पाठान्तरम्

[[विश्वगुणादर्शचम्पूः Source: EB]]

[

[TABLE]

[TABLE]

[TABLE]

एतत्पुस्तकस्य सर्वेऽप्यधिकाराः सन १८६७ तमवर्षस्य २५ तमराजकीयनियमानुसारेण लेखारूढीकृत्य प्रकाशयित्रा स्वाधीना एव रक्षिताः

॥ ॐ नमः परमात्मने ॥

॥ भूमिका॥
<MISSING_FIG href="../books_images/U-IMG-1722661538Screenshot2024-07-10063051.png"/>

भो भो विविधकाव्य-नाटकालङ्कार-साहित्यपारावारपारीणाः सहृदया मनीषिणः, विदाङ्कुर्वन्तु तत्रभवन्तः—गीर्वाणभाषापारावारतितीर्षूणां सरसकाव्यपरिशीलनतरणिसमारोहण विना उपायान्तरं तावन्न श्रूयते। तदर्थमेव च कविकुलगुरुश्रीकालिदास-भवभूति-बाणभट्टप्रभृतिभिः कविमण्डलाग्रेसरै रघुवंश-कुमारसम्भव-मालतीमाधव-कादम्बर्यादीनि सपदि रसिकजनमनोविनोदजनकानि संस्कृतभाषाव्युत्पित्सुजनानां सद्यः सम्यक्तया तद्व्युत्पत्तिसम्पादकानि च गद्य-पद्यप्रचुराणि काव्यादीनि विरचितानि जाग्रत्येव। एतादृशकाव्यस्यैव च लक्षणादिपरिज्ञानार्थं तदवान्तरव्यङ्ग्य-ध्वनि-रस-दोष-गुणालङ्कारादिप्रतिपादनार्थञ्च तत्रभवद्भिर्मम्मटादिभिः काव्यप्रकाशादयो ग्रन्था विरचितास्तत्र च “तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि” इत्यादि काव्यलक्षणं च निर्दिष्टम्। (अत्र तच्छब्देन काव्यं ज्ञेयम्) कैश्चित् तु “रमणीयार्थप्रतिपादकः शब्दः काव्यम्” इत्याद्येव लक्षणमुक्तम्। कथमप्यस्तु, परं च उभयत्रापि आस्वाद्यव्यञ्जकत्वरूपलक्षणस्य विद्यमानत्वात् सहृदयहृदयाह्लादजनकं काव्यम् इति सामान्यतः सङ्क्षिप्तलक्षणं भवितुमर्हति। तच्च केवलं पद्यप्रचुरं, गद्यप्रचुरं, गद्यपद्यमिश्रं वास्तु, सर्वमपि तत्पूर्वोक्तलक्षण एवान्तर्भवति। किञ्च तद् दृश्य-श्रव्यभेदाद् द्विधा भिन्नं, यत्केवलं वाचन-श्रवणसमकालमेव रसिकजनानां मनसि आह्लादजननपूर्वं चमत्कारं जनयति तच्छ्रव्यम्। यच्च धीरवीरपुरुषचरितप्रचुरं विशेषतः प्रत्यक्षतयाभिनीय प्रदर्शितं तद्रसविच्चित्तमानन्दयति तद्दृश्यम्। अत एव तन्नाटकमित्यभिधीयते पूर्वोक्तं च केवलं काव्यशब्देनैव व्यवह्रियते। एतस्मिन्नपि चम्पूशब्दाभिधेय एको भेदो भवति। (तस्य लक्षणं च “गद्य-पद्यात्मकं काव्यं चम्पूरित्यभिधीयते” इति प्रसिद्धम्। एतल्लक्षणसं- यं प्रकृता विश्वगुणादर्शचम्पूः प्रथते यत्सम्बन्धेन किञ्चिद्वक्तुमभिलषाम इति।

इयं च श्रीमता तत्रभवता सुगृहीतनाम्ना वेङ्कटाध्वरिणा महाकविना विरचिता। अयं श्रीरामानुजमतानुयायी श्रीमहालक्ष्म्या भक्तश्चासीत्। अयं तावत्कस्मिन् काले आविर्भूय स्वपितरावानन्दयत् तदादि प्रत्यक्षतया न प्रतीयते, किन्तु अनेनास्मिन्नेव ग्रन्थे द्वितीय-तृतीयश्लोकयोः सङ्क्षेपेण स्वकीयवृत्त निवेदितं तस्मादयश्रीमदप्पयगुरोर्नप्ता, श्रीरघुनाथदीक्षितस्य च पुत्र इत्येव ज्ञायते। अयमप्पयगुरुः कुवलयानन्द-चित्रमीमांसादिग्रन्थकर्तुस्तत्रभवतः अप्पयदीक्षिताद्भिन्नइत्यवगम्यते। यतः स अप्पयदीक्षितो द्रविडजातीयः, भगवतः श्रीशिवस्य परमो भक्तः, अद्वैतमतपक्षपाती, वैष्णवमत-खण्डकश्चासीदिति तद्वृत्ततः श्रूयते। किञ्च व्यङ्कटपतिनामधेयस्य कस्यचिद्राज्ञः सभायां वेदान्त-धर्मशास्त्रादिविषये ताताचायमतमनन

खण्डितम्। ततःप्रभृति ताताचार्यः अप्पयदीक्षितेन दृढतरबद्धवैर आसीत्। नैतावदेव केनापि प्रकारेणायं हन्तव्य इत्यपि निश्चिकाय। ततश्चैकस्मिन् समये ताताचार्येण तत्रभवन्तं दीक्षितं विपिनमार्गेण गच्छन्तं ज्ञात्वा तद्वधाय चण्डालाः प्रेषिताः, परन्तु तेन तपस्विना शिवभक्तिप्रभावः केवल द्वेषपरवशतया नावगतः। तत एव तस्मिन्नरण्ये कश्चिद्वीरपुरुषः सहसाऽऽविर्भूय तेन चण्डालाः परिभूताः इत्यादि। अस्तु नामैतत्। अत्रत्योऽयम् अप्पयगुरुस्तु ताताचार्यस्य भागिनेयः इति निश्चीयते। ताताचार्यस्तु कर्नाटदेशीयस्य कृष्णरायाख्यस्य राज्ञो गुरुः, परोपकाररतश्चासीत्। अनेन**‘सात्विकब्रह्मविद्याविलासः’** इति प्रसिद्धो वेदान्तशास्त्रग्रन्थो व्यरचि इत्यपि श्रूयते।

अत्र (मुम्बय्याम्) कर्नाटकनाम्नि मुद्रणयन्त्रालये मुद्रितपुस्तके आङ्ग्लभाषामयप्रस्तावनायामस्य विश्वगुणादर्शकर्तुर्वृत्तं दृश्यते तदित्थम्—

‘अयं विश्वगुणादर्शकर्ता वेङ्कटाध्वरिनामा कविः नीलकण्ठदीक्षितसमकालः तत्सहाध्यायी चासीत्’ इति। ततश्चैवं प्रतिपद्यते-नीलकण्ठदीक्षितः, अप्पयदीक्षितस्य पौत्रः नारायणदीक्षितस्य च पुत्र आसीदिति काव्यमालाख्यमासिकपुस्तकस्य प्रथमगुच्छान्तर्गतश्रीमदप्पय-दीक्षितप्रणीतवैराग्यशतकाख्यग्रन्थस्य प्रथमश्लोकटिप्पण्यां दृश्यते। अनेन नीलकण्ठचम्पू रचिता, तत्प्रारम्भे स्वकीयग्रन्थनिर्माणकालश्चापि निर्दिष्टः—‘अष्टात्रिंशदुपस्कृतसप्तशताधिकचतुःसहस्रेषु। (४७३८) कलिवर्षेषु गतेषु ग्रथितः किल नीलकण्ठविजयोऽयम् ॥’ इति। तस्मादेव निश्चीयते, ४७३८ तमे वर्षे ख्रिस्ताब्दं १६३७ तमं तस्मिन्नेव वर्षे नीलकण्ठचम्पूर्विरचिता, तत्समकालीनश्चायं वेङ्कटाध्वरिनामा कविरासीत्, ततश्च २६२ वत्सरेभ्यः प्राक्अयं विश्वगुणादर्शकर्ता कविः सुप्रसिद्ध आसीद् इति। परं च तेनायं ग्रन्थः कस्मिन् वर्षे निर्मित इति तु न याथार्थ्येन निश्चेतुं शक्यते, केवल २६० वर्षेभ्यः प्राक्तनकालीनोऽयं ग्रन्थ इत्यनुमीयते। अन्यदप्यत्रत्यमुद्रितपुस्तकप्रस्तावनायां किञ्चिद्वृत्तमुपलभ्यते—

‘अयं वेङ्कटाध्वरी काञ्चीपुरसमीपे ‘अर्शनफल’ नाम्नि अग्रहारे प्रतिवसति स्म। ‘वडघले’ इत्याख्यवैष्णवसम्प्रदायपक्षपातिताताचार्यान्वयोत्पन्नश्चासीत्’ इति। अथ उपरि ‘वघडले’ इत्याख्यो वैष्णवसम्प्रदाय उक्तः तत एव अन्यसम्प्रदायसत्त्वस्याकाङ्क्षा उत्पद्यते, तत्परिपूरणार्थमन्यमतस्यापि निरूपणं यत्किञ्चिदपि प्रसङ्गादापतितं, ततश्चैतत्पथप्रवर्तकस्य रामानुजस्वामिनोऽपि किञ्चिच्चरित्रलेखनं प्रसङ्गं नातिक्रामति। तच्च रामानुजीयं वृत्तं पुस्तकद्वये द्विधा श्रूयते। तत्र महाराष्ट्रभाषायां कविचरित्राभिधमेकं पुस्तकं सुप्रसिद्धं विद्यते तस्मिन्नेवमस्य वृत्तान्तः—

‘अयं रामानुजाचार्यः श्रीमच्छकरमतप्रतिपक्षी शालिवाहनशकस्य ११ दशे शतके ‘दीरासमुद्र’ इत्याख्यनर्गरस्याधिपतौ ‘बेटावर्धन’ नाम्नि राज्ञि महीं शासति ‘श्रीपेनुमुतूर’ नाम्नि ग्रामे श्रीकेशवाचार्यपत्न्यां कान्तिमत्यामाविर्बभौ। अयं च ग्रामः चन्नपट्टण (मद्रास) पुराद्द्वादशक्रोशेषु काञ्चीनाम्नाभाषायां ‘कञ्जेवरम्’ इति नाम्ना वा यत्प्रसिद्धं नगरं विद्यते तदध्वन्येव वर्तते। एतस्मिन्नेव ग्रामे उपनयनादनन्तरं

श्रीमता रामानुजेन यादवप्रकाशाख्यस्वमातुलात्‌ वेद-शास्त्रादिप्रावीण्यं सम्पादितम्‌। ततश्चायं स्वकीयग्रामे एवैकं चिञ्चातरुमूलमाश्रित्यैकाग्रेण मनसा भगवन्तं श्रीरामामुपासाञ्चक्रे, ततस्तत्प्रासादादेव जीवेश्वरयोर्भेदवादमाश्रित्य अद्वैतवादिनः श्रीशङ्करस्वामिनो मतं प्रयाचख्यौ, लोकांश्च श्रीसीतारामपूजनं त्रिपुण्ड्रधारणादिसम्प्रदायान्‌ ग्राहयामास। ततश्चानेकविधदेशेषु सञ्चारमारचय्य तत्रत्र्यान्‌ जनान्‌ स्वमतमुपदिदेश। एवं पर्यटन्‌ “दोरासमुद्र” नगरमेत्य तत्रत्यराजकन्यायाः पिशाचबाधां न्यवर्तयत्‌। ततः सुप्रसन्नेन राज्ञा तस्मै मूल्यवन्तिं वस्त्रालङ्कारादीनि पारितोषिकाणि दत्तानि स्वयं च तस्माद्वैष्णवधर्ममङ्गीचकार। एवमयं यमदुनाचार्येण स्वस्य प्रियछात्रेण सह तिरुपति-जगन्नाथ-काशी-जयपुरादिमहाक्षेत्रेषु सञ्चरन्‌ तत्रस्थब्राह्मणान्‌ वैष्णवदीक्षितान्‌ सम्पादयामास कतिचिन्मठांश्चस्थापयामास। किञ्चास्य वैष्णवधर्मप्रवचनं श्रुत्वा जयपुरमहाराजः अतीव ननन्द स्वपुरस्थान्‌ जैनांश्चतैलयन्त्रेविनिष्पीड्यजघान। एवमयं पर्यटन्‌ बदरीक्षेत्रं गत्वातत्रस्थनारायणं देवं च स्तुत्वास्वदेशमाजगाम। तत्र चानेन व्याससूत्रभाष्यं, (रामानुजभाष्यं) भगवद्गीताभाष्यं, तर्कभाष्यंचेत्यादयोबहवो ग्रन्था विरचिताः। तथा चाय स्वमतस्थवैष्णवद्विजकृते एकां धर्मसंहितामपि रचयामास। एवं सर्वमपि जीवितकालं भगवद्भक्त्या वेदान्तादिग्रन्थपरिशीलनेन च निर्यापितवान्‌। एनं सर्वेऽपि तदनुयायिनः शेषावतारं मन्यन्ते, अत एव तैः स्वाचार्यस्यधातुमयी प्रकृतिकृतिरपि निर्मिता सा चाद्यावधि पूज्यतेऽपि। अस्यैकमासनं ‘तादरी’ नाम्निग्रामे तेङ्गल (महाराष्ट्रभाषायां ‘तिङ्गल’) पथप्रवर्तकं वर्तते। अहोबलनाम्निमठे च ‘वडघले’ ( भाषायां ‘वडगल’) इत्याख्यसम्प्रदायप्रवर्तक च विद्यते, अन्यदप्येकमासनं ‘गलता’इत्याख्यग्रामे वर्तते। वडघले-तेङ्गलसम्प्रदाययोः कालान्तरेण मतभेदात्‌ कलहश्चाजनि’ इति।

अत्रत्यमुद्रितपुस्तके च कल्पितोदन्तः (दन्तकथा) इति यद्वृतं निवेशिन्ततत्‌—

“ख्रिस्ताशकस्य११ दशे शतके दाक्षिणाये जनपदे (दक्षिणहिन्दुस्थानाख्ये देशे) सामाजिकधार्मिकाचार-सम्बन्धेन महती चर्चा प्रवृत्ता। तत्समय एव चन्नपट्टणराजधान्यां (मद्रास इलाखा इति प्रसिद्धायां) चेङ्गलपटाख्यमण्डले वर्तमानस्थ ‘कञ्जीवरम्‌’ इति नगरस्य निकटवर्तिनि “श्रीपरम्बुदरम्‌” इति प्रसिद्धपुरे ख्रिस्तशकस्य१००९ तमे वत्सरे श्रीरामानुजाचार्य इत्याह्वयःकश्चिद्विपरोऽजनि। तेन वैष्णवो धर्मः प्रवर्तितः स्वयं च मनुजबान्धवः इत्युद्घोषितं च। ततश्च पिजातीया अपि जनाः स्वधर्मेआनीताः, स्वकीयानुयायिजनेषु च निर्घुणत्वद्योतका विधवावपनप्रवृत्तिर्निरुद्धा, इयमेव रीतिस्तदनुयायिष्वद्यावभि वर्तत एव। किञ्चतज्जनमध्यगा विधवा अपि वपनं कारयितुं नैवोत्सहन्ते, किन्तु ‘यान्यस्माकं शिरान्ति गुरोःपुरतोऽवनामितानि, तानि नापितस्याग्रेऽवनामयितुं नार्हाणि’ इति वदन्ति च। एवं कतिपयै काले गते सति तत्प्रगत्यैव हेतुभूतया तदीयः पन्थाद्विधा विभिन्नः। ततःकतिपयैर्जनैः‘वडघले’अथवा ‘उत्तरदेशीयाः’ इत्याभिधानं स्वीकृतम्‌। एवञ्चैतैर्जनैः उत्तरदेशीयाः वैदिकाः शास्त्रीयाश्चाचाराः सम्मानिताः। अयं विश्वगुणादर्शप्रणेता कविः एतन्मतस्थ

आसीत्। अन्ये च ये केचित् पूर्वमेव पन्थानमाश्रित्य स्थितास्ते ‘तेङ्गले’अथवा ‘दाक्षिणात्याः‘ इत्याख्यया प्रसिद्धाः। एवमयं भेदोऽद्यापि वर्तत एव। ततश्च ‘वडघले’ इतिमतस्थजनैर्या तेङ्गलीयानामवमानना कृता, तैः सह या च स्पर्धा प्रकटीकृता, अन्ये च ये छलप्रकाराः कृतास्तेषां सर्वेषामपि स्फुटीकरणार्थमयं ग्रन्थोऽनेन कविना व्यरचि’ इति।

एतत्सर्वमपि वृत्तं काल्पनिकमेवेति न वक्तुं शक्यते। यतः रामानुजीयपथविषये
श्रीमता वेङ्कटाध्वरिणाप्येतस्मिन् विश्वगुणादर्शे रामानुजवर्णने कृशानुभाषणे—

हत्वामार्गे द्विजादीनखिलमपि धनं हन्त हृत्वातिदृप्ता
दुर्वृत्तास्तस्करा ये वनगिरीनिलया ये च नीचा इहान्ये॥

कृत्वा चक्राङ्कमेषां झटिति विदधतः किञ्च मन्त्रोपदेशं
तद्दत्तैरेव वित्तैर्दधति तनुममी वंशपारम्परीभिः॥

किञ्च—

जारान् चोरान् किरातान् जनपददमनान् राजपाशान्महीशान्
शिष्यान् कृत्वातिदृप्ताः श्रुतिपथविधुराः श्रोत्रिर्यैर्ब्रह्मनिष्ठैः॥

साकं न भुञ्जतेऽमी सकृदपि विनतिं कुर्वतेऽग्रे न तेषां
सङ्केतेनैव सिद्धं तदिदमविदुषां श्लाघ्यमाचार्यपुंस्त्वन्॥

इत्यादिना तेषां दोषोद्घाटनं कृतं, सम्यक्तया तदुद्धरणं च न कृतं तस्मादेव निश्चीयते तेङ्गलसम्प्रदायिनां जनाना विजातीयजनानामपि मन्त्रोपदेशकरणादि नास्मै रोचते इति च। वयं तु ग्रन्थनिर्माणे एतावदेव कारणमिति न निश्चिनुमः, किन्तु विश्ववैचित्र्यद्योतनमेव ग्रन्थनिर्माणहेतुरिति, अन्यथा इतरक्षेत्र-देवता-सम्प्रदायादिवर्णनस्य निष्फलत्वप्रसङ्ग आपद्येत। किञ्च स्वसम्प्रदायदृढीकरणार्थका अन्ये बहवो ग्रन्था अनेनैव विरचिता इति श्रूयते। अस्तु वा अन्यत्किमपि कारणं तत्राधिकलेखन न साम्प्रतम्।

अथास्य विश्वगुणादर्शग्रन्थस्य कालनिर्णायक लिङ्ग अस्मिन्नेव ग्रन्थे दृश्यते तत्—

‘हूणाः करुणाहीनास्तृणवद् ब्राह्मणगणं न गणयन्ति।
तेषा दोषाः पारेवाचां ये नाचरन्ति शौचमपि॥’

इत्यादि यत् हूणानां (गौरकायाङ्ग्लदेशीयानां) वर्णनम्। तस्मादनुमीयते- ख्रिस्तशकस्य १६४० तमे वर्षेऽयङ्ग्रन्थो विरचित इति। अस्मिन् रसालकारादीनि काव्यलक्षणानि सर्वत्र परिपूर्णतया दृश्यन्ते, तथापि अर्थालङ्कारापेक्षया शब्दालङ्कारेष्वेव (अनुप्रास-यमकादिषु) कवेरतीवादरो दृश्यन्ते, तदनुसन्धानादेव क्वचित् क्लिष्टत्वाप्रसिद्धशब्दप्रयोगादयो दोषाः प्रादुर्भवन्ति। एवमपि काव्यस्य सहजमाधुर्य-प्रौढत्वादयो गुणा न विलीयन्ते, तत एवास्य वश्यवचस्त्व स्फुटीभवति। तथा चास्मिन् विश्वगुणादर्शे तदभिधानानुरूपाः सर्वेऽपि विषया न विद्यते, सतामपि विषयाणाम् आ मूलात् समाप्तिपर्यन्त एकैव पद्धतिर्नावलोक्यते। अस्य हि प्रथमत एवं रीतिः विश्वावलोककुतूहलौ कृशानु-विश्वावसूद्वौ गन्धर्वौकल्पितौ। तन्मध्ये एकः (कृशानुः) दोषैकदृक्, अपरो (विश्वावसुः) दृश्यवस्तुनो गुणग्रहणकौतुकी चासीत्। ततः दृष्टि-

पथं प्राप्तस्य वस्तुनः प्रथमं विश्वावसुः सानन्दं प्रशसां करोति, ततस्तस्मिन्नेव कृशानु- र्दोषारोपं करोति, पुनश्च तदारोपितं दूषणं विश्वावसुर्निराकरोति। परं तु इयं पद्धतिः स्पर्धाधीनचित्तत्वात् स्वाङ्गीकृतमतसमर्थननिघ्नत्वाद्वा भिन्ना। एतत् सर्वमपि मार्मिकवाचकजनैर्वाचनसमयेऽवगन्तुं शक्यमिति न तत्राधिकं लिख्यते। अयं कविर्यद्यपि श्रीरामानुजप्रवर्तितवैष्णवपथानुगस्तथाप्यन्यसम्प्रदायानामपि याथार्थ्यवेत्ता आसीदिति तु निर्बाधमेव। किञ्चास्य काव्यस्य व्युत्पत्तावतीवोपयुक्ततया काव्यरसिकेषु बहुषु पण्डितेषु महाकवेरस्य ग्रन्थानां च प्रख्यातिर्विद्यते। अस्य नीत्यन्योक्ति-राजवर्णनादिप्रचुरा अन्ये बहवो ग्रन्थाः प्रसिद्धा इति तु प्रागुक्तमेव। तथा लक्ष्मीसहस्रं काव्यं,हस्तिगिरिचम्पूश्चेत्येतौ द्वौ ग्रन्थौविश्वगुणादर्शसदृशावेव प्रसिद्धौ वर्तेते। तत्र लक्ष्मीसहस्राख्ये काव्ये केवल भगवत्या लक्ष्म्याः स्तुतिरेव विद्यते। अस्य ग्रन्थस्य २८ स्तबकाः सन्ति, सकलस्यापि काव्यस्य संहत्य १००० श्लोकाः सन्ति, ते च सर्वेऽ’पि श्लेष-यमकानुप्रासादिशब्दालकारपरिपूर्णाः अत एव सहृदयैरास्वादनीयाश्चेति मन्यामहे। एतस्मिन् काव्ये करवीरपत्तनस्थ **‘बाबामहाराज’**इत्याख्यपण्डितविरचिता टीकाऽपि सुप्रसिद्धा वरीवर्ति। हस्तिगिरिचम्प्वां तु जगत्पित्रोर्लक्ष्मीनारायणयोर्विवाहवर्णनं विलसति। एतस्यां टीकादिकमस्ति न वेति न विद्मः। एतद्ग्रन्थकर्तुर्वृत्तं किञ्चित्प्राक् प्रदर्शितमपि किञ्चिदवशिष्टमन्त्र लिख्यते। अयं प्रलयकावेरनाम्नः कस्यचिद्राज्ञः सभायां प्रमुखः पण्डित आसीत्। अन्याप्येतत्सम्बन्धिनी लोकवार्ता श्रूयते सा—अनेन विश्वगुणादर्शकाव्यं स्तुतिनिन्दात्मकं विरचितमिति। तस्य देवताप्रकोपादान्ध्यं प्राप्तं, ततश्च स लक्ष्मीसहस्रं विरचय्य जगज्जननीं महालक्ष्मीमस्तौत्। ततस्तत्प्रसादात्पुनपूर्ववद्दृष्टिः सम्प्राप्ता इति।

अस्मिन् विश्वगुणादर्शग्रन्थे मधुरसुब्बाशास्त्रिविरचिता भावदर्पणाख्या व्याख्या वर्तते। सा चात्र मुम्बापुर्यां कर्नाटकनाम्नि मुद्रणालये मुद्रिताप्यस्ति। सा कस्मिन् काले विरचिता कुत्रत्यो वायं टीकाकारः इत्यादि न ज्ञायते। एतस्या अन्या टीका नोपलभ्यते। इयं यद्यप्येका टीकाऽस्मिन् ग्रन्थे विद्यते, तथापि तस्यां श्लोकस्थसर्वेषामपि पदानां विवरणं, अप्रसिद्धपदानां श्लिष्टपदानां च कोशादिनिर्देशेन स्फुटीकरण, स्थले स्थलेऽलङ्कारलक्षणनिवेशनं, स्थलविशेषे व्याकरणनियमप्रदर्शनं चेत्यादीनां वैगुण्यमवलोक्य तत्परिहारार्थं नूतनटीकाकरणे बद्धः परिकरः, तथापि तत्र यादृक् साहित्यं विद्वत्त्वं चापेक्षितं तादृगस्य सन्निधौ नास्ति, तत एवायं विविधागमसागरपारावारीणसूरीणां व्याख्यानचातुरीं नावगच्छति। किन्तु केवलमुपरिनिर्दिष्टविषय- समावेशविशिष्टव्याख्याकरणप्रोल्लास एव मनस्यजनि। ततश्च तत्समये तादृशविषयवत्पुस्तकसमूहमेकीकृ- त्यैतन्महत्साहसं कर्तुं प्रवृत्तः, परन्तु परमेशानुकम्पया कथमप्यतिदुस्तरकार्यभारोऽयमवतारितः। किचास्मिन् ग्रन्थे यत्र यत्र धर्मशास्त्रादिरीत्या विवेचनमवश्यं प्राप्तं तत्र तत्र तद्यथामति सप्रमाणं विवेचितम्। तच्चविवेकिभिस्तत्तत्स्थले विलोकनीयम्। एवमस्यां टीकायां मूलस्थं प्रतिपदं यावन्मति विवेचितमिति ‘पदार्थचन्द्रिका’ इत्याख्ययेयमभिधीयते। अथेयं विदुषां दृष्टिपथं कथमानीयेति विचारे निमग्न आसीत्। तावदेवात्रत्यप्रसिद्धनिर्ण-

यसागरयन्त्रालयाधिपतिभिः श्रीमद्भिस्तुकारामजावजी इत्येतैः सादरं सम्मुद्र्य प्रकाशीकरणे आश्वासितः। ततश्च मुद्रणकालीनसंशोधनकार्यमप्यस्मिन्नेवापतितम्। तदा चेदं, शाके १७७४ तमे वत्सरे अत्र ज्ञानदर्पणनाम्नि शिलायन्त्रेऽङ्कितमेकं शाके १८१० वत्सरे कर्नाटकनाम्नि यन्त्रालये मुद्रितं भावदर्पणव्याख्यासहित द्वितीयं-एतदन्यानि षट् पुरातनानि पुस्तकानि सङ्गृह्य मुद्रितमिति तदुपोद्धाततोज्ञायते-तृतीयं चैकं हस्तलिखितमित्येतत्पुस्तकत्रितयं परस्परेण संवाद्य मुद्रितम्। तत्र च प्रायशः प्राचीनपुस्तकस्थानि पाठान्तराण्यादृतानि। कर्नाटकयन्त्रालये मुद्रितपुस्तकस्थपाठान्तराणि तु टीकाया अधोभागे टिप्पणीरूपेण निवेशितानि। तथाऽस्मिन्नेव पुस्तके मूलेऽस्मत्सम्पादि-तप्राचीनपुस्तकाभ्यामनुमानतः २५/२६ श्लोकाः अधिका अवलोकिताः, तत्र ये तावन्मूलेनातीव विसम्बद्धा इति प्रतीतास्ते टीकास्थले सूक्ष्माक्षरैर्निर्दिष्टाः, तत्र च मया टीकापि पृथड्न विरचिता, ये तु मूलेन सुसम्बद्धत्वेन प्रतीतास्तेषु टीकां विरचय्य ते मूले एव [ ] इत्याकारचिह्ने निवेशिताः केचित्त्यक्ताश्चापि, एतच्च तत्र तत्र स्फुटीकृतम्। अन्यच्चैतत् सप्रणाम निवेदयति—टीकाकरणसमये शोधनसमये च कर्नाटकयन्त्रालयमुद्रितपुस्तकस्य महत्साहाय्यं सँलब्धम्। न ह्येतावदेव, किन्तु यदि तत्पुस्तक नालप्स्यत, तदा एतट्टीकारचनादिकार्यं निष्पन्नमभविष्यन्न वेति नैव निश्चीयते। किञ्चैतत्पुस्तके टीकायां यत्र यत्र मुद्रितपुस्तकसम्बन्धेनोल्लेखः कृतः तत्र तत्र तदेव (कर्नाटकयन्त्रालये मुद्रित ) निर्दिष्टमिति ज्ञेयम्। ततश्चास्यां टीकायां प्रमादा भवेयुस्तर्हि ममाय नूतन एव प्रयास इत्याकलय्य ‘धावतः स्खलनं न दोषाय’ इति न्यायेन सदयहृदयैः कोविदाग्र्यैःक्षम्याः मह्यं निवेदनीयाश्च। तथा दृष्टिदोषस्य नैसर्गिकत्वात् क्वचिदवधानाभावाद्वा यदि शोधनेऽपि क्वचित्प्रमादाः स्युस्तर्हि तेऽपि सुधीभिः सदयं सहनीयाः मह्यं कथनीयाश्च। तेन हि द्वितीयावृत्तौपुनः सावधानतया सर्वेषां यथाभिप्रेतं करिष्यामीत्यभीक्ष्णं सविनय विज्ञापयति। तथा तत्रभवता ‘देवस्थली’इस्युपाभिधेन पण्डितशङ्करसूनुना भालचन्द्रशर्मणा शोधनकाले सुहृत्तयायत् साहाय्यं दत्तं तस्यापि महत उपकारान् नैव विस्मरति —

मनीषिजनचरणानुवर्त्मा

** बालकृष्णशर्मा।**

<MISSING_FIG href="../books_images/U-IMG-1722703671Screenshot2024-07-09101742.png"/>

श्रीर्जयति।
<MISSING_FIG href="../books_images/U-IMG-1721923133Screenshot_2024-07-25_212753-removebg-preview.png"/>
विश्वगुणादर्शनिर्दिष्टविषयसूची—

अनुक्रमाङ्कः विषयाः
उपोद्घातः
सूर्यवर्णनम्
भूलोकवर्णनम्
बदरिकाश्रमवर्णनम्
अयोध्यावर्णनम्
गङ्गानदीवर्णनम्
काशीवर्णनम्
समुद्रवर्णनम्
जगन्नाथक्षेत्रवर्णनम्
१० गुर्जरदेशवर्णनम्
११ यमुनानदीवर्णनम्
१२ महाराष्ट्रवर्णनम्
१३ आन्ध्रदेशवर्णनम्
१४ कर्नाटकदेशवर्णनम्
१५ वेङ्कटगिरिवर्णनम्
१६ वनवर्णनम्
१७ घटिकाचलवर्णनम्
१८ वीक्षारण्यवर्णनम्
१९ श्रीरामानुजवर्णनम्
२० चन्नपट्टण (मद्रास) व०
२१ काञ्चीवर्णनम्
२२ श्रीमद्वेदान्तदेशिकाचार्यव०
२३ कामासिकानगरनृसिंहव०
२४ श्रीत्रिविक्रमवर्णनम्
२५ श्रीकामाक्षीदेवीव०
२६ श्रीमदेकाम्रेश्वरव०
२७ क्षीरनदीवर्णनम्
२८ बाहानदीवर्णनम्
२९ तुण्डीरमण्डलव०
३० चञ्चीपुरी (तञ्जावूर ) व०
३१ पिनाकिनीगरुडनदीश्रीदेवनायकव०
३२ श्रीमुष्णक्षेत्रयज्ञवराहव०
३३ कावेरीवर्णनम्
३४ श्रीरङ्गनगरीवर्ण ०
३५ श्रीजम्बूकेश्वर ०
३६ चोलदेशवर्णनम्
३७ कुम्भघोणशार्ङ्गपाणिव ०
३८ चम्पकारण्यश्रीराजगोपालवर्णनम्
३९ सेतुवर्णनम्
४० ताम्रपर्णीवर्णनम्
४१ कुरुकानगरश्रीशठकोप ०
४२ पाण्ड्य-चोलदेशनिवासिस्मार्त-शैवादिव०
४३ वेदान्तिवर्णनम्
४४ ज्यौतिषिकवर्णनम्
४५ भिषग्वर्णनम्
४६ कविवर्णनम्
४७ तार्किकवर्णनम्
४८ मीमांसकवर्णनम्
४९ वैयाकरणवर्णनम्
५० वैदिकवर्णनम्
५१ राजसेवकवर्णनम्
५२ दिव्यक्षेत्रादिवर्णनोपसंहारः
५३ कवेर्वाक्यम्

श्रीः।
विश्वगुणादर्शचम्पूः
<MISSING_FIG href="../books_images/U-IMG-1722663588Screenshot2024-07-08185832.png"/>

पदार्थचन्द्रिकाटीकया समेता।

उपोद्घातः १.

श्रीराजीवाक्षवक्षःस्थलनिलयरमाहस्तवास्तव्यलोल-
ल्लीलाब्जान्निष्पतन्ती1 मधुरमधुझरी नाभिपद्मे मुरारेः॥
अस्तोकं लोकमात्रा द्वियुगमुखशिशोराननेष्वर्प्यमाणं
शङ्खप्रान्तेन दिव्यं पय इति विबुधैः शङ्क्यमाना पुनातु॥१॥

<MISSING_FIG href=”../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png”/>

श्रीमद्ब्रह्म सनातनं श्रुतिनुतं ध्यानैकगम्यं सदा
सर्गाद्यस्य विधायक त्रिजगतो मोदावहं यत्सदा॥

सच्चिद्रूपतया यदर्थनिचयं व्याप्नोति तेजोमयं
भूयात्तत्त्रिविधार्तिहारि जगतां श्रीवासुदेवाभिधम्॥१॥

नमामि देवीं कुलदेवतामहं ब्रह्मादिदेवैरभिसंस्तुतां मुहुः॥
महादल2ग्रामकृताधिवासां महालसाख्यां प्रकृतिं गुणात्मिकाम्॥२॥

यत्सूक्तिधारासुनिषेचनेन मद्धीलता पल्लविता बभूव॥
स्मरामि त श्रीगुरुवेङ्कटा3ख्यं विनम्रमूर्द्धा कृतहस्तसम्पुटः॥३॥

श्रीगणेशं च पितरं विद्वांसं स्वःस्थितं भजे॥
अत्रस्थां मातरं चैव जयन्तीं जननप्रदाम्॥४॥

गुरुप्रसादसंलब्धव्याकृतिज्ञानकौशलः॥
काव्यं विश्वगुणादर्शं व्याकरोमि यथामति॥५॥

अथ तत्रभवान् श्रीवेङ्कटाध्वरिनामा कविः प्रारिप्सितग्रन्थस्य निर्विघ्नपरिसमाप्तिमभिलिप्सुः शिष्टाचारप्राप्तं मङ्गलं तच्च “आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्” इत्युक्तत्वादत्र आशीरूपमाचरन् प्राह—श्रीराजीवेति। सा मधुरमधुझरी मधुरा मधुनः मकरन्दस्य धारा, अस्मान् सर्वानिति शेषः। पुनातु पवित्रीकरोतु। कीदृशी मधुझरी। श्रीमतो (राजीवे कमले इव अक्षिणी यस्य तस्य) राजीवाक्षस्य विष्णोः “बहुव्रीहौ सक्थ्यक्ष्णोः —” इत्यादिना समासान्तः षच्। वक्षःस्थले निलय आश्लिष्य स्थितिर्यस्यास्तस्या रमाया लक्ष्म्याः“क्षीरोदतनया रमा” इत्य-

काञ्चीमण्डलमण्डनस्य मखिनः कर्नाटभूभृद्गुरो-
स्तातार्यस्य दिगन्तकान्तयशसो यं भागिनेयं विदुः॥

_________________________________________________________________________________________

मरः। हस्ते वास्तव्यं वर्तमानं यद् लोलच् चलद् लीलाब्जं विलासार्थं कमलं तस्मात्। श्रीभगवतो हृदये प्रेम्णा परिरभ्य स्थिताया लक्ष्म्याः करस्थलीलाकमलादित्यर्थः। मुरारेर्विष्णोर्नाभिपद्ये निष्पतन्ती निर्गलन्ती, पाठान्तरे तु निःस्रवन्ती स्यन्दमाना। उत्प्रेक्षते। द्वे युगे युग्मे चत्वारीत्यर्थः। “युगं युग्मे कृतादिषु” इत्यमरः। मुखानि यस्य स चासौ शिशुश्च तस्य ब्रह्मण इति यावत्। आननेषु मुखेषु “आननं लपनं मुखम्” इत्यमरः। लोकमात्रा लक्ष्म्या कर्त्र्या“इन्दिरा लोकमाता मा” इत्यमरः। शङ्खप्रान्तेन करणेन, अर्प्यमाणं प्रेम्णा समर्प्यमाणं, अस्तोकं बहुलं दिवि भवं दिव्यं स्वर्ग्यं “तत्र भवः” इति यत्। पयः अमृतं, इति विबुधैः देवैः “देवास्त्रिदशा विबुधाः सुराः” इत्यमरः। शङ्क्यमाना सम्भाव्यमाना। मधुझरीति सम्बन्धः। श्रीविष्णोर्वक्षसि प्रेमाश्लेषेण स्थिता लक्ष्मीः कमलं लीलया भ्रामयामास, तस्माद्गलन्ती मधुधारा भगवन्नाभिकमलं प्रति सङ्गता, तां च दृष्ट्वा लक्ष्मीः प्रेम्णा निजबालकं शङ्खाग्रेणामृतमेव पाययतीति स्तावकैर्देवैरुत्प्रेक्षितमिति भावः। अत्र लक्ष्मीकरस्थपद्मात् स्रवन्त्यां मधुधारायां दिव्यपयसः सम्भावनादुत्प्रेक्षालङ्कारः। तदुक्तम्—“सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्” इति। ननूत्प्रेक्षायामपि सम्भाव्य-सम्भावनयोरुपमानोण्मेयभाव आवश्यकः, स चात्र मुरारेर्नाभिकमलस्य ब्रह्मण आननस्य च यद्यपि सम्भवति, तथापि लक्ष्मीहस्तस्थपद्मस्य शङ्खस्य च न सम्भवति। शङ्खस्यैकतो यत्किञ्चिन्मुकुलीभावत्वादेकतश्च विकासशालित्वात् (शङ्खो हि उपरितनभागे प्रसृतः अधोभागे च सङ्कुचितो वर्तते) इति चेत्, श्रीराजीवाक्ष इत्यस्य चन्द्रसूर्याक्ष इत्यर्थः। स यथा —“इरा भू-वाक्-सुराप्सु स्यात्” इत्यमराद् इराशब्दस्य भूवाचकत्वं, तस्य च स्थानवाचकतापि सम्भवति, तेन श्रियो लक्ष्म्याः इरा स्थानं श्रीरा कमलं, ताम् आजीवयति विकासयतीति श्रीराजीवः सूर्यः, तथैव ‘इरा भू’ इत्यनेनैव कोशेन इराशब्दस्य जलवाचकत्वमपि सम्भवति, ततश्च इराया जलाद् आजीवति उत्पद्यते इति इराजीवश्चन्द्रः, ततश्च श्रीराजीवश्च श्रीराजीवश्च श्रीराजीवौ चन्द्रसूर्यौ“सरूपाणामेकशेषः—” इत्येकशेषः। तौ अक्षिणी यस्य स श्रीराजीवाक्षः। एवं च लक्ष्म्याः करस्थितपद्मस्य एकतश्चन्द्रकिरणसम्पर्कादन्यतः सूर्यकिरणसम्पर्काच्च मुकुलितत्वं विकासशालित्वं च सम्भवति, तेन शङ्खस्य पद्मस्य चोपमानोपमेयभावः सम्भवतीति ज्ञेयम्। स्रग्धरा वृत्तमेतत् “म्रभ्नैर्यानां त्रयेण त्रि-मुनि-यतियुता स्रग्धरा—” इति तल्लक्षणात्॥१॥

अधुना कविः स्वकीयकाव्यरचनासामर्थ्यप्रकटनाय पूर्वजप्रशंसापूर्वकं स्वस्य कोविदत्वं प्रपञ्चयंश्चिकीर्षितं ग्रन्थं प्रतिजानीते—काञ्चीति। काञ्चीमण्डलस्य काञ्चीनगरीराष्ट्रस्य भण्डनः भूषणभूतः तस्य। स्वकीयविद्वत्त्वप्रभावेण काञ्चीराजधान्यां प्रसिद्धस्येति भावः। मखिनः प्रशस्तयज्ञकर्तुः। प्रशंसार्थेऽत्र मतुवर्यइनिः। “भूम-निन्दा-प्रशंसासु” इत्याद्युक्तेः। कर्नाटभूभृतःकर्नाटदेशाधिपते

अस्तोकाध्वरकर्तुरप्पयगुरोरस्यैष4….
पुत्रः श्रीरघुनाथदीक्षितकविः पूर्णो गुणै5 रेधते॥२॥

तत्सुतस्तर्क-वेदान्त-तन्त्र-व्याकृतिचिन्तकः॥
व्यक्तं विश्वगुणादर्शं विधत्ते वेङ्कटाध्वरी॥३॥

पद्यं यद्यपि विद्यते बहु सतां हृद्यं विगद्यं न तद्
गद्यं च प्रतिपद्यते न विजहत्पद्यं बुधास्वाद्यताम्॥

<MISSING_FIG href=”../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png”/>

राज्ञः कृष्णरायसञ्ज्ञकस्य “भूभृद्भूमिधरे नृपे” इत्यमरः। गुरोः वेदादेरध्यापकस्य। यद्यपि “स्यान्निषेकादिकृद्गुरुः” इत्यमरात् “निषेकादीनि कर्माणियःकरोति यथाविधि। सम्भावयति चान्नेन स विप्रो गुरुरुच्यते” इति मनुस्मृतिश्च गर्भाधानादिसंस्कारकर्तुः पितुरेव गुरुत्वं सम्भवति, तथापि तथात्रासम्भवादध्यापकस्यैव गुरुत्वं ग्रन्थकर्तुरभिप्रेतम्। अन्यथा ‘कर्नाटभूभृत्पितुः’ इत्येव ब्रूयात्। तथा चाह मनुरपि—“अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः। तमपीह गुरुं विद्यात्” इति। एवं च गुरुशब्देनाध्यापकग्रहणे न दोष इत्यलमप्रस्तुतपल्लवितेन। दिगन्तेषु कान्तं मनोहरं श्राव्यमिति यावत्। यशः कीर्तिर्यस्य तस्य। तातार्यस्य ताताचार्यस्य। यं (अप्पयगुरुं) भागिनेयं भगिनीपुत्रं, भगिनीशब्दात् “स्त्रीभ्यो ढक्” इत्यपत्यार्थे ढक्। “स्वस्रीयो भागिनेयः स्यात्” इत्यमरः। विदुः जानन्ति। लोका इति शेषः। ‘विद ज्ञाने’ इत्यस्माल्लट्। “विदो लटो वा” इति उस्। अस्य तातार्यभागिनेयस्य अस्तोकानां बहूनामध्वराणां ज्योतिष्टोमादियागानां “यज्ञः सवोऽध्वरो यागः” इत्यमरः। कर्तुः अनुष्ठातुः। विद्वत्सु पण्डितेषु मणेः श्रेष्ठस्य, अप्पयगुरोः अप्पयदीक्षितस्य, एष प्रसिद्धः पुत्रः श्रीरघुनाथदीक्षिताख्यः कविः, गुणैः सौशील्यादिकैः पूर्णः सन् एधते वर्धते। शार्दूलविक्रीडितं वृत्तम्। “सूर्याश्वैर्म-स-जास्त-ताः सगुरवः शार्दूलविक्रीडितम्” इति तल्लक्षणात्॥२॥

तत्सुतइति। तस्य रघुनाथदीक्षितस्य सुतः पुत्रः, तर्कश्च वेदान्तश्च तन्त्रं मीमांसा च व्याकृतिर्व्याकरणं च तेषां चिन्तको विवेचकः ज्ञातेत्यर्थः। वेङ्कटाध्वरी एतन्नामा कविः विश्वगुणादर्शं विश्वस्य जगतो गुणा आदृश्यन्तेऽस्मिन्निति तथाभूतं ‘दृशिर् प्रेक्षणे’ इत्यस्मादाङ्पूर्वकादधिकरणे घञ्। अथवा विश्वगुणादर्श इति सञ्ज्ञा। तथाच “पुंसि सञ्ज्ञायां घः प्रायेण” इति वः। एवमन्वर्थञ्चम्पूग्रन्थं, व्यक्तं प्रसिद्धं यथा स्यात्तथा विधत्ते करोति। ‘डुधाञ्धारण-पोषणयोः इत्यस्माद्धातोर्लट्। वृत्तमनुष्टुप् “पञ्चमं लघु सर्वत्र” इत्यादितल्लक्षणात्॥ ३॥

अथ कविः स्वचिकीर्षितप्रबन्धस्येतरप्रबन्धविलक्षणतामाह—पद्यमिति। (लोके) यद्यपि पद्यं केवलं श्लोकरूपं काव्यं रघुवंश-कुमारसम्भव-माघ-किरातार्जुनीयादिकं तच्च हृद्यं मनोहारि विद्यते, तथापि तद् विगद्यं गद्यरहितं (अस्ति तस्मात्) सतां बहु

आदत्ते6 हि तयोः प्रयोग उभयोरामोदभूमोदयं
सङ्गः कस्य हि न स्वदेत ? मनसे माध्वीक-मृद्वीकयोः॥४॥

विश्वावलोकस्पृहया कदाचिद्विमानप्रारुह्य समानवेषम्7
कृशानु-विश्वावसुनामधेयं गन्धर्वयुग्मं गगने चचार॥५॥

** तत्र8 —**

कृशानुरकृशासूयः पुरोभागिपदं गतः॥

<MISSING_FIG href=”../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png”/>

अतिमनोहरं रसिकानां यथेप्सितमनोहरमित्यर्थः। न भवति। तर्हि गद्यमेव कर्तव्यमित्याह। गद्य च गद्यमपि (तत्तु कादम्बर्यादिकं) पद्यं विजहत् पद्यरहितं (विद्यते, तस्मात्तदपि) ‘ओहाक् त्यागे’ इत्यस्मात् शतृप्रत्ययः। बुधानाम् उभयोरपि मर्मज्ञपण्डितानां, आस्वाद्यतां रुच्यर्हतां न प्रतिपद्यते न प्राप्नोति। तर्हि किविधमिष्टं स्यादित्याकाङ्क्षायामाह—आदत्ते इति। हि यस्मात् कारणात् तयोर्गद्यपद्ययोरुभयोः प्रयोगः प्रकृष्टो योगः अस्ति यस्मिन् सः, अत्र अर्शआदित्वान् मत्वर्थीयोऽच्। तादृशश्चम्पूप्रबन्धः। “गद्य-पद्यात्मकं काव्यञ्चम्पूरित्यभिधीयते” इति वचनात्। आमोदस्यानन्दस्य “मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोद-सम्मदाः” इत्यमरः। भूम्नः अतिशयस्योदयमुत्पत्तिं विधत्ते करोति। हि यतः माध्वीक मधु च “मधु माध्वीकमद्ययोः” इत्यमरः। मृद्वीका द्राक्षा च “मृद्वीका गोस्तनी द्राक्षा” इत्यमरः। तयोः सङ्गः एकत्र योगः। कस्य मनसे न स्वदेत कस्य मनसि रुचि नोत्पादयेत् ? अपि तु सर्वस्मै रोचेतेत्यर्थः। ‘ष्वद आस्वादने’ इत्यस्य विधिलिङि रूपम्। मनसे इत्यत्र च “रुच्यर्थानां प्रीयमाणः” इति चतुर्थी। अर्थान्तरन्यासोऽत्रालकारः। विशेषेण सामान्यस्य समर्थनात्। तदुक्तम्—“सामान्य वा विशेषो वा तदन्येन समर्थ्यते। यत्र सोऽर्थान्तरन्यासः” इति। वृत्तं शार्दूलविक्रीडितम्। लक्षणं प्राक् (२ श्लोकटीकायां) कथितम्॥४॥

  • सम्प्रति कविः स्वकाव्ये वर्णनीयकथाप्रस्तावमाह—विश्वावलोकेति। कदाचिद् विश्वस्य जगतोऽवलोकश्चमत्कारप्रेक्षणं तस्य स्पृहया इच्छया “इच्छा काङ्क्षा स्पृहेहा तृट्” इत्यमरः। समानस्तुल्यो वेष आकल्पः यस्य तत्, कृशानुरिति विश्वावसुरिति च नामधेये नामनी यस्य “भागरूपनामभ्यो धेयः” इति नामशब्दात्स्वार्थिको धेयः। तद् गन्धर्वयोर्युग्म द्वौ गन्धर्वावित्यर्थः। विमान व्योमयान “व्योमयान विमानोऽस्त्री” इत्यमरः। आरुह्याधिरुह्य, गगने आकाशे “-गगनमनन्तं” इत्यतः “पुंस्याकाश-विहायसी” इत्यन्तोमरः। चचार। उपजातिर्वृत्तम्। “अनन्तरोदीरित (इन्द्रवज्रोपेन्द्रवज्रा) लक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः” इति तल्लक्षणात्॥५॥*

  • द्वयोर्गन्धर्वयोरक्स्थाविशेषमाह**—तत्रेति।** तत्र द्वयोर्मध्ये इत्यर्थः। कृशानुरिति। कृशानुः कृशानुनामा गन्धर्वः। अकृशा बहुला असूया गुणेषु सत्स्वपि दो-*

विश्वावसुरभूद्विश्वगुणग्रहणकौतुकी॥६॥

अथ सूर्यवर्णनम्—२
<MISSING_FIG href=”../books_images/U-IMG-1722673021Screenshot2024-07-18063849.png”/>

अथ पुरतः समापतन्तमरविन्दबान्धवमवलोकयन्नवन्दता9गमसागर10पारदृश्वा विश्वावसुः

** विश्वावसुः**—

ब्रह्मचर्यव्रतोत्सर्गगुरवे कोकसन्ततेः॥
छायाविब्बोक11लोलाय छान्दसज्योतिषे नमः॥७॥

<MISSING_FIG href=”../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png”/>

षाविष्करणं “अक्षान्तिरीर्ष्याऽसूया तु दोषारोपो गुणेष्वपि” इत्यमरः। यस्य तथाभूतः सन् पुरोभागिनः दोषैकदृशः “दोषैकदृक् पुरोभागी” इत्यमरः। पदं स्थान “पद व्यवसित-त्राण-स्थान-लक्ष्माङ्घ्रि-वस्तुषु” इत्यमरः। गतः प्राप्तः अभूत्। अनेन वस्तुतो गुणग्राहित्वेऽपि गुणदार्ढ्यार्थमेव बहिर्दृश्यमान पुरोभागित्व नटवत्स्वीकृतमिति सूचितम्। “दार्ढ्यायगुणसमृद्धेः” इत्येतद्ग्रन्थान्ते तेनैवोक्तत्वात्। विश्वावसुस्तु विश्व वसुधनं यस्येति “वसू रत्ने धने वसु” इत्यमरः। “विश्वस्य वसुराटोः” इत्यनेन विश्वशब्दस्य दीर्घः। विश्वस्य गुणानां ग्रहणे वर्णने कौतुकी कुतूहलवान्। अभूद् आसीत्। अनेन तेनात्मनाम अन्वर्थक कृतमिति ध्वनितम्। वृत्तमनुष्टुप्। लक्षण पूर्व (३ श्लो० टीकायाम् ) उक्तम्॥६॥

  • “पुरोभागिपदं गतः” “विश्वगुणग्रहणकौतुकी”इत्यनेनास्मिन्काव्ये प्राधान्यतया विश्वगुण-दोषवर्णनमेव विषय इति द्योतित, तत्र प्रथमतः माङ्गल्यतया च “आदित्याज्जायते वृष्टिर्वृष्टेरन्न ततः प्रजाः” इति स्मृतेः “अथादित्य उदयन् यत्प्राची दिश प्रविशति तेन प्राच्यान्प्राणान् रश्मिषु सन्निधत्ते यद्दक्षिणां यत्प्रतीचीं यदधो यदूर्ध्वंयदन्तरा दिशो यत्सर्वम्प्रकाशयन्ति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते” इति श्रुतेः जगत्प्राणभूतत्वेन च सूर्यवर्णनमेवोचितमिति द्योतयन्प्रस्तौति—अथेति। अथ द्वाभ्यां ( कृशानु-विश्वावसुभ्यां ) यथायथं स्वानुरूपस्थानस्वीकारानन्तरं, पुरतोऽग्रतः समापतन्तमुदयमान अरविन्दबान्धव सूर्यमवलोकयन्, आगमानां वेदानां सागरस्य पारमन्तं दृष्टवान् इति तथाभूतः। सकलवेदार्थज्ञातेत्यर्थः। दृश्वेत्यत्र “दृशेः क्वनिप्” इति क्वनिप् प्रत्ययः। विश्वावसुः अवन्दत सूर्यं नमश्चकार।*

  • तदेवाह-ब्रह्मचर्येति। कोकानां चक्रवाकानां “कोकश्चक्रश्चक्रवाकः” इत्यमरः। सन्ततेः समुदायस्य, ब्रह्मचर्यव्रतस्य मैथुनाभावस्य उत्सर्गस्यागः तस्मिन् कर्मणि गुरवे आचार्याय। चक्रवाकानां निशि विरहावस्थासत्त्वात् प्रातः सुरतावसरप्रदायकायेत्यर्थः। छायया सूर्यप्रियया “छाया सूर्यप्रिया कान्तिः” इत्यमरः। यो विब्बोको विलासः “स्त्रीणां विलास-विब्बोक—”*

** कृशानुः—** अरे12 सकलभुवन13संशोषकारिणं तपनमपि14 किं नमनकर्मी-करोषि ? ॥१॥पश्य—

पान्थान् दीनानहह वसुमानातपान्धान् विधत्ते
शुष्कां पृथ्वीं रचयतितरां शोषयत्योषधीश्च ॥

<MISSING_FIG href=”../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png”/>

इत्यमरः। तस्मिन् लोलाय सतृष्णाय सोत्सुकायेति यावत्। “लोलश्चल-सतृष्णयोः” इत्यमरः। छान्दसं छन्दसि भव वेदप्रतिपाद्यमिति यावत् ‘तत्र भवः’ इति भवार्येऽण्। ज्योतिस्तेजो यस्य सः तस्मै। तथाच श्रुतिः—“विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम्। सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः” इति। श्रुत्यर्थस्तु-‘विश्वरूपं सर्वरूपं हरिणं किरणवन्तं, जातं वेदो ज्ञान यस्यतज्जातवेदसं जातप्रज्ञमित्यर्थः। परायणं परम् उत्तमम् अयनं (प्राणानां) आश्रयभूतम्। एक चक्षुर्भूतं ज्योतिस्तेजोरूपं तपन्तं तापक्रियया वर्तमानम्। ब्रह्मविदो विदुरिति शेषः। कोऽसौ यं विदुः तदाह—सहस्ररश्मिरिति। इत्यादि स्पष्टम्।’ अथवा छान्दसं “तत्सवितुर्वरेण्यं” इति गायत्रीच्छन्दः प्रतिपाद्य ज्योतिर्यस्य तथाभूतः। तथा चायमर्थः—‘यः सूर्यो नः सर्वेषामस्माक धियो बुद्धीः प्रेरयति, तस्य जगदुत्पादकस्य सवितुः। तत्प्रसिद्धं वरेण्यं श्रेष्ठम्भर्गस्तेजो वयं धीमहि यायेमेत्यर्थः’ इति। तादृशाय सूर्याय नमः नमस्करोमीति यावत् ‘नमः स्वस्ति’ इत्यादिना चतुर्थी वृत्तमनुष्टुप् ॥७॥

  • सूर्य वर्णयन्त विश्वावसुं दृष्ट्वा जगत्सन्तापकारित्व तद्दोषमुद्भाव्याह कृशानुः—अरेइति। अरे भो विश्वावसो, सकलभुवनानां संशोषणं करोतीति तथाभूतं “सुप्यजातौ-” इति ताच्छील्ये णिनिः। अत एव तपनं तप्यते अनेन जगदिति तं, “करणाधिकरणयोश्च” इति ल्युट्। तापरूपमपि सूर्यमित्यर्थः। किं कथं नमनक्रियायाः कर्मरूपं करोषि। त नमस्करोषीत्यर्थः। अभूततद्भावे च्विः। तस्मिंस्तापकारित्वदोषसत्त्वान् नमनमयुक्तमिति भावः ॥१॥ तदेवाह—पश्येति।*

  • पान्थानिति। अयं वसुमान् वसवः किरणाः विद्यन्ते अस्येति विग्रहः। “तदस्यास्त्य-” इति मतुप्। किरणवान् सूर्य इत्यर्थः। “रश्मौ वसू रत्ने धने वसु” इत्यमरः। दीनान् अध्वगमनखिन्नान् पान्थान् पथिकान् ” “ पन्थो ण नित्यम्” इति णः। आतपान्धान् आतपेन प्रकाशेन “प्रकाशो द्योत आतपः” इत्यमरः। अन्धान् दृष्टिहीनान् विधत्तेकरोति। अहह इति खेदे। एतदतिकष्टमित्यर्थः। दीनान् पान्थान् इत्यनेन दीनानामेव क्लेशाधिक्यं सूचितं, ये तावद्दीनाःसम्पत्तिमन्तः, ते तु छत्र-शकटादिसाधनैरातप दूरीकर्तुं शक्नुवन्ति। तस्माद् दीनानां क्लेशदायित्वं महतामयुक्तमिति भावः। तथा पृथ्वीं शुष्कां जलहीनां “शुषः कः ” इति निष्ठान्तस्य कः। रचयतितराम् अतिशयेन करोति। रचयति इत्यस्माद् अतिशयार्थे ‘तिडश्च’ इत्यनेन तरप्, तदन्ताच्च “किमेत्तिङच्यय—” इत्यादिना आमुः।*

कासाराणां हरति विभवं क्लान्ति15शान्तिप्रदानां
क्रूरस्यैवं गुणलवकथा का ? स्वतो भास्वतोऽस्य॥ ८॥

** विश्वावसुः—**किमरे भगवन्तमरविन्दबान्धवमपि विनिन्दसि16 ! शृणु पुरोभागिन्॥ २॥

वृष्टिं घृष्टिभिरारचय्य जगतस्तुष्टिं सरीसर्ष्टियः
पुष्टिं द्राग् विशिनष्टि दृष्टिषु नृणां ध्वान्तं पिनष्टि स्थिरम्॥
प्राज्ञानामपवर्गमार्गदममुं पद्मागृहोल्लासिनं
को न स्तौति? समस्तलोकसुहृदं द्योभूषणं पूषणम्॥९॥

<MISSING_FIG href=”../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png”/>

ओषधीः फलपाकानन्तरं नाशवन्तो व्रीहि-यवादयः“ओषध्यः फलपाकान्ताः” इत्यमरः। मनुरपि-ओषध्यः फलपाकान्ता बहुपुष्प-फलोपगाः” इत्याह। शोषयति सत्त्वहीनाः करोति च। ननु पान्थानां पथि जलपानप्राप्तेः क्लेशः सुपरिहर इत्याशङ्क्य, तदपि दुर्लभमित्याह-कासाराणामिति। क्लान्तिशान्तिप्रदानां श्रमशान्तिकराणां प्रददतीति प्रदाः क्लान्तेः शान्तिप्रदास्तेषामिति विग्रहः “आतश्चोपसर्गे-” इति कः। कासाराणां सरोवराणां ” “कासारः सरसी सरः” इत्यमरः। विभवं जलरूपमैश्वर्यंहरति नाशयति। एवं च दीनानां पथि जलपानमात्र साधनमपि विनाशयतीति भावः। एवमित्थं स्वभावतः क्रूरस्य निर्दयस्य, अस्य पुरतो दृश्यमानस्य भास्वतः सूर्यस्य “भास्वद्विवस्वत्सप्ताश्व-” इत्यमरः। गुणानां सद्गुणानां लवस्य लेशस्यापि “लव-लेशकणाणवः” इत्यमरः। कथा वार्ता का ? अपि तु नास्तीत्यर्थः। अत्र ‘पान्थान्दीनान् आतपान्धान् विधत्ते’ इत्यादिवाक्यं क्रूरत्वस्य हेतुरूपं, तस्मात् काव्यलिङ्गमलङ्कारः “-काव्यलिङ्गहेतोर्वाक्यपदार्थता” इति तल्लक्षणात्। मन्दाक्रान्ता वृत्तम्। “मन्दाक्रान्ता जलधि-षडगैर्म्भौन-तौ ताद्गुरू चेत्” इति तल्लक्षणात्॥ ८॥

  • एवं तद्वचनं श्रुत्वा न भवता सम्यग्विचारितमित्यभिप्रेत्य सतिरस्कारमाह विश्वावसुः—किमरे इति। अरे कृशानो, भग तेजोऽस्यास्तीति भगवान्” ऐश्वर्यस्य समग्रस्य तेजसो यशसः श्रियः। ज्ञान-वैराग्ययोश्चैव षण्णां भग इतीङ्गना” इति। त, न केवलं तेजोयुक्तमेव, अपि तु अरविन्दबान्धवम् अरविन्दानां कमलानां विकासकरणात्बन्धुसदृशं, एतादृशमपि सूर्यं निन्दसि ? अत एव हे पुरोभागिन् दोषैकदृष्टे, शृणु आकर्णय एतद्वक्ष्यमाणमिति शेषः॥२॥*

  • किमाकर्णयेतिचेत्तदाह-वृष्टिमिति। यः सूर्यः घृष्टिभिः किरणैः “घृष्टिर्वराहे रश्मौ च सूर्ये पुंस्यौषधौ स्त्रियाम्” इति शब्दरत्नमञ्जूषायाम्। वृष्टिं वर्षणम् आरचय्य कृत्वा, ‘रच प्रतियत्ने’ इत्यस्माण्णिजन्ताल्ल्यप् “ल्यपि लघुपूर्वात्” इति णेरयादेशः। सर्वतः “किरणान् प्रसार्येति यावत्। जगतः तुष्टिं तोषं सरीसर्ष्टिअतिशयेनोत्पादयति ‘सृज*

यदा न पश्यन्ति तमोविमर्दिनं रविं जनास्तत् कथयन्ति दुर्दिनम्॥
धिनोति चाम्भोजततिं सरोगतां धुनोत्यसौ देहभृतां सरोगताम्॥१०॥

<MISSING_FIG href=”../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png”/>

विसर्गे’ इत्यस्माद्यङ्लुकि लटो रूपम् “रुग्रिकौ च लुकि” इत्यभ्यासस्य रीगागमः। तथा नृणां दृष्टिषु नेत्रेषु “नेत्रमीक्षणं चक्षुरक्षिणी। दृग्दृष्टी” इत्यमरः। द्राक् उदयसमकालमेव “द्राक् मड्क्षु सपदि द्रुते” इत्यमरः। पुष्टिं पोषणं विशिनष्टि विशेषेणोत्पादयति ‘शिष्लृविशेषणे’ इत्यस्माद्रुधादिकाल्लट्। तथा स्थिरं निखिलनिशां व्याप्य स्थितं ध्वान्तमन्धकारं “अन्धकारोऽस्त्रियां ध्वान्तं” इत्यमरः। पिनष्टि चूर्णीकरोति विनाशयतीति यावत्। ‘पिष्लृसञ्चूर्णने’ इत्यस्माल्लट्। किञ्च प्राज्ञानां यथार्थतया तन्माहात्म्याभिज्ञानां पण्डितानां “धीरो मनीषी ज्ञः प्राज्ञः” इत्यमरः। अपवर्गस्य मोक्षस्य “मोक्षोऽपवर्गः” इत्यमरः। मार्गदं मार्गप्रदातारं ज्ञानिनो हि सूर्यमण्डलमार्गेण मुक्तिं प्राप्नुवन्ति इति प्रसिद्धिः। तथा च श्रुतिः—“अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते। एतद्वै प्राणानामायतनमेतदमृतमभयमेतत् परायणमेतस्मान्न पुनरावर्तन्ते” इति। “द्वाविमौ पुरुषौ” लोके सूर्यमण्डलभेदिनौ। योगनिर्भिन्नमूर्धैकोऽपरावृत्तमृतः परः” इति स्मृतिश्च। अपि च पद्माया लक्ष्म्या गृहाणि निवासस्थानानि कमलानि तेषामुल्लासं विकासं करोतीति तथाभूतं, ताच्छील्ये णिनिः। एतादृशगुणविशिष्टत्वादेव च समस्तानां लोकानां सुहृद निरपेक्षतया हितकरं, द्योः आकाशस्य “द्यो-दिवौ द्वे स्त्रियामभ्रं” इत्यमरः। भूषणमलङ्कारभूतम् अमुं, एवंविशिष्टबहुसद्गुणयुक्तं, पूषणं सूर्यं “विकर्तनार्क-मार्तण्ड-मिहिरारुण-पूषणः” इत्यमरः। कः पुरुषः न स्तौति स्तुतिं न करोति ? अपि तु सर्व एव स्तुवन्तीत्यर्थः। ‘ष्टुञ् स्तुतौ’ इत्यस्माद् लट्। “उतो वृद्धिः-” इत्यादिना वृद्धिः। न त्वादृशा एव सर्वे वृथादोषैकदर्शिन इति भावः। अत्र ‘वृष्टिं घृष्टिभिः’ इत्यादौ वर्णसाम्याद् अनुप्रासोऽलङ्कारः ”वर्णसाम्यमनुप्रासः” इति तल्लक्षणात्। तस्यैव वाक्यस्य ‘को न स्तौति’ इत्यस्य हेतुरूपतया च काव्यलिङ्ग, एवमुभौ मिलित्वा संसृष्टिरलङ्कारः। तदुक्तम्-“सैषा संसृष्टिरेतेषां (अलङ्काराणां) भेदेन यदिह स्थितिः” इति। शार्दूलविक्रीडितं वृत्तम्। लक्षणं प्राक् (२ श्लो० टीकायां) उक्तम्॥९॥

  • किञ्च नैतावदेव किन्तु अन्यदपि तन्महत्त्व शृण्वित्याह-यदेति। जनाः तमः अन्धकारं “अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः” इत्यमरः। विमर्दयति नाशयतीति तथाभूतं रवि सूर्य, यदा न पश्यन्ति, तदा तद् दुर्दिनं दुष्टदिनं कथयन्ति। यदा मेघाच्छादनात् सूर्यस्यादर्शनं भवति, तदालोकास्तद्दुर्दिनमिति वदन्तीति भावः। तदुक्तममरे-“मेघच्छन्नेऽह्नि दुर्दिनम्” इति। अपि च असौ सूर्यः सरसि सरोवरे” कासारः सरसी सरः” इत्यमरः। गता स्थिता सरोगता तां, अम्भोजानां कमलानां ततिं समुदायं धिनोति प्रीष्टायति विकासयतीति यावत् ‘धिवि प्रीणने’ इत्यस्माद् भ्वादेर्लट्। ‘धिन्विकृण्व्योरच’ इत्यनेन शब्विषये वकारस्याकार उप्रत्ययश्च। तथा देहं बिभ्रति धारयन्ति ते देहभृतः प्राणिनस्तेषां, रोगेण सहिताः सरोगास्तेषां भावः सरोगता तां, धुनोति नाशयति ‘धुञ् कम्पने’ इत्यस्य रूपम्।“आरोग्यं*

आशापालेषु पाशायुध-यम-बलभिन्मारुतेशादिकेषु
प्रायो भूयस्सु जाग्रत्स्वपि च शुचितया भासुरा भूसुराद्याः॥

यस्मै कालत्रयेऽपि प्रतिदिवसममी कुर्वतेऽर्ध्यप्रदानं
सैषा त्रय्येव विद्या तपति रविमयी सर्वलोकान् पुनाना॥११॥

<MISSING_FIG href=”../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png”/>

भास्करादिच्छेत्” इत्याद्यागमात्सूर्यस्यैव रोगनाशकरत्व प्रसिद्धम्। अत्र प्रतिपादान्ते समानवर्णानां पुनः पुनः श्रवणाद् यमकालङ्कारः। “अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः। यमकं पाद-तद्भागवृत्ति-” इत्यादितल्लक्षणात्। वंशस्थवृत्तम्। “ज-तौ तु वशस्थमुदीरितं ज-रौ” इति तल्लक्षणात्॥१०॥

  • किञ्च आशापालेष्विति। अमी शुचितया अन्तःकरणशुद्ध्या भासुरा दीप्तिमन्तः ‘भासृ दीप्तौ’ इत्यस्मात् ‘भञ्ज-भास-मिदो घुरच्’ इति घुरच् प्रत्ययः। भूसुरा ब्राह्मणा आद्याः येषु ते। ब्राह्मण-क्षत्रिय-वैश्या इत्यर्थः। पाशायुधो वरुणश्च “प्रचेता वरुणः पाशी” इत्यमरः। यमश्च बलं बलनामानमसुरं भिनत्तीति बलभिदिन्द्रश्च अत एवामरे तस्य बलारातित्वमुक्तम् “बलारातिः शचीपतिः” इति। “अन्येभ्योऽपि दृश्यन्ते” इति क्विप्। मारुतो वायुश्च “समीर-मारुत-मरुत्-” इत्यमरः। ईश ईश्वरश्च आदयो येषाम् अग्नि-निर्ऋृति-सोमानां तेषु पाशायुध-यम-बलभिन्मारुतेशादिकेषु। भूयस्सु बहुषु अष्टस्वित्यर्थः। आशाः दिशः “दिशस्तु ककुभः काष्ठा आशाश्च” इत्यमरः। पालयन्ति रक्षन्तीति आशापालास्तेषु दिक्पालकेषु, जाग्रत्सु स्वस्वाधिकारतत्परेषु सत्स्वपि। ‘जागृ निद्राक्षये’ इत्यस्मात् शतृप्रत्ययः। यस्मै सूर्यायैव प्रतिदिवसं कालत्रयेऽपि प्रातर्मध्याह्ने सायं चेति त्रिकालमित्यर्थः। प्रायः अर्घ्यस्य प्रदानमर्पणं कुर्वते कुर्वन्ति। ‘डुकृञ् करणे’ इत्यस्माद्वर्तमाने लट्। ‘अत उत्सार्वधातुके’ इति गुणोत्तरमुकारादेशः। “आत्मनेपदेष्वनतः” इति झस्यादादेशः। केचिज्जनाः सूर्यादन्यां देवतामपि भजन्ते, किन्तु न सूर्यं विहाय, अपि तु प्रथम सन्ध्यावन्दनसमये सूर्यायार्घ्यं प्रदायैव भजन्ते, इति ‘प्रायः’ इत्यनेन सूचितम्। सन्ध्यावन्दनमन्तरान्यस्मिन् कस्मिश्चिदपि कर्मण्यनधिकारात्। अर्घ्यप्रदानं हि गायत्रीमन्त्रेण विहित, स च मन्त्रो वेदत्रयादुद्धृतः अत एव तस्य त्रिपात्त्वं, तदुक्त मनुना—“त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत्।” इति। यस्मादेवं तस्माद्भगवान् सूर्यो वेदत्रयीरूप एवेति सम्भाव्याह—सैषेति। सा एषा मूर्तिमती रविमयी सूर्यरूपा, सर्वलोकान् पुनाना पवित्रयन्ती सती ‘पूञ् पवने’ इत्यस्मात् शानच्। त्रयी वेदत्रयीरूपा विद्यैव“स्त्रियामृक्साम-यजुषी इति वेदास्त्रयस्त्रयी” इत्यमरः। तपति प्रकाशते। अत्र सूर्ये वेदत्रयारोपाद् उत्प्रेक्षालङ्कारः। स्रग्धरा वृत्तम्। अस्य द्वयस्यापि लक्षणं प्राक् (प्र. १ श्लोकटीकायां ) उक्तम्॥११॥*

कृतत्रिदशपोषणं कृश17रथाङ्गसन्तोषणं
पिशाचकुलभीषणं पृथुतमश्छटापेषणम्॥
विनम्रगदशोषणं विहितवारिजोन्मेषणं
नमस्कुरुत पूषणं ननु नभःस्थलीभूषणम्॥१२॥

इत्थं विश्वावसुर्विभावसुमभिष्टुवन् प्राञ्जलिः कृशानुना सह द्वादशात्मानं समया गमयामास विमानम्। आनमच्च तद्विम्बमध्यधामानमतिमानमहिमानं परमात्मानम्।

<MISSING_FIG href=”../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

अथेदानीं सामान्यतः सूर्यवर्णनमुपसंहरन् एवंविधमहिमवते भगवते तस्मै नमस्काराचरणमेव श्रेय इत्यभिप्रयन्नाह—कृतेति। कृतं त्रिदशानां देवानां पोषणं येन तं, “वसन्ते वसन्ते ज्योतिषा यजेत" इत्यादिश्रुतिभिस्तावद्वसन्तादिविशिष्टकाले यज्ञादि कर्म विहितं, तस्मिन् कर्मणि समर्पितहविर्द्वारा देवानां पोषणं भवति। तत्कालनिर्माणं च सर्वथा सूर्याधीनं, तस्माद् देवतानां पोषणमपि सूर्यायत्तमेवेति भावः। कृशाः निशि विरहेणेति शेषः। खिन्नाः ये रथाङ्गाश्चक्रवाकाः तेषां सन्तोषणमानन्दजनकं “कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः” इत्यमरः। तथा पिशाचानां कुलस्य समुदायस्य भीषणं भयोत्पादकम्। पिशाचानामह्निसञ्चाराभावो हि प्रसिद्धः। तथा पृथुतमश्छटापेषणं तमसः छटा तमसश्छटा पृथ्वी महती या तमश्छटा अन्धकारसमुदायःनिबिडान्धकार इति यावत्। तस्याः पेषणं नाशकम्। तथा विनम्राणाम् अनन्यभक्त्या शरणागतानां गदस्य रोगस्य “रोग-व्याधि-गदामयाः” इत्यमरः। शोषणं निवारकम्। विहितं कृतं वारिजानां कमलानाम् उन्मेषण विकसनं येन तथाभूतम्। किञ्च नभः आकाश एव स्थली अकृत्रिमस्थलं “जानपद-कुण्ड गोण-स्थल-” इत्यादिना स्थलशब्दाद् अकृत्रिमार्थे डीष्। तस्याः भूषणमलङ्कारभूतं, एतादृशं पूषणं भगवन्तं श्रीसूर्यं, ननु निश्चयेन नमस्कुरुत। यूयं सर्वे जना इति शेषः। अत्र ‘कृतत्रिदशपोषण’ इत्यादिवाक्यस्य नमस्करणहेतुत्वात् काव्यलिङ्गमलङ्कारः। पृथ्वी वृत्तम् “द्वितीयमलिकुन्तले गुरुषडष्टमद्वादशं चतुर्दशमथ प्रिये गुरुगभीरनाभिह्रदे। सपञ्चदशमन्तिमं तदनु यत्र कान्ते यतिर्गिरीन्द्र-फणभृत्कुलैर्भवति विद्धि पृथ्वीति सा” इति तल्लक्षणात्॥ १२॥

इत्थं सामान्यतः सूर्यं वर्णयित्वा तद्गतविशेषधर्मानुवर्णनार्थं प्रस्तौति कविः — इत्थं विश्वावसुरित्यादिना। इत्थमुक्तप्रकारेण विश्वावसुः प्राञ्जलिः कृताञ्जलिः सन्, विभावसुं सूर्यं “चित्रभानुर्विभावसुः” इत्यमरः। अभिष्टुवन् तस्य स्तुति कुर्वन्सन्, कृशानुना सह। अत्र “सहयोगेऽप्रधाने” इत्यनेन तृतीया। द्वादश आत्मानो मासभेदेन अतर्यवां यस्य स तं, समया सूर्यस्य समीपमित्यर्थः। “द्वादशात्मा दिवाकरः" इत्यमरः। अत्र “अभितः-परितः-समयनिकषा-हा-प्रतियोगेऽपि”

प्रशस्तगुणसिन्धवे प्रपदनस्पृशां बन्धवे
स्वतोऽपहतपाप्मने सकलदेहिनामात्मने॥
नमः कमलवासिनीनयनसौख्यसन्दायिने18
तमःशमविधायिने तरणिमण्डलस्थायिने॥१३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

इति द्वितीया। सूर्यस्य मासभेदेन द्वादशावयवत्वं “पञ्चपादं पितरं द्वादशाकृति” इति प्रश्नोपनिषदि भाष्ये श्रीमच्छङ्कराचार्यैः प्रतिपादितम्—‘द्वादशाकृतिं द्वादश मासा आकृतयोऽवयवा आकारणं वा अवयविकरणमस्य’ इति। विमानं गमयामास प्रापयामास। गमयित्वा च किं कृतवांस्तदाह—आनमच्चेति। तस्य सूर्यस्य बिम्बमध्ये मण्डलमध्ये धाम स्थान यस्य तम्। अतिमानः मान प्रमाणम् अतिक्रान्तः महिमा माहात्म्यं यस्य तं परमात्मान श्रीनारायणरूपम् आनमच्च नमस्कृतवान्। नारायणस्य सूर्यमण्डले स्थितत्वं “ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः” इत्याद्यागमे प्रसिद्धम्॥

  • वन्दनप्रकारमेवाह—प्रशस्तेत्यादिना। प्रशस्ताः स्तुत्याः ये गुणा दया-दाक्षिण्यादयो भक्तारिष्टनिरसनादयो वा तेषां सिन्धुः समुद्रस्तस्मै अपारगुणवते इत्यर्थः। प्रपदनं पादाग्रं तत् स्पृशन्तीति तेषां बन्धवे हितकारिणे। यद्यप्यमरे “पादाग्रं प्रपद पादः” इति पादाग्रवाची प्रपदशब्द एवोक्तः, न तु प्रपदनशब्दस्तथापि तत्र प्रपूर्वकात् ‘पद गतौ’ इत्यस्माद्धातोः सकाशात् “खनो घ च” इति सूत्रे घित्करणस्यान्यतोऽपि ज्ञापनार्थत्वाद् घप्रत्ययः। अत्र तु तस्मादेव ल्युट् प्रत्ययः इयानेव भेदः। अर्थस्त्वेक एवेति ज्ञातव्यम्। पादस्पर्शनं च पूजनादौ भगवन्मूर्तेः। तदुक्तं भागवते—“शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम्” इति। अथवा प्रकर्षेण पद्यते ज्ञायते अनेन तत् प्रपदनं ज्ञानं तत् स्पृशन्ति सम्पादयन्ति ते प्रपदनस्पृशो ज्ञानिनः तेषां बन्धवे प्रियाय। भगवान् हि ज्ञानिनामतीव प्रियः। तथा च भगवद्गीतायाम्— “चतुर्विधा भजन्ते मां नराः सुकृतिनोऽर्जुन। आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ। तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते।” इति “प्रियो हि ज्ञानिनोऽत्यर्थमह स च मम प्रियः” इति च। स्वतः अपहताः नष्टाः पाप्मानो जन्मादयः (जायते अस्ति वर्द्धते विपरिणमते अपक्षीयते नश्यति इति) षड्विकाराः यस्मात् तथाभूताय। तथा सकलदेहिनां सर्वप्राणिनामात्मने आत्मरूपेण हृदि स्थिताय। “हृदि ह्येष आत्मा” “इहैवान्तः शरीरे सोम्य स पुरुषः” इति श्रुतिः “ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति” इति श्रीभगवद्गीता च। कमलवासिनी लक्ष्मीः तस्याः नयनसौख्यस्य नेत्रसुखस्य सन्दायिने प्रदायकाय। तमसः अज्ञानस्य अन्धकारस्य वा शमं शान्ति विधत्ते करोति तच्छीलः तस्मै। तरणेः सूर्यस्य “द्युमणिस्तरणिर्मित्रः इत्यमरः। मण्डले बिम्बमध्ये “बिम्बोऽस्त्री मण्डलं त्रिषु" इत्यमरः। तिष्ठति तच्छीलः तस्मै*

    पुनः सभक्त्युन्मेषम् —

भानुभानुदलदब्जलोचनं भक्तलोकभवपाशमोचनम्॥
धाम तामरसवासिनीसखं हेमवर्णमिह सौति मे सुखम्॥१४॥

** कृशा०**—किमरे19 केवलं निर्घृणोऽपि नारायणो भवता विवेकलाभवता20पि स्तवनभाजनीक्रियते !॥ ३॥

तथाहि—

स्वेनादौ निखिलं21 जगद्विरचितं स्वेनैव संरक्षितम्
भिन्दन् हन्त मुकुन्द एष विधृतानन्दो हि निन्दोचितः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

भगवते नमः। अस्त्विति शेषः। पृथ्वी वृत्तम्। लक्षणं प्राक् ( १२ श्लो० टीकायां ) कथितम्॥ १३॥

  • पुनः भक्तेः प्रेमपूर्वकानुध्यानस्य “प्रेमपूर्वमनुध्यानं भक्तिरित्यभिधीयते” इत्यागमात्। उन्मेषेण विकासेन सहित यथा भवति तथा प्राहेति शेषः॥*

  • भान्विति। भानोः सूर्यस्य भानुभिः किरणैः “भानुर्हसः सहस्रांशुः” “भानुः करो मरीचिः स्त्री” इत्युभयत्राप्यमरः। दलती विकासमाने ये अब्जे कमले ते इव लोचने यस्य तत्, अत्रोपमावाचकस्येवशब्दस्य लोपाद् लुप्तोपमेयम् “वादेर्लोपे समासे सा” इति तल्लक्षणात्। भक्तानां भजकानां लोकः समुदायः तस्य यो भवपाशः संसारपाशः तस्य मोचनं निवारकम्। पुनः कथम्भूतम्। तामरसवासिनी कमलनिवासिनी लक्ष्मीः“पङ्केरुहं तामरसं सारसं सरसीरुहम्” इत्यमरः। तस्याः सखि मित्रभूत इति तत्। “राजाहः-सखिभ्यष्टच्” इति समासान्तष्टच्प्रत्ययः। पुनश्च हेम सुवर्णं “सुवर्णं हेम हाटकम्” इत्यमरः। तद् इव वर्णो यस्य तत्। एतादृशं धाम वैष्णव तेजः इहेदानीम् इह सूर्यमण्डले वा। मे मम सुखं सौति जनयति उत्पादयतीति यावत्। रथोद्धता वृत्तम् “रान्नराविह रथोद्धता ल-गौ” इति तल्लक्षणात्॥१४॥*

  • एवं नारायणवर्णनं श्रुत्वा तत्रापि निर्दयत्वरूपं दोषमुद्भाव्याह कृशानुः—किमरेइति। अरे विश्वावसो, केवलमत्यन्तं निर्घृणो निर्दयो नारायणोऽपि भवता त्वया विवेकस्य सदसद्विवेचनस्य लाभः प्राप्तिर्यस्यास्तीति तथाभूतेनापि सता, स्तवनस्यस्तोत्रस्य भाजनीक्रियते पात्रीक्रियते योग्य इव क्रियत इति यावत्। “योग्य-भाजनयोः पात्रं” इत्यमरः। किम् ? आश्चर्यमिदमिति भावः। भाजनीक्रियते इत्यत्र अभूततद्भावे च्विः। अभूततद्भावो नाम वर्णनीये वस्तुनि वर्ण्यधर्माभावे सत्यपि तद्धर्मारोपकरणम्। एवं चात्र वस्तुतो निर्दयत्वान्नारायणः स्तवनभाजनमभवन्नपि तदिव कृतः एतदयुक्तमिति कृशानुना सूचितमिति ज्ञेयम्॥ ३॥*

  • तथाहि निर्दयत्वमेवोपपादयति—स्वेनेति। हि यस्मात् कारणाद् एषः त्वया*

उत्पाद्य स्वयमुत्तमान् फलतरूनुल्लास्य चारूदकै-
रुन्मत्तोऽपि किमुच्छिनत्ति जगति च्छित्त्वापि किं नन्दति?॥१५॥

किञ्च—

स्वानुज्ञामनवाप्य दर्पभरतः स्वाज्ञां विलङ्घेत य-
स्तस्यैवेह तनोति लौकिकनृपश्चण्डोऽपि दण्डं रुषा॥
अन्तर्याम्यपथे प्रवर्त्य भविनीहन्त स्वयं नारके
यस्तान् पातयति क्रुधा स तु न किं ? नारायणो निर्घृणः॥१६॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

स्तवनभाजनीकृतो मुकुन्दो नारायणः, आदौ सृष्टिकाले स्वेन रजोभूयसी स्वाम्प्रकृतिमधिष्ठा यास्थितचतुर्मुखरूपेण, निखिल सम्पूर्ण “समस्त-निखिलाखिलानि निःशेषम्। समग्रं सकल पूर्णम्” इत्यन्तोऽमरः। जगद्विश्व विरचितमुत्पादित, तथा स्वेनैव सत्त्वप्रकृष्टां प्रकृतिमधिष्ठायाविष्कृतविष्णुस्वरूपेण संरक्षित पालित, एतादृशमिदं जगत्, पुनः स्वतएव भिन्दन विनाशयन् तमोगुणप्रचुरां रुद्रतनुमाश्रित्येति भावः। एतावत् कृत्वैव न स विरराम, कि तु पुनर्विधृतानन्दः युक्त कृत मयेति मन्वा मोदमान इत्यर्थः। अत एवाय निन्दोचितः निन्दितु योग्यो न तु स्तोतु योग्य इत्यर्थः। हन्तेति विषादे। एतदेव लौकिकोदाहरणेन दृष्टान्तयति—उत्पाद्येति। जगति लोके यः कश्चिद् उन्मत्तोऽपि न तु सावधान इति अपिशब्दस्वारस्यम्। स्वयम्उत्तमान् फलतरून् फलदान् वृक्षान्, उत्पाद्य भूमौ बीज निक्षिप्य अङ्कुरिनान् कृत्वा, अपि च चारूणि वृक्षपोषणपर्याप्तानि च तानि उदकानि जलानि तैः वृक्षपोषणपर्याप्तजलसेचनैरित्यर्थः। ( यद्यप्यमरे “सुन्दरं रुचिरं चारु” इति चारुशब्दस्य सुन्दरवाचकत्व, तथाप्यत्र जलस्य वृक्षपोषणेनैव सुन्दरत्वमित्यभिप्रेत्ययमुपरितनोऽर्थः कृत इति ज्ञेयम्। ) उल्लास्य संवर्ध्य, स्वयमेव उच्छिनत्ति किम् ? अपि च छित्त्वापि नन्दति आनन्दं करोति किम् ? अपि तु नैव छिनत्ति नैव नन्दति चेत्यर्थः। यदि लोके साधारणोऽपि जनः “विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम्” इति नयमनुसृत्य स्वयमुत्पादितस्य स्वत एवोच्छेदकरणमनुचितमिति जानाति, तर्हि यस्त्रिलोकीमुत्पादयनि पालयति च, तेन नारायणेनाय नयः कि न ज्ञातु शक्यः ? अपि तु शक्य एव। तथापि यदाय स्वयमुत्पादितान् लोकान् बुद्धिपूर्वक विनाशयति, तदायमत्यन्त निर्घृण एवेति भावः। अत्र प्रकृतवाक्यार्थस्य ‘स्वेनादौ—’ इत्यादेः तद्घटकस्य ‘उत्पाद्य’ इत्यादिवाक्यार्थस्य च बिम्बप्रतिबिम्बभावाद् वैधर्म्येण दृष्टान्तालकारः। तदुक्तम्—“दृष्टान्तः पुनरेतेषां (उपमादीनां) सर्वेषां प्रतिबिम्बनम्” इति। शार्दूलविक्रीडित वृत्तम्। लक्षणमुक्त प्राक्(२ श्लोकटीकायाम् )॥ १५॥

  • किच स्वानुज्ञामिति। यः कश्चिज् जनः सेवको वा दर्पभरतः गर्वातिशयाद्धेतोः, पञ्चम्यास्तसिल्। स्वस्य (लौकिकनृपस्य) अनुज्ञा सम्मति अनवाप्य अगृहीत्वा, स्वस्य (लौकिकनृपस्य) आज्ञां विलङ्घेत उल्लङ्घेत, तदा चण्डः अतिकोपयुक्तः “चण्डस्त्वत्यन्तकोपनः” इत्यमरः। अपि, लोके भवः लौकिकः स चासौ नृपश्चेति*

** वि०—**अहो ! तव मतिरतिस्थूला, यतः परमकारुणिकं भगवन्तं पङ्कजवासिनीप्राणनाथमपि स्पृशति तवोपालम्भः। आकर्णयेदम्॥४॥

चिराय संसृत्युदधौ समज्जनं
नमज्जनं मज्जन इत्यधोक्षजः॥
दयापयोधिः परिगृह्य दुर्लभं
निजं पदं प्रापयति स्वयं प्रभुः॥ १७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

विग्रहः। लौकिको राजेत्यर्थः। रुषा स्वाज्ञोल्लङ्घनजनितक्रोधेन, तस्यैव आज्ञोल्लङ्घनकर्तुरेव, इह दण्ड शिक्षां तनोति करोति। न त्वन्यस्यानपराधिन इत्यर्थः। योऽयं नारायणस्तु अन्तः मनः यमयति प्रेरयति तच्छीलः अन्तर्यामी। ताच्छील्ये णिनिः। हृदये तिष्ठन् शुभाशुभकर्मप्रेरक इत्यर्थः। “ ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया” इति स्मृतेः। एतादृशः सन् स्वभावत एव भविनः संसारयुक्तान् जनान् अपथे दुर्मार्गे दुष्कर्मणीत्यर्थः। प्रवर्त्य, स्वयमेव तान् दुष्कर्मकर्तृृन् जनान्, क्रुधा रोषेण नारके निरये “स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्।” इत्यमरः। पातयति। हन्तेति खेदे। सः निर्घृणः निर्दयः न किम् ? अपि त्वत्यन्त निर्घृण एवेत्यर्थः। अयमाशयः—लौकिकनृपोहि अपराधिनमनपराधिनं च दृष्ट्वैव अपराधिन दण्डयति, स्वनियमप्रसिद्ध्या च लोकान्नीतिपथमनुशिक्षयति च; अयं (नारायणः) तु यद्यन्तर्यामी, तर्हि अनेनापि सर्वे लोकाः सन्मार्गे एव प्रवर्तयितव्याः; तथा सति सर्वेऽपि जनाः सत्कर्माणि कृत्वा सद्गतिमेवाप्नुयुः, न कश्चिदपि दुर्गति, परं तु तदकुर्वन् यदा दुष्कर्मण्येव प्रवर्त्य दुर्गति गमयति तदाऽत्यन्त निर्घृण इति। अत्र ‘स्वानुज्ञामनवाप्य—’ इत्यादिवाक्यस्य विवक्षितवचनेन हेतुत्वात् काव्यलिङ्गमलङ्कारः, उत्तरत्र अपराधकारणाभावेऽपि दण्डकार्यकथनाद् विभावनालकारः। एव च उभयत्रापि परस्परवाक्यापेक्षणादङ्गाङ्गिभावाच्च द्वावपि मिलित्वा सङ्करालकारः। तदुक्तम्— “अविश्रान्तिजुषामात्मन्यङ्गाङ्गि त्वं तु सङ्करः” इति। वृत्तं च शार्दूलविक्रीडितम्। लक्षणं (२ श्लो०टी०) पूर्वोक्तमेव॥१६॥

  • अथ कृशानुना उद्घाटित निर्घृणत्वरूप दोषं परिहरन्नाह विश्वावसुः— अहो इति। अहो इत्याश्चर्ये। अथवा अहो इति सम्बोधनार्थम्, हे कृशानो इत्यर्थः। तव मतिः बुद्धिः अतिस्थूला सदसद्विवेकशून्या। कुत्र इत्यत आह—यतः यस्मात् कारणात्, परमकारुणिकमत्यन्तदयालुं “स्याद्दयालुः कारुणिकः” इत्यमरः। भगवन्तं षड्गुगैश्वर्यसम्पन्नं, पङ्कजवासिन्या लक्ष्म्याः प्राणनाथं पतिं नारायणमपि, तव सम्बन्धी त्वकृत इत्यर्थः। उपालम्भो निन्दा स्पृशति परामृशति, तमपि निन्दसीति यावत्। तस्माद् इद नारायणविषये करुणाप्रतिपादकं वचः, आकर्णय सावधानमनसा शृणु॥४॥*

  • चिरायेति। दयापयोधिर्दयासागरः, अनेन नायं प्राकृतलोक इव केनचित्कारणेन दयाशीलः, किन्तु कारणं विनापि स्वभावत एवापरिमितदयाशील इति सूचितम्। अधो-*

    किञ्च—

लीलालोलतमां रमामगणयन्नीलामनालोकयन्
मुञ्चन् किञ्च महीमहीश्वरमयं मञ्चं हठाद्वञ्चयन्॥
आकर्षन्द्विजराजमप्यतिजवाद्धा हन्त लोकान्तराद्
गोप्तुं शौरिरुदित्वरत्वर उदैत्22ग्राहग्रहार्तं गजम्॥१८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

