् । मातः, त्वममृतमयीव जातासि येन वत्सस्य पुनर्वदनमालोकितम्’ इत्यवादीत् । कादम्बरी तु तेन चन्द्रापीडनामग्रहणेन तेन ‘तेनिर्विशेषवृत्तिना विलासवती शरीरस्पर्शेन लब्धसंज्ञापि लज्जावनम्रमुखी प्रतिपत्तिमूढा मदलेखयाङ्कादवतार्य परवत्येव यथाक्रममकार्यत वन्दना गुरूणाम् । ‘आयुष्मति, दीर्घकालमविधवा भव’ इति कृताशीर्वादा च शनैरुत्थाप्यातिनिकटे विलासवत्याः पृष्ठतः समुपवेश्याधार्यत । अथ प्रत्यापनचेतनायां चित्ररथतनयायां चन्द्रापीडमेवोजीवितं मन्यमानो राजा चिरमिवास्य गाढमङ्गमालिङ्ग्य चुम्बंश्च पश्यंश्च स्पृशंश्च स्थित्वा मदलेखामाहूयाहूयादिदेश-‘दर्शनसुखमात्रकमस्माकं विधाय मानम्, तचास्माभिरासादितम् । तद्यादृशेनैवोपचारेणैतावतो दिवसानुपचरितवती वधूर्वत्सस्य शरीरं स एवोपचारो नास्मदनुरोधाल्लज्जया वा मनागपि परिहरणीयः। वयं निष्प्रयोजना द्रष्टार एव केवलम् । किमस्माभिरिह स्थितैर्गतैर्वा तस्याः करस्पर्शेनाप्यायितमेतदविनाशि सैव वधूः पार्श्वेऽस्य तिष्ठतु’ इत्यादिश्य निर्जगाम । निर्गत्य चोपकल्पितं निजावासमगत्वैव तपस्वि वासोचितेऽन्यतमस्मिन्नासन्न एवाश्रमस्य शुचिशिलातलसनाथे तरुलतामण्डपे समुपविश्य नि विशेषदुःखं सकलमेव राजचक्रमाहूयाहूय सबहुमानमवादीत् - ‘न भवद्भिरवगन्तव्यं यथाद्य शोकावेगादेवैतदहमङ्गीकरोमि’ इति । पूर्वचिन्तित एवायमों यथा वधूसमेतस्य चन्द्रापीडस्य वदनमालोक्य संक्रामितनिजभरेण मया कचिदाश्रमपदे गत्वा पश्चिमं वयःक्षपितव्यमिति । स चायं मे भगवता कृतान्तेन पुराकृतैः कर्मभिर्वा विरूपैरेवं समुपनमितः । किमपरं क्रियते । अनतिक्रमणीया नियतिः । अप्रापणीयं नानुभूतमात्मचेष्टाकृतं वत्सस्य सुखम् । प्रजापरिपालनफलं तु पुनर्भवद्भुजेष्वेवमक्षतेव विरहितमस्त्येव । अन्यथापि हि चेष्टमानेष्व स्मासु सर्वमेतेष्वेवावस्थितम् । तदिच्छामि चिरकाङ्कितं मनोरथं पूरयितुम् । धन्याश्च जरापी तसारतनवस्तमयेष्वात्मभरमासज्य लघुशरीराः परलोकगमनं साधयन्ति । यच्च बलाद्गले पा दमाधाय यदा तदानिच्छतोऽप्याच्छिद्यत एव कृतान्तेन । तद्यदि पात्रे कचिदपि स्थापयित्वा निजपदं जरापरिभुक्तायुःशेषेण निष्प्रयोजनस्थितिना सर्वसुखबाह्येन मांसपिण्डेन परलोक सुखान्युपार्जन्ते लाभ एवायम् । तदस्य वस्तुनः कृते भवन्तो मया प्रार्थिताः’ इत्युक्त्वा’ सं निहितान्यपि परित्यज्योचितानि सर्वसुखान्यनुचितान्यङ्गीकृत्य वन्यानि । तथा हि । हर्म्य बुद्धिं वृक्षामूलेषु, अन्तःपुरस्त्रीप्रीतिं लतासु, संस्तुतजनस्नेहं हरिणेषु, निवसनरुचिं चीरवल्कलेषु, कुन्तरचनाभियोगं जटासु, आहारहार्द कन्दमूलफलेषु, शस्त्रधारणव्यसनमक्षसूत्रेषु, प्रजापरिपालनशक्ति