विस्तारः (द्रष्टुं नोद्यम्)
आङ्ग्लानुवादो ऽत्र ।
एवं समतिक्रामत्सु दिवसेषु, राजा चन्द्रापीडस्य यौवराज्याभिषेकं चिकीर्षुः, प्रतीहारान् उपकरण-सम्भार-सङ्ग्रहार्थम् आदिदेश । समुपस्थित-यौवराज्याभिषेकं च तं कदाचिद् दर्शनार्थम् आगतम्, अरूढविनयम् अपि विनीततरम् इच्छञ्+++(५)+++, +शुकनासः सविस्तरम् उवाच -
प्रतिज्ञा
तात चन्द्रपीड, विदित-वेदितव्यस्य अधीत-सर्व-शास्त्रस्य ते नाल्पम् अप्य् उपदेष्टव्यम् अस्ति ।
केवलं च, निसर्गत एव अभानुभेद्यम् अरत्नालोकोच्-छेद्यम् अप्रदीप-प्रभाऽपनेयम् अति-गहनं तमो यौवन-प्रभवम् ।+++(र५)+++
अ+++(वयः)+++परिणामोपशमो दारुणो लक्ष्मीमदः । कष्टम् +++(ओषध्य्)+++अनञ्जन-वर्ति-साध्यम् परम् ऐश्वर्य-तिमिरान्धत्वम्+++(=cataract)+++ ।+++(५)+++
अशिशिरोपचार-हार्यो ऽतितीव्र-दर्प-दाह-ज्वरोष्मा ।
सततम् अमूल-मन्त्र-गम्यो विषमो विषय-विषास्वाद-मोहः । नित्यम् अस्नान-शौच-वध्यो राग-मलाऽवलेपः ।+++(५)+++
अजस्रम् अक्षपावसान-प्रबोधा घोरा च राज्य-सुख-सन्निपात-निद्रा भवतीति विस्तरेणाऽभिधीयसे ।
गर्भेश्वरत्वम् अभिनव-यौवनत्वम् अप्रतिम-रूपत्वम् अमानुष-शक्तित्वं चेति महतीयं खल्व् अनर्थ-परम्परा सर्वा । अविनयानाम् एकैकम् अप्य् एषाम् आयतनम्, किम् उत समवायः ।+++(५)+++
यौवनम्
यौवनारम्भे च प्रायः शास्त्र-जल-प्रक्षालन-निर्मला ऽपि कालुष्यम् उपयाति बुद्धिः । अनुज्झित-धवलता ऽपि सरागैव भवति यूनां दृष्टिः ।
अपहरति च वात्येव शुष्कपत्रं समुद्भूत-रजो-भ्रान्तिर् अतिदूरम् आत्मेच्छया यौवन-समये पुरुषं प्रकृतिः ।
विषयोपभोगः
इन्द्रिय-हरिण-हारिणी च सतत-दुरन्तेयम् उप-भोग-मृग-तृष्णिका ।+++(५)+++ नव-यौवन-कषायिताऽत्मनश् च सलिलानीव तान्य् एव विषय-स्वरूपाण्य् आस्वाद्यमानानि मधुर-तराण्य् आपतन्ति मनसः । नाशयति च दिङ्-मोह इव +उन्मार्ग-प्रवर्तकः पुरुषम् अत्यासङ्गो विषयेषु ।
उपदेशयोग्यता
भवादृशा एव भवन्ति भाजनान्य् उपदेशानाम् । अपगत-मले हि मनसि स्फटिक-मणाव् इव रजनिकर-गभस्तयो विशन्ति सुखेनोपदेशगुणाः ।+++(र५)+++
गुरुवचनम् अमलम् अपि सलिलम् इव महद् उप-जनयति श्रवण+++(-विवर)+++-स्थितं शूलम् अभव्यस्य ।+++(५)+++ इतरस्य तु करिण इव शङ्खाऽऽभरणम् आनन-शोभा-समुदयम् अधिकतरम् उपजनयति । हरत्य् अति-मलिनम् अन्धकारम् इव दोष-जातं प्रदोष-समय-निशाकर इव । गुरूपदेशः प्रशम-हेतुर्, वयः-परिणाम इव पलित-रूपेण शिरसिज-जालम् अमली-कुर्वन्, गुण–रूपेण तद् +++(दोष-जालम्)+++ एव परिणमयति ।