क्षजोऽयं नारायणः संसृतिरूपे संसाररूपे उदधौ समुद्रे, चिराय बहुकालपर्यन्त, समज्जन मज्जनेन परिभ्रमणेन सहित, परं तु संसारदुःखपरिहारायेति शेषः। नमन्भक्तिपूर्वक नमस्कुर्वश्चासौ जनो लोकश्च त, मज्जनः मदीयोऽय जन इति एवप्रकारेण स्वय परिगृह्य स्वीकृत्य, इतिना कर्मणोऽभिहितत्वात् प्रथमा। प्रभुः कर्तुमकर्तुमन्यथा कर्तुमपि समर्थः, दुर्लभ भक्त्या विना दुष्प्राप, निजमात्मीय पद स्थान वैकुण्ठलोकमित्यर्थः। प्रापयति नयति। अत्र पद्ये पूर्वार्धे अनुप्रासालकारः, तच्च वाक्य निजजनत्वेन स्वीकरणस्य निजपदप्रापणस्य च हेतुरूप, तेन काव्यलिङ्गमलकारः। एव चात्र काव्यलिङ्गानुप्रासयोः संसृष्टिः“सैषा संसृष्टिरेतेषा भेदेन यदिह स्थितिः” इति तल्लक्षणात्। वंशस्थवृत्तम्। लक्षणमुक्त प्राक् ( १० श्लोकटीकायाम् )॥ १७॥

  • यदुक्तं ‘नमज्जन मज्जन इति परिगृह्य निज पद प्रभुः प्रापयति’ इति, तदेव कैश्चित् पुराणप्रसिद्धैस्तदवतारचरित्रैर्दर्शयति—तत्र तावत् प्रथम भगवत्कृत गजेन्द्रमोक्ष कथयति—लीलेत्यादिना। किच ग्राहस्य नक्रस्य “ग्राहोवहारो नक्रस्तु” इत्यमरः। ग्रहाद् ग्रहणाद् आर्त पीडित गज हस्तिन “दन्ती दन्तावलो हस्ती द्विरदोऽनेको द्विपः। मतगजो गजो नागः” इत्यमरः। गोप्तु रक्षितु, उदित्वरा आविर्भवन्ती त्वरा सम्भ्रमो यस्य सः। उदित्वरेत्यत्र उत्पूर्वकात् ‘इण् गतौ’ इत्यस्माद् धातोः सकाशात् “इण्-नशजि-सर्तिभ्यः क्वरप्” इति क्वरप्प्रत्ययः “ह्रस्वस्य पिति कृति—” इति तुक्। शूरस्य वसुदेवस्य अपत्य शौरिः “अत इञ्” इत्यमत्यार्थे इञ्। कृष्ण इत्यर्थः। लीलया शृङ्गारभावेन “हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः” इत्यमरः। अतिशय लोला कामतृष्णायुता ता, “लोलश्चल-सतृष्णयोः” इत्यमरः। रमां, लक्ष्मी अगणयन् अपश्यन्, नीला कालिन्दी अनालोकयन् तामप्यपश्यन्नित्यर्थः। भगवता हि कृष्णावतारे कालिन्दीनाम्न्यास्तपस्यन्त्याः स्त्रियाः स्वीकारः कृतः इति श्रीभागवते दशमस्कन्धे प्रसिद्धम्। यद्वा नीला नाग्नजिती तस्मिन्नेवावतारे परिणीता ज्ञेया। “नीलां नग्नजितः पुत्री” इति मणिमञ्जरीकाव्ये तथा दर्शनात्। किच महीं पृथिवीदेवी मुञ्चन् त्यजन्, पृथिव्यपि विष्णुपत्नीति “समुद्रवसने देवि पर्वस्तनमण्डले। विष्णुपत्नि नमस्तुभ्यम्—” इत्याद्यागमप्रसिद्धम्। तथा अहीश्वरमय शेषस्वरूप मञ्च शयन च **“*शयनं मञ्च-पर्यङ्क—” इत्यमरः। हठात् सहसा वञ्चयन् तिरस्कुर्वन्, अपि च द्विजानाम्पक्षिणां राजा गरुडस्त, “राजाहः सखिभ्यः—” इति टच्। “दन्त-विप्राण्डजा (पक्षिणः) द्विजाः” इति “गरुत्मान्

वैकुण्ठोमहता23हताखिलमहारम्भं मदेनोच्चकै-
श्चण्डं खण्डयितुं हिरण्यकशिपुं वेतण्डमुत्कण्ठया॥
सैहं वेषमशेषभीषणमहो गृह्णन् त्वरागौरवात्
प्रह्लादव्यसनासहिष्णुरुदगादाकण्ठकण्ठीरवः॥१९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः" इति चामरः। आकर्षन् भक्तपीडापरिहारार्थं सत्वरं गन्तुमित्यर्थः। लोकान्तराद् वैकुण्ठात्, अतिजवाद् अतिवेगेन, उदैद् आगमन् ‘इण् गतौ’ इति धातोः कर्तरि लड्। हा हन्त इति निपातसमुदायाद् भक्तपीडापरिहारार्थमत्यन्तदयावत्त्व भगवतः सूच्यते “हा विषाद-शुगर्तिषु। हन्त हर्षेऽनुकम्पाया” इत्यमरात्। एतेन पद्येन यदि गजस्य पशोरपि भक्ति दृष्ट्वा तत्त्राणार्थ भगवान् एव करोति, तदा मनुष्यार्थ कुर्यादित्यत्र किमु वक्तव्यमिति सूचितम्। गजस्येव कथा महाभारते शान्तिपर्वणि प्रसिद्धा। यथा-चित्रकूटपर्वते एक परमरमणीय सरोवरमासीत्। यस्मिन्नेको महानक्रः प्रतिवसति स्म। तस्मिन्नेव सरसि क्रीडार्थं करिणीभिः सह कश्चिन्महागजः समाययौ। स च जले प्राविशत्। तदा स नक्रेण निजास्येन सुदृढ पादे धृतः। तदा गजस्त नक्र केनाप्युपायेन निवारयितुमशक्नुवन्ननन्यभावेन भगवन्तं नारायणमेव शरण्य मत्वा पुष्कराग्रेण सर स्थमेक पङ्कज तस्मै समर्प्य “ॐ नमो मूलप्रकृतये अजिताय महात्मने।” इत्यत आरभ्य “नमस्ते पुण्डरीकाक्ष भक्तानामभयकर। सुब्रह्मण्य नमस्तेऽस्तु त्राहि मा शरणागतम्। तावद्भवति मे दुःख चिन्ता संसारसागरे। यावत् कमलपत्राक्ष न स्मरामि जनार्दनम्॥” इत्यन्त स्तोत्र जगौ। तदा परमकारुणिको भगवान् सत्वरमुपेत्य ग्राहाद् गजममोचयदिति। शार्दूलविक्रीडित वृत्तम्॥१८॥

  • अथ नृसिंहावतारे कृत निजभक्तस्य प्रह्लादस्य रक्षणमाह—वैकुण्ठ इति। प्रह्लादस्य हिरण्यकशिपुपुत्रस्य स्वभक्तस्य व्यसनासहिष्णुः तत्पित्रा दीयमान दुःखमसहमानः “अलकृञ्-निराकृञ्—” इत्यादिना इष्णुच् प्रत्ययः। वैकुण्ठोऽय नारायणः विकुण्ठयति पराभव प्रापयति शत्रूनिति विकुण्ठः ‘कुठि प्रतिघाते’ इति धातोः“अन्येभ्योऽपि दृश्यन्ते” इत्युणादिसूत्रेणाच्प्रत्ययः। विकुण्ठ एव वैकुण्ठः इति विग्रह.। “विष्णुर्नारायणः कृष्णो वैकुण्ठः” इत्यमरः। महता मदेन गर्वेण, हता विनाशिताः अखिलाः सकला महान्तः आरम्भाः तपोयज्ञादिकाः क्रिया येन तं, राजपक्षे तु महता मदेन मदजलेन उपलक्षित, महान् आरम्भो येषां ते महारम्भाः हताः अखिला महारम्भा उद्यानोपवनादयो येन त, उच्चकैरतिशयेन चण्ड महाभयकरं हिरण्यकशिपुम् एतद्रूप वेतण्ड गज, खण्डयितुं विनाशयितुं, उत्कण्ठया हिरण्यकशिपुरूपगजमारणातिशयवाञ्छया, त्वरायाः शीघ्रतायाः ‘मौरवाद् अतिशयेन अतीव शीघ्रमित्यर्थः। अशेषाणां सम्पूर्णीनां (शत्रूणां) भीषणं भयकरं, सैहं सिहसम्बन्धिनं वेष आकारं, गृह्णन् धारयन्, आ-*

    अन्यच्च—

अवेमव्यापाराकलनमतुरीस्पर्शमचिरा-
दनुन्मीलत्तन्तुप्रकरघटनायासमसकृत्॥
विषीदत्पाञ्चालीविपदपनयैकप्रणयिनः
पटानां निर्माणं पतगपतिकेतोरवतु नः॥२०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

कण्ठं कण्ठपर्यन्तं “आड् मर्यादाभिविध्यो” इति समासः कण्ठीरवः सिंहरूपः सन् अर्थान् नरसिंहशरीरः सन्नित्यर्थः। “कण्ठीरवो मृगरिपुः” इत्यमरः। उदगाद् आविर्बभूव। स्तम्भादिति शेषः। अहो इत्याश्चर्ये। ‘इण् गतौ’ इति धातोर्लुङ्“इणो गा लुडि” इति ‘गा’ आदेशः। “गाति-स्था—” इत्यादिना सिचो लुक्। एतत् प्रह्लादचरित्र श्रीमद्भागवते सप्तमस्कन्धे प्रसिद्धम्। अत्र पूर्वार्धे ‘हिरण्यकशिपु वेतण्ड’ इति हिरण्यकशिपावेव गजत्वस्याभेदेनारोपाद्रूपकमलकारः, उत्तरत्र च ‘अशेषभीषण’ इत्याद्युक्तेः साभिप्रायत्वात् परिकरालकारः। “तद्रूपकमभेदो य उपमानोपमेययो” इति “विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः” इति च द्वयोर्लक्षणात्। द्वावपि मिलित्वा संसृष्टिः। शार्दूलविक्रीडित वृत्तम्॥ १९॥

अथेदानीं कृष्णावतारे कृत भक्तिमत्या द्रौपद्याः कौरवसदसि वस्त्रपूरणात्मक भगवच्चरित्रमाह—अन्यच्चेति। अवेमेति। विषीदन्त्याः कुरुसदसि दुःशासनकृतवस्त्रापहरणेन दुःखवत्याः पाश्चाल्याः द्रौपद्याः विपदः वस्त्रापहारकृतदुःखस्य अपनये दूरीकरणे एकः मुख्यः प्रणयः स्नेहोऽस्यास्तीति तथाभूतस्य। मत्वर्थे इनिः। पतगानां पक्षिणा “पतत्रिपत्रि-पतग—” इत्यमरः। पतिर्गरुडः केतुर्ध्वजो यस्य तथाभूतस्य भगवतः सम्बन्धि, भगवत्कर्तृकमित्यर्थः। अवेमव्यापाराकलन न विद्यते वेम्नः वयनदण्डस्य “पुंसि वेमा वायदण्डः” इत्यमरः। व्यापारस्य आकलन स्वीकरण यस्मिन् तद् वयनदण्डग्रहणरहितमित्यर्थः। तथा न विद्यते तुर्याः तन्तुवेष्टनसूक्ष्मदारुविशेषस्य स्पर्शो यस्मिस्तत् तुरीस्वीकाररहितमपीति यावत्। तथैव च अनुन्मीलत्तन्तुप्रकरघटनायासम् अनुन्मीलन् अप्रकटीभवन्तन्तुप्रकरघटनायाः वस्त्रसम्बन्धिसूत्रसमूह- रचनायाः“सूत्राणि नरि तन्तवः” इत्यमरः। आयासो यत्नो यस्मिस्तत्। अचिरात् शीघ्र, असकृद् वारंवार च पटानां वस्त्राणां निर्माण उत्पादन नोऽस्मान् अवतु रक्षतु। एतच्चरित्रं श्रीमहाभारते सभापर्वणि विस्तरेण वर्णितम्। तच्च सर्वे जानन्त्येव परं च तत्समये द्रौपद्या कृत कृष्णस्तवः प्रेमभक्तियुतत्वात्, भगवत्कृतपटनिर्माणप्रकारश्चात्र लिख्यते। यथा —“आकृष्यमाणे वसने द्रौपद्या चिन्तितो हरिः। गोविन्द द्वारकावासिन् कृष्ण गोपीजनप्रिय॥ कौरवैः परिभूतां मा किं न जानासि केशव। हे नाथ ! हे रमानाथ! व्रजनाथार्तिनाशन॥ कौरवार्णवमग्ना मामुद्धरख जनार्दन। कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन॥ प्रणतां पाहि गोविन्द कुरुमध्येऽवसीदतीम्। इत्यनुस्मृत्य कृष्ण सा हरि त्रिभुवनेश्वरम्॥ प्रारुदद्दुः- खिता राजन् मुखमाच्छाद्य भामिनी। याज्ञसेन्या वचः श्रुत्वा कृष्णो गह्वरितोऽभवत्॥

अपरं च—

काकः शोकं ^(१)व्यसृजदमितं वृद्धगृध्रोऽप्यनेकान्
लोकान् लेभे कुशलमगमन्निर्विषादं निषादः॥
राज्यं प्राप्तौ कपि-निशिचरौ राघवत्वे मुरारेः
पारे वाचां जयति करुणा पश्य पद्मासखस्य॥२१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

त्यक्त्वा शय्यासनं पद्भ्यां कृपालुः कृपयाभ्यगात्। आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते। तद्रूपमपरं वस्त्र प्रादुरासीदनेकशः॥ नानाराग-विरागाणि वसनान्यथ वै प्रभो” इति। अत्र ‘अवेमव्यापाराकलनम्’ इत्यादिना पटनिर्माणकारणाभावेऽपि कार्यकथनाद्विभावनालङ्कारः। तदुक्तम्—“क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना” इति। वृत्तं शिखरिणी “रसै रुद्रैरिछन्ना य-म-न-स-भ-ला गः शिखरिणी” इति तल्लक्षणात्॥ २०॥

  • साम्प्रतं रामावतारप्रसिद्धानि भगवतः कानिचिच्चरित्राणि वर्णयति—अपरं चेति।काक इति। मुरारेर्मुरनामकदैत्यशत्रोर्नारायणस्य, राघवत्वे रामावतारे, काकः एतद्रूप इन्द्रपुत्रो जयन्त इत्यर्थः। अमित अतिशयित शोकं दुःखं व्यसृजl तत्याज। तद्वृत्तं हि रामायणे इत्थं —चित्रकूटपर्वते कदाचित् सीताया उत्सङ्गे शिर आधाय भगवान् रामः सुष्वाप, तदैवेन्द्रलोकात् काकरूपधरो जयन्त आगlत्यनिजनख-तुण्डैः सीतायाः पादाङ्गुष्ठंविदारयामास, सा च भर्तृनिद्राभङ्गभिया पाद न चालयामास। अनन्तरं प्रबुद्धो रामस्तादृशीं प्रियां सीतां दृष्ट्वा काक च असकृदुत्पतन्तं दृष्ट्वा, तस्यैवायमपराध इति ज्ञात्वा, एक दर्भखण्डं सम्मन्त्र्य तस्मिन् मुमोच। तदा शरणार्थी स काको ब्रह्मादिदेवान् प्रति जगाम, परं तु रामप्रभावाभिज्ञास्ते त रक्षितुं नाशक्नुवन्। तदा स राममेव शरणमाययौ, शरण्यो रामश्च अमोघास्त्रत्वात्तस्यैक नेत्रमपहृत्य तं ररक्ष इति। तथा वृद्धगृध्रोऽपि अनेकान् बहून् लोकान् वैकुण्ठादीन् लेभे प्राप्तवान् ‘डुलभष् प्राप्तौ’ इत्यस्माल्लिट्। “अत एकहल्–” इत्यादिना एत्वाभ्यासलोपौ। अय गृध्रोपि दशरथसखः परमभक्तश्च रामस्य, अनेन सीताहरणसमये रावणेन सह बहु युद्धं कृतं, परं च रावणास्त्रव्यथितः स रामदर्शनाकाङ्क्षी विपिने न्यपतत्। ततो रामेणापि सीतां विचिन्वता स्वकरस्पर्शात् कृपया स्व धाम प्रापितः इति। तथा निषादः कश्चिद् गुहनामा श्वपचः “निषाद-श्वपचावन्तेवासिचाण्डाल-पुक्कसाः” इत्यमरः। निर्विषाद दुःखरहित कुशल क्षेम “कुशल क्षेममस्त्रियाम्” इत्यमरः। अगमत् प्राप्तः। गमधातोर्लुङ्लृदित्त्वादङ्। अयमपि रामभक्तस्तत्कृपया दुःखान्मुक्त इत्यपि रामायणे प्रसिद्धम्। तथा कपि-निशिचरौ सुग्रीवविभीषणौ वानर-रक्षसौ राज्यं प्राप्तौ, तस्यैव कृपयेति शेषः। तस्मात् पद्मासखस्य*

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • ^(१)‘व्यजहद०’ अस्मिन् पाठे व्यजहदिति रूप प्रामादिकं तस्मादयमपपाठ एवेति भाति । न च तावदभिरूपः कविश्छन्दोभङ्गभियाप्येतादृशं रूपं प्रयुङ्क्ते ।*

    तदेवं देवपरिवृढे24 दयापयोनिधा25वपि उपन्यस्तं नैर्घृण्यं तव तावदनैपुण्यमपुण्यफलं बुद्धेः पिशुनयति॥ ५॥

शृणु तावत्—

जीवानां दृषदादिमत्त्व26मयतां स्वर्गापवर्गास्पदं
देहं दत्तवति श्रियः प्रियतमे नैवोपकारस्मृतिः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

लक्ष्मीप्रियस्य नारायणस्य करुणा दया वाचां पारे वाणीमतिक्रम्येत्यर्थः। जयति सर्वोत्कर्षेण वर्तते। पश्य अवलोकय। अत्र वाक्यार्थः कर्म। ‘लीलालोलतमां—’ इत्यादिश्लोकचतुष्टयेनैतत्सूचितं भगवतस्तावद्भक्तिं विना न किञ्चिदपि प्रिय, तस्मात्भक्तिं कुर्वाणाः जनाः केऽपि सन्तु न तेषु अल्पत्व-महत्त्व-स्त्रीत्व-पुरुषत्वादिविवक्षा, नापि मनुष्यत्वपशुत्वादिविचारः, किन्तु भक्तिप्रभावात् सर्वेऽपि समाना इति भावः। तदुक्तं स्वयं भगवतैव गीतायाम्—“मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥” इति। किञ्च भक्त्या प्रमन्नो भगवान् भक्तान् प्रति यद्ददाति न तल्लक्ष्मीं—ब्रह्मादयोऽपि लब्धुं शक्नुवन्ति। तदुक्तं श्रीमद्भागवते यशोदाकृतश्रीकृष्णबन्धनसमये—“नेम विरिञ्चो न भवो न श्रीप्यङ्गसंश्रया। प्रसाद लेभिरे गोपी यत्तत् प्राप विमुक्तिदात्॥ नाय सुखापो भगवान् देहिनां गोपिकासुतः। ज्ञानिना चान्मभूतानां यथा भक्तिमतामिह॥” इति। तम्मादेतस्मिन्नैर्घृण्यारोपो न युज्यत इति भावः। मन्दाक्रान्ता वृत्तम्। लक्षणमुक्तं प्राक् (८ श्लोकटीकायाम्)॥२१॥

तदेवाह—तदेवमित्यादिना। तद् वस्तुतो भगवतः अपरिमितदयावत्त्वाद्धेतोः देवपरिवृढे देवानां प्रभौ “प्रभुः परिवृढोऽधिपः” इत्यमरः। दयापयोनिधौदयासागरेऽपि एवं ‘स्वेनादौ निखिलं जगद्विरचितम्—’ इत्यादिप्रकारेणोक्तउपन्यस्तमारोपित नैर्घृण्य निर्दयत्व कर्तृ, तावत् तव बुद्धेः अपुण्यस्य पापस्य फल, अनैपुण्य च सूक्ष्मविचारराहित्य मूढत्वमिति यावत्। पिशुनयति सूचयति। भगवत्स्वरूपयाथार्थ्यविचारोऽपि बुद्धौ प्राक्तनपुण्यकर्म विना न स्फुरति। तदुक्तं भगवद्गीतायां योगभ्रष्टगतिनिर्णयप्रसङ्गे—“शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते। अथवा योगिनामेव कुले भवति धीमताम्। एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्। तत्र न बुद्धिसंयोग लभते पौर्वदेहिकम्॥॥ इति॥५॥

नन्वेतावतापि जगत्संहरणरूपस्य नरकपातरूपस्य च दूषणस्य न तावत् परिहारः, भक्तस्य सद्गतिप्रापण तु न खलुविशिष्टगुणापादक, निर्दयेष्वपि स्वीयरक्षणस्य तत्सुखप्रदानस्य च सम्भवादित्याशङ्क्याह-शृणु तावत्—जीवानामित्यादि। दृषत् पाषाणः “पाषाण- प्रस्तर-ग्रावोपलाश्मानः शिला दृषत्” इत्यमरः। आदिमः प्रथमो येषां ते दृषदा-

दुःखे जातुचिदागते स्वकलिताद्दुष्कर्मणः पक्त्रिमा -
न्नाथे हन्त निरागसि व्यसनिभिर्नैर्घृण्यमारोप्यते॥२२॥

हन्त जन्तवः पामराः स्वापराधं परमकारुणिके परस्मिन् ब्रह्मण्यध्यस्यन्ति27॥६॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

दिमाः देहाः तेषां भावः दृषदादिमत्त्वं पाषाण-तरु-पश्वादिदेहत्वमित्यर्थः। अयतां प्राप्नुवतां ‘अयं गतौ’इत्यस्मात् शतृप्रत्ययः। अयं धातुर्यद्याप्यात्मनेपदी, तथापि चक्षिङो डित्करणाज् ज्ञापकाद् अनुदात्तेत्त्वलक्षणस्यात्मनेपदस्यानित्यत्वात् साधुः। यद्वा ‘इट किट कटी गतौ’ इत्यत्र प्रश्लिष्टस्य इधातोः शतृप्रत्ययः इति समाधेयम्। अत एव ‘उदयति विततोर्ध्वरश्मिरज्जौ’ इति माघः, ‘उदयति हि शशाङ्कः कामिनीगण्डपाण्डुः’इति मृच्छकटिके शूद्रकश्च प्रयुक्तवान्। अर्थात् प्राक्तनस्वकर्मवशादिति ज्ञेयम्। एव हि शरीरप्राप्तिर्भवति—“योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः। स्थाणुमन्ये प्रपद्यन्ते यथाकर्म यथाश्रुतम्” इति श्रुतिप्रसिद्धम्। एतादृशां जीवानां स्वर्गश्च अपवर्गो मोक्षश्च “मोक्षोऽपवर्गोऽथाज्ञानम्—”इत्यमरः। तयोः आस्पदं सम्पादकं देहं मनुष्यदेहं नैसर्गिकस्वकीयापरिमितकृपयेति शेषः। दत्तवति श्रियो लक्ष्म्याः प्रियतमेऽस्मिन्नारायणे विषये, उपकारस्य एतादृशश्रेयः सम्पादकदेहप्रदानरूपस्य, स्मृतिः स्मरण नैव। भवतु नाम न हि तावत्तादृशसूक्ष्मविवेकिनो जीवास्तेन विस्मरण भवति, परं च न ह्येतावदेव, किन्तु तस्मिन्निरुपमकृपालौ दोषारोपं कुर्वन्तीत्याह-दुःखे इति। जातुचित् कदाचित्, “कदाचिज्जातु सार्धं तु” इत्यमरः। स्वकलितात् स्वकृतान्दुष्कर्मणः पापकर्मणः पक्त्रिमात् फलाभिमुखात् ‘डुपचष् पाके’ इत्यस्मात् “ड्वितः क्त्रिः” इति क्त्रिप्रत्ययः। तस्य च ‘क्त्रेर्मम्नित्यम्’ इति मप्। दु·खे आगते प्राप्ते सति, व्यसन स्वपापकर्मजनिता विपद् अस्ति येषां ते व्यसनिनः तैः, अर्थाद् विपद्युक्तैर्जनैरित्यर्थः। “व्यसनं विपदि भ्रंशे दोषे कामजकोपजे” इत्यमरः। निरागसि एतादृशदुःखप्रदानविषये निरपराधे “आगोऽपराधो मन्तुश्च” इत्यमरः। निरपराधे एतावदेव नैव, प्रत्युत नाथे सर्वेषामधिपतौ नारायणे, न हि योऽधिपतिः स दुःखप्रदानशील इति भावः। तस्मिन्नपि निर्घृणस्य भावः नैर्घृण्यनिर्दयत्वमिति यावत्आरोप्यते। हन्त एतदतिकष्टमित्यर्थः। अत्र नारायणे दुःखारोपस्य दुःखप्राप्तिकारणस्य च अत्यन्तविलक्षणत्ववर्णनाद् विषमालकारः “क्वचिद्यदतिवैधर्म्यान्न श्लेषो घटनामियात्” इत्यादितल्लक्षणात्। शार्दूलविक्रीडितं वृत्तम्॥२२॥

  • ‘व्यसनिभिर्नैर्घृण्यमारोप्यते’ इति यदुक्तं तदेव स्पष्टयति**-हन्तेति।** पामराः वास्तविकदुःखकारणानभिज्ञत्वान् नीचाः, जन्तवः प्राणिनः स्वेषाम् अपराधं दुःखापादनरूप, करुणा एव शीलमस्य कारुणिकः “शीलम्” इति ठक्। परमश्चासौ कारुणिकश्च तस्मिन् परस्मिन् इन्द्रियादिसङ्घात् परे, ब्रह्मणि ब्रह्मरूपे नारायणे अध्यस्यन्ति। आरोपयन्ति। हन्तेति खेदे॥६॥*

    तथाहि—

क्लेशत्यागकृतेऽर्पितेनकरणव्यूहेन देहेन च
स्वानर्थं बत जन्तुरार्जयति चेन्मन्तुर्नियन्तुः कुतः ॥
शस्त्रे शत्रुजयाय नैजगुरुणादत्तेऽथ तेनैव चेत्
पुत्रो हन्ति निजं वपुः कथय रे तत्रापराधी तु कः ? ॥२३॥

किं बहुना ॥ ७ ॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • यदुक्तं कृशानुना ‘स्वेनादौ निखिल जगद्विरचित’ इत्यादिना स्वोत्पादितजीवाना स्वेनैव नाशकरणरूप दूषण तत्परिहारं सदृष्टान्तमाह**—तथाहि–क्लेशेति।*जन्तुः जीवः कर्ता “प्राणी तु चेतनो जन्मी जन्तु-जन्यु-शरीरिणः” इत्यमरः। जातावेकवचनम्। सर्वे प्राणिन इत्यर्थ। क्लेशाना आध्यात्मिकाधिदैविकादिसासारिकतापानां त्यागकृते नाशार्थ न तु कामाद्यासक्ततया सम्पादनार्थ, कामाद्यासक्ताना क्लेशहानिस्तु नैव, अपि तु तदधिकप्राप्तिर्भवति। तदुक्तम्—“न जातु कामकामानामुपभोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥ इति। कृते इत्यव्यय तादर्थ्ये “अर्थे कृतेऽव्यय तावत् तादर्थ्ये वर्तते द्वयम्।” इति कोशसारः। अर्पितेन समर्पितेन, एतदुभयान्वयि।करणाना चक्षुरादीन्द्रियाणा व्यूहेन समूहेन देहेन शरीरेण च करणेन, स्वस्य आत्मनः अनर्थ विषयासक्ततया दुःख आर्जयति सम्पादयति चेत्, नियन्तुः ईश्वरस्य मन्तुः अपराधः, कुतो भवति ? अपि तु नैव भवतीत्यर्थः। क्लेशत्यागार्थ करणानामुपयोगप्रकारः प्रोक्तः श्रीमद्भागवते—“वाणी गुणानुकथने श्रवणौ कथाया हस्तौ च कर्मसु मनस्तव पादयोर्नः। स्मृत्या शिरस्तव निवासजगत्प्रणामे दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम्॥” इति। “सा वाग्यया तस्य गुणान्गृणीते हस्तौ च तत्कर्मकरौ प्रशस्तौ।” इत्यादि च। स्वोक्तेऽर्थे दृष्टान्तमाह—शस्त्रेइत्यादिना। नैजगुरुणा स्वपित्रां शत्रूणां रिपूणां जयाय पराजयाय “रिपौ वैरिसपत्नारि-द्विषद्द्वेषणदुर्हृदः। द्विड्विपक्षाहितामित्र-दस्यु-शात्रव-शत्रवः॥” इत्यमर।शस्त्रे खङ्गाद्यस्त्रे दत्ते समर्पिते सति, अर्थात् शस्त्रविद्यामध्याप्येति यावत्। अथ अनन्तरं “मङ्गलानन्तरारम्भ-प्रश्न-कार्त्स्येष्वथो अथ” इत्यमरः। पुत्रः तेनैव पितृदत्तेनैव शस्त्रेण, निज स्वीयमेव वपुः शिरआदिशरीरं, हन्ति छिनत्ति चेद् यदि “पक्षान्तरे चेद् यदि च” इत्यमरः। तु तर्हि तत्र पितृ-पुत्रयोर्मध्ये, रे हे कृशानो, अपराधी कः? कथय। अनेन शस्त्रदृष्टान्तेनैतत्सूचितं—यथा तावत् शस्त्रसमर्पणेन पुत्रनाशे सति तत्र पिता नापराधी, तथा ईश्वरोऽपि क्लेशनाशक्षमं शरीरं समर्प्य, तेनैव जन्तुभिः क्लेशोत्पादने कृते अन्तर्यामी सन्नपि तत्र न दूषणार्हः, कुतः एतादृशक्लेशनाशकशरीरसमर्पयितुः क्लेशकरत्वाभावात्। किन्तु जीवा एव तादृशाः, ईश्वरस्तु दयालुरेवेति ज्ञेयम्। दृष्टान्तालकारः। वृत्त शा० वि० ॥२३॥

  • किं बहुना अधिकेनोक्तेन किमित्यर्थः ॥७॥*

शास्त्रं भूरि निजस्वरूपमतये स्वाराधनार्थंवपुः
स्वध्यानाय मनश्च बुद्धि28मनघां लब्धुं च तीर्थादिकम्॥
तत्त्वान्यप्युपदेष्टुमुत्तमगुरून् दत्त्वाऽनुगृह्णाति नः
संसारे तदपि भ्रमेम यदि किं कुर्वीत ? सर्वेश्वरः॥२४॥

अथ भूलोकवर्णनम्—३

<MISSING_FIG href="../books_images/U-IMG-1722044523Screenshot2024-07-27071135.png"/>

इति परिक्रामन् किचिदुत्तरमु29पसृत्याधस्तादवलोक्य चसखे सकलपुरुषार्थसाधनानुष्ठानस्थानभूतं30 तावदवैलोकय31 भूलोकम्॥८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

किन्तु साराशतया यत् कथयामि तच्छृण्वित्याह*—शास्त्रमिति।** यः ईश्वरः निजस्य आत्मनः स्वरूपस्य सर्वत्र व्यापकस्य, मतये ज्ञानार्थ, भूरि बहु “पुरुहूः पुरु भूयिष्ट स्फारं भूयश्च भूरि च” इत्यमरः। शास्त्रमुपनिषच्छारीरकसूत्रादि च, स्वस्य आराधनार्थं पूजार्थं वपुः करचरणादीन्द्रियसहित शरीर, स्वध्यानाय स्वस्मिन् स्वरूपप्रत्ययतया चित्तस्यैकतानतायै “तत्र प्रत्ययैकतानता ध्यानं” इति योगसूत्रात्। तथा अनघा निर्मलां बुद्धिः च लब्धुं, तीर्थादिक प्रयाग-पुष्करादिरूप च, तत्त्वानि च उपनिषदादिषु कथितानि ‘तत्त्वमसि’ इत्यादिमहावाक्यानि उपदेष्टुमपि उत्तमगुरून् दत्त्वा, नोऽस्मान् अनुगृह्णाति। तदपि एवमनुग्रहे कृतेऽपि शास्त्रावलोकन-पूजन-ध्यानाद्यन्यतमस्य कस्यापि साधनस्यानाचरणेन, प्रत्युत कामाद्यासङ्गेन चेति शेषः। संसारे यदि भ्रमेम “पुनरपि जनन पुनरपि मरण” इत्याद्युक्तरीत्या परिभ्रमामः, ‘भ्रमु चलने’ इत्यस्माद्विधिलिङ्युत्तमपुरुषः। तदा सः सर्वेश्वरः किं कुर्वीत ? एवं च जगत्संहारनरकपातादिरूपोऽयं न भगवतोऽपराध, किं तु तादृशकर्मकर्तॄणां जीवानामेव, तस्माच्च परमकारुणिके भगवति नारायणे दोषारोपो न युक्त इति भावः। शा० वि० वृत्तम् ॥ २४॥*

  • एवं सविस्तरं सूर्यवर्णनमुपसंहृत्य भूलोकवर्णनप्रस्तावमाह**—इतीति।** इति वदन् विश्वावसुरिति शेषः। परिक्रामन् विमानेन परिभ्रमन् ‘क्रमु पादविक्षेपे’ इत्यस्मात् शतृप्रत्ययः। “क्रमः परस्मैपदेषु” इत्युपधादीर्घः। किञ्चिदुत्तरमुपसृत्य पुरतो गत्वा, अधस्तादधोभागे अवलोक्य दृष्ट्वा च आहेति शेषः॥*

*** सखे इति।** हे सखे कृशानो, सकलाश्चत्वारश्च ते पुरुषार्था धर्मार्थादयस्तत्साधनानां कर्मणामनुष्ठानस्य स्थानभूत भूलोकमवलोकय पश्य ॥८॥*

सबहुमानम्—

स्वर्गौकोभिरदोनिवासिपुरुषारब्धातिशुद्धाध्वर-
स्वाहाकार-वषट्क्रियोत्थममृतं स्वादीय आदीयते॥
आम्नायप्रवणैरलङ्कृतिजुषेऽमुष्यै मनुष्यैः शुभै-
र्दिव्यक्षेत्रसरित्पवित्रवपुषे देव्यै32 पृथिव्यै नमः॥२५॥

** कृशानुः—**ननु सखे नाकगतोऽपि भवान् न मध्यमलोकं33 नमस्कर्तुमर्हति॥९॥

तथाहि—

जनन-मरण-क्वाधि-व्याधिप्रभेदशुभेतरा-
कलनमलिना लोकाः शोकातुराश्च भुवं गताः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

सकलपुरुषार्थसाधनत्वमेव सबहुमान प्राह—स्वर्गौकोभिरिति। स्वर्गः सुरलोकः ओको निवासस्थान येषां तैर्देवैरित्यर्थः। अदः अस्मिन् भूलोके निवसन्ति ते अदो निवासिनस्तैः पुरुषैरारब्धाश्च ते अतिशुद्धा मन्त्र-तन्त्रविपर्यासादिदोषरहिताः अध्वरःयज्ञास्तेषु स्वाहाकारश्च वषट्क्रिया च ताभ्यां, स्वाहाकार-वषट्क्रिये हि स्वाहा वषट् इत्यव्यये ते च देवतार्थं हविस्त्यागकाले मन्त्रान्ते प्रयुज्येते। तेन तादृशमन्त्रोच्चारणेन त्यक्तहविर्भ्यामित्यर्थः। “स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट्स्वधा” इत्यमरः। उत्थमुत्पन्न, स्वादीयः अतिमधुरं, स्वादुशब्दाद् अतिशायने ईयसुन्प्रत्ययः। अमृतहवीरूप आदीयते स्वीक्रियते। अपि च आम्नायेषु वेदेषु “श्रुतिः स्त्री वेद आम्नायः इत्यमरः। प्रवणैः निपुणैः अर्थात् तदध्ययन-तद्विहितकर्मानुष्ठानासक्तैरिति यावत्। अत एव शुभैः कल्याणयुक्तैः मनुष्यैः, अलङ्कृतिजुषे अलङ्कारयुक्तायै ‘जुषी प्रीति-सेवनयोः’ इत्यस्मात् क्विप्। दिव्यानि च तानि क्षेत्राणि वाराणसीबदरिकाश्रमादीनि तैः सरिद्भिः गङ्गा-यमुनादिभिश्च पवित्र शुद्ध वपुः शरीरं यस्यास्तस्यै, अमुष्यै दृश्यमानायै देव्यै देवतारूपायै पृथिव्यै नमः अस्तु इति शेषः। शा० वि० वृत्तम्॥ २७॥

  • अथ भुव्यपि दोषारोप कुर्वन् प्राह कृशानुःनन्विति। नन्विति विरोधे। “ननु च स्याद्विरोधोक्तौ” इत्यमरः। सखे हे विश्वावसो, भवान् नाकगतोऽपि अत्रापिर्हेत्वर्थकः। यतः स्वर्गस्थस्तत इत्यर्थः। मध्यमश्चासौ लोकश्च त भूलोकमिति यावत्। नमस्कर्तुं नार्हति, त्वं नार्हसीत्यर्थः। भवच्छब्दयोगात् “शेषे प्रथमः” इति प्रथमपुरुषः॥९॥*

  • तथाहि नमस्कारानर्हत्वमेवोपपादयति—जननेति। भुव गता लोका जनाः, जनन जन्म च “जनुर्जनन-जन्मानि” इत्यमरः। मरण च क्वाधिः कुत्सितः आधिः मानसी व्यथा च चिन्तेति यावत्। “पुंस्याधिर्मानसी व्यथा। स्याच्चिन्ता —”इत्यमरः। व्याधिप्रभेदा ज्वरादयो नानारोगाश्च शुभेतराणामशुभानां कर्मणामाकलनम् आचरणञ्च*

तदिह मदिभिः क्षुद्रैश्छिद्रैकमार्गणतत्परैः
प्रभुभिरुदितक्षत्यै क्षित्यै बुधः स्पृहयेत कः ?॥२६॥

बालत्वे वा तरुणिमनि वा प्रायशो वार्द्धके वा
मृत्वा मर्त्या बत यमभटैर्बद्ध्यमाना34 व्यथन्ते॥
श्रेयस्तेषाममितविपदां जीवतां वा किमास्ते ?
कस्मिन् ग्रामे पुनरनडुहां कर्षणक्लेशहानिः ?॥२७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

तैर्मलिनाः, अत एव शोकेन दुःखेन आतुराः पीडिताः, सन्तीति शेषः। न त्वेतावदेव, किन्तु राजानोऽपि भूःस्था अविनयमनुसरन्तीत्याह—तदिहेत्यादिना*।** तत् तस्मात् कारणाच् छिद्राणां परकीयदोषाणामेक मुख्य यथा स्यात्तथा मार्गणे अन्वेषणे तत्परा आसक्तास्तैः “तत्परे प्रसितासक्तौ” इत्यमरः। अत एव क्षुद्रैः नीचैः मदिभिर्वृथाहकारयुक्तैः। मदशब्दान्मत्वर्थ इनि। प्रभुभी राजभिः उदिता प्रारब्धा क्षतिर्नाशो यस्याः, अर्थाद् अधिककरग्रहणादिद्वारेति ज्ञेयम्। तस्यै क्षित्यै पृथिव्या इत्यर्थः। कः बुधः ज्ञाता, न तु मूर्खः, इह स्वर्गस्थःसन् स्पृहयेत ? न कोपीत्यर्थः। “स्पृहेरीप्सितः” इति चतुर्थी। हरिणी वृत्तम्। “रस-युग-हयैच्छिन्ना न्सौ म्रौ स-लौ हरिणी गुरुः” इति तल्लक्षणात्॥२६॥*

  • अन्यदपि भूलोकदूषणमाह—बालत्वे इति। प्रायशो बहुधा मर्त्या मनुष्याः बालत्वे बाल्यावस्थायां वाथवा तरुणस्य भावस्तरुणिमा तस्मिन् तारुण्ये इत्यर्थः। “पृथ्वादिभ्य इमनिज्वा” इति भावार्थे इमनिच्प्रत्ययः। वृद्धस्य भावो वार्द्धक तम्मिन्वृद्धे वयसीत्यर्थः। “द्वन्द्वमनोज्ञादिभ्यश्च” इति वुञ्प्रत्ययः। मनोज्ञादेराकृतिगणत्वात्। मृत्वा, यमभटैर्यमदूतैः कर्तृभिः, बद्ध्यमानाः निजपाशैर्दृढं बद्ध्वानीयमाना इत्यर्थः। तादृशाः सन्तः व्यथन्ते दुःखिनो भवन्ति। ननु मरणोत्तरं दुःखिनो भवन्ति चेद् भवन्तु नाम, परन्तु जीवितकालपर्यन्त सुखिन एव तेइत्याशङ्क्याहश्रेयस्तेषामित्यादि। तेषां पूर्वोक्तरीत्या दुःखभागिनां जनानां, अमिताः असङ्ख्येया विपदो व्याध्यादिरूपा येषां तेषां जीवतां सतां वाऽपि श्रेयः सुखं किमास्ते? अपि तु नैवेत्यर्थः। अपि च पुनःअनडुडाम्बलीवर्दानां कर्षणेन क्षेत्रादिभूम्यां हलाद्याकर्षणेन शकटाद्याकर्षणेन च यः क्लेशो दुःखं तस्य हानिर्विनाशः, कर्षणादिक्लेश विना लोकपूज्यानामपि बलीवर्दानां तृणादिना पोषणमिति भावः। कस्मिन् ग्रामे वर्तते? अपि तु कस्मिश्चिदपि नैवेति भावः। तस्मात्स्वर्गस्थसुकृतिजनैर्नायं पापिजनाधिष्ठितो भूलोकः प्रशसनीय इति। मन्दाक्रान्ता वृत्तम्। लक्षणमुक्तं प्राक् ( ८ श्लोकटीकायाम् )॥२७॥*

** विश्वावसुः—**सत्यमेवं35 तथापि सखे मह्याश्रयं मानुषजन्म मा दूदुषः36॥१०॥

तथाहि—37

रामः क्षेमस्य दाता भुवि ननु मनुजो रावणस्य प्रहर्ता
तत्तातः किं न मर्त्यस्त्रिदशकुलपतेर्दैत्ययुद्धे सहायः॥
कृष्णो वृष्णो मदं योऽहरत नरतया न श्रुतः किं? त्वयासौ
के वा38 देवाः प्रभावात् स्वयमतिशयिता?मानवाद्दानवा वा॥२८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

एव कृशानुनोक्त दूषणमुद्धारयन्नाह विश्वावसुःसत्यमिति। सत्यमित्यर्धाङ्गीकारे। यत्किञ्चिद्दूषणसत्त्वेऽपि सर्वथा दूषणानर्हत्व तस्यार्थः। तदेव द्योतयतिहे राखे कृशानो, तथापि यत्किचिदशेन दूषणसत्त्वेऽपि, मह्याश्रय पृथिव्याश्रय मानुषाणां मनुष्याणां जन्म उत्पत्ति, मा दूदुषः मा दूषय। ‘दुष वैकृत्ये’ इत्यस्माण्णिजन्ताल्लुङि रूपम्। “णि श्रि -” इति चड् “चडि” इति द्वित्वम्। “णेरनिटि” इति णिलोपः। “णौ चडि -“इत्युपधाह्रस्वः“दीर्घो लघोः” इत्यभ्यासस्य दीघः “न माड्योगे ”इत्यडागमाभावः॥१०॥

  • ‘मानुषजन्म मा दूदुषः’ इत्युक्त तदेव सहेतुकमुपपादयति—**राम इत्यादिना।*भुवि क्षेमस्य कुशलस्य “कुशल क्षेममस्त्रियाम्” इत्यमरः। दाता, रावणस्य प्रहर्तानाशको रामो दशरथपुत्रः, मनुजो ननु मनुष्य एव। वभूवेति शेषः। ‘रावणस्य प्रहर्ता’ इति हेतुगर्भ विशेषणम्। लोककण्टकीभूतरावणविनाशाद् लोकाना सुखोत्पादक इत्यर्थ। तथा त्रिदशकुलपतेर्देवसमूहाधिपतेरिन्द्रस्य दैत्ययुद्धे वृषपर्वाख्यदैत्ययुद्धप्रसङ्गे इत्यर्थः। सहायः, तस्य रामस्य तातः पिता दशरथः, मर्त्यः मनुष्यः न किम् ? अपि तु मनुष्य एवेत्यर्थः। तथैव यः नरतया मनुष्यत्वेन “तस्य भावः” इति भावार्थे तल्प्रत्ययः। कृष्णः वसुदेवपुत्रत्वेन प्रसिद्धः, वृष्णः इन्द्रस्य “इन्द्रो मरुत्वान्–” इत्यारभ्य “वामवो वृत्रहा वृषा” इत्यन्तोऽमरः। मद गर्व लोकपालत्वाभिमानमित्यर्थः। “दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेक स्मयो मदः” इत्यमरः। अहरत हृतवान्, गोवर्द्धनोद्धरणेनेति भावः। असौ कृष्णः त्वया न श्रुतः किम्? ‘वृष्णो मदमहरत’ इत्युपलक्षणम्। तेन कसवध- ब्रह्ममायानिरासादिकान्यन्यान्यपि बहूनि कार्याणि ज्ञेयानि। एव सति के वा देवाः दानवाः दैत्याः कमानवाद् ल्यब्लोपे पञ्चमी। मनुष्यसहायमनपेक्ष्येर्थः। स्वय प्रभावात् स्वपराक्रमादेव अतिशयिताः सञ्जातोत्कर्षाः ? “तदस्य सञ्जातं—” इति तारकादित्वादितच्। न केऽपीत्यर्थः। एव च यत्र एतादृशा देवेभ्योऽपि वीर्यवन्तो मनुष्या बभूवुस्तादृशभूलोकनिन्दनमयुक्तमिति भावः! स्रग्धरा वृत्तम्। लक्षणमुक्तं प्राक् (१ श्लोकटीकायाम् )॥ २८॥

    • किञ्च—

मान्धाता च भगीरथश्च सगरो मान्यः ककुत्स्थो रघुः
पूरुः सोऽपि पुरूरवाः स च शिबिः पुण्यश्च रुक्माङ्गदः॥
वैदेहो नहुषश्च हैहयपतिर्वीरो ययातिर्नलः
पार्थश्चेति नृपाः प्रशस्तयशसः प्रादुर्बभूवुर्न किम् ?॥२९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • ननु राम-कृष्णयोरीश्वरावतारत्वाद्दशरथस्य च रामपितृत्वाद्युक्तमेव तथाविधत्व, किन्तु तावता सर्वेऽपि तादृशा एवेति न शक्य वक्तुमित्याशङ्क्य समाधत्ते—**मान्धातेति।*मान्धात्रादयो युगान्तरभवा नृपाः ज्ञातव्याः। एतेषां पुण्यचरितानि श्रीमद्भागवते भारते च विस्तरतो वर्णितानि विद्यन्ते। तत्र भागवते नवमस्कन्धे यथा-मान्धाता हि सूर्यवंशीयो युवनाश्वनाम्नो राज्ञः पुत्रः। अयं च स्वपितुः कुक्षिं भित्त्वैवोत्पन्नः तदा च स्तन्यार्थी रुरोद। तद्रोदनं श्रुत्वा च युवनाश्वश्चिन्तयामास—“कधास्यति कुमारोऽयं स्तन्यं रोरूयते भृशम्” इति। तदा कृपया इन्द्रेणैवमुक्त्वा रक्षितः—मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात्” इति। अस्यैव त्रसद्दस्युरितीन्द्रेणान्यदपि नामाकारि। तथानेन स्वप्रौढे वयसि स्वपराक्रमात् सर्वाञ्शत्रून्निर्जित्य सार्वभौमत्व सम्पादितम्। यज्ञादिपुण्यकर्मभिश्च भगवन्तमतोषयत्। सगरश्चाश्वमेधशतकर्ता आसीत्। शततमेऽश्वमेधे च इन्द्रेणाश्वापहारः कृतः। अनन्तरमस्यैव वशभवेन भगीरथनाम्ना राज्ञा कपिलमहामुनिकोपदग्धस्वपूर्वजोद्वारकाम्यया तपःप्रभावेण सुरनदी (भागीरथी) भूलोकमानीता। तथा ककुत्स्थःअयमपि सूर्यवंशीयो विकुक्षिनृपतेस्तनयः अतीव वीर्यवान् स्वपराक्रमादेवान्यान्यन्वर्थनामानि सम्पादितवान्। तत्प्रकारस्तु यथा—“कृतान्त आसीत्समरो देवानां सह दानवैः। पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितैः॥ वचनाद्देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः। वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः॥ स सन्नद्धो धनुर्दिव्यमादाय विशिखान्शितान्। स्तूयमानः समारुह्य युयुत्सुः ककुदि स्थितः। तेजसाप्यायितो विष्णोः पुरुषस्य महात्मनः। प्रतीच्यां दिशि दैत्यानां न्यरुणत्त्रिदशैः पुरम्॥ तैस्तस्य चाभूत्प्रधनं तुमुलं लोमहर्षणम्। यमाय भल्लैरनयद्दैत्यान् येऽभिययुर्मृधे॥ तस्येषुपाताभिमुख युगान्ताग्निमिवोल्बणम्। विस्रस्य दुद्रुवुर्दैत्या हन्यमानाः स्वमालयम्॥ जित्वा पुरं धन सर्वं सश्रीक वज्रपार्णये। प्रत्ययच्छत् स राजर्षिरिति नामभिराहृतः॥” इति। एवं च पुरञ्जयः, इन्द्रवाहनः, ककुत्स्थः, इति नामानि अत एवात्रास्य मान्य इति विशेषण दत्तम्। तथैव रघुर्दिलीपसूनुः। अनेन विश्वजिनाम्नि यज्ञे सर्वस्व ब्राह्मणेभ्यः समर्पितम्। एतन्महाकविश्रीकालिदासकृतरघुवंशे प्रसिद्धम्। ययातिः सोमवंशीयो नृपो यः शुक्रकन्यां देवयानीं वृषपर्वसुतां शर्मिष्ठां च परिणीतवान्। तयोर्द्वयोरपि भार्ययोः सुतानुत्पाद्य वार्द्धक्ये च पूरुनाम्ने सुताय राज्यं समर्प्य तपसे वनं ययौ। पूरुस्तु तत्सुतः, यः शुक्राचार्यदत्तशापसमये ख…

*** *कृशानुः—**सार्द्धाङ्गीकारम्—

कामं जनाः केऽपि गुणाभिरामाः क्षमातले सन्तु39युगान्तरेषु॥
कलौ युगेऽस्मिन् गुणलेशवन्ध्याः सर्वेऽपि खर्वेतरदोषभाजः॥३०॥

किञ्च40

मन्देतरस्मरमलीमसमानसानां
मन्यु-स्पृहा-दुरभिमान-मदास्पदानाम्॥
काले कलौ कलुषत41ःकलितोदयानां
दोषाय दृष्टिरपि हन्त दुरीश्वराणाम्॥ ३१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

र्जरां गृहीत्वा तस्मै स्वतारुण्य ददौ। पुरूरवा अयमपि सोमवशीयो बुधसुतः ऐलनामा राजा। यत्सौन्दर्यमोहिता उर्वशी स्वर्लोकाद् भूलोकमाययौ। अस्यैव पुत्रो नहुषः। य इन्द्रस्य ब्रह्महत्यादोषावसानपर्यन्त सुरलोकमशिषत्। शिबिः यः स्वमांसं श्येनाय समर्प्यकपोत शरणागत ररक्ष। रुक्माङ्गदो नाम भगवतः श्रीविष्णोः परमभक्तः, यः एकादशीव्रत सर्वराष्ट्रे प्रवर्तयामास। एतद्द्योतनार्थमेव पुण्य इति तस्मै विशेषण दत्तम्। वैदेहो जनकः, यो राज्यकर्ता सन्नपि देहाद्यासक्तिरहित आसीत् शुकाचार्यस्य तत्त्वोपदेष्टा च। हैहयदेशानामधिपतिः सहस्रार्जुनः। यस्य श्रीदत्तप्रसादाद् बाहुसहस्र शत्रुभ्योऽपरिभूतत्व च सम्प्राप्तम्। अत एव वीरः इति तद्विशेषण सङ्गच्छते। एते प्रशस्त स्तुत्य यशः कीर्तिर्येषां तथाविधा नृपाः राजानः, न प्रादुर्बभूवुः किम् ? अपि तु एवंविधाः शतशो मानवा बभूवुरित्यर्थः। शार्दूलविक्रीडित वृत्तम्॥ २९॥

  • एव तद्वचनं श्रुत्वा पुनरपि एतेषां कृतादिपूर्वयुगभवत्वात्साम्प्रतं कलियुगे तच्चरित्रमनुपयुक्तमित्यभिप्रेत्याह कृशानुः—काममिति। गुणैः सौशील्यादिभिः अभिरामाः मनोहराः केपि अनिर्वाच्याः, पूर्वोक्ता मान्धातृप्रभृतयो जनाः लोकाः, युगान्तरेषु एतत्कलियुगादन्येषु कृतादियुगेषु, मयूरव्यसकादिसमासः। अन्यानि युगानि युगान्तराणीति विग्रहः। क्षमातले पृथ्वीतले, काम यथेष्ट। “काम प्रकाम पर्याप्तं निकामेष्ट यथेप्सितम्” इत्यमरः। सन्तु भवन्तु। किन्तु अस्मिन् कलौ कलिसञ्ज्ञके युगे, गुणस्य लेशेन लवेन “लव-लेश-कणाणवः” इत्यमरः। वन्ध्या हीनाः, गुणस्य यत्किञ्चिदशेनापि रहिता इत्यर्थः। एवविधाः सन्तः सर्वेऽपि सकला एव न तु केचिदेव। खर्वाद् अल्पाद् इतरे खर्वेतरे तान् महत इति यावद् दोषान्भजन्ति सेवन्ते इति तथाभूताः। विद्यन्ते इति शेषः। वृत्तमुपजातिः। लक्षणमुक्तं प्राक् ( ५ श्लोकटीकायाम् )॥ ३०॥*

  • दोषभाक्त्वमेव प्रपञ्चयति**—मन्देतरेति।** मन्देतरो बहुलश्चासौ स्मरश्च कामः*

*** *** **विश्वावसुः—**तथापि सर्वथा42 कलिकालिका अपिमानुषा न दूषणीयाः। यतः सर्वकालम43पि केचन सन्त्येव साधवः॥

पश्य—

दुरितभरितक्षीबक्ष्मापप्रसादनिरादराः
कमलनयनस्वैरक्रीडागृहायितहृद्गुहाः॥
निगमपदवीनिर्वाहाय क्षितावुदिताः स्वयं
कति न कृतिनः सन्दृश्यन्ते ? कलावपि निर्मलाः॥३२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

“कामः पञ्चशरः स्मरः” इत्यमरः। तेन मलीमसं मलिन “मलीमसं तु मलिन” इत्यमरः। “ज्योत्स्ना-तमिस्रा-” इत्यादिनिपातनात् साधु। मानसं मनो येषां तेषां, तथा मन्युः क्रोधश्च “मन्युर्दैन्ये क्रतौ क्रुधि” इति हैमः। स्पृहा विषयेच्छा च “इच्छा काङ्क्षा स्पृहेहा तृट्-” इत्यमरः। दुरभिमानः ‘अह श्रेष्ठः, अह धनी, अहमेव प्रभुः’ इत्यादिरूपो वृथाहकारश्च मदो युक्तायुक्तविवेकराहित्य च तेषाम् आस्पदानां स्थानभूतानां, अत एव कलौ कले एतस्मिन् पापिनि कलियुगे, कलुषतः प्राक्तनपापकर्मवशादेव, कलितः सम्प्राप्तः उदयः उत्पत्तिर्येषां तथाभूतानां, दुरीश्वराणां दुष्टनृपाणाम्, दृष्टिर्दर्शनमपि, दोषाय पापार्थमेव भवति। तादर्थ्ये चतुर्थ्येषा। किमुत स्पर्शन-भाषणादिकम्। एवं च एतादृशजनाधिष्ठिता भूमिर्न खलु प्रशसनीयेति भावः। वसन्ततिलका वृत्तम्। “उक्ता वसन्ततिलका त-भ-जा ज-गौ गः” इति तल्लक्षणात्॥३१॥

  • एतदपि दूषणमपाकुर्वन्नाह विश्वावसुः—तथापीति। तथापि त्वदुक्तदोषयुक्तेषु केषुचिल्लोकेषु सत्स्वपि, सर्वथा सर्वे इत्यर्थः। कलिकालिकाः कलिकालभवा अपि “तत्र भवः” इत्यधिकारे कालाट्ठञ्। मानुषा मनुष्याः न दूषणीयाः दूषितु योग्या न भवन्तीत्यर्थः। यतो यस्मात् कारणात्, सर्वकालेऽपि केचन कतिपयाः साधवः सज्जनाः सन्त्येव भवन्त्येव॥११॥*

  • एतदेवोपपादयति-पश्येति-दुरितेति। दुरितेन पापेन भरिताना पूर्णानाम् अत एव मद्यादिपानेन क्षीबाना मत्तानां च क्ष्मापाणां भूमिपानां राज्ञा प्रसादे प्रसन्नतायां निरादरा आदररहिताः। यतः कमलनयनः कमलपत्राक्षः विष्णुः, यद्वा कमल कुरङ्ग नयति हस्त प्रापयतीति कमलनयनः शिवश्च “स्यात् कुरङ्गोऽपि कमल” इत्यमरः। एव च विष्णोः शिवस्य वा स्वैरक्रीडा स्वेच्छाविहारः तदर्थ गृहायिता गृहवदाचरन्त्यः हृद्गुहा हृदयस्थदहराकाशा येषां ते, सम्यग्ध्यानादिसाधनैरन्तःस्थपरमात्मज्ञानसम्पन्ना इत्यर्थः। तेनैव राज्ञः प्रसादेऽपि निःस्पृहाः। अत एव निगमानां वेदानां पदवी मार्गः तस्य निर्वाहाय संरक्षणाय, अर्थाद् वेदविहितकर्माद्यनुष्ठानेन तत्सार्थक्यापादनायेत्यर्थः। स्वय०क्षितौ पृथिव्या उदिता उत्पन्नाः कृतिनः पुण्यवन्तः निर्मलाः शुद्धान्तःकरणाः एतादृशाः सज्जनाः, कलौ युगेऽपि कति न सन्दृश्यन्ते ? अपि तु*

** अथवा यदि ते44मद्वचसि न विस्रम्भस्तर्हि तत्र तत्र सञ्चारमारचय्य तत्तद्गुणदर्शनं करवाव॥ १२॥

अथ बदरिकाश्रमवर्णनम्—४.

<MISSING_FIG href="../books_images/U-IMG-1722422079Screenshot2024-07-27071135.png"/>

इति विमानमग्रतः प्रस्थापयन्नङ्गुल्या निर्दिश्य—

** विश्वा०—**

इदं बदरिकाश्रमस्थलमिहैष नारायण-
स्तपस्यति नमस्यतां स्थिरतमं45तमः शोषयन्॥
विकासिधिषणोन्मिषद्विषयवर्जनाः सज्जना
जनार्दनमहर्दिवं भुजगमञ्चमर्चन्त्यमी॥३३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

बहवो दृश्यन्त एवेत्यर्थः। हरिणीवृत्तम्। लक्षणमुक्त प्राक् ( २६ श्लोकटीकायाम् )॥३२॥

  • स्ववचसि कृशानोः किञ्चिद्विश्वासवैधुर्य दृष्ट्वा बदरिकाश्रमादिपुण्यक्षेत्रवर्णनप्रस्तावार्थमाह-अथवेति। अथवेति पक्षान्तरे। यदि मदीये मदुक्ते वचसि भाषणे न विस्रम्भः विश्वासो नास्ति चेत्, “समौ विस्रम्भ-विश्वासौ” इत्यमरः। तर्हि तत्र तत्र पुण्यक्षेत्रे सञ्चारं गमन आरचय्य कृत्वा तत्तद्गुणदर्शन तत्तत्पुण्यक्षेत्राणां सम्यग्गुणनिरीक्षण करवाव कुर्वः॥१२॥*

  • इति एवमुक्त्वा विमानमग्रत अग्रभागे प्रस्थापयन् प्रापयन्नङ्गुल्या निर्दिश्य, किचित् प्रदेशमिति शेषः।*

*** इदमिति।** इद पुरोभागवर्ति बदरिकाश्रमाख्य स्थल स्थान, वर्तत इति शेषः। इह अस्मिन् बदरिकाश्रमे एष प्रसिद्धो नराणां समूहो नारं जीवसमूहः तस्य अयन आश्रयः। यद्वा नारम् उदक अयन आश्रयो यस्य सः जलशायीत्यर्थः। तदुक्तमनुस्मृतौ— “आपो नारा इति प्रोक्ता आपो वै नरसूनवः। तस्य ता अयन प्रोक्तास्तेन नारायणः स्मृतः॥” इति। नारायणः, नमस्यतां भक्तिभावेन नमस्कुर्वतां जनानां, नमःशब्दात् “नमो-वरिवस्” इत्यादिक्यजन्तात् शतृप्रत्ययः। स्थिरतमम् अतिशयेन स्थिरं, अतिशायने तमप्। तमः अज्ञान शोषयन् विनाशयितुम्, हेतौ शतृप्रत्ययः। तपस्यति तपश्चर्यां करोति। तपः शब्दात् “तपसः परस्मैपदं च” इति वार्तिकात् क्यड् परस्मैपद च। अत एव अमी एतत्क्षेत्रनिवासिनः विकासिन्याः परमात्मज्ञानेन विकसनशीलायाः धिषणायाः बुद्धेः“बुद्धिर्मनीषा धिषणा” इत्यमरः। उन्मिषद् उत्पद्यमान विषयाणां शब्दादीनां वर्जन निरसन येषा*

*** कृशानुः —सखे तवात्र गुणवत्तासमर्थनं न रोचते मह्यम्॥१३॥*

कुतः—

यदत्र जागर्ति शिलासमं हिमं सुशीतला गन्धवहाश्च दुःसहाः॥
जलावगाहाच्चकितो जनस्ततः कुतस्त्वनुष्ठास्यति कर्म निर्मलम्॥ ३४॥

** विश्वावसुः—अस्मन्मतानुकूलमेवैतद्भवति46 भवदुक्तम्॥१४॥**

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

तथाभूताः शब्द-स्पर्शादिविषयाद्यनासक्ततया केवलमीश्वरपरायणा इत्यर्थः अत एव सज्जनाः साधुजनाः, भुजगः शेषः मञ्चः शयनं यस्य तथाभूतं जनार्दनं, जनन जनः भावे घञ् “जनि-वध्योश्च” इति वृद्ध्यभावः। जनः जन्म अर्दयति नाशयतीति विग्रहः। ‘अर्द हिंसायाम्’ इति धातोर्नन्द्यादित्वाद् ल्युः। यद्वा जनैः अर्द्यते प्राप्यते इति विग्रहः। ‘अर्द गतौ याचने च’ इत्यस्मात् “कृत्य ल्युटो बहुलम्” इति कर्मणि ल्युट्। एतादृशं नारायणम् अहर्दिव, प्रतिदिनं “अचतुर-विचतुर-सुचतुर-" इत्यादिना समासः। अर्चन्ति पूजयन्ति। पृर्थ्व वृत्तम्। लक्षणमुक्तं प्राक् ( १२ श्लोकटीकायाम् )॥३३॥

  • पुनरपि स्वानुरूपमाह कृशानुः—सखे इति। हे सखे मित्र, तव त्वत्कृतमित्यर्थः। अत्र बदरिकाश्रमे, गुणाः भगवन्निवासादयः सन्ति यस्मिंस्तत् तस्य भावः तत्ता तस्याः समर्थन प्रतिपादन, मह्यं मे न रोचते न प्रीणयति। “रुच्यर्थानां” इति चतुर्थी॥१३॥*

  • कुतो न रोचते इत्याह-यदत्रेति। यद्यस्मात् कारणाद् अत्र बदरिकाश्रमे शिलासमं घनीभूतत्वात् पाषाणसदृशं हिमं तुहिनं “तुषारस्तुहिन हिमम्” इत्यमरः जागर्ति विद्यते। कदापि वसन्त-ग्रीष्माद्युष्णकालेऽपि न विनश्यतीतिद्योतनार्थं जागृधातोः प्रयोगः। तथा गन्धवहाः वायवश्च “—वायुर्मातरिश्वा सदागतिः पृषदश्वो गन्धवहो—” इत्यमरः। सुतरामत्यन्तं शीतलाः शीतयुक्ताः, अत एव दुःसहाः सोढुमशक्याः वहन्तीति शेषः। तत एव च जले योऽवगाहः स्नानतस्माच् चकितो भीतो जनः। जातावेकवचनम्। सर्वेऽपि जनाः स्नातुं न शक्नुवन्ती त्यर्थः। “भीत्रार्थानां भयहेतुः” इति पञ्चमी। ततः ततस्तु उपर्युक्तदोषबाहुल्यादेव निर्मलं पूर्वोक्तं पूजादिरूपं कर्म, कुतः अनुष्ठास्यति तादृशकर्मणोऽनुष्ठानं क‍थं करिष्यतीत्यर्थः। एवं च पूर्वोक्तं तव गुणवत्ताप्रतिपादनं नात्र सङ्गच्छते इति भावः वंशस्थवृत्तम्। लक्षणमुक्तं प्राक् (१० श्लोकटीकायाम् )॥३४॥*

  • एवं कृशानुप्रोक्तं दूषणमपि गुणपरतया सङ्ग्रहीतुमाह विश्वावसुःअस्मदिति। एतत् ‘यदत्र जागर्ति शिलासम हिम’ इत्यादि भवदुक्तं त्वया प्रतिपादितम् अस्माकं मतस्य बदरिकाश्रममहत्त्ववर्णनरूपस्य अनुकूलं युक्तमेव भवति॥१४॥*

    यतः—

परमहिमयुतत्वात् प्राप्तवैकुण्ठसाम्यं
पदमिदमुपयान्तः पण्डिताः शान्तिमन्तः॥
मुहुरिह समयेषु स्नानहेतोः सरोगा-
स्तदपि भृशमरोगास्तार्क्ष्यकेतोः प्रसादात्॥ ३५॥

** ** इति विमानमन्यतः प्रस्थाप्य साञ्जलिबन्धम्—

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • तदेवाह-यत इति-परमेति। परम अतिशयित च निबिडमिति यावत्। तत्हिमं तुहिन तेन युतत्वाद् युक्तत्वात्, पक्षे पर उत्तमश्चासौ सर्वलोकातिरिक्त इति यावत्महिमा माहात्म्यं च तेन युतत्वात्, प्राप्त विशेषेण कुण्ठः क्रियामन्दः किञ्चिदपि कार्यं कर्तुमशक्त इत्यर्थः। “कुण्ठोमन्दः क्रियासु यः” इत्यमरः। विकुण्ठः, विकुण्ठ एव वैकुण्ठः तस्य साम्य सादृश्य येन, पक्षे प्राप्त वैकुण्ठस्य वैकुण्ठलोकस्य साम्य येन, तादृश इदं पदं बदरिकाश्रमस्थानं प्रति, उपयान्तः आगच्छन्तः, शान्तिमन्तः शान्तियुक्ताः, पण्डा आत्मज्ञानविषया बुद्धिः सा प्राप्ता येषां ते पण्डिताः। पण्डाशब्दान् नारकादित्वादितच्। इह बदरिकाश्रमे समयेषु प्रातर्मध्याह्नादिकर्मकालेषु स्नानहेतोः स्नानकारणादेव “हेतुर्ना कारण बीज” इत्यमरः। मुहुर्वारंवारं, सरोगाः शीत-वातादिरोगयुक्ताः, पक्षे सरः सरोवरं गच्छन्तीति तथाभूताः भवन्तीति शेषः। तदपि तथापि, ते तार्क्ष्यः गरुडः “गरुत्मान् गरुडस्तार्क्ष्यः” इत्यमरः। केतुर्ध्वजो यस्य सः विष्णुः तस्य प्रसादाद् अनुग्रहाद् भृशमत्यन्त अरोगा रोगरहिताः कुशलिन इत्यर्थः। भवन्ति। एतदुक्त भवति-यत्पूर्वमुक्त दूषण ‘जलावगाहाच्चकितो जनः’ इत्यादि, तत्तु भगवद्भक्तेषु न सङ्गच्छते, ते तु भगवत्प्रसादान्निरन्तरं कुशलिन एव, परं च ये तावदभक्ताः काम-रागादिदोषयुक्ताश्च ते एव भगवदनुग्रहाभावात् शीतादिरोगयुक्ताः भवन्तीति। अत्र विरोधांलकारः। भगवत्प्रसादेन ‘सरोगाः’ इत्यत्र सरोवरगमनरूपश्लेषार्थेन च विरोधपरिहारः। तदुक्तम्—“विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः”इति। मालिनी छन्दः। “न-न-म-य-य-युतेयं मालिनी भोगिलोकैः” इत्यादितलक्षणात्॥ ३५॥*

  • अथ अयोध्यापुरवर्णनमाक्षिपन्नाह कविः—इतीति। इत्येवप्रकारेणोक्त्वा विमानमन्यतोऽन्यत्र प्रस्थाप्य नीत्वा अञ्जलिः करसम्पुटः तस्य बन्धः करणं तेन सहित यथा
    तथा आहेति शेषः॥*

अथायोध्यावर्णनम्—५.
<MISSING_FIG href="../books_images/U-IMG-1722769328Screenshot2024-07-08185832.png"/>

साकेताय नमः पुराय भवतु स्तोकेतरश्रीपुषे
नानादोषमुषे तदन्तिक47जुषे देव्यै सरय्वैनमः॥
येऽमी तत्तटभूमिषु प्रविलसद्रूपाश्च यूपाः स्थिता-
स्तेभ्यो भानुकुलीनकीर्तिलतिकोपघ्नायितेभ्यो नमः॥३६॥

पुनः पुरीं48 निरीक्ष्य सभक्त्युन्मेषम्—

भवसागरशोषणेन पश्यच्चरणान्तः पुरजीवनौषधेन॥
रजसा रघुनाथपादभाजा रचितांहः प्रशमामिमां नमामि॥३७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • साकेतायेति। स्तोकाद् अल्पात् “स्तोकाल्प-क्षुल्लकाः सूक्ष्म” इत्यमरः। इतरभिन्ना अर्थाद् अनल्पा तां श्रियं शोभां पुष्णाति धारयतीति तस्मै स्तोकतरश्रीपुषे ‘पुष पुष्टौ ’ इत्यस्मात् क्विप्। साकेताय पुराय अयोध्यानगर्यै नमः भवतु अस्तु। तथा नानादोषान् बहुविधपापानि मुष्णाति नाशयतीति तथाभूतायै। ‘मुष स्तेये इत्यस्मात् क्विप्। तस्य अयोध्यापुरस्य अन्तिकं समीपं जुषति सेवते तिष्ठतीति यावत्। तस्यै ‘जुषी प्रीति-सेवनयोः’ इत्यस्मात् क्विप्। देव्यै दिव्यरूपायै सरय्वै सरयूनाम्यै नद्यै च नमः। तथा तस्याः सरय्वाः तटभूमिषु तीरभूमिषु “कूल रोधश्च तीरं च प्रतीरं च तट त्रिषु” इत्यमरः। प्रविलसत् शोभायमान रूप येषां तथाभूताः ये अमी दृश्यमाना यूपाः यज्ञीयपशुबन्धनस्तम्भाः स्थिताः सन्ति। कीदृशास्ते। भानुकुले सूर्यवंशे भवा भानुकुलीनाः कुलशब्दाद् भवार्थे खप्रत्ययः “आयनेयीनी—” इत्यादिना च स्वस्य ईनादेशः। सूर्यवंशोत्पन्ना राजान इत्यर्थः। तेषां कीर्तिरूपा या लतिका लतास्तासाम् उपघ्नाः अन्तिकाश्रया इव “स्यादुपघ्नोऽन्तिकाश्रयः” इत्यमरः। आचरन्ति ते उपघ्नायितास्तथाभूतेभ्यः सूर्यवंशोत्पन्ननृपतिकीर्तिसूचकेभ्य इति यावत्। उपघ्नशब्दाद् उपमानार्थे “कर्तुः क्यड्—” इति क्यडि क्तप्रत्ययः। तेभ्यो यूपेभ्यश्च नमः अस्तु। अत्रोपमावाचकस्येवशब्दस्य लोपाद् लुप्तोपमालकारः। “वादेर्लोपे समासे सा कर्माधारक्यचि क्यडि” इति तल्लक्षणात्। शार्दूलविक्रीडित वृत्तम्॥३६॥*

  • पुनरिति। पुनः पुरीमयोध्यां निरीक्ष्यावलोक्य, भक्तेः पूज्येष्वनुरागस्य उन्मेषेण विकासेन सहितं यथा भवति तथा प्राहेति शेषः॥*

*** भवसागरेति**। भवसागरस्य संसारसमुद्रस्य शोषणेन विनाशकेन, पश्यच्चरणो गौतमर्षिः तस्य अन्तःपुरं पत्नी अहल्या तस्य जीवनं गौतमदत्तशापमोचन तस्य औषध औषधरूप तेन, रघुनाथस्य श्रीरामचन्द्रस्य पादौ चरणौ भजति सेवते इति रघुनाथपादभाक् तेन रामचन्द्रचरणसम्बन्धिनेति यावत्। रजसा रेणुना “ रेणुर्द्वयोः स्त्रियां*

    • पुनः सानुस्मरणरोमाञ्चम्—

कल्याणोल्लाससीमा कलयतु कुशलं कालमेघाभिरामा
काचित्साकेतधामा भवगहनगतिक्लान्तिहारिप्रणामा॥
सौन्दर्यह्रीणकामा धृतजनकसुतासादरापाङ्गदामा49
दिक्षु प्रख्यातभूमा दिविषदभिनुता देवता रामनामा॥३८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

धूलिःपांसुर्ना न द्वयो रजः” इत्यमरः। रचितः। कृतः अहसां पापाना “पाप किल्बिष-कल्मषम्। कलुष वृजिनैनोऽघमहः—” इत्यमरः। प्रशमो नाशो यया ता इमा अयोध्या नमामि। औपच्छन्दसिक वृत्तम्, “पर्यन्तेर्यौ तथैव शेषमौपच्छन्दसिक सुधीभिरुक्तम्” इति तल्लक्षणात्॥३७॥

  • पुनरिति। अनुस्मरण मनसि चिन्तन तेन ये रोमाञ्चाः रोमहर्षास्तैःसहित यथा भवति तथा प्राहेति॥*

  • एवमयोध्या वर्णयित्वाथ तत्रस्थ श्रीरामचन्द्र वर्णयति**—कल्याणेति।** कल्याणस्य मङ्गलस्य य उल्लास आधिक्य तस्य सीमा मर्यादा। एतस्मादधिक कल्याणसाधन नास्तीत्यर्थः। तथा कालमेघवद् अभिरामा मनोहरा वर्षाकालीनमेघ इव श्यामवर्णेत्यर्थः। अपि च भवः संसारस्तदेव गहन वन “गहन कानन वनम्” इत्यमरः। तस्मिन् गत्या परिभ्रमणेन या क्लान्तिः श्रमः तस्या हारी हरणशीलो विनाशक इति यावत्। प्रणामो नमस्कृतिर्यस्याः सा तथाभूता यस्याःप्रणाममात्रेणैव सकलसांसारिकदुःखनिरसन भवतीत्यर्थ। पुनश्च सौन्दर्येण लावण्येन ह्रीणः लज्जितः “ह्रीण-ह्रीतौ तु लज्जिते” इत्यमरः। कामो मदनो यस्याः सा तथाभूता। अत एव धृता जनकसुतायाः सीतायाःसादर यथा स्यात्तथा अपाङ्गदामा कटाक्षपङ्क्तिर्यया तथाभूता च। “अपाङ्गौ नेत्रयोरन्तौ कटाक्षोपाङ्गदर्शने” इत्यमरः। यथा दिक्षु पूर्वादिदशदिशासु प्रख्यातः प्रसिद्धः भूमा माहात्म्य यस्याः सा, तत एव च दिवि स्वर्गे सीदन्ति तिष्ठन्तीति दिविषदो देवाः ‘षद्लृ विशरण-गत्यवसादनेषु’ इत्यस्माद्धातोः“सत्सू-द्विष-द्रुह-”इत्यादिना क्विप्। “आदितेया दिविपदो लेखा अदितिनन्दनाः” इत्यमरः। तैः अभिनुता संस्तुता। एतादृशी साकेतमयोध्या “साकेत स्यादयोध्याया” इति कोशः। धाम स्थान यस्याः सा, काचिदनिर्वाच्या रामनामा रामाख्या देवता, सर्वेषामिति शेषः। कुशल क्षेम कलयतु करोतु। अत्र–‘सीमा-धामा–दामा–नामा’ इति सर्वत्र स्त्रीत्वविवक्षायां “डावुभाभ्यामन्यतरस्याम्” इति डाप्प्रत्ययः। स्रग्धरा वृत्तं लक्षणं पूर्वोक्त (१ श्लोकटीकायामुक्तम्)॥३८॥*

    • किञ्च—

दशाननकुशासनत्रसदशेषलोकव्यथा-
विलोपकरकोपको50 वसुमतीसुतावल्लभः॥
कृपारसमपारसंसृतिपयोनिधेस्तारकं51
कृषीष्ट स ऋषीष्टकृत्कृपणतैकताने मयि॥३९

अपि च—

स जयति चित्रचरित्रो यस्य हि वरचरणपुष्करकरेणुः \।\।
महिषीमृषिसिंहस्य प्राजीजनदपि वृषोदये हेतुः52॥४०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • दशाननेति। किं च पुनः दशाननस्य रावणस्य यत् कुत्सित शासनं राज्यकरणं तस्मात् त्रसन्तो बिभ्यतो ये अशेषाः सकला लोकास्तेषां व्यथाया दुःखस्य विलोपं नाशं करोतीति तथाभूतः कोपः क्रोधः यस्य सः विलोपकरकोपकः शैषिकः कप् प्रत्ययः। क्वचित्– ‘रोपकः’ इति पाठस्तत्पक्षे—व्यथाविलोपकरः रोपः बाणः यस्य तथाभूत इत्यर्थः। “पत्री रोप इषुर्द्वयोः”इत्यमरः। एतादृशः वसुमतीसुतायाः पृथ्वीसुतायाः सीताया वल्लभः प्रियकरः। अपि च ऋषीणाम् इष्टकृद् यज्ञादिसकलकर्मप्रत्यूहभूतरावणादिराक्षसविनाशनेन तत्कर्मप्रवर्तक इत्यर्थः। सः श्रीरामचन्द्रः, कृपणतायाः दीनतायाः एकताने अनन्यवृत्तौ “एकतानोऽनन्यवृत्तिः” इत्यमरः। अत्यन्तकृपणे इत्यर्थः। मयि अपारः तर्तुमशक्यः यः संसृतिपयोनिधिः संसारसागरः तस्मात् तारकम् उद्धारक कृपारसं दयारसं, कृषीष्ट कुर्यात्। ‘डुकृञ् करणे’ इत्यस्मादात्मनेपदिनः(अयमुभयपदी तस्मादात्मनेपदविवक्षायां) आशीर्लिङि रूपम्। अत्र कृपारसकरणस्य ‘दशाननकुशासन—’ इत्यादिवाक्यं हेतुरूपं तेन काव्यलिङ्गमलङ्कारः। “काव्यलिङ्ग हेतोः —” इत्यादितल्लक्षणात्॥ ३९॥*

  • ननु इतरबहुतरसंसारसागरतारकदेवतासत्त्वात्कुतोऽयमेव प्रार्थ्यते इत्याशङ्कां निवारयन्नाह—स इति। अपि च न तावत् पूर्वोक्तमेव, अन्यदपि तन्माहात्म्यमस्तीत्यर्थः। तदिदम्-यस्य हि श्रीरामचन्द्रस्यैव वरं श्रेष्ठं यच्चरणपुष्करकं चरणकमलं तत्सम्बन्धी रेणुः धूलिः। पक्षे वराण्युत्तमानि चरणानि पुष्करं शुण्डाग्रं “पुष्करं करिहस्ताग्रे वाद्य-भाण्ड- मुखे जले। व्योम्नि स्वङ्गफले पद्मे” इति नानार्थः। च यस्य तथाभूतः करेणुः गज इति चार्थः। “करेणुरिभ्यां स्त्री नेभे” इत्यमरः। अत एव (एतद्रामपक्षे) वृषस्य धर्मस्य बलीवर्दस्य च उदये उत्पत्तौ हेतुः कारणं “स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः” “उक्षा भद्रो बलीवर्दो ऋषभो वृषभो वृषः” इत्युभयत्राप्यमरः। अपिः समुच्चयस्य विरोधस्य च द्योतकः। “गर्हा- समुच्चय-प्रश्न-शङ्का-सम्भावनास्वपि” इत्यमरः। ऋषन्ति जानन्ति तत्त्वमिति ऋषयः ‘ऋषी गतौ’ इति धातोः“इगु-*

श्रेयांसि भूयांसि महावदान्यः प्रेयान्स देयाज्जनकात्मजायाः॥
काकाय कङ्काय च योऽदितेष्टं दाशाय कीशाय च राक्षसाय॥४१॥

अपि च53

अभीष्टघटकः क्षितावतुल54दीप्तिकोदण्डभा-
गिति क्षममिदं पुनः परममद्भुतं ब्रूमहे॥
विधूतपरमार्तिको विघटितारिचक्रः स्वयं
स कुम्भजनकं प्रभुः शकलयां55बभूव क्रुधा॥४२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

पधात् कित्” इत्युणादिसूत्राद् इन् प्रत्ययः। गत्यर्थत्वाज् ज्ञानार्थत्वम्। तेषां सिंहस्य श्रेष्ठस्य “सिंह-शार्दूल-नागाद्याः पुसि श्रेष्ठार्थगोचराः” इत्यमरः। गौतमस्येत्यर्थः। महिषीं पत्नी प्राजीजनत् शिलारूपत्वादुद्दधार। पक्षे ऋषे सिंहस्य च महिषी महिषस्त्रियः चेत्यर्थः। अत एव चित्रमाश्चर्यजनकं चरित्रं यस्य सः, सः प्रसिद्धः श्रीरामः, जयति सर्वोत्कर्षेण वर्तते। अत्र श्लेषानुप्राणितो विरोधालकारः। गीतिश्छन्दः “आर्याप्रथमदलोक्त यदि कथमपि लक्षण भवेदुभयोः। दलयोः कृतयतिशोभां सागीति–” इति तल्लक्षणात्॥ ४०॥

  • अपि च**-श्रेयांसीति।** यः श्रीरामः काकाय वायसाय, कङ्काय जटायुनाम्ने गृध्राय, (यद्यप्यमरे कङ्कशब्दस्य गृध्रवाचकत्व कुत्रापि नोपलभ्यते, तथाप्यत्र गृध्रवाचकत्वमेवेष्ट, गृध्र प्रत्येव श्रीरामादिष्टप्राप्तेः। कोशान्तरे च गृध्रवाचकत्वं कङ्कशब्दस्योपलभ्यते चेत् तद्वय न जानीमः।) च तथा दाशाय गुहाख्यधीवराय, कीशाय सुग्रीवाय मारुतये वा वानराय, राक्षसाय विभीषणाय च, इष्ट तत्तदभीष्टमनोरथं, अदित दत्तवान् ‘डुदाञ् दाने’ इत्यस्माद् लुडि आत्मनेपदविवक्षायां तडि “स्था-ध्वोरिच्च” इतीत्वे सिज्लोपे च सिद्धमिदं रूपम्। सः महावदान्यः महांश्चासौ वदान्यश्चेति विग्रहः। अतीव दानशूर इत्यर्थः। “आन्महतः समानाधि-” इत्यादिना महच्छब्दस्यात्वम्। “स्युर्वदान्य स्थूललक्ष्य-दानशौण्डा बहुप्रदे” इत्यमरः। जनकात्मजायाः सीतायाःप्रेयान् अतिशयप्रियः पतिः श्रीराम इत्यर्थः। प्रियशब्दाद् अतिशयार्थे ईयसुनि “प्रिय-स्थिर-स्फिरोरु-बहुलः” इत्यदिना प्रादेशः। भूयांसि अतिशयानि। बहुशब्दादीयसुनि “बहोर्लोपो भू च बहोः” इति बहुशब्दस्य ‘भू’ आदेश ईकारलोपश्च। श्रेयांसि कल्याणानि देयाद् ददातु। ददातेराशीर्लिडि “एलिण्डि” इत्येत्त्वम्। इन्दवज्रा वृत्तम्। “स्यादिन्द्रवज्रा यदि तौ ज गौ गः” इति तल्लक्षणम्॥४१॥*

  • अन्यदपि तद्वृत्तमाह-अपि चेति। अभीष्टेति। क्षितौ पृथिव्या अयं श्रीराम इति शेषः। अभीष्ट भक्तजनेष्ट घटयति जनयतीति तथोक्तः स्वार्थे कः। तथा अतुला अतिशयिता दीप्तिः कान्तिर्यस्य तत् तादृश कोदण्ड धनुः “धनुश्चापौ धन्व-शरा-*

*** ** ***कृशानुः—**कथं नाम रामभद्रमनुचितकर्माणमप्येवमीडिडिषे56 ?॥१५॥

वर्षीयानपि जानकीसहचरो मातुः सपत्न्या मुदे
सम्पन्नं रथ-हस्ति-पत्ति-तुरगैः सन्त्यज्य राज्यं निजम्॥
विन्दन् हन्त घनं वनं कथमसौ न स्यादयुक्तक्रियो
गव्यं दुग्धमपास्य पास्यति ? जनः को वा यवागूरसम्॥ ४३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

सन-कोदण्ड-कार्मुकम्” इत्यमरः। भजति धारयतीति कोदण्डभाक् अस्ति। इतीदं क्षम युक्तं वक्तुमिति शेषः। पुनः इदं वक्ष्यमाणं च परममत्यन्तम् अद्भुत विचित्रं, ब्रूमहे ब्रूमः। ‘ब्रूञ् व्यक्ताया वाचि, इति धातोर्ञित्त्वादात्मनेपदमपि। किं तत्। सः पूर्वोक्तः अभीष्टघटक इत्यादिविशेषणविशिष्ट एव, स्वस्य विघटित नाशित अरीणां शत्रूणां चक्र समूहो येन तथाभूतः, अत एव विधूता विनाशिता परमा अतिशयिता आर्ति जन्ममरणादिपीडा (अर्थाद् भक्तानां) येन सः विधूतपरमार्तिकः। शैषिकः कप्। प्रभु श्रीरामः क्रुधा रोषेण, कुम्भस्य कुम्भनाम्नो राक्षसस्य जनकः रावणः, कुम्भनामा राक्षसो रावणपुत्रत्वेन रामायणादौ प्रसिद्धः। शकलयाम्बभूव खण्डयामास विनाशितवानिति यावत्। रावणस्य देवादिभिरप्यजेयत्वात्तन्नाशकरणमा- श्चर्यजनकमिति भाव। इति वास्तवोऽर्थः। श्लिष्टार्थोऽप्यत्र सम्भवति यथा—क्षितौ अभीष्टः इच्छितः घटः यस्य स अभीष्टघटकः। शैषिकः कप्। दीप्यते प्रकाश्यते उत्पाद्यत इति यावत्। घटोऽनया दीप्तिर्मृत्पिण्डःअतुला अप्रतिमा दीप्तिर्यस्य स तथाभूतः अत्रापि शैषिकः कप्। दण्डभजति स्वीकरोतीति दण्डभाक्। घटस्य निमित्तकारणरूपदण्डग्रहीतेति यावत्। इत्येव क्षम योग्यमेव। परं च पुनः इदं वक्ष्यमाणं, परममद्भुतमत्याश्चर्यकरं ब्रूमहे। किं तत्। सः अभीष्टघट एव प्रभुः पुमान् विधूता परा उत्कृष्टा मृत्तिकैव मार्तिका स्वार्थेऽण्। येन तथाभूतः, अराः चक्रान्तर्भूततिर्यक्काष्ठानि यस्य तच्च तच् चक्रं च तद् विघटितं विनाशित येन तथाभूतः सन्, क्रुधा कुम्भजनक घटोत्पादक दण्डादिकमपि, शकलयाबभूव शकलीचकार। शकलब्दात् ‘तत्करोति—’ इत्यर्थे णिचि लिटि च प्रत्ययान्तत्वादां तदन्तात् “कृ-भ्वस्तयोऽनु-” इत्यादिना भवतेरनुप्रयोगः। घटस्पृहावत एव मृद्दण्डादितत्साहित्यनाशनमतिविचित्रमिति भावः। अत्र श्लिष्टविशेषणैरप्रकृतार्थसम्भ- वात्समासोक्तिरलकारः। तदुक्तम् — “परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः” इति। पृथ्वी वृत्तम्॥४२॥

  • अथ कृशानुराह—कथं नामेति। अनुचितानि अयोग्यानि कर्माणि यस्य तथाभूतमपि रामभद्रं रामचन्द्रं, एवमुक्तप्रकारेण ईडिडिषे स्तोतुमिच्छासि। ‘ईड स्तुतौ, इति धातोः सन् “पूर्ववन्–” इति तड्॥१५॥*

  • अनुचितकर्मत्वमेव प्रपञ्चयति**—वर्षीयानिति।** यः वर्षीयान् चतुर्ष्वपि दशरथपुत्रेषु ज्येष्ठः, वर्षीयसशब्दस्य ज्येष्ठभ्रातृवाचकत्वे व्याकरणकोशादिना केनापि न*

  • किञ्च—*

धिक्कृत्यैव दशास्यदर्पशमनं57 धीशालिनं वालिनं
सोऽयं राक्षसवर्गनिग्रहकृते सुग्रीवमन्वग्रहीत्॥
तुङ्गप्रस्तरभङ्गलिप्सुरिह निश्शङ्कं तु टङ्कं त्यजन्
सङ्कल्पं कलयेत पङ्कजदलादानप्रसङ्गाय कः॥ ४४॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

सिद्ध्यति। यथा—वृद्धशब्दादीयसुनि “प्रिय-स्थिर-स्फिरोरु-बहुल-गुरु-वृद्ध-” इत्यादिना वृद्धशब्दस्य वर्षादेशः। अत एव “वर्षीयान् दशमी ज्यायान्” इत्यमरटीकायां महेश्वरभट्टः —‘अतिशयेन वृद्धो वर्षायान्’ इत्येव व्याचख्यौ। तम्मादत्राय प्रयोग कविमतिभ्रमद्योतक एवेति भाति। यद्वा वृद्धशब्दस्य श्रेष्टवाचित्व सङ्गृह्य समाधेयम्। अपि च जानकी सीता सहचरी सह गच्छन्ती यस्य तथाभूतश्च सन्। सीतासहित इति यावत्। मातुः सपत्न्याः कैकेय्याः, सपतिशब्दस्य स्त्रीत्वविवक्षाया “नित्य सपत्न्यादिषु” इति नकारादेशो डीप च। मुदे सन्तोषार्थं, रथाश्च हस्तिनश्च पत्तयः पादातयश्च “पादाति-पत्ति-पदग-” इत्यमर। तुरगा अश्वाश्च तैः सपन्नः समृद्धः, निज ज्येष्ठभ्रातृत्वात्स्वकीय राज्य सन्त्यज्य त्यक्त्वा घनं निबिडं वनमरण्यं विन्दन् गच्छन्, ‘विद्लृलाभे’ इति धातोःशतृप्रत्ययः मुचादित्वान्नुम्। हन्तेति विषादे। असौ रामः अयुक्ता अयोग्या क्रिया वनगमनरूपा यस्य तथाभूतः कथं न स्यात् ? अपि तु स्यादेवेत्यर्थः। अयमाशय—यद्यसौ (श्रीरामः) स्वजनन्याः सन्तोषार्थं वनं गच्छति स्म, तर्हितस्य तद्गमनमुचितमेव। किन्तु केवलं मात्सर्यभरितायाः एकाकिन्याःसापत्नमातुः सुखार्थमेव स्वमातरं पित्रादीश्च शोकसागरे निमज्ज्य यदसौ वनमगमन् तदत्यन्तानुचितमेवेति। एतदेव दृष्टातेन स्पष्टयति—गव्यमिति। लोके गव्य गोसबन्धि “गोपयसोर्यत” इति यत्प्रत्ययः। दुग्धं क्षीरम् अपास्य त्यक्त्वा, अपपूर्वात् ‘अमु क्षेपणे’ इत्यस्मात्क्त्वाप्रत्यये ल्यबादेशः। यवागूरस उष्णिकारूप रस (अयं महाराष्ट्रभाषाया ‘आटवल’ ‘पातल भात’ इति नाम्ना प्रसिद्धः) “यवागूरुष्णिका श्राणा” इत्यमरः। को वा जनः पास्यति पिबेन् न कोऽपीत्यर्थः। दृष्टान्तालकारः। शार्दूलविक्रीडितं वृत्तम्॥४३॥