समित्कुशकुसुमेषु, नार्मालापं धर्मसंकथासु, समररसमुपशमे, जयेच्छां परत्र, कोशस्पृहां तपसि, आज्ञां मौने, सर्वोपभोगरागं च वैराग्ये, तनयस्नेहं तरुषु, संक्रमय्य यास्तपखिजनोचिताः क्रियाः कुर्वन्गंन्धर्वलोकोचितानहरहरुपचारान्कादम्बर्या कथमपि समुत्सृष्टलज्जया महाश्वेतया च क्रियमाणाननिच्छन्नविच्छेदात्सायं प्रातश्चानुभूतचन्द्रापीडदर्शनसुखो दुःखान्यगणयनरपतिः सपरिवारः समं देव्या शुकनासेन च तत्रैवातिष्ठत् ।

इत्येवं च कथयित्वा भगवाञ्जाबालिर्जराभिभवविच्छायं स्मितं कृत्वा हारीतप्रमुखान्सर्वानेव तापसान्छ्रावकानवादीत्—‘दृष्टमायुष्मद्भिरिदमन्तःकरणापहारिणः कथारसस्याक्षेपसा मर्थ्यम् । यत्कथयितुं प्रवृत्तोऽस्मि तत्परित्यज्यै कथारसात्कथयन्नतिदूरमतिक्रान्तोऽस्मि । सद्यः स कामोपहतचेताः स्वयंकृतादेवाविनयादिव्यलोकतः परिभ्रश्यन्मर्त्यलोके वैशम्पायननामा शुकनाससूनुरभवत् । स एवैष पुनः स्वयंकृतेनाविनयेन कोपितस्य पितुराक्रोशान्महा श्वेताकृताच सत्याधिष्ठानादस्यां शुकजातौ पतितः’ इत्येवं वदत्येव, भगवति जाबालौ बाल्येऽपि मे सुप्तप्रबुद्धस्येव पूर्वजन्मान्तरोपात्ताः समस्ता एव विद्या जिह्वाग्रेऽभवन् । सकलासु च कलासु कौशलमुपजातम् । उपदेशाय मनुजस्येव चेयं विस्पष्टवर्णाभिधाना भारती च संवृत्ता । विज्ञानं च सर्ववस्तुविषयं स्मरणं च संवृत्तम् । किं बहुना । मनुष्यशरीरादृते सर्वमन्यत्तत्क्षणमेव मे वैशम्पायनस्य स एव चन्द्रापीडस्योपरि स्नेहः, सैव कामपरवशता, सैव महाश्वेतायामनुरागः, सैव तदवाप्तिं प्रत्युत्सुकतेत्युपगतं सकलमेव । केवलमसंजातपक्षतया मे तस्मिन्समये पूर्वजन्मोपात्ता शरीरचेष्टा नासीत् । तथा चाविर्भूतसकलान्यजन्मवृत्तान्तः समुत्सुकान्तरात्मा किं मातापित्रोः, किं तातस्य तारापीडस्य, किमम्बाया विलासवत्याः, किं वयस्यस्य चन्द्रापीडस्य, उत प्रथमसुहृदः कपिञ्जलस्य, आहोस्विन्महाश्वेताया इति नाज्ञासिषमेवं कस्य कस्य कथं वा स्मृतवानस्मीति । तथा चोत्सुकान्तरात्मा महीतलनिवेशित शिराश्चिरमिव स्थित्वा भगवन्तं जाबालिं निजाविनयश्रवणलज्जया विलीयमान इव विशनिव पातालतलं कथमपि शनैः शनैर्व्यज्ञपयम्’–भगवन् , त्वत्प्रसादाविर्भूतज्ञानोऽस्मि संवृत्तः । स्मृताः खलु मया सर्व एव पूर्वबान्धवाः । मूढतायां च यथैव तेषां स्मरणं नासीत्तथैव विरहपीडापि । अधुना पुनस्तान्स्मृत्वा स्फुटतीव मे हृदयम् । न च तान्स्मृत्वापि तथा यथा चन्द्रापीडं यस्य मदुपरतिश्रवणमात्रकात्स्फुटितं हृदयम् । तत्तस्यापि जन्माख्यानेन प्रसादं करोतु भगवान् । येनायं तिर्यग्योनिवासोऽपि मे तेन सहैकत्र वसतो न पीडाकरः संजायते’ इति ।