अयम् एव चानास्वादित-विषय-रसस्य ते काल उपदेशस्य। कुसुम-शर–शर-प्रहार-जर्जरिले हि हृदये जलमिव गलत्य् उपदिष्टम् ।
अकारणं च भवति दुष्प्रकृतेर् अन्वयः+++(=वंशः)+++, श्रुतं वा विनयस्य । चन्दनप्रभवो न दहति किमनलः? किं वा प्रशमहेतुनाऽपि न प्रचण्ड-तरो भवति वडवानलो वारिणा?+++(५)+++
गुरूपदेशमाहत्यम्
गुरूपदेशश् च नाम पुरुषाणाम् अखिल-मल-प्रक्षालन-क्षमम् अजलं स्नानम्+++(५)+++, अनुपजात-पलितादि-वैरूप्यम् अजरं वृद्धत्वम्, अनारोपित-मेदो+++(=मांसस्नेह)+++-दोषं गुरू-करणम्+++(५)+++, असुवर्ण-विरचनम् अग्राम्यं कर्णाभरणम्, अतीतज्योतिर् आलोकः, नोद्वेगकरः प्रजागरः+++(५)+++ ।
राजोपदेशकाठिन्यम्
विशेषेण राज्ञाम्। विरला हि तेषाम् उपदेष्टारः। अहङ्कार-मूला हि राज-प्रकृतिः। प्रति-शब्दक इवाऽनुगच्छति राज-वचनम् जनो भयात्+++(५)+++। उद्दाम-दर्प-श्वयथु+++(=वृद्धमांस)+++-स्थगित-श्रवण-विवराश् चोपदिश्यमानम् अपि ते न शृण्वन्ति शृण्वन्तोऽपि च, +++(मद)+++गज-निमीलितेनावधीरयन्तः+++(र५)+++।
अहङ्कार-दाह-ज्वर-मूर्च्छान्धकारिता विह्वला हि राजप्रकृतिः ।
धनमदः
अलीकाभिमानोन्माद-कारीणि धनानि। राज्य-विष-विकार-तन्द्रीप्रदा राज-लक्ष्मीः । आलोकयतु तावत् कल्याणाऽभिनिवेशी लक्ष्मीम् एव प्रथमम् ।
लक्ष्मीप्रकृतिगुणाः
इयं हि सुभट-खड्ग-मण्डलोत्पल-वन-विभ्रम-भ्रमरी लक्ष्मीः क्षीर-सागरात् -
पारिजात-पल्लवेम्यो रागम्,
इन्दु-शकलाद् एकान्त-वक्रताम्+++(५)+++,
उच्चैःश्रवसश् चञ्चलताम्,
कालकूटान् मोहन-शक्तिं, मदिराया मदम्,
कौस्तुभ-मणेर् नैष्ठुर्यम्+++(५)+++
इत्येतानि सहवास-परिचयवशाद् विरह-विनोद-चिह्नानि गृहीत्वैवोद्गता ।+++(५)+++
रक्षणकाठिन्यम्
न ह्य् एवं-विधम् अपरिचितम् +++(तेन दाक्षिण्यरहितम्)+++ इह जगति किञ्चिद् अस्ति यथेयम् अनार्या ।
लब्धापि खलु दुःखेन परिपाल्यते । दृढ-गुण-पाश-सन्दान-निष्पन्दीकृता ऽपि नश्यति । उद्दाम-दर्प-भट-सहस्रोल्लासिता-ऽसि-लता-पञ्जर-विधृता ऽप्य् अपक्रामति । मद-जल-दुर्दिनान्धकार-गज-घटित-घन-घटा-परिपालिता ऽपि प्रपलायते । न परिचयं रक्षति ।
अगुणान्तर-मैत्री
नाभिजनम् ईक्षते । न रूपम् आलोकयते । न कुलक्रमम् अनुवर्तते । न शीलं पश्यति । न वैदग्ध्यं गणयति । न श्रुतम् आकर्णयति । न धर्मम् अनुरुध्यते +++(अनूपसर्गाद् एवं रूपम्)+++ । न त्यागम् आद्रियते । न विशेषज्ञ-तां विचारयति । नाचारं पालयति । न सत्यम् अनुबुध्यते । न लक्षणं प्रमाणी-करोति ।