  • नैतावदेव अन्यदप्येतस्मात् (पूर्वोक्तात्) अवद्य कृल्यमाह—**धिक्कृत्यैवेति।*सः राज्यं सन्त्यज्य वनं गच्छन् अयं रामः, दशास्यस्य रावणस्य दर्पशमनः गर्वनिवारकः अत एव धीशालिनः बुद्धिमन्तः वालिनः वालिनामानं वानरं, वालिना हि पूर्वं रावणो निगृह्य निजबालकस्यान्दोलिकायां पुत्रिकेव बालक्रीडनकीकृत इति प्रसिद्धिः। धिक्कृत्य तिरस्कृत्य तं हृत्वेत्यर्थः। पुनश्च राक्षसानां रावणादीना वर्गःसमुदायः तस्य निग्रहकृते वधार्थ, सुग्रीव अल्पपराक्रम तद्भ्रातरम् अन्वग्रहीत् स्वीकृतवान्। एतदेव सदृष्टान्तमुपपादयति-तुङ्गेति। इह लोके तुङ्गः कठिनश्चासौ प्रस्तरः पाषाणश्च

    • अपि च—

कृत्वा सेतुं किल जलनिधौ खण्डयित्वा दुरध्वान्
लब्धा देवीं स्फुटविदितसंशुद्धिमग्निप्रवेशात्॥
भूयोऽप्येनां भुवनजननीं भूमिकन्यामनन्या-
मन्तर्वत्नीमनयत वनं हन्त पौलस्त्यहन्ता॥४५॥

** विश्वा॰—**सखे गुणिषु58 दोषाविष्कारं कथङ्कारमारचयसि59॥१६॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

“पाषाण-प्रस्तर-ग्राव-” इत्यमरः। तस्य भङ्गः स्फोटन तद् लिप्सुः इच्छुः, ‘डुलभषप्राप्तौ’ इति धातोः सनि “सनि मी-माघु-रभ-लभ-”इत्यादिना इस आदेशः “अत्र लोपः–” इत्यभ्यासलोपश्च। निःशङ्क शङ्कारहित यथा स्यात्तथा टङ्कपाषाणदारकमायुधविशेष “टङ्कः पाषाणदारणः ”इत्यमरः। ‘टाकी’ इति महाराष्ट्रभाषायां प्रसिद्धम्। त्यजन् सन्, पङ्कजस्य कमलस्य दल पत्र तस्यादान पाषाणभेदनार्थं स्वीकारः तद्रूपो यः प्रसङ्गः सबन्धः त कर्तुं “ क्रियार्थोपपदस्य” इत्यादिना चतुर्था। कः सकल्पविचार कलयेत् कुर्याद् अपि तु न कोऽपीत्यर्थः॥ दृष्टान्तालकारः। शार्दूलविक्रीडित वृत्तम्॥४४॥

  • अन्यदपि गर्हणीय कृत्य शृण्वित्याह**—अपि चेति।** अपि च अन्यच्चेत्यर्थम्। कृत्वेति। पुलस्त्यस्य अपत्य पुमान् पौलस्त्योरावणः “तस्यापत्यम्” इत्यपत्यार्थेऽण्। तस्य हन्ता घातकः रामः, जलनिधौ समुद्रे सेतुं कृत्वा बद्ध्वा, तथा दुरध्वान् दुष्टमार्गान् “उपसर्गादध्वन्”इति समासान्तोऽच प्रत्ययः। खण्डयित्वा नाशयित्वा किलेति प्रसिद्धार्थम्। अग्निप्रवेशाद्धेतोः स्फुट यथा तथा विदिता ज्ञापिता स सम्यकशुद्धिः सतीत्वपावित्र्य यस्यास्ता देवी सीता लब्ध्वा सप्राप्यापि, भूयःपुनः एना भुवनजननी न तु सामान्या, एतेन रावणस्यापीय मातृवत्पूज्येति सूचितम्। पुनश्च अनन्याम् एकाकिनीम् अपि च अन्तर्वत्नी गर्भिणी “अन्तर्वत्नीच गर्भिणी” इत्यमरः। “अन्तर्वत्-पतिवतोः-” इति नुगागमः तत्सनियोगशिष्टो डीप च। अनेन तस्यास्त्यागायोग्यत्व सूचितम्। भूमिकन्या न तु लोकवद्योनिजां किन्तु शुद्धयज्ञभूम्युत्पन्ना एतादृशी सीतां वनम् अनयत। केनचिदतिपामरेण प्रयुक्तादपदादादरण्य प्रापयामासेत्यर्थः। हन्तेति खेदे। अनेन तदर्थं ये वानरसाहाय्य-सेतुबन्धन-रावणहननादिमहाप्रयत्नाः कृतास्ते सर्वेऽपि व्यथाङ्कृता एवेति ज्ञापितम्। एवचैतादृशविवेकविधुरस्य स्तुतिकरणमनुचितमिति भावः। अत्र सीतासप्रापण —पुनर्वननयनक्रिये विरुद्धे इति विषमोऽलङ्कारः। तदुक्तम् —“गुण-क्रियाभ्यां कार्यस्य कारणस्य गुण-क्रिये। क्रमेण च विरुद्धे यत्स एव विषमो मतः” इति। मन्दाक्रान्ता वृत्तम्। लक्षणमुक्तं प्राक् (८ श्लो० टीकायाम्)॥ ४५॥*

  • अथ कृशानुप्रोक्तनिखिलदोषानपाकुर्वन्नाह विश्वावसुः—सखे इति। हे सखे*

गुरावसत्योक्तिनिरासहेतोः स्वराज्यमग्र्योऽपि स रामचन्द्रः॥
तृणाय मेने निपुणायते न फणाभृदीशोऽपि पणायितुं60 तम्॥ ४६॥

किञ्च—

वालिनि बलोर्मिमालिनि जाग्रति सुग्रीवमग्रहीद्यदयम्॥
अस्य श्रुतिशतविदितं सुव्यक्तं तेन दीनबन्धुत्वम्॥४७॥

किञ्च—

लक्ष्मीं वक्षसि बिभ्रदप्यविरतं61 रामाकृतिः श्रीपति-

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

मित्र, गुणिषु पित्राज्ञापालनादिरूपप्रशस्तगुणयुक्तेषु, दोषाणां राज्यत्यागादिरूपदोषाणाम्आविष्कारम् आरोपं कथकारं कथमित्यर्थः। “अन्यथैव-कथमित्थसु-” इत्यादिना कथमित्युपपदे करोतेर्णमुल्प्रत्ययः। आरचयसि करोषि॥ १६॥

  • तत्र तावत्प्रथम ‘वर्षीयानपि जानकीसहचर—’ इत्यादिनोक्त वनवासगमनरूप दूषण निराकुर्वन्नाह—गुराविति। अग्र्योज्येष्ठोऽपि स पूर्वोक्तो रामचन्द्रः, गुरौ पितरि दशरथविषये, असत्योक्तेःवृषपर्वयुद्धप्रसङ्गे प्रतिश्रुतवरद्वयाप्रदानरूपायाः निरासः निवारणः तद्रूपाद्धेतोः कारणात् स्वराज्यं ज्येष्ठत्वात् स्वसत्ताकमपि राष्ट्रं तृणाय मेने तृणवत्तुच्छं मेन इत्यर्थः। “मन्यकर्मण्यनादरे-” इत्यादिना चतुर्थी। अत एव फणाः विभ्रति धारयन्तीति फणाभृतः सर्पास्तेषाम् ईश शेषःअपि सहस्रमुखःसन्नपीत्यर्थः। तं रामचन्द्रं पणायितुं स्तोतुं ‘पण व्यवहारे स्तुतौ च’ इति धातोस्तुमुन्प्रत्ययः“गुपू-धूप-विच्छि-पणि—” इत्यादिनाऽऽयप्रत्ययः। न निपुणायते समर्थो न भवति। निपुणशब्दात् “कर्तुः क्यड् सलोपश्च” इति क्यड्। तत्रान्येषां का कथा। उपजातिर्वृत्तम्। लक्षण प्राक् (७ श्लोकटीकायां) कथितम्॥ ४६॥*

  • अथ द्वितीय ‘धिक्कृत्यैव-’ इत्यादिनोक्त दूषणमपाकरोति-**वालिनीति।*बलस्य सामर्थ्यस्य (ऊर्माणा लहरीणा मालाः सन्त्यम्येति तस्मिन्) ऊर्मिमालिनि समुद्रे अपरिमितबलवतीत्यर्थ। वालिनि जाग्रति विद्यमाने सत्यपि, अयं श्रीरामचन्द्रः, यद् यस्मात् सुग्रीव अग्रहीद् गृहीतवान्। ग्रहेर्लृङ्। तेन सुग्रीवग्रहणेन अस्य श्रीरामम्य श्रुतीनां शतेन विदितं प्रतिपादितं श्रुतिशते प्रसिद्धमिति वा। दीनानां दुर्बलानां बन्धुत्व बन्धुवद्धितकारित्व, सुतरां व्यक्तं स्फुटीभूतं, बभूवेति शेषः। सदाचरणशीलस्य दुर्बलस्यापि वलमुत्पाद्य तत्स्वीकरण, दुराचरणशीलस्य बलवतोऽपि निग्रहण च अधिकगुणापादकमेव महता न दोषापादकमिति भावः। आर्या वृत्तम्। “यस्याःप्रथमे पादे द्वादश मात्रास्तथा तृतीयेऽपि। अष्टादश द्वितीये चतुर्थके पञ्चदश साऽऽर्या।” इति तलक्षणात्॥ ४७॥

  • इदानीं तृतीयं ‘कृत्वा सेतु-’ इत्यादिनोक्तं सीतावनवासप्रापणरूप दृषणमपास्यन्नाह लक्ष्मीमिति। रामस्य दाशरथेराकृतिखयवसन्निवेश एवाकृतिर्यस्य सः। रामरूपी-*

र्वृत्तिङ्कामपि मानुषीमभिनयन्वीराग्रयायी प्रियाम्।
कल्याणीं तु वनीमनीनयदहो कस्याप्यमृष्यन्वचो
मेदिन्यामवलोकितः किमपरो मानी पुमानीदृशः॥४८॥

वस्तुतस्तु —

गातुं क ईष्टे श्रितरामभद्रान् गणान् गुणानां गणनादरिद्रान्॥
प्राचेतसाद्याः कवयोऽनवद्या यदेकदेशाकलनेऽपि नेशाः॥४९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

त्यर्थः। श्रीपतिर्लक्ष्मीपतिः, अविरतं सन्तत “सततेऽनारताश्रान्त-सन्तताविरतानिशम्” इत्यमरः। लक्ष्मी वक्षसि हृदये बिभ्रद् धारयन् सन्नपि। ‘डुभृञ् धारणपोषणयोः’ इति धातोः शतृप्रत्ययः। “नाभ्यस्तात्-” इति नुमभावः। भगवता हि अवतारे धृते सत्यपि लक्ष्म्या न कदाचिदपि विरह इति द्योतनार्थमविरतशब्दः। तदुक्तं रामायणे—“राघवत्वेऽभवत्सीता विष्णोरेषाऽनपायिनी ” इति। कामप्यनिर्वाच्या मनुष्यस्येय मानुषीं तां वृत्ति वर्तनमभिनयन् अनुकुर्वन्, वीराग्रयायी वीरश्रेष्टः रामः, कस्यापि अपरिचितस्यानधिगतगुण-शीलस्य, किमुत सच्छील-सद्गुणयुक्तस्य महत इत्यपिशब्दस्वारस्यात्। वचः अपवादरूप भाषण, अमृष्यन् असहमानः सन्। ‘मृषु सहने’ इत्यस्माद् लृटः शत्रादेशः। कल्याणी पातिव्रत्यादिकल्याणगुणविशिष्टां प्रियां सीतां, तुरप्यर्थकः। प्रियामपि सीतामित्यर्थः। वनीमरण्यम् अनीनयत् प्रापयामास। ‘णीञ् प्रापणे’ इति धातोर्णिजन्ताल्लुङ् “णि श्रि-दु” इत्यादिना चङ्। तस्माद् अहो ! ईदृशः यस्यकस्यापि वचनमसहमानः मानी अभिमानयुक्तः पुमान् अपरोऽन्यः मेदिन्यां पृथिव्याम् अवलोकितः दृष्टः किम् ? केनापीति शेषः। अपि तु नैवेत्यर्थः। एतेन यदा श्रीरामचन्द्रः सीतां वनमनयत् तदा स राज्याधिरूढ आसीत्। तदैव च केनचिद्रजकेन रावणसदनस्थितसीतायाः पुनः स्वीकारसम्बन्धेन दत्त दूषणमसहमानःसीतां तत्याज। एवमेवं राज्यकर्त्रापुंसा प्रजानुरञ्जितव्या,लोकानां सङ्कटानि परिहर्तव्यानि, स्वकीयोदात्ताचारेण च लोकाः सन्मार्गे प्रवर्तयितव्याः। अन्यथा लोके अनाचारः लोकानां मनः कालुष्यं च स्यात्, तेन च कालान्तरेण राज्यक्रान्त्यादिरूपानर्थपरम्परा प्राप्नुयादिति सूचितम्। तदुक्तं मनुना—“मोहाद्राजा स्वराष्ट्र यः कर्षयत्यनवेक्षया। सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः।” इति। भगवता श्रीकृष्णेनाप्येतदेव ज्ञापितम्। तथाहि—“यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः। स यत्प्रमाणं कुरुते लोकस्तदनु वर्तते” इति “यदि ह्यहं न वर्तेय जातु कर्मण्यतन्द्रितः ! मम वर्त्मानुवर्तन्ते मनुष्याः पार्थः सर्वशः॥ उत्सीदेयुरिमे लोका न कुर्या कर्म चेदहम्। सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः॥” इति च॥ शार्दूलविक्रीडितम्॥४८॥

*** वस्तुतस्त्विति।** सत्यतया विवेचिते सतीत्यर्थः।*

  • गातुमिति। श्रितः आश्रितः रामभद्रः श्रीरामचन्द्रो यैस्तान् रामचन्द्राधिष्ठिता-*

  • *तथापि तदीयगुणार्णवकणैकदेश62कोटितमांशकलामात्रमिदमत्रभवतापोतव्यम्॥१७॥

ककुत्स्थ63कुलपर्यायकलशार्णवकौस्तुभः॥
कौसल्यासुकृतव्रातकल्पकप्रसवोदयः॥५०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

निति यावत्। गणनया सङ्ख्यया दरिद्रान् रहितान् असङ्ख्येयानित्यर्थः। गुणानां दयादाक्षिण्यादीनां गणान् समुदायान्, गातुं सविस्तरं वर्णयितुं, कः (पुमान्) ईष्टे समर्थो भवति ? कोऽपि नैवेत्यर्थः। ‘ईश ऐश्वर्ये’ इति धातोर्लट् प्रथमपुरुषः। कुत एतदित्यत आह— प्राचेतसाद्या इति। प्राचेतसः वात्मीकः “प्राचेतसश्वादिकविः स्यान्मैत्रावरुणिश्च सः। वाल्मीकः —” इत्यमरः। आद्यः प्रथमो येषा ते व्यास-वाल्मीक-पराशरप्रभृतय इत्यर्थः। न अवद्याः गर्हणीयाः अनवद्याः अनिन्द्याः प्रशसनीया इति यावत्। “अवद्य-पण्य-वर्या-” इत्यादिना वदेर्नञ्ञुपपदाद् यत्। कवयः येषां श्रीरामगुणानाम् एकदेशस्य यत्किञ्चिल्लेशमात्रस्य आकलनं वर्णनं तस्मिन्नपि न ईशाःन समर्थाः भवन्तीति शेषः। इतरे तु किमुतेत्यर्थः। एतेन श्रीराममाहात्म्यं सामग्र्येण वर्णयितुं ब्रह्मादयो देवा अपि न शक्नुवन्तीनि सूचितम्। तदुक्तं श्रीमदध्यात्मरामायणे स्वयं ब्रह्मणैव—“श्रीरामचन्द्रमाहात्म्यं कृत्स्नं जानाति शङ्करः। तदर्द्धं गिरिजां वेत्ति तदर्द्धं वेद्म्यह मुने।” इति। अत्र पूर्ववाक्यस्योत्तरवाक्यार्थहेतुत्वात् काव्यलिङ्गमलकारः। इन्द्रवज्रा वृत्तम्। “स्यादिन्द्रवज्रा यदि तौ ज-गौ य” इति तलक्षणम्॥४९॥

  • तथापीति। तथापि श्रीरामगुणवर्णनस्याशक्यत्वेऽपि तदीयाः श्रीरामचन्द्रसम्बन्धिनः ये गुणाः सौशील्यादयस्तद्रूपो योऽर्णवः समुद्रस्तस्य कणः लेशः तस्याप्येकदेशः किञ्चिदशः तस्यापि कोटितमोऽंशः तस्य कला षोडशभाग एवं कलामात्र “कला षोडशो भागः” इति “मात्र कार्त्स्न्येऽवधारणे” इति चामरः। मात्रशब्देन न त्वेतस्मादधिक मादृशपामरजनैर्वक्तुं शक्यत इति द्योतितम्। इदं वक्ष्यमाणम् अत्रभवता पूज्येन, अथवा अत्र श्रीरामविषये भवता त्वया श्रोतव्यमाकर्णनीयम्॥१७॥*

  • तदेवाहैकोनविंशतिश्लोकैः**—ककुत्स्थेति।** ककुत्स्थकुल ककुत्स्थ कुलशब्दः पर्यायः वाचकान्तरं यस्य अर्थात् ककुत्स्थकुलरूपो यः कलशार्णवः क्षीरसागरः तस्य कौस्तुभः एतन्नामा मणिः, पुनः कौसल्यायाः सुकृतव्रातः पुण्यपुञ्जः स एव कल्पकः कल्पवृक्षः तस्य प्रसवोदयः पुष्पोद्गमः। इत आरभ्य सर्वेषां श्लोकानां ‘रमते मम तेजस्वी रामः कामसमो हृदि’ इत्यनेनान्वयः। सर्वत्र रूपकालङ्कारः अनुष्टुप् वृत्तं च॥५०॥*

प्रौढपङ्कि64रथागारपरिष्कारहरिन्मणिः \।\।
जानकीलोचनद्वन्द्वचकोरानन्दचन्द्रमाः॥५१॥

संसारमार्गसञ्चारश्रान्तच्छायामहीरुहः॥
सर्वराक्षसवेताल65समुच्चाटनमान्त्रिकः॥५२॥

करुणारसकल्लोलकदम्ब66वरुणालयः॥
तपोधनजनाकाङ्क्षातटाकनवतोयदः67॥५३॥

विद्याविहरणोद्यानं विनयास्थान68मण्डपः॥
सौलभ्य69प्राभवोत्कर्ष70समावेशनिवेशनम्71॥५४॥

सौजन्यवादान्यकयोः सामानाधिकरण्यभूः॥
सौमुख्य-मुख्यभवनं सौहार्दैकवितर्दिका॥५५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • प्रौढेति। प्रौढः समर्थो यः पङ्क्तिरथो दशरथः तस्यागारं गृहं तत्र यः परिष्कारोऽलङ्कारः। अत्र “सम्परिभ्यां करोतौ भूषणे” इति सुट्।तस्य हरिन्मणिः मरकतमणिः। जानक्याः सीतायाःलोचनद्वन्द्व नयनयुगल तदेव चकोरःचकोरपक्षी तस्य आनन्दकरश्चन्द्रमाः चन्द्र॥५१॥*

*** संसारेति।** संसारमार्गे सञ्चारःभ्रमण तेन श्रान्तानां (जनानां) छायामहीरुहः छायाकारको वृक्षः। सर्वे ये राक्षसा वेतालाः पिशाचविशेषाश्च तेषां समुच्चाटने निवारणे मान्त्रिकः मन्त्रवेत्ता। मन्त्रशब्दात् ‘वेत्ति’ इत्यस्मिन्नर्थे ठक्प्रत्ययः॥५२॥*

  • करुणेति। करुणारसस्य दयारसस्य कल्लोलानां महातरङ्गाणां “महत्सूल्लोल-कलोलौ” इत्यमरः। कदम्बानि समूहास्तेषां वरुणालयः सागरः। तप एव धनं येषां ते तपोधनास्तपस्विनो मुनयः तेषां जनः समूहः तस्य यदाकाङ्क्षातटाक इच्छारूप सरोवरं तस्य नवतोयदः नवीनो मेघः॥५३॥*

  • विद्येति। विद्याया विहरणोद्यान क्रीडोपवन, विनयस्य आस्थानमण्डपः सभामण्डपः। सौलभ्य समता च प्रभोर्भावः प्राभव प्रभुत्व च तयोरुत्कर्षस्याधिक्यस्य समावेशनिवेशन सामानाधिकरण्यावच्छेदकमेका-धिकरणमिति यावत्॥५४॥*

  • सौजन्येति। सुजनस्य भावः सौजन्यं सज्जनत्वं च वदान्यस्य दातुः भावः वादान्यकं दातृत्वं “योपधाद्गुरूपोत्तमात्—”इति भावार्थे वुञ्प्रत्ययः। तयोः, सामानाधिकरण्यभूः सहवासस्थलम्। एतद्धि दुर्घट, यदेकत्र सुजनत्व—दातृत्वयोः सहवास इति। तस्माल्लोकोत्तरत्वमस्य द्योत्यते। सुमुखस्य भावः सौमुख्यं सुमुखत्वं, भावार्थे प्यञ्। प्रसन्नवदनत्वमिति यावत्। तस्य मुख्यभवनं, सहृदो भावः सौहार्द प्रेम तस्य वितर्दिका वेदिका उपवेशनस्थलमिति यावत्। “स्याद्वितर्दिस्तु वेदिका ” इत्यमरः॥५५॥*

अद्भुतो72त्साहशक्तीनामसाधारणजीविका॥
प्रसादलक्ष्म्याः प्रासादः प्रतापस्य73 परा गतिः॥५६॥

प्राणप्रतिष्ठा क्लिष्टानां74 प्रपन्नानां परायणम्॥
अनपायसमृद्धीनामवगाहनदीर्घिका॥५७॥

जम्भशासनजीवातुर्जन्मगेहं जयश्रियः ॥
दुर्वारघोरदारिद्र्यदर्वीकरखगेश्वरः॥५८॥

तत्तादृक्ताटकादेहध्वान्तराजीवबान्धवः॥
सुबाहुमत्तमातङ्गसंहारवरकेसरी॥५९॥

भार्गवाग्रहदावाग्निपरिमार्जन75निर्झरः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • अद्भुतेति। अद्भुताः आश्चर्यकारकाः ये उत्साहाः वनवासादिकष्टभाक्त्वेऽपिखेदाप्रदर्शनरूपाः तेषां याः शक्तयः सामर्थ्यानि तेषां, असाधारणाम् असामान्यां जीविकां जीवनसाधनम्। न त्वेतादृशः शक्तयः साधारणपुरुषे वस्तु शक्नुवन्तीति भावः। प्रसादरूपा प्रसन्नतारूपा या लक्ष्मी सम्पत् तस्याः, प्रासादः भवन, प्रतापस्य पराक्रमस्य परा गतिः उत्तम प्राप्यस्थानम्॥५६॥*

  • ** प्राणेति।** तथा क्लिष्टानां क्लेशयुक्तजनानां प्राणप्रतिष्ठां प्राणानां स्थितिसाधनं, प्रपन्नानां शरणागतानां परमुत्तममयनमाश्रयस्थानं, तथा अनपाया विनाशरहिताश्च ताः समृद्वयः सम्पत्तयस्तासाम् अवगाहनस्य स्नानस्य दीर्घिका वापी “सरो वापी तु दीर्घिका” इत्यमरः॥५७॥*

  • जम्भेति। जम्भशासनस्य इन्द्रस्य रावणकृतस्थानभ्रंशादित्रासात्मृतप्रायस्येत्यर्थः। जीवातुर्जीवनौषध, रावणवधात् पुनःस्वस्थानस्थापनात्। तथा जयश्रियःजयसम्पत्तेः अथवा जयेन या श्रीः शोभा तस्याः “शोभा-सम्पत्ति-पद्मासु लक्ष्मीः श्रीरपि गद्यते” इति विश्वः। जन्मगेह उत्पत्तिस्थानम्। तथा दुर्वार निवारयितुमशक्य अत एव घोरं भयकरं यद्दारिद्र्यं तद्रूपो यो दर्वीकरः सर्पः। “सर्पः पृदाकुर्भुजगः -” इत्यत आरभ्य “दर्वीकरो दीर्घपृष्ठः” इत्यन्तोऽमरः। तस्य खगेश्वरो गरुडः॥५८॥*

  • ** तदिति।** तत्तादृकताटकादेहः स चासौ तादृशः यज्ञादिशुभकर्मप्रध्वंसकःप्रसिद्धः ताटकाया एतदभिधाया राक्षस्याः शरीरं तद्रूपोयो ध्वान्तोऽन्धकारः तस्य राजीवबान्धवः सूर्यः। तथा सुबाहुरुपो यो मत्तमातङ्गः मत्तहस्ती नस्य संहारे विनाशे वरकेसरी महासिंहः “सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः” इत्यमरः॥५९॥*

  • भार्गवेति। भार्गवस्य परशुरामस्य आग्रहः रामस्य सीतापरिग्रहोत्तर स्वनगरं प्रति*

विराधाख्यदुरातङ्कविद्रावणमहौषधम्॥६०॥

खर-दूषणकिम्पाकखण्डनैकपरश्वधः॥
दुर्मोचनी76चमारीचकीचकप्रबलानलः॥६१॥

गृध्रराजस्य नाकादिलोकाक्रमणवर्तनी॥
कबन्धमयकासारकवलीकरणातपः॥६२॥

शबरीचित्तकुमुद77शारदज्योत्स्निकोदयः॥
पावमानियशःकाशप्रकाशशरदागमः॥६३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

पुनरागच्छतः मार्गे समन्तान्निरोधः तद्रूपो यो दावाग्निः तस्य परिमार्जने शमने निर्झरः जलप्रवाहः। “उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः।” इत्यमरः। विराधः इति आख्या नाम यस्य सः विराधनामकराक्षसरूप इति यावत्। दुर्दुष्ट आतङ्को रोगः तस्य विद्रावणे विनाशने महौषधम्॥६०॥

  • खरेति। खरश्च दूषणश्च तौ एतदाख्यौ राक्षसविशेषौ। एतदुपलक्षणम्। तेन त्रिशिरादिचतुर्दशसहस्रराक्षसग्रहणम्। तद्रूपा ये किम्पाका विषवृक्षाः तेषां खण्डने तोडने एकपरश्वधः असहायः परशुः “द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः” इत्यमरः। एकेनैव कस्यापि साहाय्यमन्तरा सर्वेषां विनाशः कृत इति द्योतनार्थमेक इति विशेषणम्। दुर्मोचः मोक्कुमशक्यः वध विनेत्यूह्यम्। नीचश्च यो मारीचः राक्षसस्तद्रूपो यः कीचको वेणुस्तस्य प्रबलःप्रचण्डः अनलः अग्निः॥६१॥*

  • गृधेति। गृध्राणां पक्षिविशेषाणां राजा गृध्रराजः जटायुः तस्य “राजाहः—इत्यादिना टच् समासान्तः। नाकः स्वर्गः आदिः प्रथमो येषां ते ये लोकाः ब्रह्मवैकुण्ठादयः तेषामाक्रमणस्य गमनस्य वर्तनी एकपदी मार्गः “वर्तन्येकपदीति च” इत्यमरः। कबन्धमयः कबन्धनामकराक्षसरूपः यः कासारः सरः तस्य कवलीकरणे ग्रसने शोषणे इति यावत्। आतपः सूर्यकिरणरूपः॥६२॥*

  • शबरीति। शवर्याः कस्याश्चित् किरातकुलजाया भक्तायाः चित्तमेव कुमुदं चन्द्रविकासि कमल तस्य शारदज्योत्स्निकोदयः शरत्कालीनचन्द्रिकोदयः। तथा पवमानस्यापत्यं पुमान् पावमानिर्हनूमान् “अत इञ्” इत्यपत्यार्थे इञ्। तस्य यशः किर्तिरेव काशानि काशकुसुमानि ‘मोल’ इति महाराष्ट्रभाषाप्रसिद्धदर्भकुसुमानीति यावत्। -“ऽथो काशमस्त्रियाम्। इक्षुगन्धा पोटगलःपुंसि भूम्नि तु बल्वजाः” इत्यमरः। तेषां प्रकाशे उदये शरदागमः शरदृतुप्रादुर्भावः। अत्र ‘पावमान शीलमस्येति पावमानि अतिशयेन पवित्र यद् यशः तदेव काशकुसुम तस्य प्रकाशे विकसने शरदागमः इत्यपि व्याख्येयम्’ इत्यत्रैव मुद्रितपुस्तके टिप्पणं दृश्यते, तदपि साधु॥६३॥*

प्रगल्भवालिजीमूतप्रोत्सारणसमीरणः॥
सुग्रीवराज्यसामग्री सुदिनं काननौकसाम्॥६४॥

दुर्निरोधधुनीनाथजाड्यरोगचिकित्सकः॥
दुष्टनक्तञ्चरस्तोमधूमकेतुविजृम्भणम्॥६५॥

कुम्भकर्णमदाम्भोधि78स्तम्भने कुम्भसम्भवः॥
बलीयोरावणप्राणपाषाणदलनाशनिः79॥६५॥

विभीषणस्य साम्राज्यविश्राणनसुरद्रुमः॥
अयोध्यापुरनारीणामक्ष्णोरत्यद्भुतोत्सवः॥६७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • प्रगल्भेति। प्रगल्भःप्रौढश्वासौ वालिजीमृतः वालिरूपो मेघः “घन-जीमूतमुदिर-" इत्यमरः। तस्य प्रोत्सारणे विनाशे गभीरणः वायुः “समीर-मारुत-मरुज्जगत्प्राण-समीरणाः" इत्यमरः। सुग्रीवस्य राज्यस्य सामग्री साहित्यसमृद्धिःकाननमरण्यमेवौकः स्थानं येषां ते काननौकसः सतत वननिवासिनो वानरा इत्यर्थः। तेषां सुदिन उत्साहदिवसः॥६४॥*

  • दुर्निरोधेति। दुर्निरोधः रोद्धुमशक्यश्चासौधुनीनाथः समुद्रः तस्य जडस्य मूढस्य भावः जाड्य मूढत्व “गुणवचन-ब्राह्मणादिभ्यः-" इति भावार्थे ष्यञ। अथवा डलयोः सावर्ण्याज् जलस्य भावः जाल्यमिति विग्रहः। तदेव रोगः तस्य चिकित्सकः वैद्यः। “भिषग्वैद्यौ चिकित्सके" इत्यमरः। स्वसामर्थ्यप्रदर्शनपूर्वकं सागरस्य ‘अहमेव महान् दुस्तरश्च’ इत्यादिरूप जाड्यमपाहरदित्यर्थः। तथा दुष्टाः ये नक्तचरा राक्षसास्तेषां स्तोमस्य समृहस्य धूमकेतुः उत्पातसूचकं नक्षत्रं, तद्वद् विजृम्भण भयप्रदर्शनम्॥६५॥*

  • कुम्भकर्णेति। कुम्भकर्णस्य मद एव अम्भोधिः समुद्रः तस्य स्तम्भने प्रतिष्टम्भे नाशने इत्यर्थः। कुम्भसम्भवः अगस्त्यः। वलीयानतिशयेन बलवान् यो रावणप्राणः स एव पाषाणः शिला तस्य दलने भेदने अशनिः वज्रम्। “—वज्रमस्त्री स्यात् कुलिश भिदुरं पवि. ।शतकोटिः स्वरुः शम्बो दम्भोलिरगनिर्द्वयोः इत्यमरः॥६६॥*

  • विभीषणेति। विभीषणस्य रावणभ्रातुः स्वभक्तस्य सम्राजो भावः साम्राज्य मण्डलाधिपत्यमिति यावत्। “येनेष्ट राजसूयेन मण्डलस्येश्वरश्चयः। शास्ति यश्चाज्ञया राज्ञः स सम्राट्” इत्यमरः। तस्य विश्राणने दाने“-दानमुत्सर्जनविसर्जने। विश्राणन वितरणम्” इत्यमरः। सुरद्रुमः कल्पतरुः। अयोध्यापुरनारीणाम् अयोध्यानगरवासिस्त्रीणाम् अक्ष्णोः नयनयोः अत्यद्भुतः अतिचमत्काररूपः उत्सवः आनन्दः॥६७॥*

अभिषिक्तो80 यथावच्च वसिष्ठाद्यैर्महर्षिभिः॥
रमते मम तेजस्वीरामः कामसमो हृदि॥६८॥

अत्र किल पवित्रचरितः कश्चिद्विपश्चिदजस्रमित्थमनुसन्धत्ते॥१८॥

ध्यायामि राममभिरामगिरा मरन्द-
धारामदघ्नमितराममरेर्विरामम्॥
आराममद्भुततरामलसद्गुणानां
घोरामयघ्नमसुरामरवन्दिताङ्घ्रिम्॥६९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • अभिषिक्त इति। अपि च महर्षिभिः वसिष्ठाद्यैर्वसिष्ठ-विश्वामित्रादिभिः, यथावत्शास्त्रविधिमनुसृत्य, राज्ये इति शेषः। अभिषिक्तः, एतादृशः कामसमः मदनतुल्यः तेजस्वी प्रशस्ततेजोयुक्तः “अस्-माया-मेधा-” इत्यादिना मत्वर्थे विनिप्रत्ययः। राम मम हृदि रमते क्रीडति। अह तावद् भक्त्यादिसाधनैः सकलप्राणिहृदयनिवासिन त जानामीति भावः। अत्र तावत् ‘ककुत्स्थकुलपर्याय-’ इत्यादिभिरेकोनविंशतिश्लोकैः श्रीरामजन्मन आरभ्य रावणवधोत्तरं पुनरयोध्यामागत्य राज्याभिषेकपर्यन्तः श्रीरामायणकथार्थः सूचितः॥ ६८॥*

  • एवं समग्रं श्रीरामचरितमुक्त्वा तत्स्तवने विद्वदनुमति प्रदर्शयति—**अत्रेति।*अत्र श्रीरामविषये पवित्र चरितमाचरण यस्य तथाभूतः कश्चिद्विपश्चिद् एतद्ग्रन्थकर्ता वेङ्कटाध्वरिनामा पण्डित इत्यर्थः। अजस्र सततं “सततेऽनारताश्रान्तसन्तताविरतानिशम्। नित्यानवरताजस्रम्-” इत्यमरः। इत्थं वक्ष्यमाणप्रकारेण “इदमस्थमुः” इतीदशब्दात् प्रकारार्थे थमुप्रत्ययः।अनुसन्धत्ते अनुसन्दधाति उच्चारयतीत्यर्थः। किलेति निश्चयेन॥१८॥

  • यदनुसन्धत्ते तदेवाह—ध्यायामीति। अभिरामा मनोहरा चासौ गीर्वाक् च तया वाड्माधुर्येणेति यावत्। मन्दरस्य मकरन्दस्य “मकरन्दःपुष्परसो मरन्दोऽपि निगद्यते” इति कोशः(?) धाराया मद हन्तीति मदघ्नःत, मकरन्दमाधुर्यमपि तुच्छीकुर्वन्तमित्यर्थः। मदघ्नमित्यत्र हन्तेः मूलविभुजादेराकृतिगणत्वात् कप्रत्ययः। “हो हन्तेः” इति कुत्वम्। तदुक्तं सिद्धान्तकौमुद्याम् “अमनुष्यकर्तृके च” इति हन्तेष्टग्विधायके सूत्रे—–‘अथ कथं’बलभद्रः प्रलम्बघ्नः’ ‘कृतघ्नः’ ‘शत्रुघ्नः’ इत्यादि। मूलविभुजादित्वात्सिद्धम्’ इति। अरेः एतज्जातावेकवचनम्। शत्रूणामित्यर्थः। विरामं नाशकम्। अत एव इता प्राप्ता रामा सीता येन तम्। सीतापहारकरावणादिशत्रुविनाशात्प्राप्तस्त्रीकमित्यर्थः। अतिशयेन अद्भुताः आश्चर्यावहाः अद्भुततराः, अतिशायने तरप्। च अमलाः निर्मलाश्च ते सद्गुणाः लोकत्रासावहशत्रुनिराकरण-लोकसुखोत्पादनादिरूपाः सुन्दरगुणास्तेषाम्। अद्भुततरत्वममलत्व चैतद्विशेषणद्वयं गुणानां, न केवलमाश्चर्योत्पाद-*

दयासमुदयालय मुदाधकानन कानन
पलाशनपलायनप्रणयिकार्मुके धार्मिके॥
समीरजसमीडिते प्रविश चित्त मे सत्तमे
बलीकृतवलीमुखे मनुजधर्मिणि ब्रह्मणि॥७०॥

अस्त्रामास तृणं प्रियाद्रुहि तृणाभास स्मरारेर्धनु-
र्दारामास मुनेः शिलाऽपि नृवरामास स्वयं पादुका॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

का एव गुणाःकिन्तु निर्मलाःकुत्रापि दूषणोत्पादनानर्हाइतरलोकानुकरणार्हाश्चइति यावत्। अन्यथा केवलं गुणानामाश्चार्यावहत्व दुष्टानां रावण-कुम्भकर्णादीनामपि वर्तते इति द्योतनार्थम्। तादृशगुणानाम्आरामउपवन, सकललोकानां मुखशान्युत्पादकत्वेनारामसादृश्यम्। घोराः भयङ्कराश्च ते आमया सगारसम्बन्धिनो रोगाश्च तवहन्ति विनाशयतीति घोरामयघ्न “घोर भीम भयानकम् इति रोग-व्याधिगदामयाः” इति चाप्युभयत्रामरः। जन्म-जरा मरणादिसकलप्रापञ्चिकदुःखं निवारकमित्यर्थः। असुराः दैत्याश्च अमराः देवाश्च तैर्वन्दितौ अङ्घ्रीचरणौ प्रणम्यतथाभूतम्। राम ध्यायामि मनसि चिन्तयामि। इन्द्रवज्रावृत्तम्। लक्षणमुक्तं प्राक्. (४९ लोकटीकायाम्)॥६९॥

  • दयेति। दयायाः समुदयस्य समुदायस्य ‘समुदायः समुदयः’ इत्यमरः। आलय स्थान तस्मिन्। काननेऽरण्ये वनवासे सत्यपीत्यर्थः। मुदा आनन्देन “मुत्प्रीतिः प्रमदो हर्षप्रमोदामोद-समदा। स्यादानन्दथुरानन्दः—” इत्यमरः। अधिकम् उल्लासयुक्तम् आननं मुखं यस्य तस्मिन्। पल मास “अधः—स्वरूपयोरस्त्रीतल स्याच्चामिषे पलम्”इत्यमरः “पलमुन्मानमासयोः” इति रुद्रश्च। अशन भक्षण येषां ते पलाशना राक्षसास्तेषां पलायने विद्रावणे प्रणयि परिचययुक्तं समर्थमिति यावत्। कार्मुकःधनुः यस्य तम्मिन्, धर्म चरतीति धार्मिकः तम्मिन् “धर्मं चरति ” इति टञ्। बलीकृताः शक्तियुता कृताः वलीमुखाः वानराः येन तम्मिन्। कपिप्लवङ्ग-प्लवग-शाखामृग-वलीमुखाः। मर्कटो वानरः कीश” इत्यमरः। समीरात्वायोःजात उत्पन्नः समीरजो मारुतिस्तेन समीडितः स्तुतः तस्मिन्। मनुजधर्मिणि लीलार्थ मनुष्यधर्मवति, वस्तुतस्तु ब्रह्मणि ब्रह्मस्वरूपे सत्तमेअतिशयसाधौ श्रीरामे इत्यर्थः। हे मे चित्त मन्मानस, प्रविश प्रवेश कुरु तं भजेत्यर्थः। पृथ्वी वृत्तम्। लक्षणं पर्वोक्तम् (१२ श्लोकटीकाया कथितम्)॥७०॥*

  • किं च—अस्त्रामासेति। हे भगवन् श्रीरामचन्द्र, प्रियायै सीतायै द्रुह्यतीति द्रुक्तस्मिन् सीताचरणाङ्गुष्ठभेदके ऐन्द्रकाके इत्यर्थः। तृणं दर्भखण्डम् अस्त्रामास अस्त्रवदाचचार। अस्त्रशब्दात् “कर्तुः क्यड्-” इति सूत्रस्थेन “आचारेऽवगम्भ-” इत्यादिवार्तिकात् ‘आचारे’ इत्यनुवर्तमाने सति ”सर्वप्रातिपदिकेभ्यः क्वि-*

कुल्यामास महार्णवोऽपि कपयो योधाम्बभूवुस्तदा
पौलस्त्यो मशकां81बभूव भगवंस्त्वं मानुषामासिथ82॥७१॥

अशिलाप्राणदपदै83रचराचरमुक्तिदैः॥
असर्वभूताभयदैरशर्वधनुरर्दनैः॥७२॥

अब्रह्मास्त्रीकृततृणैरतृणीकृतरावणैः॥
अलं कातरदेवैस्तैरलङ्कापुरसाधकैः॥७३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

ब्वा वक्तव्यः” इति वार्तिकेनाचारक्विपि तदन्तस्य धातुत्वात् तस्माल्लिड्विवक्षाया च तस्मिन् परे अनेकाच्त्वादामि अस्तेरनुप्रयोगः, क्वचिद्भवतेरपि। एवमग्रेऽप्यूह्यम्। तथा सीतास्वयंवरप्रसङ्गे इति शेषः। स्मरारेः शिवस्य धनुः तस्मिन् समये पणीकृतमित्यर्थः। तृणामास तृणवदाचचार। तत्रभवता तृणवद्भग्नमित्यर्थः। शिलाऽपि दृषदपि मुनेर्गौतमस्य दारामास स्त्री बभूव। पादुका, भवतः इत्यर्थः। स्वयं नृणां मनुष्याणां वरः श्रेष्ठः “देवाद्वृते वरः श्रेष्ठे” इत्यमरः। राजा तद्वद् आचचारेति नृवरामास। वनवासगमनप्रसङ्गे भरताग्रहात् तस्मै समर्पितेत्यर्थः। भरतेनापि श्रीरामागमनपर्यन्तं राज्यं पादुकायां निवेद्य स्वयं प्रधानवद् आचरितमिति प्रसिद्धिः। तथैव महार्णवः समुद्रः अपि कुल्यामास अल्पा सरिदिव बभूव। “कुल्याल्पा कृत्रिमा सरित्” इत्यमरः। श्रीरामस्य लङ्कागमनसमये तत्कोपाद् भीतसमुद्रः क्षुद्ररूप आसीदिति श्रीरामायणे। तथा कपयो वानराः योधाम्बभूवुः योद्धारः बभूवुः \। “भटा योधाश्च योद्धारः।” इत्यमरः। पुलस्त्यस्य विश्रवसः अपत्य पौलस्त्यो रावणः मशकाम्बभूव मशकवदास। युद्धे मशकवदनायासेन पराभूत इत्यर्थः। त्वं श्रीरामश्च मानुषामासिथ मनुष्यवदाचेरिथ। शार्दूलविक्रीडित वृत्तम्॥७१॥

  • एव चैतादृशमहाप्रभावत्वाद्यदि भजनीयः स्यात्तर्हि श्रीराम एवेति द्योतयन्नेतत्प्रकरण (अयोध्यावर्णनं ) उपसंहरति**—अशिलेति।** श्लोकद्वयस्यैकान्वयः। प्राण जीवन ददातीति प्राणद शिलायाः अहल्यारूपायाः प्राणद जीवनप्रद उद्धारकमिति यावत्। तादृश पद चरणःन भवति येषामित्यशिलाप्राणदपदास्तैः। तथा चराचराणां स्थावरजङ्गमानां मुक्तिदाः कैवल्यप्रदाः न भवन्तीति तथाभूतैः। तथा सर्वभूतानां प्राणिनाम् अभयदाः न भवन्ति तैः। शर्वस्य शिवस्य “शिवः शूली महेश्वरः। ईश्वरः शर्व ईशानः” इत्यमरः। धनुषः अर्दना भञ्जकाः न भवन्तीति तथा तैः। तथा ब्रह्मास्त्रमिव न कृत तृण यैस्तैः, न तृणीकृतः तृणवत्तुच्छीकृतः रावणः यैस्तैः, अत एव न साधितं लङ्कापुरं लङ्कानगरी यैस्तथाभूतैश्च अत एव कातरा भीरवश्च “अधीरे कातरस्त्रस्ते भीरु-भीरुक-भीलुकाः” इत्यमरः। ते देवाश्च तैः। अलं कृतम्। ये तावदुपरिवर्णितानि लोकोपकारभूतानि कार्याणि कर्तुं न शक्नुवन्ति ते देवा मा मन्त्वित्यर्थः। अनुष्टुप्॥७२॥७३॥*

अथ गङ्गानदीवर्णनम्—६

<MISSING_FIG href="../books_images/U-IMG-1722082472Screenshot2024-07-27174405.png"/>

इति विमानं दक्षिणतः प्रस्थाप्यकृशानुमुद्दिश्य**—**

शिथिलितभवखेदा श्लिष्टवैकुण्ठपादा
कृतविपदपनोदा क्लृप्तचित्तप्रसादा84
विमलतरतरङ्गा विश्रुताम्भोधिसङ्गा85
विहितदुरितभङ्गा वीक्ष्यतामत्र गङ्गा॥७४॥

** कृशानुः—** उपेक्षणीयानि भागीरथीयानि पानीयानि किमिति वीक्षणीयानि॥१९॥

यतः—

येषां जनिश्चरणतस्तु हिरण्यहर्तु-
र्दोषाकरेण गुरुदारविटेन मूर्ध्नि86

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

इति विमानं दक्षिणतः दक्षिणस्यां दिशि, ‘दक्षिणोत्तराभ्यामतसुच्’ इत्यतसुच्। प्रस्थाप्य नीत्वा कृशानुमुद्दिश्य, आहेति शेषः।

  • शिथिलितेति। शिथिलतः विनाशितःभवस्य संसारस्य खेदः दुःख यया तादृशी। श्लिष्टौ आलिङ्गितौ आश्रिताविति यावत्। वैकुण्ठस्य विष्णोः पादौ यया तथाभूता। कृतः विपदा आपत्तीनाम् अपनोदो निवारण यया तथाभूता। पुनश्च क्लृप्तःरचितः चित्तस्य प्रसादः प्रसन्नता यया तादृशी। यस्या दर्शनमात्रेणैव मनः—सन्तोषो जायते इत्यर्थः। विमलतराः अतिशयेन निर्मलास्तरङ्गा वीचयो यस्याःसा तथाभूता। “भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रिया वीचिरथोर्मिषु” इत्यमरः। विश्रुतःप्रसिद्धः अम्भोधेः समुद्ररूपस्य पत्युः सङ्गः सङ्गतिर्यस्याः सा। अत एव विहितः कृतः दुरितानां पापानां भङ्गः विनाशो यया तथाभूता च। अत्रास्मिन्स्थले गङ्गा भागीरथी नदी वीक्ष्यता दृश्यतां, त्वयेति शेषः। मालिनी वृत्तम्। लक्षणमुक्तं प्राक् (३५ श्लोकटीकायाम्)॥७४॥*

  • अथाह कृशानुः—उपेक्षणीयानीति। उपेक्षितुं तिरस्कर्तुं योग्यानि उपेक्षणीयानि भागीरथीयानि गङ्गासबन्धीनि पानीयान्युदकानि किमिति कुतो हेतोः वीक्षणीयानि अवलोकनीयानि ? अत्रोपेक्षणीयानीत्यस्य ‘उप समीपे ईक्षणीयानि दर्शनीयानि’ इति श्लिष्टार्थो मुद्रितपुस्तके मधुरसुब्बाशास्त्रिविरचितटीकायामुपलभ्यते। परं च स न युक्तः। ‘वीक्षणीयानि’इत्यग्रिमपदेनैव तदर्थलाभात् पुनरपि तथैवार्थकरणे श्लेषस्वरसाभावात् पुनरुक्तिदोषापत्तेश्च॥१९॥*

    वीक्षणीयत्वाभावमेव दर्शयति – यतः—येषामिति। येषां गङ्गायाः इमानि

ब्रह्मोत्तमाङ्गभिद एव सहस्थितिश्च
ख्यातो लयो जलनिधौ किल गाङ्गवाराम्॥७५॥

** विश्वाव ० —**शान्तं87 पापम्। मन्दमते किं मुकुन्दपादारविन्दनिष्यन्दिनीं88 धुनीमपि निन्दसि89 ?॥२०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

गाङ्गानि तादृशानि च वारि उदकानि च तेषां, “आपः स्त्री भूम्नि वार्वारि” इत्यमरः। गङ्गोदकानामित्यर्थः। जनिरुत्पत्तिस्तु “जनिरुत्पत्तिरुद्भवः” इत्यमरः। हिरण्यहर्तुः सुवर्णचोरस्य चरणतः आचरणात्, जातेति शेषः। तथा ब्रह्मणःब्राह्मणस्य उत्तमाङ्ग शिरः। “उत्तमाङ्ग शिरः शीर्ष” इत्यमरः। भिनत्ति छिनत्तीति उत्तमाङ्गभित् तस्य ब्रह्महन्तुरित्यर्थः। मूर्ध्नि मस्तके “मूर्धा ना मस्तकोऽस्त्रियाम्” इत्यमरः। गुरोरव्यापकस्य दाराणां भार्यायाः विटेन जारेण “भार्या जायाऽथ पुभूम्नि दाराः” इत्यमरः। “विटोऽद्रौलवणे षिङ्गे(जारे) मूषिके खदिरेऽपि च” इति मेदिनी च। अत एव दोषाणाम् आकरेण उत्पत्तिस्थानेन सह स्थितिः वासश्च। तथा लीयते एकीभूयते अनेनेति लयः मैत्रीति यावत्। जलाना डलयोः सावर्ण्याज् जडानां मद्यपानेन मत्तानान्निधौ समुदाये, ख्यातः प्रसिद्धः एव। किलेत्यैतिह्ये। अनेन भागीरथीजलानां पञ्चमहापातकवत्त्व सूचितम्। तथा चाह मनुः—“ब्रह्महत्या सुरापान स्तेयं गुर्वङ्गनागमः। महान्ति पातकान्याहुः संसर्गश्चापि तैः सह” इति। अयमर्थस्त्वापाततः। वास्तवस्तु येषां गाङ्गवारां जनिः प्रादुर्भावः, हिरण्यहर्तुर्हिरण्यकशिपुनामकदैत्यस्य हन्तुः। नामैकदेशेन नामग्रहणात् हिरण्यशब्देन हिरण्यकशिपुग्रहणम्। विष्णोरिति यावत्। चरणतः पादात्, ब्रह्मणःब्रह्मदेवस्योत्तमाङ्ग पञ्चमशिरः तद्भिनत्ति छिनत्तीति तथाभूतस्य शिवस्येत्यर्थः। शिवेन हि ब्रह्मणः पञ्चमशिरश्छिन्नमिति पुराणप्रसिद्धिः। मूर्ध्नि, गुरुदारविटेन बृहस्पतिपत्नीविटेन दोषाकरश्चन्द्रः तेन सह स्थितिश्च ख्याता। जलनिधौ समुद्रे च लयःख्यातः इति। एव च ‘विष्णुचरणोत्पत्त्या, शिवमस्तके चन्द्रेण सह स्थित्या च परमपावनत्व गङ्गाजलानां सूचितमिति ज्ञयेम्। अत्र श्लेषमूलका व्याजस्तुतिर्ज्ञेया। मुखनिन्दायाः स्तुतौ पर्यवसानात्। तदुक्तम्—“व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वारूढिरन्यथा” इति। अतः परं पूर्वकथितवृत्तानां नामलक्षण नैवोच्यते॥ ७५॥

  • एवं कृशानूक्तं निन्दनमसहमान आह विश्वावसुः—शान्तमिति। शान्तं पापं पापवचनं नोच्चारणीयमित्यर्थः। हे मन्दमते मन्दबुद्धे, मुकुन्दस्य श्रीकृष्णस्य पादारविन्दाच्चरणकमलान् निष्यन्दिनी प्रस्रवन्तीम् अनेन तस्याः परमपावित्र्यं सूचितम्। धुनीं गङ्गानदीमपि किं कस्माद्धेतोः निन्दसि ?॥२०॥*

    पश्य—

गाङ्गानि वारि गरुडध्वजपादपद्मा-
दाविर्बभूवुरपुनन् पुनरिन्दुमौलिम्॥
निन्युर्विचित्रममृतं सगरान्वयं च
नेतोऽधिकं90 भुवि पवित्रतमं समं वा॥७६॥

किञ्च—

सा सर्वतोमुखवती तटिनी सरागां
मूर्तिर्विधेरिव बिभर्ति सरस्वतीं च॥
भेदस्त्वियान् बलिभिद91श्चणारविन्दा-
दाद्या बभूव चरमा किल नाभिपद्मात्॥७७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

निन्दानर्हत्वमेव प्रतिपादयति—गाङ्गानीति। गाङ्गानि गङ्गासम्बन्धीनि वारि जलानि, रेफान्तोऽयं वार् शब्दः। गरुडः ध्वजे यस्य तस्य विष्णोरित्यर्थः। पादपद्माच्चरणकमलात्, आविर्बभूवुः प्रकटीबभूवुः। नैतावदेव, अपि तु इन्दुश्चन्द्रः “चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धव” इत्यमरः। मौलौ मस्तके यस्य त शकरमित्यर्थः। अपुनन् पवित्रीचक्रुः। कालकूटदाह शमयामासुरित्यर्थः। ‘पूञ् पवने’ इत्यस्माद् धातोर्लड् प्रथमपुरुषबहुवचनम्। अपि च विचित्रं कपिलमहामुनिशापाद् अधोगतिरूपविचित्रदशापन्न, सगरस्य राज्ञोन्वय वश च “सन्ततिर्गोत्र-जनन-कुलान्यभिजनान्वयौ। वशोऽन्ववायः” इत्यमरः। अमृत मोक्ष निन्युः प्रापयामासुः। तस्माद् उपर्युक्तप्रभावात्, इतः गङ्गाजलेभ्योऽधिक, इत इत्यत्र सार्वविभक्तिकस्तसिः। भुवि पवित्रतममतिशयपवित्रं वाथवा समं तुल्यमपि न। अस्तीति शेषः। अपि तु अन्यानि सर्वाण्यपि तीर्थानि न्यूनान्येवेति भावः॥७६॥

  • किञ्च—सेति। सर्वतोमुखवती प्रशस्तजलयुक्ता, प्राशस्त्ये मतुप्। “पुष्करं सर्वतोमुखम्” इत्यमरः। यद्वा सर्वतः स्वर्ग-पाताल-भूलोकेषु मुखानि प्रवाहरूपेण प्रसरणानि यस्याः सा तथाभूता “मुख निःसारणे वक्त्रे प्रारम्भोपाययोरपि” इति मेदिनी। पक्षे सर्वतश्चतुःपार्श्वेषु मुखानि यस्याः सा तथाभूता च। सा प्रसिद्धा तटिनी नदी भागीरथीत्यर्थः। “तटिनी ह्रादिनी धुनी” इत्यमरः। विधेः ब्रह्मणः मूर्तिर्देह इव रागेण रक्तिम्ना अनुरागेण च। “रागोऽनुरागे लाक्षादौ मात्सर्यालोकयोरपि” इति वैजयन्ती। सहिता युक्ता ता सरस्वती नाम नदी, वाणी च “ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती” “चन्द्रभागा सरस्वती” इत्युभयत्राप्यमरः। बिभर्ति धारयति। उभयोर्भेदमाह**—भेद इति।** उभयोर्भागीरथीब्रह्ममूर्त्योःआद्या प्रथमा भागीरथी, बलिं भिनत्तीति बलिभिद्विष्णुस्तस्य “सत्सू” —इत्यादिना क्विप्। चरणारविन्दात्*

    अपि च—

भागीरथीं प्राप्य बुधाः पितृभ्यो
जलाञ्जलिं सादरमर्पयन्ति॥
पापानि सर्वाणि ततः पितॄणां
भवन्त्यहो दत्तजलाञ्जलीनि॥७८॥

अन्यच्च—

भागीरथीं यः पटुधीरुपास्ते
यथाक्रतुन्यायत एष धन्यः॥
देवत्वमेत्य त्रिदिवे सुधायां92
भागी रथीति व्यपदेशमेति॥७९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

चरणकमलाद् बभूव उत्पन्ना। चरमा अन्त्या ब्रह्ममूर्तिरित्यर्थः। नाभिपद्मान्नाभिकमलाद् बभूव। इयानेव तु भेदः। किलेति निश्चये। उपमालकारः॥७७॥

  • नैतावदेव, अन्यदपि तन्महित्व शृण्वित्याह-**अपि चेति—भागीरथीमिति।*बुधाः पण्डिताः शास्त्रतस्तन्माहात्म्याभिज्ञा इत्यर्थः। भागीरथी प्राप्य गत्वा, पितृभ्यः जलाञ्जलिमुदकाञ्जलि आदरेण पूज्यभावेन सहित यथा स्यात्तथा अर्पयन्ति ददति। एव कृते किं भवति तदाह—तत इति। ततः उदकाञ्जलिसमर्पणात्, पितॄणां सर्वाणि पापानि दुरितानि, दत्तः समर्पितः जलाञ्जलिरुदकाञ्जलिः‘अद्यप्रभृति पितृृणामस्माकं च न कोऽपि सम्बन्धः’ इत्युक्त्वा जलनिक्षेपो यैस्तथाभूतानि भवन्ति। अर्थाद् अञ्जलिसमर्पणक्षण एव पितॄणां सर्वाणि पापानि नश्यन्तीति भावः। अहो इति विस्मये॥७८॥

  • अन्यदप्याह—भागीरथीमिति। यः पट्वीकुशला धीर्बुद्धिर्यस्य सः “स्त्रिया पुवद्भाषितपुस्कादनूड्–” इत्यादिना पटुशब्दस्य पुवद्भावः। भागीरथी गङ्गाम् उपास्ते सेवते भजते इति यावत्। उपपूर्वकस्य ‘आस उपवेशने’ इत्यादादिकस्य लटि रूपम्। अत एव धन्यः पुण्यवान् “सुकृती पुण्यवान् धन्यः” इत्यमरः। एषः भागीरथ्युपासकः। यथाक्रतुन्यायतः क्रतुन्यायमनतिक्रम्य क्रत्वनुष्ठायीवेति यावत्। देवत्व देवरूपमेत्य प्राप्य, त्रिदिवे स्वर्गे, सुधायाम् अमृतमध्ये इत्यर्थः। भागी भागवान्, रथी रथयुक्तः विमानयुक्त इति यावत्। इत्येवरूप व्यपदेश व्यवहारम् एति प्राप्नोति। अर्थाद् भागीरथी संसेव्य स्वर्गे लोके देवस्वरूप सम्पाद्य विमानेन सञ्चरतीति ज्ञेयम्॥७९॥*

    किं च—

सरस्वत्याऽऽश्लिष्टा सवितृतनयालिङ्गितझरा
स्फुरद्गुच्छस्वच्छा प्रकृतिरिव भाति त्रिगुणभाक्॥
तथाप्येषा दोषापनयनपटुःस्वाकलनया93
प्रगल्भं संसारं प्रशमयति कंसारिपदभूः॥८०॥

किं च—

गाम्भीर्येण गदाधरस्य हृदयं माधुर्यतस्तद्गिरं
श्वेतिम्ना च यशस्तदीयमनघं शैतल्यतस्तत्कृपाम्॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

*सरस्वत्येति। किञ्च कसारेः श्रीविष्णोः पदाच्चरणाद्भवति उत्पद्यते इति कसारिपदभूः श्रीकृष्णचरणकमलोत्पन्ना भागीरथीत्यर्थः। सरखत्या रक्तया नद्या आश्लिष्टाआलिङ्गिता कृतसगमेति यावत्। तथा सवितृतनया सूर्यकन्या यमुनाभिधा नीलवर्णानदी तया आलिङ्गितः सङ्गतः झरः प्रवाहो यस्याः सा तथाभूता। यमुनाप्रवाहसङ्गमित्यर्थः। स्वतस्तु स्फुरन् प्रफुल्लितः यः गुच्छः पुष्पस्तबकः स इव स्वच्छा शुभ्रवर्णाएषा पुरोदृश्यमाना गङ्गा, त्रीन् गुणान् सत्त्वरजस्तमोरूपान्पक्षे शुक्ल-रक्त-कृष्णवर्णान् भजतीति तथाभूता। प्रकृतिरिव प्रपञ्चोत्पादिका मायेव भाति केवलम् उपरितनरूपेण दृश्यते। भगवन्मायाया हि “अजामेका लोहित-शुक्लकृष्णा” इत्यादिश्रुत्या“दैवी ह्येषा गुणमयी मम माया दुरत्यया” इति भगवद्गीतया च त्रिगुणत्व प्रतिपादितम्। अन्ततस्तु न तथा, कुतः तदाह-**तथापीति।*यद्यपि त्रिगुणात्मिकेव भाति, तथापि दोषाणां प्रापञ्चिकदुःखानाम् अपनयने निवारणे पटुः समर्था। पटुशब्दात् “वोतो गुणवचनात्” इति विकल्पाड् डीषभावः। एषा भागीरथी स्वस्या आकलनया सेवया, प्रगल्भं प्रौढ विस्तृतमिति यावत्। ससारं जन्म-जरा-मरणादिरूपं प्रशमयति विनाशयति। प्रकृतिस्तु संसारं जनयतीति भावः। तस्मादतुलमाहात्म्यवतीयमित्यर्थः॥८०॥

  • किञ्च इयं तावत्सर्वचेष्टितैः श्रीविष्णुमेवानुसरतीत्याह—गाम्भीर्येणेति। तस्य गदाधरस्य श्रीविष्णोरिति यावत्। पदाच्चरणाद् भवन्ति उत्पद्यन्ते इति तत्पदभुवः। सर्वनाम्नः प्रकृतपरामर्शकत्वात् तच्छब्दस्य गदाधरपदेन सम्बन्धः। इमे पुरोवर्तिनः वारां जलानां राशिःसमुदायःसमुद्रस्तस्य दाराः पत्नी गङ्गेत्यर्थः। दाराशब्दस्य पुसि नित्यं बहुवचनत्वात्। “भार्या जायाथ पुभूम्नि दाराः स्यात्तु कुटुम्बिनी” इत्यमरः। वाराशिरित्यत्र ‘वार् राशिः’ इति स्थिते “रो रि” इति रेफस्य लोपः। गम्भीरस्य निम्नस्य भावः गाम्भीर्य अगाधत्वमिति यावत्। “निम्न गभीरं गम्भीरं” इत्यमरः। तेन गदाधरस्य विष्णोः हृदयमन्तःकरणं, इत आरभ्य ‘गिरम्’ ‛यशः’ इत्यादिसर्वपदानां ‘अनुसरति’ इत्यनेनान्वयः। माधुर्यतः स्वादुतया,*

नैर्मल्यातिशयेन तस्य धिषणां नित्यं प्रसादेन त-
द्वक्त्रञ्चानुसरन्ति तत्पदभुवो वाराशिदारा इमे94॥८१॥

<MISSING_FIG href="../books_images/U-IMG-1722736061Screenshot2024-07-11161259.png"/>

अथ काशीवर्णनम्—७

<MISSING_FIG href="../books_images/U-IMG-1722089930Screenshot2024-07-25212753.png"/>

इति बद्धाञ्जलि95रग्रतोऽवलोक्य सानन्दम्—

काशी सकाशीभवदिन्द्रगेहसौधाग्रभागा बहुसप्तिनागा96 \।\।
इन्धे मयूखैरियमन्धकारव्युत्पत्तिशून्या शिवशेखरेन्दोः॥८२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

तृतीयार्थे तसिः। तस्य विष्णोः गिरं वाणी, श्वेतस्य शुक्लस्य भावः श्वेतिमा शुक्ल त्वेनेत्यर्थः। “वर्ण-दृढादिभ्यः*—**” इति भावार्थे इमनिच्। तदीय श्रीविष्णुसम्बन्धि अनघ निर्मल, यशः कीर्तिं, शैतल्यतः शीतलत्वेन, ‘गुणवचनब्राह्मणादिभ्यः—’ इति ष्यञ् प्रत्ययः। तस्य कृपां, नैर्मल्यस्य निर्मलत्वस्य अतिशयेनोत्कर्षेण तस्य विष्णोः धिषणां बुद्धि “बुद्धिर्मनीषा धिषणा” इत्यगरः। नित्य प्रसादेन प्रसन्नतया, तस्य भगवतो वक्त्र मुख च अनुसरन्ति अनुकुर्वन्ति। एवं च पूर्वोक्तसकलोदात्तगुणविशिष्टत्वाद्भगवती भागीरथी दोषशल्यमपि नार्हति, किन्तु सन्ततप्रशंसामेवार्हतीति सूचितमिति भावः॥८१॥*

  • एव भागीरथी स्तुत्वा तन्निवासस्थानभूतां काशीं वर्णयितुमाह**—इतीति।** इत्येवमुक्त्वा बद्धाञ्जलिः सन् अग्रतोऽवलोक्य दृष्ट्वा, सानन्दमानन्देन सहित यथा तथा, आहेति शेषः।*

  • काशीति। सकाशीभवत् सन्निधित्वेन विद्यमान इन्द्रगेह स्वर्गलोको येषां तादृशाः सौधानाम् उच्चैस्तरगृहाणामग्रभागा यस्यां सा इति बहुव्रीहिगर्भो बहुव्रीहिः। तथा बहवः सप्तयोऽश्वाः नागा गजाश्चयस्यां सा तथाभूता। “घोटके वीति-तुरगतुरङ्गाश्व-तुरङ्गमाः। वाजि-वाहार्व-गन्धर्व-हय-सैन्धव-सप्तयः।” इति “मतगजो गजो नागः” इति चामरः। तथा शिवस्य विश्वेश्वरस्य शेखरेन्दोर्मस्तकभूषणभूतचन्द्रस्य “शिखास्वापीड-शेखरौ” इत्यमरः। मयूखैः किरणैः “किरणोऽस्रमयूखांशु—” इत्यमरः। अन्धकारस्य व्युत्पत्त्या उद्भवेन शून्या रहिता। भगवतः शकरस्य नित्यनिवासात् तच्छिरःस्थचन्द्रकिरणैः सूर्याभावेऽपि प्रकाशयुक्तेत्यर्थः। इयं काशी नगरी इन्धे प्रकाशते। —‘ञिइन्धी दीप्तौ’ इत्यस्मादुधादेर्लट्॥८२॥*

** कृशानुः—**वयस्य97 किमेषापि तव स्तवास्पदम् ?॥२१॥

पश्य**—**

ये मिष्टान्न98भुजो गजोत्तमहयारोहाः99 सुगेहान्तरे100
मत्तभि101र्महिलाभिरत्र विहरन्त्यामुक्तमुक्तास्रजः॥
ते घोरास्थिधरा विराजदनडुद्वाहा विषाहारिणो
नर्तिप्यन्त्यवशाः स्मशाननिलया नीचैः पिशाचैः समम्॥८३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

अथाह कृशानुः—वयस्येति। वयस्य भो मित्र “वयस्यः स्निग्धः सवया अथ मित्र सखा सुहृत्”इत्यमरः। एषा काशीनगर्यपि, अपिना गर्हाद्योत्यते। तव स्तवास्पदं स्तुतिस्थानम्। किमिति प्रश्ने। इत्यापाततः। वस्तुतस्तु*—*एषा महामहिमवती काशी अपि तव स्तवास्पद किम् ? तस्मात् त्वं धन्योऽसि ! तत्प्रभावस्य सामान्येन वक्तुमशक्यत्वादिति भावः॥२१॥

*** पश्येति**। स्तुतियोग्यत्वमयोग्यत्व वेत्यर्थः। *

  • तत्रतावत्प्रथम काशीनिवासिना पारमार्थिकफल निरूपयति**—य इति।** अत्र काश्यां ये जनाः मिष्ट षड्रसयुक्तमन्नं भुञ्जते इति मिष्टान्नभुजः। तथा गजोत्तमा हस्तिश्रेष्ठाश्च हया अश्वाश्च तेषु आरोह आरोहण येषा तथाभूताः। अश्वादिष्वारुह्य नगरे परिभ्रमन्त इत्यर्थः। किञ्च आमुक्ताः धृताः मुक्तास्रजो मुक्ताहारा यैस्ते तथा अपि च सुगेहान्तरे शोभनान्त पुरे मत्ताभिः यौवन—रूपादिभिरित्यर्थीत्। महिलाभिः स्त्रीभिः “स्त्री योषित्” इत्यारभ्य “वनिता महिला तथा” इत्यन्तोऽमरः। सह विहरन्ति क्रीडन्ति। एव विषयासक्तचित्ता अपीति वास्तवोर्थः। प्रातीतिकस्तु एव सुखिन इत्यर्थः। ते जनाः, परलोके इति शेषः। मुक्ताहाराणां स्थाने घोराणा भयकराणामस्थ्नाधरा धारकाः, तथा गजाश्वादिस्थाने विराजन् शोभमानः अनड्वान्वृषभो वाहो वाहन येषा तादृशाः। “उक्षा भद्रो बलीवर्दो ऋषभो वृषभो वृषः। अनड्वान्” इत्यमरः। तथा मिष्टान्नस्थाने विपाहारिणो विषभोजिनः। अन्तःपुरस्थसुन्दरस्त्रीविलासस्थाने च स्मशानमेव निलयो गृह येषा तथाभूताः स्मशाननिवासिनः सन्त इत्यर्थः। अवशाः उन्मत्ताः स्वतन्त्राश्च, नीचैः क्षुद्रैः, पिशाचैः ब्रह्मराक्षस-मारीच-वेतालादिभिः सम सह, नर्तिष्यन्ति नृत्यं करिष्यन्ति। एवं च अत्रत्यसुखिजनानामप्येवविधदुःखोत्पादिकेयमिति रभसार्थः। वास्तवस्तु पूर्वोक्तप्रकारेण विषयासक्तत्वेऽपि केवलं काशीवासेनैव जनानां शकरसारूप्यसम्पादयित्रीत्यर्थः। विरोधालङ्कारः॥८३॥*

काशीमु102द्दिश्य—

‘दत्तं साधुमुदे यदेकमपि तत् क्षेत्रप्रभावाद्भवेत्
कामं कोटिगुणं भवान्तर’ इति ख्यातं त्वयि त्वास्थया103
वासं प्राप्य मुहुर्बहूनि ददतो वासांसि जन्मान्तरे—
लोका हन्त भजन्ति दिग्वसनतां हे काशि तुभ्यं नमः॥८४॥

वाराणसि त्वयि सदैव सरोगभूमावारोग्यभूमिरिति काम104मलीकवादः॥
सन्तस्थुषां भवति यत्र वपुः सशूलं जन्मान्तरेऽपि जलभारवदु105त्तमाङ्गम्॥८५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • एवंविश्वावसुमुक्त्वा काशीमुद्दिश्याह—दत्तमिति। हे काशि ‘यद् यदि साधोः सत्पात्रस्य मुदे सन्तोषार्थं, एकमपि न त्वधिकं दत्तमर्पितं, तर्हि तत् क्षेत्रस्य अर्थात् त्वदन्यप्रयाग-पुष्करादेः प्रभावान् माहात्म्यात्, भवान्तरे अन्यजन्मनि ‘काम निश्चयेन कोटिगुण दत्तापेक्षया कोटिसङ्ख्ययाधिक भवेत् सम्पद्येत’ इति ख्यात पुराणादौ प्रसिद्धम्। त्वयि तु। वासं वसति प्राप्य कृत्वा, महुर्वारंवारम् आस्थया ‘अनेन दानेन जन्मान्तरे सुखिनो भवामः’ इत्यादिरूपया, बहूनि वासांसि एतदुपलक्षणम्। तेन महावस्त्र-सुवर्णादीनीत्यर्थः। ददतः सत्पात्रेभ्यः समर्पयन्तः ‘डुदाञ् दाने’ इत्यस्माद् लटः शत्रादेशः। “नाभ्यस्ताच्छतुः” इत्यभ्यस्तत्वान्नुमभावः। ते लोकाः जन्मान्तरेऽन्यजन्मनि दिग्वसनतां दिगम्बरतां भजन्ति प्राप्नुवन्ति। अर्थात्वस्त्रहीना दरिद्रा भवन्तीति भावः। इति प्रातीतिकोऽर्थः। वास्तवस्तु दिग्वसनता नाम शिवसारूप्य प्राप्नुवन्तीति। तस्मात् तुभ्यं नमः। प्रातीतिके दूरत एव त्वां नमस्कुर्मः न तु त्वयि वासं कर्तुमिच्छाम इति। वास्तवे तु एव शिवसारूप्यप्रदायै तुभ्यं नमः, त्वमाहात्म्यस्य दुराकलनीयत्वात्केवलं नमाम एवेत्यर्थः। हन्तेत्यानन्दे विषादे वा॥८४॥*

  • काशीनिवासिनो जनास्तावद्दिगम्बरत्व प्राप्नुवन्तीत्येतावदेव न, किन्तु अन्यदपि प्राप्नुवन्तीत्याह—वाराणसीति। हे वाराणसि काशि, “अम्बार्थ-नद्यो—” इति वाराणसीशब्दस्य सम्बुद्धौ ह्रस्वत्वम्। सदैव सन्ततमेव रोगेण शीतादिना सहिता सरोगा तादृशी भूमिः यस्या तस्याम्। वस्तुतस्तु सरः गङ्गाप्रवाहरूप गच्छति प्राप्नोतीति सरोगा तथाभूता भूमिर्यस्यामित्यर्थः। तस्याः त्वयि आरोग्येण रोगराहित्येन युक्ता भूमिः इति काम अत्यन्त निश्चयेनेति यावत्। अलीकवादः असत्यवचनमित्यर्थः। “अलीक त्वप्रियेऽनृते” इत्यमरः। वास्तवस्तु अः विष्णुर्बिन्दुमाधवरूपः “अकारो वासुदेवः स्यात्” इत्येकाक्षरः। रेण नेत्राग्निना युक्तः उः शिवः अर्थाद् विश्वेश्वरः तौ अरौ, “रश्च कामेऽनिले वह्नौ” इति, “उकारः शकरः प्रोक्तः” इति चैकाक्षरः तौ गच्छतीति अरोगा तस्याः भावः आरोग्यं तेन युक्ता भूमिरिति अलीकवादः किमिति काकुः। अपि तु नैवालीक इत्यर्थः। तथाहि—यत्र त्वयि सन्तस्थुषां स्थिता*

*** *** **विश्वावसुः—**अनिपुणधिषण गुणमपि किमिति106 दोषीकरोषि? यदेतन्नगरवासिना भोगिनाऽपि योगिनामप्राप्यं107 शिवसारूप्यमाप्यते ॥२२॥

अत्र देहमपवित्रमपास्यन्नच्छमृच्छति वपुः किल यस्य॥
लोचने शुचिरवाप्तनिटाले मस्तके हरिपदाम्बु जटाले॥८६॥

अदःपुरवासिनामन्याप्येषा धन्यता॥२३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

ना, सम्पूर्वकात् ‘ष्ठागतिनिवृत्तौ’ इत्यस्माद्धातोर्भूतसामान्यविवक्षायां लिटि “क्वसुश्च” इति च कसौ “क्वसोः सम्प्रसारणम्" इत्यामि सम्प्रसारणम्। वपुः शरीरं, जन्मान्तरेऽन्यजन्मन्यपि किमुतास्मिन् जन्मनि। शूलेन शूलरोगेण पक्षे शूलायुधेन सहित भवति। उत्तमाङ्गं मस्तकं च जलभारवत् शैत्यरोगयुक्तं, पक्षे जलस्य गङ्गाजलस्य भारेण युक्तम्भवतीति। एवं च सर्वथा शिवसारूप्यमेव प्राप्नोतीति भावः। इति वास्तवोऽर्थः। अत्रापि व्याजस्तुतिरलङ्कारः॥८५॥

  • एवंकृशानुप्रोक्तमर्थं दूषणपरतयैव सङ्गृह्याह **विश्वावसुः—अनिपुणेति।*अनिपुणा सदसद्विवेकविधुरा धिषणा बुद्धिर्यस्य तत्सम्बोधने हे अनिपुणधिषण मन्दबुद्धे, वाराणस्या इति शेषः। गुणमपि किमिति कस्माद्धेतोरित्यर्थः। दोषीकरोषि दूषणयुक्तमिव करोषीत्यर्थः। यद् यस्मात्कारणाद् एतन्नगरवासिना काशीपुरनिवासिना, भोगिना स्त्र्यादिविषयभोगवतापि किमुत वैराग्यादियुतेन जनेन, योगिना यमनियमासनाद्यष्टाङ्गयोगयुक्तानामपि अप्राप्य प्राप्तुमशक्यं, शिवस्य विश्वेश्वरस्य सरूपस्य तुल्यरूपस्य भावः सारूप्य शिवसमानरूपतेत्यर्थः। आप्यते प्राप्यते॥२२॥

  • शिवसारूप्यमेवोपपादयति**—अत्रेति।** अत्र काश्यां, जन इति शेषः। अपवित्र वेषयासक्त्यादिना मलमूत्रादिसबन्धेन वा अपवित्र देह अपास्यन् त्यजन् सन्, अच्छ वच्छ पवित्रमिति यावत्। वपुः शरीरम् ऋच्छति प्राप्नोति। किलेति निश्चये। यस्य शरीरस्य अवाप्त प्राप्त निटाल भाल येन तथाभूते भालदेशस्थिते इत्यर्थः। लोचनेत्रिशुचिरग्निः। अस्तीति शेषः। “अग्निवैश्वानरः" इत्यतः “शुचिरप्पित्तम् — “अत्यन्तोऽमरः। जटा लाति धारयतीति जटाल तस्मिन् जटायुक्ते इत्यर्थः। मस्तके शिरसि हरिपदाम्बु विष्णुचरणसम्बन्धि उदकं, अर्थाद् गङ्गोदकं, वर्तते इति आपः। ‘अपास्यन्’ ‘ऋच्छति’ इति च वर्तमानकालनिर्देशेन शरीरत्यागक्षणे एवोक्तविधशवसारूप्य प्रतीयते॥८६॥*

  • नैतावदेव अन्यदपि तन्महित्वमाह—अदइति। अद पुरनिवासिनाम् अमुमन् पुरे काश्यान्निवसन्तीति तथाभूतानां, अन्या पूर्वोक्तसारूप्यप्राप्तेरितरा, एषा वक्ष्यमाणरूपा धन्यता महत्त्वम्, अस्तीति शेषः॥२३॥*

प्रदोषवत्प्राप्त इह प्रदोषनटोऽन्धकारिव्यपदेशमेति108
प्रकाशयत्येष हि तारकोद्यद्वर्णान्नृणां कर्णनभः प्रदेशे॥८७॥

इति गङ्गातीरजनपदं कृत्स्नमवेक्ष्य साञ्जलिबन्धम्—

प्रातः प्रातर्जान्हवीवारि भक्त्या गाहं गाहं क्लृप्तनित्यक्रियेभ्यः109
पुष्पैराद्यं पूरुषं पूजयद्भ्यः पूतात्मभ्यो भूसुरेभ्यो नमोऽस्तु॥८८॥

<MISSING_FIG href=”../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • का सा धन्यतेत्याकाङ्क्षायामाह-प्रदोषवदिति। इह काश्यां प्रदोषवद् रजनीमुखवत् सायकालवदिति यावत्। “प्रदोषो रजनीमुखम्” इत्यमरः। प्रदोषे सायङ्काले नटति नृत्यतीति प्रदोषनटः एषः शिवः प्राप्तः अन्धकस्य एतनाम्नः कस्यचिद्दैत्यस्य अरिः शत्रुः। पक्षे अन्धकारः ध्वान्तम् अस्मिन्नस्तीति अन्धकारी। मत्वर्थीय इनिः। इति व्यपदेश लक्ष्य अभिधानमिति यावत्। एति प्राप्नोति। अपि च नृणां मर्त्यानां देहावसाने इति शेषः। कर्णनभःप्रदेशे श्रोत्रान्तर्गताकारादेशे, पक्षे किरति सर्वत्र प्रसरति व्याप्नोतीति यावत्। कर्णः व्यापकः, उभयत्रापि “कॄ-वृृ-जृृसिं”,इत्याद्युणादिसूत्रेण यूप्रत्ययः। तस्य बाहुलकात् केवलो नकारादेशश्च। स चासौ नभः प्रदेशः आकाशदेशः तस्मिन्, तारयति जन्म-जरा-मरणादिदु खेभ्य इति तारः स एव तारकः स्वार्थे कः। तस्मिन् उद्यन्तः उपदेशरूपेण प्रकटीभवन्तः वर्णाः अकारोकारमकाररूपास्तान्। “वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्ण तु वाक्षरे” इत्यमरः। पक्षे तारकाभ्यो नक्षत्रेभ्यः उद्यन्तः वर्णाः प्रभारूपास्तान्, प्रकाशयति उपदेशरूपेण कथयति पक्षे प्रकटयति च। केचित्तु तारकशब्देन राममन्त्र गृह्णन्ति, तत्तु वैष्णव-रामानुजीयादिमतानुसारेण योजनीयम्। अस्यापि श्रीरामायणे शिववाक्यं प्रमाणभूतम्। यथा ‘अहो भवन्नाम जपन् कृतार्थो वसामि काश्यामनिश भवान्या। मुमूर्षमाणस्य विमुक्तयेऽहं दिशामि मन्त्रं तव राम नाम” इति। काशीखण्डेऽपि—“पेय पेय श्रवणपुटकैः रामनामाभिराम ध्येयं ध्येयं मनसि सततं तारकं ब्रह्मरूपम्। जल्पन् जल्पन् प्रकृतिविकृतौ प्राणिनां कर्णमूले वीथ्यां वीथ्यामटति जटिलः कोपि काशीनिवासी” इति च॥८७॥*

  • इतीति। इत्येवमुक्त्वा गङ्गातीरजनपदं भागीरथीतीरस्थदेश, कृत्स्नं सर्वं “अथ सम सर्वम्। विश्वमशेष कृत्स्नं” इत्यमरः। अवेक्ष्य दृष्ट्वा, अञ्जलिबन्धेन करसम्पुटेन सहित साञ्जलिबन्ध यथा तथा। आहेति शेषः।*

  • प्रातः प्रातरिति। प्रातः प्रातः प्रतिप्रातःकाले “नित्यवीप्सयोः” इति नित्यार्थे द्वित्वम्। जान्हवीवारि गङ्गोदकं भक्त्या आदरेण गाह गाह स्नात्वा स्नात्वा ‘गाहू विलोडने’ इत्यस्माद् आभीक्ष्ण्ये णमुल्। क्लृप्ताः कृताःआचरिता इति यावत्। नित्याः अकरणे प्रत्यवायसाधकाःक्रियाः सन्ध्यादिकाः यैस्तेभ्य, तथा आद्य सृष्टेरपि पूर्वं वर्तमानं पूरुषं शङ्करं विश्वनाथमित्यर्थः। पूजयद्भ्यः अर्चयद्भ्यः, अत एव पूतः पवित्रः आत्मा चित्तं येषां तथाभूतेभ्यः। “पवित्रः प्रयतः पूतः” इत्यमरः। “आत्मा*

  • *** कृ०—**किमेतद्देशवासिनोऽपि ब्राह्मणाः केवलं कलिमाहात्म्याकलितशास्त्रीयचर्याविपर्यया भवता नमस्क्रियन्ते ? पश्य तावत् प्रायेणास्य काशीदेशजनस्य सुचर्याविपर्यासम्॥२४॥

शस्त्रैर्जीवति शास्त्रमुज्झति परं शूद्राहृतैरम्बुभिः
स्नात्या110चामति देवताः स्नपयति स्वैरं पचत्योदनम्॥
उच्छिष्टान्न बिभेति याति यवनैरुच्चावचैः सङ्गतिं
मातङ्गान्निकटं गतान111 गणयन् मार्गान् मुहुर्गाहते॥८९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

कलेवरे यत्ने स्वभावे परमात्मनि। चित्ते धृतौ च” इति च धरणिः। भूसुरेभ्यः ब्राह्मणेभ्यः नमः अस्तु॥८८॥

  • ब्राह्मणस्तुतिमसहमान आह कृशानुः—किमिति। एतद्देशवासिनः गङ्गातीरनिवासिनः केवलं भृशं कलिमाहात्म्यात् कलियुगप्रभावाद् आकलितः स्वीकृतः शास्त्रीयायाः श्रुति-स्मृतिविहितायाः चर्यायाः आचारस्य विपर्ययो वैपरीत्य यैः तथाभूताः, अर्थाद् विहितमकुर्वन्तः प्रतिषिद्धं कुर्वन्तश्च, तेऽपि ब्राह्मणाः भवता नमस्क्रियन्ते किम् ? आश्चर्यमिदमिति भावः। कुतः एतदिति चेत् प्रत्यक्षमेव पश्येत्याह**—पश्य तावदिति।*अस्य काशीदेशजनस्य प्रायेण सुचर्याविपर्यासं स्वाचारवैपरीत्यं पश्य तावत्। इदानीमेव मया कथ्यमानमवधारयेत्यर्थः। प्रायेणेत्यनेन शास्त्रविहिताचरणस्य क्वाचित्कं सूचितम्॥२४॥

  • तदेवाह**—शस्त्रैरिति।** काशीनिवासिब्राह्मण इति शेषः। अत्र सर्वत्र जातावेकवचनम्। शस्त्रैः आयुधधारणैः, जीवति उपजीविका करोति। ब्राह्मणस्यापत्कालं विना शस्त्रग्रहणनिषेधादेतदयुक्तमिति भावः। तथा परं स्वधर्मभूतत्वादुत्कृष्टं, शास्त्रं वेदाध्ययनादिकम् उज्झति त्यजति। अपि च शूद्राहृतैः शूद्रेणानीतैः अम्बुभिःउदकैः, स्नाति स्नानं करोति, आचामति आचमनं करोति, देवताःदेवानपि स्नपयति अभिषिञ्चति, किञ्च स्वैरं यथा, तथा ओदनमन्नमपि पचति। एतत्तु अतीवावद्यमिति भावः। तथा उच्छिष्टाद् उच्छिष्टभक्षणान् न बिभेति। तदपि भक्षयतात्यर्थः। उच्चावचैः अनेकविधैः यवनैः नीचम्लेच्छादिजातीयेर्जनैः सह सगतिं सहवास तैःसह स्पर्शनभाषणादिक, याति प्राप्नोति, करोतीति यावत्। नैतावदेव, किन्तु निकट गतान् समीप प्राप्तानपि “समीपे निकटासन्न—” इत्यमरः। मातङ्गान् चाण्डालान् “चाण्डाल-प्लव-मातङ्ग-दिवाकीर्ति-जनगमाः” इत्यमरः। अगणयन् तेषां स्पर्शास्पर्शविचारमकुर्वन्, मुहुर्वारंवारं मार्गान् गाहते मार्गेषु इतस्ततो भ्रमतीत्यर्थः। एवं चैतत्सर्वं ब्राह्मणाचारविरुद्धमित्यर्थः॥८९॥*

    • किञ्च—

प्रातर्हन्त कृताप्लवोऽपि रजकस्पृष्टान् जडो रासभै-
रूढान् धारयते पटाननुदिनं धृत्वा बहिर्गच्छति॥
गत्वा म्लेच्छमुखाशुचीन् स्पृशति च स्पृष्ट्वापि न स्नात्यहो
नस्नातोऽप्यथ भुङ्क्तएष चपलो भुक्त्वापि न व्रीडति॥९०॥

अपि च—

नीचैर्दुर्यवनैः शुनीभिरपि वा निःशङ्कमालोकितं
भुङ्क्ते पङ्क्तिविदूषकैः सह नरैरज्ञातवेदाक्षरैः112
मद्यास्वादनमत्तचित्तजनतामोहाय भीहानितः113
कर्माण्यारभते श्रुति-स्मृतिवचोदूराण्यसाराण्यहो114॥९१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • नन्वय जनः प्रातःस्नानं करोति तेन सर्वदोषक्षपण भवतीति चेत्तत्राह—प्रातरिति। किञ्च अयं जनः प्रातः प्रातः काले कृतः आप्लवःगङ्गास्नानं येन तथाभूतोऽपि “समे आप्लाव आप्लवः। स्नान” इत्यमरः। रजकस्पृष्टान् रजकेन कृतस्पर्शान प्रक्षालितानिति यावत्। किञ्च रासभैर्गर्दभैः ऊढ्वान् धृतान् गर्दभवाहितानित्यर्थः। पटान वस्त्राणि अनुदिनं प्रतिदिनं, न त्वेकदिनमपि, धारयते। नत्वेतावदेव। अपि तु धृत्वा बहिर्भ्रमणार्थमित्यर्थः। कार्यार्थं वा गच्छति। गत्वा च म्लेच्छमुखाशुचीन् म्लेच्छ-यवनप्रमुखान् अपवित्रजनान् स्पृशति। स्पृशतु नाम कार्यार्थं, का वा हानिरिति चेत्तत्राह-स्पृष्ट्वापि न स्नाति स्नानमपि न कुरुते। अत एव जडः मूर्खः, चपलः चाञ्चल्ययुक्तश्च एषनस्नातोऽपि, अत्र नञ्शब्दस्य “सह सुपा” इति समासः। नैकधेत्यादिवत्। अथ भुङ्क्ते भोजनं करोति। भुक्त्वापि च न व्रीडति न लज्जते। अत्र रजकस्पृष्ट-रासभोढपटधारण-बहिर्गमनाद्यनेकलज्जाकारणसत्त्वेऽपि लज्जारूपकार्यस्यावर्णनाद्विशेषोक्तिरलङ्कारः। “विशेषोक्तिरखण्डेषु कारणेषु फलावच” इति तल्लक्षणात्॥९०॥*

  • नन्वेते राजाधिकारिणस्तस्माद्राजकार्यव्यापृतत्वान्न तेषां स्वकर्मकरणेऽवकाशः परं तु ये केचित्तदधिकाररहितास्ते तु स्वकर्म कुर्वन्त्येवेति चेत्तत्राह–अपि च—नीचैरित्यादि। अत्रत्य जन इति शेषः। नीचैः हीनजातीयैः दुर्यवनैः दुष्टम्लेच्छैः, तथा शुनीभिः श्वस्त्रीभिरपि वा, आलोकितमवलोकित, अन्नादिकमिति शेषः। नैतावदेव, अपि तु अज्ञात वेदस्य अक्षरमपि किमुत मन्त्रादिक यैस्तैः, अत एव मद्यपान-मांसाशनादिशास्त्रनिषिद्धकर्माचरणात् पङ्क्तिविदूषकैः पङ्क्तिवाह्यैर्नरैः सह निःशङ्क कस्यापि लोक-शास्त्रादेः शङ्कारहित यथा स्यात्तथा भुङ्क्ते। भोज्यान्न चाण्डालादिभिर्नष्टव्यमिति हि धर्मशास्त्रम्। तदाह मनुः—“चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च॥ रजस्वला च षण्ढश्च नेक्षेरन्नश्नतो द्विजान्” इति। दृष्टे किं भवति*

  • *अपि च—

कन्यां कामप्युदूह्य प्रविजहदुदयद्यौवनामज्ञ एनां
द्रव्याशापाशकृष्टो भ्रमति चिरतरं हन्त देशान्तरेषु॥
अन्योन्याश्लेषवाञ्छाविगलितवयसोरात्तमालिन्यमत्यो-
र्दम्पत्योर्व्याकृतैवं115हतविधिरुभयोर्लोकयोः शोकयोगम् ॥९२ ॥

अपि च—

नाऽधीतेऽत्र जनो यदि कश्चिदधीते शते सहस्रे वा॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

तदाह—“घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः। श्वा तु दृष्टिनिपातेन स्पर्शेनावरवर्णजः” इति। किं च नैतावदेव कृत्वा स उपरमति, किं तु मद्यस्य मदिरायाः आस्वादनेन पानेन मत्तं विवेकशून्यं चित्तं यस्यास्तथाभूतायाः जनतायाः जनसमूहस्य मोहाय ‘किमयं ब्राह्मणः कर्मठः, योग्योऽयं, अस्मै एव दानादिकं देयम्’ इति मोहोत्पादनं कर्तुं,अत्र “क्रियार्थोपपदस्य च कर्मणि स्थानिनः” इति चतुर्थी। भीहानितः ऐहलौकिक– पारलौकिकभय सन्त्यज्य, “ल्यब्लोपे कर्मण्यधि–” इति पञ्चमी। तस्याश्च तसिल्। श्रुति-स्मृतिवचोदूराणि वेदशास्त्राभ्यामविहितानि तत्र निषिद्धानीति वा। अत एव असाराणि तुच्छानि फलरहितानीति यावत्। कर्माणि आरभते करोति आचरतीत्यर्थः। अहो इत्याश्चर्ये ॥९१॥