एवं च विज्ञापितो मया सासूयमिव मामवलोक्य भगवाजाबालिः सस्नेहकोपगर्भ प्रत्यवादीत्—‘दुरात्मन् , ययैतावतीं दशामुपनीतोऽसि कथं तामेव तरलहृदयतामनुबध्नासि । अद्यापि पक्षावपि नोद्भिद्यते । तत्संचरणक्षमस्तु तावद्भव । ततो मां प्रक्ष्यसि’ इत्येवमुक्ते भगवता समुपजातकुतूहलो हारीतः पप्रच्छ-~‘तात, महानयं विस्मयो मे । कथय कथमस्य मुनिजातौ वर्तमानस्य तादृशी कामपरता जाता । यया जीवितमपि न संधारयितुं पारितम् । कथं च दिव्यलोकसंभूतस्य तथा स्वल्पमायुः संवृत्तम्’ । इत्येवं च पृष्टः सूनुना भगवाञ्जाबालिरमलाभिः पापमलमिव प्रक्षालयन्दशनदीधितिसलिलधाराभिः प्रत्यवादीत्–‘स्पष्टमेवात्र कारणम् । वत्स, अयं हि कामरागमोहमयादल्पसारास्त्रीवीर्यादेव केवलादुत्पन्नः । श्रुतौ च पठ्यत ऐतद्यादृशाद्वै जायते तादृगेव भवतीति। लोकेऽपि च प्रायः कारणगुणभाञ्ज्येव कार्याणि दृश्यन्ते । तथा चैतदायुर्वेदेऽपि श्रूयते । यः किलाल्पसागरात्स्त्रीवीर्योदेव केवलाजन्तुर्भवति स खल्वभावात्सारभूतस्य स्थैर्यहेतोः पुरुषवीर्यस्य, यथासारं गर्भे वा विलयमापद्यते मृतो वा जायते जातो वा न दीर्घकालं जीवतीति । तदयमुत्पन्न एवेदृशो येनास्य तादृशी कामपरता जाता । मरणं च मदनवेगसंज्वरासहिष्णोस्तथोपनतम् । अधुनापि तादृश एवाल्पायुरयम् । शापावसानानन्तरकालं यदस्याक्षगेणायुषा योगो भविष्यति’ इति ।

एतच्छ्रुत्वा पुनरवनितलनिवेशितशिराः प्रणम्य भगवन्तं व्यज्ञापयम्—‘भगवन् , अहम पुण्यवानस्यां तिर्यग्योनौ वर्तमानः स्वयं सर्वस्यैवाक्षमः । वागपि मे भगवतः प्रसादात्संप्रत्येवानने संभूता । भूतपूर्वं च ज्ञानमन्तरात्मनि । शरीरं पुनरायुःसंवर्धककर्मयोग्यं भगवतः प्रसादादन्यस्मिजन्मनि यदि भवेत्, तत्कनै प्रकारेणाक्षयं तन्मे महाकर्मसाध्यमायुर्भविष्यतीत्येतदाज्ञापयतु भगवान्’ इत्येवं विज्ञापितस्तु मया दिक्षु विक्षिप्य चक्षुर्भगवानाज्ञापितवान् ‘एतदपि यथा तथा ज्ञास्यस्येव । तावदियं कथास्ताम् । रसाक्षेपादचेतितैवास्माभिः प्रभातप्राया रजनी । प्रभाविरहादनुन्मृष्टरजतकुम्भाभमिदमपरान्तावलम्बि वर्तते रजनिकरबिम्बम् । यथायथोद्गमविस्तारिणी जरत्तामरसपत्रारुणा पाण्डुच्छविरुल्लसति सीमन्तयन्ती तमःकेशसंघातमिव पूर्वस्याः ककुभोऽरुणाग्रकरालोकततिः । इमाः सशेषतिमिरतयाम्बराकाण्डकलुषं +++((TEXT IS NOT AVAILABLE))+++ लितवनकुसुमपरिमलग्राहिणो वातुं प्रवृत्ताः प्रभातपिशुना वायवः । प्रत्यासन्नाग्निविहारवेला’ इत्यभिधान एव गोष्ठी भक्त्वोदतिष्ठत् ।