भ्रमणशीलता
गन्धर्व-नगर-लेखा+++(५)+++ +इव पश्यत एव नश्यति ।
अद्याप्य् आरूढ-मन्दर-परिवर्ता-वर्त-भ्रान्ति-जनित-संस्कारेव परिभ्रमति।+++(५)+++ कमलिनी-सञ्चरण-व्यतिकर+++(=व्यतिषङ्ग)+++-लग्न-नलिन-नाल-कण्टक-क्षतेव न किञ्चिद् अपि निर्भरम् आबध्नाति पदम्। अति-प्रयत्न-विधृता ऽपि परमेश्वर-गृहेषु विविध-गन्ध-गज-दण्ड-मधु-पान-मत्तेव परिस्खलति।
दुष्टाश्रयशीलता
पारूष्यम् इवोपशिक्षितुम् असि-धारासु निवसति।+++(५)+++
विश्वरूपत्वम् इव ग्रहीतुम् आश्रिता नारायण-मूर्तिम्।
अप्रत्यय-बहुला च दिवसान्त-कमलम्+++(३)+++ इव समुपचित-मूल+++(राज्य)+++-दण्ड+++(=सेना)+++-कोश-+++(मित्रराज)+++मण्डलम् अपि मुञ्चति भूभुजम्। लतेव विटपकान्+++(=दुर्जननायकान्)+++ अध्यारोहति । +++(महाभारते शन्तनुपत्नी)+++ गङ्गेव वसु-जनन्य् अपि तरङ्ग-बुद्बुद-चञ्चला।
दिवस-कर-गतिर् इव प्रकटित-विविध-संक्रान्तिः। पातालगुहेव तमोबहुला। हिडिम्बेव भीम-साहसैकहार्य-हृदया+++(5)+++। प्रावृड् इवाचिर-द्युति-कारिणी+++(5)+++। दुष्ट-पिशाचीव +++(गृहीतस्य स्वाभिप्राये)+++ दर्शितानेक-पुरुषोच्छ्रया स्वल्प-सत्त्वम् उन्मत्ती-करोति ।
… परस्पर-विरुद्धं चेन्द्र-जालम् इव वर्शयन्ती प्रकटयति जगति निजं चरितम् । तथाहि । सततमूष्माणमुपजनयन्त्यपि जाड्यमुपजनयति । उन्नतिमादधानापि नीचस्वभावतामाविष्करोति । तोयराशिसम्भवा अपि तृष्णां संवर्धयति । ईश्वरतां दधानापि अशिवप्रकृतित्वम् आतनोति । बलोपचयमाहरन्त्यपि लघिमानमापादयति । अमृतसहोदरा अपि कटुकविपाका, विग्रहवत्यपि – अप्रत्यक्षदर्शना, पुरुषोत्तमरतापि खलजनप्रिया, रेणुमयीव स्वच्छमपि कलुषीकरोति । यथायथा चेयं चपला दीप्यते तथातथा दीपशिखेव कज्जलमलिनमेव कर्मकेवलमुद्वमति । तथाहि – इयं सम्वर्धनवारिधारा तृष्णाविषवल्लीनाम्, व्याधगीतिः इन्द्रियमृगाणाम्, परामर्शधूमलेखा सच्चरितचित्राणाम्, विभ्रमशथ्या मोहदीर्घनिद्राणाम्, निवासजीर्णवलभी धनमदपिशाचिकानाम्, तिमिरोद्गतिः शास्त्रदृष्टीनाम्, पुरः पताका सर्वाविनयानाम्, उत्पत्तिनिम्नगा क्रोधावेगग्राहाणाम्, आपानभूमिः र्विषय – मधूनाम्, संगीतशाला भ्रूविकारनाट्यानाम्, आवासदरी दोषाशीविषाणाम्, उत्सारणवेत्रलता सत्पुरुषव्यवहाराणाम्, अकालप्रावृड् गुणकलहंसकानाम्, विसर्पणभूमिर्लोकापवादविस्फोटकानाम्, प्रस्तावना कपटनाटकस्य, कदलिका कामकरिणः, वध्यशाला साधुभावस्य, राहुजिह्वा धर्मेन्दुमण्डमस्य ।