*** अपि चेति।** अन्यदपि निन्द्यं कर्म ण्वित्याह—*

*** कन्यामिति।** अज्ञः शास्त्रविधिमजानन् अत एव कामपि या काचित् स्वमनसे रोचेत तामित्यर्थः। न तु कुलशीलसम्पन्नाम्। कन्याम् उदूह्य विवाह्य, अथ च उदयद् उत्पद्यमानं यौवनं तारुण्यं यस्यां तथाभूताम् एनां कन्यां, अन्वादेशत्वात् “द्वितीयाटौस्स्वेनः” इत्येनादेशः। प्रविजहद् गृहे एव त्यजन् सन्, द्रव्याशापाशकृष्टः द्रव्यसम्पादनेच्छापरवशः सन्नित्यर्थः। देशान्तरेषु परदेशेषु चिरतरम् अतिचिरकालपर्यन्तं भ्रमति अटति। हन्तेति खेदे। भ्रमतु नाम देशान्तरेषु, ततः पुनर्निवृत्तौ भवेदेवोभयोः सङ्गम इति चेत्तत्राह—अन्योन्येति। अन्योन्यस्य परस्परस्य य आश्लेषः आलिङ्गन तस्य वाञ्छयैव न तु उपभोगेन, विगलितं नष्टं वयस्तारुण्यं ययोस्तयोः। अत एव आत्तप्राप्तमालिन्यकामाद्युपभोगराहित्यं यस्याः तथाभूता मतिर्बुद्धिर्ययोस्तयोर्दम्पत्योः स्त्रीपुरुषयोः “दम्पती जम्पती जायापती भार्यापती च तौ” इत्यमरः। एवमुक्तप्रकारेण, हतविधिः दुष्टदैव कर्तृ, “विधिर्विधाने दैवेऽपि” इत्यमरः। उभयोर्लोकयोः इहलोके सङ्गमाभावात् परलोके च अकर्मकरणात्, शोकयोग शोकसम्बन्ध, व्याकृत अकरोत्। ‘डुकृञ् करणे’ इत्यस्मात् कर्तरि लुड् “ह्रस्वादङ्गात्” इति सिचो लुक्। ‘व्यादित ’ इति पाठे ‘दम्पत्योः’ इति षष्ठी प्रामादिकी ॥९२॥*

*** अपि च—नेति।** अत्र अस्मिन् देशे कोऽपि जनःनाधीते वेदशास्त्राद्यध्ययन*

दुस्तर्केषु श्राम्यति दूरीकुरुते श्रुति-स्मृतिसुतर्कान्॥९३॥

** वि०—**कष्टमरे ब्राह्मणनिन्दां शृण्वतः कम्पते मे हृदयम् ! यस्त्वयोपन्यस्तः सच्चर्याविपर्ययः116 स एष कलेरेव दोषो न ब्राह्मणानाम्। कलौ युगे कार्तयुगं चारित्रं कुत्र नाम117 सम्भाव्यते ? दुरितलतिकोपघ्नात्मा118दुर्जयः खलु कलिः॥२५॥

पश्य—

हर्म्यस्थानमधर्मकर्मविततेर्दुर्मानधर्मासनम्119
शास्त्रस्तोमललाटभूलिपिलयः120 शान्तिः सवानामपि॥
सर्वाम्नायवचस्समापनदिनं संस्था सदर्चाविधे-
रर्थाशाजनिभूरभूदिह महानर्थावहोऽयं कलिः॥९४॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

न करोति, यदि कश्चिद् एकः कोऽपि शते सहस्रे वा, अधीते अध्ययनं करोति चेत्, तदा स दुस्तर्केषु युक्तिश्रुतिविरुद्धतर्कोपहतेषु चार्वाक-गौतमादिप्रणीतशास्त्रेषु, श्राम्यति परिश्रमं करोति। अपि च श्रुतिस्मृतिसुतर्कान् उपनिषद्-व्याससूत्र-मनुस्मृत्याद्युक्तजीवात्मपरमात्मभेदप्रतिपादकसत्तर्कान्,दूरीकुरुते नाधीते। एवं च सर्वेऽपि वेदशास्त्रपराङ्मुखा एवेत्यर्थः॥९३॥

  • एवं कृशानुप्रतिपादितं दूषणपरं भाषणं श्रुत्वा कष्टयुक्तः प्राह विश्वावसुः—कष्टमिति। अरे भोः कृशानो ! कष्टम्। एतद्दुःखप्रद्योतकमव्ययम्। ब्राह्मणानां निन्दां शृण्वतः आकर्णयतः,मे मम हृदयकम्पते। कुतः। त्वयोपन्यस्तः ‘शस्त्रैर्जीविति शास्त्रमुज्झति’ इत्यादिवाक्यैः प्रतिपादितः यः सच्चर्याविपर्ययः सच्छास्त्रवैपरीत्यं, स एष कलेःकामाद्यासक्तस्य कलियुगस्यैव दोषः, न ब्राह्मणानाम्। कुतः। अस्मिन् कलौ युगे, कृतयुगे भवं कार्तयुग’तत्र भव’ इत्यर्थेऽण्। चारित्रआचरणं कुत्र नाम केन कारणेन सम्भाव्यते ? नैव सम्भाव्येतेत्यर्थः। यतः दुरित पापतद्रूपा या लतिका तस्या उपघ्न आश्रयभूतः आत्मा यस्य तथाभूतः। “स्यादुपघ्नोन्तिकाश्रयः” इत्यमरः। कलिदुर्जयः खलु। निश्चयेन जेतुमशक्यः॥२५॥*

  • दुर्जयत्वमेवोपपादयति**—हर्म्येति।** अयं कलिःएतत् कलियुगं, महतः अनर्थान् वक्ष्यमाणरूपान् आवहति सम्पादयतीति तथाभूतः अभूत् प्रादुर्बभूव। के ते अनर्था इत्याकाङ्क्षायामाह-धर्मःपुण्यं तद्विरुद्धः अधर्मः पाप“धर्माः पुण्य-यम-न्याय-स्वभावाचारसोमपाः” इत्यमरः। तज्जनकानि यानि कर्माणि परधनहरण-परस्त्रीगमन-मद्यपानादीनि तेषां विततेः परम्परायाः हर्म्यस्थानं निवासगृहं, तथा दुर्भानधर्मासनदुर्मानस्य दुरभिमानस्यगर्वस्येति यावत्। धर्मासनं धर्मपीठं, अथवा दुर्मानस्य ये धर्माः परपैशून्यपराधिक्षेपादयस्तेषामासनमिति वा। शास्त्रस्तोमस्य शास्त्रसमूहस्य ललाटभूलिपेः*

एतादृशे कलियुगेऽपि शतेषु कश्चि-
ज्जातादरो जगति यः श्रुतिमार्ग एव॥
यत्किचिदाचरति पात्रमसौ स्तुतीनां
श्लाघ्यं मितापमपि121 किं न मरौ सरश्चेत्॥९५॥

किञ्च—

ये कायस्थजनाश्च ये नृपसुताये च द्विजाश्शस्त्रिण122-
स्ते यत्नादनुसृत्य निर्दयतया शुष्कांस्तुरुप्काधिपान्।
देवान् भूमिसुरांश्च पान्ति कृतिनस्ते चेद्गृहेप्वासते123
ब्राह्मण्याय जलाञ्जलिः किल भुवि प्राज्ञैः प्रदेयो भवेत्॥९६॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

कपालस्थानस्थितायुरक्षराणा लयः नाशः। एतत्प्रादुर्भावाच्छास्त्राणि विलयं यान्तीत्यर्थः। तथा सवानां यज्ञानामपि “यज्ञः सवोऽध्वरो यागः” इत्यमरः। शान्तिः शमनम्, सर्वाणि यान्याम्नायवचांसि वेदवचनानि तेषांसमापनदिनं समाप्तिदिवस, सदर्चाविधेः सत्पूजादिकर्मानुष्ठानस्य संस्था मर्यादा। अस्य पापप्रचुरत्वान्न तावत्सत्कर्मणोऽवकाश इति भावः। “संस्था तु मर्यादा धारणा स्थितिः” इत्यमरः। दम्भादिप्रदर्शनार्थं तावत्प्रचुरम् असदर्चनादिकं कलौ प्रवर्तते इत्येतत्सूचनार्थं सच्छब्दप्रयोगः। तथा अर्थाशायाः द्रव्यवाञ्छायाः, जनिभूः जन्मभूमिः। एतादृशः अयं कलिरिति सम्बन्धः॥९४॥

  • एतादृश इति। एतादृशे पूर्वोक्तानेकानर्थकारके कलियुगेऽपि, शतेषु असङ्ख्यातेषु जनेषु मध्ये, यः कश्चिद् एकः कोऽपि, श्रुतिमार्गे वेदमार्गे वेदविहितकर्मानुष्टाने इत्यर्थः। जातः उत्पन्नः आदरः श्रद्धा यस्य सः तथाभूतः एव, यत्किञ्चिद् यावत् कर्तुं शक्येत तावत् कर्म आचरति करोति चेत्, तर्हि असौ कर्मकर्ता स्तुतीनां प्रशंसानां पात्रम्। प्रशंसितुं योग्यम् एवेत्यर्थः। तत्र दृष्टान्तः। मरौ म्रियन्ते पिपासया जन्तवो यस्मिन्देशे तस्मिन् निर्जलप्रदेशे इत्यर्थः। (‘मारवाड’ इति प्रसिद्धे इति यावत्) मिता अल्पाः आपः उदकानि यस्मिस्तथाभूतमपि सरः सरोवरं चेत्, स्याद् इति शेषः। तर्हि तन् न श्लाघ्य किं न प्रशसायोग्यं किं? अपि तु प्रशसनीयमेवेत्यर्थः॥९५॥*

  • ‘शस्त्रैर्जीवति-’ इत्यादिनोक्तं दूषणमपाकरोति**—ये कायस्थेति।** ये कायस्थजना ग्रामायव्ययलेखकाः, ये च नृपसुताः राजपुत्रज्ञातीयाः, ये च द्विजाःब्राह्मणाः सन्तः शस्त्रिणः शस्त्रधारिणः, ते त्रिप्रकारा अपि यत्नात्, दुःसहक्लेशसहनमङ्गीकृत्येत्यर्थः। ल्यब्लोपे पञ्चमी। निर्दयतया दयाराहित्येन शुष्कान् दयारसरहितान्, केवलं स्वार्थसाधनतत्परानित्यर्थः। तुरुष्काधिपानू तुरुष्क-(महाराष्ट्रभाषया ‘तुर्क’) देशीययवनभूपतीन् अनुसृत्य सेवाधर्मेणानुगम्य, देवान्, विश्वेश्वरान्नपूर्णादिदेवतायतनानि भूमिसुरान् ब्राह्मणांश्च पान्ति रक्षन्ति। अयमाशयः-यवनास्तु स्वभावतः क्रूरा निर्दयाश्च परधर्मद्वेषिणश्च।*

    • सर्वतो दृष्टिं प्रसार्य सश्लाघम्—

आक्रान्तासु वसुन्धरासु यवनैरासेतुहैमाचलं
विद्राणे क्षितिभृद्गणे विकरुणे निद्राति नारायणे ॥
निर्विघ्नप्रसरे कलावपि बलान्निष्कण्टकं वैदिकम्
पन्थानं किल तत्र तत्र परिपात्येको हि लोकोत्तरः॥९७॥

पुनः सश्लाघम्—

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

अत एव ते ब्राह्मणान्, तद्धर्मान्, तद्देवताश्च भ्रशयन्ति नाशयन्ति च। तस्मादेते कायस्थादय एव तत्सेवास्वीकरणेन जनपदरक्षणाद्यधिकारं लब्ध्वा देवभूसुरादीन् पान्तीति। अत एव ते कृतिनः धन्याः। ते च शस्त्रधारणादिसेवां विनैव गृहेषु आसते तिष्ठन्ति चेत्, यद्वा गृहेषु उदासीना भवेयुश्चेत्, तदा भुवि भूमौ प्राज्ञैःपण्डितैः, ब्राह्मण्याय ब्राह्मणानां कर्म सन्ध्याद्यनुष्ठानरूपं यजनादिषड्विधवा, तस्मै जलाञ्जलिः त्यागरूपोदकाञ्जलिः प्रदेयः दातव्यो भवेत्। अस्याय भावः–“विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः” इत्यमरात् शास्त्रतश्च यजन-याजन-अध्ययन-अध्यापन-दान-प्रतिग्रहरूपैः षड्भकर्मभिरुपेतो ब्राह्मणः। तत्र याजनाध्यापन-प्रतिग्रहरूपाणि त्रीणि उपजीविकाभूतानि। इतराणि त्रीणि च परमार्थसाधकानि। तत्र च तुरुष्काधिपत्ये याजनादीनामशक्यत्वाद् ब्राह्मणानां जीविकाभावः। ततश्च द्रव्याभावादेवान्यानि त्रीणि कर्माणि शिथिलीभवेयुरिति॥९६॥

  • सर्वेति। सर्वतः सर्वत्र काशीप्रदेशे इत्यर्थः। दृष्टि प्रसार्य मार्मिकतया निरीक्ष्य, श्लाघया प्रशसया सहित यथा तथा, उवाचेति शेषः।*

  • **आक्रान्तास्विति।*आसेतुहैमाचलं सेतुं सेतुबन्धरामेश्वरं हिमाचलं चाभिव्याप्य “आड् मर्यादाभिविध्योः” इत्यभिविधावव्ययीभावः। वसुधरासु पृथ्वीस्थषट्पञ्चाशद्देशेषु। वसुन्धराशब्देन तत्स्था देशा गृह्यन्ते लक्षणया। यवनैः आक्रान्तासु व्याप्तासु सतीषु, तथा क्षितिभृतां राज्ञां गणः समुदायस्तस्मिन्, यवनभयादिति शेषः। विद्राणे पलायमाने सति, विकरुणे करुणारहिते अत एव नारायणे भगवति विष्णौ, निद्राति भूस्थजनानां स्थितिमनवलोक्य निद्रितप्राये सति, तथा कलौ कलियुगेऽपि निर्विघ्नप्रसरे निर्विघ्नः विघ्नरहितः प्रतिबन्धरहित इति यावत्। प्रसरः सञ्चारः यस्य तथाभूते सति च, लोकोत्तरः इतरलोकविलक्षणः सामान्यजनापेक्षयाऽधिककर्तृत्वशक्तिसम्पन्न इति भावः। एकः हि एक एव कश्चित् पुरुषः, अत्र हिरवधारणे “हि हेताववधारणे” इत्यमरात्। तत्र तत्र तस्मिंस्तस्मिन् देशे, वैदिक वेदोक्त पन्थान मार्ग अर्थात् कर्मरूप, बलात् स्वकीयश्रद्धारूपसामर्थ्यात्, निष्कण्टक प्रतिबन्धरहित यथा स्यात् तथा, पाति रक्षति। तस्मादय धन्य इति भावः॥९७॥

  • पुनरिति। पुनश्च पुनरपि सश्लाघं यथा तथा आह—*

त्यजतु विहितमेतद्देशवासी निषिद्धम्
भजतु तदपि लोके नास्ति धन्यस्तदन्यः॥
त्रियुगपदनखश्रीदत्तशुद्धिर्यदङ्गे
लगति दुरितभङ्गे लग्नको गाङ्गपूरः॥९८॥

प्रौढेषु गौडेषु च कान्यकुब्जेष्वङ्गेषु124 वङ्गेषु च मैथिलेषु॥
अन्येषु सत्स्वेव125बुधेषु धन्येष्वद्यापि जीवन्त्यधिभूमि विद्याः॥९९॥

इदं तावदवधेहि॥२६॥—

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • त्यजत्विति। किञ्च एतद्देशवासी काशीक्षेत्रनिवासी जनः, विहितं श्रुति-स्मृतिविहित कर्म त्यजतु, तथा निषिद्ध श्रुति-स्मृतिषु अनिष्टसाधनत्वेन बोधित भजतु करोतु आचारत्विति यावत्। तदपि निषिद्धाचरणेऽपि, लोके तदन्यः एतद्देशवासिन इतरः, धन्यःपुण्यवान् नास्ति। कुतः। यस्मात् त्रीणि युगानि युग्मानि उत्पत्त्यादिषट्कंयस्य सः तस्य त्रियुगस्य, उत्पत्त्यादिषट्कं च—“उत्पत्तिं च विनाशं च भूतानामागति गतिम्। वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति” इति। श्रीविष्णोः पदसम्बन्धिनखानां श्रिया कान्त्या दत्ता समर्पिता शुद्धिः पावित्र्यं यस्य सः, अत एव दुरितानां पापानां भङ्गे विनाशे लग्नकः प्रतिभूरूपः (‘जामीन’ इति महाराष्ट्रभाषाप्रसिद्धः ) “स्युर्लग्नकाः प्रतिभुवः” इत्यमरः। गाङ्गपूरः गङ्गाप्रवाहः, यदङ्गे यस्य काशीनिवासिजनस्य शरीरे, लगति संसक्तो भवति। ‘लगे सङ्गे’ इत्यस्य रूपम्। तेन चात्रत्यजनः पातक्यपि शुद्धो भवतीति भावः॥९८॥*

  • प्रौढेष्विति। अपि च प्रौढेषु प्रगल्भेषु प्रतिभायुक्तेष्विति यावत्। प्रतिभा च “प्रज्ञा नवनवोन्मेषशालिनी प्रतिभोच्यते” इत्युक्ता ज्ञेया। गौडेषु गौडदेशस्थजनेषु, कान्यकुब्जेषु तद्देशनिवासिजनेषु, तथा अङ्गेषु अङ्गवासिषु, वङ्गेषु वङ्गदेशवासिषु, मैथिलेषु मिथिलादेशनिवासिषु च, तथा अन्येषु उक्तान्यदेशेषु पाञ्चालादिषु सत्स्वपि, काशीनिवासिषु इति शेषः पूर्वापरसम्बन्धाज् ज्ञेयः। धन्येषु विश्वेश्वरदर्शन-गङ्गास्नानादिना पुण्यवत्सु, बुधेषु पण्डितेष्वेव अधिभूमि भूमौ, सप्तम्यर्थस्य द्योतकोऽधिः। तस्य विभक्त्यर्थेऽव्ययीभावः। अद्यापि कलौ युगेऽपि, विद्याः वेदशास्त्रादयः जीवन्ति विद्यन्ते। अयं भावः-गौड-वङ्ग-मैथिलादिदेशेषु विद्यासम्पन्नेषु सत्स्वपि तदपेक्षया काश्यामेव विद्याधिक्यं ज्ञेयम्। तस्माच्च ‘शस्त्रैजींवति शास्त्रमुज्झति’ इत्यादि पूर्वोक्तं दूषणं नैवात्र सङ्गच्छत इति॥९९॥*

  • इदमिति। अपि च इदं मया वक्ष्यमाण तावत् साकल्येन “यावत्तावच्च साकल्ये” इत्यमरः। अवधेहि सम्यगाकर्णय॥२६॥*

एतद्देश्यप्रचुरचरितान्यन्यदेशस्थितानां
रोचन्ते चेन्ननु126 न मनसे मा रुचन्काऽत्र हानिः॥
प्राज्ञाः पुत्रा जनयितृहृदे पश्य यद्वत्स्वदन्ते
तद्वद्विद्वन्नपरमनसे तावता कोऽत्र दोषः॥१००॥

किं च—

प्रातश्शीतजले निमज्य विबुधानभ्यर्त्तयत्युच्चकै-
रार्यः पर्युषितं तु नाभ्यवहरत्यन्धः क्षुधान्धो127ऽप्यसौ॥
भागे गोमयलिप्त एव पचते भुङ्क्ते ततोऽन्यत्र य-
न्नितं तद्विजाति भुक्तिनियमो दृष्टः क्वभूयानियान्?॥१०१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • किं तदित्यपेक्षायामाह—एतदिति। एतस्मिन् देशे भवा एतद्देश्यास्तेषां, भवार्थे यत् प्रत्ययः। प्रचुराणि बहूनि “प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु” इत्यमरः। न तु एक-द्वित्राणि। चरितान्याचरणानि, अन्यदेशे तिष्ठन्ति निवसन्तीत्यन्यदेशस्थितास्तेषां मनसे रोचन्ते प्रीणयन्ति चेत्, ननु किंवा न रोचन्ते, तर्हि मा रुचन् न रोचन्ताम् “माडि लुड्” इति लुड् “न माड्योगे” इत्यडागमनिषेधश्च। अत्र उभयपक्षेऽपि का हानिः? न कापीत्यर्थः। तत्रोदाहरणम्—प्राज्ञाः विद्वांसः पुत्राः जनयित्रोः मातापित्रोः“माता-पितरौ पितरौ मातर-पितरौ प्रसू-जनयितारौ” इत्यमरः। हृदे मनसे यद्वद् यथा स्वदन्ते रोचन्ते, “रुच्यर्थानां” इति चतुर्थी। तद्वत् तथा परमनसे अन्यमनसे न रोचन्ते, हे विद्वन् सुज्ञ कृशानो, अत्र तावता परमनसेऽरोचनेन को दोषः ? पुत्राणामिति शेषः। पश्य विचारय। प्रतिवस्तूपमालकारः। “प्रतिवस्तूपमा तु सा। सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः” इति तल्लक्षणात्॥ १००॥*

  • ‘नीचैर्दुर्यवनैः—’ इत्यादिनोक्तं दूषणमपाकरोति—प्रातरिति। किञ्च असावेतद्देशीय आर्यः श्रेष्ठः। प्रातः प्रात काले, शीतजले निमज्ज्य स्नात्वा, विबुधान् विश्वेश्वरबिन्दुमाधव ढुण्ढिनायकादिदेवान् उच्चकैः सम्यक् अर्चयति पूजयति। अनन्तरं क्षुधा क्षुधयाअन्धः पीडितोऽपि पर्युषितं निशावशिष्टम् अन्धः अन्नं “भक्तमन्धोऽन्न” इत्यमरः। तु नाभ्यवहरति नैव भुङ्क्ते, किन्तु तत्काल पक्त्वैव भुङ्क्ते इत्यर्थः। तच्च स्वतः गोमयलिप्ते गोमयेनालेपिते भागे प्रदेशे पचते, भुङ्क्ते भुनक्ति च। किञ्च ततः पाकस्थानात्, अन्यत्र यत् स्वतोऽन्येन केनापि वा नीतं चेत्, तद्विजहाति त्यजति च। ततः भुक्तेः भोजनस्य नियमः इयान् एतत्परिमाणः इदं शब्दाद् वतुपि वस्य घादेशे तस्य चेयादेशे इदम् इशादेशे “यस्येति च”इतीकारलोपे च सिद्धमिदम्। भूयान् महान् क्व दृष्टः? न कुत्रापीत्यर्थः। एवं च यवनादिभिरवलोकितेऽपि एतन्नियमदार्ढ्यन्न तावद्दूषणावहमिति भावः। इतस्तावन्मध्यदेशवर्णनम्॥१०१॥*

अथ समुद्रवर्णनम्—८.

<MISSING_FIG href="../books_images/U-IMG-1722795355Screenshot2024-08-04234543.png"/>

इति विमानं दूरतः प्रस्थाप्य साञ्जलिबन्धनम्—

भुवनकदनक्रुद्ध्यद्वृ128द्धश्रवः कुलिशायुध-
प्रचकितगिरिप्राणत्राणप्रतिष्ठितकीर्तये॥
प्रसृमरमरुन्नाट्याचार्यप्रणर्त्तितवीचये
महितजनतामान्यायास्मै महोदधये नमः॥१०२॥

** कृ०—**सहासम्—

पामरैरप्यपेयानां नीराणां129 परिपातरि॥
आश्रये जलजन्तूना130मानिनंसा कथं तव ?॥१०३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • अथ समुद्रवर्णनार्थं प्रस्तौति—इतीति। इत्येवमुक्त्वा विमानं दूरतः प्रस्थाप्य नीत्वा, साञ्जलिबन्धं यथा तथा। प्राहेति शेषः।*

  • भुवनेति। भुवनानां लोकानां कदनेन उत्पतनवशान्नाशनेन क्रुध्यन् क्रोधं कुर्वन् यो वृद्वश्रवा इन्द्रः “इन्द्रो मरुत्वान् मघवा बिडौजाः पाक्शासनः। वृद्धश्रवाः—” इत्यमरः। तस्य कुलिशायुधेन वज्राख्यप्रहरणात् “वज्रमस्त्री स्यात् कुलिश भिदुरं पविः” “आयुध तु प्रहरण” इत्युभयत्राप्यमरः। प्रकर्षेण अतिशयेन चकितस्य भीतस्य गिरेः मैनाकस्य प्राणत्राणेन प्राणसंरक्षणेन प्रतिष्ठिता स्थिरीकृता कीर्तिर्यशो यस्य तस्मै। पूर्वं हि सपक्षाः पर्वता इतस्तत उत्पत्य लोकानत्रासयन्। तत इन्द्रेण तेषां पक्षाश्छिन्नाः। परं च मैनाकाख्यो हिमवतो नगाधिराजस्य सूनुः समुद्रे निमज्ज्य स्थित इत्यादिपौराणिकी कथात्रानुसन्धेया। प्रसृमरः प्रसरणशीलः “सृ-घस्यदः—” इति क्मरच् प्रत्ययः। स चासौ मरुद्वायुश्च स एव नाट्याचार्यः सूत्रधारस्तेन प्रणर्तिता ताण्डविता वीचयो लहर्यो यस्य तस्मै, तथा महितजनतायाः मान्यजनसमूहस्य “ग्राम-जन-बन्धुभ्यः” इति समूहार्थे तल्। मान्याय अस्मै पुरोदृश्यमानाय महोदधये महासमुद्राय नमः॥१०२॥*

  • कृशानुः। हासेन परिहासेन सहितं यथा तथा प्राह —*

  • पामरैरिति। पामरैर्नीचैरपि अज्ञैरिति वा, किमुत श्रेष्ठैः। अपेयानां पातुमयोग्यानां क्षारत्वात् पक्षे निषिद्धत्वाच्चेति भावः। नीराणाम् उदकानां ‘इराणां’ इति पाठे, इराणां सुराणां जलानां चेति श्लेषादर्थद्वयम्॥ “इरा भू-वाक्-सुराप्सु स्यात्” इति नानार्थः। परिपातरि परितः आसमन्तात् पातरि रक्षके, पक्षे पानकर्तरि च। जलजन्तूनां मत्स्यादीनां डलयोरेकत्वस्मरणाज् जडजन्तूनां मूर्खाणां च आश्रये आश्रयभूते, आनिनंसा नमस्कर्तुमिच्छा ‘णम प्रह्वत्वे’ इत्यस्मात् सन्नन्तात् प्रत्ययान्तत्वादप्रत्ययः। तव कथम् ? जातेति शेषः॥१०३॥*

    • मम त्वेधमानपरुषघोषे खल्वेतस्मिन् रोष131 एवोन्मिषति॥२७॥

सन्ततं क्रन्दते सर्वो दीप्यमानोदराग्नये॥
महापाय—समुद्राय दरिद्रायैव कुप्यति॥१०४॥

समृद्धो132ऽप्ययमतिलुब्धतया बुद्धिमद्भिरनादृत्यः॥२८॥

पश्य—

रत्नाकरोऽपि च रमाभ्युदयारूयोऽपि
स्वर्णस्थली133रधिगतोऽपि बहूर्मिकोऽपि134

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • ममेति। किञ्च मम तु एधमानः वर्द्धमानः पुरुषः कठोरःघोषो गर्जना यस्य तस्मिन्नेतस्मिन् समुद्रविषये, खलु निश्चयेन रोष एव क्रोध एव “कोप-क्रोधामर्ष-रोष-” इत्यमरः। उन्मिषति प्रकटीभवति॥२७॥*

  • रोषोन्मेषकारण श्लेषेण समर्थयति—सन्ततमिति। सर्वोऽपि जातावेकवचनम्। सर्वे जना इत्यर्थः। महच् च तत् पायसं क्षीरान्नं च तस्मिन् मुदं राति गृह्णातीति तस्मै, प्रकृतपक्षे महत्यः आपः जलानि यस्मिन् तस्मै महापाय इति विशेषणम्। समुद्राय, दीप्यमानः प्रदीप्तः उदराग्निर्जठराग्निर्यस्य तस्मै, पक्षे दीप्यमानः उदरे मध्ये अग्निर्वाडवानलः यस्य तस्मै, अत एव सन्तत निरन्तरं क्रन्दते अहं क्षुधितः मह्यं देहि देहि इति रुदते, पक्षे गर्जते (चतुर्थ्यन्तमेतत्) दरिद्रायैव पक्षे दुर्गतये कुप्यति। न तु कश्चिदपि पुरुषः धनादिसम्पन्नाय कुप्यति धनादिलोभात्, दरिद्रात्तु किमपि नैव लभ्यते तस्मात्तादृशायैवेति भावात्सुभाषितरूपोऽयं श्लोकः। श्लेषमूलकश्चार्थान्तरन्यासोऽलङ्कारः॥१०४॥*

  • समृद्धोऽपीति। किञ्चायंसमुद्रः समृद्धः रत्नादिसम्पत्तियुक्तोऽपि, पुनरपि लुब्धतया लोभयुक्ततया हेतुना बुद्धिमद्भिः प्रशस्तबुद्धियुक्तैः अनादृत्यः आदरानर्हः॥२८॥*

*** पश्येति।** आदरानर्हत्वमेवोपपादयामीति भावः।*

  • ** रत्नाकर इति।** अयं समुद्रः रत्नानां मौक्तिकविद्रुमादीनां कौस्तुभादिचतुर्दशरत्नानां च आकरः उत्पत्तिस्थानमपि “आकरो निवहोत्पत्तिस्थान-श्रेष्ठेषु कथ्यते” इति विश्वप्रकाशः। रमायाः लक्ष्म्याः अभ्युदयस्य समृद्धेः उद्भवस्य च आलयःगृहमपि, स्वर्णस्थलीः सुवर्णयुक्तस्थलानि सुष्ठु अर्णः जलं “अम्भोर्णस्तोय-पानीय-” इत्यमरः। तद्युक्ताः स्थलीरिति च, अधिगतः प्राप्तोऽपि, बह्व्यः ऊर्मिकाः अङ्गुलीयकानि तरङ्गाश्च यस्य सः “अङ्गुलीयकमूर्मिका” इति “भङ्गस्तरङ्ग ऊर्मिर्वा” इति चामरः। तरणीनां नावां प्रचारात् “स्त्रियां नौस्तरणिस्तरिः” इत्यमरः। तादृशः उक्तप्रकारः घनोपचयकृद् बहुसञ्चयकारकः अर्थाद्द्रव्यस्य। घनानां मेघानाम् उपचयकृद् वृद्धिकर्ता च, असौ*

तादृग्घनोपचयकृत्तरणिप्रचारा-
न्नोपैत्यहो वितरणित्वमसौ कदापि॥१०५॥

सृष्टिरेवास्य विफलेति मे दृष्टिः॥२९॥

तथा हि—

नास्त्येषामुपयुक्तता तटतरोः135 सस्योपयोगः कुतः ?
न स्नानाय च योग्यताऽस्य पयसां का नाम पानार्हता?॥
उद्गर्जन्तमियन्त136मन्तरुषितैर्दुर्जन्तुभिर्भीषणं
स्रष्टुः सृष्टवतो जलाशयममुं कोऽवाशयः कथ्यताम्?॥१०६॥

यस्य स्वर्णश्रिय उरुतरा नित्यमायान्त्ययत्नात्
तेन स्वायत्यनुगुणतया न क्रियेत व्ययश्चेत्॥
वह्निग्रासो भवति विधितो137 मन्थनं बन्धनं वा
लक्ष्मीं प्रेप्सोर्जगदधिपतेरत्र साक्षी सरस्वान्॥१०७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

समुद्रः, वितरणित्वं नौकारहितत्वं दातृत्वं च कदापि नोपैति न प्राप्नोति। नौभिः सञ्चारं कृत्वा बहुधनसञ्चयकर्तुः पुरुषस्यदातृत्वरहितत्वमनुचितमिति श्लिष्टभावार्थः॥१०५॥

  • सृष्टिरिति। अस्य समुद्रस्य सृष्टिः सर्गोऽपि, विफला निष्फला व्यर्थेति यावत्। इति मे मम दृष्टिः अभिप्राय इत्यर्थः॥२९॥*

*** यथेति।** तदेवोपपादयति—*

*** नास्तीति।** अस्य समुद्रस्य एषां पयसामुदकानां “पयः कीलालममृतं जीवनं भुवनं वनम्। कबन्धमुदकपाथः” इत्यमरः। तटतरोः तीरस्थवृक्षस्य उपयुक्तता उपयोगित्वं नास्ति, तर्हि सस्यानां फलानां धान्यानां वा उपयोगः कुतः स्यात्। एषा पयसामित्यनुषञ्जनीयम्। स्नानाय च स्नानं कर्तुमपि योग्यता न, तर्हि पानस्य प्राशनस्य अर्हता योग्यता का नाम ? अर्थान्नास्त्येव। तस्माद् उद्गर्जन्त उच्चैः शब्दायमानं, इयन्तम् एतादृशप्रमाणं महान्तमित्यर्थः। किञ्च अन्तः मध्ये उषितैः स्थितैः दुर्जन्तुभिः मकरादिदुष्टप्राणिभिः भीषणं भयकरं च एतादृशममु जलाशय समुद्र, सृष्टवतः उत्पादयतः स्रष्टुर्ब्रह्मणः को वा आशयः अभिप्रायः ? कथ्यताम्। मन्मते तु कोपि नास्तीत्यर्थः॥१०६॥*

  • इदानीं श्लेषमूलकदृष्टान्तेन समुद्रस्यानुपयुक्ततामाह—यस्येति। यस्य पुरुषस्य उरुतराः अतिबहवः, स्वर्णस्य कनकस्य सुन्दरस्य अर्णसः जलस्य च, श्रियः समृद्धयः नित्य प्रतिदिनम् अयत्नात् प्रयत्नं विनैव आयान्ति प्राप्नुवन्ति तेन तादृशपुरुषेण स्वस्य आयतेः प्राप्तेः अनुगुणतया अनुरूपत्वेन व्ययः दानादिरूपत्यागः, न क्रियेत*

    • किं बहुना—

कुम्भजपीतोत्सृष्टं138 शिष्टैरस्पृश्यमर्णवमुपेत्य \।\।
उद्गततृष्णोऽप्यस्मादुदकं पान्थो जनो न गृह्णाति॥१०८॥

** वि०—**सखे सर्वगुणाकरः सरित्पतिरेष न दूषणीयः॥३०॥

तथाहि—

उच्चैःश्रवःप्रदातुर्वृद्धश्रवसे पुनस्तदनुजाय॥
वामविलोचनदातुर्वदान्यमस्माद्वदाऽन्यमर्णवतः॥१०९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

चेत्, तर्हि कालान्तरेणेति शेषः विधितः दैववशात्, वह्नेरग्नेःग्रासः दहन वडवाग्निकृत भक्षण च भवति। अथवा लक्ष्मीं धनसम्पत्तिं रमां सीतारूपां च प्रेप्सोः प्राप्तुमिच्छोः, जगतः अधिपती राजा तस्मात् त्रैलोक्याधिपतिर्विष्णुस्तस्मात् श्रीरामचन्द्राच्च, मन्थनं केनापि निमित्तेन ताडनादिरूपं मन्थनं विलोडनं च, तथा बन्धनं निगडादिना शिलापर्वतादिभिश्चसेतुरूपेण भवति। अत्र अस्मिन् विषये, साक्षीसाक्षाद्द्रष्टा “साक्षाद्द्रष्टरि -” इति सञ्ज्ञायामिनि। प्रत्यक्षतयानुभवितेत्यर्थः। सरस्वान् समुद्रः। अस्मिन् हि वडवाग्निभक्षण, विष्ण्वादिदेवैर्मन्थनं, रामकृतं सेतुबन्धनं च सम्भूतमिति भावः। तस्माद्द्रव्यवता पुरुषेण एतन्मनसि निधाय पूर्वमेव दानभोगादिना द्रव्यस्य व्ययःकार्य इति भावः। एतदनुगुणमेव भर्तृहरिरप्याह—“दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य। यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ” इति। सुभाषितरूपं चैतत् पद्यम्॥१०७॥

  • किमिति। बहुना उक्तेन किं फलमित्यर्थः।*

  • सङ्क्षेपेणैव कथयामीत्याह –— कुम्भजपीतेति। कुम्भाज् जातः उत्पन्नः कुम्भजोऽगस्त्यः तेन प्रन्थम पीतप्राशितपश्चाद् उत्सृष्टव्यक्तम्। मूत्रद्वारेणेति भावः। अत एव शिष्टैः सज्जनैः अस्पृश्य स्प्रष्टमयोग्यमर्णव समुद्र उपेत्य प्राप्य, उद्गता अतिशयेन प्राप्ता तृष्णा तृषा यस्य तथाभूतोऽपि पान्थः पथिकः जनः लोकः, अस्मात् समुद्राद् उदकं न गृह्णाति। क्षारवत्त्वादिति भावः॥१०८॥*

  • विश्वावसुराह सखे इति। हे सखे मित्र, सर्वगुणानामाकरः खनिरूपः “खनिः स्त्रियामाकरः स्यात्” इत्यमरः। सरितां नदीनां पतिश्च एषः समुद्रः न दूषणीयः॥३०॥*

  • ** तथेति।** दूषणानर्हत्वमेवोपपादयति—*

  • ‘यस्य स्वर्णश्रियः - ’ इत्यादिनोक्तं दूषणं परिहरति**—उच्चैरिति।** वृद्धे जरसा बधिरे श्रवसी कर्णौ “कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः” इत्यमरः।यस्य तस्मै कस्मैचित्पुरुषाय, वस्तुतस्तु इन्द्राय, उच्चैः महतोः श्रवसोः कर्णयोः, वस्तुतः उच्चैःश्रवसोनाम्नः अश्वस्य “हय उच्चैःश्रवाः सूतः” इत्यमरः। प्रदातुः। नैतावदेव*

अमृतं विबुधेभ्योऽदादभीष्टफलदं तरुं च धेनुं च॥
दिग्वसनाय सितांशुकमीक्षित एतादृशः क्ववा दाता ?॥ ११०॥

अमुप्य खलु भाग्यवत्तां शेषादयोऽपि वक्तुमशक्ताः॥३१॥

पश्य—

जह्नोरपत्यं जगतः पवित्रं
कलत्रमब्धेस्तनयः कलात्मा॥
कन्या तु धन्या कमला बिभर्ति
जामातृभावं जगदीश एव॥१११॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

किन्तु पुनःतस्य बधिरस्य इन्द्रस्य च अनुजाय कनिष्टबन्धवे (वामनेत्ररहिताय, ) विष्णवे च “उपेन्द्र इन्द्रावरजः ” इत्यमराद् विष्णोरिन्द्रानुजत्व प्रसिद्धम्। वामस्य सव्यस्य विलोचनस्य नेत्रस्य चन्द्रात्मकस्य च दातुः। श्रीविष्णोर्हि दक्षिणनेत्र सूर्यो वामनेत्र च चन्द्र इति प्रसिद्धम्। अस्माद् अर्णवतःसमुद्रात् पञ्चम्यर्थे तसिः। वदान्य उदारम् अन्यं वद कथय ? सर्वापेक्षया विकलाङ्गप्रदानमतिदुष्करमिति भावः॥१०९॥

  • अमृतमिति। किञ्च अयं समुद्रः, अमृतं पीयूषं मोक्षं च, विबुधेभ्यःदेवेभ्यःज्ञानिभ्यश्च, अदाद् ददौ। ‘डुदाञ् दाने’ इत्यस्माद् लुडि “गाति-स्था-” इति सिचो लुक्। अभीष्टफलद इच्छितफलदातार, एतदुभयत्रापि सम्बध्यते। तरुं कल्पवृक्षं धेनुं कामधेनुं च अदान्। दिश एव वसन वस्त्र यस्य तस्मै कस्मैचिद्दरिद्राय वस्त्ररहिताय, श्रीशङ्कराय च, सित शुभ अशुक वस्त्रं, सिताः श्वेता अशवः किरणा यस्य स सितांशुः स एव सितांशुकश्चन्द्रः स्वार्थे कः। त च अदात्। तस्माद् एतादृशसमुद्रसदृशः दाता क्व वा ईक्षितःअवलोकितः ? न कुत्रापीत्यर्थः॥११०॥*

  • अमुष्येति। अमुष्य समुद्रस्य भाग्यवत्ताम् ऐश्वर्यवत्त्व, शेषादयः सहस्रमुखशेषसदृशाः अत्रादिशब्दः सादृश्ये। “भूवादयो धातवः” इति पाणिनिसूत्रे इव। किमुत अन्ये। वक्तुं कथयितुमशक्ताः असमर्थाः॥३१॥*

  • भाग्यवत्तामेव दर्शयति**—जह्नोरिति।** अस्य अब्धेः समुद्रस्य जह्नोःएतन्नाम्नो मुनेःअपत्य कन्या, तच्च जगतः पवित्र पवित्रकारक, न सामान्यम्। कलत्र पत्नी। “कलत्र श्रोणि-भार्ययोः” इत्यमरः। तथा अन्धेरिति सर्वत्रानुषञ्जनीयम्। तनयः पुत्रःकलात्मा कलास्वरूपः कलाभिर्वर्धमान इत्यर्थः। चन्द्रः, कन्या तु अत्र तुश्चार्थे। कमला लक्ष्मीः धन्या भाग्यवती, न तु हीना। अपि च जगतां स्वर्ग-मृत्यु-पातालादिलोकानाम् ईशः अधिपतिः श्रीविष्णुः, जामातृभाव कन्यापतित्व बिभर्ति धारयत एव। न त्वीदृशी भाग्यवत्ता त्रैलोक्येऽपि कस्य पुरुषस्यास्तीति भावः॥१११॥*

अथ जगन्नाथक्षेत्रवर्णनम्—९.

<MISSING_FIG href="../books_images/U-IMG-1722169341Screenshot2024-07-27174405.png"/>

अन्यच्चेदमस्य भागधेयं वर्तते॥३२॥

यत्तीरे पुरुषोत्तमस्थलमिदं यक्षाप्सरः- किन्नर-
श्रेष्ठै139र्नित्यमधिष्ठितं भगवतः सान्निध्यसौख्यास्पदम्140
अत्र त्यक्तवतामसून् करगता मुक्तिस्तदास्तामहो
देहो दाहविनाकृतोऽप्यविकृतः काष्ठादिवत्तिष्ठति॥११२॥

किं च—

निवेदितस्यात्र रमासखाय नीचाहृतस्यापि किलौदनादेः141
भक्त्याशनं142 हन्त भवार्जितानां महांहसां नाशनमामनन्ति॥११३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • अथेदानीं ततीरस्थजगन्नाथक्षेत्रवर्णनमाक्षिपति—अन्यच्चेति। अस्य समुद्रस्य अन्यच्चान्यदपि, इदं वक्ष्यमाणरूपं भागधेयं भाग्यं, अस्तीति शेषः॥३२॥*

  • यत्तीर इति। यस्य समुद्रस्य तीरे अर्थाद्दक्षिणे। भगवतः ईश्वरस्य सान्निध्येन सन्निधित्वेन जागरूकतयेत्यर्थः। सौख्यास्पदं सुखस्य स्थानम् अत एत यक्षाश्च अप्सरसः स्वर्वेश्याश्च किनराश्च एते देवविशेषाः। तेषु श्रेष्ठैः। यद्वा यक्षादयः श्रेष्ठाः मुख्याऋ येषु तैः सर्वैरपि देवैरित्यर्थः। नित्यं सन्ततमधिष्ठितमाश्रितं, एतादृशमिदं पुरो दृश्यमानं, पुरुषोत्तमस्य भगवतो जगन्नाथाभिधस्य स्थलं स्थानं, अस्तीति शेषः। अत्र क्षेत्रे असून् प्राणान् “पुंसि भूम्न्यसवः प्राणाः” इत्यमरः। त्यक्तवतां जीवितकालपर्यन्तमत्रैव स्थित्वा देह त्यक्तवतामित्यर्थः। न तु आत्महत्यादिना। दोषास्पदत्वात्। मुक्तिः कैवल्यं करगता हस्तस्थिता स्वाधीनेत्यर्थः। तत्तु आस्ताम्। किन्तु अत्र देहः शरीरं, मृतम् इति ज्ञेयम्। दाहेन मन्त्राग्निना विनाकृतः रहितोऽपि, अविकृतः दुर्गन्ध्यादिविकाररहितः, काष्ठादिवद् आदिशब्देन शिलापाषाणसङ्ग्रहः। तिष्ठति। अहो ! इदमतीवाश्चर्यमित्यर्थः॥११२॥*

  • ** निवेदितस्येति।** किञ्च अत्र अस्मिन् क्षेत्रे रमाया लक्ष्म्याः सखा तस्मै “राजाहः–” इति टच्। जगन्नाथाभिधाय विष्णवे इत्यर्थः। नीचैः कुल-शील-विद्या-कलादिभिर्हीनैः, आहृतस्य आनीतस्य समर्पितस्येत्यर्थः। ओदनादेः अन्नादिनैवेद्यस्येत्यर्थः। किमुत महद्भिरर्पितस्य। भक्त्या प्रीत्या अशनं भक्षणं, भवे संसारे अर्जितानां सम्पादितानां, महान्ति च तानि अंहांसि पापानि च तेषां “पापं किल्बिषकल्मषम्। कलुषं वृजिनैनोघमंहोदुरितदुष्कृतम्” इत्यमरः। नाशनं विनाशकारकं, भवतीति शेषः। इति आमनन्ति कथयन्ति। अत्रत्या जना इति शेषः। किलेति प्रसिद्धौ। हन्तेति हर्षे॥११३॥*

सभक्त्युन्मेषम्—

दारुणि सन्निहिताय प्राज्ञैर्हुतमश्नते मखेषु हविः॥
शिशिराय नित्यरुचये शुचये रचयेयमद्भुताय नतीः॥११४॥

<MISSING_FIG href="../books_images/U-IMG-1722821168Screenshot2024-08-04235410.png"/>

अथ गुर्जरदेशवर्णनम् १०.

<MISSING_FIG href="../books_images/U-IMG-1722170326Screenshot2024-07-27174405.png"/>

इति नमस्कृत्य सुदूरमन्यतो विमानं प्रस्थाप्य सश्लाघम्—

सखे स एष सर्वसम्पदामास्पदतया त्रिदशालयस्यादेश इव गुर्जरदे शश्चक्षुषोः सुखीकरोति143॥ ३३॥

अत्र हि—

सकर्पूरस्वादुक्रमुकनववीटीरसलस-
न्मुखाः सर्वश्लाघापदविविधदिव्याम्बरधराः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

** सभक्त्युन्मेषम्।** अस्य पूर्वं पुनरिति शेषः। अन्ते च आहेति।

** दारुणीति।** दारुणि काष्ठे सन्निहिताय सन्निधित्वेन स्थिताय, प्राज्ञैः पण्डितैः मखेषु यागेषु हुत विधिवदर्पितहविः घृतादिहवनीयद्रव्य अश्नते ग्रहीतरि पक्षे हविर्भुजे इत्यर्थः। विरोधमाह—शिशिराय दयया शीतलाय शिशिरऋतवे च, नित्या विनाशरहिता रुचिःकान्तिर्यस्य तस्मै शाश्वतप्रभायेत्यर्थः। पुनरपि विरोधमाह शुचये ग्रीष्मर्तवे नित्यशुद्धाय इति विरोधपरिहारः। अग्नये च “शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोरपि। ग्रीष्मे हुतवहेऽपि स्यात्” इति विश्वः। अद्भुताय लोकविलक्षणैः कर्मभिर्विस्मयकराय, नतीर्नमस्कारान् रचयेयं कुर्याम्। ‘रच प्रतियत्ने’ इत्यस्माच्चौरादिकाद्विधिलिङ्युत्तमपुरुषैकवचनम्॥११४॥

अथ गुर्जरदेशवर्णनप्रस्तावमाह**—इतीति।** इत्येवमुक्त्वा नमस्कृत्य जगन्नाथमित्यर्थः। सुदूरं तत्क्षेत्रादतिदूरम् अन्यतोऽन्यत्र स्थले विमानं प्रस्थाप्य सश्लाघप्राहेति।

सख इति। हे सखे, सः य एतावत्कालपर्यन्तं केवलं श्रुतः स इत्यर्थः। एषः प्रत्यक्षतया दृश्यमानः, सर्वसम्पदामास्पदतया स्थानतया त्रिदशालयस्य स्वर्गस्यादेशः आदिश्यते प्रतिनिधितया निर्दिश्यते तथा, प्रतिमारूप इवेत्यर्थः। गुर्जरदेशः चक्षुषोः नेत्रयोः सुखीकरोति आनन्दमुत्पादयति॥३३॥

तदेवाह—सकर्पूरेति। अत्र हीत्यनुषञ्जनीयम्। अस्मिन्देशे इति तदर्थः। कर्पूरेण सहिता युक्ता सकर्पूरा सा च स्वादुक्रमुका मधुरपूगीफलसहिता। “घोण्टा तु पूगः क्रमुकः” इत्यमरः। सा चासौ नवा वीटी ताम्बूलपट्टिका च तस्याः रसेन

लसद्रत्नाकल्पा144 घुमघुमितदेहाश्च घुसृणै-
र्युवानो मोदन्ते युवतिभिरमी तुल्यरतिभिः॥११५॥

अत्र145 वधूनामप्यन्यादृशं सौन्दर्यम्॥ ३४॥

तप्तस्वर्णसवर्णमङ्गकमिदं ताम्रो मृदुश्चाधरः
पाणी प्राप्तनवप्रवालसरणी वाणी सुधाधोरणी॥
वक्त्रंवारिजमित्रमुत्पलदलश्रीसूचने लोचने
के वा गुर्जरसुभ्रुवामवयवा यूनां न मोहावहाः ?॥११६॥

** कृ०—**सत्यमेवं तथापि नैते सारवस्तूपभोगचतुराः146॥३५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

रक्तवर्णद्रवेण “रागे द्रवे रसः" इत्यमरः। लसन्ति शोभमानानि मुखानि येषां ते, तथा सर्वेषां जनानां या श्लाघा प्रंशसा तस्याः पदानि पात्रभूतानि विविधान्यनेकप्रकाराणि च दिव्यानि च यान्यम्बराणि वस्त्राणि तेषाम्। “अम्बरं व्योम्नि वाससि इत्यमरः। धराः धारकाः। लसन्तः रत्नानां मणीनाम् आकल्पाः भूषणानि येषां तथाभूताः। घुसृणैः कुङ्कुमैः- “अथ कुङ्कुमम्। काश्मीरजन्माग्निशिखं वरं" इत्यमरटीकायां व्याख्यासुधायां “वरं तु घुसृणे किचिदिष्टे " इतेि हैमः। घुमघुमिताः सुवासंयुक्ताःदेहाःयेषां तथाभूताश्चअमी युवानः तरुणाः, तुल्या समाना रतिरनुरागो यासां ताभिः युवतिभि तरुणस्त्रीभिः सह मोदन्ते रतिमुखानन्दमनुभवन्तीत्यर्थः॥११५॥

  • अत्रेति। अत्र देशे वधूनां स्त्रीणां “वधूर्जाया-स्नुषा-नार्योःस्पृक्का-सारिवयोरपि " इति हैमः। अपि सौन्दर्यम् अन्यादृशं भिन्नप्रकारकम्, इतरविलक्षणमित्यर्थः॥३४॥*

  • तदेव प्रतिपादयति**–तप्तेति।** इदम् इदानीं दृश्यमानं, एतत् सर्वत्र लिङ्गवचनमनुसृत्यानुषञ्जनीयम्। गुर्जरसुभ्रुवां गुर्जरदेशीयस्त्रीणां, अङ्गं शरीरमेवाङ्गकं स्वार्थे कः। तप्तं पुष्टपाकेन शोधित च तत् स्वर्णं सुवर्णं च तेन सवर्णं सदृशम्। अधरः अधरोष्टश्च ताम्रो रक्तवर्णः मृदुश्च कोमलोऽपि। पाणी हस्तौ, प्राप्ता नवानानूतनानां पल्लवानां सरणिः पद्धतिर्ययोस्तथाभूतौ। नूतनपल्लवसदृशौ सुकुमारावित्यर्थः। वाणी सुधाधोरणी अमृतस्रवा अतिमधुरेत्यर्थः। वक्त्रमुख च वारिजमित्र कमलसमानमित्यर्थः। लोचने नेत्रे च उत्पलस्य कमलस्य यद्दल पत्र तस्य श्रियः शोभायाःसूचने सूचके। नेत्रदर्शनेन कमलपत्रस्मरणं भवतीति भावः। एवं गुर्जरसुभ्रुवां के वा अवयवाः यूनां तरुणानां मोहावहाः मोहसम्पादकाः न भवन्ति ? अपि तु सर्वेऽपि भवन्तीति॥११६॥*

  • सत्यमिति। एतं त्वत्कथितप्रकारं सत्यं, तथापि एते अत्रत्यपुरुषाः सारवस्तूनां श्रेष्टवस्तूनाम् उपभोगे चतुराःनिपुणाः न भवन्ति॥३५॥*

    तथाहि—

व्रीडामारव्यतिकरवतीर्विद्युदाभाः कृशाङ्गीः
क्रीडायोग्येऽप्यहह समये गेह एव त्यजन्तः॥
नित्यासक्ता निरुपममणि-श्रेणिवाणिज्यलाभे
बम्भ्रम्यन्ते बहुदिनपरिप्राप्यदेशान्तरेषु॥११७॥

** वि०—**मन्दमनीष ! स एष पुरुषाणां गुणविशेष एव न तु दोषः॥३६॥

देशे देशे किमपि कुतुकादद्भुतं लोकमानाः
सम्पाद्यैव द्रविणमतुलं147 सद्म भूयोऽप्यवाप्य॥
संयुज्यन्ते सुचिरविरहोत्कण्ठिताभिः सतीभिः148
सौख्यं धन्याः किमपि दधते सर्वसम्पत्समृद्धाः॥११८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • तथाहि। अनैपुण्यमेवोपपादयामि शृण्वत्याह—व्रीडामारेति। एते इत्यनुषञ्जनीयम्। निरुपमानां बहुमूल्यानां मणीनां श्रेणिभी राशिभिर्यद्वाणिज्य क्रयविक्रयादिव्यापारः तस्माद्यो लाभो मूलाधिकद्रव्यप्राप्तिः तस्मिन् नित्यासक्ताः सततमासक्ताः सन्तः, व्रीडा लज्जा च मारो मदनश्च “मदनो मन्मथो मारः” इत्यमरः। तयोः यःव्यतिकरःमिश्रीभवनः, सः अस्ति यासां ताः, न केवलं कामाकुलाः न केवलं लज्जायुक्ताश्चेति भावः। अनेन तासां कुलीनत्वं सूचितम्। विद्युदिव आभा कान्तिः यासां ताः न तु कुरूपाःकृष्णवर्णाश्च। एतादृशा कृशाङ्गीः स्त्रियः क्रीडायोग्ये मदनकेलिसमुचितेऽपि समये काले तारुण्यावस्थायामित्यर्थः। अहह इति खेदे। “अहहेत्यद्रुते खेदे” इत्यमरः। गेहे गृहे एव त्यजन्तः सन्तः, बहुभिः न तु त्रिचतुरैः दिनैःपरिप्राप्येषु गन्तव्येषु देशान्तरेषु वभ्रम्यन्ते पुनः पुनः भृशं वा सञ्चरन्ति। ‘भ्रमु अनवस्थाने’ इत्यस्य यङन्तस्य लटि रूपम् “सन्यडो.” इति द्वित्वम् “नुगतोऽनुनासिकान्तस्य” इत्यभ्यासस्य नुगागमश्च॥११७॥*

  • मन्देति। मन्दमनीप मन्दबुद्धेः, सःव्यापारार्थं देशान्तरपरिभ्रमणादिरूपम् एवं पुरुषाणां गुणविशेषः गुणाधिक्यमेव न तु दोषः॥३६॥*

  • गुणत्वमेवोपपादयति**—देशे देशे इति।** एते देशे देशे किमपि मनोहरम् अद्भुतमाश्चर्यकारक च वस्तु कुतुकात्कौतुकात् “कौतुक च कुतुक च कुतूहलम्” इत्यमरः। लोकमानाः पश्यन्तः सन्तः, एव अमित न तु अल्पद्रविण द्रव्य सपाद्य, भूयःपुनरपि सद्मं गृहम् अवाप्य, प्राप्य, सर्वसम्पत्समृद्धाः सकलोपभोग्यवस्तुसमृद्धियुक्ता सन्तः, सतीभिःपातिव्रत्ययुक्ताभिः न तु स्वैरिणीभिः अत एव सुचिरं चिरकालपर्यन्तं यो विरहःस्वप्रियवियोगःतेन उत्कण्ठिताभिः ‘कदास्माकं पतिभिः सह सङ्गमो भवेत्’ इतीच्छावतीभिः सह संयुज्यन्ते सङ्गमं कुर्वन्ति। अत एव ते धन्याः सन्तः*

अनेवम्भावोऽपि पुरुषाधमत्वमावेदयति॥३७॥

तथाहि—

आकिञ्चन्यादतिपरिचयाज्जाययोपेक्ष्यमाणो
भूपालानामननुसरणाद्बिभ्यदेवाखिलेभ्यः॥
गेहे तिष्ठन् कुमतिरलसः कूपकूर्मैः सधर्मा
किं जानीते भुवनचरितं किं सुखं चोपभुङ्क्ते॥११९॥

तथाहि—

व्यापारान्तरमुत्सृज्य149वीक्षमाणो वधूमुखम्॥
यो गृहेष्वेव निद्राति दरिद्राति स दुर्मतिः॥१२०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

किमप्यनिर्वाच्य सौख्यन्दधते धारयन्ति। ‘डु धाञ् धारण-पोषणयोः’ इत्यस्माल्लट्यात्मनेपदे प्रथमपुरुषबहुवचनम्। अयं भावः—यथा तावत्कश्चिदपि पान्थो मार्गेण गच्छन् सूर्यातपसन्तप्तश्च वृक्षच्छायायां यत्सुखमनुभवति न तदन्येन केनाप्यनुभवितुं शक्यते, तथैव यत्प्रथमं दुःखमनुभूय पश्चात् सुखं प्राप्नोति तदेवाधिकसन्तोषास्पदम्। तदुक्तं विक्रमोर्वशीये महाकविना कालिदासेन—“यदेवोपनतं दुःखात्सुखं तद्रसवत्तरम्। निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः” इति॥११८॥

  • व्यतिरेकमाह-अनेवम्भाव इति। एवं देशान्तरसञ्चारादिप्रकारेण भावः स्वभावः “भावः सत्ता-स्वभावाभिप्राय-चेष्टात्मजन्मसु” इत्यमरः। द्रव्यार्जनादिरूपः न भवतीत्यनेवम्भावः अर्थात्सन्ततं गृहम् एवं संवास इत्यर्थः। पुरुषाधमत्वम् आवेदयति सम्पादयति॥३७॥*

  • तथाहि तदेव वक्ष्यामीति भावः।*

  • आकिञ्चन्यादिति। यः कुमतिः कुबुद्धिः अलसः मन्दश्च अत एव गेहे गृहे तिष्ठन् संश्च कूपे वाप्या ये कूर्माः कमठाः तैः समानः ‘तुल्यः धर्मः कुत्रापि बहिरगमनादिरूपः स्वभावः “धर्माः पुण्य-यम-न्याय-स्वभावाचारसोमपाः” इत्यमरः। यस्य सः “धर्मादनिच् केवलात्” इति समासान्तोऽनिच् प्रत्ययः। अत एव नास्ति किञ्चन द्रव्यादिकं यस्य तस्य अकिञ्चनस्य दरिद्रस्य भावः आकिञ्चन्यं तस्मात् सन्ततगृहसंवासाद् अतिपरिचयाच्च जायया स्त्रिया उपेक्ष्यमाणः, किञ्च भूपालानां राज्ञाम् अननुसरणात् सन्निधगमनाभावाच्च, अखिलेभ्यो महाजनेभ्यः बिभ्यदेव भीतिं कुर्वन्नेव, बिभेतेः शतरि रूपम्। अभ्यस्तत्वान्नुमभावः। एतादृशः पुरुषः भुवनचरितं विविधचमत्कारनिरीक्षणादिरूपं जानीते किम् ? तत एव च सुखं च सुखमपि उपभुङ्क्ते किम् ? अपि तु किमपि नैव जानाति, सुखमपि नैव भुङ्क्ते इत्यर्थः॥११९॥*

  • व्यापारेति। व्यापारान्तरं द्रव्यसम्पादनार्थमन्यदेशगमनादिरूपमन्यव्यापारं, उत्सृज्य त्यक्त्वा यः दुर्मतिर्दुर्बुद्धिः पुरुषः, वध्वाः स्त्रियाः मुखं वीक्षमाणः अवलोकयन्*

    • इदं चावधीयताम्150॥३८॥—

इच्छेद्यस्तु सुखं निवस्तुमवनौ गच्छेत्स राज्ञः सभां
कल्याणीं गिरमेव संसदि वदेत्कार्यं विदध्यात्कृ151ती॥
अक्लेशाद्धनमर्जयेदधिपतेरावर्जयेद्वल्लभान्
कुर्वीतोपकृतिं जनस्य जनयेत्152 कस्यापि नापक्रियाम्॥१२१॥

अन्यच्चेदमवधार्यताम्153॥३९॥—

अयुक्तं युक्तं वा यदभिहितमज्ञेन विभुना
स्तुयादेतन्नित्यं जडमपि गुरुं154 तस्य विनुयात्॥
विवित्सुर्नैः स्पृह्यं कथमपि सभायामभिनयेत्
स्वकार्यं सन्तुष्टे क्षितिभृति रहस्येव कथयेत्॥१२२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

सन्, गृहेष्वेव निद्राति निद्रित इव स्तब्धरूपतया तिष्ठति, स पुरुषः दरिद्राति दारिद्र्ययुक्तो भवतीत्यर्थः॥१२०॥

  • इदमिति। इदं च वक्ष्यमाणमप्यवधीयतां सावधानतया श्रूयतामित्यर्थः॥३८॥*

*** इच्छेदिति।** यस्तु यश्च पुरुषः अवनौ पृथिव्यां सुखं यथा स्यात् तथा निवस्तु वासं कर्तुम् इच्छेत्, सः कृती धन्यः पुरुषः राज्ञः सभा गच्छेत्, तत्र संसदि सभाया च कल्याणी सभास्थितसर्वजनसुखकरीमेव, अथवा सकलजनरुच्युत्पादिकामेव गिरं वाणी वदेद् उच्चारयेत्। एवं कार्यं स्वकीयं धनसपादनरूपं विदध्यात् साधयेत्। कार्यचिकीर्षुणा जनेन न तावत्कुत्रापि कटुभाषणादिकं कर्तव्यं, तस्य च कार्यहानिकरत्वादिति भावः। एवंरीत्या अक्लेशाद् राजपुरुषघर्षणादिरूपक्लेशं विनैव धनमर्जयेत् सम्पादयेत्। किञ्चि धनार्जने सत्यपि अधिपते राज्ञः वल्लभान् प्रियान् पुरुषान् आवर्जयेत् सन्तोषयेत्, न तु तुच्छबुद्ध्या तिरस्कुर्यात्। अपरं च उपकृतिमुपकारमेव कुर्यात्, कस्यापि शत्रु-मित्रोदासीनाद्यन्यतरस्य जनस्य, अपक्रियामपकारं न जनयेन् नोत्पादयेत्॥१२१॥*

*** अन्यदिति।** अन्यच्चान्यदपि इदं वक्ष्यमाणमवधार्यतां निश्चीयताम्॥३९॥*

  • अयुक्तमिति। अज्ञेन बाह्यव्यवहारानभिज्ञेन सम्पत्त्युन्मत्तेन वा, विभुना राज्ञा अयुक्तं देशकालाद्यनुचितं, वाथवा युक्तं समयानुरूपं यदभिहितमुच्चारितं स्यात्, तदेतन् नित्यं सन्ततं स्तुयात् प्रशंसेत्। किञ्च तस्य राज्ञः जड बुद्धिहीनमपि गुरुं पुरोहितं विनुयात् स्तुयात्, तद्द्वारेणैव कार्यसाधनसम्भवात्। किञ्च विवित्सुः स्वविषये अनुकूलप्रतिकूलादिरूपमभिप्राय वेत्तुमिच्छुः सन् ‘विद ज्ञाने’ इत्यस्य सन्नन्तस्य रूपम् “सनाशस -” इत्यादिना उप्रत्ययः। सभायां कथमपि निःस्पृहस्य भावो नैःस्पृह्य*

अथ यमुनानदीवर्णनम् ११.

<MISSING_FIG href="../books_images/U-IMG-1722174298Screenshot2024-07-28191434.png"/>

इत्यलं प्रसक्तानुप्रसक्त्येति दूरतो विमानमानयन्, साञ्जलि155बन्धम्—

कृष्णाश्लेषविशेषिताऽसितरुचे कालिन्दि तुभ्यं नमः
कुञ्जेभ्यः श्रिततावकाम्बुकणिकापुञ्जेभ्य एषोऽञ्जलिः॥
गोपीभ्यः परिरिप्सया156 मुररिपोस्तेषु स्थिताभ्यो नति-
र्नाथायाभिरुपासिताय च नमोवाकानधीयीमहि॥१२३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

निरभिलाषभाव अभिनयेत् प्रकटयेत्। स्वकार्यं च क्षितिभृति राज्ञि सन्तुष्टे सति रहस्येव एकान्ते एव कथयेत्। कदाचिद् राज्ञा प्रत्यादिष्टेऽपि स्वावमानस्य गोप्यत्वादिति भावः। एतच्छ्लोकद्वयं प्रकृतवर्णनस्यासङ्गतमिति भाति। किञ्चसन्नीति—प्रतिकूलमपि। यतो राज्ञः सभायां नयानुसारिभाषणस्यैवाभिरूपैरुक्तत्वात्। यथाहुर्मन्वादयः—“सभा वा न प्रवेष्टव्या वक्तव्यः वा समञ्जसम्। अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी” इति। तदनेन प्रत्युक्तमिव भवतीति मदभिप्रेतम्। अत्र युक्तायुक्तविचारणा तु सर्वथा सुधीभिरेव करणीया॥ १२२॥

  • अथ यमुनावर्णनमाक्षिपति—इतीति। इत्येवमुक्त्वा प्रसक्तस्य प्रकृतस्य गुर्जरदेशवर्णनस्य अनुप्रसक्त्या तत्रत्यपुरुषाणामुत्तमाधमत्वनिरूपणेन, अलं पर्याप्तम् इत्युक्त्वा दूरतो दूरं विमानमानयन् अञ्जलिबन्धेन करसम्पुटेन सहितं यथा तथा प्राहेति।*

  • कृष्णेति। हे कालिन्दि यमुने श्रीकृष्णाष्टनायिकानामन्यतमे च कृष्णस्य यः आश्लेषः जलविहाररूपम् आलिङ्गनं च तेन विशेषिता वर्द्धिता असिता कृष्णवर्णा रुक् कान्तिर्यस्यास्तस्यै तुभ्यं नमः। तथा श्रिताः संलग्नाः तव इमे तावकास्त्वदीया इत्यर्थः। युग्मच्छब्दात् “तस्येदम्” इत्यर्थेऽणि “तवक-ममकावेकवचने” इति तवकादेशः। अम्बुकणिकानां जलकणानां पुञ्जांराशयो येषु तेभ्यः कुञ्जेभ्यः लतागृहेभ्यः “निकुञ्ज-कुञ्जौवा क्लीबे लतादिपिहितोदरे” इत्यमरः। एषः मया क्रियमाणः अञ्जलिःनमस्काररूपः, अस्तु इति शेषः। अपि च मुरस्य मुरनामकदैत्यस्य रिपोः शत्रोः श्रीकृष्णस्य परिरिप्सया आलिङ्गनेच्छया, परिपूर्वकाद्रभेः सन्नन्तादकारप्रत्ययः। “सनि मी-मा-घु-रभ लभ” इत्यादिना इसादेशः। तेषु कुञ्जेषु स्थिताभ्यः गोपीभ्यः नतिर्नमस्कारः। किञ्च आभिर्गोपस्त्रीभिः उपासिताय पूजिताय नाथाय श्रीकृष्णाय, नमोवाकान् नमस्कारोक्तीःअधीयीमहि पुनः पुनरुच्चारयामः ‘इड् अध्ययने’ इत्यस्मादधिपूर्वाद् विधिलिङ्युत्तमपुरुषबहुवचनम्॥१२३॥*

*** ** *क्रु०—कृतं सखे चोर-जारशिखामणेः157 कृष्णस्य जगदतिसन्धातुरनुसन्धानेन !॥४०॥

तथाहि—

लुण्ठित्वा नवनीतमन्यसदने लोलेक्षणो भक्षयन्
गोपीभिः परिगृह्य158मातृसविधं नीतो मुकुन्दस्तया॥
‘लुण्ठीर्मा नवनीतमित्यभिहितोऽप्येतद्व्यलुण्ठीः किमि’-
त्युक्तो ‘मानवनीतमेव हृतमि’–त्यागो जनन्यां न्यधात्॥१२४॥

किञ्च—

अंसे सलीलमधिरोप्य शुकं स्वहस्ता-
द्गोप्या भयाकुलदृशः कुतुकी मुकुन्दः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • कृतमिति। हे सखे विश्वावसो, चोर-जारशिखामणेः चोराणां जाराणां चाग्रेसरस्येत्यर्थः। अत एव जगतःतत्स्थलोकस्य अतिसधातुर्वञ्चयितुम्। यद्वा जगतः अति अत्यन्तं सन्धानम् उत्पत्तिः पालनञ्च अतिसन्धानं लयश्च तत्त्रितयकर्तुं, अनुसन्धानेन सस्तवनेन कृतम् अलं पर्याप्तमित्यर्थः। पक्षे कृत त्वयैतच्छोभनं कृतमिति वार्थः। “कृतं युगेऽलमर्थेस्याद्विहिते हिसिते त्रिषु” इति मेदिनीकोशान् कृतमित्यस्यालमर्थत्वात्॥४०॥*

  • तथेति। चोर-जारशिखामणित्वमेवोपपादयति—*

  • लुण्ठित्वेति। अयं मुकुन्दः श्रीकृष्णः अन्यसदने परकीयगृहे, नवनीतं लुण्ठित्वा चोरयित्वा अत एव लोले चौर्यभयाच्चञ्चले ईक्षणे नयने यस्य तथाभूतः सन् भक्षयन् खादन्, अत एव च गोपीभिर्गोपस्त्रीभिः परिगृह्य कृष्णागमनप्रतीक्षया गूढं स्थित्वा नवनीतचौर्यसमये वृत्वेत्यर्थ। मातुर्यशोदाया सविध समीप “समीपे निकटासन्न-सन्निकृष्ट-सनीडवत्। सुदेशाभ्याश-सविध” इत्यमरः। नीतः प्रापितः। तदेति शेषः। तया यशोदया ‘नवनीतं मा लुण्टी मा चोरय’ इति पृर्वमिति शेषः। अभिहितः उक्तोऽपि, एनन्नवनीतं किं कुतो व्यलुण्ठीःअचूचुरः ?’ इत्युक्तप्रकारेण उक्तःमात्रा पृष्टः सन् ‘मानवनीतमेत्र हृतं न तु नवनीतम्’ नवनीतस्य मनुष्यकर्तृत्वादिति भावः। इत्युक्तप्रकारेण, आगोऽपराधः “आगोऽपराधो मन्तुश्च” इत्यमरः। जनन्यां मातरि यशोदायामेव न्यधात् स्थापितवान्। दधातेर्लुडि-“गाति-स्था घु–” इति सिचो लुक्। श्लेषालङ्कारः॥१२४॥*

  • अंसे इति। किञ्च अयं मुकुन्दः श्रीकृष्णः, कुतुकी कौतुकयुक्तः सन् भयेन कृष्णभीत्या आकुले दृशौ यस्यास्तस्याःकस्याश्चिद् गोप्याः असे स्कन्धे “स्कन्धो भुजशिरोऽसो स्त्री” इत्यमरः। लीलया क्रीडया सहित सलील यथा स्यात्तथा स्वहस्तान्निजकरेण शुकं कीरम् अधिरोप्य स्थापयित्वा, पुनः ‘अंसं स्कन्धं गतं शुकं पक्षे ‘अं’*

‘अंसङ्गतं शुकमिहापनयेति’ वाचं
तस्या निशम्य स तदंशुकमाचकर्ष॥१२५॥

अपि च—

नीत्वा राधिकया निशां मुररिपुः प्रातर्गृहानागतम्
‘त्वं मा भूरपराधिकः पुनरिति159 प्रोक्तोऽपि पूर्वं मया॥
कस्मादेवमभूरिति’ श्रितरुषा160 निर्भार्सितो लीलया161
‘त्वद्वाचैव सराधिकोऽहमिति’ तां व्यामोहयन्मायया॥१२६॥

** वि०—**वयस्य मैवं वादीः। स हि परमपावनः सकलजगदंहस्संहरणकृते कृतावतारो वन्दारुजनानन्दनो यदुनन्दनो निन्दापदवीदवीयान्॥४१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

इत्यक्षरेण सङ्गत शुक=अंशुक वस्त्रं च इह साम्प्रतम् अपनय दूरीकुरु’ इति तस्या गोप्याःवाचं निशम्य श्रुत्वा, तस्याः गोप्याः अंशुक वस्त्रं, आचकर्ष अपहृतवान्॥१२५॥

*** नीत्वेति।** अपि च राधिकया सह निशां रात्रिं नीत्वा निशावसानपर्यन्तं तामुपभुज्येत्यर्थः। मुररिपुः श्रीकृष्णोऽयं प्रातः प्रातःकाले, गृहान् स्वगृहं “गृहाः पुंसि च भूम्येव निकाय्य-निलयालयाः” इत्यमराद् गृहशब्दस्य पुंस्त्व नित्यं बहुवचनत्वं च। आगतः प्राप्तः सन् श्रिता प्राप्ता रुट् क्रोधो यस्यास्तया यशोदयेति शेषः। ‘त्वम् अपराधः परगृहगमनादिरूपोऽस्यास्तीति अपराधी स एवापराधिकः अपराधकर्तेति यावत्। अपगता राधिका यस्मात्तथाभूतश्च, मा भूः, इति एव पूर्वं मया प्रोक्तोऽपि, कथितोऽपि, पुनः एवमपराधिकः कस्मात् कारणाद् अभूः जातोसि?’इति लीलया बहिः क्रोधप्रदर्शनेऽपि मनसि पुत्रवात्सल्यरूपया। करणे तृतीया। निर्भर्त्सितः सक्रोधमधिक्षिप्तोऽपि ‘भो मातः। त्वद्वाचैव ‘अपराधिको मा भूः’ इति तव वाण्यैव अह सराधिकः राधया सहितः जातः’ इति तां मातरं यशोदां मायया तदुक्तार्थापह्नवरूपया, अघटितघटनापटीयस्या वा व्यामोहयन् मोहितवान्। अत्र ‘लुण्ठित्वा नवनीतं—’ इत्यादिश्लोकत्रयेऽपि एकस्यैव वाक्यस्य श्लेषेणान्यार्थकरणादभङ्गश्लेषवक्रोक्तिरलङ्कारः। तदुक्तम्—“यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते। श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा” इति॥१२६॥*

  • एवं कृशानूक्तं दूषणं श्रुत्वा निर्विण्णो विश्वावसुराह**—वयस्येति।** हे वयस्यकृशानो एवं ‘लुण्ठित्वा नवनीतं-’ इत्यादिप्रकारं दूषणं मा वादीः नोच्चारय हि यस्मात् कारणात् परमपावनः अत्यन्तपवित्रः, अत एव सकलजगतः अंहसां पापानां संहरणकृते विभाशार्थ, कृतः धृतः अवतारो येन सः वन्दारून् स्तोतॄन् नमस्कर्तॄन् वा ‘वदि अभिवादन—स्तुत्योः’ इत्यस्मात् “शृृ-वन्द्योरारुः” इति आरुप्रत्य-*

असत्क्षयार्थाभ्युदयस्य यस्य जगुश्चरित्रं जगतः पवित्रम् \।
पुनः परस्मै पुरुषाय तस्मै समस्तनम्याय162 नमस्तनोमि॥१२७॥

अस्य खल्वत्यद्भुतं163 चारित्रमाकर्ण्यताम्॥ ४२॥

चोरस्य चौर्यञ्जगति प्रतीतं164 चौर्यस्यचौर्यं न तु दृष्टपूर्वम्॥
चौर्याद्यकार्याणि165 बत166श्रुतानि कृष्णस्य मुष्णन्तितमां तमांसि॥१२८॥

किञ्च—

चित्रं चित्रं जृम्भिते कृष्णमेघे कंसं प्राप्ता प्राप लोपं समृद्धिः॥
आसीद्युक्तं हानिदाघप्रशान्तिर्हंसो हिंसां मानसे कीर्तिरुत्था॥१२९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

यः। “वन्दारुरभिवादके” इत्यमरश्च। जनानानन्दयतीति तथाभूतः सः यदुनन्दनः श्रीकृष्णः, निन्दापदव्याः निन्दारूपमार्गस्य दवीयान् दूरे वर्तमानः अस्तीति शेषः। दवीयानित्यत्र दूरशब्दादीयसुनि “स्थूल-दूर-युव ह्रस्व-” इत्यादिना रकारलोपः। ‘दू’ इत्यस्य गुणादेशश्च॥४१॥

  • निन्दापदवीदवीयस्त्वमेवोपपादयति**—असदिति।** असता पापानां दैत्यादीनां क्षयो नाश एवार्थो मुख्यःप्रयोजनः यस्य तादृशः अभ्युदयः उत्पत्तिर्यस्य तथाभूतस्य यस्य श्रीकृष्णस्य जगतः पवित्रः पावित्र्यावह चरित्र कंसवधादिरूप न तु त्वदुपपादित चौर्यादिरूपमेव, जगुः गायन्ति स्म। ज्ञानिन इति शेषः। तस्मै परस्मै देहेन्द्रियादिसङ्घात् परस्मै पुरुषाय, अत एव समस्तानां सकललोकानां नम्याय नमस्कर्तुं योग्याय, पुनः नमः नमस्कारं तनोमि करोमि॥१२७॥*

  • अस्येति। अस्य श्रीकृष्णस्य अत्यद्भुतमतीवाश्चर्यजनकं चारित्रमाकर्ण्यतां श्रूयतां खलु॥४२॥*

  • अत्यद्भुतत्वमेव विवृणोति—चोरस्येति। चोरस्य, कर्तरि षष्ठी।चोरकर्तृकमित्यर्थः। चौर्यं कर्मं जगति प्रतीतमनुभूतं प्रसिद्धं वा। परन्तु चौर्यस्य अत्रापि पूर्ववदेव षष्ठी। चौर्यं चोरकर्मं तु, दृष्टपूर्वं पूर्वं दृष्टं न। इदमुपलक्षणम्। तेन श्रुतपूर्वमपि नेत्यर्थः। परं च कृष्णस्य चौर्यं नवनीतादेःआद्यं प्रधानं येषु तानि कार्याणि गोवर्द्धनोद्धरणादीनि, श्रुतानि आकर्णितानि सन्ति, तमासि पापानि मुष्णन्तितमामतिशयेन चोरयन्ति। अत्रातिशयार्थे तमप्। ततश्च “किमेत्तिडव्यय-" इत्यादिना आमुः। बतेत्याश्चर्ये॥१२८॥*

*** चित्रमिति।** कृष्ण एव मेघस्तस्मिन् पक्षे कृष्णे नीलवर्णे मेघे इति च, जृम्भिते उत्पन्ने सति, हानिदस्य लोकविनाशकरस्य अघनाम्नो दैत्यस्य प्रशान्तिर्नाशः, पक्षे ‘हा’ इत्यानन्दे। निदाघस्य ग्रीष्मऋतोश्च शान्तिः प्रशमः “ग्रीष्म उष्मकः। निदाघ उष्णोपगमः”इत्यमरः। आसीत्। तथा हसो बकासुरः पक्षे हंसः पक्षी च, हिंसां नाश धा-*

    • पुनस्सभक्त्युन्मेषं भगवन्तमुद्दिश्य—

कंसं ध्वंसयते मुरं तिरयते हंसं तथा हिंसते
बाणं क्षीणयते बकं लघयते पौण्ड्रं परं लुम्पते॥
भौमं क्षामयते बलाद्बलभिदो दर्पं167पराकुर्वते168
क्लिष्टं शिष्टगणं प्रणम्रमवते कृष्णाय तुभ्यं नमः ॥१३०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

तूनामनेकार्थत्वात्, मानसे मानससरोवरे हिंसां गतिं च प्राप्तः। हंसानां वर्षाकाले मानससरोवरगमनं प्रमिद्धम्। अत्र मुद्रितपुस्तकटीकायां ‘वार्षिकावसरस्य हंसहिंसाकारणत्व प्रसिद्धम्’ इति सिद्धान्तित दृश्यते, परं तत्प्रमादविलसितम्। अत एव तस्यैव पुस्तकस्य टिप्पणीकारेण ‘हसास्तावन्मानसे सरसि निवसन्ति, तत्रान्यर्तुषुहिमवाहुल्यात् हिमम्य च हंसानां रोगहेतुत्वाद् अष्टौ मासानन्यत्रोषित्वा वर्षागमे हंसाःमानसं गच्छन्ति, तम्माद्वर्षाकालस्य हंसहिंसाकारणत्वन, प्रत्युत वलपुष्ट्यादिहेतुत्वमेव’ इति प्राचीनसत्कविप्रसिद्धिपुरस्कारेण तत्खण्डित तदेव युक्तमिति कोविदा अवगच्छन्तु। कीर्तिर्यशः पङ्कश्च’कीर्तिर्यशसि कर्दमे’ इति विश्वः। उत्था उत्पन्ना इति यत्तत्, सर्वं युक्तं, परं च कसं कंसनामकमसुरं, पक्षे क उदक प्रति “क वारिणि च मूर्धनि” इत्यमरः। प्राप्ता उत्पन्ना पक्षे सप्राप्तेति छेदः। समृद्धिः लोपः विनाशः प्राप, यद्वा कृष्णरूपे मेघे उदिते कः पुरुषः प्राप्ता समृद्धिर्लोप प्राप इति काकुः। अपि तु कस्यापि समृद्विर्लोपः न प्रापेत्यर्थः। एतदेव चित्र चित्र परममाश्चर्यमित्यर्थः। अत्र श्लोकद्वयेऽपि विरोधालकारः। अत्र तु श्लेषानुगत इति विशेषः॥१२९॥

  • पुनरिति। पुनः भक्त्युन्मेषेण भक्तिविकासेन, सहित यथा तथा भगवन्तं श्रीकृष्णम् उद्दिश्य, आहेति शेषः।—*

*** कंसमिति।** कंसमेतदाख्यदैत्यं ध्वंसयते सिंहासनादधो निपात्य मारयते, चतुर्थ्यन्तमेतत्। एवमग्रेऽप्यूह्यम्। मुरं दैत्यं च तिरयते तिरोहितमदृश्य कुर्वते, तथा हंसमसुरं हिंसते नाशयते, बाण बाणासुर क्षीणयते अष्टनवत्यधिकनवशतभुजच्छेदनेन क्षीणशरीर कुर्वते, न तु विनाशयते इत्यर्थः। तस्य प्रह्रादान्वयजत्वात्। तदन्वयस्य च भगवतोऽवध्वरप्राप्तवान्। तथा बक दैत्य लघयते लघूकुर्वते विनाशयते इत्यर्थः। पौण्ड्रपरं शत्रुभूतं लुम्पते हन्त्रे, भूमेरपत्यं भौमस्तमसुरं क्षामयते तद्वधकर्त्रे इत्यर्थः। तथा बलभिदिन्द्रस्तस्य दर्पं गर्वं, बलात् हठात् पराकुर्वते निवारयित्रे। अपि च क्लिष्टदैत्यत्रासात् संसारक्लेशाद्वा त्रस्त शिष्टगण सज्जनसमूह, अत एव प्रकर्षेण नम्रं शरणागतम् अवते रक्षते, तुभ्यं कृष्णाय नमः अस्तु ॥१३०॥*

अथ महाराष्ट्रवर्णनम्—१२.
<MISSING_FIG href="../books_images/U-IMG-1722835395Screenshot2024-08-04235410.png"/>

** **इति विमानं सुदूरमानयन् वन-जनपद-सरिद्गिरिप्रभृतीनवेक्ष्य सविस्मयमी169श्वरमुदिश्य—

कत्यौषधीः कति तरून् कति वा170 महीध्रान्
कत्यम्बुधीन् कति नदीः कति पुंस एतान्॥
कत्यङ्गनास्त्वमसृजः कति नाथ देशान्
मन्ये तवैष महिमा नहि माति बुद्धौ॥१३१॥

** **इत्यन्यतो गच्छन् पुरतोऽवलोक्य सबहुमानम्—

महाराष्ट्राभिख्यो मधुरजलसान्द्रो निरुपमः
प्रकाशो देशोऽयं सुरपुरनिकाशो विजयते॥
गृहस्था यत्रामी गुणजलधयः केऽपि विभवैः
समृद्धाः श्रद्धातो मुहुरतिथिपूजां विदधते॥१३२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

अथ महाराष्ट्रदेशवर्णन सूचयन्नाह-इतीति। इत्युक्त्वासुदूरं विमानमानयन् प्रापयन् वनानि च जनपदाः देशाश्च सरितो नद्यश्च गिरयःपर्वताश्च ते प्रभृतयो मुख्या येषु तान् देशानवेक्ष्य दृष्ट्वा, सविस्मयमाश्चर्यसहित यथा तथा ईश्वरमुद्दिश्याहेति।

  • कतीति। हे नाथ जगदुत्पादक प्रभो, त्वङ्कति कियत्सख्याका औषधीर्वल्लीयस्यमुख्या फलपाकान्ताः, तथा तरून् वृक्षाश्च कति, महीध्रान् पर्वतान्, अम्बुधीन्समुद्रान्, नदीं, एतान् दृश्यमानान् पुसपुरुषान् तथा अङ्गना स्त्रियश्च, देशाश्च, कति असङ्ख्यातानित्यर्थ। असृजः सृष्टवानसि ?। तस्मात् हे प्रभो, एष तव अगाधसर्गकर्तृत्वरूपो महिमा माहात्म्य, बुद्धौ नहि माति न प्रवेष्टुं शक्नोति, इति मन्ये, इति निश्चिनोमीत्यर्थः॥१३१॥*

  • इतीति। इत्यन्यतोऽन्यत्र गच्छन् पुरतोऽग्रभागेऽवलोक्य बहुमानेन सहित यथा तथा प्राह-*

  • महाराष्ट्रेति। मधुर खादु च तज्जल च तेन सान्द्र पूर्णम् अत एव निरुपमःउपमारहितः प्रकाशः प्रसिद्ध “प्रकाशोऽतिप्रसिद्धेऽपि” इत्यमरः। अत एव च सुरपुरस्य स्वर्गलोकस्य निकाशः सदृशोऽयं महाराष्ट्र इति अभिख्या नाम यम्य सः “अभिख्या नाम-शोभयोः” इत्यमरः। विजयते सर्वोत्कर्षेण वर्तते। यत्र महाराष्ट्रदेशे, अमी गुणजलधयःविद्यादिसद्गुणसमुद्रा, विभवैरैश्वर्यैश्च समृद्धाः परिपूर्णाः, केऽप्यनिर्वाच्यप्रभावा विद्यादिगुणानामैश्वर्यस्य चैकत्र वासस्य दुर्लभत्वादित्यर्थः।*

*** ** ***कृ०—**सखे किं प्राक्कालीनचरित्र171मधुना कथयसि172 ! अधुना किल कलिमालिन्यादी173दृशी रीतिरेतद्देशवा- सिनामासीत्॥४३॥

तथाहि—

अपारैर्व्यापारैरहरिह नयन्तोऽशनदशा-174
स्वथ स्नाताः सन्ध्यां विदधति न जातु स्वसमये॥
त्यजन्तः स्वां वृत्तिं द्विजकुलभवा175 ग्रामगणकी-
भवन्तो हन्तामी कथमपि च जीवन्ति बहवः॥१३३॥

किञ्च—

‘उपनयन–विवाहावुत्सवैकप्रधानौ’
कलिविभवत एषां कालभेदानभिज्ञौ176

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

गृहस्था लोकाः, श्रद्धातः आस्तिक्यबुद्ध्या मुहुर्वारंवारम् अतिथिपूजामभ्यागतसत्कारं विदधते कुर्वते। न त्वैश्वर्यस्य व्यसनादिना विषयासक्त्या वा दुरुपयोग कुर्वन्तीत्यर्थः॥१३२॥

  • सख इति। हे सखे, प्राक्कालीनं कृतयुगादिपूर्वकालभवं चरित्रमधुना साम्प्रतं किं कुतो हेतोः कथयसि ? कुतो वा प्राक्कालीनं चरित्रमधुना न कथनीयमित्याशङ्क्याह—अधुना किल साम्प्रतं तु, कलेःकलियुगस्य मालिन्यान् मलिनत्वात् पापप्रचुरत्वादित्यर्थः। एतद्देशवासिनां महाराष्ट्रवासिनामीदृशी वक्ष्यमाणप्रकारा रीतिराचारः आसीद् अस्तीत्यर्थः। प्रकृतवर्णनस्य वर्तमानकालीनत्वाल्लड् प्रामादिक इति भाति॥४३॥*

*** अपारैरिति।** तथाहि अपारैर्बहुभिर्व्यापारैर्ग्रामायव्ययलेखनकृषिवाणिज्यादिरूपैः कर्मभिः इह देशे, अहः दिवसं नयन्तः सन्तः, अथ अशनदशासु भोजनावसरेषु न तु सन्ध्याकालसमये, स्नाताः कृतस्नानाः, अत एव जातु कदापि स्वसमये शास्त्रविहितकाले, सन्ध्यां न विदधति नानुतिष्ठन्ति। किञ्च अमी बहवः न तु द्वित्राः द्विजकुलभवाः ब्राह्मणान्वयोत्पन्ना अपि, स्वां स्वकीयां याजनाध्यापन-प्रतिग्रहादिरूपां वृत्तिं जीविकां “वृत्तिर्वर्तनजीवने” इत्यमरः। त्यजन्तः सन्तः, ग्रामेषु गणकीभवन्तः ग्रामाय–व्ययलेखकरूपा भवन्तः सन्तश्च, कथमपि निषिद्धाचरणादिरूपया तुच्छवृत्त्या जीवन्ति। एतादृशनीचजनाधिष्ठितदेशस्य का नाम प्रतिष्ठेति भावः॥१३३॥*

  • ** उपनयनेति।** किञ्च उपनयनं व्रतबन्धश्च विवाहश्च तौ, एषां लोकानां कलिविभवतः कलिमाहात्म्यात्, कालस्य “गर्भाष्टमेऽब्दे कर्तव्यं ब्राह्मणस्योपनायनम्” इत्यादिशास्त्रविहितस्य, भेदः ब्राह्मण-क्षत्रियादिभेदेन विशेषः“गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः” इत्यादिरूपः, अथवा “ब्रह्मवर्चसकामस्य कार्यंविप्रस्य पञ्चमे। राज्ञो*

विजहति न कदाचिद्वे177 दपाठैकयोग्ये
वयसि च यवनोनी178वाचनाभ्यासमेते॥ १३४॥

अपि च—

अज्ञानामविरामलौकिकवचोभाजाममीषां पुन-
र्मन्त्रोच्चारण एव पर्यवसितं मौनव्रतं कर्मसु॥
ग्रामाय-व्ययलेखनेन नयताङ्कालानशेषानहो
पारम्पर्यत ईदृशामिह नृणां ब्राह्मण्यमन्यादृशम्॥१३५॥

अन्यच्च—

कुक्षेः पूर्त्यैयवननृपते179र्भृत्यकृत्यानि कर्तुं
विक्रीणीते वपुरपि निजं वेतनैरेतदास्ताम्॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे” इत्यादिकामनाभेदेन विशेषः तस्य न विद्यते अभिज्ञा ज्ञानं ययोस्तौ, अत एव उत्सवः एव एक मुख्य प्रधान प्रयोजन ययोस्तौ तथाभूतौ संवृत्ताविति। अनेन निमित्तेन सुहृत्सम्बन्धिजनानेकीकृत्य मिष्टान्नभोजनादिरूपसमारम्भार्थमेवोपनयन-विवाहकरणमित्यर्थः। न तु वेदोपदेशाद्यर्थमिति भावः। कुत एतज्ज्ञायते इत्यत आह—एते जनाः वेदस्य पाठः पठनं विधिवदध्ययनमिति यावत्। तदेकयोग्ये वेदाध्ययनमात्रपरतया नेतुमुचिते वयसि कदाचिदपि यवनान्याः यवनलिपेः “इन्द्र-वरुण-भव-शर्व–” इत्यादिसूत्रस्थेन “ यवनाल्लिप्याम्” इति वार्तिकेन यवनशब्दाल्लिप्यर्थे आनुगागमो डीप्च। वाचनाभ्यासं सततपरिशीलनरूपं न विजहति न त्यजन्ति॥१३४॥

  • अज्ञानामिति। अपि च अज्ञानां कर्तव्याकर्तव्यज्ञानरहितानामत एव अविराम विश्रामरहितं यथा स्यात्तथा लौकिकवचांसि लोकवार्तालापान् भजन्ति कुर्वन्ति तथाभूतानां, न तु वेदशास्त्रभाजां, अमीषां लोकानां कर्मसु श्रौत-स्मार्तादिकर्मसु मन्त्रोच्चारणे तत्तत्कर्माङ्गभूतमन्त्रपठने एव, मौनव्रत पर्यवसितम् अवसन्न आश्रितमिति यावत्। लौकिकवचांसि तु बहूनि भाषन्ते इत्यर्थः। किञ्च पुनः ग्रामस्य सम्बन्धिनौ यौ आय-व्ययौ तयोर्लेखनेन अशेषान् प्रातः कालमारभ्य सायकालपर्यन्तमित्यर्थः। कालान् नयतां गमयतां, पारम्पर्यतः वशपरम्परया ईदृशां नृणां लोकानां, इह महाराष्ट्रदेशे ब्राह्मण्य ब्राह्मणकर्म, अन्यादृशम् अन्यब्राह्मणविलक्षण शुद्रप्रायमिति यावत्॥१३५॥*