अथोत्थिते भगवति जाबालौ वीतरागापि निष्कौतुकापि मोक्षमार्गावस्थानापि समस्तैव सा तपस्विपरिषत्कथारसाद्विस्मृतगुरूचितप्रतिपत्तिः शृण्वतीवोत्कण्ठित्ततया विस्मयोत्फुल्लमुखी युगपदागलितशोकानन्दजन्मनयनसलिला हाकष्टशब्दानुबन्धिनी स्तम्भितेव चिरमिव स्थित्वा यथास्थानं जगाम । हारीतस्तु मां संनिहितेऽपि मुनिकुमारकजने निजकरेणैवोरिक्षप्यात्मपर्णशालांनीत्वा शनैः स्वशयनीयैकदेशे स्पयित्वा प्राभातिकक्रियाकरणाय निर्ययौ । निर्गते च तस्मिंस्तेन सर्वकार्याक्षमेण तिर्यजातिपतनेन देहेन पीडितान्तरात्मा चिन्तां प्रा विशम् । अत्र तावदनेकभवसुकृतसहस्राधिगम्यं मानुष्यमेव दुर्लभम् । तत्राप्यपरं सकलजातिविशिष्टं ब्राह्मण्यम् । ततोऽपि विशिष्टतरमासन्नामृतपदं मुनित्वम् । तस्यापि विशेषान्तरं किमपि दिव्यलोकनिवासित्वम् । तद्येनैतावतः स्थानात्स्वदोषैरात्मा पातितस्तेन कथमधुना सर्वक्रियाविहीनेनास्यास्तिर्यग्जातेः समुद्धृतः स्यात् । कथं वा पूर्वजन्माहितस्नेहैः सह समागमसुखमनुभूतम् । अननुभवतश्च तनिष्प्रयोजनेनामुना जीवितेन किं मे परिरक्षितेन । पततु यत्र तत क्वापि यातनाशरीरम् । सुखं तु नानुभवितव्यममुना दुःखैकभाजनेन । तत्परित्य जाम्येनम् । पूर्यतामस्मद्व्यसनदानैकचिन्तादुःस्थितस्य विधेर्मनोरथः’ इत्येवं च जीवितपरि त्यागचिन्तानिमीलितं मां समुच्छ्वासयन्निव विकासहासिना मुखेन सहसा प्रविश्य हारीतोऽभ्यधात्-‘भ्रातवैशम्पायन, दिष्ट्या वर्षसे । पितुस्ते भगवतः श्वेतकेतोः पादमूलात्कंपिञ्जलस्त्वामेवान्विष्यन्नायातः’ इति ।

अहं तु तच्छ्रुत्वा तत्क्षणेनोत्पन्नपक्ष इवोत्पत्य तत्समीपमेव प्राप्नुमभिवाञ्छन्नुद्ग्रीवावलोकी ‘क्वासौ’ इति तमप्राक्षम् । स त्वकथयत्—‘एष तातपादमूले वर्तते’ इति । एवंवादिनं तु तमहं पुनरवदम्-‘यद्येवं ततः प्रापयतु मां तत्रैव भगवान् । उत्ताम्यति मे हृदयं तद्दर्शनाय’ इत्येवं वदन्नेवाग्रतो गमनागमनवेगादयथास्थितजटाकलापम्, अनिलपथसंचरणचलितैकाञ्च लोत्तरीयम्, तरुत्वचा दृढाबद्धपरिकरम्, अर्धत्रुटितयज्ञोपवीतसनाथास्थिशेषोरस्कम्, निःशेषसुरपथावतरणश्रमोच्छ्वासितशरीरम्, समीरणापेहतमपि मरुत्पथोत्पतनखेदसंभृतम्, उदकप्रवेशान्निस्यन्दमानस्वेदमाननेन, मंदवलोकनदुःखोद्गतं च बाष्पजललवविसरमीक्षणाभ्यां युगपदुत्सृजन्तम् , मुमुक्षुमपि मत्स्नेहेनामुक्तम्, वीतरागमपि मत्प्रियहितरतम्, निःसङ्गमपि मत्समागमोत्सुकम् , निःस्पृहमपि मदर्थसंपादनपर्याकुलम्, निर्मममप्युपारूढस्नेहम् , निरहंकारमप्यहमेवायमिति मां मन्यमानम् , समुज्झितक्लेशमपि मदर्थे क्लिश्यन्तम्, समलोष्टकाञ्च नतासुखितमपि मद्दुःखदुखितम्, कृतज्ञमकृतज्ञः, स्नेहलप्रकृति रूक्षचेताः, सुकृतिनमपुण्यवान्, अनुगतं वामस्वभावः, भावार्द्रहृदयमेकान्तनिष्ठुरः, मित्रं वैरी, वचनकरमनाश्रवः, महात्मानं दुरात्मा, कपिञ्जलमहमद्राक्षम् । दृष्ट्वा च