  • अन्यच्चापि निन्द्यतमं कृत्यमाह-कुक्षेरिति। अयमेतद्देशनिवासी जनः, विप्रो ब्राह्मणो भूत्वापि, यवननृपतेर्म्लेच्छजातीयराज्ञः भृत्यकृत्यानि’ सेवककृत्यानि कर्तुं, तच्च केवलं कुक्षेः पूर्त्यैस्वोदरभरणायैव न तु स्वामिभक्त्यर्थ, वेतनैः मासिकद्रव्यस्वी-*

विप्रो भूत्वाप्यहह गणनानैपुणैर्वञ्चयित्वा
स्वर्णस्तेयं रचयति जनः स्वामिनां180 पोषकाणाम् !॥१३६॥

अहो बत कलिमहिम्ना सदसद्विवेकवैधुर्यमखिलजनानाम्!॥ ४४॥

ये मुष्णन्ति निशि प्रविश्य भवनं ये वा बलात्काननं181
नैते स्वामिधनं हरन्ति ननु तान्निन्दन्ति चोरा इति182
सद्यो हन्त हरन्ति पोषकधनं सङ्ख्यां विपर्यस्य ये
कष्टं तानपि वञ्चकानिह पुरस्कुर्वन्ति सर्वे जनाः॥१३७॥

‘अयं खल्वनुपमो देशः’ इति त्वदुक्तं युक्तमेव। यदत्र स्वल्पेनापियत्नेन183 महती प्रतिष्ठा सिध्यति॥४५॥

वेदव्यासः सइह दश184 यो वेद वेदाक्षराणि
श्लोकं त्वेकं परिपठति यः स स्वयं जीव एव॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

कारैः, निज स्वीयं वपुः शरीरमपि विक्रीणीते। एतत्तु आस्तां तावत्। परन्तु अहह इति खेदे।गणनानैपुणैः आय-व्ययद्रव्यसङ्ख्याकौशल्यैः वञ्चयित्वा, अयं जनः पोषकाणां मासिकभृतिदानेन पोषणं कुर्वतां स्वामिनामपि किमुतान्येषां स्वर्णस्तेयं द्रव्यचौर्यं रचयति करोति। स्वामिवञ्चनस्य नरकपातहेतुत्वादेतदतीव निन्द्यमित्यर्थः॥१३६॥

अहो इति। अहो इत्याश्चर्ये। बतेति खेदे। कलिमहिम्ना कलिमाहात्म्येन अखिलानां सर्वेषामपि जनानां सदसतोः उत्तमाधमयोः विवेकस्य विचारस्य वैधुर्यं राहित्यम्॥४४॥

कथं तावद्विवेकवैधुर्यमिति चेत्तदेव विवृणोति—य इति। ये निशि रात्रौ परस्य भवनं गृहं प्रविश्य, ये वा काननमरण्यं प्रवेश्य, दिवापि बलान् मुष्णन्ति द्रव्यादिकं चोरयन्ति, एते तु स्वामिधन निजपोषकद्रव्य नैव हरन्ति, परन्तु तान् गृहं प्रविश्य चौर्यकर्मकर्तृृन् प्रति ‘चोराः’ इति उक्त्वा निन्दन्ति। ये च सङ्ख्यां विपर्यस्य आयव्ययगणनावैपरीत्य कृत्वा, पोषकधनं सद्यः तत्कालं हरन्ति हन्तेति खेदे। तानपि वञ्चकान् स्वामिप्रतारकान् , इह देशे सर्वेऽपि जनाः पुरस्कुर्वन्ति मानयन्ति। कष्टमेतदतीवान्याय्यमित्यर्थः॥१३७॥

अयमिति। किञ्च ‘अयं महाराष्ट्राभिख्यो देशःअनुपमः खलु’ इति, पूर्वमिति शेषः। त्वया उक्तं प्रतिपादितं, युक्तमेव योग्यमेव। कुतः। यद्यस्माद् अत्र देशे स्वल्पेनापि स्तोकेनापि यत्नेन महती प्रतिष्ठा सिध्यति॥४५॥

कथमित्युपपादयति—वेदव्यास इति। इह महाराष्ट्रेदेशे, यः विप्रः दश वेदस्य अक्षराण्येव केवल, न तु सम्पूर्णमन्त्रमपि। वेद जानाति “विदो लटो वा” इति लटो

आपस्तम्बः स किल कलयेत्सम्यगौपासनं यः
कष्टं शिष्टक्षतिकृति कलौ कार्श्यमृच्छन्ति विद्याः॥१३८॥

** वि०—**किमरे भूसुरेष्वे185वं दोषमुद्धोषयसि ?॥ ४५॥

अत्रापि सन्ति बहवः कलिताग्निहोत्राः
शास्त्रार्थबोधकुशलाः किल शान्तिमन्तः॥
अन्तर्मुखाः सततमात्मविदो महान्तो
निर्धूतबाह्यविषया निगमाध्वनिष्ठाः॥१३९॥

अन्यच्च—

शुचीभूताः186स्नानैः श्रुतहितपुराणाश्च187 नियमा—
दपूतानां स्पर्शानवहितहृदोऽमी विजहतः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

णलादेशः। सः वेदव्यासः भवति। एतदग्रेऽपि योज्यम्। यश्च एकमेव न तु अनेकान्, श्लोकं परिपठति, सः स्वयं जीवो बृहस्पतिरेव। “बृहस्पतिः सुराचार्योगीष्पतिर्धिषणो गुरुः। जीव आङ्गिरसः" इत्यमरः। यस्तु सम्यक् औपासनं सायम्प्रातर्होमरूपं कर्मं कलयेत् कुर्यात्, सः किलेति गर्हायाम्। आपस्तम्बः ऋषिर्भवति। एवं शिष्टानां सभ्यानां क्षतिं नाशं करोतीति तत्कृत् तस्मिन् कलौ युगे, विद्याः वेद-शास्त्रादिज्ञानानि, कार्श्यं कृशत्वम् ऋच्छन्ति प्राप्नुवन्ति। कष्टमिति खेदे॥१३८॥

  • किमिति। अरे कृशानो ! भूसुरेषु ब्राह्मणेष्वपि एवं दोषमुद्घोषयसि आरोपयसि ?॥४६॥*

  • वस्तुतस्तु नैवाय देशो दूषणार्ह इत्याह**—अत्रेति।** अत्र महाराष्ट्रदेशेऽपि, बहवो बुधाः जनाः न तु द्वित्राः। शास्त्रस्य अर्थबोधे अर्थज्ञाने कुशलाः निपुणाः मार्मिका इति यावत्। अत एव निगमाध्वनिःवेदविहितकर्मानुष्ठानरूपमार्गे निष्ठाआसक्तिर्येषां तथाभूताः, अत एव च कलितं स्वीकृतम् अग्निहोत्रं त्रेताग्निसाध्यः कर्मविशेषः यैस्ते तादृशाः। केचित्तु निर्धूताः निरस्ताः बाह्यविषयाः शब्दादिविषया यैस्ते तथाभूताश्च, अतो हेतोरेव अन्तः हृदयपुण्डरीके आत्मोपलब्धिस्थले एव मुखं साम्मुख्यं येषां ते, सततमात्मानुध्यानासक्ता इति यावत्। सततं निरन्तरम् आत्मानं विदन्ति स्वानुभूत्या साक्षात् कुर्वन्तीति तथाभूताः। किलेत्यवधारणे, हेतौ वा। अव्ययानामनेकार्थत्वात्। शान्तिमन्तो बाह्येन्द्रियनिग्रहतत्परा इत्यर्थः। अत एव महान्तः महत्त्वलक्षणसम्पन्नाः। महत्त्वलक्षणमुक्तं श्रीमद्भागवते— “ महान्तस्ते समचित्ताः प्रशान्ताः विमन्यवः सुहृदः साधवो ये” इति। एवं च कर्म-ज्ञाननिष्ठा उभयविधा अपि जनाः अत्र देशे सन्ति॥३९॥*

*** शुचीभूता इति।** किञ्च स्नानैः शुचीभूताः पवित्रीकृताः। नैतावदेव, किन्तु नियमात् श्रुतानि आकर्णितानि हितानि हितकराणि पुराणानि श्रीमद्भागवतादीनि भक्ति-*

सुराभ्यर्चां कृत्वा शुचिकृतमदन्त्यन्नमनघं
महाराष्ट्रे देशे विलसति महानेष हि गुणः॥१४०॥

किञ्च—

चमूनियमनेन वा जनपदाधिकारेण वा
द्विजव्रज उपव्रजन्प्रभुपदं महाराष्ट्रजः॥
न वृत्तिमिह पालयेद्यदि धरासुराणां ततो
भवेद्यवनवेष्टितं188 भुवनमेतदब्राह्मणम्॥१४१॥

** **यच्च दोषान्तरं भवता परिभाषितं तदशेषमपि साधुजनोपकारेणपरिहीयेते189॥४९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

ज्ञानादिविषयप्रतिपादकानि यैस्तथाभूताः। अत्र श्रुतपुराणग्रहणमुपलक्षणम्। तेन न केवल श्रुतानि, किन्तु सम्यगधीतानि मीमांसितानि च। वेद शास्त्र-पुराणानीत्यपि ज्ञेयम्। अत एव अवहितं श्रुतिस्मृत्यादिविहितप्रतिषिद्धविषये प्रमादरहितं हृच् चित्तं येषां ते तथाभूताः सावधानचित्ता इत्यर्थः। एतादृशा अमी जनाःअपूतानाम् अपवित्राणां चाण्डालादीनां स्पर्शान् शरीरसम्पर्कान्, विजहतः त्यजन्तः सन्तः, सुराणां विष्णु-शिवादिदेवानामभ्यर्चा पूजां कृत्वा शुचिभिः पवित्रजनैः कृतं पक्तम् अत एव अनघं निर्मलमन्नम् अदन्ति भुञ्जन्ति। न तु येन केनापि कृतमित्यर्थः। तस्मादेष पूर्वोक्तः महान् गुणः महाराष्ट्रे देशे हि एव विलसति प्रकाशते दृश्यते। नान्यत्रेत्यर्थः॥१४०॥

  • ‘कुक्षेः पूर्त्यै यवननृपतेः’ इत्यादिनोक्तं दूषणं परिहरति—चम्विति। किञ्च महाराष्ट्रजः तद्देशोत्पन्नः द्विजानां ब्राह्मणानां व्रजः समूहः, चम्वाः सेनायाः नियमनेन सेनाधिपत्य स्वीकृत्येत्यर्थः। जनपदस्य देशस्य अधिकारेण आय-व्ययलेखनादिरूपेण वा, प्रभुपदं तत्तदधिकारस्थानमुपव्रजन् प्राप्नुवन्, यदि धरासुराणां ब्राह्मणानां वृत्तिं जीविकां न पालयेन् न रक्षेच्चेत्, ततस्तर्हि एतद्भुवनं सर्वोऽप्ययं भूलोक इत्यर्थः। यवनैः म्लेच्छैः वेष्टितं सर्वत्र व्याप्त, ततश्च अब्राह्मणं ब्राह्मणरहितमपि भवेत् सम्पद्येत। यवनानामेव सर्वत्र प्राबल्यात् ते वर्णाश्रमधर्म विनाश्य ब्राह्मणादीनपि भ्रशयिष्यन्तीति भावः॥१४१॥*

  • अथ ‘उपनयन-विवाहौ-’ इत्यादिनोक्तं दूषणं परिहरति-यञ्चेति। भवता यच्च दोषान्तरं ‘विजहति न कदाचिद्वेदपाठैकयोग्ये वयसि च यवनानीवाचनाभ्यासं’ इत्यादिरूपं परिभाषितं, तद् अशेषं सकलमपि साधुजनानाम् उपकारेण परिहीयते निवार्यते॥४७॥*

अलं मङ्क्षु संहर्तुमंहस्सहस्रं स एकोऽपि विप्रप्रवेकोपकारः॥
कठोरः कुठारः किलैकोऽपि तिग्मो विनिर्भेत्तुमीष्टे विषद्रूननेकान्॥१४२॥

** कृ०—**अस्त्वेवमथाप्यत्र190त्यानामाद्येतरवर्णप्रभवानां191 पुनरति192दुस्सहं चेष्टितम्॥४८॥

पश्य—

देशे देशे लम्पटाः पर्यटन्तो भञ्जं भञ्जम्ब्राह्मणादीनशेषान्॥
हारं हारं हन्त सर्वस्वमेषां पापा एते स्वोदरं पूरयन्ति॥१४३॥

** वि०—**सत्यमेवम193थापि महनीयमेव तेषामेवं चेष्टितम्॥४९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • कथमिति चेत्तदाह-अलमिति। सः प्रसिद्धः एकोऽपि किमुतानेके ? विप्राणां ब्राह्मणानां मध्ये ये प्रवेकाः सन्ध्यादिकर्मानुष्ठानेनोत्तमाः तेषां “प्रवेकानुत्तमोत्तमाः” इत्यमरः। उपकारः अंहसां पापानां सहस्रं, मड्क्षु शीघ्रमेव “द्राक् मड्क्षु सपदि द्रुते” इत्यमरः। संहर्तुं विनाशयितुम् अलं समर्थः। दृष्टान्तमाह-कठोरःदण्डादिना दृढः तिग्मः धारया च तीक्ष्णः “तिग्म तीक्ष्णं खरं तद्वत्-” इत्यमरः। एकोऽप्येक एव किल कुठारः, अनेकान् बहून् विषद्रून् विषवृक्षान् विनिर्भेत्तुं विशेषेणम् आमूलादित्यर्थः। भेत्तुं छेत्तुम् ईष्टे समर्थोभवति। दृष्टान्तालङ्कारः। भुजगप्रयात वृत्तम्। “भुजगप्रयात भवेद्यैश्चतुर्भिः” इति तल्लक्षणात्॥१४२॥*

  • इदानीं क्षत्त्रियादीनां दोषानाह कृशानुः—अस्त्विति। एव भवदुक्तम् अस्तु नाम, अथापि भवदुक्तरीत्या ब्राह्मणानामुपकारकर्तृत्वे सत्यपि, अत्रत्यानामेतद्देशीयानाम् आद्याद् इतरे क्षत्रियादयस्तेषु वर्णेषु प्रभव उत्पत्तिर्येषां तेषां पुनरतिदुःसहम् अत्यन्तं सोढुमशक्यं चेष्टितम् आचरणम्। अस्तीति शेषः॥४८॥*

  • दुःसहचेष्टितत्वमेव प्रतिपादयति**—देशे देश इति।** लम्पटाः परद्रव्यापहारतत्पराः अत एव पापाः पापकारिणः, एते एतद्देशीयाः क्षत्त्रियादयः, देशदेशे प्रतिदेशं पर्यटन्तः परिभ्रमन्तः सन्तः, ब्राह्मणादीन् अशेषान् सर्वान् भञ्जं भञ्जं द्रव्यवाञ्छया भक्त्वा भक्त्वा एषां ब्राह्मणादीनां सर्वस्व, हारं हारं हृत्वा हृत्वा। पूर्वत्रात्र च ‘भञ्जो आमर्दने’ ‘हञ् हरणे’ इति धातुभ्यां “आभीक्ष्ण्ये णमुल् च” इति णमुल्। स्वोदरं पूरयन्ति। हन्तेति खेदे॥१४३॥*

  • सत्यमिति। एवं ‘देशे देशे-’ इत्यादिप्रकारेणोक्तं दूषणं सत्यं, अथापि तेषां क्षत्रियादीनाम् एवमग्रे वक्ष्यमाणरीत्या चेष्टितमाचरणं महनीयमेव पूज्यमेव॥४९॥*

    • तथाहि—

मायाचुञ्चुतया194 भयावहगतिः प्रत्यर्थिपृथ्वीभुजाम्
माहाराष्ट्रभटच्छटा रणपटुर्नोपर्यटाट्येत चेत्195
देव-ब्राह्मणवर्गनिग्रहकृतो देशांस्तुरुष्का इमे
निष्प्रत्यूहमनोरथा वितनुयुर्निर्देव196-भूमीसुरान्॥१४४॥

ततश्च—

देवक्षोणीसुरहितकृते दारितम्लेच्छपङ्क्ते-
र्मह्यां सह्या कथमपि महाराष्ट्रयूथस्य चेष्टा॥
व्याधिव्यूहप्रतिहति197कृतां व्यक्तमुग्रौषधानां
कायारोग्यप्रणयिहृदयैः काटवं मर्षणीयम्॥१४५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • कथं महनीयमित्येतदेवोपपादयति**—मायाचुञ्चुतयेति।** रणे पटुः कुशला महाराष्ट्रे भवा माहाराष्ट्रास्तेषां भटानां योधानां “भटा योधाश्च योद्धारः” इत्यमरः। छटा समूहः, मायया वित्ता प्रसिद्धा मायाचुञ्चुः तस्याः भावः मायाचुञ्चुता तया “तेन वित्तश्चुञ्चुप्-चणपौ” इति चुञ्चुप्रत्ययः। युद्धकापट्यज्ञानप्रसिद्धत्वेनेत्यर्थः। प्रत्यर्थिनां शत्रुभूतानां क्षितिभुजां राज्ञां, “दस्यु-शात्रव-शत्रवः। अभिघाति-पराराति-प्रत्यर्थि-परिपन्थिनः” इत्यमरः। भयावहा भयोत्पादका गतिः सञ्चारो यस्यास्तथाभूता सती, नो पर्यटाट्येत भृश पुनः पुनर्वा परिभ्रमणं न कुर्याच् चेत्, परिपूर्वकस्य ‘अट गतौ’ इत्यस्य यङन्तस्य विधिलिङि रूपम्। तदा देवाश्च ब्राह्मणाश्च तेषां वर्गःसमुदायः तस्य निग्रह भ्रष्टकरण-धनग्रहणादिच्छलरूप कुर्वन्तीति तथाभूताः इमे तुरुष्काः तुरुष्कदेशीया नृपाः, निष्प्रत्यूहः निर्विघ्नः “विघ्नोऽन्तरायः प्रत्यूहः” इत्यमरः। मनोरथः परधनग्रहणादिरूपो येषां तथाभूताः सन्तः, सर्वान् देशान् निर्देवभूमीसुरान् देव-ब्राह्मणरहितान् वितनुयुः कुर्युरेव॥१४४॥*

*** तत इति।** ततश्च पूर्वोक्तत्रासनिवारणहेतोरेव-*

*** देवेति।** देव-क्षोणीसुरहितकृते देव-ब्राह्मणहितार्थ दारिता विनाशिता म्लेच्छानां पङ्क्तिः समुदायो येन तथोक्तस्य महाराष्ट्रयूथस्य महाराष्ट्रनृपसैन्यस्य, मह्यां पृथिव्यां कथमपि सोढुमशक्यत्वे सत्यपि सङ्कटेनैव, चेष्टा कृतिः सह्या सहनीया। लोकैरिति परिशेषात्। यथा व्याधिव्यूहस्य रोगसमूहस्य प्रतिहतिं नाशं कुर्वन्तीति तथाभूतानाम् उग्राणि खराणि च तानि औषधानि च तेषां, व्यक्तं प्रसिद्धं काटवं कटुत्वं कायस्य देहस्य आरोग्ये प्रणयिअनुरागयुक्त हृदयमन्तःकरणं येषां तैर्जनैः कथमपि मर्षणीयं सहनीयम्। दृष्टान्तालकारः॥१४५॥*

  • *इत्यन्यतो विमानं गमयन्नग्रतो दृष्ट्वा क इमे बहवः समवेता मानुषा मार्गानशेषान198प्यशून्ययन्ति॥ ५०॥

निपुणं निरूप्य सश्लाघम्—

अङ्गान् वङ्गान् कलिङ्गानथ मगध-कुरून् कोसलान् केकयान् वा
काश्मीरान् कुन्तलान्वा यवनजनपदान् किञ्च पाञ्चालदेशान्॥
नेपालान् केरलान्वा कतिचन कृतिनः पाण्ड्य-तुण्डीर चोलान199
कर्नाटान् गौड-लाटान् परगतिघटनालम्पटाः पर्यटन्ति200॥१४६॥

** कु०—**अरे किमेतान्निन्दनीयानभिनन्दसि201 !॥५१॥

नानाजातिभवा इमे कलिबलादेकीभवन्तो नरा
वैराग्याभिनयं चिराद्विदधतो वर्णाश्रमत्यागिनः॥
निर्धूत202ानघवैदिकप्रणमना निष्किञ्चना वञ्चना-
दक्षा दिक्षु विदिक्षु कुक्षिभृतये भिक्षाटनं कुर्वते॥१४७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

*** इतीति।** अन्यतोऽन्यत्र स्थले विमान गमयन्नग्रतः पुरोभागे दृष्ट्वा आह—*

  • क इति। इमे बहवः समवेता एकत्र मिलिताः मानुषाः अशेषान् सर्वानपि मार्गान् अशून्ययन्ति इतस्ततः परिभ्रमणेन सर्वदा परिपूरयन्ति, ते के ?॥५०॥*

  • निपुणमवलोक्य निश्चित्याह**—अङ्गानिति।** एते कतिचन कतिपयाः कृतिनः पुण्यवन्तो (जनाः) परस्य स्वर्गादिलोकस्य गतेः प्राप्तेः घटनायां सम्पादने लम्पटाः आसक्ताः अङ्गादीन् देशान् पर्यटन्ति परिभ्रमन्ति। तत्र तत्र देशे यानि तीर्थानि याश्च देवताः सन्ति तेषां स्नानदर्शनादिकर्मभिरात्मानं पवित्रीकर्तुमिति भावः॥१४६॥*

  • अरे इति। अरे विश्वावसो, एतान् वस्तुतो निन्दनीयान्निन्दायोग्यान् किं कुतो हेतोः अभिनन्दसि ?॥५१॥*

  • कुतो वा नाभिनन्दनीया इत्याह**—नानेति।** इमे नानाजातिभवाःअनेकवर्णसम्भवा अपि कलेर्बलान् माहात्म्याद् एकीभवन्तः एकत्र सम्मिलन्तः, तर्हि युक्तमेवैतत्, एकीभूय किमपि महत्कार्यं कुर्वन्तीति चेत्तत्राह—वर्णाश्रमत्यागिनः वर्णाश्रमधर्मत्यागशीलाः, एतेन स्वस्वधर्म त्यक्त्वैवैकीभूतास्ते धर्महानिं विना नान्यत्किमपि कर्तुं शक्ताः इति सूचितम्। एतादृशा नराः चिराद् बहुकालपर्यन्तं वैराग्यस्य इन्द्रियदमनादिरूपस्य अभिनयं प्रकटीकरणं विदधतः, अभ्यस्तत्वान्नुमभावः। कुर्वन्तः, किञ्च निर्धूतं सर्वथा त्यक्तम् अनघानां निष्पापानां वैदिकानां वेदज्ञानां प्रणमनम् अभिवादनं यैस्तथाभूताः वेदज्ञान् जनान् तिरस्कुर्वन्त इति यावत्। निष्किञ्चना नास्ति किञ्चन धनादिकं येषां ते, दरिद्रा इत्यर्थः। अत एव वञ्चनायां, परप्रतारणायां दक्षाः निपुणाः*

    किञ्च—

विप्रलचरिता विश्वामित्रादयः परमर्षयो
बहुभिरतुलैर्ब्राह्मण्यं यत्तपोभिरुपार्जयन्॥
तदिह जहतो जन्मप्राप्तं त्रयीविमुखेष्वमी—
ष्वहह कतिचित्पाखण्डेषु प्रविश्य हता जनाः॥१४८॥

** वि०—**कथमरे203 हरेर्भक्तेषु विरक्तेष्व204प्यमीषु सन्नह्यसि205॥ ५२॥

दोषेभ्यो नैव भेतव्यं दृढा चेद्भक्तिरच्युते॥
तिमिरेभ्यो नहि भयं दीपश्चेल्लभ्यते महान्॥१४९॥

किञ्च—

दुःखं च जन्मदुरितं च दृढामविद्यां
हा हन्त हन्ति परमा हरिभक्तिरेका॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

सन्तः, दिक्षु पूर्वादिषु, विदिक्षु आग्नेय्यादिषूपदिशासु, कुक्षिभृतये उदरभरणार्थं भिक्षाटनं कुर्वते॥१४७॥

  • किञ्च—विमलेति। विमल निर्मल चरित आचरण येषां ते, विश्वामित्रः “मित्रे चर्षौ” इति विश्वशब्दस्य दीर्घः। आदिः प्रमुखो येषां ते परमर्षयः श्रेष्ठा ऋषयः अतुलैः इतरैः कर्तुमशक्यैः बहुभिः षष्टिवर्षसहस्रसदृशबहुकालसाध्यैः तपोभिस्तपश्चर्याभिः, यद् ब्राह्मण्य ब्राह्मणत्वउपार्जयन् सम्पादितवन्तः, तद् ब्राह्मण्य इह लोके जन्मतः प्राप्तं, न तु तपआदिप्रयत्नैः, जहतः त्यजन्तः सन्तः त्रयीविमुखेषु ऋगादिवेदत्रयपराङ्मुखेषु पाषण्डेषु वेद-शास्त्रविहितकर्मभ्रष्टेषु अमीषु वैरागिषु प्रविश्य, तैः सहैकीभूयेत्यर्थः। एते जनाः हताः भ्रष्टाः। अहहेति खेदे॥१४८॥*

  • कथमिति। अरे कृशानो! हरेर्विष्णोर्भक्तेषु विरक्तेषु शब्दादिविषयपराङ्मुखेष्वपि, अमीषु दूषयितुमिति शेषः। सनह्यसि उद्युक्तो भवसि॥५२॥*

  • भक्तिसम्पन्नेषु विरागयुक्तेषु च धर्मत्यागदिरूप दूषणमकिचित्करमित्याह—दोषेभ्य इति। अच्युते श्रीभगवति विष्णौ दृढा भक्तिश्चेत्, दोषेभ्यः पूर्वोक्तेभ्यो नैव भेतव्य, दृढभक्तेः पुरतः इतरे सर्वेऽपि दोषास्तुच्छा इत्यर्थः। एतद्भगवता श्रीकृष्णेनैव भगवद्गीतायां स्वमुखेन प्रतिपादितम्—“सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः” इति। एतदेव प्रतिवस्तूपमयाह—तिमिरेभ्य इति। महान् प्रज्वलितः दीपः लभ्यते चेत्, तिमिरेभ्यः अन्धकारेभ्यः भय नहि नास्त्येव। प्रतिवस्तूपमालकारः। लक्षणमुक्त प्राक्॥१४९॥*

  • किञ्च—दुःखमिति। परमोत्तमा हरिभक्तिः श्रीकृष्णभक्तिः एकैव, दुःख आधि-*

एकोऽपि राघवशरः किल सप्ततालान्206
शैलं रसातलमपि त्वरया बिभेद॥१५०॥

अपि च—

धुनोति निबिडं तमः परिलुनाति पापाटवीं
तनोति च मनोरथानुपचिनोति नानोत्सवान्॥
अनक्ति च पुनःपुनर्ननु मनुःसुधानिर्झरै-
र्व्यनक्ति परिपक्त्रिमं वृषगिरीशभक्तिः शुभम्॥१५१॥

किं बहुना—

पूताङ्गानां पुण्यगङ्गादिसिन्धुस्नानान्नानाक्षेत्रयात्रापराणाम्॥
दारागारापत्यवैराग्यभाजां साराभिज्ञैरादरः कार्यम् एषाम्॥१५२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

भौतिकादिकं, जन्मदुरितं जन्मनः आरभ्य सम्पादितं पापमित्यर्थः। दृढां त्यक्तुमशक्याम् अविद्याम् अज्ञानं च हन्ति विनाशयति। हा हन्तेत्याश्चर्ये। अत्र दृष्टान्तमाह—राघवस्य श्रीरामचन्द्रस्य शरो बाणः एकोऽपि एक एव, सप्ततालान् सप्तसङ्ख्याकांस्तालवृक्षान्, शैलं पर्वतच रसातलं पातालमपि, त्वरया शीघ्रमेव बिभेद। किलेत्यैतिह्ये। वालिवधात्पूर्वं सुग्रीवप्रार्थितेन श्रीरामचन्द्रेणैतत् स्वसामर्थ्यप्रकटनार्थं कृतमिति श्रीरामायणकथात्रानुसन्धेया। दृष्टान्तालकारः॥१५०॥

  • किञ्च**—धुनोतीति।** वृषगिरीशः श्रीवेङ्कटाचलनिवासी श्रीनिवासः, अथवा वृषस्य गिरिः पर्वतः श्रीशैलः तस्येशो मल्लिकार्जुनः, वृष इव गिरिः शुभ्रः कैलासः तस्य ईशः श्रीशङ्कर इति वा। तस्मिन् कस्मिन्नपि भक्तिः कर्त्री। निबिडं सान्द्रं तमः अज्ञानं धुनोति विनाशयति। पापानाम् अटवीम् अरण्यं तत्सदृशं समूहमित्यर्थः परिलुनाति सर्वतश्छिनत्ति। मनोरथान् तनोति विस्तारयति। नानोत्सवान् अनेकविधानानन्दान्, उपचिनोति वर्धयति। पुनः पुनः मनः सुधानिर्झरैः अमृतप्रवाहैः सह अनक्ति संयोजयति। ननु निश्चयेन। ईशभक्त्या स्वर्गप्राप्तिर्भवतीति भावः। परिपक्त्रिमं फलाभिमुखं सत्, पचेः “ड्वितः क्त्रिः” इति क्त्रिप्रत्ययः। तदन्ताच्च “क्त्रैर्मप्-” इति मप्। शुभं शुभफलावह व्यनक्ति सम्पादयति। समुच्चयनामालकारः। “तत्सिद्धिहेतावेकस्मिन्यत्रान्यत्तत्करं भवेत्। समुच्चयोऽसौ स त्वन्यो युगपद्या गुणक्रिया” इति तल्लक्षणात्॥१५१॥*

*** किमिति।** बहुनाधिकेन उक्तेनेति शेषः। किं किं फलं, सारमेव सङ्क्षेपेण कथयामीति भावः।—*

*** पूतेति।** नानाक्षेत्रेषु काशी-प्रयागादिबहुषु पुण्यक्षेत्रेषु यात्रायां गमनरूपायां पराणामासक्तानाम् अत एव पुण्यासु पवित्ररूपासु गङ्गा आदिर्मुख्या यासु तासु*

अथ आन्ध्रदेशवर्णनम्—१३.

<MISSING_FIG href="../books_images/U-IMG-1722236245Screenshot2024-07-28191434.png"/>

इति विमानमन्यतः समानयन् निपुणं विभाव्य—

सुशोभनक्रमकरैः सेवितो जीवनार्थिभिः॥
मध्यस्थवाडवो राजत्यान्ध्रदेशो नदीशवत्207॥ १५३॥

** कृ०—**अये किं प्रशंसस्यपयातमर्यादममुं देशम् ?॥ ५३॥

पश्य—

ग्रामे ग्रामे निवसति चिरात्स्वामिभावेन शूद्रो
भृत्यो भूत्वा पठति गणनां ब्राह्मणस्तस्य पार्श्वे॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

सिन्धुषु नदीषु स्नानात् पूतं शुद्धियुक्त ‘पूञ् पवने’ इत्यस्माद् भावे क्तप्रत्यये अर्श आदित्वान्मत्वर्थीयोऽच्प्रत्ययः। अङ्गं शरीरं येषां तेषाम्। तत एव च दाराः स्त्रियश्च अगारं गृहं च, एतद्धनादेरप्युपलक्षणम्। अपत्यानि पुत्राश्च तेषु वैराग्यम् अनासक्ति भजन्ति कुर्वन्तीति तथाभूतानां, एषां जनानां साराभिज्ञैः सदसद्विवेकयुक्तैर्जनैः आदरः कार्यः कर्तव्यः॥१५२॥

  • सुशोभनेति। अयम् आन्ध्रदेशः जीवनम् उपजीविकां जलं च अर्थयन्ति इच्छन्तीति जीवनार्थिनः तैः सु उत्तमानि शोभनानि कल्याणानि येभ्यस्तान् क्रमान् आप्वारान् कुर्वन्तीति तत्करास्तैर्जनैः, पक्षे सुष्ठु शोभा येषां ते सुशोभाः ते च ते नक्रामत्स्यविशेषाश्च मकराश्च तैर्जलजन्तुभिश्च सेवितः अधिष्ठितः, मध्यस्था मध्ये वर्तमानाः वाडवाः ब्राह्मणा यस्य पक्षे मध्ये स्थितो वाडवो वाडवाग्निश्च यस्येत्यर्थः। नदीशवत् समुद्रवद् राजति शोभते। अत्र ‘न देशवत्’ इति पाठान्तरं प्रकल्प्य ‘नदेशवत् समुद्रवत्’ इति, ‘आन्ध्रदेशः देशवद् अन्यदेशवन् न राजति, अपि तु सर्वोत्तमतया राजति’ इत्यप्यर्थान्तरं कुर्वन्ति केचित्। अत्र श्लिष्टोपमालङ्कारः॥१५३॥*

*** इति।** अये भो, अपयातमर्यादं त्यक्तवर्णाश्रमरीतिममुं देशम् आन्ध्रदेशं, किं कुतो हेतोः प्रशससि ?॥५३॥*

*** ग्राम इति।** शूद्रः स्वामिभावेन प्रभुत्वेन उपलक्षितः, ग्रामे ग्रामे, वीप्सायां द्विर्भावः। चिरान् निवसति। तस्य शूद्रस्य पार्श्वे भृत्यः गणकसञ्ज्ञया उपलक्षितः, सेवको भूत्वा ब्राह्मणः, गणनां ग्रामाय-व्ययसङ्ख्यां पठति। मरौ देशे सर इव क्वापि कुत्रापि वेदाध्यायी कश्चिदेकः स्याद् यदि वर्तते चेत्, असौ वेदपाठकः अत्र*

वेदाध्यायी सर इव मरौ क्वापि कश्चिद्यदि स्या-
दत्रामत्रप्रकरकरणे208 वर्ततेऽसौ नियुक्तः॥१५४॥

किञ्च महाराष्ट्रे दृष्टा दोषा अत्राप्यतिदेष्टव्याः॥५४॥

** विश्वावसुः—**वयस्य, मैवं वादीः॥५५॥

मा नाम यक्षत मखैरनघैरिहामी
मा209चाधिगीषत वचांसि चिरन्तनानि॥
देवेषु भक्तिरवनित्रिदशेषु चैषां
विश्राणनं च विविधान् विधुनोति दोषान्॥१५५॥

पश्य तावदेतेषां भाग्यवत्ताम्॥ ५६॥—

रोमावल्या तपनसुतया रम्यहार210द्युनद्या
हृद्यास्तुङ्गस्तनगिरिजुषो नाभिवापीमनोज्ञाः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

आन्ध्रदेशे अमत्राणां मलिनपात्राणां प्रकरे सङ्क्षालने करणे कर्मणि नियुक्तः सन्, वर्तते। अतिनीचवृत्त्या जीवतीत्यर्थः॥१५४॥

  • वयस्येति। वयस्य भो मित्र, एवमुक्तप्रकारं दूषणं मा वादीः मा वद ‘वद व्यक्तायां वाचि’ इत्यस्मान् माड्योगे “माडि लुङ्” इति लुङि” “न माड्योगे” इत्यडागमाभावः॥५५॥*

*** मेति।** इह आन्ध्रदेशे अमी ब्राह्मणादयः त्रयो वर्णाः, अनघैः मखैर्यज्ञैः मा यक्षत न यजन्तु। नामेत्यनादरे। सर्वत्र अतिसर्गे लोट्। अतिसर्गः कामचारानुज्ञा। किञ्च चिरन्तनानि पुरतनानि वचांसि वेदवाक्यानि च माधिगीषत न पठन्तु नाम। तथापि देवेषु श्रीविष्ण्वादिषु भक्तिः, अवनित्रिदशेषु ब्राह्मणेषु निषये विश्राणन दान च “विश्राणन वितरणं स्पर्शनं प्रतिपादनम्” इत्यमरः। एषामान्ध्रदेश्यानां समस्तान् दोषान् सर्वान् पूर्वोक्तान् विधुनोति निवारयति॥१५५॥*

  • पश्येति। एतेषाम् आन्ध्रदेशीयानाम् अन्यामपीति शेषः। भाग्यवत्ताम् अग्रे वक्ष्यमाणां पश्य तावत्॥५६॥*

  • ** रोमावल्येति।** अत्र उपमाप्रायपाठात्, तपनसुतया यमुनयेवेति व्यवहितोऽपि इवशब्दोऽनुषञ्जनीयः। रोमावल्या, रम्येण हारेण द्युनद्या गङ्गयेवेत्युपमितसमासः*

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>^(१)क्वचित्पुस्तके ‘पत्रामत्रप्रकरकरणे’ इति पाठो दृश्यते । अस्मिंश्च पाठे-“पत्रं पलाशं छदनम्”“पात्रामत्रं च भजनम्” इति कोशात् पत्राणां पलाशानाम् अमत्रं पात्रं‘पत्रावली’ इति महाराष्ट्रभाषायां प्रसिद्धं, तस्य प्रकरः समुदायः तस्य करणे इति व्याख्येयम्। क्वचित्क्वचिद् दृश्यते चाधुनातनानां धनिकानां गृहस्थानां गृहे मुखेन वेदपाठं कुर्वन्तः पत्रावलीकरणे नियुक्तास्तदाश्रिता वैदिकाः।

भूमेर्मूर्तीरिव वसुमतीर्भुञ्जते भाग्यवन्तः
क्षोणीपाला इव युवजनाः काममान्ध्रीः पुरन्ध्रीः॥१५६॥

शृणु तावत्—

को वा कल्पतरो211र्गुणः सुमनसां ‘यत्स्वाश्रितानामसौ
सारांशान् हरतः212प्रसह्य मधुपान् धत्ते महामोदतः213
कर्णे त्वर्जुनकीर्तिहानिपरता कालाम्बुदे गर्जनं
नीरन्ध्रम्पुनरान्ध्रदेशनृपतिष्वास्तेऽनघं214 स्पर्शनम्॥१५७॥

समन्तादवलोक्य—

[वयस्यात्र215 गोदावरीतीरे केषाञ्चिदेषामवनीदिविषदामतिशिवपूजालोलुपतां पश्य॥५७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

एवमग्रेऽपि। हृद्याः मनोज्ञाः तुङ्गौ स्तनौ गिरी इव तौ जुषन्त इति तथोक्ताः। नाभिः वापीव तया मनोज्ञाः, वसुः कान्तिः वसु धनं च तद्वतीः, “वसुर्ना देवभेदाग्नि-भायोक्त्र-बक-राजसु। क्लीब वृद्ध्यौषधे श्याले रैरत्ने मधुरे त्रिषु” इति मेदिनी। अत एव भूमेः मूर्तीरिव स्थिताः आन्ध्रीः आन्ध्रदेशजाः पुरन्ध्रीः कुटुम्बिनीः स्त्रियः, क्षोणीपाला इव स्थित्वा भाग्यवन्तः युवजनाः अत्रत्याः तरुणाः, काम भुञ्जते अनुभवन्ति। अत्रत्यानां स्त्रीपुंसानां सौन्दर्यं लोकोत्तरमिति भावः। उपमालङ्कारः॥१५६॥

  • क इति। असौ कल्पवृक्षः स्वमात्मानम् आश्रितानां सुमनसां विदुषां देवानां पुष्पाणां च। सारान् श्रेष्ठान् अंशान् धनरूपान् मकरन्दरूपांश्च भागान् प्रसह्य बलात्कृत्य, हरतः मधुपान् मद्यपायिनः भृङ्गांश्च, महामोदतः अतिसुगन्धेन च अतिसन्तोषेणेति वा उपलक्षितः धत्ते। शिरसीति शेषः। सम्मानयतीत्यर्थः। इति यत्, असौ शिरसि मधुपधारणरूपः कल्पतरोः को वा गुणः न कोऽपि। किन्तु दोष एवेत्यर्थः। स्वसेवकैः विद्वद्धनापहरणस्य किरातराजप्रायतासूचकत्वादिति भावः। कर्णे सूर्यपुत्रे तु दातरि अर्जुनायाः शुभ्रायाः, अर्जुनस्य पार्थस्य च कीर्तेर्हानौ परता आसक्तिरस्ति। अयं दोषस्तस्मिन्नस्तीत्यर्थः। एवमग्रेऽपि कालाम्बुदे वार्षिकमेघे गर्जन स्वकत्थन स्तनित च अस्ति। आन्ध्रदेशनृपतिषु पुनः नीरन्ध्र अविच्छिन्नं स्पर्शनं दानं, अनघउक्तदोषरहित सद् आस्ते जागर्ति।व्यतिरेकालङ्कारः “उपमानाद्यदन्यस्य व्यतिरेकः स एव सः।” इति तल्लक्षणात्॥१५७॥*

  • वयस्येति। वयस्य भो मित्र, अत्रास्मिन् गोदावरीतीरे केषाञ्चिदेषां दृश्यमानानाम् अवनीदिविषदां ब्राह्मणानां, अति अत्यन्तं शिवपूजायां लोलुपताम् आसक्तिं पश्य॥५७॥*

गोदावरीविमलतीर्थकृतावगाहा
लिङ्गेषु सैकतमयेषु शिवं विभाव्य॥
भक्त्या तिलाक्षतसुमैरपि बिल्वपत्रै-
रर्चामिहावनिसुराः परिकुर्वतेऽमी॥१५८॥

सभक्त्युद्रेकम्—

नमामि गिरिनन्दिनीरमणपादपूजाहृता-
मिताघनिकरान् कराञ्चितवराक्षमालान् सदा॥
अमूनमलचेतसश्शम-दमादियोगावहान्
श्रुतेर्गुणनिकानिकामपरिपूतवक्त्राम्बुजान्॥१५९॥

अहो कृष्णागोदावरीमध्यमध्यासीनानाममीषां वैदिकानामभिनन्वनीयोऽयमनपायः सम्प्रदायः॥५८॥

निगमपाठनिराकृतदुष्कृता
नयविदो बहवोऽत्र धरासुराः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • गोदावरीति। इह गोदावरीतीरे अमी अवनीसुराः ब्राह्मणाः, गोदावर्या नाम नद्याः विमले तीर्थे जले कृतावगाहाः कृतस्नानाः सन्तः सैकतमयेषु वालुकानिर्मितेषु लिङ्गेषु। “सिकताः स्युर्वालुकापि” इत्यमरः। शिव भक्तकल्याणदायिनं श्रीशङ्करं विभाव्य ध्यात्वा, भक्त्योपलक्षिताः तिलमिश्रैः अक्षतैः सुमैः पुष्पैः, बिल्वपत्रैरपि करणैः। अर्चाम्पूजां परितः कुर्वते। तिलादिभिः शिवपूजनअत्यन्तश्रेयः सम्पादकम्। तदुक्तम् — “बिल्वपत्रैः प्रशस्तैर्वा पुष्पैर्वा तुलसीदलैः। तिलाक्षतैर्यजेद्देवं जीवन्मुक्तो न संशयः॥” इति॥१५८॥*

*** नमामीति।** गिरिनन्दिनीरमणस्य पार्वतीपतेः पादयोः पूजया हृतःअमितानां …..तानाम् अघानां पापानां दुःखानां वा निकरः राशिःयेषां तान्। सदा करे अश्चिता सङ्गता वरा च अक्षमाला अकारादिहकारान्तवर्णप्रतिनिधिर्माला रुद्राक्षस्फटिकादिनिर्मिता येषां तान्। श्रुतेर्वेदस्य गुणनिकया अध्ययनावृत्त्या निकामम् अत्यन्तं परिपूतं पवित्रितं वक्त्राम्बुजं मुखकमलं येषां तान्। अमलचेतसः अत एव शमः अन्तरिन्द्रियनिग्रहः, दमः बाह्येन्द्रियनिग्रहः तावादिर्येषां तादृशान्, योगान् मुक्त्युपायान्आवहन्ति सम्पादयन्तीति तथोक्तानमून् गोदावरीतीरवासिनः, नमामि॥१५९॥*

  • अहो इति। अहो इत्याश्चर्ये। कृष्णा च गोदावरी च तयोर्मध्यं मध्यभागमध्यासीनानाम् अधिष्ठितानाम् अमीषां वैदिकानां वेदविदां, अनपायः अपायरहितः सततप्रचलित इत्यर्थः। अयं सम्प्रदायः आचारः अभिनन्दनीयः प्रशंसार्हः। अस्तीति शेषः॥५८॥*

  • ** निगमेति।** निगमानां वेदानां पाठेन निराकृतं दूरीकृतं दुष्कृतं पापं यैस्तथाभूताः। नयविदः शास्त्रज्ञाः अत एव मुकुन्दः श्रीविष्णुरेव परं मुख्यम् अयनं प्राप्यस्थानं*

प्रतिवसन्तमुपात्तमखाः सुखम्
प्रतिवसन्ति मुकुन्दपरायणाः॥१६०॥

अत्रत्यानामधिकारव्यापारनिरतानाम216प्ययं खल्वकलङ्को नियमः॥५९॥

आश्रयितव्यो नरपति217रार्जयितव्यानि भूरिवित्तानि॥
आरब्धव्यं वितरणमानेतव्यं यशो दशस्वपि दिशासु218॥१६१॥

** कृ०—**समन्तादवलोक्य—

हन्त सन्ततमत्यन्तदुरितनिरता यवना एव तावदमीषु विषयेषु प्राचुर्यतः पर्यटन्ति। पश्य सखे॥६०॥

अवनावतीतपवनाश्वशोभिनो भवनागशायिभवनावमर्दिनः॥
सवनादिधर्मलवनाय दीक्षिता यवनाश्चरन्ति भुवनातिभीषणाः॥१६२॥

** वि०—**सत्यमेवमथाप्येतेषु तुरुष्कयवनेष्वनन्यसाधारणविक्रमं गुणममुं गृहाण॥६१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

येषां ते तादृशाः, बहवः धरासुराः ब्राह्मणाः, अत्र गोदावरीतीरे वसन्ते वसन्ते ऋतौ प्रतिवसन्तं, उपात्तमखाः कृतयज्ञाः सन्तः, सुख यथा तथा प्रतिवसन्ति। “वसन्ते वसन्ते ज्योतिषा यजेत” इत्यादिश्रुत्या वसन्तादिऋतुभेदेन यज्ञकर्म विहितम्॥१६०॥

  • किञ्च अत्रत्यानामिति। अत्रत्यानामधिकारव्यापारनिरतानां राजकीयकार्यतत्पराणामपि, अयं दृश्यमानः खलु अकलङ्को निर्मलः नियमः व्रतनिष्ठा॥५९॥*

  • आश्रयितव्य इति। नरपतिः राजा आश्रयितव्यः, भूरीणि बहूनि “प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुल बहु। पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च” इत्यमरः। वित्तानि धनानि आर्जयितव्यानि, वितरणं दानम् आरब्धव्यं कर्तव्यं, यशः दशदिशासु आनेतव्यं प्रापयितव्यं च। इति नियमो इति सम्बन्धः॥१६१॥*

  • हन्तेति। हन्तेति खेदे। सन्ततं निरन्तरम् अत्यन्ते दुरिते देव-ब्राह्मणद्रोहरूपे महापापकर्मणि निरता आसक्ताः यवना म्लेच्छजातीया एव तावदमीषु विषयेषु आन्ध्रदेशेषु, प्राचुर्यतः बाहुल्येन पर्यटन्ति परिभ्रमन्ति॥६०॥*

  • अवनाविति। अतीतः वेगेन निर्जितः पवनः वायुः यैस्तैरश्वैः शोभन्त इति शोभिनः। भवस्य शिवस्य, नागशायिनः विष्णोश्च, भवनानाम् आलयानाम् अवमर्दिन पातयितारः। सवनादीनां यज्ञप्रमुखानां धर्माणां वर्णाश्रमधर्माणां, लवनाय नाशाय दीक्षिताः कृतनिश्चयाः, अत एव भुवनस्य लोकस्य अतिभीषणाः यवनाः म्लेच्छाः अवनौ आन्ध्रदेशभूमौ सर्वत्र चरन्ति॥१६२॥*

  • सत्यमिति। सत्यमेव ‘भव-नागशायि-’ इत्यादिना प्रतिपादित दूषणम् अस्त्येव*

युद्धाय प्रमिलन्तु हन्त पटवो219 योधाः सहस्राधिका
यद्येकोऽपि बलात्तुरुष्क-यवनेष्वारूढघोटो भटः ॥
निस्त्रिंशं परिकम्पयन् स्वकटकान्निष्क्रामति क्रोधतः
सर्वे ते कृपणास्तृणान्यशरणाः खादन्ति सीदन्ति च ॥१६३॥

किञ्च—

पिबन्तु मदिराममी परितुदन्तु देशानहो
हरन्तु परसुन्दरीरपलपन्तु वेदानपि ॥
तथापि च मृधाङ्गणे220 तृणवदेव मुक्त्वा तनुं
हठाद्विदधते मरुत्पुरकपाटिकोद्धाटनम् ॥१६४ ॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

अथापि एतेषु तुरुष्कयवनेषु तुरुष्कदेशीययवनजनेषु, अन्यसाधारणः इतरजनसदृशः न भवतीत्यनन्यसाधारणः स चासौ विक्रमः पराक्रमस्तद्रूपम् अमु गुणं गृहाण॥६१॥

*** युद्धायेति।** पटवः रणे समर्थाः सहस्रादधिकाः असङ्ख्याताः योधाः तुरुष्कयवनभिन्नजातीयाः योद्धारः, युद्धाय युद्धं कर्तुम् “क्रियार्थोपपद—”इत्यादिना चतुर्थी। प्रमिलन्तुं सङ्गच्छन्ताम्। अतिसर्गे लोट्। हन्तेत्याश्चर्ये। तदा तुरुष्केषु यवनेषु मध्ये, निर्धारणे सप्तमी। एकोऽपि किमुत द्वित्रादयः। भटः योद्धा आरूढः घोटः अश्वः येन स तथोक्तः सन्, निस्त्रिशं खड्ग “तूण्यां खड्गेतु निस्त्रिंश-चन्द्रहासासिरिष्टयः” इत्यमरः। परिकम्पयश्च सन् स्वकटकात् स्वसैन्यात्, बलाद् वेगात्, क्रोधतः क्रोधेन च निष्क्रामति निर्गच्छति यदि। तदा ते पूर्वोक्ताः सर्वे भटाः अशरणाः रक्षकरहिताः अत एव कृपणाः दीनाश्च सन्तः, तृणानि खादन्ति भक्षयन्ति, सीदन्ति विषण्णा भवन्ति च। तृणभक्षकान् वल्मीकारूढांश्च वीरास्त्यजन्तीति प्रसिद्धेरिति भावः ॥१६३॥*

  • ** पिबन्त्विति।** यद्यपि अमी तुरुष्का यवनाश्च मदिरां मद्यं पिबन्तु, देशान् परितुदन्तु त्रासयन्तु, परेषां सुन्दरीः स्त्रियः हरन्तु, वेदान् तदुक्तकर्माणि अपलपन्तु दूषयन्तु। अपिः समुच्चये। सर्वत्र अतिसर्गे लोट्। अतिसर्गः कामचारानुज्ञा। तथापि मृधाङ्गणे युद्धदेशे तनु शरीरम्। चस्त्वर्थः। तृणमिव तृणवन् मुक्त्वात्यक्त्वा, हठाद् बलान् मरुतां देवानां पुरं स्वर्गस्तस्य कपाटिकायाः कपाटस्य उद्घाटनं विदधते कुर्वन्त्येव। भगवता श्रीकृष्णेनाप्येतदेवोक्तमर्जुनं प्रति—“हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्” इति॥१६४॥*

अथ कर्णाटदेशवर्णनम्—१४.

<MISSING_FIG href="../books_images/U-IMG-1722250251Screenshot2024-07-28191434.png"/>

इति व्योमयानमन्यतः स्पन्दयन्नग्रतो दृष्ट्वा सप्रत्यभिज्ञम् —

कर्णाटदेशो यः पूर्वं कर्णदेशमभूषयत्॥
स एष साम्प्रतं पश्य चक्षुषोर्भूषणायते॥ १६५॥

लोचनासेचनकं किल देशस्यास्य रामणीयकम्॥ ६२॥

युग्मकम्—221

प्रतिनगरमिहारामाः प्रत्यारामं पचेलिमाः क्रमुकाः॥
प्रसवाः प्रतिक्रमुकमप्युत्सर्पति222 मधुततिः प्रतिप्रसवम्॥१६६॥

प्रतिमधुबिन्दु मिलिन्दाः प्रेङ्खन्ति प्रतिमिलिन्दमारावाः॥
प्रत्यारावं सुदृशां मदा उदाराः प्रतिमदं मदनः॥१६७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • अथ कर्णाटदेशवर्णनप्रस्तावार्थमाह—इतीति। व्योमयान विमान अन्यतः स्पन्दयन् गमयन्, अग्रतः अग्रभागे दृष्ट्वा, प्रत्यभिज्ञा पुरोवर्तिनि पूर्वज्ञानविषयाभेदावगाहि ज्ञानं तत्सहित यथा तथा। प्राहेति शेषः।—*

  • कर्णाटेति। यः कर्णाटो नाम देशःपूर्वं कर्णदेश श्रोत्रभागं, अभूषयद् अलङ्कृतवान् श्रुतः इत्यर्थः। स एषः कर्णाटदेशःचक्षुषोर्भूषणायते अलङ्कारवदाचरति दृश्यत इति भावः। साम्प्रतम् इदानीं “एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा” इत्यमरः। पश्य। तमिति शेषः॥१६५॥*

  • लोचनेति। अस्य कर्णाटनाम्नो देशस्य रामणीयकं रमणीयत्वं लोचनयोः नेत्रयोः आसेचनकं चिरं दर्शनेपि तृप्त्यजनकम्। “तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्” इत्यमरः। किल निश्चयेन॥६२॥*

  • रामणीयकमेव युग्मकेनोपपादयति**—प्रतिनगरमिति।** इह कर्णाटदेशे नगरे नगरे इति प्रतिनगरम्। वीप्सायामव्ययीभावः। एवमग्रेऽपि। आरामाः उपवनानि। “आरामः स्यादुपवन” इत्यमरः। प्रत्यारामं प्रत्युपवनं च वाक्यत्रयेऽपि विलसन्तीति योज्यम्। पचेलिमाः पाकाभिमुखाः, क्रमुकाः पूगवृक्षाः, प्रतिक्रमुक च प्रसवाः पुष्पाणि, “स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने” इत्यमरः। प्रतिप्रसवं च मधुनः मकरन्दस्य ततिः बिन्दुसमूहः, प्रतिमधुबिन्दु च मिलिन्दाः भ्रमराः प्रेङ्खन्ति भ्रमन्ति। प्रतिमिलिन्द प्रतिभ्रमर च आरावा गुजारवाः, भवन्तीति शेषः। प्रत्याराव प्रतिगुञ्जारवं च सुदृशां स्त्रीणाम् उदाराः महान्तः, मदाः विलासाः, प्रतिमदं च मदनः कामः, उद्भवतीत्यर्थः॥१६६॥१६७॥*

*** *** **कृशानुः—**हन्त कथमभिनन्दयसि निन्दनीयममुं देशम्॥६३॥

तथाहि—

वेद-वैदिक-विद्वेषदूषिता भस्मरूषिताः॥
चण्डाः सन्त्यत्र पाखण्डा लिङ्गालिङ्गितवक्षसः॥१६८॥

आकर्णय तावदन्यदप्यमीषामपचरितम्॥६४॥

शिरः पुरारेर्द्विजराजपादविव्यामृतैः सिक्तमितीर्ष्ययेव।
शूद्रा इमे लिङ्गधराः स्वयं तत्स्वपादतोयैः स्वपयन्ति कष्टम्॥१६९॥

** वि०—**सखे मैवं सङ्गदिष्ठाः223। यदस्मिन्देशे यदुशैलप्रभृतीनि दिव्यक्षेत्राणि दृश्यन्ते॥६५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • ** हन्तेति।** हन्त निन्दनीय निन्दितुं योग्यम् अमुं देशं, कथमभिनन्दयसि आनन्दयसि। एतद्दर्शनेन आनन्दं करोषीत्यर्थः॥६३॥*

  • ** वेदेति।** वेदानां वैदिकानां च विद्वेषेण दूषिताः दोषयुक्ताः, भस्मना भूत्या “भूतिर्भसित-भस्मनि” इत्यमरः। रूषिताः विलिप्तशरीराः, अत एव चण्डाः भयङ्कराःकोपयुक्ता वा। पाखण्डाः वेदशास्त्रभ्रष्टाः, लिङ्गैः रूप्यमयैः आलिङ्गितानि वक्षांसि येषां तथाभूताः, अर्थात् ‘लिङ्गाईत’ इति महाराष्ट्रभाषाप्रसिद्धा लोकाः। एतेषां हि वक्षसि-लिङ्गधारणं कुलपरम्पराप्राप्तम्। अत्र कर्णाटदेशे सन्ति॥१६८॥*

*** आकर्णयेति।** अपचरितं दुराचारः। अन्यत्सुगमम्॥६४॥*

  • एते लोका हि स्वपादोदकेन शङ्करमभिषिञ्चन्ति, अयमेव तेषां महाननाचारः इति सोत्प्रेक्षमाह—शिर इति। पुरारेः श्रीशङ्करस्य शिरः द्विजराजस्य ब्राह्मणश्रेष्ठस्य पादयोः, द्विजराजश्चन्द्रः “द्विजराजः शशधरः इत्यमरः। तस्य पादानां किरणानां च इति वा। किंवा द्विजस्य पक्षिणः अर्थाद् गरुडस्य राजा अधिपतिर्विष्णुः तस्य पादसम्बन्धीनि यानि दिव्यामृतानि गङ्गाजलानि तैः, पक्षे पीयूषैः, पक्षे शुद्धजलैरिति च।
    अत्र मुद्रितैकस्मिन्पुस्तके द्विजराजशब्दस्य ब्राह्मणश्रेष्ठ इत्यर्थान्तरं टीकाकारोक्तं टिप्पणीकारेण ‘गङ्गायाः ब्राह्मणपादजलत्वेन कुत्रापि प्रसिद्ध्यभावात्’ इति हेतुपुरस्कारेण खण्डितम्। परं च तेन टीका नैव सम्यगवलोकितेति प्रतिभाति। टीकायां ‘द्विजराजपाददिव्यामृतैः’ इत्येतद्धटकदिव्यामृतशब्दस्य दिव्यजलैरित्येवार्थः कृतः, नतु गङ्गाजलैरिति। किञ्च ‘ईर्ष्ययेव’ इत्युत्प्रेक्षास्वारस्यार्थन्तादृशार्थकरणमेव युक्ततरम्। न हि तावच् चन्द्रेण सह तेषामीर्ष्यासम्भवति। नापि विष्णुना सह। शैवमताभिमानिनस्ते श्रीविष्णुं मा भजन्तु परतु न तस्मै ईर्ष्यन्ति। तादृशसामर्थ्याभावात्। इति ममाभिप्रेतम्। अत्रापि युक्तायुक्तविवेचनं विद्वदधीनम्। सिक्तम्अभिषिक्तम्इतीर्ष्ययैव अक्षमयैवेत्युत्प्रेक्षा। “अक्षान्तिरीर्ष्यासूया तु” इत्यमरः। इमे शूद्राः अनेन तेषामनधिकारित्वं द्योतितम्। स्वयं लिङ्गधराश्च सन्तः तत् शिवशिरः स्वपादतोयैः स्वकीयचरणोदकैः स्नपयन्ति अभिषिञ्चन्ति। कष्टम् अन्याय्यम्॥१६९॥*

  • सस्व इत्यादि। मैवं सङ्गदिष्टाः मा वद। ‘गदी देवशब्दे’ इति चौरादेरुभय-*

दुरितमवनतानां दुर्निरोधं224 निरुन्धन्
सितमतिभिरतन्द्रैः225 सेव्यमानो मुनीन्द्रैः॥
यदुगिरिरयमिन्धे यत्र नारायणात्मा
विलसति226 किल हर्षन्नीलमेघः प्रवर्षन्॥१७०॥

सभक्त्युन्मेषम्227

यदुगिरितटागारा स्वाराजमौलिपरिस्फुर-
न्मणिगण228महोधारा नीराजिताङ्घ्रिसरोरुहा॥
नवजलधराकारा नारायणाह्वयभूषिता
निरवधि229दयासारा सा राजते परदेवता॥१७१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

पदिनो धातोर्माङ्योगे लुडि आत्मनेपदे रूपम्। “अनित्यण्यन्ताश्चुरादेयः” इति पक्षे णिजभावः। यद् यस्माद् अस्मिन् देशे यदुशैलः ‘नारायणपुरम्’ इति भाषाप्रसिद्धः। प्रभृतिः प्रमुखो येषु तादृशानि दिव्यक्षेत्राणि दृश्यन्ते। अनेन दिव्यक्षेत्रसत्त्वादेवाय देशो न दूषणीय इति सूचितम्॥६५॥

  • दुरितमिति। अवनतानां भक्त्या नम्राणां दुर्निरोधं नाशयितुमशक्यं, दुरितं पापं निरुन्धन् विनाशयन्, अतो हेतोरेव सितमतिभिः शुद्धबुद्धिभिः अतन्द्रैः आलस्यरहितैश्च, मुनीन्द्रैः सेव्यमानः सन्, अयं यदुगिरिः यदुशैलः इन्द्धेप्रकाशते। यत्र यस्मिन् पर्वते नारायणात्मा भगवद्विष्णुरूपः नीलमेघः हर्षमानन्दं प्रवर्षन् सन्, विलसति किल शोभते। एतेन भगवतो मेघरूपवर्णनेन “मेघ-पर्वतयोरब्धि-चन्द्रयोर्दृष्टिरम्ययोः। शिखि-तोयदयोर्लोके सिद्धा मैत्री स्वभावतः” इत्यौचिती प्रदर्शिता॥१७०॥*

  • यदुगिरीति। यदुगिरेस्तटं शिखरम् अगारं निवासभवन यस्याः सा “भवनागारमन्दिरम्” इत्यमरः। स्वाराजस्य स्वर्गाधिपतेरिन्द्रस्य मौलौ मस्तके परिस्फुरन्तः प्रकाशमाना ये मणिगणा रत्नसमूहास्तेषां यानि महांसि तेजांसि तेषां धाराभिः परम्पराभिः नीराजिते प्रदीप्ते अङ्ग्घ्रिसरोरुहे चरणकमले यस्याः सा। अर्थान्नमस्कारावसरे इति ज्ञेयम्। एतेनेन्द्रादयोऽप्येतद्दर्शनार्थमत्रागच्छन्तीत्यतोऽतिशयमाहात्म्यमस्य पर्वतस्य सूचितम्। नवजलधरस्य नूतनमेघस्यैवाकारो यस्याः सा, निरवधिर्निःसीमः दयासारः कृपासामर्थ्यं यस्याः सा, नारायण इत्याह्वयेन नाम्नाभूषिता एतादृशी सा परदेवता राजते शोभते॥१७१॥*

  • *पुनः सविस्मयम्—

यः प्रभुर्यादवक्ष्माभृत्पुरस्कृत्या पुरा बभौ॥
अधुना यादवक्ष्माभृदधःकृत्या230 स भात्यहो॥१७२॥

सश्लाघम्—

भूभृत्यस्मिन् पक्षिराजेन पूर्वं श्वेतद्वीपादाहृतां श्वेतमृत्स्नाम्॥
धन्या नित्यं धारयन्तो ललाटे मालीमस्यं मानसं231 निर्मृजन्ति॥१७३॥

किञ्च—

विष्णुपद्याकलनया विश्रुतो232 विमलाशयः॥
कासारोऽत्र हरत्येनः कविः कंसारिभागिव॥१७४॥

इति विमानमितरत्र परिस्पन्दयन् सानन्दम्—

रजतपीठपुरं ननु काञ्चनश्रियमिदं वहते महदद्भुतम्॥
इह वसन् शुभरीतिवहो233 बुधः परमयोगत एव विराजते॥१७५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • किञ्च य इति। यः प्रभुः नारायणः पुरा कृष्णावतारे यादवानां क्ष्माभृद्राजा उग्रसेनः तस्य पुरस्कृत्या राज्यप्रदानरूपपूजया, यादवानां तु ययातिशापाद् राज्यासनानर्हत्वमिति भावः। ययातेः शापप्रकारस्तु श्रीमद्भागवतस्य नवमस्कन्धतो ज्ञातव्यः। कृष्णेनोग्रसेनाय राज्यं कथं समर्पितमित्यपि भागवतदशमस्कन्धपूर्वार्द्धतोऽवगन्तव्यम्। बभौ शुशुभे। स एव नारायणः अधुना साम्प्रत यादवक्ष्माभृतो यदुशैलस्य, अधःकृत्या अधोभागकरणेन भाति। अहो आश्चर्यमिदम्। श्लेषेण विरोधालङ्कारः॥१७२॥*

*** भूभृतीति।** अस्मिन् भूभृति पर्वते “भूभृद्भूमिधरे नृपे” इत्यमरः। पूर्वं कृतयुगे श्वेतद्वीपात्, पक्षिराजेन गरुडेन आहृतामानीताम्, श्वेतमृत्स्नां श्वेतमृत्तिकां गोपीचन्दनरूपाम्। “मृत्सा मृत्स्नाच मृत्तिका” इत्यमरः। नित्य ललाटे मस्तके तिलकरूपेण धारयन्तः अत एव धन्याः पुण्यवन्तः सन्तः, मालीमस्य मलीमसमेव मालीमस्य स्वार्थे ष्यञ्। मलिनमित्यर्थः। मानसं मनः ‘मानसात्’ इति पाठे मालीमस्य मलिनत्वमित्यर्थः। निर्मृजन्ति शोधयन्ति॥१७३॥*

  • विष्णुम्पद्येति। किञ्च विष्णुपद्याः गङ्गायाः “गङ्गा विष्णुपदी जह्नुतनया” इत्यमरः। विष्णोः सम्बन्धिपद्यानां श्लोकानाम् आकलनया सङ्गत्या रचनया च, विमलःनिर्मलःआशयः अभिप्रायः स्थान च यस्य सः, अत एव विश्रुतः प्रसिद्धः। कासारः सरोवरं, अत्र यदुशैले कंसारिं श्रीकृष्णं भजतीति कसारिभाक् कृष्णभक्त इत्यर्थः। कविरिव एनः पापं हरति। उपमालङ्कारः॥१७४॥*

  • ** इतीति।** परिस्पन्दयन् गमयन्। सुलभमन्यत्।*

  • ** रजतेति।** रजतपीठं नाम पुरं नगरं ‘सुवनूरु’ इति कर्णाटभाषानाम। इद*

  • *पुनः सश्लाघम्—

अच्छै234र्द्विजेन्द्रैरमृताभिलाषादासेवितो भुध्यभिजातकीर्तिः॥
आनन्दतीर्थाह्वयमत्र कश्चिदन्वर्थमन्नाविरमून्मुनीन्द्रः॥१७६॥

** कृ०—**अस्तु तावदेवमथाप्यदसीयदर्शनानुवर्तिनामधुनातननां द्विजानामपि बहव आकर्ण्यतामपचाराः॥६६॥

सततमकृतसन्ध्योपास्तिरभ्यस्तशस्त्रः
सवितरि गतबाल्ये काल्यसन्ध्यामुपास्ते॥
तदपि भुवि न मान्यं मन्यते धन्यमन्यत्
त्यजति विहितहानात्साध्वसं माध्वसङ्घः॥९७७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

काञ्चनस्य सुवर्णस्य श्रियं शोभां पक्षे काञ्चन अवर्णनीयां श्रियमिति च, वहते धारयति। एतन्महद्भुतम् महदाश्चर्यम्। रजतस्य काञ्चनशोभाधारणत्वमत्यन्ताश्चर्यावहमिति भावः। कुतः इह रजतपीठपुरे वसन् वासं कुर्वन्, शुभां रीतिम् आचारम् आरकूट च वहतीति तद्वहः “रीतिः स्त्रियामारकूटः” इत्यमरः। परमश्चासौ योगः समाधिः तेन, सार्वविभक्तिकस्तसिः। पक्षे परम् अयति लोहे गतःप्राप्त एवेति च। बुधः आनन्दतीर्थनामा ज्ञानी विराजते शोभते॥१७५॥

  • अच्छैरिति। अच्छैः शुद्धान्तःकरणैः शुभ्रैश्च द्विजेन्द्रैः ब्राह्मणश्रेष्ठैःपक्षिश्रेष्ठैः राजहंसादिभिश्चअमृतस्य मोक्षस्य जलस्य च अभिलाषाद् इच्छायाः, हेतौ पञ्चमी। आसेवितः। भुवि अभिजाता कीर्तिर्यशः पङ्कश्च यस्य सः अत एव आनन्दतीर्थमिति आह्वयं नाम अन्वर्थयन् यथार्थं कुर्वन्, अत्र कश्चिन्मुनीन्द्रः आविरभूत् प्रकटो बभूव॥१७६॥*

  • अस्त्विति। अस्तु तावदेवं त्वदुक्तप्रकारं, अथापि अमुष्य आनन्दतीर्थस्य सम्बन्धि अदसीयं तच्च तद्दर्शनं शास्त्रं च तदनुवर्तिनां तदनुसारिणाम् अधुनातनानां, इदानीन्तनानां द्विजानां ब्राह्मणानामपि, आकर्ण्यतां बहवः न तु एकः, अपचाराः अनाचाराः॥६६॥*

  • ** सततमिति।** मध्वस्य आनन्दतीर्थस्येमे माध्वाः तेषां सन्थः समुदायः, सततं निरन्तरम् अकृता नाचरिता प्रातः कालविहितायाः सन्ध्यायाः उपास्तिरनुष्ठान ये तथाभूतः सन्नेव, अभ्वस्तशास्त्रः सन्नपि, न तु अज्ञः, सवितरि सूर्ये, गतं बाल्य उदयावस्था यस्य तथाभूते सति, काले प्रातःकाले विहिता काल्या सा चासौ सन्ध्या च तो उपास्ते। तथा च एतादृशसन्ध्यानुष्ठानं निष्फलमेव। “उत्तमा तारकोपेता मध्यमा लुप्ततारका।अधमा सूर्यसहिता प्रातः सन्ध्या त्रिधा स्मृता॥” इति स्मृतेः। तदपि एवमनाचारं कुर्वन्नपि, भुवि अन्य मतान्तरस्थं मान्यं विद्वांसमपि, धन्यं यथोक्तकर्मानुष्ठानादिना पुण्यवन्तं च न मन्यते। तस्य महत्त्वं नैव गणयतीत्यर्थः। अपि च*

    • किञ्च—

गायत्रीं सहसा जहद्भगवतीं यज्ञोपवीतं त्यजन्
मुञ्चन् किञ्च शिखां विरक्त इव यः सम्प्राप्ततुर्याश्रमः॥
आरूढश्चतुरन्तयानमभयो हा हन्त देशान्तरे-
ष्वर्थानामुपसङ्ग्रहाय विचरत्येषोऽप्यमीषां गुरुः॥१७८॥

अहो महानेष व्यामोहो विदुषामपि कलिमाहात्म्यात्॥ ६७॥

पश्य—

यस्य क्वापि विलोकने सबसनं स्नानं बुधैः स्मर्यते
यस्यान्नग्रहणे च निष्कृतितया चान्द्रायणं चोदितम्॥
तस्य प्रत्युत वाहनस्थितयतेर्दृष्टिर्विमुक्तिप्रदा
तस्यान्नं च समस्तपापहृदिति प्रत्येति विद्वानपि॥१७९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

विहितस्य काले सन्ध्याद्यनुष्ठानस्य हानात् त्यागात्, साध्वसं पारलौकिकभयं च त्यजति। अर्थात् शास्त्रादिकमभ्यस्यापि नास्तिक इवाचरतीति तात्पर्यम्॥१७७॥

*** गायत्रीमिति।** किञ्च यः सहसा अविवेकेन भगवतीं ज्ञानसम्पादयित्रीं गायत्रीं गायत्रीजपं जहत् त्यक्त्वा, यज्ञोपवीतं च त्यजन् त्रोटयत्वेत्यर्थः। किञ्च शिखामपि मुञ्चन् उत्पाट्य, सम्प्राप्तः स्वीकृतः तुर्याश्रमः चतुर्थाश्रमः सन्न्यासाश्रम इत्यर्थः। विरक्तइव वस्तुतस्तु अविरक्त एव, चतुरन्तयानं चतुर्भिर्वाह्य आन्दोलिकारूपमित्यर्थः। आरूढः सन्, अभयः लोक-शास्त्रभयरहितः, देशान्तरेषु अर्थानां द्रव्याणाम् उपसङ्ग्रहाय विचरति परिभ्रमति। एषः एतादृशाचारभ्रष्टोऽपि, अमीषां माध्वानां गुरुर्भवति। हाहन्तेति खेदे। वस्तुतः सन्न्यासिना विरक्तेन भाव्य, तदर्थमेव तस्य विहितत्वात्। अयं माध्वसन्न्यासी तु दम्भार्थमेव सन्न्यासाश्रमं स्वीकृत्य शिबिकामारुह्य द्रव्यमर्जयति राजादिवत्। एतेनाचरणेन विरक्तिस्तुनैव, परं विषयासक्तिरधिक वर्धते। तेन चान्ते नरकपात एव स्यादिति भावः॥१७८॥*

  • अहो इति। एष वक्ष्यमाणरूपः विदुषामपि व्यामोहो भ्रमः॥६७॥*

  • ** यस्येति।** यस्य वाहनस्थितयतेः क्वापि यत्रकुत्रापि नतु विवक्षितस्थलविशेष एव, बिलोकने दर्शने सति, बुधैः पण्डितैः सवसनं सवस्त्रं स्नानं स्मर्यते। तच्चेत्थम्—“वाहनस्थं यतिं दृष्ट्वा सचैलं स्नानमाचरेत्” इति। यस्य वाहनस्थयतेरेव अन्नग्रहणे अनस्वीकारे च सति, निष्कृतितया प्रायश्चित्तरूपेण “ब्रह्मचारि-यतीनां तु भुक्त्वा चान्द्रायणं चरेत्” इत्यादिस्मृत्या चान्द्रायण शुक्लपक्षे प्रतिपद्दिनमारभ्य एकैकान्नग्रासवृद्ध्या, कृष्णपक्षे चैकैकग्रासहान्या च भोजनरूपं, चोदितमुक्तम्। तस्य प्रत्युत विरुद्धाचरणशीलस्येत्यर्थः। वाहने स्थितस्य यतेः सन्न्यासिनः दृष्टिर्दर्शनं विमुक्तिं प्रददातीति तथाभूता, तस्यान्नं च समस्तानि निखिलानि पापानि हरतीति हृद् इति विद्वानपि, न तु अविद्वानेव। प्रत्येति जानाति निश्चिनोतीत्यर्थः॥१७९॥*

पश्य तावत्कलिकालनरपालस्य गृहस्थेषु प्रद्वेषं भिक्षुषु पक्षपातं च॥६८॥

भिक्षां कष्टमटन्ति कुक्षिभृतये पादौ गतैः क्लेशय—
न्त्याच्छन्नाः शिथिलैः पटैश्च गृहिणो जीर्णे गृहे शेरते॥
राजत्सूक्ष्मपटाः प्रशस्तशिबिकारूढा गृहिभ्योऽन्नदा
ग्रावव्यूहदृढे मठे स्थितिजुषो धन्या हि सन्न्यासिनः॥१८०॥

अन्यच्च—

अनभ्यस्य वेदानहो शास्त्रवादान्
पठन्तः स्फुटं ये बतैतन्मतस्थाः॥
अधीशाननादृत्य तद्भृत्यपूजा-
पराणां235 नराणां पदं ते भजन्ते॥१८९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

*** पश्येति।** तावत्कलिकालरूपस्य नरपालस्य राज्ञः गृहस्थेषु गृहस्थाश्रमिषु प्रद्वेष, भिक्षुषु सन्न्यासिषु “भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी” इत्यमरः। पक्षपातं च पश्य॥६८॥*

*** भिक्षामिति।** गृहिणी गृहस्थाश्रमिणः कुक्षिभृतये उदरपोषणार्थं भिक्षां भिक्षार्थम् अटन्ति सञ्चरन्ति। गतैः गमनैः पादौ क्लेशयन्ति च। शिथिलैर्जीर्णैः पटैर्वस्त्रैश्चाच्छन्नाः सन्तः जीर्णे गृहे शेरते शयनं कुर्वन्ति निवसन्तीत्यर्थः। “शीडो रुट्” इति झस्य रुडागमः। सन्न्यासिनो हि सन्न्यासिनस्तु गृहिभ्यो गृहस्थाश्रमिभ्योऽन्नदा अन्नप्रदातारः, भिक्षुभ्यो गृहस्थैरन्नं देयमिति हि वास्तवो धर्मः। राजन्तः शोभमानाः सूक्ष्माश्च पटा वस्त्राणि येषां ते तथाभूताः, बहिर्गमनवेलायामिति शेषः। प्रशस्तायां विस्तृतायां शिविकायामान्दोलिकायाम् आरूढाश्च सन्तः, ग्राव्णां पाषाणानां “पाषाण-प्रस्तरग्रावोपलाश्मानः शिला दृषत्” इत्यमरः। व्यूहैः समूहैः दृढे अभेद्ये मठे, स्थितिं वासं जुषन्ति कुर्वन्तीति तथोक्ताः ते धन्याः। धन्यपदमेतन्निन्दाद्योतकम्॥१८०॥*

  • अनभ्यस्येति। ये लोकाः वेदान् अनभ्यस्य वेदाभ्यासमकृत्वेत्यर्थः। अहो केवल शास्त्रवादानेव पठन्तः सन्तः, एतन्मतस्थाः माध्वमताभिमानिनः, वेदाध्ययनाभावे केवलं शास्त्राध्ययने दोषमाहुर्मन्वादयः। यथा — “योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम्। स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः॥” इति। ते लोकाः अधीशाननादृत्य तिरस्कृत्य, तद्भृत्यपूजापराणां तेषाम् अधीशानां भृत्यपूजायां सेवकपूजायां पराआसक्तास्तेषां, नराणां पदं स्थानं, स्फुटं स्पष्टं यथा तथा लभन्ते। बतेति खेदे। यथा तावत्प्रभुसेवामुपेक्ष्य तद्भृत्यसेवका निन्द्याःदण्डार्हाश्च भवन्ति, तथा एते माध्वा अपि निखिलपुरुषार्थसाधक वेदमनादृत्य केवल शास्त्रपठनपरा इहलोके निन्द्याः, परलोके च तीक्ष्णयमयातनाभुज एवेति भावः॥१८१॥*

    • किञ्च—

एकादश्यां कालयोर्होमहाना-
देषामग्निर्लौकिकत्वं यदागात्॥
तस्मादेषां व्यर्थहिंसानिवृत्त्यै
स्यादुत्कृष्टः पिष्टपश्वादरोऽपि॥१८२॥

** वि०—**किमरे केशवभक्तिप्रकर्षदीप्रानपि विप्रान् दूषयसि ?शुद्धा236 किल मध्वसिद्धान्तनिष्ठानामियं हृदयं जरीहरीति रीतिः237॥६९॥

आबालस्थविरं स्थिरं हरिदिने शुद्धोपवासव्रतम्॥
निष्प्रत्यूहमहर्निशं238 विजयते नारायणाराधनम्॥
श्लाघ्या भागवतेषु भक्तिरमिता239 श्रद्धा च येषां दृढा
शास्त्रे स्वीय240गुरूदिते न चरितं साध्वेषु माध्वेषु किम्?॥१८३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • एकादश्यामिति। किञ्च एकादश्याम् एकादशीदिने कालयोः प्रातः सायमित्युभयोः, सप्तमीयम्। होमहानाद् यतस्तन्मते स्नान-सन्ध्या-विष्ण्वर्चनत्रयातिरिक्तस्य कर्ममात्रस्यैकादश्यां त्यागावश्यकत्वम्। एषां माध्वानां यदा अभिः गार्हपत्यादिः लौकिकत्वम् अगात् प्राप्तः, एककालोमाकरणे अग्नेर्लौकिकत्वं श्रुति-स्मृतिविहितम्। तस्मात्कारणादेषां व्यर्थहिंसायाः प्राकृताग्नौ कृतहविस्त्यागस्य व्यर्थत्वान् निष्फलपशुहिंसायाः निवृत्त्यै निवारणार्थं पिष्टपशोः आदरोऽङ्गीकारोऽपि उत्कृष्टः स्यात्। एव च एकादश्यां होमत्यागाद् यज्ञसमये च कुत्रापि शास्त्रे अविहितस्य पिष्टपश्वालम्भनस्य च करणान् निन्द्या एवैते इति भावः॥१८२॥*

*** किमिति।** किमरे केशवभक्तेर्विष्णुभक्तेः प्रकर्षेणाधिक्येन दीप्रान् तेजोयुक्तानपि “नमि-कम्पि-” इत्यादिना रः। विप्रान् दूषयसि ? परन्तु मध्वसिद्धान्ते मध्वाचार्यप्रोक्तशास्त्रे निष्ठा आसक्तिर्येषां तेषाम् इयं वक्ष्यमाणा शुद्धा दूषणानर्हा रीतिराचारः, हृदय जरीहरीति वारंवारं भृशं वा हरति। अतिमनोहरेत्यर्थः। ‘हृञ् हरणे’ इत्यस्माद्यङलुकि लटि रूपम्। “यडो वा” इतीडागमः। “ऋतश्च” इत्यभ्यासस्य रीगागमश्च॥६९॥*

  • आबालेति। येषां माध्वानाम् आबालस्थविरं बालमारभ्य वृद्धपर्यन्तं “आड्मर्यादा-” इति समासः। हरिदिने एकादशीदिने स्थिरं शुद्धम् उपवासस्य निराहारस्य व्रत नियमः। विजयते। सर्वत्रेदमेव क्रियापदमन्वेतव्यम्। अहर्निशं निष्प्रत्यूह निर्विघ्नं यथा तथा नारायणस्य विष्णोः आराधानं सेवनं, भागवतेषु भगवद्भक्तेषु च श्लाघ्या स्तुत्या अमिता अतुला भक्तिः, स्वीयगुरुभिः उदिते कथिते शास्त्रे दृढा कदापि विना-*

एतद्गुरूणां पुनर्यतीनामेषामाकलितदोषवैधुर्या एषा शुभचर्या॥७०॥

दनुजभिदभिषेकैः सत्पुराणावलोकैः241
पुनरपहतमोहैः पुण्यतीर्थावगाहैः॥
भवकथन242विदूरैर्बह्मविद्याविचारैः
क्षणमिव शुभचर्याः243कालमेते नयन्ति॥१८४॥

यदपि तदुपरि त्वया दूषणमुपन्यस्तं तदपि मदपिहित244हृदयेभ्यो भवादृशेभ्य एव रोचते न तु गुणग्राहिभ्यः॥७१॥

तत्तद्देशनिवासिशिष्यनिवत्राणाय गुर्वाज्ञया
सञ्चारक्षम एष विन्दति यतिश्चेद्वाहनं का क्षतिः ?॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

शरहिता, श्रद्धा आस्तिक्यबुद्धिश्च विजयते सर्वोत्कर्षेण विद्यते। तस्माद् एषु माध्वेषु साधु शोभनं चरितं न किम् ! अपि तु अस्त्येवेत्यर्थः॥१८३॥

  • एतदिति। एतेषां माध्वानां गुरवस्तेषां पुनर्यतीनां सन्न्यासिनाम् एषां, आकलितं प्राप्तं दोषाणां पूर्वोक्तानां वैधुर्यमभावो यस्याः सा तथोक्ता एषा वक्ष्यमाणा शुभचर्या शुभाचरणम्॥ ७०॥—*

*** दनुजेति।** दनुजान् दैत्यान् “असुरा दैत्य-दैतेय-दनुजेन्द्रारि-दानवाः” इत्यमरः। भिनत्ति नाशयति तथोक्तो विष्णुस्तस्याभिषेकैः, भवस्य संसारस्य कथनेन विदूरैः रहितैः पुनश्च अपहृतो नष्टो मोहोऽज्ञानं यैस्तथाभूतैः, यच्छ्रवणादिमा सद्यो मोहनिराकरणं भवति तथोक्तैरित्यर्थः। सत्पुराणानां भगवच्चरितप्रतिपादकत्वेन प्रशस्तपुराणग्रन्थानाम् अवलोकैः विचारैः, ब्रह्मविद्याया बेदान्तशास्त्रस्य विचारैश्च। ‘अपहृतमोहैः’ ‘भवकथन—’ इत्यादिविशेषणद्वयमत्राप्यनुषञ्जनीयम्। पुण्यतीर्थानां गङ्गादीनामवगाहैः स्नानैश्च शुभा निर्मला चर्या आचरणं येषां तथाभूताः एते सन्न्यासिनः क्षणमिव कालं नयन्ति निर्यापयन्ति॥१८४॥*

  • ** यदपीति।** यदपि त्वया ‘सततमकृतसन्ध्योपास्तिः’ इत्यादिना तदुपरि माध्वसन्न्यासिषु दूषणमुपन्यस्तमारोपितं, तदपि मदेनाज्ञानेन पिहितमाच्छादितं हृदयमन्तःकरण येषां तेभ्यो भवादृशेभ्यस्त्वत्सदृशेभ्य एव “आ सर्वनाम्नः” इति भवच्छदस्याकारादेशः। रोचते। गुणग्राहिभ्यस्तु न, रोचते इत्यनुषञ्जनीयम्॥७१॥*

  • अथ ‘भिक्षां कष्टमटन्ति-’ इत्यादिनोक्तदूषणं निराकरोति—**ततद्देशेति।*एष यतिः माध्वसन्न्यासी गुरोः मध्वाचार्यस्य आज्ञया ‘देशान्तरनिवासिनः शिष्यान् मन्त्रोपदेशेनानुगृहाण’ इत्यात्मिकया तत्तद्देशनिवासिनः निकृष्टदेशवासिनः शिष्यनिहवस्य शिष्यसमूहस्य “समूहे निवह-व्यूह-” इत्यमरः। त्राणाय मन्त्रोपदेशद्वारेण रक्षणाय सचारे केवलं पादमात्रेण गमने अक्षमः सन् वा-

दत्तं वित्तमशेषमास्तिकजनैर्दैत्यारिनित्यार्चना-
सात्कृत्य स्वयमस्पृशन् वसति चेन्निन्दास्ति किं तावता ?॥१८५॥

किञ्च—

स्वामिनि विनियुक्तानां स्वत्वेनान्नध्यवस्यता245 यतिना॥
क्वत्यं यत्यन्नत्वं प्रत्यवयन्त्यत्र तद्भुजश्च246 कुतः ?॥१८६॥

एतेन मतान्तरस्था अपि मठाधिपतयो यतयो व्याख्याताः। इदं चावधेयम्॥७२॥

यदि कतिपये जात्वालस्या247द्यथासमयं द्विजा
बत न तनुयुः सन्ध्योपास्तिं भविष्यति किं ततः॥
निगमचरितानङ्गीकारो हि दूषणमङ्गिना-
मशकनवशाद्दोषायैषां न जात्वननुष्ठितिः॥१८७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

हन शिबिकादिरूपं विन्दति चेत् का क्षतिः हानिः ? तथा अस्ति परलोक ईश्वरो वा इति बुद्धिर्येषां तैर्जनैः दत्तं समर्पितम् अशेषं सम्पूर्णमपि वित्त दैत्यारेः श्रीविष्णोः नित्यार्चनायाः नित्यपूजायाः सात्कृत्य अध्नीनं कृत्वा “तदधीनवचने” इति सातिः। स्वयम् अस्पृशन् सन् वसति चेत्, तावता निन्दा अस्ति किम्? नास्त्येवेत्यर्थः। गुर्वाज्ञया परोपकारार्थंवाहनेन देशान्तरसञ्चारादौ न कोऽपि दोष इति भावः॥१८५॥

  • इदानीं ‘यस्य क्वापि विलोकने’ इत्यादिनोक्तं दूषणं परिहरन्नाह—स्वामिनीति। किञ्च स्वत्वेन स्वकीयत्वेन अनध्यवस्यता अनभिमन्यमानेन यतिना माध्वसन्न्यासिना, स्वामिनि विष्णौ विनियुक्तानां समर्पितानाम् अन्नानां, यत्यन्नत्वं क्वत्यं कुतः प्राप्तम् ? तथा तद् ईश्वरसमर्पितमन्नं भुञ्जन्ति ते तद्भुजः तेऽपि, अत्र भक्षणे कृते सति कुतो हेतोः प्रत्यवयन्ति दोषयुक्ता भवन्ति ? अपि तु नैव भवन्तीत्यर्थः॥१८६॥*

  • ** एतेनेति।** एतेन स्वामिनीत्यादिवचनेन मतान्तरस्थाः शाङ्कर–रामानुजीयादयः मठाधिपतयो यतयः सन्न्यासिनो व्याख्याताः दोषरहिताः कृताः। इदं वक्ष्यमाणम् अवधेयं च॥७२॥*

  • अथ ‘सततमकृतसन्ध्योपास्तिरभ्यस्तशास्त्रः—’ इत्यादिश्लोकोक्तदूषणं निवारयन्नाह—यदीति। कतिपये कतिचन नतु सर्वे, द्विजाः मध्वमतस्था ब्राह्मणाः यदि जातु कदाचिन् नतु सर्वकालं, आलस्याद् अलसस्य अशक्तेर्भावः आलस्यं तस्मात्, यथासमयं कालमनतिक्रम्य, सन्ध्योपास्तिं सन्ध्यानुष्ठानं न तनुयुः बत न कुर्युः, तर्हि ततः किं भविष्यति ? न किमपीति भावः। ननु कालातिक्रमे दोष एव शास्त्रेण विहितः, एवं सति कथमिदमुच्यते इति चेत्तत्राह—निगमेति। हि यस्मात् कारणान् निगमचरितस्य श्रुति-स्मृतिविहितकर्मणः अनङ्गीकारः नास्तिकत्वादस्वीकरणं, अङ्गिनां*

** किञ्च—

‘पन्थानमनुरुन्धानः पित्रादेर्नैव दुष्यति’।
इति स्मृतिमधीयानैरेषां दोषो हि दुर्वचः॥१८८॥

इति विमानं दूरतः समानयन् परितो दृष्ट्वा—

भाषा-वेषाचारैर्भूषाभिः पूरुषाश्च योषाश्च॥
वीक्षस्व प्रतिदेशं विलक्षणा एव हन्त लक्ष्यन्ते248॥१८९॥

** कृ०—**सखे249 वीक्षस्वेति मा वोचः। किन्तु सत्वरमतिक्राम250 कीशकल्पजनानिमान् जनपदान्॥७३॥

चन्द्रालोकचयान्धकारभरयोश्चाम्पेय-किम्पाकयो
राजत्कुण्डलिराज-राजिलकयो राजीव-धत्तूरयोः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

मनुष्याणां दूषणं भवति। किन्तु अशकनवशाद् अशक्तिपारतन्त्र्याद् अननुष्ठितिः कालातिक्रमणरूपां, जातु कदाचिदपि एषां माध्वानां दोषाय न भवति॥१८७॥

  • अथ ‘एकादश्यां कालयोर्होमहानात्-’ इत्यादि दूषणं परिहरति-पन्थानमिति। ‘पित्रादेः पितृ-पितामह-प्रपितामहादिगुरुजनस्य पन्थानम् आचरणमार्गमनुरुन्धानःअनुसरन्, नैव दुष्यति’ इत्यर्थिकां स्मृतिम् अधीयानैः,अभ्यसमानैः ज्ञानिभिः, एषां माध्वानां दोषः एकादशीदिने होमाकरणादिरूपः’ दुर्वचः वक्तुमः शक्यः। हिरवधारणे। त्वादृशैः पुरोभागिभिस्तु सुशक इति भावः॥१८८॥*

*** इतीति।** इत्युक्त्वा विमानं दूरतः दूरे। सार्वविभक्तिकस्तसिः। समानयन्परितः आसमन्ताद् दृष्ट्वा, आहेति शेषः।—*

*** भाषेति।** भाषाश्च वेषाश्च आचाराश्च तैः, भूषाभिः कटक-कुण्डल-हाराद्यलङ्कारैः करणैः, विलक्षणाः भिन्नभिन्नप्रकाराः पूरुषाः “पुरुषाः पूरुषा नराः” इत्यमराद् दीर्घादिरपि। योषाः स्त्रियश्च “स्त्रीयोषिदबला योषा” इत्यमरः। प्रतिदेशं देशे देशे। हन्तेत्यानन्दे। लक्ष्यन्ते दृश्यन्ते वीक्ष्यस्व।अवलोकय॥१८९॥*

  • एवमुक्ते अतीव निर्वेदयुक्तः कृशानुराह**—सखे इति।** हे सखे, ‘वीक्षस्व’ इति मा वोचः मा वद। ‘वच परिभाषणे’ इत्यस्माल्लुङि “अस्यति-वक्ति-” इत्यादिना अङि “वच उम्” इति उम्। माद्द्योगादडागमाभावः। किन्तु सत्वरं कीशकल्पाः वानरसदृशाः “ईषदसमाप्तौ कल्पप्-” इत्यादिना कल्पप्प्रत्ययः। जनाः येषु तान् जनपदान् देशान् अतिक्राम अतिक्रम्य गच्छ। क्रमेर्लोण्मध्यमपुरुषैकवचनम्। “वा भ्राश-भ्लाष-” इत्यादिना श्यन्विकल्पात् पक्षे शप्॥७३॥*

  • सत्वरमतिक्रमणे को हेतुरित्याह**—चन्द्रालोकेति।** चन्द्रालोकचयः चन्द्रप्रकाशसमूहश्च अन्धकारभरः अन्धकारातिशयश्च तयोः, चाम्पेय-किम्पाकयोः केसर-*

खेलत्कोकिललोक- काककुलयोः क्षीरार्णवान्ध्वोरिव
व्यक्तं पण्डित-मूर्खयोः समदृशो व्रात्या इहत्या अमी॥१९०॥

अथ वेङ्कटगिरिवर्णनम्—१५.