निर्भरगलितनुयनपयास्तादृशोऽपि कृताभ्युद्गमनप्रयत्नः पूत्कृत्य तमवदम्—‘सखे कपिजल, एवं जन्मद्वयान्तरितदर्शनमपि त्वां दृष्ट्वा किं सरभसमुत्थाय दूरत एव प्रसारितभुजद्वयो गाढालिङ्गनेन सुखमनुभविष्यामि । किं करं करेणावलम्ब्यासनपरिग्रहं कारयिष्यामि । किं सुखासीनस्य गात्रसंवाहनं कुर्वञ्छ्रममपनेष्यामि’ इत्येवमात्मानमनुशोचन्तमेव मां कपिञ्जलः करेणोरिक्षप्य मद्विरहदुर्बले वक्षसि निवेश्य चिरमिवान्तःप्रवेशयन्निवालिङ्गनसुखं किल तथा मेऽनुभूय भूयसा मन्युवेगेनोत्तमाङ्गे कृत्वा मच्चरणावितरवदरोदीत् । तथा रुदन्तं च तं वाङ्मात्रप्रतीकारः पुनरवदम्-‘सखे कपिञ्जल, सकलक्लेशपरिभूतस्य पापात्मनो ममेदं युज्यते यत्त्वया प्रारब्धः। त्वं पुनर्बालोऽप्यस्पृष्ट एवामीभिः संसारबन्धात्मकैनिर्वाणमार्गपरिपन्थिभिर्दोषैः । तत्किमधुना मूढजनगतेन वर्त्मना । ‘समुपविश्य तावत्कथयं यथावृत्तं तस्य वार्ताम् । अपि कुशलं तातस्य । स्मरति वा माम् । दुःखितो वा मदीयेन दुःखेन । सद्वृत्तान्तमाकर्ण्य किमुक्तवान् । कुपितो न वा’ इति । स त्वेवमुक्तो मया हारीतशिष्योपैनीते पल्लवासने समुपविश्याङ्के मां कृत्वा हारीतोपनीतेनाम्भसा प्रक्षाल्य मुखमाख्यातवान् —‘सखे, कुशलं तातस्य । अयं चास्मद्वृत्तान्तः प्रथमतरमेव तातेन दिव्येन चक्षुषा दृष्टः । दृष्ट्वा च प्रतिक्रियायै कर्म प्रारब्धम् । समारब्ध एव कर्मणि तुरगभावाद्विमुक्तो गतोऽस्मि तातस्य पादमूलम् । गतं च मां दूरत एवोद्वाष्पदृष्टिर्विषण्णदीनवदनं भयादनुपसर्पन्तमालोक्याहूयाज्ञापितवान्-‘वत्स कपिजल, परित्यज्यतां स्वदोषशङ्का । ममैवायं खलु शठमतेः सर्व एव दोषः । येन जानताप्युत्पत्तिसमय एव वत्सस्य कृते नेदमायुष्कर कर्म निवर्तितम् । अधुना सिद्धप्रायमेवेदम् । न दुःखासिका भावनीया । मत्पादमूले ताव स्थीयताम्’ इत्येवमाज्ञापितस्तु तातेन विगतभीय॑ज्ञापयम्-‘तात, यदि प्रसांदोऽस्ति ततो यत्रैवासावुत्पन्नस्तत्रैव गमनायाज्ञापयतु मां तातः’ इत्येवं विज्ञापितस्तु मया पुनराज्ञापितवान्-‘वत्स, शुकजातावसौपतितः । तद्गत्वापि तमद्य नैव वेत्सि नाप्यसौ त्वां वेत्तीति तत्तिष्ठतु तावत्’ इति । अद्य च प्रातरेवाहूय मामाज्ञापितवान्-‘वत्स कपिञ्जल, महामुनेर्जाबालेराश्रमपदं सुहृत्ते प्राप्तः । जन्मान्तरस्मरणं चास्योपजातम् । तद्गच्छ संप्रति तं द्रष्टुम् । मदीयया चाशिषानुगृह्य वक्तव्योऽसौ । वत्स, यावदिदं कर्म पेरिसमाप्यते तावत्त्वयास्मिन्नेव जाबालेः पादमूले स्थातव्यमिति । अपि च त्वदुःखदुःखिताम्बा ते श्रीरपि तस्मिन्नेव कर्मणि परिचारिका वर्तते । तया तु शिरस्युपाघ्रायैतदेव पुनः पुनः