<MISSING_FIG href="../books_images/U-IMG-1722309649Screenshot2024-07-28191434.png"/>

** विश्वावसुः—**ओमित्यग्रे विमानमुपानयन् सानन्दं साञ्जलिबन्धं च-

सुरभितमतमालस्तोमपुष्यद्रसाल-
प्रकरतिलकसालप्रेष्ठ251सुष्ठुद्रुजालः॥
श्रितसमवनशीलः श्रीशलीलानुकूलः
शिथिलितभवमूलः सेव्यतां शेषशैलः॥१९१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

विषवृक्षयोः, सर्वत्र द्वन्द्वः। “चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः”। महाकाललतायां च किम्पाकः” इत्यमर-रत्नमालयोः। राजत्कुण्डलिराज-राजिलकयोः सुशोभितसर्पराज-डुण्डुभयोः। डुण्डुभो नाम द्विमुखो निर्विषश्च हीनसर्पः। “कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी”। “अलगर्दो जलव्यालः समौ राजिल-डुण्डुभौ” इत्युभयत्राप्यमरः। राजीव-धत्तूरयोः कमलोन्मत्तपुष्पयोः। “उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः” इत्यमरः। खेलन् मधुरविरावादिलीलां कुर्वन् यः कोकिलानां लोकः समूहः काकानां कुलं च तयोः, क्षीरार्णवान्ध्वोः क्षीरसमुद्र-कूपयोश्चेव। अयं व्यवहितोऽपि इवशब्दः उपरि सर्वत्रानुयोज्यः। इहत्याः कर्णाटदेशीयाः अमी व्रात्याः जनाः विधिवदध्ययनादिसंस्कारहीनाः, “व्रात्यः संस्कारहीनः स्यात्” इत्यमरः। व्यक्तं स्फुटं यथा तथा पण्डित-मूर्खयोः, समं न्यूनाधिकभावरहित यथा स्यात्तथा पश्यन्तीति ते तथोक्ताः सन्तीति शेषः। तस्मादचिरादेवेतः स्थानादतिक्रमणं श्रेय इति भावः॥ १९०॥

साम्प्रतं वेङ्कटाचलवर्णनार्थंविश्वावसोः कृशानुवचनाङ्गीकारपूर्विकामुक्तिमाह**— ओमिति।** ओमित्यङ्गी- कारे। तद्भाषणमङ्गीकृत्येत्यर्थः। अग्रे इत्यादि स्पष्टम्।

** सुरभीति।** सुरभितमाः अतिसुगन्धयुक्ताश्च ते तमालास्तापिच्छवृक्षास्तेषां स्तोमः समूहः। “कालस्कन्ध- स्तमालः स्यात्तापिच्छः” इत्यमरः। पुष्यन् प्रतिदिनं वृद्धिं प्राप्नुवन् रसालानाम् आम्रवृक्षाणां प्रकरः समुदायः। “आम्रश्चूतो रसालोऽसौ सहकारोतिसौरभः” इत्यमरः। तिलकाः क्षुरकवृक्षाः “तिलकः क्षुरकः श्रीमान्” इत्यमरः। सालाः सर्जसञ्ज्ञका वृक्षाश्च ते प्रेष्ठाः मुख्याः येषु तानि सुष्ठुद्रूणां शोभनवृक्षाणां जालानि वृन्दानि यस्मिन् सः। प्रेष्ठ इत्ययं शब्दः प्रियशब्दाद् इष्ठनि सिध्यति। ततश्च प्रेष्ठ इत्यस्य प्रियतम इत्येवार्थो न्याय्यः, अथाप्यत्र पूर्वापरसम्बन्धान् मुख्य इत्यर्थङ्करणं यु-

पुनःसहर्षम्—

पन्नगेषु च नगेषु खगेषु द्वीपिराजसु252 पृषत्सु दृषत्सु॥
वल्लरीषु च दरीषु झरीषु प्रार्थयन्ति जनिनत्र मुनीन्द्राः॥१९२॥

विविधनिगमसारे विश्वरक्षैकधीरे
वृषशिखरिविहारे वक्षसाऽऽश्लिष्टदारे॥
भगवति यदुवीरे भक्तबुद्धेरदूरे
भवतु चिरमुदारे भावना निर्विकारे॥१९३॥

अहो महोन्नता खल्वस्य शैलस्य धन्यता॥७४॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

क्तम्। कस्मिंश्चित् पुस्तके ‘प्रष्ठ’ इति पाठान्तरं दृश्यते, तदा तु सुतरां मुख्या इत्यर्थलाभः। श्रितानाम् आश्रितानां भक्तानामिति यावत्। समवनं सम्यग्रक्षणं तदनुरूपं शीलं स्वभावो यस्य सः। तथा श्रीशस्य श्रीनिवासाभिधविष्णुमूर्तेः लीलानां क्रीडानाम् अनुकूलः, तथा शिथिलितं भवस्य संसारस्य मूलं मायामोहरूपं येन सः। अयं शेषशैलः वेङ्कटाचलः सेव्यताम् आश्रीयताम्। त्वयेति परिशेषात्॥१९१॥

  • पन्नगेष्विति। अत्र शेषशैले पन्नगेषु सर्पेषु, नगेषु वृक्षेषु, खगेषु पक्षिषु, द्वीपिराजसु व्याघ्रराजसु, महाव्याघ्रेष्वित्यर्थः। “शार्दूल-द्वीपिनौ व्याघ्रे" इत्यमरः। पृषत्सु मृगेषु“पृषन्मृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना" इति कोशः। दृषत्सु, पाषाणेषु, “पाषाण-प्रस्तर-ग्रावोपलाश्मानः शिला दृषत्” इत्यमरः। वल्लरीषु वल्लीषु, दरीषु गुहासु वा, झरीषु जलप्रवाहेषु, मुनीन्द्राः स्थानान्तरनिवासिनः ऋषयः, जनिं जन्म “जनुर्जनन-जन्मानि जनिरुत्पत्तिरुद्भवः" इत्यमरः। प्रार्थयन्ति। सर्पवृक्षादिरूपेणाप्यत्रास्माकं जन्म भवतु इति वाञ्छन्तीत्यर्थः। एतेन तत्स्थानस्यातीव श्रेयःसम्पादकत्वं सूचितम्॥१९२॥*

*** विविधेति।** विविधनिगमानां कर्म-ज्ञानोपासनारूपविविधमार्गप्रतिपादकानां वेदशास्त्राणां साररूपःप्रतिपाद्यस्तस्मिन्, विश्वस्य जगतो रक्षायाम् एक एव धीरः समर्थस्तस्मिन्, वृषशिखरिः शेषशैलः तस्मिन् विहारः क्रीडा यस्य तस्मिन्, वक्षसा हृदयेन आश्लिष्टा दाराः भगवती लक्ष्मीपत्नी येन सः तस्मिन्, भक्तानां बुद्धेः अदूरे समीपस्थिते भक्तानामपरोक्षज्ञानविषय इत्यर्थः। उदारे महति, निर्विकारे जन्ममरणादिविकारहिते, भगवति यदुवीरे श्रीकृष्णे, भावना ध्यानरूपाऽऽसक्तिः चिरं चिरकालं निरन्तरमित्यर्थः। भवतु॥१९३॥*

  • अहो इति। अहो इत्याश्चर्ये। अस्य शैलस्य शेषाचलस्य धन्यता महोन्नता अतीव श्रेष्ठा किल अस्ति॥७४॥*

    यतः—

वैकुण्ठेऽपि निरुत्कण्ठमकुण्ठविभवं महः॥
तदत्र चित्रचारित्रं रमते रमया समम्253॥१९४॥

इति सानन्दं ध्यायति।

** क्रु०—**हन्त व्यपेतविषयान्तरव्यासङ्गं त्वदन्तरङ्गं देव एवास्मिन्ननुभवति दृढसङ्गम्॥७५॥

** वि०—**सखे सत्यमेवोदितं254 भवता॥७६॥

दधती चिराय सुदतीमुरःस्थले तदतीतसीम ददती सुखं सताम्॥
रसिकस्य चित्तमिह कस्य देवता प्रतिपन्नपन्नगनगा न गाहते॥१९५॥

** कु०—**किमरे केवलमर्थपरममुं देवमनुसन्धत्से॥७७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

कुत एतदित्यत आह**—वैकुण्ठे इति।** यद् अकुण्ठः लोकत्रयेऽपि प्रतिबन्धरहितः विभवः नित्यानन्दादिरूपम्ऐश्वर्यं, दुष्टनिराकरण-सज्जनपालनादिरूपसामर्थ्यं वा यस्य, तन् महः वैष्णवं तेजः, वैकुण्ठेऽपि निरुत्कण्ठम् आसक्तिरहितं सत्, अत्र शेषशैले चित्रं चारित्रं यस्य तथाभूतं च सत्, रमया लक्ष्म्या समं सहितं रमते क्रीडति॥१९४॥

** हन्तेति।** हन्तेत्याश्चर्ये। व्यपेतः निर्गतः विषयान्तरस्य एतद्देवताध्यानादन्यविषयस्य व्यासङ्गः विशिष्टग्रहो यस्य तत् त्वदन्तरङ्ग तव चित्तं, अस्मिन् देवे श्रीनिवासे एव दृढसङ्गम् अत्यन्तासक्तिम् अनुभवति॥७५॥

अतीवानन्देनाह विश्वावसुः—सखे इति। हे सखे, भवता सत्यमेव उदितं कथितम्॥ ७६॥

कुत इति चेत्तदाह—दधतीति। चिराय चिरकालम् उरःस्थले वक्षःस्थले सुष्ठुशोभनाः दन्ताः यस्याः सा तां लक्ष्मीमित्यर्थः। “सङ्ख्या-सुपूर्वस्य” इत्यनुवर्तमाने “वयसि दन्तस्य दतृ” इति दत्रादेशः। “उगितश्च” इति डीप्। दधती धारयित्री, तथा सतां साधूनां तत् प्रसिद्धम् अतीता निर्गता सीमा मर्यादा यस्मात् तत्निरवधीत्यर्थः। सुखं ददती अर्पयित्री। अभ्यस्तत्वान्नुमभावः। सतामित्यत्र षष्ठी प्रामादिकी। सम्प्रदानत्वाच्चतुर्थ्या विधानात्। प्रतिपन्नः स्वीकृतः पन्नगनगः शेषशैलः यया सा देवता श्रीनिवासरूपा, इह कस्य रसिकस्य ब्रह्मरसविदः। “रसो वै सः” इति श्रुतेर्ब्रह्मरसस्यैव मुख्यरसत्वम्। चित्तमन्तः करणं न गाहते न प्रविशति ? अपि तु सर्वस्यापि प्रविशतीत्यर्थः॥१९५॥

इदानीं कैश्चित् प्रतिश्रुताप्रदाने सा देवता कुप्यतीति प्रसिद्धिपुरस्कारेणाह—

इष्टप्राप्तिमनिष्टभङ्गमपि वा सम्प्रार्थ्य भक्त्या जनै-
र्यद्दातव्यमिति प्रतिश्रुतमभूद्द्रव्यं तदाप्ते फले॥
ते दास्यन्ति न चेत्स्वयं भयमसावुत्पाद्य तेषां पुनः
कृत्स्नं सार्थहिरण्यहृत्पदम् इदं गृह्णाति वृद्ध्यासमम्॥१९६॥

किञ्च—

तातेत्यामन्त्र्य कञ्चिद्वनभुवि तृषितस्तोयबिन्दून्ययाचे
कस्याप्युच्चैस्तटाकं खनत इह गिरौ हन्त मृद्भारमूहे॥
दत्तां केनापि सूनावलिमधिमुकुटं मृन्मयीमेव दध्रे
सोऽयं भूयः श्रुतिज्ञैर्भुवनपतिरिति स्तूयते ध्यायते च॥१९७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

किमरे इति। अरे विश्वावसो ! केवलमर्थपरं द्रव्यासक्तममुं देवं, एवं, पूर्वोक्तप्रकारेण, किं कुतो हेतोरनुसन्धत्से ध्यायसि ?॥७७॥

अर्थपरत्वमेवाह—इष्टप्राप्तिमिति। जनैः सेवकलोकैः इष्टप्राप्तिम् अनिष्टभङ्गं सङ्कटनाशं, वा समुच्चयार्थकः। तदुभयमपि सम्प्रार्थ्य, भक्त्या यद् द्रव्यं दातव्यं देयमिति प्रतिश्रुतं प्रतिज्ञातम् अभूत्, अथ फले प्रार्थितप्राप्तिरूपे आप्ते प्राप्ते सति, तत् पूर्वप्रतिज्ञातं ते जनाः स्वयं न दास्यन्ति नार्पयिष्यन्ति चेत्, असौ देवः तेषां जनानां भयं व्याधादिरूपम् उत्पाद्य, तेभ्यः पुनः सार्थंयथार्थे हिरण्यं धनं, अथवा हिरण्यकशिपुं, नामैकदेशे नामग्रहणात्। हरति गृह्णातीति तथाभूतं पदं वाचकः शब्दः यस्य तथाभूतः। पुनः इदं द्रव्यं वृद्ध्या अधमर्णदेयमूलाधिकद्रव्येण समं कृत्स्नं सम्पूर्णमपि गृह्णाति। दीनदयालोर्भगवत एतदनुचितमित्यर्थः॥१९६॥

किञ्च यद्ययं सर्वशक्तिमान् स्यात्तदेदमत्यन्तानुचितमित्याह—**तातेतीति।**योऽयं वनभुवि अरण्यभूमौ तृषितः सन् कचिदपि पुरुषं ‘हे तात!’ इति सकरुणमामन्त्र्य सम्बोध्य, तोयबिन्दून् उदककणान् ययाचे याचितवान्। तथा इह गिरौ शेषाचले, कस्यापि पुरुषस्य तटाकं खनतः सतः उच्चैरतिमहान्तं, हन्तेति विषादे। मृद्भारं मृत्तिकासमूहम् ऊहे धृतवान्। तथा केनाप्यज्ञातकुलगोत्रेण दत्तां समर्पितां मृन्मयीमेव मृत्तिकाप्रचुरामेव। प्राचुर्ये मयट्। सूनावलिं पुष्पमालाम् अधिमुकुटं मुकुटे इत्यर्थः। दध्रे धृतवान्। सः अयं भूयः वारंवारं श्रुतिज्ञैः वेदविद्भिः भुवनपतिरित्युक्त्वा स्तूयते, ध्यायते चेत्यपि। एतस्मात्तु दारिद्र्यसादृश्यं प्रतीयते इति भावः। एतत्कथात्रितयमपि श्रीवेङ्कटाचलमाहात्म्यतोऽवगन्तव्यम्। अत्र वाच्यया निन्दया परमकारुणिकत्व-भक्तवात्सल्यादिरूपस्तुतिप्रतीते- र्व्याजस्तुतिरलङ्कारः॥१९७॥

** ** वि०—** किमरे करुणानिधये वेङ्कटाचलपतयेऽप्यसूयसि ? शृणु तावत्॥७८॥

नियन्ता जन्तूनां निखिलजगदुत्पाद255विभव-
प्रतिक्षेपैः क्रीडन् परमपुरुषः पन्नगनगे॥
परत्वे सौलभ्यप्रकटनकृते वेङ्कटपतिः
कृपासिन्धुः कां कां ननु256मनुजलीलां न तनुते॥१९८॥

किञ्च—

किमप्युपादाय दिशन्नभीष्टं कृत्स्नं जनेभ्यः पतिरञ्जनाद्रेः॥
कृष्णावतारीयकुचैलसम्पत्प्रदानरीतिं विवरीवरीति॥१९९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • किमिति। अरे, करुणानिधये दयासागराय वेङ्कटाचलपतये श्रीशेषशैलाधिपतये श्रीनिवासायापि, असूयसि गुणेषु दोषानाविष्करोषि ?। “क्रुध-दुहेर्ष्या -" इत्यादिना चतुर्थी। शृणु तावद् वक्ष्यमाणमित्यर्थः॥७८॥*

  • नियन्तेति। जन्तूनां प्राणिनां नियन्ता अन्तर्यामित्वेन प्रेरयिता, निखिलस्य सम्पूर्णस्य जगतः उत्पादः उत्पत्तिः विभवः पालनं प्रतिक्षेपो लयस्तैः क्रीडन्, अत एव परमपुरुषः कृपासिन्धुः वेङ्कटपतिः श्रीनिवासः, स्वस्य परत्वे सर्वोत्कृष्टत्वे मनोवाचामगोचरत्वे वा सत्यपि, सौलभ्यस्य भक्त्या सुलभत्वस्य प्रकटनकृते प्रकटनार्थं, पन्नगनगे शेषशैले, कां कां मनुजलीलां मनुष्यचेष्टां न तनुते ननु न करोति ? अपि तु सर्वामपि
    करोत्येवेत्यर्थः॥१९८॥*

  • ‘इष्टप्राप्तिमनिष्टभङ्गमपि–’इत्यादिनोक्तं दूषणं परिहरन्नाह—किमपीति। अयमञ्जनाद्रेः शेषशैलस्य पतिः जनेभ्यः भक्तलोकेभ्यः सकाशात्, किमपि स्वल्पं यत्किञ्चिदपि वस्तु उपादाय गृहीत्वा, तेभ्यः कृत्स्नं यावत्तैः प्रार्थित तावत्सर्वम्अभीष्टम् इच्छितं दिशन्अर्पयन्, कृष्णावतारे भवा कृष्णावतारीया सा चासौ कुचैलसम्पत्प्रदानरीतिश्च तां, कुचैलः सुदामा नाम ब्राह्मणः कृष्णस्य सखा आसीत्। तस्मै सम्पदर्पणस्य पद्धतिमित्यर्थः। तद्वृत्तं हि श्रीमद्भागवते उत्तरार्द्धे अशीत्येकाशीतितमाध्याययोः। तदित्थम्-कुचै-लस्त्वतिदारिद्र्ययुक्तो भार्यया प्रार्थितश्च सन् मुष्टिमात्रपृथुकान् गृहीत्वा कृष्णसन्दर्शनार्थं द्वारकां गतः, तत्र च कृष्णेनातीव सत्कृतः तस्माच्चपृथुकमुष्टिं गृहीत्वा महेन्द्रतुल्यमैश्वर्यं तस्मै समर्पितवान् इति। विस्तरस्तु भागवतादेवावगन्तव्यः। विवरीवरीति अत्यन्तं प्रकटयतीत्यर्थः। विपूर्वात् ‘वृञ् वरणे’ इत्यस्माद् यङ्लुकि लटि रूपम्॥१९९॥*

प्रियसहचरी लक्ष्मीः स्थानं सहस्रवसुः स्वयं
कुवलयपतिः श्यालो रत्नाकरः श्वशुरो हरेः।
तदपि हरति द्रव्यं पूर्णो जगत्पतिरेष यत्
तदिह भजतां कर्त्तुं नृृणमुदग्रमनुग्रहम्॥२००॥

अखिलहेयप्रत्यनीकानन्तकल्याणगुणैकतानस्य विश्वनाथस्य257 श्रीनिवासाभिधानस्य परब्रह्मणो गुणार्णवामृतकणानां गणनायाम258निपुणधिषणाधिषणादयोऽपि॥ ७९॥

गाम्भीर्यैकावलम्बे गरिमनिवसतौ कान्तिकुल्यातटाके
कल्याणाम्भोजकल्ये निरवधिकरुणासारकल्लोलराशौ॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • ‘तातेत्यामन्त्र्य -’ इत्यादि दूषणं निराकरोति–प्रियेत्यादि। यस्य हरेः श्रीवेङ्कटाधिपतेः श्रीनिवासस्य प्रिया चासौ सहचरी च सा प्रियपत्नीत्यर्थः। स्वयं साक्षात्लक्ष्मीः, स्थानं निवासस्थलं च सहस्राणि वसवः धनानि किरणाश्च यस्य सः भगवान्सूर्यनारायण इत्यर्थः। “देवभेदेऽनले रश्मौ वसू रत्ने धने वसु” इत्यमरः। कुवलयानां कमलानां पतिश्चन्द्रश्च कु-वलयस्य भूमण्डलस्य पतिः सार्वभौम इति वा। श्यालः पत्नीभ्राता, रत्नाकरः समुद्रः श्वशुरः भार्यापिता। अस्तीति सर्वत्र योज्यम्। एवं पूर्णः सन्नपि अत एव जगतः पतिश्चाय अस्ति, तथापि एषः द्रव्यं भक्तप्रार्थित हरतीति यत्, तद् इह लोके भजतां, नॄणां मनुष्याणाम् उदग्रं महान्तमनुग्रहं कर्तुमेव। तदुक्तं श्रीमद्भागवते दशमस्कन्धपूर्वार्द्धे सप्तविंशेऽध्याये भगवता श्रीकृष्णेनेन्द्रं प्रति “मामैश्वर्य-श्रीमदान्धो दण्डपाणिं न पश्यति। तं भ्रशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम्” इति॥२००॥*

  • ** अखिलेति।** अखिलाः सम्पूर्णा ये हेयप्रत्यनीका दोषनाशका अनन्तकल्याणगुणास्तेषाम् एकतानस्य मुख्याधिष्ठानस्य, विश्वनाथस्य जगदधिपतेः श्रीनिवासाभिधानस्य श्रीनिवासनाम्नः परब्रह्मणः गुणार्णवस्य गुणसमुद्रस्य, अमृतकणानां सुधाबिन्दूनां गणनायां सङ्ख्याने विषये, धिषणो बृहस्पतिरादिर्येषां ते देवा ऋषयश्च। “बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः” इत्यमरः। अनिपुणधिषणाःअकुशलबुद्धयः बुद्धिसामर्थ्यहीना इत्यर्थः। भवन्तीति शेषः॥७९॥*

  • किञ्च**—गाम्भीर्येति।** गम्भीरस्य भावो गाम्भीर्यम्प्रापञ्चिकसुखदुःखविकारराहित्यं तस्य एकावलम्बो मुख्याश्रयस्तस्मिन्, गरिम्णः गौरवस्य निवसतौ निवासस्थाने। कान्तिरूपा या कुल्या अल्पा नदी “कुल्याल्पा कृत्रिया सरित्”इत्यमरः। तस्यास्तटाके सरोवरे आश्रये इति यावत्। भगवति हि सकलतेजसामाश्रयत्वम्। “यदादित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ*

चातुर्यौदार्यलक्ष्मीविहरणशरणे सद्गुणौघान् बभूवे259
देवे श्रीवेङ्कटेशे न जिगणयिषता केन वा ग्लानवाचा260॥२०१॥

किञ्च—

समग्रा हि हरेर्वेदैः समग्राहि गुणावलिः॥
प्रत्यक्षेऽपि परत्वेऽस्य प्रत्यक्षेपि च संशयः॥२०२॥

अहो महोन्नतस्याप्यस्य सौलभ्यं कनककुसुमस्य सौरभ्यमिव रसिकेभ्य एव स्वदते॥ ८०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

तत्तेजो विद्धि मामकम्॥” इति गीतावचनात् प्रसिद्धम्। कल्याणानि निःश्रेययसान्येव अम्भोजानि कमलानि तेषां कल्ये प्रातःकाले “प्रत्यूषोऽहर्मुख कल्य उषःप्रत्युषसी अपि” इत्यमरः। निरवधिर्निःसीमो यः करुणासारः दयासारस्तस्य कल्लोलराशौ महोर्मिनिधौ समुद्रे इत्यर्थः। “अथोर्मिषु। महत्सूल्लोल-कल्लोलौ” इत्यमरः। चातुर्यङ्कर्मसु कौशलं च औदार्य दातृत्व च। उदारस्य भावः औदार्यमिति विग्रहः। “उदारो दातृ-महतोः” इत्यमरः। तयोर्लक्ष्म्याः समृद्धेः विहरणशरणं क्रीडागृहं तस्मिन्, देवे स्वप्रकाशे श्रीवेङ्कटेशे विषये, सतां प्रशस्तानां गुणानाम् ओघान् समूहान्। “सत्ये साधौविद्यमाने प्रशस्तेऽभ्यर्हिते च सत्।”इत्यमरः। जिगणयिषता गणनां कर्तुमिच्छता। गणयतेः स्वार्थिकण्यन्ताच्चौरादिकात्सनि शतृप्रत्ययः। केन पुरुषेण ग्लानवाचा श्रान्तवचनेन न बभूवे। को वा पुरुषः श्रान्तवाड्न बभूवेत्यर्थः। भवतेर्भावे लिट्। अत्र सर्वत्र — गाम्भीर्यैकावलम्बे ’ इत्यादौ तादात्म्येन वर्णनाद्रूपकालङ्कारः। “तद्रूपकमभेदो यः” इत्यादितल्लक्षणात्॥२०१॥

*** समग्रेति।** हरेः समग्रा हि सकलैव गुणानाम् आवलिः पङ्क्तिः वेदैः समग्राहि सम्यग्गृहीता। तथा अस्य प्रत्यक्षे दर्शने सति, परत्वे अप्रत्यक्षे विषये संशयोऽपि प्रत्यक्षेपि प्रतिक्षिप्तः निराकृत इति यावत्। अत्र पूर्वार्धे ग्रहेः उत्तरत्र च क्षिपेः कर्मणि लुडि “चिण् भाव-कर्मणोः” इति चिण्॥२०२॥*

*** अहो इति।** अहो इत्याश्चर्ये। महोन्नतस्य अतीवोच्चस्याप्यस्य वेङ्कटेश्वरस्य सौलभ्यं सुलभलं सुखेन प्राप्यत्व, कनकवर्णस्य कुसुमस्य पुष्पस्य कनकमयपुष्पस्येति वा। सुरभेः सुगन्धेः भावः सौरभ्य सुगन्धित्वं सुन्दरत्व वा “सुरभिर्हेम्नि चम्पके। जातीफले मातृभेदे रम्ये चैत्र-वसन्तयोः। सुगन्धौ” इति हैमः। रसिकेभ्य एव स्वदते रोचते॥८०॥*

पश्य—

प्रचण्डविश्वकण्टकप्रखण्डनैकपण्डितः
पतङ्गमण्डले वसन् य एष पाण्डवप्रियः॥
अकुण्ठरीतिकः प्रसन्नपुण्डरीकलोचनः
स कुण्डलीन्द्रभूधरप्रकाण्डमण्डनायते॥

अवलोकय तावदुरगवरधरणीधरशिरोमणेश्चन्द्रैवहोन्नस्वदोरसुकरवरनिकरवितरणकौशलमति-पेशलम्॥८१॥

मूकारब्धं कमपि बधिराः श्लोकमाकर्णयन्ति
श्रद्धालुस्तं विलिखति कुणिः श्लाघया वीक्षतेः
अध्यारोहत्यहह सहसा पङ्गुरप्यद्रिशृङ्गं
सान्द्रालस्याः261 शिशुभरणतो मन्दमन्दन्ति वन्ध्या..॥२०४॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • प्रचण्डेति। प्रकर्षेण चण्डा भयङ्करा ये विश्वकण्टकाः कण्टक इव जगत्त्रासोत्पादकाः कंसादयस्तेषां प्रकर्षेण समूल खण्डने एको मुख्यः पण्डितः कुशलबुद्धियुक्तः, अपि च पाण्डवप्रियः। एतद्विशेषणद्वयेन “परित्राणाय साधूनां -” इत्यादि भगवद्गीतोक्तं प्रतिज्ञावचनं स्मारितम्। यः एषः श्रीनारायणः पतङ्गमण्डले सूर्यबिम्बे “पतङ्गौ पक्षि-सूर्यौ च” इति, “बिम्बोऽस्त्री मण्डलं त्रिषु” इति चामरः। वसन्निवसतीत्यर्थः। अकुण्ठा निरन्तरं वर्तमाना रीतिः सत्परिपालनासद्दलनादिरूपा यस्य सः। प्रसन्ने विकसिते पुण्डरीके कमले इव लोचने नयने यस्य सः। स एव पूर्वोक्तःकुण्डलीन्द्रभूधरप्रकाण्डस्य प्रशस्तशेषशैलस्य “प्रशंसावचनैश्च” इति समासः। ‘कुण्डलीन्द्र’ इत्यादिपदस्योपसर्जनत्वात्पूर्वनिपातः। “मतल्लिका मचर्चिका प्रकाण्डमुद्ध-तल्लजौ। प्रशस्तवाचकानि” इत्यमरः। मण्डनायते भूषणवदाचरति। तत्र नित्यं निवसतीत्यर्थः। पञ्चचामरं वृत्तम्। “लघुर्गुरुर्निरन्तरं भजेत पञ्चचामरम्” इत्यादितल्लक्षणात्॥२०३॥*

  • अवलोकयेति। उरगवाधरणीधरस्य श्रीशेषाचलस्य शिरोमणेः भूषणभूतस्य चक्रपाणेः श्रीविष्णोः, अतिपेशलं सुन्दरम् अतितरसुकरम् अतिशयसुलभं वरनिकराणां वरसमुदायानां वितरणस्य अर्पणस्य कौशलं चातुर्यन्तावदलोकय पश्य॥ ८१॥*

  • वरार्पणकौशलमेवोपपादयति**—मूकारब्धमिति।** बधिराः कर्णरहिताः मूकैः अवाग्भिः वक्तृत्वशक्तिरहितैरिति यावत्। “अवाचि मूकः” इत्यमरः। आरब्धं पठितं कमपि ईश्वरगुणवर्णनपरं श्लोकं पद्यं “पद्ये यशसि च श्लोकः” इत्यमरः। आकर्णयन्ति शृण्वन्ति। तं च श्लोकं कुणिः छित्रहस्तः श्रद्धालुः श्रद्धायुक्तः सन् “स्पृहि-गृहि-पति-दयि-निद्रा तन्द्रा” इत्यादिना आलुच् प्रत्ययः। विलिखति। अ-*

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>^(१) ‘रनितर’

    • सर्वतः पर्वतमालोक्य सश्लाघम्—

सर्वोत्तुङ्गः ^(१)श्रितशुभगुहः साध्वभिख्यातशीलो
भास्वद्वंशोपचय262जनकः सानुजस्फूर्तिकोऽयम्॥
एनं263 नूनं क्षितिभृतमियं जानती जानकीशं
कीशश्रेणी कलय शरणीकुर्वती वर्वरीति॥२०५॥

पुनः सानन्दम्—

प्रकाशबहुपादवत्यपि फणिक्षभाभृत्यदः264
प्रकाममवलोक्यते परममन्यदत्यद्भुतम्॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

न्धो नेत्ररहितश्च श्लाघया प्रशंसया युक्तः, वीक्षते अवलोकयति। अहह इत्याश्चर्ये। पङ्गुः पादरहितोऽपि सहसा त्वरया अद्रिश्रुङ्गं पर्वतशिखरम् अध्यारोहति। तथा वन्ध्याः स्त्रियस्तु शिशुभरणतः बालधारणतः पोषणतो वा, सान्द्रालस्याः अतिशयालस्ययुक्ताः सत्यः, मन्दमन्दन्ति अतिमन्दा भवन्ति। “सर्वप्रातिपादिकेभ्यः क्विब्वा वक्तव्यः” इति मन्दमन्दशब्दात् क्विपि रूपम्। मूकादयस्त्वीप्सितफलं सम्प्राप्यैवं कुर्वन्तीत्यर्थः। एतच्चरित्राणि श्रीवेङ्कटेश्वरमहात्म्यादिपुराणतोऽवगन्तव्यानि॥२०४॥

  • ** सर्वत** इत्यादि सुलभम् —*

  • ** सर्वोत्तुङ्ग इति।** अयं शेषाचलः सर्वेभ्यः शैलेभ्यः पक्षे जनेभ्यः उत्तुङ्गः उन्नतः श्रेष्ठश्व, श्रिताः स्थिताः शुभा गुहाः कन्दराः, पक्षे श्रितः आश्रितः शुभगुहः एतन्नामा कश्चिन्निषादश्च येन सः, साधुषु मध्ये अभिख्यातं प्रसिद्धं शीलं सद्वृत्तं यस्य तथाभूतः, भास्वन्तः प्रकाशमानाः ये वंशाः वेणवस्तेषाम् उपचयजनकः वृद्ध्युत्पादकः, पक्षे भास्वतः सूर्यस्य वंशोपचयजनकःकुलविस्तारकरः, सानुभ्यः पर्वतशिखरेभ्यो जाता प्रथमोत्पन्ना स्फूर्तिः प्रकाशो यस्य, पक्षे अनुजानां लक्ष्मण-भरतादीनां स्फूर्त्या कान्त्या सहितः सानुजस्फूर्तिकः। अस्तीति शेषः। अत एव एनं क्षितिभृतं पर्वतं राजानं च नून निश्चयेन, जानकीशं सीतापतिं श्रीरामचन्द्रमेव जानती अवगच्छन्ती इयं कीशानां वानराणां श्रेणी पङ्क्तिः, शरणीकुर्वती रक्षकं गृहं वा कुर्वती सती, वर्वरीति भृशं पुनः पुनर्वा वृणोति वेष्टयतीति यावत्। ‘वृ॒ञ् आवरणे’ इत्यस्माद्यङ्लुकि रूपम्। कलय अवलोकय। अत्र ‘सर्वोत्तुङ्ग’ इत्यादिश्लिष्टसहेतुकविशेषणैः शैले श्रीरामसम्भावनात् श्लेषविशिष्टोत्प्रेक्षालङ्कारः॥२०५॥*

  • प्रकाशेति। प्रकाशाः दृश्याः बहवः पादाः प्रत्यन्तपर्वताः, समन्तात् स्थिताः*

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

^(१‘)सर्वोत्तुङ्गश्रितशुभगुहं साध्वभिख्यातशीतं भास्वद्वंशोपचयजनकं सानुजस्फूर्तिकायम्॥ एवं नूनं क्षितिभृतममुं’, ‘साध्वभिख्यातशीतो’.

निजोरसि पयोधर265श्चिरमचञ्चलां विद्युतम्
पयोधरमुरस्यसावपि बिभर्त्ति नित्यं निजे॥२०६॥

अथ वनवर्णनम्—१६.

<MISSING_FIG href="../books_images/U-IMG-1722273894Screenshot2024-07-29225223.png"/>

इति विमानं दक्षिणतः समानयन् सानन्दम्—

विलोकय सखे विपिनानाममीषां परमं रामणीयकम्॥८२॥

पुरः पुरो घनं वनं वने वने महागिरि-
र्महागिरौमहागिरौ विराजते गुहागृहम्॥
गुहागृहे गुहागृहे विहारतत्परो हरि-
र्हरौ हरौ निरङ्कुशः कृतेभसाध्वसो ध्वनिः॥२०७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

स्वल्पपर्वता इत्यर्थः। “पादाः प्रत्यन्तपर्वताः” इत्यमरः। पक्षे चरणाश्च विद्यन्ते अस्येति तथाभूते, फणिक्षमाभृति शेषशैले सर्पराजे च, अदः इदं वक्ष्यमाण, अन्यत्वस्तुतो गुप्तचरणस्य सर्पराजस्य प्रकाशबहुपादवत्वादितरत्, परमं महद् अद्भुतम् आश्चर्यं, प्रकामं यथेच्छम् अवलोक्यते दृश्यते। अस्माभिरिति शेषः। तत्किमित्यपेक्षायामाह—पयोधरो मेघः निजोरसि स्वकीयवक्षःस्थले, चिरम् अचञ्चलां स्थिरां विद्युत बिभर्ति। मेघसदृशः श्यामवर्णो भगवान् वक्षसि नित्यं लक्ष्मीं बिभ्रदत्र निवसतीति वास्तवोऽर्थः। असावपि विद्युदपि निजे उरसि पयोधरं मेघं वस्तुतः स्तनयुग्मं नित्यं बिभर्ति। इदमेवाश्चर्यमिति भावः। श्लेषमूलकविरोधाभासालङ्कारः। सत्यार्थेन च तत्परिहारः॥२०६॥

  • अथ विचित्रवनवर्णनप्रस्तावार्थमाह—इतीत्यादि।—*

*** विलोकयति।*हे सखे अमीषां पुरो दृश्यमानानां विपिनानामरण्यानां“अटव्यरण्यं विपिनं” इत्यमरः। परमं रामणीयक रमणीयत्वं मनोहरत्वमिति यावत्। मनोज्ञादित्वाद्वुञ्। अवलोकय पश्य॥८२॥

  • रामणीयकमेवाह**—पुर इति।** पुरः पुरः अग्रे अग्रे घन निबिडं वनं, विराजते शोभते। इदमेव क्रियापदं सर्वत्रान्वेतव्यम्। वने वने प्रतिवनं महागिरिः। वीप्सायां द्वित्वम्। एवमेव सर्वत्रोह्यम्। गुहा गृहमिवेत्युपमितसमासः। विहारे क्रीडाया तत्परः आसक्तः हरिः सिंहः। “विष्णु-सिहांशु वाजिषु। शुकाहि-कपि-भेकेषु हरिर्ना कपिले त्रिषु।” इत्यमरः। निरङ्कुशः प्रतिबन्धरहितः कृतमुत्पादितम् इभानां गजानां साध्वसं भयं येन, तादृशः ध्वनिः गर्जनम्॥२०७॥*

** कृ०—**किमरे वर्णयस्यचक्षुष्याणि मनुष्याङ्गकवलनचपलचण्डपुण्डरीकाननानि काननानि?॥८३॥

इतस्तावद्ग्रावव्यतिकर इतः सन्त्यजगरा
इतो लुण्टाकानां समुदय इतः कण्टकचयः॥
इतो व्याघ्रा उग्रा ज्वलनजनका वेणव इतो
वनं संलक्ष्यैतन्मनइदमहो मोहमयते॥२०८॥

** वि०—** सखे निपुणनिरूपणत एतेषां गुणानपि गृहाण॥८४॥

अनायासग्राह्याण्यवनिपतिभोग्यान्यपि फला-
न्ययत्नेन प्राप्या नृपसुदृगपेक्ष्याः266 सुमनसः॥
असूर्यम्पश्यान्यप्यहह सुलभान्यश्मभवना-
न्यरण्यानीभाजामतिपतति भाग्यं किल गिरः॥२०९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

*** किमिति।** अरे भो विश्वावसो, मनुष्याणाम् अङ्गानाम् अवयवानां कवलने ग्रसने चपलानि लोलुपानि अत एव चण्डानि भयङ्कराणि पुण्डरीकाणां व्याघ्राणां “व्याघ्रेऽपि पुण्डरीको ना इत्यमरः। आननानि मुखानि येषु तानि। अत एवाचक्षुष्याणि अदर्शनीयानि, काननानि वनानि किं वर्णयसि ?॥८३॥*

  • अदर्शनीयत्वमेवाह**—इत इति।** इतः एकस्मिन्स्थले, तावत्साकल्येन सर्वत्रेत्यर्थः। ग्राव्णां पाषाणानां व्यतिकरः समूहः, इतः अन्यत्र अजगराः सन्ति, इतः तदितरत्र लुण्टाकानां चोराणां समुदयः, इतः कण्टकानां चयः समुदायः इतः तद्भिन्नस्थले, उग्रा भयङ्करा व्याघ्राः, इतोऽन्यत्र ज्वलनजनकाः परस्परसङ्घर्षणेनाग्र्युत्पादकाः वेणवः कीचकाः, सन्तीत्यर्थः। एतदेव वचनविपरिणामेन यथायोग्य सर्वत्रसंयोजनीयम्। एवमेतद्वनं संलक्ष्य दृष्ट्वा, इदं मे मनः मोहं भयजन्यं भ्रमं, अयते प्राप्नोति॥२०८॥*

  • ** सख इति।** सखे हे मित्र, निपुणनिरूपणतः विचारयुक्तावलोकनं कृत्वेत्यर्थः। पञ्चम्यर्थे तसिल्। सा च ल्यब्लोपे। एतेषां वनानां गुणानपि गृहाण, नतु केवलान्दोषानेव॥८४॥*

  • तान् गुणानेवाह**—अनायासेति।** अवनिपतिभी राजभिर्भोक्तुं योग्यानि नतु साधारणैर्जनैः अपि, फलानि आम्र-दाडिमादीनि, अत्र वने अनायासेन अयत्नेन ग्राह्याणि भवन्ति। तथा नृपसुदृग्भिः राजपत्नीभिरपि अपेक्ष्याः ईप्सितव्याः, किमुतान्याभिः, सुमनसः मालती-मल्लिकादीनां पुष्पाणि “स्त्रियः सुमनसः पुष्पं” इत्यमरः। अयत्नेन प्राप्या लब्धुं शक्याः। तथा असूर्यम्पश्यानि सूर्यं न पश्यन्तीति विग्रहः। असमर्थसमासोऽयम्। “असूर्य - ललाटयोः – ” इत्यादिना खश्। “अरुर्द्विषद—” इत्यादिना च मुमागमः।*

    • अपि च—

गहनगुहाविहारिहरिपाणिरुहामिहत-
द्विरदशिरस्तटोद्गलितमौक्तिकसंहतिभिः॥
अहह विभूषितैरिह चिरं267 विहरन्ति सुखं
सममबलाजनैरतिविलासपराः शबराः॥२१०॥

अथ घटिकाचलवर्णनम्—१७.

<MISSING_FIG href="../books_images/U-IMG-1722274831Screenshot2024-07-28191434.png"/>

इति व्योमयानं दक्षिणतः प्रापयन् पुरतो निर्दिश्य—

कण्ठोपरि कण्ठीरवशुचिदंष्ट्रारुचिविचित्रचन्द्रिकया॥
स्फटिकाचल इव नयने घटिकाचल एष सम्प्रति धिनोति॥२११॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

अश्मनां पाषाणानां भवनानि गृहाणि सुलभानि यत्न विनैव लभ्यानि सन्ति। अहहेत्यानन्दे। एवं सति अरण्यानीभाजां महारण्यसेविनां “इन्द्र-वरुण-भव-” इत्यादिसूत्रेणानुगागमः डीप् च विधीयते। सच “हिमारण्ययोर्महत्त्वे” इति वार्तिकेन महत्त्वविवक्षायामेव। “महारण्यमरण्यानी” इत्यमरश्च। भाग्यं दैवं गिरः वाणीः अतिपतति अतिक्रामति। वाण्या वर्णयितुमशक्यमिति भावः। किल निश्चयेन॥२०९॥

  • गहनेति। इह शेषाचले, गहनगुहासु वनस्थगुहासु, गहनेषु अरण्येषु गुहासु चेति वा। विहर्तुं क्रीडितुं शीलं येषां ते विहारिणः तादृशानां हरीणां सिंहानां पाणिरुहैः नखैः अभिहतानां विदारितानां द्विरदानां हस्तिनां शिरस्तटाद् गण्डस्थलाद् उद्गलितानि भूमौ निपतितानि यानि मौक्तिकानि तेषां संहतिभिः समूहैः, हारैरिति यावत्। विभूषितैरलङ्कृतैः अबलाजनैः स्त्रीजनैः समं सह, अतिविलासपराः भृशं क्रीडासक्ताः सन्तः, शबराः म्लेच्छविशेषाः सुखं यथा तथा, चिरं बहुकालं विहरन्ति क्रीडन्ति। अहहेत्यानन्दे। नर्दटकं वृत्तम्। “यदि भवतो नजौ भजजला गुरु नर्दटकम्” इति तल्लक्षणात्॥२१०॥*

  • अथ घटिकाचलवर्णनं प्रस्तौति—इतीति। निर्दिश्य अवलोक्य, सुगममन्यत्।कण्ठोपरीति। कण्ठस्य उपरि ऊर्ध्वभागे, कण्ठीरवस्य सिंहस्य “सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः। कण्ठीरवः” इत्यमरः। अर्थात् कण्ठपर्यन्तं मनुष्याकारस्य तदुपरि च सिंहाकारस्येति ज्ञेयम्। शुचीनां शुभ्राणां दंष्ट्राणां स्थूलदन्तानां या रुचिः कान्तिः सैव विचित्रा आश्चर्यावहा चन्द्रिका ज्योत्सा तया स्फटिकाचल इव स्फटिकमणिमय पर्वत इव, एष दृश्यमानो घटिकाचलःनृसिंहनिवासः पर्वतः, सम्प्रति नयने नेत्रे, धिनोति प्रीणयति॥२११॥*

    • सभक्तिप्रकर्षमञ्जलिं बद्ध्वा—

वरकेतुस्थतार्क्ष्यय स्मरकेलिपुषे श्रियः॥
नरकेक्षणविघ्नाय नरकेसरिणे268 नमः॥२१२॥

किञ्च—

स्थिरशङ्खादिचिह्नाय सुरसङ्घार्चिताङ्घ्रये॥
परसंहारदक्षाय नरसिंहायमङ्गलम्॥२१३॥

जम्भदम्भहरक्षेमारम्भलम्भन269मूर्तये॥
शम्भुसम्भावनीयाय स्तम्भडिम्भाय मङ्गलम्॥२९४॥

** कु०—**किमरे क्रोधमयेऽपि नरमृगेन्द्रे स्तववचनं विरचयसि?॥८५॥

प्रह्लादमाह्लादयितुं तमेकं सर्वस्य कुर्वन् भुवनस्य भीतिम्॥
सन्दधे 270संहननं पुरा यस्तव स्तवस्तत्र कथं प्रवृत्तः ?॥२१५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

*** वरेति।** वरे श्रेष्ठे केतौ ध्वजे तिष्ठतीति वरकेतुस्थः तार्क्ष्यः गरुडः यस्य तस्मै, श्रियः लक्ष्म्याः स्मरकेलिपुषे मदनक्रीडावर्धनाय सम्भोगेच्छोत्पादकायेति यावत्। नरकस्य ईक्षणे अवलोकनेऽपि किमुत गमने, विघ्नाय प्रतिबन्धरूपाय। तद्भक्तानां नरकदर्शनमपि नैव भवतीति भावः। नरकेसरिणे श्रीनृसिंहाय नमः अस्तु॥२१२॥*

*** स्थिरेति।** स्थिराणि सर्वदा सन्ति शङ्खादिचिह्नानि शङ्ख-चक्राद्यायुधानि यस्मिन्तस्मै, सुराणां देवानां सङ्घैः समुदायैः अर्चितौ पूजितौ अङ्घ्रीचरणौ यस्य तस्मै, परेषां शत्रूणां संहारे विनाशे दक्षश्चतुरः समर्थो वा तस्मै, नरसिंहाय मङ्गलम्। अस्त्विति शेषः॥२१३॥*

  • ** जम्भेति।** जम्भस्य एतन्नाम्नो दैत्यस्य दम्भं गर्व हरतीति तद्धरः, अर्थाज्जम्भदैत्यविनाशकः इन्द्रः, तस्य क्षेमस्य, दैत्यहृतस्वर्गस्थानस्य पुनः प्रापणरूपस्य कल्याणस्य आरम्भाणाम् उद्योगानां लम्भनं सम्पादनं यस्यास्तादृशी मूर्तिर्यस्य तथाभूताय। हिरण्यकशिपुविनाशेन तद्धृत स्वर्गसाम्राज्य पुनरिन्द्राय समर्पितमिति भावः। शम्भोः शिवस्यापि सम्भावनीयाय मान्याय, स्तम्भस्य डिम्भाय बालकाय, स्तम्भादुत्पन्नायेत्यर्थः। मङ्गलम्॥२१४॥*

*** किमिति।** अरे हे विश्वावसो, क्रोधमये कोपप्रचुरेऽपि, प्राचुर्ये मयट्। नरमृगेन्द्रे नृसिंहे विषये, स्तववचनं स्तोत्रभाषणं, किं कुतो हेतोर्विरचयसि करोषि ?॥८५॥*

  • प्रह्लादमिति। यः नृसिंहः त प्रसिद्धभक्तं, एकमेव प्रह्लादं हिरण्यकशिपुपुत्रम् आह्लादयितुं सन्तोषयितुं, सर्वस्य भुवनस्य लोकस्य भीतिं कुर्वन्नुत्पादयन् सन्, सैंह सिंहसम्बन्धि, संहनन शरीरं “गात्र वपुः संहननं शरीरं वर्ष्म विग्रहः।” इत्यमरः।*

*** ** ***वि—**यस्य मैवं वादीः॥८६॥

यतः—

अपुण्यधौरेयहिरण्यदूनत्रिलोकशोकक्षपणाय शौरिः॥
कायाधवायासनिरासदम्भः स्तम्भादिहोज्जृम्भत271 सम्भ्रमेण॥२१६॥

इदं चावधार्यताम् —

मनुष्यतिर्यक्त्वमुपेत्य नित्यो272 देवः स्वयं स्थावरतोऽभ्युदञ्चन्॥
विचित्रशक्त्यन्वयमत्र वेदैः प्रत्याय्यमानं प्रकटीकरोति॥२१७॥

पुनः सविश्रम्भम्—

घटिकाचलं वपुरवेक्ष्य273तत्त्वतो घटिकाचलं समधिरुह्य भक्तितः॥
नरकेसरीन्द्रचरणौ विलोकयन् नरके सरिष्यति न जातु मानवः॥२१८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

पुरा कृतयुगे दधे धृतवान्। तत्र तस्मिन्विषये, तव त्वत्कृत इत्यर्थः। स्तवः स्तुतिः, कथ प्रवृत्तः ?॥ २१५॥

  • वयस्येत्यादि सुलभम्॥८६॥*

*** अपुण्येति।** न विद्यते पुण्य सुकृत येषु तेषां पापिनां धौरेयोऽग्रेसरः यः हिरण्यः हिरण्यकशिपुस्तेन दूनानां पीडितानां ‘दु गतौ’ इत्यस्मात् क्तप्रत्यये “दुग्वोर्दीर्घश्च” इति वार्तिकेन निष्ठातकारस्य नो दीर्घश्च \। त्रिलोकानां शोकस्य क्षपणाय विनाशं कर्तुम्। “तुमर्थाच्च भाववचनात्” इति चतुर्थी। शौरिः विष्णुः, कयाधोः हिरण्यकशिपुपत्न्याः अपत्यं कायाधवः प्रह्रादः तस्य आयासस्य पितृकृतत्रासस्य निरासो विनाश एव दम्भो निमित्तं यस्य तथाभूतः सन्, इह लोके स्तम्भात् सम्भ्रमेण त्वरया अजृम्भत प्रकटीबभूव। एतेन ‘सर्वस्य भुवनस्य भीतिः कुर्वन्’ इत्यादिदूषणं परास्तमिति ज्ञेयम्॥२१६॥*

  • ** मनुष्येति।** यः नित्यः सर्वदैकरूपः सन्नपि, देवः भक्तपालनार्थं विविधक्रीडाकारकः, मनुष्यश्चासौ तिर्यञ्च मनुष्यतिर्यङ् तस्य भावः नरसिंहरूपत्वमित्यर्थः। उपेत्य स्वीकृत्य, स्थावरतः स्तम्भान् न त्वितरवन्मातृतः। अभ्युदञ्चन्प्रकटीभवन्सन्, वेदैः प्रत्याय्यमानं वर्ण्यमानं, विचित्रायाः इतरसुरदुष्करत्वेन अघटितघटनाकारित्वेन च आश्चर्योत्पादिकायाः शक्तेः सामर्थ्यस्य अन्वयं सम्बन्धम् अत्र भूलोके प्रकटीकरोति आविष्करोति। वेदवर्णित विविध चरित्र प्रत्यक्षतया प्रदर्शयतीत्यर्थः॥२१७॥*

  • अत एवास्य स्थानस्यातिशयपुण्यसम्पादकत्वमस्तीति द्योतयन्नाह—घटिकाचलमिति। घटिकाचल घटिकाकालमात्रमप्यस्थिरं, विनश्वरमित्यर्थः। वपुः शरीरं, तत्त्वतः स्वभावादेवावेक्ष्य दृष्ट्वा ज्ञात्वेत्यर्थः। दृशिरत्र ज्ञानार्थकः। भक्तितः*

अथ वीक्षारण्यवर्णनम्—१८.
<MISSING_FIG href="../books_images/U-IMG-1722878495Screenshot2024-08-04235410.png"/>

इति विमानमन्यतः सञ्चोदयन् सहर्षम् —

वीक्षारण्यमिदं वदन्ति सरसी हृत्तापनाशिन्यसा-
वस्या रोधसि वीरराघव इति प्रख्यातनामा हरिः॥
व्यक्तं राजति वीतिहोत्र इव यो विस्तीर्णहेतिद्युतिः
क्षेत्रं प्राप्तकुशस्थलं274 प्रभजति श्रीशालिहोत्राञ्चितम्॥२१९॥

आकलयतुभवानत्रेमं चमत्कारम्॥८७॥

द्विरेफवर्णांसुमनोरमां तनुं बिभर्ति सञ्ज्ञामिव वीरराघवः॥
सुपर्वराजेन यदीयमर्चितं275 मुखं पदद्वन्द्वमिवोपशोभते॥२२०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

घटिकाचलं पर्वत अधिरुह्याऽऽरुह्य, नरकेसरीन्द्रचरणौ नरसिंहचरणौ, विलोकयन्विलोकयन् ‘लक्षणहेत्वोः—’ इति हेतावत्र शता। मानवः जातु कदाचिदपि, नरके निरये न सरिष्यति नैव पतिष्यति। ‘सृ गतौ’ इत्यस्माल्लृट्॥२१८॥

  • अथ वीक्षारण्यप्रस्तावमाह—इतीति। सञ्चोदयन् गमयन्—*

  • वीक्षारण्यमिति। इद पुरो दृश्यमान वीक्षारण्यमेतन्नामकं वनं, वदन्ति कथयन्ति। जना इति शेषः। तथा असौ सरसी सरोवरम् एतद्वनमध्ये वर्तमानेत्यर्थः। हृत्तापनाशिनी हृदयसन्तापहारिणी विद्यते। अस्याः सरस्याः रोधसि तीरे, “कूलं रोधश्च तीरं च” इत्यमरः। वीरराघवः इति प्रख्यात अतिपावनत्वेन प्रसिद्धं नाम यस्य तथाभूतः, व्यक्तं प्रत्यक्षं यथा तथा यः, विस्तीर्णा आसमन्तात्प्रसृता हेतीनां शङ्ख-चक्राद्यायुधानां शिखानां च द्युतिः कान्तिर्यस्य तथाभूतः, “रवेरर्चिश्च शस्त्र च वह्निज्वाला च हेतयः” इत्यमरः। वीतिहोत्र इव अग्निरिव “अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनजयः।” इत्यमरः। राजते शोभते। पुनश्च यो वीरराघवः, प्राप्त कुशानां स्थल स्थान येन तत्, अत एव श्रीशालिहोत्रमुनिना अञ्चितमाश्रितं क्षेत्रं स्थानं प्रभजति सेवते। तत्र तिष्ठतीत्यर्थः॥२१९॥*

  • आकलयत्विति। अत्र वीक्षारण्ये, इमं पुरोदृश्यमानं चमत्कारं भवान् आकलयतु अवलोकयतु॥८७॥*

*** द्विरेफेति।** वीरराघवो भगवान्, द्विरेफस्य भ्रमरस्येव वर्णो यस्याः सा तां श्यामवर्णामित्यर्थः। पक्षे द्वौ रेफवर्णौरकाराक्षरे यस्यां तां, “द्विरेफ-पुष्पलिङ्-भृङ्ग-षट्-पद-भ्रमरालयः” इति, “रवर्णे पुसि रेफः स्यात्” इति चोभयत्राप्यमरः। सुमनस्सु सदाचरणेन शुद्धचित्तेषु, सुमनस्सु पुष्पेषु च रमते क्रीडति तां सुमनोरमां,
“स्त्रियः सुमनसः पुष्पं” इत्यमरः। अत एव सञ्ज्ञां ‘वीरराघव’ इति नामेव “सञ्ज्ञा-*

*** ** ***कृ०—**वयस्य किं सन्नह्यसि वीरराघवस्तवने ?276 यदस्मिन्नपि पन्नगनगनाथ इव परधनग्रहणपरत्वादयः प्रादुःष्यन्ति दोषाः॥८८॥

** वि०—**तत्रास्मदुक्तेनैव तत्समाधानेन पुनरत्रापि सन्तोष्टव्यमायुष्मता भवता। पामरमते रमते न कस्य मनो वीरराघवे देवे !॥८९॥

स्वेक्षा277साध्यजगज्जनिः सुतनुपल्लाक्षाङ्कितोरःस्थलः
साक्षादेष278परः पुमान् कृतनुतिर्दाक्षायणीशादिभिः॥
वीक्षारण्यपतिर्विराजति गतिर्द्राक्षासदृक्साहिती
धी-क्षान्त्यायुररोगता-धन-यशो-मोक्षाद्यपेक्षावताम्॥२२१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

स्याच्चेतना नाम” इत्यमरः। तनुं शरीरं बिभर्ति। किञ्च यदीयं मुखं यदीयं पदद्वन्द्वमिव सुपर्वराजेन सुष्ठु पर्वणि पूर्णिमायां राजते तेन चन्द्रेण, सुपर्वणां देवानां राज्ञा इन्द्रेण चेति क्रमेणोभयत्र योज्यम्। अर्चितं पूजितम् एकपदोपात्ततयाऽभेदाध्यवसायेन सुपर्वराजार्चितत्वस्य साधारणधर्मता बोध्या। उपशोभते॥२२०॥

  • ** वयस्येति।** हे वयस्य मित्र, वीरराघवस्तवने विषये, किं कुतो हेतोः सन्नह्यसि उद्युक्तो भवसि ? यद् यतः अस्मिन् वीरराघवेऽपि पन्नगनगस्य शेषशैलस्य नाथः श्रीनिवासः तदिव परधनग्रहणे परत्वम् आसक्तत्वं तदादयः दोषाः प्रादुःष्यन्ति उद्भविष्यन्ति॥८८॥*

  • तत्रेति। तत्र दोषप्रादुर्भावे, अस्मदुक्तेनैव पूर्वं मया कथितेनैव तत्समाधानेन शेषाचलाधिपतिसमाधानेन, पुनरत्रापि सन्तोष्टव्यमायुष्मता भवता। पामरमते हे क्षुत्रबुद्धे, वीरराघवे देवे, कस्य पुरुषस्य मनः न रमते आसक्तं न भवति ? अपि तु सर्वस्यापि रमते इत्यर्थः॥८९॥*

  • ** स्वेक्षेति।** स्वस्य ईक्षया पर्यालोचनेन साध्या कर्तुं शक्या जगतो जनिः सृष्टिर्यस्य सः। एतेन “स ऐक्षत लोकान्नु सृजा इति” इत्याद्यैतरेयोपनिषच्छ्रुतिः स्मारिता। अत्र ‘जगज्जनिः’ इत्युक्तिरुपलक्षणपरा। तेन स्थिति-संहारावपि ज्ञेयौ। सुतनोः लक्ष्म्याः पल्लाक्षया पदसम्बन्धिलाक्षारसेन अङ्कितं चिह्नितम् उरःस्थलं वक्षःस्थलं यस्य सः। सर्वदा लक्ष्म्यास्तत्र विद्यमानत्वादित्यर्थः। किञ्च साक्षात्परः शरीर-वाङ्-मनो-बुद्ध्यहङ्कारादिसङ्घातेभ्यः परः पुमान्, अत एव दाक्षायणीशः पार्वतीपतिः शिवः आदिः प्रमुखो येषु तैर्ब्रह्मेन्द्रादिभिः कृता नुतिः स्तुतिर्यस्य तथाभूतः। धीः बुद्धिश्चक्षान्तिः क्षमा च आयुर्जीवनकालश्च अरोगता आरोग्यं च धनं च यशश्च मोक्षश्च ते आदयो येषु तेषु अपेक्षावतामिच्छावतां द्राक्षया सदृशी सुखसेव्यतयेति भावः। साहिती साहित्यमाराधनमिति यावद् यस्याः तादृशी गतिरुपायः। अल्पमाराधितोऽपि सकलाभीष्टपूरक इत्यर्थः। वीक्षारण्यपतिर्वीरराघवाख्यः, विराजति शोभते॥२२१॥*

  • *किञ्च—

उपेत्य वीक्षावनमुन्नतः सदा सुवर्णवल्ल्या सुमनःपुषाश्रितः॥
अहीनसेव्यो हरिचन्दनस्तनोत्युपाश्रितानामुचितां सुवासनाम्॥२२२॥

अथ श्रीरामानुजवर्णनम्—१९.

<MISSING_FIG href="../books_images/U-IMG-1722327337Screenshot2024-07-29225223.png"/>

इत्यन्यतो विमानं प्रेङ्खयन्नग्रतो वीक्ष्य सप्रत्यभिज्ञम्—

एषा भूतपुरी निरीक्षितचरी दोषापहन्त्री मया279
श्रीमानत्र गुणाब्धिराविरभवद्रामानुजर्यो280 मुनिः॥
त्रप्यन्तामृतसिन्धुमन्थनभवद्धय्यङ्गवीनात्मकं
विज्ञानं यदुपज्ञमेव विदुषामद्यापि विद्योतते॥२२३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

*** उपेत्येति।** सुष्ठु मनांसि येषां ते सुमनसः पण्डितास्तान्, सुमनसः पुष्पाणि च पुष्णातीति तथा तया, अत एव सुष्ठु वर्णो यस्यास्तया वल्ल्या मल्लिकादिपुष्पल्लयेति यावत्। पक्षे सुवर्णस्य वल्लीव वल्ली तया लक्ष्म्या आश्रितः सदा आलिङ्गितः, अहीनां सर्पाणाम् इनाः श्रेष्ठा महासर्पा इत्यर्थः। अहीनः सर्पस्वामी शेषश्च तेन, न हीनाः अहीनाः श्रेष्ठजनास्तैश्च सेव्यः सेवितुं योग्यः, हरिः श्रीविष्णुरेव चन्दनः, हरिचन्दनो वृक्षश्च वीक्षावन उपेत्य सम्प्राप्य, उन्नतः उच्चः श्रेष्ठश्च सन्, उपाश्रितानां भक्तानाम् उचितां योग्यां, सुवासनां मनोऽभिलषितं तनोति विस्तारयति॥२२२॥*

*** इतीति।** अन्यतो विमानं प्रेङ्खयन् गमयन्, सप्रत्यभिज्ञं सानुस्मरणम्—*

  • ** एषेति।** एषा पुरो दृश्यमाना, दोषाणाम् अपहन्त्री विनाशयित्री भूतपुरी ‘श्रीपेरूम्बुरू’ इति प्रसिद्धा, मया निरीक्षितचरी पूर्वम् अवलोकिता। “भूतपूर्वे चरट्” इति चरट् प्रत्ययः। टित्त्वाण्डीप्। अत्र भूतपुर्यां, गुणानाम् अब्धिः सागरः श्रीमान् रामानुजार्यो मुनिः, आविरभवत् प्रकटीबभूव। कीदृशः स रामानुजार्यः। त्रय्यन्ता उपनिषद्विद्याः एव अमृतसिन्धुः क्षीरसागरः तस्य मन्थनेन विलोडनेन भवदुत्पद्यमानं यत् हय्यङ्गवीनं नवनीतम् आत्मा स्वरूपं यस्य तत्तदात्मकम्। सर्वोपनिषदां सारभूतमिति तात्पर्यम्। विज्ञानं विशिष्टाद्वैतप्रतिपादकं शारीरकभाष्य, यस्य रामानुजार्यस्य उपज्ञा आद्यज्ञानविषयः यदुपज्ञं ‘उपज्ञोपक्रमं तदाद्याचिख्यासायाम्’ इति नपुंसकत्वम्। रामानुजार्येणैव प्रथमं निर्मितमित्यर्थः। “उपज्ञा ज्ञानमाद्यं स्यात्” इत्यमरः। विदुषां पण्डितानां मध्ये, अद्यापि विद्योतते प्रकाशते॥२२३॥*

** किञ्च—

कामादिवैरिगणभीमानवद्यनिजनामाभिलाषगरिमा281
वैमानिकार्यसमभूमा मतौ282 वचनसीमातिलङ्घिमहिमा॥
श्रीमाननूनकलसोमाननो विमलधामावमानितरविः
क्षेमाणि जृम्भयतु भूमावमुत्र च स रामानुजो यतिपतिः॥२२४॥

अपि च—

स जयति रामानुजयतिरजयति परवादिनं यदीयोक्तिः॥
सञ्जयति बोधमनघं रञ्जयति बुधान् व्यथां च भञ्जयति॥२२५॥

अन्यच्च—

ते मीमांसाशास्त्रप्रमथनपरिकलितबुधजनानन्दाः॥
लक्ष्मणमुनेः प्रबन्धा लक्ष्मणपूर्वजशरा इव जयन्ति॥२२६॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • ** कामादीति।** कामःआदिः प्रथमो येषु क्रोध-लोभादिषु तेषां वैरिणाम् अन्तःशत्रूणां गणस्य समुदायस्य भीमः भयङ्करः अनवद्यः निर्दोषः निजस्य स्वकीयस्य नाम्नः अभिलाषगरिमा इच्छाप्रभावः यस्य सः। यस्य नामग्रहणस्येच्छामात्रेणापि कामादीनां विनाशो भवति, किमुत प्रत्यक्षनामग्रहणे कृते इति तात्पर्यम्। तथा मतौ बुद्धौ विषये वैमानिकानां देवानामार्यः गुरुः बृहस्पतिः तेन समस्तुल्यः भूमा माहात्म्यं यस्य सः, अनूनाः सम्पूर्णाः कला यस्य तस्य सोमस्य चन्द्रस्येवाननं मुखं यस्य सः, किञ्च विमलधाम्ना स्वकीयनिर्मलप्रकाशेन अवमानितस्तिरस्कृतः रविः सूर्यो येन तथाभूतः, अत एव वचनानां सीमा मर्यादा तस्याः अतिलङ्घी उल्लङ्घनशीलः महिमा माहात्म्यं यस्य सः श्रीमान् रामानुजो यतिपतिः, भूमौ भूलोके, अमुत्र परलोके च क्षेमाणि कल्याणानि जृम्भयतु वर्धयतु। सर्वजनानामिति शेषः। अश्वघाटी वृत्तम्। (?) अस्य लक्षणं वृत्तरत्नाकरे नैवोपलभ्यते। चित्रवृत्तेष्वस्यान्तर्भावः॥२२४॥*

  • ** स इति।** स रामानुजयतिर्जयति सर्वोत्कर्षेण वर्तते। कथम्भूतः सः। यदीया यस्य सम्बन्धिनी उक्तिः भाष्यरूपा, परवादिनं मतान्तरस्थवादिनम् अजयति क्षेपयति तिरस्करोतीति यावत्। ‘अज गति क्षेपणयोः’ इत्यस्य ण्यन्तस्य रूपम्। अथवा अजमिव छागमिव तुच्छीकरोति। एतत्पक्षे अजशब्दात् ‘तत्करोति’ इति णिच्। न केवलं तिरस्करोत्येव, किन्तु अनघं निर्मलं बोधं ज्ञानं च सञ्जयति उत्पादयति। बुधान् पण्डितांश्च रञ्जयति रमयति। तेषां व्यथां दुःखं च भञ्जयति विनाशयति॥२२५॥*

  • ** ते इति।** मीमांसाशास्त्रस्य प्रमथनेन आलोडनेन सर्वशास्त्रपर्यालोचनेनेति यावत्। पक्षे ते अमी मांसाशानां राक्षसानाम् अस्त्राणां शस्त्राणां प्रमथनेन विनाशनेन च परिकलितः उत्पादितः बुधजनानां पण्डितजनानां देवसमूहानां च आनन्दो यैस्ते,*

  • *अत्र कश्चिदपश्चिमो विपश्चितामित्थमेनमनुदिनं प्रणमति॥९०॥

‘रामानुजाय गुरवे नरवेषभाजे शेषाय धूतकलये कलये प्रणामान्॥
यो मादृशानपि कृशान् परिपातुकामो भूमाववातरदुदश्चितबोधभूमा’॥२२७॥

इति। एतच्चाकर्ण्यताम्—

रामानुजौ यामुनतीर्थसेवापरावुदीतौ नरकं निरोद्धुम्।
तयोः पुराणः प्रणिनाय गीतां तस्या नवीनस्तु ततान टीकाम्॥२२८॥

** कृशानुः—**सत्यमेवं तथापि तत्पथानुविधायिनां283 मेधाविनामपि परावमन्तृत्वादयो दोषाः प्रसिद्धाः॥९१॥

तथाहि—

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>लक्ष्मणमुनेः रामानुजयतेः प्रबन्धाः ग्रन्थाः, लक्ष्मणस्य पूर्वजो रामस्तस्य शराः बाणाः इव जयन्ति॥२२६॥

*** अत्रेति।** अत्रास्मिन् देशे कश्चिद् विपश्चितां विदुषां मध्ये, अपश्चिमः अत्युत्तमः एन श्रीरामानुजाचार्य, अनुदिनं प्रतिदिनम् इत्थ वक्ष्यमाणप्रकारेण, प्रणमति नमस्करोति॥९०॥*

*** रामानुजायेति।** नरवेष मनुष्यस्वरूप भजति आश्रयतीति नरवेषभाक्तस्मै, शेषाय सर्पराजाय, रामानुजाय, धूतः निरस्तः कलिः पाप येन तस्मै, पापरहितायेत्यर्थः। अत एव गुरवे आचार्याय प्रणामान् नमस्कारान् कलये करोमि। यः मादृशान् कृशान् अतिदीनानपि परिपातुकामः रक्षितुमिच्छुः सन्, उदञ्चितः स्वभावत एवोत्पन्नः बोधभूमा ज्ञानातिरेको यस्य सः, भूमौ अवातरत् प्रकटीबभूव॥२२७॥*

  • ** रामेति।** यमुनैव यामुन, स्वार्थेऽण्। यामुन च तत्तीर्थ च तस्य, पक्षे यामुनतीर्थस्य गुरोश्च सेवापरौ सेवासक्तौ, नरक एतन्नामकमसुरं दुर्गतिं च निरोद्धुं निवारयितुं, रामस्य बलरामस्य अनुजः कृष्णः, रामानुजाचार्यश्च, रामानुजश्च, रामानुजश्च तौ इत्येकशेषसमासः। उदीतौ उत्पन्नौ। दीर्घत्व छन्दोऽनुरोधात्। तयोः द्वयो रामानुजयोर्मध्ये पुराणःप्रथमः कृष्णः गीतां भगवद्गीतां प्रणिनाय विरचितवान्। नवीनो रामानुजाचार्यस्तु, तस्या गीतायाः टीकां व्याख्यां ततान चकार॥२२८॥*

  • **सत्यमिति।*सत्यमेवं तथापि तस्य रामानुजाचार्यस्य पन्थानं प्रवृत्तिम् अनुविदधति अनुसरन्तीत्यनुविधायिनः तेषां बुद्धिमतामपि, परेषां भिन्नमतानुयायिनाम् अवमन्तृत्व अपमानःआदिर्येषां मात्सर्यादीनां ते दोषाः प्रसिद्धाः। सन्तीति शेषः॥९१॥

श्रीरामानुजदर्शनैकरसिकः शिष्टः प्रकृष्टैर्गुणैः
पूर्णानां विदुषां मतान्तरजुषां पङ्कौ न भुङ्क्ते क्वचित्॥
हाहन्तौदनमन्ततः शुचितमं तद्दृष्टमाशु त्यज–
त्यास्तां तत्स्वमतस्थितैरपि समं प्रायेण नाश्नात्यसौ॥२२९॥

किञ्च—

नैषां न्याय्य इह द्विजान्वयजुषां भाषाप्रबन्धे श्रमो284
वेदे विश्वपुमर्थसाधनविधौ बद्धादरे285 जाग्रति॥
तीरं क्षीरपयोनिधेरुपगतो दैत्यारिदीप्त्यावृतं
को वा धावति दुग्धलब्धिचपलो गोपालकस्यालयम्॥२३०॥

किञ्च—

एतन्मतानुवर्तिनां केषाञ्चिदेषां चेष्टा नेष्टा वैदिकानाम्। पश्य॥९२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • तानेव दोषान् दर्शयति — श्रीरामानुजेति। श्रीरामानुजस्य दर्शने एव एक मुख्य यथा तथा रसिकः रसज्ञः, प्रकृष्टैः विद्वत्त्वाचारसम्पन्नत्वादिभिरुत्तमैर्गुणैः शिष्टः श्रेष्ठश्च सन्, मतान्तरजुषां शाङ्कराद्यन्यमतानुयायिनां पूर्णानां विद्याचरणादिभिः परिपूर्णानामपि किमुतापूर्णानाम्। पङ्क्तौ भोजनपङ्क्तौ क्वचित् कदाचिदपि न भुङ्क्ते भोजनं नैव करोति। किञ्च नैतावदेव, अन्यदपि मात्सर्यकथयति। अन्ततो वस्तुतः शुचितममतिपवित्रमपि ओदनमन्न तैर्दृष्ट मतान्तरस्थैरवलोकित सत्, आशु शीघ्रमेव त्यजति। तत्तु आस्तां नाम, किन्तु स्वमतस्थितैरपि सम सह असौ रामानुजीयः प्रायेण न अश्नाति नैव भुङ्क्ते। कदाचित्तु भुङ्क्ते॥२२९॥*

*** नैषामिति।** एषां रामानुजीयानां द्विजान्वयं ब्राह्मणवंशं जुषन्ति आश्रयन्ति तेषां ब्राह्मणकुलोत्पन्नानामिति यावत्। विश्वेषां सकलानां पुमर्थानां धर्मादिपुरुषार्थानां साधनविधौ सम्पादनकर्मणि, बद्धादरे स्वीकृतादरे वेदे जाग्रति सति, भाषाप्रबन्धे द्राविडभाषानिर्भिते ग्रन्थे श्रमः अभ्यासः इह न न्याय्यः नैव युक्तः। तत्र दृष्टान्तमाह — तीरमिति। दैत्यारेः श्रीविष्णोः दीप्त्याकान्त्या आवृतं वेष्टितं क्षीरपयोनिधेः क्षीरसमुद्रस्य तीरम् उपगतः प्राप्तः सन्, को वा पुरुषः दुग्धस्य लब्धौ प्राप्तौ चपलः आसक्तः गोपालकस्य नीचगोपालस्य, अल्पार्थे कन्। आलयं गृहं धावति शीघ्रं गच्छति ? अपि तु कोपि नैव गच्छतीत्यर्थः॥२३०॥*

*** एतदिति।** एतन्मतानुवर्तिनां रामानुजमतानुसारिणां केषाञ्चिदेषां पुरुषाणां, अविदुषामित्यर्थः। चेष्टा आचरणं वैदिकानां वेदानुयायिनां नेष्टा न प्रिया॥९२॥*

मुञ्चन्तः पञ्चयज्ञान् द्रविडभणितिभिर्मोहयन्तोऽनभिज्ञान्
निन्दन्तो हन्त यज्ञानसकृदपि हरेर्वन्दनं वारयन्तः॥
लुम्पन्तः श्राद्धचर्यां यतिमपि गृहिणां वन्दनं कारयन्तः
सद्द्वेषं धारयन्तः कतिचिदविहितैरेव286कालं क्षिपन्ति॥२३१॥

किञ्च—

घण्टाघोषं त्यजन्तो हरिपरिचरणे सर्वलोकाविगीतं
ख्यातं त्रैलोक्यमातुः श्रुतिभिरभिहितं वैभवं खण्डयन्तः॥
सङ्केतश्रद्धयैव स्वचरणसलिलं स्वीयगोष्ठ्यां पिबन्तः
केचिद्विप्लावयन्ते जगदभिदधतः केशवं दोषभोग्यम्॥२३२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • मुञ्चन्त इति। पञ्चयज्ञान् ब्रह्मयज्ञ वैश्वदेव-भूतयज्ञातिथिपूजा-बलिहरणात्मकान् मुञ्चन्तस्त्यजन्तः, त्यजन्तीत्यर्थः। एवमेव सर्वत्र शत्रन्तस्यार्थो ज्ञेयः। द्रविडभणितिभिः द्रविडभाषावाक्यैः अनभिज्ञान् वेद-शास्त्रादिज्ञानरहितान् मोहयन्तः स्वमतग्रहणे भ्रामयन्तः, हन्तेति खेदे। यज्ञान् अग्निष्टोमादीन् निन्दन्तः काम्या इति मत्वा निन्दां कुर्वन्तः, हरेः श्रीविष्णोरपि वन्दनम् असकृद् वारं वारं वारयन्तः निषेधयन्तः, श्राद्धचर्या श्राद्धानुष्ठान लुम्पन्तः अकुर्वन्तः, यतिं स्वसन्न्यासिनमपि किमुत इतरं, गृहिणां गृहस्थाश्रमिणां वन्दनं कारयन्तः, सत्सु सत्पुरुषेषु द्वेषम् अप्रीतिं धारयन्तः। एवं कतिचिद् रामानुजीयाः अविहितैः वेद-शास्त्रनिषिद्धैः कर्मभिरेव कालं क्षिपन्ति नयन्ति॥२३१॥*

  • किञ्च पूजादिष्वपि विधिवदनुष्ठान नैव भवतीत्याह — घण्टाघोषमिति। सर्वेषु लोकेषु अविगीतमनिन्दितं प्रशस्तमित्यर्थः। हरिपरिचरणे श्रीविष्णुपूजने घण्टाघोषं देवताह्वानार्थंविहितं घण्टानादं त्यजन्तः, त्रैलोक्यमातुः श्रीलक्ष्म्याः श्रुतिभिः “सा हि श्रीरमृता सताम्” इत्याद्यनेकाभिः अभिहितमुक्तं ख्यातं प्रसिद्धं वैभवं स्वातन्त्र्यरूपं खण्डयन्तः, लक्ष्मीस्तावद्भगवतो मायेत्युक्त्वा दूषयन्तः, किञ्च स्वीयानां रामानुजीयानां गोष्ठ्यां सभायां, सङ्केते स्वकल्पितविधौ या श्रद्धा विश्वासस्तयैव स्वचरणसलिलं स्वपादोदकं सर्वेषामप्येकीकृत्य पिबन्तः, प्राशयन्तः। एतदेव तेषां मतस्य सर्वस्वम्। केचित् केशव श्रीविष्णुं दोषभोग्यं नियामकतया कृतानां दोषाणां भोक्तारम् अभिदधतः कथयन्तः सन्तः, जगद् विप्लावयन्ते अधर्मप्रचारेण विनाशप्रवणं कुर्वन्तीत्यर्थः॥२३२॥*

    • अपि च —

यज्ञाः पञ्च महत्पदेन सहिता ये चापरे विश्रुता
यत्कर्म ग्रहसङ्क्रमादिसमये सर्वे बुधाः कुर्वते॥
यत्सर्वं विसृजन्ति काम्यमिति ये त्रय्यन्त287विध्वंसका-
स्तैर्द्वे नित्यतयाऽऽश्रिते यदशनं या च व्यवायक्रिया॥२३३॥

अन्यच्च—

विदुषामपि मोहमावहन्तो वितथैतिह्यसहस्रवर्णनेन॥
विनयाभिनयात्खलाः किलाऽमी विजयन्ते कपटालया जगन्ति288॥२३४॥

किञ्च—

यस्यां नास्ति पुरस्कृतिर्नयविदां यज्वा तु हासास्पदम्
पूज्यन्ते च निरक्षराः पुनरमी साङ्केतिकाचार्यकाः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • ** यज्ञाइति।** ये पञ्च यज्ञाः ब्रह्मयज्ञादयः महद् इति पदेन सहिताः महायज्ञा इत्यर्थः। ये त्वपरे यज्ञाः ज्योतिष्टोमादयः विश्रुताः प्रसिद्धाः, इदं पूर्वत्रापि योज्यम्। चस्त्वर्थः। सर्वे बुधाः श्रुति-स्मृतिज्ञाः, ग्रहः चन्द्रसूर्योपरागः, “उपरागो ग्रहोराहुग्रस्ते त्विन्दौ च पूष्णि च” इत्यमरः। सङ्क्रमः रवेर्मेषादिषु प्रवेशः तदादौ समये यत्कर्म देव-पित्राद्युद्देशेन कुर्वते तत्सर्वं नित्यं नैमित्तिकं च कर्मं काम्यं, कामहेतुकमिति अपलप्येति शेषः। ये त्रय्यन्तस्य वेदान्तमार्गस्यापि विध्वंसकाः सन्तः, अमी विसृजन्ति मुञ्चन्ति। तैर्दूषकैः, अशनं भोजनं यत्, याच व्यवायक्रिया मैथुनं ते द्वे कर्मणी नित्यतया नित्यकर्तृत्वेन आश्रिते अङ्गीकृते। शिश्नोदरमात्रपरायणा एत इत्यर्थः॥२३३॥*

  • विदुषामिति। वितथानामसत्यानाम् ऐतिह्यानां कल्पितपूर्वतनमिथ्यावादानां ‘एतन्मतं स्वीकृत्य ते कृतार्थाः’ ‘एते च कृतार्थाः अभवन्’ इत्यादिरूपाणां सहस्रस्य वर्णनेन कथनेन विदुषामपि, किमुत अज्ञानां, मोहं स्वमताभिनिवेशम् आवहन्तः कुर्वन्तः। वस्तुतः खलाः पापाः कपटस्य आलयाः गृहरूपाः दाम्भिका इत्यर्थः। अत एव अमी रामानुजीयाः विनयस्य आरोपितस्य अभिनयात् प्रकटनाद्धेतोः जगन्ति विजयन्ते किल॥२३४॥*

  • यस्यामिति। यस्यां गोष्ठ्याम्। इदं सर्वत्र योज्यम्। नयविदां शास्त्रज्ञानां पुरस्कृतिः पूजा नास्ति। यज्वा विधिवद्यज्ञाद्यनुष्ठानकर्ता तु “यज्वा तु विधिनेष्टवान्” इत्यमरः। हासास्पदम्, निरक्षराः वेद-शास्त्रग्रन्थाक्षरस्यापि ज्ञानरहिताः अमी साङ्केतिका सङ्केतसिद्धा आचार्य इति सञ्ज्ञा येषां ते आचार्यकाः सञ्ज्ञायां कन्। आचार्यपुरुषाश्च पुनः पूज्यन्ते। वेदानामवहेलनं काम्यकर्मानुष्ठापका इत्यवमाननं*

वेदानामवहेलनं289 व्यतिहता वर्णाश्रमप्रक्रिया
गोष्ठ्यै दुष्कलिपुष्कलीकृतपुषे290कस्मैचिदस्यै नमः॥२३५॥

किम्बहुना —

प्रायो येषां सकृदकरणे प्रत्यवायोऽस्ति भूयान्
यज्ञादींस्तानिह विजहति स्पष्टवेदोपदिष्टान्॥
कर्मैवामी विदधति जडाः किन्तु सङ्केतसिद्धं
कष्टं कष्टं बत हतकलेः कश्चिदुन्मेष एषः॥२३६॥

किं च—

न गाहन्ते गङ्गामपि नट291जटासार इति ये
न मज्जन्त्यम्भोधौ लवणरसवेशन्तक इति॥
न पञ्चैवं गव्यान्यपि पशुशकृत्सार इति हा
पिबन्त्येषां दोषान्क इह निपुणः स्याद्गणयितुम्॥२३७॥

** विश्वावसुः** —किमरे कलङ्कलेशरहितेषु श्रीमद्रामानुजदर्शनैकनिष्ठेषु

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

भवति। वर्णानामाश्रमाणां च प्रक्रिया आचारः व्यतिहता ध्वस्ता। दुष्टस्य कलेः पापस्य पुष्कलीकृतं वर्धनं पुष्णातीति तत्पुषे कस्यैचिदस्यै गोष्ठ्यैतेङ्गलीयायै नमः। सर्वथा त्याज्या गोष्ठीयमित्यर्थः॥२३५॥

*** प्राय इति।** येषां यज्ञादीनां सकृद् एकदाप्यकरणे अननुष्ठाने सति, भूयान्प्रत्यवायः पापम् अस्ति भवति, तान् स्पष्टं वेदैरुपदिष्टान् चोदितान् यज्ञादीन् ब्रह्मयज्ञादिपञ्चसङ्ख्याकान् इह लोके अमी रामानुजीयाः विजहति त्यजन्ति। किन्तु अत एव जडाः मूर्खाः सङ्केतसिद्धमेव कर्म। एवकारेण श्रौत-स्मार्तव्यवच्छेदः। विदधति कुर्वन्ति। कष्टं कष्टम् अन्याय्यमन्याय्यम्। बतेति खेदे। एषः विहितत्यागः अविहितानुष्ठानं च हतकलेः सम्बन्धी कश्चिदनिर्वाच्यः उन्मेषः प्रभाव एव॥२३६॥*

  • नेति। ये तेङ्गलाख्याःगङ्गामपि लोकपावनीं नटस्य नर्तकस्य शिवस्य जटानाम् आसारः वर्षमिति विगर्ह्येति शेषः। न गाहन्ते न स्नान्ति। अम्भोधौ समुद्रे, लवणरसः क्षाररसस्तस्य वेशन्तकः पल्वलमिति “वेशन्तः पल्वल चाल्पसरः” इत्यमरः। न मज्जन्ति न स्नान्ति। एव पञ्चगव्यान्यपि पशोः शकृत्सारः पुरीषभाग इति न पिबन्ति। एवं सति एषां दोषान् गणयितुं सङ्ख्यातुम् इह कः निपुणः स्यात् ? न कोऽपीत्यर्थः। हेति खेदे॥२३७॥*

  • किमिति। कलङ्कस्य दोषस्य लेशेन यत्किञ्चिदंशेनापि रहितेषु श्रीमतो रामानु-*

गरिष्ठेष्वपि सन्नह्यसि ? अथवा भवादृशानां कृशविवेकानां292 का नाम मर्यादा ?॥ ९३॥

उक्तं हि —

‘अनल्पकं धरायां हि सर्वज्ञस्यापि दारुणाः॥
आरोपयन्ति मालिन्यं काकोला इव ते खलाः’॥२३८॥ इति।

पश्य तावदेतेषां पवित्रतमं293 चरित्रम्॥९४॥

उच्छिष्टान्यति294दूरतः परिहरन्त्युज्झन्त्यसत्सङ्गतिं
प्राणापत्स्वपि बान्धवेतरगृहे प्राश्नन्ति नापोऽप्यमी॥
काम्यं निर्मिमते295 न कर्म भगवत्कैङ्कर्य एव स्थिताः
सत्त्वस्थैः स्पृहणीय एष जयति296 श्रीवैष्णवानां क्रमः॥२३९॥

किं च—

भाले शुद्धमृदूर्ध्वपुण्ड्रतिलकः पद्माक्षमाला गले
दिव्यं शङ्खरथाङ्गचिह्नमनिशं दीप्तं भुजामूलयोः॥
वक्त्रे शौरिगुणैकवर्णनपरा वाचस्तदेनोमुचा-
मेतेषां हरिभक्तितुन्दिलहृदां वीक्षापि मोक्षावहा॥२४०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

जाचार्यस्य दर्शने शास्त्रे एका अनन्या निष्ठा श्रद्धा येषां तेषु अत एव गरिष्ठेषु श्रेष्ठेषु सन्नह्यसि दोषारोपणे प्रवर्तसे ? अथवा भवादृशानां त्वादृशानां कृशविवेकानाम् अल्पविचाराणां का नाम मर्यादा स्थितिः ? कापि नैवेत्यर्थः॥९३॥

  • अनल्पकमिति। धरायां भूमौ ते खलाः काकोला द्रोणकाका इव “द्रोणकाकस्तु काकोलः” इत्यमरः। सर्वज्ञस्यापि अनल्पकं मालिन्यं दोषमशुद्धिं च आरोपयन्ति प्रापयन्ति हि। पक्षे सर्वज्ञस्य शिवस्यापि अनल्पायां कन्धरायां ग्रीवायां मालिन्यं नैल्यं काकोलाःकालकूटा इव॥२३८॥*

  • पश्येति। पवित्रतममतिपवित्रम्॥९४॥*

  • तत्राद्य शिष्टपङ्क्तावभुक्तिरूप दोषं निवारयति—उच्छिष्टानीति। अमी रामानुजीयाः उच्छिष्टान्यन्नानि अतिदूरतः परिहरन्ति, असद्भिः सङ्गतिं सहभोजनादिरूपाम् उज्झन्ति त्यजन्ति, प्राणापत्सु सतीष्वपि बान्धवेतरगृहे अपोऽपि उदकान्यपि न प्राश्नन्ति, काम्यं स्वर्गादिहेतुकं कर्म न निर्मिमते न कुर्वन्ति। किन्तु भगवतः कैङ्कर्ये पूजादिरूपसेवायामेव स्थिताः। अत एव एषः उक्तविधः श्रीवैष्णवानां क्रमः रीतिः सत्त्वस्थैः सात्त्विकैः स्पृहणीयः कामनीयः सन् जयति॥२३९॥*

  • भाल इति। यस्मादेतेषां भाले शुद्धमृदा श्वेतमृत्तिकया गोपीचन्दनरूपया ऊर्ध्वपुण्ड्रात्मकास्तलकः, गले पद्मबीजमयी अक्षमाला, भुजामूलयोर्बाह्वग्रयोः अनिशं दिव्य*

**दोषारोपणं चैतेषु त्वदीयमपहास्यम्॥९५॥**तथाहि—

इष्टात्स्वबान्धवजनादितरैरदृष्टं
यद्भुञ्जतेऽन्नमिह लक्ष्मणपक्षनिष्ठाः॥
दोषः किमेष दुरितापहरो गुणो वे-
त्येवं विविच्य परिपृच्छ गुणागुणज्ञान्॥२४९॥

किञ्च—

दृष्टं बन्ध्वितरैः सतामनदतां दोषो य एषोऽपरैः
शिष्टैः स्पृष्टमनश्नतामिह महाराष्ट्रादिकानां समः॥
एषां दूषयिता न कोऽपि नियताहारः परन्तु द्विजः
सर्वाशी नतु दूषणं हितभुजां297 तेषामिदं भूषणम्॥२४२॥

यश्च शठारिप्रभृतिसत्त्वस्थमुनि298विनिर्मितदिव्यप्रबन्धाध्ययने दोषउद्घाटितः299 सोऽयमितिहास-पुराणादिभिर्वेदमुपबृंहयद्भ्यःसद्भ्यो300न रोचते। श्रृणु तावत्॥९६॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

दीप्त शङ्खस्य रथाङ्गस्य चक्रस्य च चिह्नम्, वक्त्रे शौरिगुणैकवर्णनपराः श्रीकृष्णगुणवर्णनासक्ताः वाचः। सर्वत्र यथायोग्यमस्तीत्यादिवचनानुसारेण क्रियापदं योज्यम्। तत्तस्मात् हरिभक्तितुन्दिलहृदां श्रीकृष्णभक्त्या पूर्णमानसानाम् अत एव एनोमुचां निष्पापानामेतेषां वीक्षा दर्शनमपि मोक्षावहा भवति॥२४०॥

  • ** दोषेति।** अपहसितुं योग्यम् अपहास्यम्। परिहासास्पदमित्यर्थः॥९५॥*

  • ** इष्टादिति।** इह लक्ष्मणपक्षे रामानुजमते निष्ठाः स्थिताः इष्टात् स्वमतस्थात्स्वबान्धवजनात्, इतरैः मतान्तरस्थैः अबान्धवैरदृष्टमन्नं भुञ्जत इति यत्, एष उक्तविधान्नभोजनरूपः, दोषः ? किं वा दुरितं पापम् अपहरति विनाशयतीति दुरितापहरो गुणः ? इति उक्तप्रकारं विविच्य आलोक्य गुणानगुणान् दोषांश्च जानन्तीति तज्ज्ञान् परिपृच्छ विचारय॥२४१॥*

  • अथ ‘विदुषां मतान्तरजुषां पङ्क्तौ न भुङ्क्ते’—इत्यादि दूषणमुद्धारयन्नाह—दृष्टमिति। बन्ध्वितरैर्दृष्ट अन्नम् अनदताम् अभक्षयतां सतां, य एषः दोषः कथितः, सः एषः दोषः अपरैः शिष्टैः स्पृष्ट अनश्नताम् अभक्षयतां महाराष्ट्रादिकानां महाराष्ट्रादीतरदेशवासिनामपि समः तुल्यः। नियताहारः मितभोजनः कोऽपि द्विजः एषां रामानुजीयानां दूषयिता दूषकः न भवति। परन्तु किन्तु सर्वत्राश्नातीति सर्वाशी द्विजः दूषयिता स्यात्। इदम् अनियमभोजनकृतदूषणं तु हितभुजां शरीरसुखकर भोजिनां तेषां भूषणमेव न तु दूषणमिति योज्यम्॥२४२॥*

  • भाषाप्रबन्धाध्ययनरूपं दोषं निराकर्तुमाह**—यश्चेति।** शठारिः एतन्नामा*

बकुलविभूषणेन गुरुणा करुणानिधिना
श्रुतिमुकुटाभिसन्धिमवधार्य परं गहनम्॥
रचितमिह प्रबन्धमनुसन्दधतां कथितं
सममपि दूषणं स्मृति-पुराणमधीतवताम्॥२४३॥