संदिष्टम् । एवमुक्त्वाकठोरशिरीषकुसुमशिखासूक्ष्मायोद्भेदपक्ष्मलानि गात्राणि पुनः पुनः पाणिना परामृश्यान्तर्हृदयेनादूयत । तथा दूयमानहृदयं च तमवदम्-‘सखे कपिञ्जल किं दूयसे । त्वयापि मन्दपुण्यस्य मम कृते तुरंगमतामापनेन पराधीनवृत्तिना बहुतराण्येव दुःखान्यनुभूतानि । कथ सोमपानोचितेनामुनास्येन समुत्पादितसफेनरक्तस्रवाः खरखलीनक्षतयो विसोढाः । कथमयमकठोरकिसलयशयनैकसेवासुकुमारः सदा पर्याणितस्य न शीर्णः पृष्ठवंशः । कथमेषु कुसुमोच्चया पतितबालवनलतास्पर्शमावाक्षमेषु गात्रेषु कशाभिघाता निपतिताः । कथं च ब्रह्मसूत्रोद्वाहिनि देहेऽस्मिन्वध्नोत्पीडनकृताः पीडाः समुपजाताः’ इत्येभिरन्यैश्च पूर्ववृत्तान्तालापैस्तत्काल विस्मृततिर्यग्जातिदुःखः सुखमतिष्ठम् ।

उपारोहति च मध्याह्न सवितरि हारीतः सह कपिञ्जलेन मां यथोचितमाहारमकारयन् । कृताहारश्च कपिञ्जलः क्षणमिव स्थित्वा मामब्रवीत्-‘अहं हि तातेन त्वां समाश्वासयितुं जाबालिपादमूलादा, कर्मपरिसमाप्तेर्न त्वया चलितव्यम्’ इत्येतच्चादेष्टुं विसर्जितः । अन्यदहमपि तवैव कर्मणि व्यग्रतर एव । तद्व्रजामि संप्रति । अहं तु तच्छ्रुत्वा विषण्णवदनस्तं प्रत्यवदम् –‘सखे कपिञ्जल, एवंगते किं ब्रवीमि । किं च तातस्याम्बाया वा संदिशामि । सर्वं त्वमेव वेत्सि’ इति । स त्वेवमुक्तो मया पुनः पुनस्तवावस्थानाय मां संविधाय हारीतं चानुभूतास्मदालिङ्गनसुखो विस्मयोन्मुखेन मुनिकुमारकजनेनेक्ष्यमाणोऽन्तरिक्षमतिक्रम्य काप्यदर्शनमगात् । गते च तस्मिन्हारीतः समाश्वास्य मां शरीरस्थितिकरणायोदतिष्ठत् । उत्थाय चान्यं मुनिकुमारकं मत्पार्श्वे स्थापयित्वा निरगमत् । निर्वर्तितस्नानादिक्रियाकलापश्चात्मनैव सहापराह्णसमये पुनर्मामाहारमकारयत् ।

एवं चावहितचेतसा हारीतेन संवर्ध्यमानः कतिपयैरेव दिवसैः संजातपक्षोऽभवम् । उत्पन्नोत्पतनसामर्थ्यश्च चेतस्यकरवम्-‘गमनक्षमस्तु संवृत्तोऽस्मि तव नाम चन्द्रापीडोत्पत्तिपरिज्ञानम् । महाश्वेता पुनः सैवास्ते । तत्किञ्चिदुत्पन्नज्ञानोऽपि तद्दर्शनेन विनात्मानं निमेषमपि दुःखं स्थापयामि । भवतु । तत्रैव गत्वा तिष्ठामि’ इति निश्चियैकदा प्रातर्विहारनिर्गत एवोत्तरां ककुभं गृहीत्वावहम् । अबहुदिवसाभ्यस्तगमनतया स्तोकमेव गत्वावशीर्यन्त इव मेऽङ्गानि श्रमेण । अशुष्यच्चुञ्चुपुटं पिपासया । नाडिंधमेनाकम्पितकण्ठः श्वासेन । तद् वस्थश्च शिथिलायमानपक्षतिरत्र पताम्यत्र पतामीति परवानेषान्यतमस्य तमस्विनीतिमिरसंघातस्येवार्ककरतिरस्कारिणो घनहरितपल्लवभरावनम्रस्यासन्नतरस्य सरस्तीरतरुनिकुञ्जस्यो पर्यात्मानममुञ्चम् । चिरादिवोन्मुक्ताध्वश्रमक्लमोऽवतीर्य शीतलतरुतलच्छायास्थितो दलगहनसंरोधशिशिरमरविन्दकिंजल्करजोवाससुरभि बिसरसकेपायमापीयमानमेवोत्पादितपुनरुत्कपानस्पृहमा तृप्तेः पयो निपीये यथाप्राप्तैरकठोरकमलकर्णिकाबीजैवरितरुपर्णाङ्कुरफलैश्च कृत्वा क्षुधः प्रतीकारम् , अपराह्नसमये पुनः कियन्तमप्यध्वानं यास्यामीति मनसि कृत्वाध्वश्रमनिःसहान्यङ्गानि विश्रामयितुमन्यतमामविच्छिन्नच्छायां शाखामारुह्य तरोर्मूलभाग एवाव तिष्ठम् । तथास्थितश्चाध्वश्रमसुलभां निद्रामगच्छम् । चिरादिवं च लब्धप्रबोधो बद्धमात्मानमनुन्मोचनीयैस्तन्तुपाशैरपश्यम् । अग्रतश्च पाशविरहितमिव कालपुरुषमतिकठिनतया कालिम्ना च वपुषः कालायसपरमाणुभिरिव केवलैनिर्मितं प्रेतपतिमिवापरं प्रतिपक्षमिव पुण्यराशेराशयमिव पाप्मनो विनापि क्रोधकारणादाबद्धभीषणभृकुटिरौद्रतरेणाननेनौरक्तकेकरतरकनीनिकेन च चक्षुपा सकलजनभयंकरस्य भगवतः कृतान्तस्यापि भयमिवोपजनयन्तमाशये केशेषु चास्निग्धमानने ज्ञाने चान्धकारितं वर्णे चरिते च कृष्णं निवसने कर्मणि च मलिनं वचसि वपुषि च परुषमदृष्टाश्रुतानुरूपमप्याकारप्रत्ययादेवानुमीयमानक्रौर्यदोषं पुरुषमद्राक्षम् । आलोक्य च तं तादृशमात्मन उपरि निष्प्रत्याश एवापृच्छम्-‘भद्र, कस्त्वम् । किमर्थं वा त्वया बद्धोऽस्मि । यद्यामिषतृष्णया तत्किमिति सुप्त एव न व्यापादितोऽस्मि । किं मया निरागसा बन्धदुःखमनुभावितेन । अथ केवलमेव कौतुकात् । ततः कृतं कौतुकम् । मुञ्च मामिदानीं भद्रमुखः । मया खलु वल्लभजनोत्कण्ठितेन दूरं गन्तव्यम् । अकालक्षेपक्षमं वर्तते में हृदयम् । भवानपि प्राणिधर्मे वर्तते । एवमुक्तः स मामुक्तवान् - ‘महात्मन्, अहं खलु क्रूरकर्मा जात्या चाण्डालः । न च मया त्वमामिषलुब्धेन कुतूहलेन वा बद्धः । मम खलु स्वामी पक्कणाधिपतिरितो नातिदूरे मातङ्गकप्रतिबद्धायां भूमौ कृतावस्थानः तस्य दुहिता कौतुकमये प्रथमे वयसि वर्तते । तस्यास्त्वं केनापि दुरात्मना कथितो यथा जाबालेराश्रम एवंगुणविशिष्टो महाश्चर्यकारी शुकस्तिष्ठति । तया च श्रुत्वोत्पन्नकौतुकात्त्वद्ग्रहणाय बहव एवापरे मादृशाः समादिष्टाः । तदद्य पुण्यैर्मयासादितोऽसि । तदहं तत्पादमूलं त्वां प्रापयामि । बन्धमोक्षे चाधुना सा ते प्रभवति’ इति ।

अहं तच्छ्रुत्वा मुक्ताशनिनेव ताडितः शिरसि संविग्नान्तरात्मा चेतस्थकरवम् - ‘अहो मे मन्दपुण्यस्य दारुणतरः कर्मणां विपाकः । येन मया सुरासुरशिरःशेखराभ्यर्चितचरणसरसिजायाः श्रियो जातेन जगत्रयनमस्यस्य महामुनेः श्वेतकेतोः स्वहस्तसंवर्धितेन दिव्यलोकाश्रमनिवासिना भूत्वा म्लेच्छजातिभिरपि दूरतः परिहतप्रवेशमधुना पकणं प्रवेष्टव्यम् । चण्डालैः सहैकत्र स्थातव्यम् । जेरन्मातङ्गाङ्गनाकरोपनीतैः कवलैरात्मा पोषणीयः। चण्डालबालकजनस्य