किञ्च—

उपादेयं प्राज्ञैरुचितविषयं द्राविडवचो-
ऽप्ययुक्तार्थं हेयं भवति वचनं संस्कृतमपि॥
हरिं विभ्रच्चेतस्यनतिसुभगोऽपि स्तुतिपदं
न सद्रूपोऽप्यन्तःकरणधृतनारीस्तनभरः॥२४४॥

वस्तुतस्त्वगस्त्यव्याकरणानुशिष्टानामनवद्यशिष्टपरिग्रहविशेषप्रकृष्टानां द्राविडशब्दानां को नाम संस्कृतादपकर्षः॥९७॥ पश्य —

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

कश्चिन्मुनिः सः प्रभृतिर्मुख्यो येषु तैः सत्त्वस्थमुनिभिः सत्त्वगुणयुक्तऋषिभिः, एतेन तेषां शम-दमादिसाधनसम्पत्तिमत्त्वं, काम-क्रोधादिराहित्यं च सूचितम्। निर्मितदिव्यप्रबन्धानाम् अज्ञजनज्ञानार्थ विरचितदिव्यभाषाग्रन्थानाम् अध्ययने यश्च दोषः उद्घाटितः प्रकटीकृतः, सोयम् इतिहास-पुराणादिभिर्वेदमुपबृंहयद्भ्यो वर्धयद्भ्यः सद्भ्यः, व्यास-वसिष्ठसदृशसज्जनेभ्यो न रोचते। अनेन इतिहास-पुराणानि यथा वेदोपबृंहणानि, तथैवैतेषां भाषाप्रबन्धा अपीति सूचितम्॥९६॥

  • एतदेव सविस्तरमुपपादयति—बकुलेति। करुणानिधिना अत एव बकुलविभूषणेन शठकोपेन गुरुणा, श्रुतिमुकुटानाम् उपनिषदाम् अभिसन्धिं तात्पर्यं परमुत्कृष्ट गहनं दुर्ज्ञेयम्अवधार्य निश्चित्य रचितम्। द्राविडभाषयेति शेषः। प्रबन्धम् अनुसन्दधतां पठतां यद् दूषणं कथितं, तद् दूषणं स्मृतिः मानवादिः पुराणानि वैष्णव-भागवतादीनि च। “नपुंसकमनपुंसकेन” इत्यादिना एकवद्भावः। अधीतवतां तत्पठनं कुर्वतामपि समं, वेदार्थोपबृंहकत्वाविशेषादिति भावः॥२४३॥*

  • ननु तथात्वेऽपि प्रबन्धस्य द्रविडदेशभाषामयत्वेन “देशभाषामयं काव्यं श्रोतव्यं जातु न द्विजैः।” इति स्मरणादनुचितमेव तत्पठनमित्याशङ्क्याह**—उपादेयमिति।** उचितः योग्यः विषयः प्रतिपाद्यं यस्य तद् द्राविडवचः प्रबन्धरूपमपि, प्राज्ञैर्मनीषिभिः उपादेयं स्वीकार्यम्भवति। अयुक्तार्थम्अनुचितविषयं संस्कृतमपि वचनं भाण-प्रहसनादिरूपं हेयं त्याज्य च भवति। उक्तेऽर्थे दृष्टान्तमाह—न अतिसुभगः सुन्दरः अनतिसुभगः कुरूपोऽपि, हरिं चेतसि अन्तःकरणे बिभ्रद् धारयन् जनः स्तुतेः पद स्थानं भवति। सद्रूपोऽपि सुरूपसम्पन्नोऽपि अन्तःकरणे चेतसि धृतः नारीस्तनभरः स्त्रीस्तनसौन्दर्यंयेन तादृशः जनः स्तुतिपदं न भवति। दृष्टान्तालङ्कारः॥२४४॥*

  • वस्तुतस्त्विति। अगस्त्यव्याकरणं ‘इलक्कणं’ इति भाषानामप्रसिद्धं*

स यासां व्याकर्ता चुलुकितसमुद्रो मुनिवरः
प्रबन्धारः प्रौढाः शठमथनमुख्याः शमधनाः॥
प्रवक्तारः शुद्धाः प्रथितयशसः पूर्वगुरवो
गिराम्पारे तासां जयति गरिमा द्राविडगिराम्॥२४५॥

यश्चैकदेशविषयदूषणोपन्यासस्तत्राप्याकर्ण्यताम्॥९८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

तेनानुशिष्टानां व्युत्पन्नानां, अनवद्याः स्तुत्याः ये शिष्टाः तेषां परिग्रहविशेषेण आदरातिशयेन प्रकृष्टानामुत्तमानां द्राविडशब्दानां, प्रबन्धगतानामिति शेषः। को नाम संस्कृतादपकर्षः निकृष्टत्वम् ?॥९७॥

  • ** स इति।** यासां द्राविडवाणीनामिति वाक्यत्रयेऽपि योज्यम्। व्याकर्ता व्याकरणेनसंस्कारकर्ता तु, चुलुकितः आचमनमात्रेणैव प्राशितः समुद्रो येन तथाभूतः, सः प्रसिद्धः मुनिवरोऽगस्त्यः, प्रबन्धारः भाषाग्रन्थकर्तारश्च प्रौढाः प्रगल्भाः शठमथनमुख्याः शठकोपादयः, शमो बाह्येन्द्रियनिग्रहस्तद्रूपमेव धनं येषां तथाभूताःमुनयः, किञ्च प्रवक्तारः अध्यापकाश्च, शुद्धाः अन्तर्बाह्येन्द्रियदमनेन शुद्धान्तःकरणाः, प्रथितयशसश्च पूर्वे गुरवः रामानुजादयः। सर्वत्र भवतीत्यादि यथायोग्यं वचनविपरिणामेनानुसन्धेयम्। तासां द्राविडगिरा गरिमा महत्त्वं, गिराम्पारे जयति। वाचामविषय इत्यर्थः॥२४५॥*

  • इदानीं ‘घण्टाघोष’ त्यजन्तः—’ इत्यादिश्लोकैरुपन्यस्तदूषणमुद्धारयन्नाह—य इति। एकदेशः पूजायां घण्टानादाकरण-यज्ञादिकर्मत्यागादिरूपः विषयः येषां तेषां दूषणानामुपन्यासः कथनम्॥९८॥*

  • इतः परं दश पद्यानि सप्त गद्यानि चात्र मुद्रितपुस्तके अधिकान्युपलभ्यन्ते, प्राचीनपुस्तकेषु, अस्मत्सम्पादितादर्शपुस्तके च तानि नोपलभ्यन्त एव। तस्मात्तानि केनचित्प्रक्षिप्तानीति भाति। एतद्विषये च मुद्रितपुस्तके टीकाकारः, ‘ग्रन्थकर्त्रा वेङ्कटाध्वरिणा ‘तेङ्गले’ इत्याख्यानां दोषानुद्घाट्यतन्निवारणं सम्यक्तया न कृतमिति मत्वाऽन्येन केनचित्तेङ्गलसम्प्रदायिना स्वसम्प्रदायोपर्यारोपितदोषनिरसनार्थमयमंशः प्रक्षिप्तः’ इति वदति च। अतस्तेषां मूले निवेशोऽयुक्त इति अत्रैव वाचकानां परिज्ञानार्थन्निवेश्यन्ते। तेषां टीका च टिप्पणीस्थले यथावलोकन निवेशिता। मूलबहिर्भूतत्वान्न मया पृथक् टीकाकरणे यतितम्। यथा—*

  • किञ्च—*

यज्ञान् पञ्च च सञ्चितात्मधिषणा मान्यानथान्याध्वरान्
तत्तद्देवशरीरमाधवमुखोल्लासावहानप्यमी॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • ** यज्ञानिति।** सञ्चिता आत्मधिषणा आत्मज्ञानसाक्षात्कारः यैस्ते। ज्ञानिन इत्यर्थः। अमी रामानुजीयाः। “पञ्च वा महायज्ञा ब्रह्मयज्ञो देवयज्ञो भूतयज्ञः पितृयज्ञो मनु-*

सन्त्यज्याप्यवधानतः प्रभुतमं स्वाराधनैतोषय-
न्त्येषां सञ्चरितं यशांसि भजतां सूते पुनीते जगत्॥१॥

सर्वाश्यर्हितवैष्णवाङ्घ्रिपयसाम्पानेन आत्मभि-
र्बह्वायासनिषेव्यपावनजटा गङ्गापि नाङ्गीकृता॥

सामीप्येऽपि पयोनिधिः परिहृतः पश्वादिकाम्याद्विधेः
सारासारविवेचने समुचिता सन्दृश्यते चातुरी॥२॥

हन्त एतेष्वेव सांसिद्धिकामच्युतभक्तिमपेक्ष्य विजयते तद्भकभक्तिरनितरसाधारणी॥ १॥

दृष्टे झटित्यखिललोकनिदानभक्तेसाष्टाङ्गमत्रपमपाकृतसर्वगर्वम्॥
अस्पृष्टदेशसमयं प्रणमन्ति तेषां धन्यात्मनां वद किमन्यदुपास्यमस्ति॥ ३॥

यच्चयतिवन्दनविषयेऽप्यवहितोऽसि तत्राप्याकर्ण्यताम्॥२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

ष्ययज्ञ इति” इत्यादिश्रुत्युक्ताः तान्। अथ मान्यान् अन्यानध्वरान् ज्योतिष्टोमादीन्, तत्तद्यज्ञस्थदेवतारूपत्वेन माधवस्य विष्णोः मुखम् अग्निः “अभिमुखा वै देवाः” इति श्रुतेः। तस्य उल्लासः तृप्तिः तामावहन्तीति तानपि एतादृशान्यज्ञान् सन्त्यज्य विहाय, अमी अवधानतः सावधानतया प्रभुतमं सर्वेश्वरं विष्णु स्वाराधनैः पूजन-भजनादिभिः तोषयन्ति। एतादृशानामेषां हरिं भजतां सत् साधु चरितम् आचरित यशांसि सूते, जगत् पुनीते पवित्रयति च॥१॥

  • सर्वेति। सर्वेभ्य इतरेभ्यो जलेभ्यःअभ्यर्हितानां सन्निधानां सुखलभ्यानां पूज्यानां वा वैष्णवाङ्घ्रिपयसां वैष्णवपादोदकानां पानेन पूतः आत्मा शरीरं येषां तैः एभिः, बह्वायासेन निषेव्या पावना जटा मूलम् उगमश्च यस्याः। “मूले लग्नकचे जटा” इत्यमरः। तुषारपिहितात्युच्चहिमाचलनिर्गतत्वाद् अतिदूरत्वाद्वा बह्वायासनिषेव्यत्वम्। गङ्गापि नाङ्गीकृता पावित्र्यार्थं न स्वीकृता। अनायासलभ्यवैष्णवपादतीर्थेनैव पावित्र्यलाभात्। तीरोपान्तनिवासित्वात् सामीप्येऽपि पयोनिधिः समुद्रः स्नानादिषु परिहृतः। पशुबन्धादिकाम्यकर्मविधेः सारासारविवेचने कर्तव्याकर्तव्यविवेके समुचिता चातुरी नैपुण्य दृश्यते। एषामिति शेषः॥२॥*

  • हन्तेति। सांसिद्धिकां जन्मान्तरसुकृतलब्धाम् अच्युतस्य भगवतो भक्तिमपेक्ष्य, तद्भक्तानां वैष्णवानाम्भक्तिः, अनितरसाधारणी असदृशी विजयते सर्वोत्कर्षेण वर्तते। भगवतोऽप्यधिकं तद्भकानेवामी भजन्तीति भावः। हन्तेति हर्षे॥१॥*

  • कथमित्याकाङ्क्षायामाह**—दृष्टे इति।** अखिललोकस्य विश्वस्य निदानम् आदिकारणं “निदानं त्वादिकारणम्” इत्यमरः। भगवान् विष्णुः तस्य भक्ते दृष्टे सति, साष्टाङ्ग*

“उरसा शिरसा दृष्ट्या मनसा वचसा तथा।
पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग उच्यते॥”

  • इत्युक्तलक्षणम् अत्रपं लज्जारहितम् अपाकृतः दूरीकृतः सर्वोऽपि गर्वः यस्मिन्नेतादृशं च यथा स्यात्तथा प्रणमन्ति नमस्कुर्वन्ति। एतादृशानां तेषां भगवद्भक्तादन्यत् किम् उपास्यमस्ति ? न किमपीत्यर्थः॥३॥*

*** यच्चेति।** अवहितोऽसि बद्धकटाक्षोऽसि॥२॥*

उत्कर्षं चरमाश्रमी जडमतिः स्वेनैव जानाति चेन्
नेदिष्ठेष्वपि सर्वलोकगमितुर्भक्तेषु भित्तीयते॥
अन्येऽमी यतयः प्रबोधमतयः सर्वस्य चोत्कर्षदा
भक्तिर्भागवतीति सस्पृहममूनर्चन्ति नृत्यन्ति च॥४॥

इदं चाधेयम्—

चतुर्वेदाध्यायी सकलविहिताचारनिपुणो
निषिद्धाचारानप्यथ परिहरञ्छ्रास्त्रपदवीम्॥
यतिर्वाप्यन्यो वा हरिचरणभक्तान्यदि जनानु-
पेक्षेत क्षान्तैर्न भवति पदं विश्वगमितुः॥५॥

तदनतिक्रान्तलोकमर्यादमाश्रमत्रयस्यैव न केवलं, निखिलाश्रमिणामपि परस्परभक्तिप्रकर्षप्रकटित-दास्यमुक्तिप्रत्युद्गमाभिवादनादिकमवश्यानुष्ठेयमेवेति साधु जानीहि॥३॥ यदपि प्रपन्नजनजीवन-प्रधाननिदानपावनपादावनेजनावलम्बिदूषणं तदपि तन्महिमाऽपरिज्ञानविजृम्भितं बुद्धेः पिशुनयति दौर्भाग्यम्॥४॥ तथाहि—

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • उत्कर्षमिति। जडा मतिर्यस्य सः अपण्डितः चरमाश्रमी सन्यासिकः, स्वेनैव अर्थात् स्वस्य उत्तमाश्रमेणैव उत्कर्षम् इतरेभ्यः श्रेष्ठत्वं जानाति चेत् तर्हि, सर्वेषां लोकानां गमितुः सर्वलोकव्यापिनः भगवतः भक्तेषु भित्तीयते भित्तिवदाचरति। इतराश्रमिषु भगवद्भक्तेषु नमत्स्वपि जडमतिरय स्वात्मानमेव पूज्यतम मन्वानो यतिः भित्तिवत् स्थाणुरिव भवति, प्रतिवन्दनादिकं किमपि न करोतीत्यर्थः। ये त्वन्ये अमी यतयः प्रबोधमतयः प्राज्ञाः, ते तु सर्वस्यापि प्राणिनः उत्कर्षदा महत्त्वप्रदा भागवती भगवत्सम्बन्धिनी भक्तिरेव भगवद्भक्त्यैव पूज्यत्व महत्त्वं च नान्यैः आश्रमादिभिर्लिङ्गैरिति मत्वा, सस्पृह अमूनन्यान् वैष्णवान् वानप्रस्थ- गृहस्थ-ब्रह्मचारि-स्त्री-शूद्रानपि अर्चन्ति पूजयन्ति तदानन्देन नृत्यन्ति च॥४॥*

  • चतुर्वेदेति। चतुर्णाम्ऋग्यजुःसामाथर्वाख्यानां वेदानाम् अध्यायी अध्ययनकर्ता सकले समग्रे विहिताचारे शास्त्रचोदितानुष्ठाने निपुणः कुशलोऽपि, निषिद्धान्वर्णाश्रमाद्यधिकृत्य शास्त्रेषु वर्जितान् आचारान् लशुन-गुञ्जनभक्षणादिरूपान् परिहरन् वर्जयन्नपि, शास्त्रपदवीं शास्त्रोदितमार्गं, चरन्निति शेषः। यतिः अन्यः गृहस्थोऽपि वा हरिचरणभक्तान् वैष्णवान् यदि उपेक्षेत अवज्ञायेत चेत्, तस्य तत्कर्म विश्वगमितुः विश्वपतेर्भगवतः क्षान्त्यै क्षमायै पदम् आस्पदं न भवति। विद्यादिसकलगुणविशिष्टोऽपि पुमान् वैष्णवापमानकृदपराधी भवतीत्यर्थः॥५॥*

  • ** तदिति।** तत् तस्मात् हेतोः अनतिक्रान्तलोकमर्याद लोकमर्यादाम् अनतिक्रम्य यथा स्यात्तथा ब्रह्मचारि-गृहस्थ- वानप्रस्थरूपस्य आश्रमत्रयस्यैवायं परस्परवन्दनादिरूपो धर्म इति न, तर्हि निखिलाश्रमिणां सन्न्याससहितानां चतुर्णामपि आश्रमाणां परस्परस्य भक्तिप्रकर्षेण प्रकटितं दास्यं प्रश्रयोक्तिः प्रत्युद्गमनाभिवादनादिकं च सर्वैरनुष्ठेयमेवेति साधु सम्यक् जानीहि बुध्यस्व॥३॥*

  • एवं यतिवन्दनदूषणं परिहृत्य वैष्णवपादोदकसेवनदूषणं परिहरति**—यदपीति।*यदपि प्रपन्नानां प्रपत्तिधर्मेण भगवते शरणागतानां जीवनस्य प्रधानं मुख्यं निदानं

स्वातन्त्र्यं परिवर्जयन्निजगुरोरङ्घ्रिद्वयांशीभवन्
प्रीत्यै स्वामिजनस्य निःस्पृहतया सन्वीत तीर्थान्वयम्॥
गोष्ठीभूय समार्जितं निपुणधीः श्रीपादतीर्थं स्वयं
स्वीकुर्याद्यदि पाश्चरात्रपदवीभाजां न तद्दूषणम्॥६॥

वद रहसि पदाम्बु स्वीयमापीयते वा विगतनिजपदाम्भो नार्थ्यतेवाऽङ्घ्रितीर्थम्॥
अपि तु तदभिलाषा स्वामिनां स्वाङ्घ्रिसङ्गेऽप्यधिकतरपवित्रं सेव्यते पादतीर्थम्॥७॥

तदवधेहि उपेक्षणीयनिजपदपयःसङ्गेऽप्यङ्गीकरणमधिकतरपवित्रबहुलतरहरिचरणसन्ततान्तरङ्ग-जनचरणावनेजस्य समुचितमेवेति॥५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

यत् पावनं पवित्र पादावनेजनं पादोदकं तद् अवलम्बते इति तदवलम्बि तत्सम्बन्धि। पादोदकवन्दनरूपं यद्दूषणं, त्वयोपन्यस्तमिति शेषः। तदपि तस्य पादतीर्थस्य महिमा महत्त्वं तस्य अपरिज्ञानेन अज्ञानेन विजृम्भितं सत्, बुद्धेः धियःदौर्भाग्यं दुर्बलत्वम् आकुञ्चितत्वमित्यर्थः। पिशुनयति प्रकटयति॥४॥

  • तदेवोपपादयति**—स्वातन्त्र्यमिति।** स्वातन्त्र्यं स्वच्छन्दतां कामचारित्वमिति यावत्। परिवर्जयन् दूरतस्त्यजन्, निजगुरोः भगवतः अङ्घ्रिद्वयस्य अंशीभवन् स्वात्मानं भगवच्चरणांशभूतमिति मन्वानः सन्, स्वामिजनस्य सन्न्यासिजनस्य प्रीत्यै तदुक्तकरणेन तत्सन्तोषजननार्थन्निःस्पृहतया फलाभिसन्धिराहित्येन तीर्थान्वयं तीर्थयात्रां तन्वीत आचरेद् वा आचरणं कुर्यादित्यर्थः। गोष्ठीभूय वैष्णवसमाजरूपेण स्थित्वा, गृह एवेति शेषः। समार्जितं सम्पादितं श्रीपादतीर्थं प्रपन्नजनपादोदकं निपुणधीः कुशलबुद्धिः स्वयं स्वीकुर्याद् यदि स्वीकरोति चेत्, तर्हि तत् पादतीर्थग्रहणं मतान्तरस्थायिनां दूषणं भविष्यति चेद् भवतु नाम। परं पाञ्चरात्रपदवीभाजां पञ्चरात्रागमं प्रमाणीकुर्वतां रामानुजीयानां तद्दूषण नभवति, अपि तु भूषणमेवेति फलितोऽर्थः॥६॥*

  • अन्यदप्याह—वदेति। रहसि वैष्णवगोष्ठ्याम्, स्वीयं स्वकीयं पदाम्बु पादतीर्थमेव आपीयते प्राश्यते वेति वद। विगतनिजपदाम्भः विगतं निजं पदं स्थानं यस्य तादृशम् अम्भः स्वस्थानभ्रष्टमुदकम् अङ्घ्रितीर्थं चरणतीर्थञ्च नार्थ्यते न याच्यते वा अपि तु याच्यत एवेत्यर्थः। तस्य चरणतीर्थस्य अभिलाषां स्वामिनां प्रभूणां विष्णोरित्यर्थः। बहुवचनं पूजायाम्। अस्त्येव। यतः स्वाङ्घ्रिसङ्गेऽपि अधिकतरपवित्रं स्वचरणादपि तदुद्भवं गाङ्गमुदकं भगवतापि सेव्यते। अतस्तद्भकानां वैष्णवपादोदकसेवने न कोऽपि दोषः। भगवदनुष्ठितत्वादस्य मार्गस्येति भावः॥७॥*

  • ** तदिति।** उपेक्षणीयस्य निजपदपयसः स्वीयपादोदकस्य सङ्गेऽपि तस्य अङ्गीकरणं गोष्ठ्यां हि सर्वेषां तत्रत्यानां पादोदकग्रहणे स्वस्यापि पादावनेजनादेकं तत्र वर्तत एव। तथापि तस्य अङ्गीकरणं प्राशनं वन्दनं वा स्वस्मादपि अधिकतरपवित्राणां विशेषतया पावनानां बहुलानां हरिचरणयोः भगवत्पादयोः सततम् आसक्तम् अन्तःकरणं येषां तेषां वैष्णवानां जनः समूहः तस्य चरणावनेजनस्य पादप्रक्षालनस्य यदुदकं तस्य सेवनं समुचितमेव युक्तमेव। स्वाधिकभगवद्भक्तपादतीर्थमि-*

मज्जन् जनः स्वचरणद्वयसङ्गभाजि गङ्गाझरे निजकलङ्कनिरासहेतोः॥
पूर्णोपमानमवधेहि निजाङ्घ्रिसङ्गिभक्ताग्रगण्यपदपद्मपयः पिपासोः॥८॥

आस्तामिदं वाचनिके वितण्डायमानाः सन्ध्यासु विहितमात्मप्रदक्षिणमप्यधिक्षिपन्तु। हन्तैतेषामनपायसत्सम्प्र- दायप्रवर्तकः सकलगुरुतिलकलोकगुरुहृदयानुसारी स एष विजयते सौम्योपयातानां देशिकसार्वभौमः॥६॥

पुण्यश्लोकः परमभिमतः स्वःस्थलेष्वास्थयाऽसौ
यस्य श्लोकप्रथमपठनश्लाघनाकम्पमानैः॥
चूडासूनैः स्त्रपयति मधुस्यन्दिभिश्चञ्चरीकैर्द-
त्तस्वस्तिप्रवचनमुरो नित्यभूषां स्वयोषाम्॥९॥

खलकृतपरिभाषाकर्णनोद्यज्जिगीषाविततनिजमनीषा विस्तृतब्रह्मयोषा॥
जयति दलितदोषा दत्ततत्त्वाभिलाषा वरवरमुनिवेषा क्वापि वैकुण्ठभूषा॥१०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

श्रुत्वात् स्वपादतीर्थबुद्ध्या तस्याग्रहणाच्च स्वपादोदकस्पर्शनेऽपि न कोऽपि दोष इति भावः॥५॥

  • ** मज्जन्निति।*स्वस्य चरणद्वयस्य सङ्गभाजि स्वचरणद्वयसङ्गते गङ्गाझरे भागीरथीप्रवाहे निजकलङ्कस्य स्वीयपापस्य निरासहेतोः दूरीकरणार्थं मज्जन् स्नानं कुर्वन् जनः, भगवद्भक्तेषु अग्रगण्यानां मान्यानां यत् पदपद्मं पादकमलं तत्सम्बन्धि पयः उदकं तस्य पिपासुः पातुमिच्छुः तस्य प्रपन्नपादतीर्थसेविनः रामानुजीयस्य गङ्गास्नानकृदय जनः पूर्णम् उपमान अवधेहि। पूर्णोपमेति तत्समानमिति जानीहि॥८॥

  • आस्तामिति। वाचनिके शब्दकोठ्यां वितण्डायमानाः सम्प्रदायान्तरास्थायिन इति शेषः। स्वपादतीर्थसेवनमधिक्षिपन्ति, तर्हि ते सन्ध्यासु सन्ध्यावन्दनसमयेषु विहितमात्मप्रदक्षिणमपि अधिक्षिपन्तु तत्तु नाधिक्षिपन्ति। प्रत्युत अहरहराचरन्त्येव। अत उभयत्र साम्यात् स्वपादतीर्थसेवने तदधिक्षेपे न कापि हानिरिति भावः। हे सौम्य साधो, उपयातानां शरणागतानां, अनपायः अपायरहितः निर्विघ्न इत्यर्थः। तादृशस्य सतः सम्प्रदायस्य सन्मार्गस्य प्रवर्तकः प्रवृत्तिकर्ता सकलानां गुरूणाम् आचार्याणां तिलकः श्रेष्ठः। लोकगुरोः भगवतः श्रीविष्णोः हृदयम् अभिप्रायः तम् अनुसरति भगवदभिप्रायानुसारिमार्गस्थापक इत्यर्थः। स एष प्रसिद्धः रामानुजः विजयते सर्वोत्कर्षेण वर्तत इति भावः। देशिकानाम् उपदेशकर्तॄणाम् आचार्याणां सार्वभौमः श्रेष्ठः॥६॥*

  • तमेव रामानुजं वर्णयति**—पुण्येति।** पुण्यकारकं श्लोकः यशः यस्य स पुण्यश्लोकः इति। परम् अत्यर्थम् अभिमतः स्वस्थलेषु स्वर्गलोकप्रदेशेषु यस्य श्लोकस्य यशसः यत्कृतपद्यस्यच प्रथमपठने या श्लाघना स्तुतिः तया कम्पमानैः चञ्चलैः मधुस्यन्दिभिः मकरन्दस्रुभिः चूडासूनैः वेणीकुसुमैः चञ्चरीकैः भ्रमरैः दत्तस्वस्तिप्रवचनं दत्तस्वस्त्युत्तरं दत्तशान्तिकमिति यावत्। नित्यभूषाम् अयातयामकुसुमधारिणीं स्वयोषां स्रपयति॥९॥*

  • खलेति। खलैः दुर्जनैः कृतायाः परिभाषायाः निन्दायाः आकर्णनेन उद्यन्ती जिगीषा जेतुमिच्छा तया वितता विस्तृता निजमनीषा स्वेच्छा तया विस्तृता प्रप-*

कतिचिदलसाः कर्मायासासहा301 यदि निश्चला -
स्तदपि भगवद्भक्तिस्तेषां धुनोति भवव्यथाम्॥
श्रमसहजनैकार्हैर्नृृणां विनैव हि लङ्घनै-
र्ज्वरनिरसनायालं वीर्योत्तरं परमौषधम्॥२४६॥

किञ्च—

रहस्यव्याख्यानै रघुवरचरित्रानुकथनै-
स्त्रयीसध्रीचीनां बकुलधरवाचां प्रवचनैः॥
अमी भाष्याख्यानैर्हरिचरणकैङ्कर्यविधिभिः
प्रणामैश्चार्याणां क्षणमिव नयन्त्यत्र दिवसान्॥२४७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

*** आकर्णय तावदेतदीयानां पवित्रतमं चारित्रम्॥७॥***

  • कतिचिदिति। एषां रामानुजीयानां मध्ये इति शेषः। कतिचिज् जनाः अलसाः कर्माणि कर्तुमशक्ताः सन्तः, कर्मणां सन्ध्यादीनाम् आयासं श्रम न सहन्ते ते तथाभूताः अपि, यदि भगवद्भक्तौ निश्चलाः स्थिरचित्ताः भवन्ति, तदपि तावन्मात्रेणापि भगवद्भक्तिः तेषां रामानुजीयानां भवस्य संसारस्य व्यथां धुनोति विनाशयति। अत्र दृष्टान्तं प्रमाणयति—श्रमं क्षुत्तृड्जन्यं सहन्ते इति तत्सहास्तथाभूतानां जनानाम् एकं मुख्यं यथा तथा अर्हैर्योग्यैः लङ्घनैः भोजननिवृत्तिभिः विनैव हि, नृृणां रोगिजनानां वीर्योत्तरं बलवत्तरं परममुत्तमं च तद् औषधं च तत्, ज्वरस्य निरसनाय विनाशाय अलं समर्थ भवति। वैद्यशास्त्रे हि रुग्णजनानां रोगशान्त्यै लङ्घनं प्रधानत्वेनोक्तं, परं यदि लङ्घने अशक्ताः केचिज्जना भवेयुस्तर्हि केवलमौषधेनैव तेषां रोगशान्तिर्भवतीति भावः। तथैवैतेषां भक्तिसामर्थ्यम्॥२४६॥*

  • ** रहस्येति।** किञ्च अमी रामानुजीयाः, रहस्यानाम् ईश्वरस्वरूपप्रतिपादकानां व्याख्यानैः अर्थप्रकाशपरैः, रघुवरस्य श्रीरामचन्द्रस्य चरित्रानुकथनैः चरित्रवाचनैः त्रयीसध्रीचीनां वेदानुसारिणीनां बकुलधरवाचां श्रीरामानुजवचनानां प्रवचनैः कथनैः, भाष्यस्य श्रीरामानुजप्रणीतस्य आख्यानैः, हरेः श्रीविष्णोः चरणयोः कैङ्कर्यविधिभिः दास्यकरणैः, आर्याणां तन्मतस्थश्रेष्ठजनानां प्रणामैर्वन्दनैश्च, अत्र क्षणमिव दिवसान् नयन्ति निर्यापयन्ति॥२४७॥*

ञ्चिता ब्रह्मणः योषां वाणी यस्याः सा, दलिताःखण्डिताः दोषाः यया, दत्तः तत्त्वे परतत्त्वे अभिलाषः यया, वरः श्रेष्ठो योमुनिः तस्य वरः वेषो यस्याः रामानुजरूपेत्यर्थः। वैकुण्ठलोकस्य भूषा भूषणंविष्णुः क्वापि जयति सर्वोत्कर्षेण वर्तते॥१०॥

  • *पुनः क्षणमनुध्याय सश्लाघम्—

अन्यदास्तां नाम तामेव काममन्योन्यं कलहायमानानां नानाविधानां श्रुतीनामविरोधसाधनेन302 साधुभावं प्रकटयन्तीम् अखिलगुणाभिरामां रामानुजसरस्वतीमभिनन्दामि। प्रसिद्धं हि “सन्धिमिच्छन्ति साधवः” इति॥९९॥ पश्य —

नित्यं हेयगुणावधूननपरा नैर्गुण्यवादाः श्रुतौ
मुख्यार्थाः सगुणोक्तयः शुभगुणप्रख्यापनाद्ब्रह्मणः॥
अद्वैतश्रुतयो विशिष्टविषया निष्कृष्टरूपाश्रया
भेदोक्तिस्तदिहाखिलश्रुतिहितं रामानुजीयं मतम्॥२४८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • ** अन्यदिति।** अन्यद् दूषणनिराकरणं, आस्तां नाम, किन्तु नानाविधानाम् ईश्वरस्य साकारत्व-निराकारत्व-जीवात्मनोरैक्य-भिन्नत्वप्रतिपादकत्वेनानेकप्रकाराणां श्रुतीनाम् अन्योन्यं कलहायमानानां कलह कुर्वन्तीनामिव स्थितानाम् अविरोधसाधनेन विरोध परिहृत्येत्यर्थः। साधुभावं सर्वासां सत्यतात्पर्यं प्रकटयन्तीं, अत एवाखिलैर्गुणैरभिरामां मनोरमां, तां प्रसिद्धां रामानुजस्य सरस्वतीं वाणीमेवाभिनन्दामि। अत्रार्थे सहज साधूनां चेष्टितमाह—प्रसिद्ध हीति॥९९॥*

  • यदुक्त ‘श्रुतीनामविरोधेन साधुभावं प्रकटयन्तीम्’ इति तदेव प्रतिपादयति—नित्यमिति। येश्रुतौ निर्गुणस्य भावो नैर्गुण्य तस्य वादाः, ईश्वरस्य निर्गुणत्वबोधकानि वाक्यानीत्यर्थः। तानि च “अनादिमध्यान्तविहीनमेकम्” न रूपमस्येह तथोपलभ्यते” इत्यादीनि। ते नित्यं निरन्तरं हेयगुणानां त्याज्यगुणानां दोषाणामिति यावत्। अवधूननपराः विनाशप्रतिपादकाः, सन्तीति सर्वत्रानुसन्धेयम्। तथा सगुणोक्तयः “सर्वतः पाणिपाद तत् सर्वतोऽक्षिशिरोमुखम् ” “सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात्”इत्यादयः सन्ति, ताश्च ब्रह्मणःआत्मनः शुभगुणानां लोकविलक्षणसृष्टि-स्थिति-लयकर्तृत्वादीनां प्रख्यापनात् प्रसिद्धिकरणान् मुख्यार्थाः शक्यार्थप्रतिबोधिकाः, तथा अद्वैतश्रुतयः “तत्त्वमसि” “अयमात्मा ब्रह्म” “अहं ब्रह्मास्मि" इत्यादयः जीवात्मपरमात्मनोरभेदप्रतिपादनपराः तास्तु, विशिष्टः सच्चिदानन्दात्मकस्य परमात्मनः असज्जड-सुख-दुःखात्मकस्य जीवस्य च अभेदप्रतिपादनरूपः विषयः यासां तथाभूताः, तथा भेदोक्तिः जीवेश्वरयोः परस्परं भेदवचनं तु निष्कृष्टं पूर्वप्रतिपादितविशेषणरहितं रूपं ययोर्जीवात्मनोस्तौआश्रयौप्रतिपाद्यौ यस्यास्तादृशी विद्यते। तत्तस्माद् इह लोके रामानुजस्येदं रामानुजीय मतम् अखिलानां सकलानां श्रुतीनां हितम्। सर्वभेदनिराकरणेनैकवाक्यताकरणादिति भावः। एतत्प्रतिपादनेन रामानुजीये मते ग्रन्थकर्तुः पक्षपातः प्रकटीभवति। नहि तावत्तत्त्वतः सर्वत्रेदृश्येव विवेचनरीतिर्दृश्यते।*

** ** कृशानुः—**अवितथमेतदथापि य इमे सञ्चरन्त्याचार्यपुरुषसमाख्याता तन्मताभिनिविष्टाः शिष्टास्तेषामेषा रीतिर्न रोचते विवेचकेभ्यः303।पश्य तावत्॥१००॥

हत्वा मार्गे द्विजादीनखिलमपि धनं हन्त हृत्वाऽतिदृप्ता304
दुर्वृत्तास्तस्करा ये वन-गिरिनिलया ये च नीचा इहान्ये॥
कृत्वा चक्राङ्कमेषां झटिति विदधतः किञ्च मन्त्रोपदेशं
तद्दत्तैरेव वित्तैर्दधति तनुममी वंशपारम्परीभिः305॥२४९॥

किञ्च—

जारान् चोरान् किरातान् जनपदमनान्306 राजपाशान्महीशान्307
शिष्यान्कृत्वातिदृप्ताः श्रुतिपथविधुराः308 श्रोत्रियैर्ब्रह्मनिष्ठैः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • अन्यथा पूर्वत्र माध्ववर्णनेऽपि तथैव कुर्यात्। तत्र तु ‘चन्द्रालोकचयान्धकार—इत्यादिकृशानुप्रतिपादितदोषारोपणेनैव तद्वर्णनं समापितम्। एतच्च यथार्थगुणदोषप्रतिपादनपरे ग्रन्थे अयुक्तमिति प्रतिभाति॥ २४८॥*

  • अथ कृशानुरर्धाङ्गीकारपूर्वकमाह**—अवितथमिति।** एतत्पूर्वोक्तमवितयं सत्यं, अथापि य इमे आचार्यपुरुषसमाख्याताः आचार्यनाम्ना प्रसिद्धाः एतन्मते श्रीरामानुजमते अभिनिविष्टाः अत्यन्तासक्ताः शिष्टाः सन्तश्च सञ्चरन्ति,तेषामेषा वक्ष्यमाणा रीतिराचारः विवेचकेभ्यो विचारशीलेभ्यो न रोचते। का सा रीतिरित्याशङ्कायामाह—पश्येत्यादि॥ १००॥*

  • ** इत्वेति।** ये लोकाः वनानि च गिरयः पर्वताश्च निलयः वसतिस्थानं येषां ते तथोक्ताः तस्कराः चोराः अर्थात् किरातादयो लोकाः, मार्गे वनपथे द्विजादीन्ब्राह्मणादिश्रेष्ठजातीयान् जनान् हत्वा, एतेन ब्रह्महत्याकरणं सूचितम्। तेषाम् अखिलं सम्पूर्णमपि धनं हृत्वा परिहृत्य, हन्तेति खेदे। अतिदृप्ताः अतिशयगर्वयुक्ताः, अनेन स्वर्णस्तेयरूपं द्वितीयं महापातकं सूचितम्। अत एव दुर्वृत्ताः दुराचाराः, ये च इह अन्ये उक्तेभ्य इतरे नीचाः सद्गुण-सत्कुलोत्पत्त्यादिहीनाः सन्ति तेषामेषां ब्रह्महत्यादिमहापातकयुक्तानामपि, झटिति तेषां कुलशीलादिकमविचार्यैवेत्यर्थः। अङ्गमिति शेषः। चक्राङ्कं मुद्रादानेन चिह्नितं कृत्वा, नैतावदेव किञ्च मन्त्रस्य रामायणाष्टाक्षरस्य उपदेशं विदधतः कुर्वन्तः सन्तः, तद्दत्तैः तैः किरातादिदुर्जनैः समर्पितैरेव वित्तैः द्रव्यैः, तनुं शरीरम् अमी रामानुजीयः वंशपरम्पराभिः कुलपरम्पराभिः दधति धारयन्ति एतदतीव निन्द्यमिति भावः॥२४९॥*

  • जारानिति। किञ्च अमी रामानुजीयाः जारान् परस्त्रीसक्तपुरुषान्, चोरान्,*

साकं नो भुञ्जतेऽमी सकृदपि विनतिं कुर्वतेऽग्रे न तेषां
सङ्केतेनैवसिद्धं तदिदमविदुषां श्लाघ्यमाचार्यपुंस्त्वम्॥२५०॥

अहो महानयमभिजन-विद्या-वृत्तसम्पन्नानामन्येषामप्यनिवृत्तो309 व्यामोहः॥१०१॥

आचारस्य दवीयसां धनतृषामज्ञातवेदाध्वनां
कामातङ्ककलङ्कपङ्किलहृदां केषाञ्चिदेषाममी॥
शुद्धाचारजुषो जितेन्द्रियतया श्रेष्ठाः स्वयं सूरयः
शिष्यत्वं यदुशन्ति तत्किल कलेः साम्राज्यमत्रोर्जितम्310॥२५१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

किरातान् म्लेच्छजातीयविशेषान्, जनपददमनान् दुस्तरकरभारग्रहणादिना देशविध्वंसकान्, अत एव राजपाशान् कुत्सितराजन्यान्। कुत्सितेऽर्थे पाशप्। महीशान् राज्ञश्च शिष्यान् कृत्वा, श्रुतिपथविधुराः वेदविहितमार्गत्यागिनः, अत एवातिदृप्ता गर्विताश्च सन्तः, ब्रह्मनिष्ठैः आत्मनिष्ठैः श्रोत्रियैः विधिवदग्निहोत्रानु-ष्ठानयुक्तैश्च जनैः साकं सह, सकृदेकवारमपि नो भुञ्जते भोजनं नैव कुर्वन्ति। एतावदेव न, किन्तु तेषां श्रोत्रियादीनामग्रे नतिं नमस्कारमपि न कुर्वते। अपि च सङ्केतेनैव सिद्धं निष्पन्नं, अविदुषामज्ञानां मूर्खाणामिति यावत्। आचार्यपुंस्त्व आचार्यपुरुषत्वं तदिदं श्लाघ्यङ्किमिति काकुः। अपि तु अतीव गर्हणीयमेवेति भावः॥२५०॥

  • एतत्तु अविदुषामाचरणं, विदुषामपि निन्द्यमिति वक्तुमवतारयति**—अहो इति।** अभिजनः सत्कुलं च विद्या वेद-शास्त्रादिज्ञानं च वृत्तं वर्तनं च तैः सम्पन्नानां युक्तानामन्येषां पूर्वेभ्य इतरेषां, एषां लोकानामपि अयं वक्ष्यमाणः महान्व्यामोहो विवेकराहित्यं, अनिवृत्तं नैव गतः॥१०१॥*

  • व्यामोहानिवृत्तत्वमेव प्रतिपादयति**—आचारस्येति।** अमी शुद्धं वेद-शास्त्राद्युक्तमाचारं जुषन्ति सेवन्ते इति तथोक्ताः, जितेन्द्रियतया बाह्यान्तरिन्द्रियमदनेन श्रेष्ठाश्च, स्वयं सूरयः पण्डिताः अपि “पण्डितः कविः। धीमान् सूरिः” इत्यमरः। आचारस्य यथोक्ताचरणस्य दवीयसां दूरतराणां, दूरशब्दाद् अतिशयार्थे ईयसुनि “स्थूल-दूर-युव-ह्रस्व-” इत्यादिना रकारलोपे पूर्वस्य गुणः। अत एव अज्ञातवेदाध्वनाम् अज्ञातवेदमार्गाणां, धनतृषां द्रव्याशापराणां, कामातङ्कः कामविकार एव कलङ्कः मलिनत्वं तेन पङ्किलं दूषितं हृदन्तःकरणं येषां तेषां, केषाञ्चिद् एषाम् आचार्याणां शिष्यत्वं यद् उशन्ति इच्छन्ति, तद् अत्र लोके कलेः साम्राज्यम् अप्रतिहतं स्वातन्त्र्यम् ऊर्जितं प्रवृद्धम्। किल निश्चयेन॥२५१॥*

  • *अपि च—

स्वयं तरितुमक्षमः किमपरानसौ तारये-
दिति स्वयमचिन्तयन्नगणयन् धनानां व्ययम्॥
जडं गुरुरिति भ्रमन् श्रयति पुस्तकाडम्बरै-
र्बहूपकरणान्वितैर्बहुलदेवताविग्रहैः॥२५२॥

अपि च—

अमलमतिषु लोके जागरूकेष्वनेके-
ष्वपि निजगुरुवंशोत्पत्तिमेवावलोक्य॥
विगतशुभचरित्रं वेद-शास्त्रानभिज्ञं
कमपि गुरुरितीमे कष्टमाराधयन्ति॥२५३॥

अपरमपि कलेराकर्णय चमत्कारम्॥१०२॥

सम्यक् शिष्यजनं परीक्ष्य बहुभिः संवत्सरैरुत्सुकं
शुश्रूषाभिरुपादिशन् प्रमुदिताः पूर्वे भुवीति श्रुतम्311
आराध्येष्टसमर्पणै312रविनतानाचार्य एवादरा-
दब्दै313र्भूरितमैः प्रसह्य314लभते शिष्यान् श्रमेण315ाऽधुना॥२५४॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • स्वयमिति। स्वयं तरितुं पारं गन्तुम् अक्षमः असमर्थः असौ आचार्यः, अपरानन्यान् किं कथं तारयेत् ? भवसागरमिति शेषः। इति स्वयं विद्वानपि अचिन्तयन् अविचारयन्, धनानां व्ययं च अगणयन् सन्, पुस्तकानामाडम्बरैः बहुपुस्तकभारैरित्यर्थः, तथा बहुभिरुपकरणैरलकारादिभिः अन्वितैर्युक्तैः, बहुलदेवता- विग्रहैः पुष्कलदेवमूर्तिभिश्च भ्रमन्, मोहं प्राप्नुवन्। पुस्तकभारं देवतार्चनाडम्बरं च दृष्ट्वाऽयं मां भवसागरमुत्तारयेदिति भ्रान्तः सन्नित्यर्थः। जडं विद्यादिरहितं, गुरुरिति मत्वा श्रयति आश्रयति॥२५२॥*

  • ** अमलेति।** किञ्च लोके अमला वेदोक्तकर्मानुष्ठानतया परिशुद्धा मतिर्बुद्धिर्येषां ते तथाभूतेषु अनेकेषु बहुषु लोकेषु जागरूकेषु वर्तमानेषु सत्स्वपि, निजगुरोः पितृ-पितामहादिपरम्परया आचार्यस्य वंशे उत्पत्तिं केवलं जन्मैव, न तु विद्यादिसम्पन्नत्वं, अवलोक्य, वेद-शास्त्रयोः अनभिज्ञम् अनिपुणं, वेदादिज्ञानशून्यमित्यर्थः। तत एव च विगतं नष्टं शुभचरित्रम् इह-परलोकयोः श्रेयःसम्पादकं चेष्टितं यस्य तथोक्तं कमपि पुरुषं गुरुः आचार्य इति मत्वा, इमे जनाः आराधयन्ति सेवन्ते। कष्टम् अन्याय्यमेतत्॥२५३॥*

  • ** अपरमिति।** अपरमन्यं कलेश्चमत्कारम् आश्चर्यावहं प्रभावं, आकर्णय शृणु १०२*

*** सम्यगिति।** पूर्वे युगान्तरस्थाः वसिष्ठ-वामदेव-पिप्पलादादयः गुरवः, भुवि*

  • *** वि०—**मन्दमनीष316 महतः317 पुरुषानेवं मा दूदुषः॥१०३॥

भवजलधिनिमज्जत्सज्जनोज्जीवनार्थं
जगति महति वंशे जातवन्तो महान्तः॥
प्रपदनधनतुष्टाः318 पञ्चसंस्कारदानात्
कति न कृतिन एते ज्ञानहीनान् पुनन्ति॥२५५॥

किं च**—**आचार्याः पुरुषा महत्तरकुलेष्वब्जाक्षदास्योज्ज्वला नावः संसृतिवारिधेः परममी नावातरिष्यन्यदि॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

पृथिव्याम् उत्सुकं विद्याग्रहणे उत्कण्ठितं, बहुभिः संवत्सरैः वर्षैः न तु द्वित्र-दिवसैः, शुश्रूषाभिः सेवाभिः शिष्यजनं सम्यक् परीक्ष्य “नापरिज्ञातकुल-शीलरूपाय नासंवत्सररात्रोषिताय—” इत्यादिश्रुत्युक्तनियममनुसृत्य शिष्यस्य परीक्षां कृत्वेत्यर्थः। तथाच प्रश्नोपनिषदि पिप्पलादस्य सुकेशादीन् ब्रह्मविद्यार्थमागतान् षट् शिष्यान्प्रति वाक्यम्— “भूय एव तपसा ब्रह्मचर्येण सवत्सरं संवत्स्यथ यथाकाम प्रश्नान् पृच्छत यदि विज्ञास्यामः सर्वंह वो वक्ष्यामः” इति। छान्दोग्ये च गौतमहारिद्रुमतस्य ऋषेः सत्यकामं प्रति—“किङ्गोत्रो नु सोम्यासि” इत्यादि। ततः प्रमुदिताः सन्तः उपादिशन् विद्यामध्यापयामासुः इति श्रुतम्। उपनिषदादिषु पुराणेषु चेति शेषः। अधुना साम्प्रतं तु एष रामानुजीयाचार्यः अविनतान् उन्मत्तान् इष्टसमर्पणैः तेषामिच्छितवस्त्रादिप्रदानैः, भूरितमैः अतिबहुभिः अब्दैः, आदराद् आराध्यैव प्रसह्य बलात्कारेण, शिष्यान् श्रमेण बहुप्रयत्नेन लभते सम्पादयतीत्यर्थः॥२५४॥

*** भवेति।** भवजलधौ संसारसमुद्रे निमज्जतां सज्जनानाम् उज्जीवनार्थमुद्धारणार्थं, जगति महति वंशे कुले जातवन्तः उत्पन्नाः, अत एव महान्तः कृतिनः पुण्यवन्तश्च एते आचार्यपुरुषाः, प्रपदन शरणगमनमेव धनं तेन तुष्टाः सन्तः, ज्ञानहीनान्वेद-शास्त्रज्ञानशून्यान् आत्मानात्मविवेकरहितान् वा, पञ्चसंस्काराणां दानाद् अर्पणात्, पञ्चसंस्काराश्च— “तापः पुण्ड्रस्तथा नाम मन्त्रो यागश्च पञ्चमः” इति प्रसिद्धाः। कति कियन्तो वा न पुनन्ति पवित्रयन्ति?। अत्र ‘सज्जनोज्जीवनार्थ’ इत्युक्त्या, चोराणां मध्ये च प्रायशः सज्जनानां दौर्लभ्याच्च ‘हत्वा मार्गे—’ इत्यादेः सम्यक्तया नैव दूषणोद्धारः। अत एव ग्रन्थकर्तुः पक्षपातित्व रामानुजीये मते इत्युक्त प्रागस्माभिः॥२५५॥*

  • आचार्या इति। अमी रामानुजमतानुसारिणः संसृतिवारिधेः संसारसमुद्रस्य नावः तारकत्वान्नौरूपाः, अब्जाक्षस्य श्रीविष्णोः दास्येन दास्यरूपभक्त्येत्यर्थः। उज्ज्वलास्तेजस्विनः आचार्याः आचार्यसञ्ज्ञकाः पुरुषाः, महत्तरेषु तत्सम्प्रदायप्रवर्तकोच्चत-*

अप्राप्ताच्युतदास्यवृत्तय इहाऽविज्ञातमन्त्रोत्तमाः
सर्वे तर्हि कलावतप्ततनवो319 हन्तापतिष्यन्नधः॥ २५६॥
तापादिभिः सपापां जनतां पुनतां महात्मनामेषाम्॥
दोषश्चेदेष समो दुष्टान् पुनतोऽपि गाङ्गपूरस्य॥२५७॥

** इदं चावबोद्धव्यम्—**

सद्वंशप्रभवश्चरित्ररहितोऽप्यादृत्य एवोत्तमैः
साध्वाचारयुतोऽपि दुष्कुलभवः सभ्येषु नाभ्यर्हितः320
शालग्राममकृत्रिमं पटुमतिः321 सल्लक्षणायुक्तम-
प्यादत्ते न तु लक्षणाढ्यमपि तं चक्रोज्ज्वलं कृत्रिमम्॥२५८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

मकुलेषु यदि न अवातरिष्यन् न प्रादुरभिष्यन्, तर्हि सर्वे जनाः इह लोके कलौ युगे च अप्राप्ता अलब्धा अच्युतस्य विष्णोर्दास्यवृत्तिर्यैस्ते तथाभूताः अत एव अज्ञाताः मन्त्रोत्तमाः विष्णोः प्राप्तिकरत्वादुत्तमा मन्त्रा यैस्ते तथोक्ताः, तत एव च अतप्ता चक्र- शङ्खादिमुद्राभिः, विष्णोः पूजन-स्तवन-कथाश्रवणादिराहित्येन च अपरिशुद्धा तनुर्येषां ते तथाभूताश्च अधः अपतिष्यन् नरके पतिष्यन्तीत्यर्थः। अत्र तरति-पतत्योः“लिड्निमित्ते —” इत्यादिना क्रियाया अनिष्पत्तिरूपेऽर्थे लृङ्॥२५६॥

  • यच्च ‘आराध्येष्टसमर्पणैः-’ इत्यादिना नीचोद्धतजनप्रपत्तिरूपं दूषणमुक्तं तन्नि राकर्तुमाह — तापादिभिरित्यादि। सपापां पापयुक्तां जनतां जनसमूहं, तापादिभिः तप्तमुद्रादिसंस्कारैः, आदिशब्देन मन्त्रोपदेशादेर्ग्रहणम्। पुनतां पवित्रीकुर्वताम् अत एव महात्मनामुदारचित्तानां, एषाम् आचार्यपुरुषाणां दोषः अनधिकारिशिष्यस्वीकाररूपः अस्ति चेत्, तर्हि दुष्टान् जनान् पुनतः पवित्रीकुर्वतः गाङ्गपूरस्य गङ्गाप्रवाहस्यापि एष दोषः, समतुल्य एव। गङ्गाप्रवाहस्य यथा यस्यकस्यापि पवित्रीकरणं नाधिकारिविशेषाचलम्बं, तथैवैतेषामिति भावः। इदमेव च महतां महत्त्वभूषणं यत्सूर्य इव आनीचजनमहाजनपर्यन्तं सर्वत्र पक्षपातं विना समबुद्धित्वमित्यप्यवधेयम्॥२५७॥*

  • सदिति। किञ्च सद्वंशे उत्तमवशे प्रभव उत्पत्तिर्यस्य सः उत्तमकुलप्रसूत इत्यर्थः। चरित्ररहितोऽपि सदाचरणशून्योऽपि, उत्तमैः श्रेष्ठजनैरादृत्य एव स्वीकार्य एव। अपि च साध्वाचारयुतः सदाचारसम्पन्नोऽपि सः दुष्कुलभवः नीचकुलोत्पन्नश्चेत्, सभ्येषु मध्ये नाभ्यर्हितः न पूज्यः। भवतीति शेषः। अत्र दृष्टान्तः—पट्वीकार्याकार्यकुशला मतिर्बुद्धिर्यस्य तथाभूतः पुरुषः, सद्भिः शङ्ख-चक्राद्युतमैर्लक्षणैश्चिह्नैःअयुक्तमपि, अकृत्रिमं सहजोत्पन्नं शालग्रामम् आदत्ते स्वीकरोति। किन्तु तं कृत्रिमं केनापि पुरुषेण निर्मितं शालग्रामं चक्रोज्ज्वलं चक्रादिचिह्नैःसुशोभितमपि, अत एव लक्षणाढ्यं*

    • सविनयमञ्जलिं बद्ध्वा—

शिष्यार्पितेन शुचिना द्रविणेन तुष्टाः
शिष्टाः मुकुन्दशरणागतिधर्मनिष्ठाः॥
सत्सम्प्रदायनियमप्रयताः सदा ये
तेभ्यो नमांसि करवै वरवैष्णवेभ्यः॥२५९॥

<MISSING_FIG href="../books_images/U-IMG-1722923751Screenshot2024-07-11131326.png"/>

अथ चन्नपट्टण (मद्रास) वर्णनम्—२०.
<MISSING_FIG href="../books_images/U-IMG-1722923773Screenshot2024-08-04235410.png"/>

इति विमानमन्यतः प्रस्थापयन्नग्रतो दृष्ट्वा —

एषा कैरविणी विशल्यकरणी दोषाशुगार्तात्मना -
मेतद्रोधसिपार्थसारथिरिति ख्यातः समिन्धे हरिः॥
यत्पादाम्बुजचुम्बिनां सुरपतेः कोटीरगारुत्मत-
स्तोमानां तुलसीदलप्रकरतो नो वेद भेदं जनः॥२६०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

अन्यैः सर्वसल्लक्षणैः सम्पन्नमपि न स्वीकरोति। एतत् ‘अमलमतिषु लोके जागरूकेषु—’ इत्याद्युक्तदूषणोद्धारमात्रपरमिति ज्ञेयम्॥२५८॥

  • एवं सर्वाणि दूषणानि परिहृत्य सर्वथा एते वन्द्या एवेति सूचयन्नाह —शिष्यार्पितेनेति। ये शिष्यैः अर्पितेन दत्तेन शुचिना न्यायसम्पादितेन स्वल्पेनापीति शेषः। द्रविणेन धनेन तुष्टाः, मुकुन्दस्य विष्णोः शरणागतिः शरणप्रपत्तिरेव धर्मस्तस्मिन्निष्टा आसक्तिर्येषां ते तथाभूताः, सदा निरन्तरं सतां सम्प्रदाये ये नियमाः सन्ध्या-पूजादयः तैः प्रयताः पवित्राः “पवित्रः प्रयतः पूतः” इत्यमरः। अत एव शिष्टाः, तेभ्यः वरवैष्णवेभ्य श्रेष्ठवैष्णवेभ्यः नमांसि नमस्कारान् करवै कुर्याम्। ‘नमस्’ इति सान्तोऽयं शब्दः॥२५९॥*

  • अथ चन्नपट्टणवर्णनं सूचयन्नाह कविः — इतीत्यादि।*

*** एषेति।** एषा कैरविणी सरसी, अत्र विराजते इति शेषः। कथम्भूता सा। दोषाः पापान्येव आशुगा बाणास्तैः आर्तः आत्मा अन्तःकरणं येषां तेषां, संसारदोषखिन्नचित्तानामिति यावत्। विशल्यकरणी शरीरनिर्विष्टबाणाग्रनिस्सारिणी। एतद्रोधसि अस्याः कैरविण्यास्तीरे, पार्थसारथिः इति नाम्ना ख्यातः प्रसिद्धः हरिः विष्णुः समिन्धे सम्यक् प्रकाशते। कीदृशः सः। यस्य पार्थसारथेः पादाम्बुजं चरणकमलं चुम्बन्ति स्पृशन्ति ते तथाभूतास्तेषां सुरपतेरिन्द्रस्य कोटीरगारुत्मतस्तोमानां किरीटस्थमरकतमणिसमूहानां तुलसीदलानां तुलसीपत्राणां प्रकरः समूहः तस्माद् भेदं भिन्नत्वं जनःनो वेद नैव जानाति। वर्णसाम्यान् मरकतमणीनपि तुलसीपत्राण्यवगच्छतीत्यर्थः॥२६०॥*

अत्र वसन्तः सन्तश्चिरन्तनोक्त्यन्तचिन्तनाश्रान्ताः॥
आतन्वन्तं सुचरितमातन्वन्तो विभान्ति मानधनाः322॥२६१॥

** कृशानुः**—अस्तु तथापि परिकलित323गुणप्रहाणहूणप्रायहेयजननिबिडनगरविशेषसन्निकर्ष एवात्र महान् दोषः। दुर्लभाः खलु हूणेभ्यः कुत्सिततमा लोके॥१०४॥

हूणाः करुणाहीनास्तृणवद् ब्राह्मणगणं न गणयन्ति324
तेषां दोषाः पारे वाचां ये नाचरन्ति शौचमपि॥ २६२॥

पुनः सनिर्वेदं विधि325मुद्दिश्य—

शौचत्यागिषु हूणकादिषु धनं शिष्टेषु च क्लिष्टतां
दुर्मेधस्सु धराधिपत्यमतुलं दक्षेषु भिक्षाटनम्॥
लावण्यं ललनासु दुष्कुलभवास्वग्र्यासु नीरूपतां
कष्टं सृष्टवता त्वया हतविधे किं नाम लब्धं फलम्॥२६३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • अत्रेति। किञ्च अत्र कैरविणीतीरे वसन्तो वासं कुर्वन्तः सन्तः सज्जनाः, चिरन्तनस्य ब्रह्मण उक्तयो वेदास्तेषामन्ता उपनिषदस्तेषां चिन्तनेन विचारेण अश्रान्ताः विश्रामरहिताः सततमुपनिषद्विचारासक्ता इत्यर्थः। अत एव आतन्वन्तं शरीरावसानपर्यन्तं सुचरितं सत्कर्म आतन्वन्तो विस्तारयन्तः कुर्वन्त इति यावत्। मानधनाः सन्तः विभान्ति प्रकाशन्ते॥२६१॥*

  • अथ कृशानुर्हीनजनसान्निध्यादिरूपं दोषमुद्घाटयन्नाह—अस्त्विति। पूर्वोक्तप्रकारं सर्वम्अस्तु नाम, तथापि परिकलितं स्वीकृतं गुणानां दया-दाक्षिण्यादीनां प्रहाण त्यागो यैस्तथाभूता हूणाः श्वेतवर्णाः म्लेच्छादिहीनकुलोद्भवा नराः प्रायाः बहवो येषु तादृशैः अत एव हेयैस्त्याज्यैः जनैः निबिडस्य परिपूर्णस्य नगरविशेषस्य चन्नपट्टणस्य सन्निकर्षः सान्निध्यमेव अत्र क्षेत्रे, महान् दोषः। यतः हूणेभ्यः कुत्सिततमाः अतिनिन्दनीयाः लोके जनाः दुर्लभाः खलु॥१०४॥*

  • कुत्सिततमत्वमेव स्पष्टयति—हूणा इति। करुणया दयया हीनाःहूणाः ब्राह्मणगणं ब्राह्मणसमुदायं तृणवत् तृणमिव न गणयन्ति। तुच्छीकुर्वन्तीत्यर्थः। किञ्च ये हूणाः शौचं पुरीषोत्सर्गानन्तरं गुदप्रक्षालनादिरूपमपि न आचरन्ति, किमुत मृज्जलादिनां स्नानादिरूपं, अत एव तेषां दोषाः पापानि पारे वाचां, वाचा वक्तुमशक्या इत्यर्थः। सन्तीति शेषः॥२६२॥*

  • पुनरिति। सनिर्वेद सखेदं विधिं ब्रह्माणमुद्दिश्य—*

  • ** शौचेति।** हे हतविधे मन्द प्रजापते, शौचं त्यक्तुं शीलं येषां तेषु हूणकादिषु हूण- म्लेच्छादिषु धनं द्रव्यं, शिष्टेषु सदाचरणसम्पन्नेषु जनेषु च क्लिष्टतां दारिद्र्यं*

** विश्वावसुः—**पश्य326त्वमेतेष्वपि गुणग्राहित्वम्॥ १०५॥

प्रसह्य न हरन्त्यमी परधनौघमन्यायतो
वदन्ति न मृषावचो विरचयन्ति वस्त्वद्भुतम्॥
यथाविधि कृतागसां विदधति स्वयं दण्डनं
गुणानवगुणाकरेष्वपि गृहाण हूणेष्वमून्॥२६४॥

अथ काञ्ञ्चीवर्णनम् २१.

<MISSING_FIG href="../books_images/U-IMG-1722492048Screenshot2024-07-25212753.png"/>

इति विमानमितः प्रतीच्यां दिशि योजनपञ्चकमतिक्रामयन् पुरतो दृष्ट्वा सामोदम्—

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

दुष्टा मेधा बुद्धिर्येषां तेषु “नञ् दुस्-सुभ्यः” इत्यनुवर्तमाने “नित्यमसिच् प्रजा-मेधयोः” इत्यसिच् समासान्तः। धरायाः पृथ्व्याः अतुलम् अनन्यसदृशम् आधिपत्यं स्वामित्वं, दक्षेषु बुद्धिमत्सु च भिक्षाटनं भिक्षार्थं सञ्चारम्, तथा दुष्कुलभवासु यवनम्लेच्छादिहीनकुलोत्पन्नासु ललनासु स्त्रीषु लावण्यं सौन्दर्यम् अग्र्यासु श्रेष्ठब्राह्मणादिकुलोत्पन्नासु स्त्रीषु च नीरूपतां कुरूपत्वं, एतादृशं परस्परविरुद्धं सृष्टवताउत्पादयतात्वया, किं नाम फलं लब्धं प्राप्तम् ? कष्टम् अन्याय्यम्॥२६३॥

  • अथ तेष्वपि विचित्रवस्तुरचनादिरूपान् गुणान् प्रदर्शयन्नाह विश्वावसुः — पश्येति। त्वम् एतेष्वपि पूर्वोक्तनिन्द्याचारयुक्तेष्वपि, गुणग्राहित्वं पश्य॥१०५॥*

  • गुणग्राहित्वमेवोपपादयति**—प्रसह्येति।** अभी हूणाः परेषां लोकानां धनौघ द्रव्यसमूहं, अन्यायतः प्रसह्य बलात्कारेण न हरन्ति। किन्तु विचित्रवस्तुप्रदर्शनादिना मोहयित्वा, करग्रहणादिना च प्रतिवर्षं स्वल्पं स्वल्पमिति बहुना कालेन बह्वेव हरन्तीति ध्वनिः। एवमुत्तरत्रापि यथायथमूह्यम्। तथा मृषावचः अनृतभाषणं न वदन्ति, अद्भुतम् आश्चर्यकरं वस्तु विरचयन्ति उत्पादयन्ति, तथा कृतागसां कृतापराधानां यथाविधिं राजनियममनुसृत्य स्वयं दण्डनं शिक्षां विदधति कुर्वन्ति। तस्माद् अवगुणानां ‘शौचत्यागिषु**—**’ इत्यादिश्लोकप्रतिपादितानां दोषाणाम् आकरेषु उत्पत्तिस्थानेष्वपि सत्सु हूणेषु, अमूनधुना मया प्रतिपादितान् गुणान् गृहाण। नैते सर्वथा दोषाह इति भावः॥२६४॥*

  • इदानीं काञ्चीनगरवर्णनमाक्षिपन्नाह कविः**—इतीति।** इतः चन्नपट्टणदेशात्, प्रतीच्यां पश्चिमायां दिशि, योजनपञ्चकं विंशतिक्रोशपर्यन्तम् अतिक्रामयन् गमयन्, सामोदं सानन्दम्।*

इयं काञ्चीकाञ्ची करिशिखरिणः कापि नगरी
गरीयस्यां यस्यां विहरणजुषां पक्ष्मलदृशाम्॥
मुखं दर्शं दर्शं रजनिकरमादर्शममलम्327
स्वरूपं के पङ्केरुहमपि न निन्दन्ति रसिकाः॥२६५॥

किं च—

सुमनोजनतास्थानं328 स्थाने329 सद्रूपशोभनी सेयम्॥
सुरताभ्युदयविधात्री शुभकाञ्ची साधु रञ्जयति चेतः॥२६६॥

नगरीमेनां दक्षिणेन करुणाझरीव भगवती330 वेगवती नाम प्रवहति पावनी शैवलिनी॥१०६॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • ** इयमिति।** इयं करिशिखरिणःहस्तिशैलस्य काञ्ची रशना, “स्त्रीकट्यां मेखलाकाञ्ची सप्तकी रशना तथा” इत्यमरः। तमभिवेष्ट्य स्थितेत्यर्थः। काञ्ची नाम कापि अनिर्वाच्या नगरी वर्तते। गरीयस्याम् अतिमहत्यां, गुरुशब्दाद् ईयसुनि “प्रिय-स्थिर-स्फिर–” इत्यादिना गरादेशः। यस्यां नगर्यांविहरणजुषां क्रीडां कुर्वतीनां पक्ष्मलदृशां स्त्रीणां मुखं दर्शं दर्शं पुनः पुनरवलोक्य, के रसिकाः पुरुषाः अमलस्वरूपं स्वच्छस्वरूपं, एतद् रजनिकरादर्श- पङ्केरुहेष्वपि सम्बन्धनीयम्। रजनिकरं चन्द्रं, आदर्शं दर्पणं, पङ्केरुहं कमलमपि च न निन्दन्ति ? अपि तु सर्वम् एव एतान् सर्वानपि निन्दन्तीत्यर्थः॥२६५॥*

  • सुमन इति। सुष्ठु मनो येषां ते सुमनसः पण्डितास्ते च ते जनाश्च तेषां समूहस्तत्ता तस्याः स्थानं, यधाविधिस्वकर्मानुष्ठानेन शुद्धमानसानां पण्डितानां वसतिस्थानमित्यर्थः। पक्षे सुष्ठुमनोजः कामस्तेन नतानां नम्राणां, अत्यन्तकामासक्तानामित्यर्थः। आस्थानम्। सद्भिरुत्तमैः स्वादु-सुगन्धिफल-पुष्प सम्पन्नैरिति यावत्। द्रुभिः वृक्षैः आम्र-पनस-दाडिम- नारीकेलादिभिः उपशोभनी पक्षे सता उत्तमेन रूपेण शोभनी च, सुराणां समूहः सुरता तस्याः, पक्षे सुरतस्य कामसौख्यस्य च अभ्युदयं वृद्धिं विधत्ते इति तथाभूता, सा इयं शुभा काञ्ची नगरी रशना च, अस्मिंस्थाने चेतः अन्तःकरणं साधु यथा स्यात्तथा रञ्जयति रमयति॥२६६॥*

  • अन्यदप्याश्चर्यमाह**—नगरीमिति।** एनां काञ्चीं नगरीं दक्षिणेन अस्या दक्षिणत इत्यर्थः। “एनबन्यतरस्याम्–” इति एनप्प्रत्ययः। “एनपा द्वितीया”इति तद्योगे द्वितीया च। करुणायाः झरीव भगवती वेगवती नाम पावनी पवित्रा शैवलिनी नदी प्रवहति॥१०६॥*

माधुर्याध्ययनोपसन्न331मधुनिष्यन्दानिमन्दानिल-
व्यालोलत्तटचारुभूरुहशिखानिष्पातिपुष्पाधिकैः॥
डिण्डीरैः स्मितवन्ति पान्ति332 दुरिताद्वेगापगायाः स्फुर-
द्वेगोद्वेजितवाजिमेधमख333कृद्वेधांसि पाथांसि नः॥२६७॥

इतश्च सखे चक्षुर्निक्षिप्यताम्334॥१०७॥

य एष राजत्कटकः सदालिभिः समाश्रितः शोभनदानसम्पदा॥
स नित्यशुद्धं वरदं-तमुद्वहन्यथार्थनामा गजभूभृदीक्ष्यते॥२६८॥

सभक्तिप्रकर्षमञ्जलिं बद्ध्वा—

द्विपाचलमुपाश्रितं त्रिदशपादपस्वर्गवी-
त्रपाकरमुपास्महे दिगधिपावनं पावनम्॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • तामेव वर्णयति**—माधुर्येति।** माधुर्यस्य मधुरतायाः अध्ययनार्थं शिक्षणार्थम् उपसन्नाः सम्मिलिताः मधुनः तीरस्थवृक्षरसस्य निष्यन्दा बिन्दवो येषु तानि, पुनश्च मन्दानिलेन मन्दवायुना व्यालोलन्ति चञ्चलानि तटयोस्तीरयोः चारुभूरुहाणां सुन्दरवृक्षाणां शिखाभ्यः अग्रेभ्यः निष्पातीनि पतनशीलानि यानि पुष्पाणि तैः अधिकैः प्रवृद्धैरित्यर्थः। डिण्डीरैः फेनैः “डिण्डीरोऽब्धिकफः फेनः” इत्यमरः। स्मितवन्ति मन्दहास्ययुक्तानीव स्थितानि, अपि च स्फुरता वेगेन जवेन उद्वेजितः यज्ञभङ्गभिया दुःखितः, वाजिमेधम् अश्वमेधं नाम मख यज्ञ करोतीति तत्कृद् वेधाः ब्रह्मा येषां तानि वेगापगायाः वेगवत्या नाम नद्याः पाथांसि उदकानि, नः अस्मान् दुरितात् पापात् पान्ति रक्षन्ति। पाठान्तरे, नः पान्तु रक्षन्तु इत्यर्थः। पुरा किल ब्रह्मदेवे काञ्च्यामश्वमेधं कुर्वति सति तद्विनाशार्थं सरस्वत्येव वेगवतीरूपेण यज्ञवेदिमावृणोद् इति पौराणिकी कथात्रानुसन्धेया॥२६७॥*

*** इत इति।** हे सखे, इतः अस्मिन्प्रदेशे चक्षुः दृष्टिः निक्षिप्यतां दीयताम्॥१०७॥*

*** य इति।** य एष पुरो दृश्यमानः पर्वतः राजन् शोभमानः कटकःनितम्बभागः यस्य सः, राजन्तौ शोभमानौ कटौ गण्डस्थले यस्य सराजत्कटक इति च। “कटकोऽस्त्री नितम्बोऽद्रेः” “ गण्डः कटो मदो दानं”इत्युभयत्राप्यमरः। अत एव सतां साधूनामालिभिः पङ्तिभिः, सदा अलिभिर्भ्रमरैश्च शोभनानां शुभफलप्रदानां दानानां शोभनस्य दानस्य मदोदकस्य च सम्पदा समृद्ध्या च समाश्रितः नित्यं सततं शुद्धं निर्मलं श्वेतवर्णञ्च, तं भक्तेष्टफलदातृत्वेन प्रसिद्धं वरदम् एतन्नामकं भगवन्तं, वरं सुन्दरं दत्तं रदनं च, उद्वहन् धारयन् अत एव यथार्थनामा अन्वर्थनामा सः गजभूभृत् हस्तिशैलः, गजानां भूभृद् राजा च ईक्ष्यते अवलोक्यते॥२६८॥*

  • अतीव भक्तिप्रवणान्तःकरण आह**—** द्विपाचलमिति। द्विपाचलं हस्तिशैलं*

कृपाशिशिरलोचनं कृतभवव्यथामोचनं
वपासुरभिलाधरं335 वरदनाम धाम स्थिरम्॥२६९॥

कृशानुमामन्त्र्य—

वरदं भो भज सततं शरदम्भोरुहविलोचनं देवम्॥
परदम्भोपहतिकरं हर-दम्भोलिधर-मुखमखाशनुतम्॥२७०॥

पुनः सानुस्मरणरोमाञ्चम्—

तापत्रयप्रशमनादमृतं ग्रहीतुं
तामेव वैधहयमेधवपामुपासे॥
अम्भोधिजाधरसुधारसवासितेन
या चुम्बिता वरदराजमुखाम्बुजेन॥२७१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

उपाश्रितं, त्रिदशपादपः कल्पवृक्षः स्वर्गवी कामधेनुश्च तयोः त्रपाकरं, लज्जोत्पादकं, भक्तेष्टप्रदानेनेति भावः। दिशाम् अधिपाः इन्द्रादयो लोकपालास्तान् अवति दैत्यादिदुष्टजनविनाशनेन रक्षतीति तथाभूतं, स्वतः पावनं पवित्ररूपं, कृपया दयया शिशिरे शीते लोचने यस्य तथाभूतं, कृतं भवव्यथायाः संसारपीडायाः मोचनं मुक्तिर्येन तं, वपया ब्रह्मकृताश्वमेधीयया सुरभिलः सुगन्धयुक्तः अधरः अधरोष्ठो यस्य सः त, सुरभिलेति प्रामादिकोऽयं प्रयोगः। इलच्प्रत्ययविधायके तुन्दादिगणे सुरभिशब्दस्य पाठाभावात्। नाप्ययमाकृतिगणः। तस्मात् ‘वपासुरभिताननं’ इति पाठान्तरं पुस्तकान्तरे दृश्यते, तदेव युक्ततरमिति ज्ञेयम्। तत्र तारकादिलादितच्-प्रत्यये सुरभितेति प्रयोगस्य सुसाध्यत्वात्। तद् वरदनाम स्थिरं धाम वैष्णवं तेजः वयम् उपास्महे भजामहे॥२६९॥

*** कृशानुं** सम्बोध्याह**—वरदमिति।** भो कृशानो, शरदि शरदृतौ ये अम्भोरुहे कमले ते इव विलोचने नेत्रे यस्य तं परेषां शत्रूणां दम्भस्य गर्वस्य उपहतिकरं नाशकरं, हरः शिवश्च दम्भोलिधरः वज्रधर इन्द्रश्चतौ मुखे अग्रे येषां तैर्मखाशैर्यज्ञभुग्भिः देवैः नुतं स्तुतं, देवं वरदं सततं निरन्तरं भज उपास्ख। मैनं दोषदृष्ट्याद्राक्षीरिति भावः॥२७०॥*

  • ** तापत्रयेति।** तापानाम् आध्यात्मिकाधिभौतिकाधिदैविकात्मकानां त्रयस्य प्रशमनान् नाशं प्राप्येत्यर्थः। ल्यब्लोपे पञ्चमी। अमृतं जन्म-मरणराहित्यं मोक्षमिति यावत्। ग्रहीतुं स्वीकर्तुं, तां प्रसिद्धां विधेर्ब्रह्मणोऽयं वैधः स चासौ हयमेधोऽश्वमेधयज्ञः तत्सम्बन्धिनीं वपामेव उपासे सेवे। तस्याः सेवनार्हत्वमुपपादयति**—अम्भोधिजेति।** या वपा अम्भोधिजाया लक्ष्म्याः अधर एव सुधारसोऽमृतरसस्तेन वासितेन सुगन्धयुक्तेन वरदराजस्य भगवतो मुखाम्बुजेन मुखकमन चुम्बिता आस्वादिता। अतस्तामेवोपासे इति॥२७१॥*

  • पुनः सानन्दम्*—**

भुवनवहनशीला सिन्धुरागं336 भजन्ती
जयति वरदमूर्तिः साधु वेगापगा च॥
दमयितुमवतीर्णा धातृयज्ञं द्वितीया
सफलयितुमिहाद्या सादरा337 प्रादुरासीत्॥२७२॥

** कु०—**वयस्य तवेयं जयानभिज्ञे तस्मिन् जयतीत्युक्तिरयुक्ता। सवनसफलीकरणभणितिरपि तत्प्रातिकूल्यभाजि नोचिता338॥१०८॥

तथाहि**—**

अजयज्ञोद्भवे तस्मिन्कथं नाम जयज्ञता ?॥
सवनाशानुकूले का सवसाफल्यकारिता ?॥२७३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • ** भुवनेति।** भुवनानां स्वर्गादिलोकानां जलानां च वहनं धारणं प्रवहणं च शीलं स्वभावो यस्याः सा, सिन्धुरः गजः तन्नामा यः अगः पर्वतस्त हस्तिशैलमिति यावत्। पक्षे सिन्धौ समुद्रे यो रागः प्रेमा तं च भजन्ती सेवमाना सा वरदमूर्तिः वरदाभिधाना भगवतो मूर्तिः, वेगापगा वेगवतीनाम नदी च साधु यथा तथा जयति। तत्र द्वितीया वेगापगा धातुर्ब्रह्मणः यज्ञं दमयितुं विनाशयितुमवतीर्णा आविर्भूता। आद्या वरदराजमूर्तिस्तु इह काञ्च्यान्नगर्यां, धातृयज्ञं सफलयितुं सफलं कर्तुं, सादरा आदरसहिता सती प्रादुरासीत् प्रकटीबभूव॥२७२॥*

  • ** वयस्येति।** हे वयस्य मित्र, जये अनभिज्ञः अनिपुणः जयानर्ह इत्यर्थः। तस्मिन् वरदराजे इयं तव ‘जयति’ इत्युक्तिः अयुक्ता अयोग्या। तथा सवनस्य यज्ञस्य सफलीकरणभणितिः सफलीकरणोक्तिरपि, तस्य यज्ञस्य प्रातिकूल्यं विरुद्धत्व भजतीति तद्भाक् तस्मिन् नोचिता न योग्या॥१०८॥*

  • उक्तार्थमेव प्रपञ्चयति**—अजेति।** जयं सर्वोत्कर्षं न जानातीत्यजयज्ञः, अजस्य ब्रह्मदेवस्य यज्ञोऽश्वमेधश्च तस्माद् उद्भवे उत्पन्ने तस्मिन् वरदे जयज्ञता जयज्ञानत्वं कथं नाम? अपि तु नास्त्येवेत्यर्थः। तथा सवस्य यज्ञस्य नाशे विनाशे अनुकूलः, सवनाशानां यज्ञभुजां देवानाम् अनुकूले च तस्मिन्, सवस्य यज्ञस्य साफल्यकारिता सफलीकरणत्वं का नाम? नास्त्येवेत्यर्थः। अत्र मुद्रितपुस्तकटीकायाम् अन्यदप्यर्थान्तरं दृश्यते। यथा**—‘पूर्वार्द्धे कथं नामेत्यत्र ‘कथं न अम’ इति छित्त्वा, हे अम भाग्यरहित कृशानो, तस्मिन् वरदे जयज्ञता कथं नास्तीति काकुः। अस्त्येवेत्यर्थइति। उत्तरार्द्धे च ‘कासव—**’ इत्यत्र अकारं प्रश्लिष्य असवसाफल्यकारिता केति काकुः। नास्त्येव? अपि तु सवसाफल्यकारितैवास्तीत्यर्थान्तरं चातुर्यात्कल्पयन्ति’ इति। श्लेषालङ्कारः॥२७३॥*

  • *** विश्वावसुः—**सखे श्लेषभङ्ग्यैव दोषमुद्भावयता भवता तस्मिन्नखिलहेयप्रत्यनीकतैवाविष्कृता339। युक्तं चैतत्॥१०९॥

पद्मोल्लासविधायिनि सत्पथदीप्तिकृति चक्रभव्यकरे॥
भास्वति वरदे भविता न जातु दोषानुषङ्गवार्तापि॥२७४॥

समन्तादवलोकयन्नञ्जलिं बद्ध्वा**—**

सेवेऽनन्तसरः श्रये करिगिरिं श्रीपुण्यकोट्या समम्340
ध्यायाम्युत्तरवेदिमत्र महितं देवाधिराजं भजे॥
कल्याणीं कलयामि कञ्जनिलयां कल्याणकोटिस्थिता-
मीडे राघव यादवादिमकिटीन्वन्दे मुकुन्दाश्रितान्॥२७५॥

इति प्रतीच्यां दिशि किञ्चिदन्तरमतिक्रम्य सविस्मयानन्दम्**—**

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • अथ विश्वावसुः कृशानोः श्लिष्टार्थमभिनन्दयन्नाह**—सख इति।*सखे, श्लिष्यति एकीभवति अर्थबाहुल्यं यत्र स श्लेषः तस्य भङ्ग्यारीत्या दोषमुद्भावयता आरोपयता भवता, तस्मिन् वरदे अखिलानां सकलानां हेयानां दोषाणां प्रत्यनीकता विरोधितैवाविष्कृता प्रकटीकृता। अत एव एतद् युक्तम्॥१०९॥

  • युक्तत्वमेव प्रतिपादयति**—पद्मेति।** पद्मानां कमलानां पद्माया लक्ष्म्याः उल्लासं विकासं विधत्ते तच्छीलः उल्लासविधायी तस्मिन्,सत्पथस्य आकाशस्यसन्मार्गस्य च दीप्तिं प्रकाशं करोतीति दीप्तिकृत् तस्मिंश्च, चक्राणां चक्रवाकाणाम्भव्यकरे सम्भोगरूपकुशलसाधके “भावुकं भविकं भव्यं कुशलं” इत्यमरः चक्रेण सुदर्शनेन च भव्यः शोभनः करो हस्तो यस्य तथाभूते च, वरान् इष्टार्थान्ददाति तस्मिन् भास्वति सूर्ये, तेजस्विनि भगवति वरदे देवे च, दोषानुषङ्गस्य रात्रिसम्बन्धस्य, दोषाणां दुरितानाम् अनुषङ्गस्य सम्बन्धस्य च वार्ता कथा जातु कदा चिदपि न भविता नैव भविष्यति॥२७४॥*

  • सेवे इति। अहम् अनन्तसरो नामात्रत्यं तीर्थं सेवे, करिगिरिं हस्तिशैलं श्र… आश्रये, श्रीपुण्यकोट्याविमानेन समं सह उत्तरवेदिं ब्रह्मकृताश्वमेधीयां, ध्यायामि अत्र उत्तरवेद्यां महितं पूजितं देवाधिराजं श्रीवरदं भजे, तथा कल्याणानां को.. प्रकर्षे “कोटिःस्त्री धनुषोऽग्रेऽश्रौ सङ्ख्याभेद-प्रकर्षयोः” इति मेदिनी। अर्थात् श्रीविष्णौ विमाने वा (?) स्थितां तत्र विष्णौ प्रेमाश्रयेण विमाने चोपवेशने न च स्थितिरिति बोध्यम्। कल्याणीं स्वयं कल्याणरूपिणीं कञ्जनिलयां पद्मालयां लक्ष्मीं, कलयामि शरणं व्रजामि। राघवो रामचन्द्रश्चयादवः श्रीकृष्ण आदिमकिटिः आदिवराहश्च तान्। “वराहः सूकरो घृष्टिःकोलः पोत्री किटिः किटिः” इत्यमरः। ईडे स्तौमि, तथा मुकुन्दाश्रितान् श्रीकृष्णभक्तांश्च वननमस्करोमि॥ २७५॥*

    • अत्र हि—

स्वावज्ञानसमुन्मिषद्रुषि सरस्वत्यां विरिञ्च्याध्वर-
प्रत्यूहाय नदीप्रवाहविधिना341 पर्यापतन्त्यामहो॥
दूने तु द्रुहिणे342 गणे च मरुतां दीने मखं विघ्नतः343
पातुं सेतुकृदेष344 सेतुरभवत्पक्षीन्द्रकेतुः स्वयम्॥२७६॥

किञ्च—

परं वेगं सरस्वत्या उद्वेगमपि तत्पतेः॥
एष345 सेतुर्विधरणोप्यरुणद्युगपत्प्रभुः॥२७७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • स्वावज्ञानेति। स्वस्याः अत्मनः अवज्ञानेन अपमानेन समुन्मिषती उत्पद्यमाना रुट् कोपो यस्याः “कोप-क्रोधामर्ष-रोष-प्रतिघा रुट्-क्रुधौ स्त्रियौ” इत्यमरः। तस्यां सरस्वत्यां विरिञ्च्याध्वरे ब्रह्मकृताश्वमेधयज्ञे प्रत्यूहाय विघ्नं कर्तु “क्रियार्थोपपदस्य—” इत्यादिना चतुर्थी। “विघ्नोऽन्तरायः प्रत्यूहः” इत्यमरः। प्रवाहविधिना वेगवतीप्रवाहरीत्या, पर्यापतन्त्यां सत्यां, द्रुहिणे ब्रह्मणि तु, दूने यज्ञविघ्नेन दुःखिते सति ‘दु गतौ’ इत्यस्मात् क्तप्रत्यये “ल्वादिभ्यः” इति सूत्रस्थ “दुग्वोदीर्घश्च” इति वार्तिकेन नत्व दीर्घश्च। मरुतां देवानां गणे समुदाये च दीने खिन्ने सति, मखं यज्ञ विघ्नतः विघ्नात् पातुं रक्षितु, सेतुकृत् प्रवाहप्रतिबन्धकृत्, एषः पक्षीन्द्रकेतुः गरुडध्वजो विष्णुः, स्वयमेव सेतुरभवत्। अहो भगवतः प्रभाव इत्यर्थः॥२७६॥*

  • परमिति। एषः भगवान् श्रीवरदनामा प्रभुः विधरणो धारकः, वेदोक्तविधानस्येत्यर्थात्। अत एव सेतुः, परं, एतदुभयान्वयि। सरस्वत्या वाग्देव्याः वेग प्रवाहं, तस्याः सरस्वत्याः पतेः ब्रह्मणः उद्वेगं दुःख च, युगपद् एकदैव न्यरुणन् निरुद्धवान्। तुल्ययोगितालङ्कारः। “नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता” इति तल्लक्षणात्। एवं सति भावदर्पणकृता ‘एष सेतुर्विधरण —’ इति प्राचीनबहुपुस्तकानुकूलं पाठमनादृत्य ‘स एष सेतूद्धरणः’ इति एकदेशीयपाठं स्वीकृत्य च ‘उद्धरण’ इत्यस्य ‘भञ्जकः निष्पादकश्च’ इत्यर्थद्वयं कृत्वा, ‘अत्र सेतोर्भञ्जन-निष्पादनयोः श्लेषभित्तिकयाभेदाध्यवसायाद्विरोधाभासः’ इति यदुक्तं, तत्तस्य स्थूलबुद्धित्वं पिशुनयति। सरलपाठसत्त्वे तस्मात्सरलार्थलाभे च सति बुद्धिपुरःसरं श्लेषार्थकरणस्यास्वारस्यात्। अत एव उद्धरणपदस्य’भञ्जकः’ इत्यर्थश्चिन्त्यः अप्रसिद्धत्वात्। इत्यलमप्रस्तुतपल्लवितेन॥२७७॥*

    • अपि च—

आशामीशानबन्धोश्चरणनखरुचां धारया स्मेरयन्ती
कुम्भीडिम्भस्य346 काष्ठामपि मणिमुकुटन्युप्त347मुक्तामयूखैः॥
पर्यङ्के शब्दविद्यापरिमलसरले पङ्कजस्पर्धिनेत्रा
व्यक्तिर्वेगापगायां स्वपिति समुदिता348 काऽपि तापिच्छवर्णा॥२७८॥

सप्रत्यभिज्ञम्—

प्राजापत्यमखान्तरायतटिनीपाथोनिरोधोद्यतः
प्राप्तः पावनहेमतामरसिनीतीरं कृपारम्यधीः॥
क्षेमं कोमलवल्लिकासहचरः पुष्णातु कृष्णाम्बुद-
च्छायः सोऽयमवातरन्महति यो रङ्गेभुजङ्गेशयः॥२७९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

*** आशामिति।** ईशानस्य शङ्करस्य बन्धोः कुबेरस्य आशाम् उत्तरदिशं, चरणनखरुचां पादनखकान्तीनां धारया परम्परया, कुम्भीडिम्भस्य कुम्भबालकस्य अगस्त्यस्येत्यर्थः। काष्ठां दक्षिणां दिशमपि, “दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः” इति पूर्वत्रात्र चामरः। अगस्त्यो हि गर्वात्प्रवृद्धं विन्ध्याद्रिं नमयित्वा दक्षिणां दिशं गतः स तत्रैव स्थित इत्यादिकथा काशीखण्डतोऽवगन्तव्या। मणिमयमुकुटे न्युप्तानां खचितानां मुक्तानां मयूखैः किरणैश्च स्मेरयन्ती प्रकाशयन्ती, दक्षिणदिशि शिरः उत्तरदिशि पादौ च कृत्वा शयानेत्यर्थः। पङ्कजस्पर्धिनेत्रा कमलतिरस्कारकर्तृनयना, तापिच्छवर्णा तमालवच्छ्यामवर्णा, अत एव कापि अनिर्वचनीयमाहात्म्या, अत्र समुदिता उत्पन्ना व्यक्तिः श्रीरङ्गनायकरूपा, वेगापगायां तस्यास्तीरे इति लक्षणयार्थः। शब्दविद्यायाः व्याकरणमहाभाष्यरूपायाः परिमलेन सुगन्धेन सरले उदारे पर्यङ्के, अर्थात् शेषशयने स्वपिति शेते। व्याकरणमहाभाष्यकृत् पतञ्जलिर्भगवान्शेषावतार इति प्रसिद्धत्वादियमुक्तिः॥२७८॥*

  • ** प्राजापत्येति।** कृष्णाम्बुदस्य नीलवर्णमेघस्येव छाया कान्तिर्यस्य सः, मेघवच्छ्यामवर्ण इत्यर्थः। “छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः” इत्यमरः। सः भुजङ्गेशयः शेषशायी, अस्माकमिति शेषः। क्षेमं कुशलं पुष्णातु वर्धयतु। कीदृशः भुजङ्गेशयः। प्रजापतेर्ब्रह्मणः अयं प्राजापत्यः स चासौ मखोऽश्वमेधयज्ञश्च प्राजापत्यमखः तस्य अन्तरायरूपायाः विघ्नरूपायास्तटिन्याः वेगवतीनद्याः, पाथसो जलस्य निरोधार्थम् उद्यतः आविर्भूतः। पावना पवित्रा या हेमतामरसिनी ‘सुवर्णकमलयुक्ता काचित्सरसी तस्यास्तीरं प्राप्तः। अत एव कृपया दयया हेतुभूतया रम्या धीर्बुद्धिर्यस्य सः, कोमलवल्लिकायाः एतन्नाम्न्याःपत्न्याः सहचरः यः अयं महति रङ्गे एतन्नामक्षेत्रे, अवातरत् प्रकटीबभूव। स इति सम्बन्धः॥२७९॥*

  • *पुनरनुध्यायन् सानन्दम् —

शतमखमणिस्तोमश्यामं शयानमहीश्वरे
शशिसखमुखं राजीवाक्षं समुन्नतनासिकम्॥
महितचरणं धातुः पत्न्या महस्तमसः परं
हृदि लगतु मे बिम्बोष्ठं तद्यथोक्तकृदाह्वयम्349॥२८०॥

किञ्च—

वेगवतीसेतुतया प्रागवतीर्णादिदेवता विनतान्॥
द्रागवतीयं दुरिताद्रागवती कलशजलधिकन्यायाम्॥२८१॥

** कृ०—**अहो कथमाशुकविः सन्नपि भवानमुं देवमभिनन्दति350 ? तथाहि॥११०॥’

अधः करोत्यादिमशाब्दिकोरगं कलानिधिं धिक्कुरुते मुखेन यः॥
कृतान्तरायस्य सरस्वतीजवे स्तवे रुचिस्तस्य कथं भवेत्कवेः॥२८२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • शतमखेति। शतमखमणीनाम् इन्द्रनीलानां स्तोमः समूह इव श्यामं नीलवर्णं, अहीश्वरे शेषे शयानं स्वपत्, शशिनः सखि मित्रभूतं मुखं यस्य तत्, चन्द्रतुल्यमुखमित्यर्थः। राजीवाक्षं कमलनेत्रं, समुन्नता नासिका यस्य तत्, धातुः प्रजापतेः पत्न्या सरस्वत्या महितौ पूजितौ चरणौ यस्य तत्, बिम्बमिव ओष्ठौ यस्य तत्, यथोक्तकृद् उक्तमनतिक्रम्य कारीति आह्वयः नाम यस्य तत्, यद्वा, अत्र भावदर्पणकृदर्थान्तरमाह—‘यथा पूर्वार्द्ध शकारादित्वेन उत्तरार्धं मकारादित्वेन उक्तं शममित्यर्थः। कुर्वन्तीति शमकृतः शान्तिसुखदायका आह्वया नामानि यस्येति।’ तमसः अज्ञानात् परं ज्ञानरूपमित्यर्थः। तन् महः वैष्णव तेजः मे हृदि लगतु तिष्ठतु॥२८०॥*