क्रीडनीयेन भवितव्यम् । दुरात्मन् पुण्डरीकहतक, धिग्जन्मलाभं ते । यस्य कर्मणामयमीदृशः परिणामः । किमर्थं प्रथमगर्भ एव न सहस्रधा शीर्णोऽसि । मातः, श्रीरशणजनशरणचरणपङ्कजेऽतिगहनभीषणाद्रक्ष मामस्मान्महानरकपातात् । तात भुवनत्रयत्राणक्षम, त्रायस्व, कुलतन्तुमेकम् । त्वयैव संवर्धितोऽस्मि । वयस्य कपिञ्जल, यदि परापत्य त्वयास्मात्पापान मोचितोऽस्मि तदा जन्मान्तरेऽपि पुनर्मा कृथा मत्समागमप्रत्याशाम्’ इति । एतानि चान्यानि च चेतसा विलप्य पुनस्तमभ्यर्थनादीनमवदम्-‘भद्र मुख, जातिस्मरो मुनिरस्मि जात्या । तत्तवापि मामस्मान्महतः पापसंकटादुद्धृत्य धर्मो भवत्येवाहप्रसुखहेतुः । दृष्टेऽपि चे केनचिदपरेणादृष्टस्य मन्मुक्तिकृतः प्रत्यवायो नास्त्येव । तन्मुञ्चतु मां भद्रमुखः’ इत्यभिदधानश्च पादयोरपतम् । स तु विहस्य मामब्रवीत्-‘रे मोहान्ध, यस्य शुभाशुभकर्मसाक्षीभूताः पञ्च लोकपालास्तवैवात्मशरीरस्थिता न पश्यन्ति सोऽन्यस्य भयादकार्यं नाचरति तन्त्रीतोऽसि मया स्वाम्याज्ञया’ इत्येवमभिधान एव मामा दाय पक्वणाभिमुखमगच्छत् ।

अहं तु तेन तद्वचसाभिहत इव मूर्ध्नि मूकतामापन्नः केषां पुनः कर्मणामिदं मे फलमि त्यन्तरात्मनाभिध्यायन्प्राणपरित्यागं प्रतिकृतनिश्पोऽभवम् । नीयमानश्च तथा तेन तन्मोचनप्रत्याशयैवाग्रतो दत्तदृष्टिराविष्टैरिव बीभत्सविन्यासैावृत्तैश्चावर्तकानायपरिभ्रमणानि भृतैश्च मृगावपाटितजीर्णवागुरासंग्रन्थनव्यप्रैश्चोत्रुटितकूटपाशसंग्रन्थनायस्तैश्च हस्तस्थितसकाण्डकोदण्डैश्च प्रासप्रचण्डपाणिभिश्च सेलपाहिमिश्च नानाविधग्राहकविहंगवाचालनकुशलैः कौलेयकमुक्तिसंचारणचतुरैश्चण्डालशिशुभिर्वृन्दशो दिशि दिशि मृगयां क्रीडद्भिर्दूरत ऐवावेष्ट्यमानम्, इतस्ततो विस्त्रगन्धिधूमोद्गमानुमीयमानसान्द्रवंशवनान्तरितवेश्मसंनिवेशम् । सर्वतः करङ्कप्रायवृतिवाटम्, अस्थिप्रायरथ्यावकरकूटम्, उत्कृत्तमांसमदोवसामुकदमप्राय कुटीराजिरम्, आखेटप्रायाजीवम् , पिशितप्रायाशनम् , वसाप्रायस्नेहम्, कौशेयप्रायपरिधानम्, चर्मप्रायास्तरणम्, सारमेयप्रायपरिवारम्, धवलीप्रायवाहनम्, स्त्रीमद्यप्रायपुरुषार्थम्, असृक्प्रायदेवताबलिपूजम्, पशूपहारप्रायधर्मक्रियम्, आकारमिव सर्वनरकाणाम् , कारणमिव सर्वाकुशलानाम्, संनिवेशमिव सर्वश्मशानीनाम्, पत्तनमिव सर्वपापानाम्, आयतनमिव सर्वयातनानाम् , स्मर्यमाणमपि भयंकरम, श्रूयमाणमप्युद्वेगकरम्, दृश्यमानमपि पापजननम्, जन्मकर्मतो मलिनतरजनम्, जनतो निस्त्रिंशतरलोकहृदयम्, लोकहृदयेभ्योऽपि निघृणतरसर्वसंव्यवहारसमस्तपुरुषम्, अविशेषाचारबालयुवस्थविरम्, अव्यवस्थितगम्यागम्याङ्गनोपभोगम्, अपुण्यकर्मैकापणं पक्वणमपश्यम् ।