*** वेगवतीति।** किञ्च इयम् आदिदेवता श्रीरङ्गनायकमूर्तिः, वेगवत्या नद्याः सेतुतया सेतुवन्निरोधरूपेण प्राक् ब्रह्मकृताश्वमेधकाले अवतीर्णा आविर्भूता, कलशजलधिः क्षीरसागरस्तस्य कन्यायां लक्ष्म्यां रागवती प्रेमवती, विनतान् भक्तिनम्रान् दुरितात्पापाद् द्राग् झटिति अवति संरक्षति॥२८१॥*

  • अथ कृशानुरुपपादितमेवार्थं द्रढयितुं श्लेषरूपं दूषणमाह—अहो इति। अहो इत्याश्चर्ये। भवान् आशुकविः शीघ्रकविः सन्नपि, अनेन तस्य सदसद्विवेकसामर्थ्यं सूचितम्। अमुं श्रीरङ्गनायकं देवं कथम् अभिनन्दति ?॥११०॥*

  • अनभिनन्दनीयत्वमेवोपपादयति—अध इति। यः रङ्गनाथः आदिमः प्रथमश्चासौ शाब्दिकः शब्दशास्त्रवेत्ता व्याकरणशास्त्रज्ञ इत्यर्थः। “तदधीते तद्वेद” इत्यधिकारे वसन्तादित्वाट्ठक्। स चासौ उरगः शेषः तं, तेनैव पतञ्जलिरूपेण महाभाष्यकरणात्। अधः करोति तिरस्करोति शयनार्थमधः प्रदेशे करोतीति तु वास्तवो-*

*** *** **वि०—**किमेभिः श्लेषैकावलम्बनैर्दोषैरमुं देवमाश्रितेषु जनेषु खल्वप्रत्यूहः351 सरस्वतीप्रवाहो विजयते॥१११॥

पश्य—

कल्पन्ते कामरामास्फुरदधरसुधागर्वसर्वस्वमोषो-
द्युक्तान्युक्तान्यमीषां रसिकजनमुदे धातृयोषा हि येषाम्॥
श्लाघावेलासु दोलायितनिजमुकुटाकल्पकल्पद्रुसूनो-
ड्डीनालिध्वानतानाकलनपरिमिलच्चा352रुवीणाभिगाना॥२८३॥

किञ्चिदुत्तरतो दृष्टिमाधाय साञ्जलिबन्धम्—

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

ऽर्थः। तथा मुखेन पक्षे वाचा कलानिधिचन्द्रं, कलानां निखिलविद्यानां निधिं बृहस्पतिं च धिक्कुरुते धिक्कारं करोतीत्यर्थः। तथा सरस्वत्याः वाण्याः वेगवत्या नद्याश्च जवे प्रसारणे वेगे च कृतः अन्तरायो विघ्नं येन सः, तस्य स्तवे स्तुतौ विषये, कवेः पण्डितस्य रुचिः कथं भवेत् ? अपि तु नैव भवेदेवेत्यर्थः॥२८२॥

  • किमिति। एभिस्तवोक्तैः श्लेषैकावलम्बनैः श्लेषैकाश्रयैः दोषैः किम् ? वस्तुतः अमुं श्रीरङ्गेश्वरं देव आश्रितेषु, भक्त्येति शेषः। जनेषु अप्रत्यूहः निष्प्रतिबन्धः सरस्वतीप्रवाहो वाग्देवताप्रसारः विजयते खलु॥१११॥*

  • सरस्वतीविजयमेव सविस्तरमाह**—कल्पन्त इति।** अमीषां श्रीरङ्गनाथाश्रितानाम् उक्तानि भाषणानि कामरामायाः मदनपत्न्या रत्याः स्फुरति शोभने अधरे या सुधा अमृतं तस्य यद् गर्वसर्वस्व अभिमानरूपं धनं तस्य मोषे अपहरणे उद्युक्तानि तत्पराणि सन्ति। अर्थाद् रत्यधरापेक्षयापि अतीव मधुराणीति ज्ञेयम्। रसिकानां जनानां मुदे आनन्दे कल्पन्ते। तदानन्दसम्पादकानि भवन्तीत्यर्थः। “क्लृपि सम्पद्यमाने च” इति चतुर्थी। हि अत एव येषां भक्तानां तदुक्तीनां वा, श्लाघावेलासु प्रशंसाकालेषु धातुर्ब्रह्मणःयोषा पत्नी सरस्वती दोलायितेभ्यःदोलावदाचरद्भ्यः शिरःकम्पनेन चलद्भ्य इत्यर्थः। निजमुकुटस्य स्वकीयकिरीटस्य आकल्पेभ्यः भूषणभूतेभ्यः कल्पद्रुसूनेभ्यः कल्पवृक्षपुष्पेभ्यः उड्डीनाः उत्पतन्तः ये अलयो भ्रमरास्तेषां ध्वानवन् निनादवद् गुञ्जारवशब्दवदिति यावत्। यत्तानं गानोत्कर्षसम्पादकस्वराणाम् आरोहावरोहकरणं तस्य आकलनेन तदनुसरणेनेति यावत्। परिमिलद् विशेषतः शोभमानं चारु वीणया अभिगान यस्याः सा तथाभूता भवति। एतेषामुक्तानि श्रुत्वा भगवती सरस्वत्यपि सशिरःकम्पाभिनन्दन गायति, तदा च तच्छिरस्थकुसुमोत्थितभ्रमरारावः तस्याः गानस्वरश्च द्वावप्येकरूपौ भवत इत्यर्थः। यद्येतावत्तद्भक्तानां माहात्म्यं, तर्हि प्रत्यक्षं भगवतः श्रीरङ्गनाथस्य किमु वक्तव्यमिति भावः॥२८३॥*

  • किञ्चिदिति। उत्तरतः उत्तरस्यां दिशि दृष्टिम् आधाय दत्त्वा। उत्तरतोऽवलोक्येत्यर्थः।*

क्षेमारम्भनिदानमाप्लवजुषां हेमाभिरामाम्बुज-
स्तोमायातमरन्दलम्भित353पयोभूमा स्वभूमानिता॥
सह्याद्रिप्रभवासमानविभवा मह्यासह्यार्ति354हृत्
पुह्यां355योगिवरेण्यपुण्यसरसी द्रुह्यादसह्यांहसे॥२८४॥

इति विमानं दक्षिणतः प्रस्थाप्य सादरमक्षि निक्षिप्य प्राञ्जलिर्भूत्वा —॥११२॥

विश्वाह्लादकरीं करीन्द्रसरसीकह्लारपारम्परी-
भव्यामोदधुरन्धरानिलजडे356 दिव्यालये जाग्रतीम्॥
कष्टापद्विनिवर्तिनीं घनतपः क्लिष्टात्मनां योगिना-
मिष्टामष्टभुजां भजामि357 विबुधैराराधितां358 देवताम्॥२८५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • क्षेमेति। इयं योगिनां तपस्विनां वरेण्या स्पृहणीया पुण्या च सरसी सरः, पुह्यानाम, असह्यं सोढुमशक्य च तद् अहः पापं तस्मै द्रुह्यात्। “क्रुध द्रुह—” इत्यादिना चतुर्थी। असह्यदुःखोत्पादकं पाप नाशयत्वित्यर्थः। कथम्भूता पुह्या। आप्लवं स्नानं जुषन्ति सेवन्ते कुर्वन्तीति यावत्। तेषां क्षेमाणां कल्याणानामारम्भे उत्पादने निदानमादिकारणम्। “निदान त्वादिकारणम्” इत्यमरः। अत एव स्वभुवा ब्रह्मणा मानिता पूजिता, कुतः। सह्याद्रेः प्रभव उत्पत्तिर्यस्याः सा कावेरी नदी तया समानस्तुल्यः विभवो माहात्म्यं यस्याः सा तथाभूता। अनेन विशेषणत्रयेण तस्याः पापनाशनसामर्थ्य द्योत्यते। पुनः कीदृशी। हेमवत् सुवर्णवद् अभिरामाणि मनोहराणि यान्यम्बुजानि कमलानि तेषां स्तोमात् समूहाद् आयातः उत्पन्नः मरन्दः मकरन्दः तेन लम्भितः सम्प्राप्तः पयोभूमा उदकातिशयो यस्याः सा। अत एव मह्यां पृथिव्याम् असह्यासोढुमशक्या पिपासादिरूपा आर्तिः पीडा तां हरतीति हृत्। सर्वदा जलपूर्णत्वात् पिपासादिनिखिल दुःखनाशिनीत्यर्थः॥ २८४॥*

  • इतीति। दक्षिणतो दक्षिणस्यां दिशि प्रस्थाप्य गमयित्वा। अक्षि नेत्रं निक्षिप्य प्रेरयित्वा, अवलोक्येत्यर्थः॥ ११२॥*

  • ** विश्वेति।** विबुधैर्देवैः पण्डितैर्वा आसेविताम् अष्टभुजां देवतां देवीं लक्ष्मीं भजामि आराधयामि। कीदृशीमष्टभुजाम्। विश्वस्य जगतः आह्लादकरीम् आनन्दकरीम्। कष्टानां दुःखरूपाणाम् आपदां विनिवर्तिनीं नाशयित्रीम्। घनं सन्ततं च तत्तपः तेन क्लिष्टः श्रान्तः आत्मा चित्तं येषां तेषां योगिनाम् इष्टां स्पृहणीयां, तपः-कर्तॄणामिच्छितफलदात्रीमित्यर्थः। तत्र हेतुमाह—करीन्द्रसरसी हस्तिसरो नाम तीर्थे तस्यां या कह्लाराणां रक्तकमलानां पारम्परी पङ्क्तिः तस्याः भव्यस्य मनोहरस्य आमोदस्य सुगन्धस्य धुरन्धरेण धूर्वहेण तद्वाहकेनेत्यर्थः। अनिलेन वायुना जडे*

    • अथ प्रतीच्यां दिशि किञ्चिदन्तरं विमानमानीय सहर्षम् —*

त्रिदशाकलितस्नेहस्फूर्तिमान्359 शमयंस्तमः॥
भाति दीपप्रकाशोऽत्र शरणागतबोधकृत्॥२८६॥

*** कु० —** *

दीपप्रकाशसञ्ज्ञा देवेऽस्मिन्नुत्तमस्फुरणे॥
रात्रिचरप्रतिकूले नदीपजातोल्लसद्रुचौ नार्हा॥२८७॥

*** वि० —*मन्दमते मैवं भाणीः॥११३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

शिशिरे, शीतले इत्यर्थः। “शिशिरो जडः” इत्यमरः। दिव्यालये दिव्यमन्दिरे जाग्रतीम्प्रत्यक्षरूपेण सदा भक्तेष्टफलप्रदामित्यर्थः। तामिति सम्बन्धः॥२८५॥

** त्रिदशेति।** तृतीया तारुण्यरूपा दशा अस्ति येषां ते त्रिदशाः देवास्तेषु आकलिता उत्पन्ना स्नेहस्य प्रेम्णः स्फूर्तिः आविर्भावः अस्यास्तीति स्फूर्तिमान्। “सदा युवानो देवासः” इति श्रुत्या देवानामेव सदा तरुणत्व प्रोक्तम्। पक्षे तिसृभिः दशाभिर्वर्तिभिः आकलितेन सम्बद्धेन स्नेहेन तैलघृतादिना स्फूर्तिः कान्तिरस्यास्तीति च। तमः अज्ञानम् अन्धकारं च शमयन् निवारयन् सन्, अत एव शरणं रक्षणार्थं गृहं च “शरणं गृह-रक्षित्रोः” इत्यमरः। आगतानां प्राप्तानां बोध ज्ञानं स्वप्रकाशेन यथास्थानस्थितवस्त्ववगमं च करोतीति तत्कृद् दीपप्रकाशः एतन्नामा भगवान् दीपस्य प्रकाशश्च अत्र पुरोवर्तिस्थले भाति प्रकाशते॥२८६॥

** दीपेति।** अस्मिन् त्वया प्रशंसिते उद्गतम् उत्पन्नं तमसः अज्ञानस्य अन्धकारस्य च स्फुरणं यस्मात्, पक्षे उत्तमम् इतरविलक्षणं स्फुरणं प्रकाशो यस्य तस्मिन् इति चार्थः। “यदादित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्” “भीषास्माद्वातः पवते भीषोदेति सूर्यः” इत्यादिश्रुति-स्मृतिवचनात्। रात्रौ निशायां चरन्ति परिभ्रमन्ति ते रात्रिचरा राक्षसाश्च “राक्षसः कोणपः क्रव्यात् क्रव्यादोऽस्रप आशरः। रात्रिञ्चरो रात्रिचरः” इत्यमरः। तेषां प्रतिकूले विरुद्धे, दीपाज्जाता उत्पन्ना उल्लसन्ती प्रकाशमाना च रुचिः कान्तिः न विद्यते यस्य तस्मिन्, पक्षे नदीः पाति रक्षतीति नदीपः समुद्रः तस्माज्जाता उत्पन्ना लक्ष्मीः तस्याम् उल्लसन्ती अनुदिनं वर्धमाना रुचिः प्रीतिर्यस्य तस्मिन्निति च। देवे श्रीविष्णुरूपे दीपप्रकाश इति सञ्ज्ञा नाम “सञ्ज्ञा स्याच्चेतना नाम” इत्यमरः। नार्हा न योग्या। अत्र निन्दायाः श्लेषार्थेन स्तुतौ पर्यवसानाद् व्याजस्तुतिरलङ्कारः॥२८७॥

** मन्देति।** मैवं भाणीः एवं मा वदेत्यर्थः। भणधातोर्लुडि “न माड्योगे” इत्यडागमप्रतिषेधः॥११३॥

प्रकटितदशावतारे प्रचुराज्याकलनभावितस्फुरणे॥
दीपप्रकाशनाम क्षमं विभावर्युदितभीतिहरे॥२८८॥

श्रीमद्वेदान्तदेशिकाचार्यवर्णनम्—२२

<MISSING_FIG href="../books_images/U-IMG-1722415399Screenshot2024-07-29225223.png"/>

निरूप्य सानन्दम्—

श्रीरङ्गेश्वरशासनादधिगतश्रुत्यञ्चलाचार्यकं
दान्तं यं कविवादिदन्तिहरिरित्यार्यावदन्ति क्षितौ॥
सर्वस्यामपि हन्त तन्त्र360सरणौ स्वातन्त्र्यमासेदुषां
सुत्रामा स हि वेङ्कटेशकवि361राडत्राविरासीत्प्रभुः॥२८९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • ** प्रकटितेति।** प्रकटितः दशायां वर्तिकायाम् अवतारः आविर्भावः येन, प्रकटिता दशसङ्ख्याका अवताराः मत्स्य-कूर्मादयो येनेति च तस्मिन्। प्रचुरं बहुलं च तत्आज्यं घृतं च तस्य, पक्षे प्रचुरायाः आजेः राक्षससङ्ग्रामस्य च “सङ्ग्रामाभ्यागमाहवाः। समुदायः स्त्रियः संवित्-समित्याजि-समिद्-युधः” इत्यमरः। आकलनेन स्वीकरणेन भावितं प्राप्तं स्फुरण दीप्तिः प्रसिद्धिश्च यस्य तस्मिन्। विभावर्या निशायां “निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा।विभावरी” इत्यमरः। उदिताम् उत्पन्नां भीतिः अन्धकारसम्बन्धिनीमित्यर्थः। हरति निवारयतीति तद्धरस्तस्मिन् पक्षे अरिभ्यः शत्रुभ्यः उदितभीतिं हरतीति च तस्मिन् विभौप्रभौ दीपप्रकाश इति नाम क्षम योग्यमेव॥२८८॥*

  • अथ वेदान्तदेशिकवर्णनमाक्षिपति—निरूप्येत्यादि।*

  • श्रीरङ्गेति। श्रीरङ्गेश्वरस्य भगवतः शासनात्। ल्यब्लोपे पञ्चमी। आज्ञां प्राप्येत्यर्थः। अधिगतं स्वीकृतं श्रुतीनां वेदानामञ्चलानाम् अग्राणाम् उपनिषदाम् आचार्यकं व्याख्यातृत्वं येन तं, “मन्त्रव्याख्याकृदाचार्यः” इत्यमरः। अत एव दान्तं जितबाह्यान्तरिन्द्रिय, य वेङ्कटेश कवयः पण्डिताः वादिनश्च तद्रूपा ये दन्तिनो गजास्तेषां हरिः सिंह इति क्षितौ पृथिव्याम् आर्याः श्रेष्ठाः जनाः वदन्ति कथयन्ति। एतदेव सहेतुकमुपपादयति**—*हि यतः सर्वस्यामपि, हन्तेत्याश्चर्ये। तन्त्रसरणौ शास्त्रमार्गे स्वातन्त्र्यम् आसेदुषां प्राप्तवतां मध्ये, सदेर्धातोः “भाषायां सद-वस-श्रुवः” इति भूतसामान्ये लिटि क्वसुः। “वसोः सम्प्रसारणम्” इति भसञ्ज्ञायां सम्प्रसारणं च। सुत्रामा इन्द्रः सः वेङ्कटेशकविराट् प्रभुः अत्र काञ्च्याम् आविरासीत् प्रकटीबभूव॥२८९॥

  • *जनानुद्दिश्य—

भेदाभिदाविषयवादापतद्दुरुपपादार्थसाधकमदो-
त्सादावहाद्भुतमखादापगस्यदविनोदाभिजातभणितिः362
पादारविन्दनतखेदापहार363चतुरोदारमाधवगुणा-
स्वादाभितुष्ट इह मोदाय वो भवतु वेदान्तदेशिकमणिः364॥२९०॥

अपि च—

नानाम्नायपरिश्रमं कलयतां नास्त्येव शास्त्रेषु धीः
सत्योरप्युभयो365स्तयोर्न सुलभा साहि क्षितौ साहिती366
अप्येतासु सतीषु नास्ति विनयो नाचार-भक्ति-क्षमा-
चातुर्यः स च सा च सा च स च ताश्चालम्ब्य खेलन्त्यमुम्॥२९१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

*** भेदेति।** किञ्च भो जनाः, वेदान्तदेशिकमणिः वेदान्ताचार्यश्रेष्ठः रा वेङ्कटेशगुरुः इह काञ्च्यां नगर्यां, वो युष्माकं मोदाय आनन्दाय भवतु। कथम्भूतः। भेदः जीवात्मनोः पृथक्त्वच अभिदा तयोरैक्य च ते विषये प्रतिपाद्ये ययोस्तथाभूतौ यौ वादौ तदर्थमापततां प्राप्तवतां, दुरुपपादस्य प्रतिपादयितुमशक्यस्य अर्थस्य भिन्नत्वैक्यान्यतररूपस्य साधकानां वादिनां मदस्य गर्वस्य उत्सादावहाः उच्छेदसम्पादकाः अत एव अद्भुताः आश्चर्यरूपाश्च मखादा यज्ञभुजो देवास्तेषाम् आपगा गङ्गा नदी तस्याः स्यदस्य प्रवाहस्येव विनोदो विलासो यासां तादृशश्च। निखिलशास्त्राणां याथार्थ्यप्रतिपादनेन पापहारकत्वाद्गङ्गाप्रवाहविनोदसादृश्यम्। अत एव अभिजाता निर्मलाश्च भणितयो वचनानि यस्य सः तथाभूतः। पुनश्च पादारविन्दे चरणकमले नतानां भक्त्या नम्राणां खेदस्य क्लेशस्य अपहारे निवारणे चतुरस्य अत एव उदारस्य महतः “उदारो दातृ-महतोः” इत्यमरः। माधवस्य विष्णोः गुणानां भक्तवात्सल्यादीनाम् आस्वादेन अभितुष्टः। वेङ्कटेशकविरिति सम्बन्धः॥ २९०॥*

  • नानेति। अपि च नानाम्नायेषु निखिलवेदेषु “श्रुतिः स्त्री वेद आम्नायः” इत्यमरः। परिश्रम अध्ययनरूपं कलयतां कुर्वतां, शास्त्रेषु वेदान्तादिषु धीः अर्थज्ञानरूपा बुद्धिः नास्त्येव नैवास्ति। अत्र सर्वत्र प्रायश इति शेषो ग्राह्यः। तयोः उभयोः वेद-शास्त्रबुद्ध्योः सत्योरपि सा हि प्रसिद्धा साहिती यथार्थव्युत्पत्तिः क्षितौ पृथिव्यां न सुलभा। ननु कदाचिद् एतासु वेद-शास्त्र-यथार्थव्युत्पत्तिषु सतीष्वपि, विनयो नम्रता नास्ति। तथा आचारः यथाशास्त्राचरण च भक्तिः भगवति प्रेम च क्षमा सुखदुःखादिद्वन्द्वसहनं च चातुरी कर्तव्याकर्तव्यकौशलं च ताः चतस्रः न सन्त्येव। अमुं वेदान्ताचार्यं तु आलम्ब्य आश्रित्य सः वेदाभ्यासश्च सा शास्त्रम्बुद्धिश्च,सा साहिती*

अर्वन्तमास्ये तमुपास्य देवं गर्वं तमोजं कुदृशां प्रशान्तम्॥
कुर्वन्तमेतं367 गुरुमन्तरेण गुर्वन्तरं कोऽत्र गुणी वृणीते॥२९२॥

** कृशानुः—**वयस्य मा स्मैवमवोचः368। यदेतत्पक्षावलम्बनतः369 पक्षान्तरस्वीकार एव वर इति मे प्रतिभाति॥११४॥

तथा हि—यस्मिन्पक्षेऽस्ति मोक्षो गुरुणि लघुनि वा साधनेऽप्यप्रयुक्ते श्लाघाहेतुः श्रमार्थव्ययकरयजनाद्यग्र्यकर्मप्रहाणम्॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

च, सः विनयश्च, ताः आचार-भक्ति-क्षमा-चातुर्यश्च खेलन्ति क्रीडन्ति। अनेन लोकविलक्षणोऽयमिति व्यज्यते॥२९१॥

  • किञ्च अर्वन्तमिति। आस्ये मुखे अर्वन्त अश्वरूप “वाजि-वाहार्व-गन्धर्व-हय-सैन्धव-सप्तयः” इत्यमरः। तं देवं हयग्रीवावतारम् उपास्य संसेव्य, कुत्सितं यथा तथा पश्यन्ति अर्थाद् वेद-शास्त्राणि, ते कुदृशः वेद-शास्त्रादीनां विपरीतार्थङ्कारिण इत्यर्थः। तेषां तमोजम् अज्ञानजन्यं गर्वम् अभिमानं प्रशान्तं नष्टं कुर्वन्तं, एतादृशम् एतं वेदान्ताचार्यं गुरुमन्तरेण विना “अन्तराऽन्तरेण — ” इति द्वितीया। गुर्वन्तरम् अन्यं गुरुम् अत्र लोके, को गुणी पुरुषः वृणीते अङ्गीकरोति ? अपि तु कोऽपि नैवेत्यर्थः॥२९२॥*

  • वयस्येति। हे वयस्य, एवं ‘एत गुरुमन्तरेण गुर्वन्तरं न वृणीते’ इत्यादिरूपं मा स्म अवोचः मा वद। अत्र माड्योगे अडागमः प्रामादिकः। “न माड्योगे” इति तन्निषेधात्। अथवा केवलं माशब्दमङ्गीकृत्य कथचित् समाधेयम्। यतः एतस्य गुरोः पक्षावलम्बनतः पक्षाश्रयाद् द्वैतप्रचुरत्वादित्यर्थः। पक्षान्तरस्य अन्यपक्षस्य शुद्धाद्वैतप्रतिपादकस्येत्यर्थः। स्वीकारः अङ्गीकार एव वर इति मे प्रतिभाति। अत्र भावदर्पणकृता मर्कटकिशोर-मार्जारकिशोरन्यायतुल्यतया व्याख्यातम्। ‘यथामर्कटकिशोरः प्राकारादिलङ्घनेऽपि दृढमवलम्बमानः मातुः काङ्क्षितं स्तन्यमनुभवति, तथा श्रौत-स्मार्तकर्मद्वारा सेवमानो भक्तः भगवत्प्रसाद लभत इति — मर्कटकिशोरन्यायानुगृहीतः। तस्मात् पक्षान्तरमन्यः पक्षः यथा मार्जारकिशोरं तन्माता मार्जारी स्वयमेव दन्तघातनादेः संरक्ष्य देशाद्देशान्तरं नीला पुष्णाति, तथा सर्वङ्कर्म विहाय स्वात्मानं भगवते निवेद्य वर्तमान स्वयमेव भगवान् कृतयोग-क्षेमो रक्षतीति — मार्जारकिशोरन्यायानुगृहीतः वर इति’ इति॥११४॥*

  • उक्तार्थमेव विशदीकरोति**—यस्मिन्पक्ष इति।** यस्मिन् अन्यस्मिन् शुद्धाद्वैतप्रतिपादके पक्षे, गुरुणि महति कतिपयदिनसाध्ये यज्ञादिरूपे, वाऽथवा लघुनि*

तं हन्तोपेक्ष्य पक्षं श्रयति जगति कः काम्यवेदोक्तकर्मा-
नुष्ठानावश्यकत्वप्रकटनकठिनं वेदचूडार्यमार्गम्॥२९३॥

विश्वावसुः —–

निरूपणनिपुणोऽपि भवान् कथमेवं कथयति?॥११५॥

वेदान्तार्थ370विशोधितं हित371पथं व्याधूय साधूचितं
चापल्यादनुरुन्धते तदितरं पन्थानमन्धा नराः॥
इष्टं भक्षय कान्तया च विहरेत्येवं प्रियालापिनं
रोगार्ताश्चपलाः स्तुवन्ति न तु तं यः पथ्यवादी भिषक्॥२९४॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

दर्श-पूर्ण-मासादिरूपे साधने कर्मणि अप्रयुक्ते अनाचरिते सत्यपि, मोक्षः अस्ति। अत एव स पक्षःश्लाघाहेतुः प्रशंसाकारणम्। श्रमः शरीरप्रयासश्च अर्थव्ययः द्रव्यव्ययश्च तौ करोतीति तत्करं तच्च तद् यजनादि आदिशब्देन तपःकृच्छ्रादेः सङ्ग्रहः। अग्र्याणां ब्राह्मणानां कर्म तस्य प्रकर्षेण हानं विनाशो यस्मिन् तथाभूतम्। तं पक्ष, हन्तेति खेदे। उपेक्ष्य काम्यानां वेदोक्तानां कर्मणां “स्वर्गकामो यजेत” इत्यादिरूपाणाम् अनुष्ठानस्य आवश्यकत्वस्य आवश्यकर्तव्यस्य प्रकटनेन कठिनं कर्तुमशक्य वेदचूडार्यस्य वेदान्ताचार्यस्य मार्ग पक्ष जगति कः श्रयति अङ्गीकरोति ? कोऽपि नैवेत्यर्थः। अयं भावः —अयं वेदान्ताचार्यः वेङ्कटाचार्याभिधः स्वयं यज्ञादिकाम्यकर्मणामनुष्ठाता तत एव च यज्ञादिकर्मानुष्ठानोत्तरमेव ज्ञानेन मुक्तिरिति तत्सिद्धान्तः। एतस्मादन्यस्मिन् श्रीमच्छङ्कराचार्यादिमते तु मोक्षसाधने काम्यादिकर्मणां नावश्यकता, किन्तु शम-दमादिसाधनसम्पन्नतया विधिवद्गुरूपसत्तिपूर्वकात्मज्ञानेनवैमुक्तिरिति। तस्मात् स एव पक्षो वर इति॥२९३॥

  • ** निरूपणेति।** निरूपणे सदसद्विवेके निपुणः प्रवीणोऽपि सन् भवान् कथमेकः ‘यस्मिन् पक्षे —’ इत्यादिरूप कथयति ?॥११५॥*

  • ** वेदान्तार्थेति।** अन्धाः ज्ञानहीना नराः वेदान्तार्थेन वेदान्ततात्पर्येण विशोधित शुद्धं, आर्येति पाठे वेदान्तार्येण वेङ्कटगुरुणा विशोधितमित्यर्थः। साधूनामुचित योग्य अत एव हितपथं श्रेयस्करं मार्गं व्याधूय त्यक्त्वा तस्माद् इतरमन्यं पन्थानं चापल्याद् विषयोपभोगलौल्याद्धेतोः अनुरुन्धते अनुसरन्ति। अत्र दृष्टान्तमाह—इष्टं— शास्त्रनिषिद्धमपि पलाण्डुसदृशं—पदार्थं भक्षय, कान्तया स्त्रिया सह यथेच्छमिति शेषः। विहर क्रीड, एवं प्रियालापिनं प्रियभाषिणं वैद्यं चपलाः भाविपरिणामविवेकरहिताः रोगार्ताःरोगपीडिताः स्तुवन्ति प्रशंसन्ति। किन्तु यः पथ्यं भक्ष्यादिकं वदति तच्छीलः भिषक् वैद्यः तं तु नैव स्तुवन्तीत्यर्थः॥२९४॥*

    • किञ्च—

आम्नायमौलिगुरुणा करुणाकरेण
नावातरिष्यत यदीह भवाब्धिनावा॥
अज्ञातभक्ति जगदश्रुतसच्चरित्र -
मज्ञातशास्त्रमभविष्यदवैदिकं च॥२९५॥

पुनरालोच्य—

अस्य खलु निगम[^371]मौलिगुरोरशेषविद्यासमुद्रतलस्पर्शित्वादधुनातनविबुधव्यूहसमभिव्याहारो नोचितः॥ ११६॥

किन्तु—

निशमयति यः किल दृशा निशामयत्यङ्घ्रिणा च यो विश्वम्॥
गज372तुरगौ वदने यौ तैः सह वेदान्तदेशिको गण्यः॥२९६॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • किञ्च आम्नायेति। भवाब्धेःसंसारसमुद्रस्य नावा तारकतरणिरूपेण अत एव करुणाकरेण दयाकरेण, आम्नायाः वेदास्तेषां मौलयः शिरांसि वेदान्ता इति यावत्। तेषां गुरुणा आचार्येण, तद्व्याख्यात्रा वेदान्ताचार्येणेत्यर्थः। इह लोके यदि न अवातरिष्यत न प्रादुरभविष्यत, तर्हि सर्वं जगद् अज्ञाता भक्तिर्येन तत्, अश्रुतम् अनाकर्णितं सतां सज्जनानां चरित्रं येन तत्, अज्ञातम् अनववुद्धं शास्त्रं येन तत्, अवैदिक वेदविहिताचारशून्यं च अभविष्यत्। क्रियातिपत्तौ ऌङ्। तत्र पूर्व कर्मणि तरतेः, उत्तरत्र च भवतेः कर्तरीति बोध्यम् (?)॥२९५॥*

  • ** अस्येति।** निगममौलिगुरोः वेदान्ताचार्यस्य अशेषाः निखिला या विद्या वेदशास्त्रादिरूपास्तासां समुद्रस्य तलस्पर्शित्वात् तलपरामर्शशीलत्वात्, आमूलात् समाप्तिपर्यन्तं यथार्थतया विवेचनशीलत्वादित्यर्थः। अधुनातना इदानीन्तना ये विबुधाः पण्डितास्तेषां व्यूहेन समुदायेन सह समभिव्याहारः गणनं नोचितः॥११६॥*

  • अधुनातनविबुधवैलक्षण्यमेव प्रतिपादयति—निशमयतीति। यः दृशा नेत्रेण निशमयति किल शृणोति, भगवान् शेषावतारः पतञ्जलिरित्यर्थः। तथा च यः अङ्घ्रिणा पादेन किरणैरित्यर्थः। जातावेकवचनम्। विश्वं जगन् निशामयति अवलोकयति, भगवान् सूर्य इत्यर्थः। भावदर्पणकारस्तु ‘निशामयत्यङ्घ्रिणा—’ इत्यादिवावयेन गौतम इत्याह। तत्तु गौतमस्यैवाक्षपाद इति नामप्रसिद्धेरिति ज्ञेयम्। एतत्तु भगवतः पतञ्जलेः साम्यार्थं व्याख्यानम्। तेन च उभौ (पतञ्जलि गौतमौ) अपि व्याकरणन्यायशास्त्रयोः प्रवर्तकाविति सूचितम्। यथा यौ वदने मुखे गज-तुरगौ भगवन्तौ गजानन-हयुग्रीवावित्यर्थः। तैश्चतुर्भिः (पतञ्जलि-गौतम-गजानन-हयग्रीवैः) सह अयं वेदान्तदेशिको वेदान्ताचार्यः गण्यः गणनीयः॥२९६॥*

    • विचिन्त्य—

गम्भीरशब्देन विशालमोहदशापिशाचग्रहमोचनेन॥घण्टा हरेर्वेङ्कटनाथरूपा कल्याणमुल्लासयति श्रुतीनाम्॥२९७॥

पुनः सचमत्कारम्—

वेदान्ताचार्यशब्दोऽस्मिन्वेदान्तस्थापने373 क्षमः॥
इमं विवेकं कुर्वन्तो दान्ताचार्यञ्च तं विदुः॥२९८॥

** कृ०**—कथं नाम द्रुहिणगृहिणीचिकुरनिकुरम्बचुम्बिचम्पककुसुमसुकुमारतराः कविकथककण्ठीरवगुरोरपि गिरो दुस्तरप्रस्तर374निष्ठुरबंहिष्ठसासूयहृदयनिर्भेदाय जायन्ते !॥११७॥

** विश्वावसुः**—सखे शृणु तावत्॥११८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • किञ्च गम्भीरेति। हरेः श्रीविष्णोः सम्बन्धिनी वेङ्कटनाथरूपा एतदाख्यश्रीवेदान्ताचार्यरूपेत्यर्थः। घण्टा विशाला महती या मोहस्याज्ञानस्य दशाऽवस्था तद्रूपो यः पिशाचस्तस्य ग्रहं मोचयतीति तथाभूतेन गम्भीरेण महता शब्देन ध्वनिना, अथवा गम्भीरेण दुरवगाहेन शब्देन व्याख्यारूपेणेत्यर्थः। श्रुतीनां कर्णानाम् उपनिषदां वा कल्याणं मङ्गलं यथार्थं वा उल्लासयति वर्द्धयति॥२९७॥*

  • अपि च वेदान्तेति। अस्मिन् भुवने वेदान्ताचार्य इत्ययं शब्दः वेदान्तानां स्थापने विविधवाक्यानां यथार्थनिर्णयेन व्यवस्थाकरणे इत्यर्थः। क्षमः समर्थः। अस्तीति शेषः। इमम् उक्तप्रकारं विवेक विचारं “मन्त्रव्याख्याकृदाचार्यः” इत्यादिकोशपर्यालोचनया वेदानां व्याख्याकरणरूपमित्यर्थः। किंवा इम वेदान्ताचार्यशब्दं विगतवेकं वेशब्दरहितं च, अस्मिन् पक्षे “शेषाद्विभाषा” इति कप्प्रत्ययो ज्ञेयः। कुर्वन्तो लोकाः तं वेदान्ताचार्य दान्तानां जितबाह्यान्तरिन्द्रियाणाम् आचार्यं गुरुं दान्ताचार्यशब्दमपि विदुः जानन्ति॥२९८॥*

  • कथमिति। द्रुहिणस्य ब्रह्मणः गृहिणी सरस्वती तस्याश्चिकुरनिकुरम्बं केशपाशः तच्चुम्बीनि यानि चम्पककुसुमानि तद्वत् सुकुमारतराः अतिकोमलाः कविकथककण्ठीरवगुरोरपि कविवादिनां महासिंहस्येत्यर्थः। गिरः वाण्यः दुस्तराः कठिना ये प्रस्तराः पाषाणाः इव निष्ठुराणि कठोराणि बहिष्ठानि बहुलानि, बहुलशब्दादिष्ठनि “प्रियस्थिर—” इत्यादिना बंहादेशः। असूयया गुणेषु सत्स्वपि दोषा-रोपबुद्ध्या सहितानि च यानि हृदयानि मतान्तरवादिचित्तानि तेषां निर्भेदाय खण्डनाय जायन्ते भवन्ति ?। कोमलत्वान् मृणालतन्तुना पाषाणभेदवत् कण्ठिनहृदयभेदूनमशक्यभावः ॥११७॥*

वेदान्तार्यगिरः प्रसूनमृदवो मोदं दधानाः सताम्
प्रौढप्रावकठोरकाण्यपि परं भिन्दन्ति हृन्दि द्विषाम्॥
नन्दाद्यार्यजनाभिनन्दितमृदस्पर्शोऽपि पादो हरे-
र्दुर्भेदे शकटासुरे तु शतकोट्याकारमागान्न किम्॥२९९॥

पुनः सप्रार्थनमञ्जलिं बद्ध्वा —

दर्पाविष्ट375कुदृष्टिदुष्टसमयोत्सादाय बोधाङ्कुरो -
द्भेदाय376 प्रबले कलावपि जयोत्पादाय वेदाध्वनः॥
श्रीमल्लक्ष्मणपक्षरक्षकबुध377ामोदाय पापाटवी -
च्छेदायार्थिमरुत्तरुर्विजयतां378 वेदान्तविद्यागुरुः॥३००॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • अथ समाधत्तुमुपक्रमते विश्वावसुःवेदान्तेत्यादिना। प्रसूनमृदवः पुष्पवत् सुकुमाराः अत एव सतां तन्मतस्थसाधूनां मोदम् आनन्दं दधाना उत्पादयन्तः वेदान्तार्यस्य गिरः व्याख्यानरूपा वाण्यः, द्विषां मतान्तरस्थवादिनां हृन्दि हदयानि “पद्दनोमास्—” इत्यादिना हृदयशब्दस्य हृदादेशः। प्रौढाः कठोराः ग्रावाणः पाषाणा इव कठोरकाणि कठिनान्यपि, परमत्यन्तं भिन्दन्ति विदारयन्त्येव। अत्र दृष्टान्तमाह—नन्दो गोकुलाधिपः श्रीहरेः पिता आदिः प्रमुखो येषां सुनन्दादीनां ते ये आर्यजनाः श्रीकृष्णभक्तत्वात् श्रेष्ठजनास्तैरभिनन्दितः मृदुस्पर्शः कोमलस्पर्शो यस्य तादृशोऽपि हरेः श्रीकृष्णस्य पादः दुर्भेदे इतरैर्भेत्तुमशक्ये शकटासुरे, शतकोटेर्वज्रस्य “शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः” इत्यमरः। आकारं न अगान् न प्राप किम् ? तद्वदेवेदमिति भावः॥२९९॥*

  • इदानीमेतत्प्रकरणमुसंहरन् प्रार्थयते —दर्पाविष्टेति। दर्पाविष्टानां गर्विष्टानाम् अत एव कुदृष्टीनां कुत्सितज्ञानानां, अत्र दृशिर्ज्ञाने। दुष्टो यः समयः सिद्धान्तः “समयाः शपथाचार-कालसिद्धान्त-संविदः।” इत्यमरः। तस्य उत्सादाय तं विनाशयितुमित्यर्थः। “तुमर्थात् —इत्यादिना चतुर्थी। अग्रेऽप्येवमेव ज्ञेयम्। बोधाङ्कुरस्य उद्भेदाय उत्पादनाय, प्रबलेऽपि कलौ युगे वेदाध्वनः कर्म-ज्ञानरूपवेदमार्गस्य जयोत्पादाय सर्वोत्कर्षमुत्पादयितुमित्यर्थः। श्रीमतो लक्ष्मणस्य रामानुजाचार्यस्य यः पक्षः विशिष्टाद्वैतरूपः तद्रक्षकास्तत्पालका ये बुधाः पण्डितास्तेषां मोदाय आनन्दमुत्पादयितुमित्यर्थः। पापान्येवाटवी अरण्यं तस्याश्छेदाय, तां छेत्तुं चेत्यर्थः। अर्थिनां विशिष्टाद्वैतज्ञानाभिलाषिणां मरुत्तरुः कल्पवृक्षः वेदान्तविद्यागुरुः, विजयतां सर्वोत्कर्षेण वर्तताम्॥३००॥*

अथ कामासिकानगरवासिनृसिंहवर्णनम् २३.

<MISSING_FIG href="../books_images/U-IMG-1722420074Screenshot2024-07-29225223.png"/>

इत्यन्यतो दृष्टिं विन्यस्य प्राञ्जलिः सन् —

श्रीमान्गम्भीरतरवेगवतीप्रतीर-
भूमावघद्रुहि379 सुरद्रुरिवावतीर्णः॥
कामादिवैरिगणमुल्बणमस्मदीयं
कामासिका380नरहरिः कवलीकरोतु॥३०१॥

इत्यन्यतश्चक्षुर्निक्षिप्य प्राञ्जलिः सन् —

भयार्तजीवातुदयामहिम्ने वैकुण्ठधाम्ने381तनवै नमांसि
आम्नाय382 उक्तः परमेशितेति नाम्नाय उक्तः परमत्र चित्रम्॥३०२॥

युक्तं चैतत्। यतो ‘विष्णुः परमः’ इति श्रुता383 श्रुतिः॥११९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • अथ कामासिकावासिनृसिंहवर्णनं सूचयन्नाह कविः—इतीत्यादि। अन्यतः अन्यस्मिन्त्स्थले दृष्टिं विन्यस्य दत्त्वा —*

*** श्रीमानिति।** अघेभ्यः पापेभ्यः द्रुह्यति जिघांसतीति अघध्रुक् तस्यां गभीरतरायाः अतिनिम्नायाः वेगवत्या नाम नद्याः प्रतीरभूमौ तटभुवि सुरद्रुःकल्पतरुरिव अवतीर्णः आविर्भूतः, श्रीमान् लक्ष्मीवान् लक्ष्म्या सहित इत्यर्थः। कामासिकानरहरिः कामासिकानगरनिवासी श्रीनरसिंहः, उल्बणं प्रवृद्धम् अस्मदीयम् अस्मत्सम्बन्धिन कामः आदिः प्रमुखो येषु ते ये वैरिणः क्रोध-लोभादयः शत्रवः तेषां गणं समुदायं कवलीकरोतु॥३०१॥*

*** भयार्तेति।** भयेन संसार-भीत्या आर्तानां पीडितानां जीवातुर्जीवनौषधरूपः दयाया महिमा यस्य तस्मै, वैकुण्ठधाम्ने वैकुण्ठनिवासिने इत्यर्थः। नमांसि नमस्कारान् तनवै करोमि। तनोतेरुभयपदिनः आत्मनेपदे लोडुत्तमैकवचनम्। आम्नाये वेदे यः परमेशिता परमेश्वर इति उक्तः, परं च आम्नाये न उक्तः, इत्यत्रार्थे विरोधाभासरूपे इत्यर्थः। परमत्यन्तं चित्रमाश्चर्यम्। वस्तुतस्तु य आम्नाये परमेशितेति नाम्ना उक्तः कथितस्तस्मै वैकुण्ठधाम्ने इत्यन्वयेन च तत्परिहारः॥३०॥*

  • ** युक्तमिति।** एतत् परमेश्वर इति श्रुतिकथनरूपं युक्तं योग्यमेव। यतो यस्मात्’विष्णुः परमः’ इति श्रुतिः श्रुता प्रत्यक्षम् आकर्णिता। अस्माभिरिति शेषः॥११९॥*

अनपायरमो विष्णुः कस्मादपरमो भवेत्॥
युक्तं रमापतेरन्ये देवास्त्वपरमा इति॥३०३॥

किञ्च—

जाग्रत्येव शिरांसि नित्यवचसां सर्वोन्नतौ शार्ङ्गिण-
स्तत्र व्यास-पराशरादिकृतयो384 दत्तादरा वस्तुतः॥
यः पादाम्बु ददाति यस्तदुपसङ्गृह्णाति धत्तेऽथवा385
यश्चैतच्छिरसैव तेषु परमं जानाति को नात्मवान्॥३०४॥

पुनः सचमत्कारम्—

दुर्वादिनो विष्णुपदारविन्दं दोषापहं नानुसरन्ति386 मोहात्॥
तेषां मतं तु स्वयमत्र विष्णुपदारविन्दानुसृतिं विधत्ते॥३०५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • एतदेव सोपपत्तिकमाह—अनपायेति। यतः न विद्यते अपायो वियोगो यस्यास्तथाभूता सततमाश्लिष्टेत्यर्थः। रमा लक्ष्मीर्यस्य सः विष्णुः, अपगता वियुक्ता रमा यस्मात् तथाभूतः अपकृष्टरूपश्च कस्माद्धेतोर्भवेत् ? लक्ष्म्याः अनपायित्व “राघवत्वेऽभवत्सीता विष्णोरेषानपायिनी।” इत्यादिपुराणग्रन्थैः प्रतिपादितम्। तस्मात्रमापतेर्विष्णोरन्ये देवास्तु अपरमा लक्ष्मीरहिताः अपकृष्टाश्चइति युक्त योग्यमेव॥३०३॥*

  • अधुनान्यरीत्या सर्वोत्तमल प्रपञ्चयति—जाग्रतीति। नित्यवचसाम् अविनाशिवचनानां, वेदानामित्यर्थः। शिरांसि उपनिषदः शार्ङ्गिणः विष्णोः सर्वोन्नतौ सर्वोत्तमत्वे विषये जाग्रति सततं विभान्त्येव। तत्र उपनिषत्प्रतिपादित एवार्थे व्यासपराशरादीनाम् ऋषीणां, आदिशब्देन वाल्मीकि-वसिष्ठ-मार्कण्डेयादीनां ग्रहणम्। कृतयः पुराणस्मृत्यादिरूपाः, दत्तादराः उपनिषत्प्रतिपादित तात्पर्यमेव विस्तरेण वर्णयन्त्य इत्यर्थः। नन्वेतद्यद्यपि वेदादिभिः प्रतिपादितं तथाप्यनुभवमन्तरेण अविश्वसनीयमेवेति चेदाह—वस्तुतः तत्त्वतः अत्रार्थे केवलं वेद-शास्त्रादिरूपमेव न प्रमाणं, किन्तु प्रत्यक्षमप्यस्तीत्यर्थः। तदेव दर्शयति—यःविष्णुः पादाम्बु पादोत्पन्नं गङ्गाजलमित्यर्थः। ददाति, यश्च ब्रह्मा तद् उपसङ्गृह्णाति स्वीकरोति, कमण्डलुनेत्यर्थः। अथवाऽथ च यश्च श्रीशङ्करः तत् पादाम्बु, शिरसा मस्तकेनैव धत्ते धारयति। तेषु ब्रह्म-विष्णु-शिवेषु मध्ये, परमं श्रेष्ठम् आत्मवान् परमात्मज्ञानी को न जानाति ? अपि तु सर्व एव जानातीत्यर्थः॥३०४॥*

  • ** दुर्वादिन इति।** दुर्वादिनः केवलं शिवमेव श्रेष्ठं मन्वानाः दोषापह पापहरं विष्णोः पदारविन्दं चरणकमलं मोहाद् वस्तुतस्त्रयाणामप्येकरूपत्वसत्त्वे स्वमताभि-*

अथ श्रीत्रिविक्रमवर्णनम्—२४.

<MISSING_FIG href="../books_images/U-IMG-1722427601Screenshot2024-07-27174405.png"/>

इत्यन्यतो दृष्टिं निक्षिप्य —

समन्तरूढद्रुमपुष्पनिष्पतन्म387रन्दसन्तत्यभिषिक्तमुत्तमम्॥
रविक्रमाशुत्वनिरोधगोपुरं त्रिविक्रमस्यायतनं निशाम्यताम्॥३०६॥

सविस्मयमभिध्यायन् —

अव्यादाश्रयतामनश्वरपद388प्रासादनिःश्रेणिका
हर्षादूर्ध्वमुदञ्चितः स चरणस्त्रैविक्रमो नः क्लमात्॥
त्रैलोक्यार्पणतः सितं शुभयशश्छत्रं यदासीद्बले-
र्द्राघिष्ठो हरिनीलदण्ड इव यस्तद्धारणायोद्धृतः॥३०७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

मानान्धाः सन्तः “शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः।” इत्यादितत्त्वाज्ञानाद्धेतोः नानुसरन्ति न भजन्ति। तस्मात्तेषां मतं स्वयं स्वत एव अत्र उक्तेर्थे तु विष्णुपदे आकाशे यद् अरविन्दं कमलं कदाप्यसम्भवि, तस्यानुसृतिमनुसरणं विधत्ते करोति। यथा तावदाकाशपुष्प कदाप्यसम्भवि तथैतेषां मतं मिथ्यैव भवतीत्यर्थः। ‘अत्राप्याकाशे अरविन्दस्य गङ्गाजलरुहस्य आगोपालाङ्गनमाच पण्डितं सर्वसम्प्रतिपन्नत्वाद्विष्णोः पदं व्यवसितं निश्चितमिति यावत्। अर्यते गम्यतेऽनेनेत्यरो मार्गः विष्णुनिश्चितसिद्धान्तः तं विन्दन्तीति तद्विन्दाः तेषामनुसृति अनुसरणं प्रचारमिति यावत्। इत्यर्थं वदन्ति शैवाः ’ इति भावदर्पणकृत्॥३०५॥

*** समन्तेति।** समन्ते आसमन्तभागे रूढाः वृद्धाः ये द्रुमा वृक्षास्तेषां पुष्पेभ्यः निष्पतन् निर्गलन् यो मरन्दो मकरन्दः तस्य सन्ततिभिः धाराभिः अभिषिक्तम्, अत एव उत्तमं, रवेः सूर्यस्य क्रमे गमने यदाशुत्वं शीघ्रत्वं तस्य निरोधि प्रतिबन्धि गोपुरं पुरद्वारं यस्य तत् “पुरद्वारं तु गोपुरम्” इत्यमरः। एतादृशं त्रिविक्रमस्य एतदाख्यविष्णोः आयतनं स्थानं निशाम्यतामवलोक्यताम्। हे कृशानो, त्वयेति शेषः॥३०६॥*

  • तमेव प्रार्थयते—अव्यादिति। आश्रयतां सेवमानानां जनानां नश्यतीति नश्वर विनाशि न नश्वरमनश्वरं कालत्रयेऽप्यविनाशीत्यर्थः। नशेः “इण्-नश-जि-सर्तिभ्यः—” इति क्वरप् प्रत्ययः। यत् पदं वैकुण्ठस्थानं तदेव प्रासादः तस्य निःश्रेणिका आरोहणसाधनं, तत्प्रापिकेति यावत्। हर्षाद् ऊर्ध्वम् उदञ्चितः उन्नमितः बलिसत्रे इत्यर्थः। यः त्रयो भू-स्वर्ग-बलिशिरोव्यापनरूपाः विक्रमाः पादक्षेपा यस्य सः त्रिविक्रमः तस्यायं त्रैविक्रमः स चरणःनोऽस्मान् क्लमात् संसारश्रमाद् अव्याद् रक्षतु। यस्त्रिविक्रमस्य चरणः, यज्ञसमये इति शेषः। त्रैलोक्यस्य अर्पणतः दानाद्धेतोः*

** कृशानुः—**किमरे मायाविनमेनमक्रमं त्रिविक्रममभिनन्दसि॥१२०॥

पश्य**—**

श्रीमानपि स्वयं दैत्यात्कुर्वाणः कुप्रतिग्रहम्॥
विन्दन् स महतीं वृद्धिमिष्टां389 गोत्रभिदे ददौ॥३०८॥

विशिष्यायमकपटानां कवीनां न श्लाघनीयः॥ १२१॥

यतः**—**

नित्यानपायिप्रमदोऽपि नाथो बटूभवन्वञ्चितदातृकोऽसौ॥
कविव्यथाकृत्खलु भूसुरोऽपि भूदानवत्वं क्षममेव भेजे390॥३०९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

वलेर्विरोचनसुतस्य दैत्यस्य शुभं कल्याणावहं यशः कीर्तिरेव छत्रम् आतपत्रं यत्आसीद् उत्पन्नमभूत्, तस्य छत्रस्य धारणाय उद्धृतः ऊर्ध्वं धृतः द्राधिष्ठः दीर्घतरः दीर्घशब्दादिष्ठन्प्रत्यये द्राघादेशः। हरिनीलो इन्द्रनीलमणिस्तन्मयो दण्डः छत्रमध्यवर्तियष्टिरिव स्थितः, स चरण इति सम्बन्धः॥३०७॥

  • अथ कृशानुः कपटाचरणरूपं दोषमुद्घाटयन्नाह**—किमिति।** मायाविनं कपटयुक्तं, मायाशब्दात् “अस्-माया-मेघा—” इत्यादिना विनिप्रत्ययः। त्रिपदभूमियाचनव्याजेन सर्वस्वापहारात्। अत एवाक्रमम् अनुचितकृत्यकारिणं, एनं त्रिविक्रमं वामनं किं कुतो हेतोरभिनन्दसि ?॥१२०॥*

  • मायावित्वमेव प्रपञ्चयति—श्रीमानपीति। यः स्वयं श्रीमान् सम्पत्तिमान् लक्ष्मीवानपि सन्, दैत्याद् दितिवंशजात्, बलेः सकाशात्, नतु सजातीयाद्देवादेः सकाशात्, कुप्रतिग्रहं कुत्सितं याचितसुवर्णादिग्रहणं, कोः पृथिव्याः प्रतिग्रहं स्वीकारं च “गोत्रा कुः पृथिवी पृथ्वी” इत्यमरः। कुर्वाणः सन्, ततः इष्टाम् ईप्सितां महती विपुलां वृद्धिं समृद्धिं विन्दन् प्राप्नुवन् सन्नपि, स त्रिविक्रमः गोत्रभिदे इन्द्राय कुलोच्छेदकाय च ददौ समर्पितवान्। नतु तां स्वयमुपबुभुजे। हीनोऽपि जनःस्वसम्पादितमर्थं न परस्मै अर्पयतीत्यतोऽयमतीवानुचितकारीति भावः। अत्र निन्दायाः स्तुतौ पर्यवसानाद् व्याजस्तुतिरलङ्कारः॥३०८॥*

  • विशिष्येति। अयं त्रिविक्रमःविशिष्य विशेषतः कृत्वा, अकपटानां निर्व्याजानां शुद्धमानसानामिति यावत्। कवीनां कविभिरित्यर्थः। न श्लाघनीयः॥१२१॥*

  • तदेवोपपादयति—नित्येति। नित्यं सततम् अनपायिनी अवियुक्ता प्रमदा लक्ष्मीः पत्नी यस्य सः तथाभूतोऽपि सन्, बटुभवन् अबटुर्बटुरिव भवन् छद्मना ब्रह्मचारिवेषधारीत्यर्थः। ‘“कृभ्वस्तियोगे”—इत्यादिना अभूततद्भावे च्विप्रत्ययः। “च्वौ च” इति दीर्घः। स्त्रीपरिग्रहेऽपि ब्रह्मचारिवेषधारणम् एकं दूषणं, अपरं कथयति**—*वञ्चितः दाता दानशीलो बलिर्येन तथाभूतः, तृतीयं दोषमाह—कवीनां पण्डितानां कवेः शुक्राचार्यस्य च “सङ्ख्यावान् पण्डितः कविः”, “शुक्रो दैत्यगुरुः काव्य

*** ** ***विश्वा०—**अभ्युपगच्छाम एव भवतः प्रौढगुणदोषीकरणपाण्डित्यम्। आस्तामेष श्लेषचमत्कारः, आकर्णय तावदेतद् यदाश्रितरक्षणाय पद्मेक्षणः स्वमहत्त्वाननुरूपमपि रूपमापेदे॥१२२॥

नित्योन्नतोऽपि निरपायरमाश्रयोऽपि
दातापि हन्त बहुशो महतां पदानाम्॥
स्वीकृत्य वामनवपुः श्रितमिन्द्रमीशः
पातुं पदत्रितयमत्र बलिं बिभिक्षे॥३१०॥

पुनः सभक्तिप्रकर्षम्। अत्र391हि—

त्रैविक्रमस्त्रिपथगाजनकः स पादः
पायात्पुरस्य मरुतां मरुतां निहन्ता॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

उशना भार्गवः कविः” इत्युभयत्राप्यमरः। अपरं च असौ नाथः वामनः भूसुरो ब्राह्मणोऽपि सन्, भुवि भूमौ दानवत्वं दैत्यत्वं भुवः पृथिव्या दानं बलिकृतमस्यास्ति तस्य भावः तद्वत्त्वं च भेजे सेवितवान्, इति क्षममेव युक्तमेवेति काकुः। एवं च चत्वारि दूषणानि तस्मिन् सन्तीति न स सत्प्रशंसार्ह इति भावः। अत्रापि निन्दायाः स्तुतावेव पर्यवसानमिति ज्ञेयम्॥३०९॥

  • अभ्युपगच्छाम इति। भवतः त्वत्कृतमित्यर्थः। प्रौढानां प्रगल्भानामपि गुणानां दोषीकरणे वस्तुतो दोषत्वाभावेऽपि तदारोपे, एतदपि ष्विप्रत्ययान्तम्। पाण्डित्यं चातुर्यम् अभ्युपगच्छामः जानीम एव। अयं श्लेषचमत्कारः वस्तुतस्तु नैतद्दूषणमित्यर्थः। आस्ताम्। तत्त्वतस्तु पद्मेक्षणः कमललोचनः अयम् आश्रितानां भक्तानां रक्षणाय रक्षणार्थं स्वमहत्त्वस्य अननुरूपम् अयोग्यमपि रूपं बटुवामनाकारम् आपेदे स्वीकृतवानिति यत्, तदेतदाकर्णय॥१२२॥*

  • ‘नित्यानपायिप्रमदः**—’इत्यादिनोक्तस्यार्थस्यैव वास्तवत्वं प्रतिपादयति—नित्योन्नतोऽपीति।** योऽयं त्रिविक्रमः नित्योन्नतः नित्यं महानपि, निरपायः विश्लेषरहितः रमाश्रयः लक्ष्म्याश्रयो यस्य सः तथाभूतोऽपि, महतां बहुशःबहूनां न तु द्वि-त्राणां “बह्वल्पार्थात्**—**” इत्यादिना विभक्त्यर्थे शस् प्रत्ययः। पदानां वैकुष्ठादिस्थानानां दातापि, अनेकपदमितभूभागानामित्यर्थोऽप्यनुसन्धेयः। हन्तेति हर्षे। ईशःईश्वरोऽपि श्रितम् अङ्गीकृतम् इन्द्रं पातुं रक्षितुं, वामनवपुः बटुशरीरं स्वीकृत्य गृहीत्वा, बलिं दैत्यम् अत्र भूलोके बलियज्ञे वा, पदानां त्रितयं त्रिपदपरिमितां भूमिमित्यर्थः। विभिक्षे ययाचे। भिक्षतेर्द्विकर्मकत्वाद् बलिशब्दादपि कर्मणि द्वितीया॥३१०॥*

*** त्रैविक्रमेति।** त्रिपथगायाः गङ्गायाः जनकः उत्पादकः, अत एव मरुतां देवानां पुरस्य स्वर्गस्य मरुतां निर्जलदेशत्वं निहन्ता निवारकः, गङ्गोत्पत्तेः पूर्वं तत्र जला-*

शम्भोः स्फुरन्मुकुटभूषणदानचुञ्चु-
मम्भोनिधेः श्वशुरमाप्तगिरो यमाहुः॥३११॥

<MISSING_FIG href="../books_images/U-IMG-1722796282Screenshot2024-07-11161259.png"/>

अथ श्रीकामाक्षीदेवीवर्णनम्—२५.

<MISSING_FIG href="../books_images/U-IMG-1722796257Screenshot2024-08-04235410.png"/>

इति किञ्चिदन्तरमतिक्रम्य। अत्र हि—

काञ्चीनगरविभूषा कामाक्षी कल्पमञ्जरी भजताम्॥
रक्षा सुरसेनानां राजति शर्वस्य392 सर्वस्वम्॥३१२॥

निरूप्य सविस्मयानन्दं कामाक्षीमामन्त्र्य —

दन्तश्रीस्तव दृश्यते यदि ततः कुन्दं न निन्दन्ति के
वक्त्रंयद्यभिलक्ष्यते बुधजनश्चन्द्रं न सन्द्रक्ष्यते॥
दृष्टे393 दृष्टियुगे पुनर्न विनुयाद्बालोऽपि नीलोत्पलम्394
सूक्तिश्चेदनुभूयते मधुरता कामाक्षि का माक्षिके॥३१३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

भावादिति भावः। त्रैविक्रमः स पादः चरणः पायान् नः सर्वान् रक्षतु। कथम्भूतः सः। यं त्रैविक्रमपादं, आप्तगिरो वेदवाण्यः शम्भोःस्फुरत् प्रकाशमान यन्मुकुटभूषणं तस्य दानेन प्रसिद्धम्। शिवस्य गङ्गाशिरस्त्वादिति भावः।“तेन वित्तश्चुञ्चुप् चणपौ” इति प्रसिद्धार्थे चुञ्चुप् प्रत्ययः। तथा अम्भोनिधेः समुद्रस्य श्वशुरं च, तस्य गङ्गाजानित्वात्। आहुः कथयन्ति। स इति सम्बन्धः॥३११॥

*** काञ्चीति।** काञ्चीनामकनगरस्य विभूषा अलङ्काररूपा, भजतां सेवमानानां जनानां कल्पमञ्जरी कल्पवृक्षस्य वल्लरिः, सुरसेनानां देवसैन्यानां रक्षा रक्षणकर्त्रीत्यर्थः। शर्वस्य शिवस्य सर्वस्वं सर्वद्रव्यं, एतादृशी कामाक्षी एतन्नामिका देवी राजति शोभते॥३१२॥*

  • दन्तीश्रीरिति। हे कामाक्षि देवि, तव दन्तानां श्रीः शोभा यदि दृश्यते ततः तद्दर्शनात् कुन्दं माध्यकलिकां, के जनाः न निन्दन्ति ? अपि तु सर्व एव निन्दन्तीत्यर्थः। एवमुत्तरत्राप्यूह्यम्। तथा तव वक्त्रम्मुखं यदि अभिलक्ष्यते दृश्यते, तदा बुधजनः ज्ञानी नरः चन्द्रं न सन्द्रक्ष्यते नैव पश्यति। तथा तव दृष्टियुगे लोचनयुग्मे दृष्टे सति। पुनः बालोऽपि किमुत प्राज्ञः नीलोत्पलं नीलकमलं न विनुयान् न स्तुयात्। तथा सुष्ठु मधुरा उक्तिः वाणी अनुभूयते श्रूयते चेत्, तदा माक्षिके मधुनि मधुरता का ? अपि तु नास्त्येवेत्यर्थः। एवं तव सौन्दर्यस्याग्रे सर्वमपि वस्तुजातं तुच्छमिति भावः। अत्र दन्तश्रीरित्याद्युपमेयैः प्रसिद्धकुन्दाद्युपमानानां तिरस्कारप्रती -*

*** *** कु०—यद्यपि विद्यते कामाक्ष्याः सर्वाभिनन्दनीयं सौन्दर्यं तथापि मुधा तदिति प्रतिभाति॥१२३॥

तथाहि—

कान्तो विरूपाक्ष इति395 प्रतीतः कामस्य हन्ता गिरिराजपुत्र्याः॥
स्तम्बेरमास्यस्तनयोऽपि तस्या लम्बोदरः किम्फलमाभिरूप्यम्॥३१४॥

अनयोः खल्वम्बिका-त्र्यम्बकयोर्दाम्पत्यमननुरूपमिति व्यक्तमेतत्॥ १२४॥

इयं हि सर्वमङ्गला स तु श्मशानमन्दिरो
विभाति हैमवत्यसौ स याति दिक्षु भिक्षुकः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

तेः प्रतीपालङ्कारः। “आक्षेप उपमानस्य प्रतीपमुपमेयता। तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धना” इति तल्लक्षणात्॥३१३॥

  • ** यद्यपीति।** यद्यपि कामाक्ष्याः सर्वं त्वया वर्णितम् अभिनन्दनीयं प्रशंसनीयं सौन्दर्यं सुन्दरत्वं विद्यते, तथापि तन्मुधा व्यर्थं“व्यर्थके तु वृथा मुधा” इत्यमरः। इति प्रतिभाति॥१२३॥*

  • मुधात्वमेवाह—कान्त इति। गिरिराजस्य हिमालयस्य पुत्र्याः पार्वत्याः कामाक्ष्या इति यावत्। कान्तः पतिः शिवः, विरूपे कुरूपे अक्षिणी, वस्तुतः विरूपाणि विषमाणि त्रीणीति यावत्। अक्षीणि लोचनानि यस्य सः तथाभूतः, कामस्य धर्मादिक्रमेण तृतीयपुरुषार्थस्य, मदनस्य चेति वस्तुतः हन्ता विनाशकः इति प्रतीतः प्रसिद्धः। तथा तनयः पुत्रोऽपि स्तम्बेरमास्यः गजाननः स्तम्बेरमेत्यत्र “स्तम्बकर्णयो रमि-जपोः” इत्यच्प्रत्ययः “तत्पुरुषे कृति—” इति सप्तम्या अलुक्। “इभः स्तम्बेरमः पद्मी” इत्यमरश्च। लम्बोदरः बृहदुदरश्चेति प्रतीतः। तस्याः कामाक्ष्याः अभिरूपस्य योग्यमाभिरूप्यं सौन्दर्योचितमित्यर्थः। किम्फलम् ? किमपि नास्तीति। अथवा तस्याः आभिरूप्यं किम्फलं कुत्सितफलमित्यर्थः। विरुद्धसामग्रीप्रतीतेरिति भावः। वस्तुतस्तु शिवपत्नीत्वात् सकलविघ्नविनाशकगणाधिपमातृत्वाच्च तस्याः सौन्दर्यं किं किमप्यनिर्वाच्यं फलं सिद्धिर्यस्य तत्तथाभूतमित्यर्थः। व्याजस्तुतिरलङ्कारः॥३१४॥*

  • अनयोरिति। अम्बिका कामाक्षी देवी च त्र्यम्बकः शङ्करश्च तयोः दम्पत्योर्जायापत्योः भावः दाम्पत्यं, पति-पत्नीमिथुनमिति भावः। अननुरूपमयोग्यं, अस्तीति शेषः। इत्येतद् व्यक्तं स्पष्टमेव खलु॥१२४॥*

  • तदेवाह—इयं हीति। इयम् अम्बिका कामाक्षी देवी हि, सर्वाणि मङ्गलानि शुभानि यस्याः सा तथाभूता, अस्तीति शेषः। स त्र्यम्बकस्तु श्मशानं पितृवनं, शून्य-*

इयं तु कुङ्कुमाङ्किता स भस्मराशिरूषित-
स्त्वरालकुन्तला च सा जटाभिरेष भीषणः॥३१५॥

** वि०—**वयस्यमैवं वादीः। न खल्वप्रशस्तैरप्यावास396-वासः प्रभृतिभिः सांसिद्धिकमभिरूपाणा-माभिरूप्यमपहीयते397॥२२५॥

निवस्तां वा कृत्तिं निवसतु चिरं वा पितृवने
शिवस्तावद्धत्तामहिगणमथाप्येष सुभगः॥
परीतं शैवालैरुषितमपि पङ्केषु मलिना-
मलीनां बिभ्राणं किमिह398कमनीयं न कमलम्॥३१६॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

त्वात् श्मशानतुल्यं दहराकाशं च मन्दिरं, उपलब्धिस्थानं च यस्य सः तथोक्तः, असौ कामाक्षी तु हेम्नां सुवर्णालङ्काराणां समूहः हैम, हेमपदं सुवर्णालङ्कारार्थे लाक्षणिकं, समूहार्थेऽण्। तदस्यास्तीति तद्वती हिमवतोऽपत्यं हैमवतीति च। तादृशी विभाति विराजते। स शिवस्तु दिक्षु भिक्षति याचतीति निजभक्तकल्याणमभिवाञ्छतीति च भिक्षुः स एव भिक्षुकः “सनाशंस—” इत्यादिना उप्रत्यये स्वार्थे कः। तादृशः सन् याति परिभ्रमति। वस्तुतस्तु धनदादिसुहृत्त्वेऽपि नश्वरैश्वर्यवैतृष्ण्येनैव परमात्मलाभ इति द्योतनार्थम्भिक्षुवृत्त्या परिभ्रमतीति। तथा इयं कामाक्षी तु कुङ्कुमेन केशर-कस्तूर्यादि सुगन्धद्रव्येण अङ्किता चिह्निता, सुगन्धिकुङ्कुमतिलकयुक्तेत्यर्थः। सः शिवः भस्मराशिना भस्मसमूहेन रूषितः विलिप्तः, तथा सा कामाक्षी अरालाः। कुटिलाः कुन्तलाः केशा यस्याः सा तथाभूता, सौभाग्यसूचककुटिलकेशयुक्तेत्यर्थः। “अरालं वृजिनं जिह्मं—” इति “चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः” इति चामरः। एष शिवश्च जटाभिः कदाप्यसंस्कृतत्वात् परस्परसंसक्तकेशैः, नियमार्थ तैलादिसंस्काररहिततया केवलं जलप्रक्षालनमात्रसंस्कृतकेशैरिति तु परमार्थः। भीषणः भयङ्करः। प्रापञ्चिकानां, न तु परमार्थविदामिति तत्त्वार्थः॥३१५॥

  • अथ विश्वावसुः प्रकृतिसिद्धविभूतीनां महात्मनां न खलु वासोऽलङ्कारादि भूषणमिति द्योतयन्नाह—वयस्येति। भो वयस्य मैवं वादीः, कुतइति चेदाह —अभिरूपाणां ज्ञानिनाम् आवासः वसतिस्थानं वासो वस्त्रं च तत्प्रभृतिभिः तत्प्रमुखैः सांसिद्धिकं स्वभावसिद्धम् आभिरूप्यं सौन्दर्यं न अपहीयते न विनश्यति। खलु निश्चयेन॥१२५॥*

  • **निवस्तामिति।*शिवस्तावत् कृत्तिं गजचर्म “अजिनं चर्म कृत्तिः स्त्री” इत्यमरः। निवस्तां परिदधातु परिधानं करोत्वित्यर्थः। वाथवा चिरं बहुकालं पितृबने श्मशाने निवसतु वासं करोतु। वाथवा अहीनां सर्पाणां गणं समूहं कटककुण्डलादिरूपेण धत्तां धारयतु। अथापि तथापि एष शिवः सुभगः शोभनैश्वर्यसम्पन्न एव।

  • *किञ्च—

रमणीयः स हि पुरुषो रमणी यत्रैव रज्यति विदग्धा॥
श्लोकः स एव सुभगश्चित्तं सक्तं हि यत्र रसिकस्य॥३१७॥

अवधार्यतामत्रैतदतिमात्रं चित्रम्॥१२६॥

शिवाक्ष्यालोकितः399 कामो जित इत्येव शुश्रुम॥
व्यत्यासोऽत्रजितो400 यस्मात् कामाक्ष्यालोकतः शिवः॥३१८॥

पुष्कलं किल पुत्रभाग्यमपि पर्वतराजकन्यायाः॥१२७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

अत्र दृष्टान्तमाह—कमलं शैवालैः परीतं वेष्टितं, पङ्केषु कर्दमेषु उषितं स्थितमपि, मलिनां कृष्णवर्णत्वेन मलयुक्तानाम् अलीनां भ्रमराणां बिभ्राणं धारकमपि, अलीनामित्यत्र कर्मणः शेषत्वविवक्षायां षष्टी। “कर्तृ-कर्मणोः—”इति प्राप्तायाः षष्ठ्याः “न लोक—” इत्यादिना निषेधात्। तद् इहलोके कमनीयं सुन्दरं न किम् ? किन्तु ‘किमिव हि मधुराणां मण्डनं नाकृतीनाम्’ इति कालिदासोक्तन्यायेन तदतीव सुन्दरमिति भावः॥३१६॥

  • किञ्च शिवे पार्वत्याः प्रेमातिशयदर्शनादेव तत्सौन्दर्यमवगन्तव्यमिति कथयति**—रमणीय इति।** स हि स एव पुरुषः रमणीयः सुन्दरः। स कः। यत्रैव यस्मिन्पुरुषे एव विदग्धा चतुरा रमणी स्त्री रज्यति रमते, स इति सम्बन्धः। अत्र दृष्टान्तः—यत्र श्लोके रसिकस्य अलङ्कारादिसाहित्यसम्पन्नस्य, चित्तं सक्तं संलग्नं, स एव श्लोकः पद्य सुभगः मनोहरः इति ज्ञेयम्॥३१७॥*

  • ** अवधार्यतामिति।** अत्र शिवाम्बिकाविषये एतदतिमात्रम् अतिशयितं चित्रमाश्चर्यम् अवधार्यताम्निश्चीयताम्॥१२६॥*

  • शिवेति। शिवस्य अक्ष्णा ललाटस्थतृतीयनेत्रेणेत्यर्थः। आलोकितः दृष्टमात्र एव कामो मदनः जितः इत्येव शुश्रुम पुरा श्रृणुमः। अत्र तु व्यत्ययः वैपरीत्यं वर्तते। यस्मात् कामस्य मदनस्य अक्ष्णः आलोकतः शिवः जितः। वस्तुतः कामाक्ष्या देव्याः आलोकतः जितः इत्यर्थः। इदमेव श्लोषार्थजन्यं चित्रमिति भावः॥३१८॥*

  • एतावता ‘कान्तो विरूपाक्ष—’ इत्याद्यर्थदूषणं परिहृतं, इदानीं ‘स्तम्बेरमास्यस्तनयः —’इत्यादिनोक्तस्य दूषणस्य परिहारार्थमुत्तरमाह—**पुष्कलमिति।*पर्वतराजस्य हिमालयस्य कन्यायाः भगवत्याः अम्बिकायाः पुत्रभाग्यमपि पुष्कलं बहुलम् अस्तीति शेषः॥१२७॥

    • यतः—

कुशलीभनाथवक्त्रः पुत्रः प्रथमो हिमाद्रितनयायाः \।\।
पञ्चास्यात्पितुरधिकः षडाननो नन्दनो द्वितीयोऽस्याः॥३१९॥

अथ श्रीमदेकाम्रेश्वरवर्णनम्—२६.

<MISSING_FIG href="../books_images/U-IMG-1722931800Screenshot2024-08-04235410.png"/>

इत्यन्यतः किञ्चित्परिक्रामन् सामोदम्—

शशाङ्कमौलिः सहकारमूले कैलासवासी स इहाविरासीत्401
यस्याग्निभूर्दृक् च तनूभवश्च योषाऽपिभूषाऽपि च नागराजी॥३२०॥

** कु०—**वयस्य किं वर्णयसि विश्वविलक्षणचारित्रं रुद्रम् ? लोके हि लोचनशैत्यसम्पिपादयिषया यतमानान् जनानेव पश्यामः। अयं तु पशुपतिः स्थाणुरिति स्वह्वय402मन्वर्थयन्निव403आशुशुक्षणिमक्ष्णि निक्षिप्तवान्॥ १२८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • कुशलीति। हिमाद्रितनयायाः भगवत्याः पार्वत्याः, भानां नक्षत्राणां नाथश्चन्द्रः सइव वक्त्रं मुखं यस्य, इभनाथस्य गजेन्द्रस्य च मुखं यस्य स इति च, कुशली प्रशस्तकल्याणयुक्तः प्रथमः पुत्रः अस्ति। अस्याः द्वितीयो नन्दनस्तु पञ्चास्यात्पञ्चमुखयुक्तात् पितुः शिवादपि अधिकः एकाननमात्रेणैवेत्यर्थः। षडाननः स्कन्दः अस्ति॥ ३१९॥*

  • अथ तस्मिन्नेव देशे स्थलान्तरवर्णनार्थमुपक्रमते कविः**—इतीत्यादि।** परिक्रामन् गच्छन्। सामोदं सानन्दम्**—***

*** शशाङ्कमौलिरिति।** कैलासवासी कैलासपर्वताधिष्ठाता सः प्रसिद्धः शशाङ्कश्चन्द्रः मौलौ मस्तके यस्य तथाभूतः शिवः, इह काञ्चीनगर्यां सहकारस्य आम्रवृक्षस्य मूले आविरासीत् प्रकटीबभूव। स कीदृशः। यस्य शिवस्य अभिर्भवत्युत्पद्यते यस्याः सा तथाभूता दृक् दृष्टिः तृतीयनेत्रमित्यर्थः। अग्नेर्भवतीत्यग्निभूश्च तनूभवश्च पुत्रोऽपि वर्तते। स षडानन इत्यर्थः। “पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः” इत्यमरः। तथा भूषा भूषणं चापि, नागानां सर्पाणां राजी पङ्क्तिः, योषा पत्नी चापि नगराजस्य पर्वतराजस्य हिमालयस्य अपत्यं स्त्री कन्या नागराजी, पार्वतीत्यर्थः। वर्तते। स तादृश इति सम्बन्धः॥ ३२०॥*

  • वयस्येति। हे वयस्य, विश्वविलक्षणं लोकविरुद्धं नश्वरजडप्रपञ्चासक्तजनविलक्षणमित्यर्थः। चारित्रम् आचरणं यस्य सः सततमात्मलीनत्वात्। तं रुद्रं किं वर्ण-*

** ** वि०—**अवधेहि तावदभिधास्यामि रहस्यम्॥ १२९॥

अङ्गानुषङ्गोदितशीतबाधा404मिन्दोर्द्युसिन्धोश्च समन्वयेन405
हर्तुं वहत्यग्निमयीं तृतीयां हरो हसन्तीमिव हन्त दृष्टिम्॥३२१॥

** कृ०—**हन्त तर्हि तुहिनकिरणशकलसुरसरिज्झरीशिशिरशिरस406स्त्रिपुरहरस्य कथमभिषेकप्रियता ?॥ १३०॥

ततश्च**—**

गङ्गातरङ्गावलिभिः सुधांशोः सुधाझरैश्चानिशमार्द्रमूर्ध्नः॥
वृथा407भिषेकं कलयन्ति शम्भोस्तृप्ताय तोयस्य408ददत्यपः के॥३२२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

यसि ? हि यतः लोके लोचनयोः शैत्यसम्पिपादयिषया शीतत्वसम्पादनेच्छया यतमानाद् यत्नं कुर्वाणान् जनान् पश्यामः अवलोकयाम एव। अयं रुद्रस्तु पशूनां गवादीनां “अहमेव पशूनामधिपतिः” सर्वे देवास्तु पशवो ब्रह्म-विष्ण्विन्द्रपूर्वकाः। प्रोक्तस्तेषां पतिर्यस्मादतः पशुपतिः स्मृतः।” इति श्रुति-स्मृत्यादिपर्यालोचनया पशूनां देवानां पतिः स्वामीति च, स्थाणुः शुष्कवृक्षः, “सर्ववैकारिकलये स्थाणुस्तिष्ठति येन सः” इति स्मृतेः प्रलयोत्तरमपि स्थितिमान् इति च, इत्येतद्द्वयं स्वस्य आह्वयं नाम अन्वर्थयन्निव यथार्थं कुर्वन्निव आशुशुक्षणिम् अग्निं “अग्निः*—**” इत्यतः “शिखावानाशुशुक्षणिः” इत्यमरः। अक्ष्णिलोचने निक्षिप्तवान्॥१२८॥*

  • अवधेहीति। तावत् साकल्येन रहस्यं गौप्यम् अभिधास्यामि कथयामि अवधेहि॥१२९॥*

  • ** अङ्गानुषङ्गेति।** इन्दोश्चन्द्रस्य द्युसिन्धोः गङ्गायाश्च समन्वयेन सम्बन्धेन अङ्गेषु सर्वावयवेषु अनुषङ्गा प्रसरन्ती उदिता उत्पन्ना या शीतबाधा शीतपीडा तां हर्तुं दूरीकर्तुम् अयं शिवः अग्निमयीम् अग्निप्रचुरां तृतीयां दृष्टिं हसन्तीम् अङ्गारधानीमिव “अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि” इत्यमरः। वहति धारयति। हन्तेत्यानन्दे॥३०१॥*

  • पुनरपि सपरिहासं दोषान्तरमाह**—हन्तेति।** हन्तेति खेदे। यद्येवं तर्हि तुहिनकिरणश्चन्द्रः तस्य शकलं कलात्मकं खण्डं, सुरसरितः गङ्गायाः झरी प्रवाहस्तेन शिशिरं शीतलं शिरः यस्य तस्य त्रिपुरहरस्य शिवस्य अभिषेकस्य प्रियता कथम् ?॥१३०॥*

  • उक्तामाशङ्कामेव द्रढयति**—गङ्गेति।** गङ्गायास्तरङ्गावलिभिः ऊर्मिपङ्क्तिभिः सुधांशोश्चन्द्रस्य सुधाझरैः अमृतप्रवाहैश्च अनिशं सततम् आर्द्रमूर्ध्रःक्लिन्नमस्तकस्य शम्भोः’ तद्भक्ता इति शेषः। अभिषेकं रुद्रसूक्तादिमन्त्रस्नानं वृथा कलयन्ति कुर्वन्ति। यतः तोयस्य जलपानेनेत्यर्थः। “कर्तृकर्मणोः कृति” इति षष्ठी। तृप्ताय अप-*

*** *** **वि०—**अत्रापि युक्तमुत्तरं व्याहरामि॥ १३१॥

ज्वलनाकलनाद्विषस्य पानाद्विषभाजां वहनाच्च तप्तमूर्तेः॥
अनिशं त्रिदशापगाघरस्याप्यभिषेकप्रियता शिवस्य409 जाता॥३२३॥

** कृ०—**अस्त्विदमथाप्यन्यदपि410न युज्यते। किमसौ विहाय विहायसं सन्ततं शङ्करशिरसि गङ्गातरङ्गान्तः प्रतिवसति मृगाङ्कः कृशाङ्गः ?॥१३२॥

** वि०—**शृणु सखे तत्र कारणम्॥ १३३॥

शिवशिरसि शीतभानुः सागरसूनुत्वसूचनाय परम्॥
अधिवसति तन्महिष्या गङ्गाया जठरमल्पतनुरेषः॥३२४॥

** कृo—**तथापि लुब्ध एष फलप्रेप्सुभिरनादृत्यः॥१३४॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

उदकानि पुनः पातुमित्यर्थः। के ददति प्रयच्छन्ति ? अपि तु केऽपि नैव ददतीत्यर्थः॥३२२॥

  • ** अत्रापीति।** अत्राभिषेकविषयेऽपि युक्तं समर्पकमेवोत्तर व्याहरामि कथयामि॥१३१॥*

  • किं तदित्यपेक्षायामाह**—ज्वलनेति।** ज्वलनस्य ललाटस्थतृतीयनेत्राग्नेः आकलनात् स्वीकारात्, विषस्य कालकूटसञ्ज्ञकस्य पानात् प्राशनात्, विषभाजां सर्पाणाम्। कटककुण्डलाद्यलङ्कारत्वेन वहनाद्धारणाच्च हेतोः तप्ता सन्तप्ता मूर्तिः शरीरं यस्य तस्य शिवस्य अनिशं सन्ततं त्रिदशापगायाः गङ्गायाः धरस्य धारकस्यापि सतः, अभिषेकप्रियता जाता॥३२३॥*

  • अस्त्विति। इदम् अभिषेकसम्बन्धि कथनम् अस्तु तिष्ठतु। अथापि अन्यद् इदं वक्ष्यमाणमपि न युज्यते। तत्किम् ? असौ मृगाङ्कश्चन्द्रः कृशाङ्गः अल्पशरीरः सन् विहायसमाकाशं विहाय त्यक्त्वा, सन्ततं शङ्करशिरसि गङ्गायास्तरङ्गाणामन्तः मध्ये किं कुतो हेतोः प्रतिवसति ?॥१३२॥*

  • शिवशिरसीति। एषः शीतभानुश्चन्द्रः सागरस्य समुद्रस्य सूनुत्वसूचनाय पुत्रत्वज्ञापनायेव, गम्योत्प्रेक्षेयम्। परमत्यन्तम् अल्पतनुः कृशशरीरः सन् शिवशिरसि शङ्करमस्तके तस्य समुद्रस्य महिष्याः स्त्रियाः गङ्गायाः जठरमुदरम् अधिवसति अधितिष्ठति। “अधिशीङ्-स्थासाम्**—**” इत्याधारस्य कर्मसञ्ज्ञा॥३२४॥*

  • अन्यदपि दूषणमुद्घाटयति**—तथापीति।** तथापि गङ्गा-चन्द्रादियुक्तत्वे सत्यपि एषः शिवः लुब्धः लोभयुक्तः आदिकिरातश्च, फलप्रेप्सुभिः फलं स्वर्गापवर्गादिरूपमिच्छुभिः अनादृत्यः न आदरणीयः॥१३४॥*

    तथाहि—

[सौवर्णभूधरमपि411 स्वकरे निधाय
भिक्षां कपालभृदिहाटति कृत्तिवासाः॥
आस्तामिदं स्वयमसौ परिगृह लुब्धो
लक्ष्मीपतिं तमपि मार्गणयाञ्चकार॥३२५॥412

सूक्ष्मसितांशुकलाभे413ऽप्यपटो हैमधरपदनिविष्टोऽपि॥
लुब्धोऽयमयोहस्तस्तण्डुलसत्त्वेऽप्यटत्यहो भिक्षाम्॥३२६॥]

अत्यल्प414मिदमुच्यते॥ यच्छङ्करसङ्गाद्गङ्गायामपि जीवनदायिन्यां सङ्क्रान्ता तद्गता लुब्धता॥१३५॥

पश्य—

मुक्ताश्रिता विष्णुपदोदितापि415 गाङ्गेयमुत्पाद्य वसुप्रकृष्टम्॥
प्राप्यापि रत्नाकरनित्यसङ्गं कपर्दिकाशां न जहाति गङ्गा॥३२७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • लुब्धत्वमेवोपपादयति—सौवर्णेति॥ असौ शिवः सौवर्णभूधरं मेरुमपि स्वकरे निधाय स्वायत्तीकृत्वा॥ वस्तुतस्त्रिपुरासुरवधे धनूरूपेणोपादाय इह लोके कृत्तिवासाः ‘चर्मवसनः, कपालभृन् नरकपालधारकश्च सन्, भिक्षां भिक्षार्थमित्यर्थः॥ अटति परिभ्रमति॥ इदं स्वयं भिक्षापरिभ्रमणम् आस्ताम् परं च असौ लक्ष्मीपतिं श्रीविष्णुमपि स्वयं परिगृह्य स्वीकृत्य लुब्धः अधिकधनाभिलाषयुक्तः, तमपि विष्णुमपिमार्गणयाञ्चकार मार्गणं याचकं वस्तुतः शरं कृतवान्॥ मार्गणशब्दात् “तत्करोति—” इति णिच्॥ प्रक्षिप्तमिदपद्यमिति प्रतिभाति॥ बहुषु पुस्तकेष्वनुपलम्भात्॥३२५॥*

  • सूक्ष्मेति॥ अयं शिवः लुब्धः आदिकिरातश्च सन्, सूक्ष्मस्य सितस्य शुभ्रस्य च अंशुकस्य वस्त्रस्य लाभे सत्यपि, पक्षे सूक्ष्माः सिताः शुभ्राश्च अंशवः किरणा यस्य स सूक्ष्मसितांशुकश्चन्द्रः “शेषाद्विभाषा” इति कप्प्रत्ययः॥ तस्य लाभे सत्यपीति च॥ अपटः वस्त्ररहितः दिगम्बरश्च सन्, हैमधरे सौवर्णधारके पदे स्थाने पक्षे हिममेव हैमं तस्य धारके हिमालये च निविष्टः स्थितोऽपि सन् अयो लोहमयपात्रं शूलं च हस्ते यस्य सः तथाभूतः, तथा तण्डुलानां सत्त्वम् अस्तित्वं, तण्डुर्नृत्याचार्यः लक्षणया तत्प्रोक्तं शास्त्रं नृत्यं वा तेन लसतीति तस्य भावस्तत्त्वं च तस्मिन् सत्यपि अहो इत्याश्चर्ये॥ भिक्षाम् अटति भिक्षार्थं परिभ्रमति॥३२६॥*

  • अतीति॥ किञ्च इदं वक्ष्यमाणम् अत्यल्पम् अतिसूक्ष्मं गुह्यमित्यर्थःउच्यते॥ यत् शङ्करस्य सङ्गात् सम्बन्धाज् जीवनं जलं प्राणनं च ददाति तच्छीलायां, नान्तत्वाण्डीप्॥ सत्यामपि गङ्गायां तद्गता शिवगता लुब्धता सङ्क्रान्ता मिलिता॥ १३५॥*

  • लुब्धतामेवोपपादयति — मुक्ताश्रितेति॥ इय गङ्गा मुक्तेः अर्थात् संसारात्, मुक्ताभिर्मौक्तिकैश्च आश्रितापि, विष्णोर्भगवतः पदाद् आकाशाच्च “वियद्विष्णुपदं वा*

  • *अन्यच्च—

सर्वतोमुखसमृद्धिजुषोद्यत्पौण्डरीकघनवासनया416ऽपि॥
यत्तयप्यवधि417जह्नुमखस्तत्सत्रघातिचिरसङ्गतिदोषात्॥३२८॥

पुनर्विमृश्य—

ईशः करस्थीकृत418काञ्चनाद्रिः कुबेरमित्रं रजताचलस्थः॥
तथापि भिक्षाटनमस्य जातं विधौ शिरःस्थे कुटिले कुतः श्रीः॥३२९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

तु पुंस्याकाश विहायसी” इत्यमरः। उदिता उत्पन्नापि, प्रकृष्टम् उतमं गाङ्गेयं स्वर्णप्रचुरं वसु धनं, पक्षे वसुषु अष्टवसुषु प्रकृष्टं श्रेष्ठं गाङ्गेय भीष्मं च “देवभेदेऽनले रश्मौ वसू रत्ने धने वसु” इत्यमरः। “गाङ्गेयं भर्म कर्बुरम्” इति च सुवर्णनामसु। उत्पाद्य प्रसूय, रत्नानां मणीनाम् आकरेण खनिना समुद्रेण च सह नित्यं सङ्गं प्राप्य लब्ध्वापि, कपर्दिकायां वराटिकाशां, कपर्दिनःशङ्करस्य के मूर्ध्नि च “क वारिणि च मूर्धनि” इत्यमरः। आशामभिलाषं न जहाति न त्यजति। अहो तस्या भक्तिरिति तत्त्वम्॥३२७॥

  • ** सर्वत इति।** सर्वतोमुखानां यज्ञविशेषाणाम् उदकानां च “पुष्करं सर्वतोमुखम्” इत्युदकनामस्वमरः। समृद्धिजुषा आधिक्ययुक्तयापि तथा उद्यतां प्रफुल्लानाम् उत्पन्नानां च, पुण्डरीकाणि कमलान्येव पौण्डरीकाणि तेषां पौण्डरीकाणां कमलसमूहानां वा। स्वार्थे समूहे वाण्। यज्ञविशेषाणां च घनवासनया अतिसुगन्धयुक्तया बहुसंस्कारवत्यापि च तया गङ्गयापि, जह्नोर्मुनेः मखः यज्ञः अवधि विनाशितः। हन्तेर्धातोः कर्मणि लुडि वधादेशः चिण् च। इति यद् यद् यज्ञविघातरूपं कर्म, सत्रघातिनः दक्षयज्ञविनाशकस्य शिवस्य चिरसङ्गतेः बहुकालसहवासस्यैव दोषात्। अन्यथा यज्ञवासनायुक्तायां तस्यां तदसम्भवात्॥३२८॥*

  • अपि च ईश इति। यद्यपि ईशः शिवः करस्थीकृतः त्रिपुरविनाशसमये चापरूपेण हस्तस्थः कृतः, हस्ते धृत इत्यर्थः। काञ्चनाद्रिः मेरुपर्वतो येन सः, करस्वीकृत इत्यपि पाठान्तरम्। तथा कुबेरस्य मित्रं सुहृत्, रजताचले रौप्यमये कैलासपर्वते तिष्ठतीति तथाभूतः अस्ति। तथापि ईदृशसम्पत्तिमत्त्वेऽपि अस्य शिवस्य भिक्षाटन जातं प्राप्तम्। तस्मात् कुटिले वामे वक्रेच विधौ दैवे। भोगसूचकरेषायामिति यावत्। चन्द्रे च, “विधिर्विधाने दैवेऽपि”, “विधुः सुधांशुः शुभ्रांशुः” इत्युभयत्राप्यमरः। शिरःस्थे सति, कुतः श्रीः सम्पत् ? अपि तु दुर्लभैवेत्यर्थः। वस्तुतस्तु ‘नहि स्वात्मारामं विषयमृगतृष्णा भ्रमयति’॥३२९॥*

    • किं च—एष विरुद्धधर्मा कृत्तिवासाः कुतः स्तोतव्यः?॥१३६॥

    शृणु तावत्—

धत्ते महो मूर्ध्नि तदौ419षधीशमौषर्बुधं भालतलेऽङ्गकेषु॥
फणीन्द्रमौलिस्थमणिप्रसूतं हरोऽन्धकारित्वमथाप्युपैति॥३३०॥

अपि च—

तारकारिं वहन्नङ्के मस्तके तारकाधिपम्॥
अङ्गीकुर्वन्सुदृशमप्यलीकाक्षो विभात्ययम्॥३३१॥

** विश्वावसुः**—किमेभिः शब्दश्लेषैकशरणैर्दूषणैरस्य420 खलु मृत्युञ्जयस्य विश्वस्तुत्यमसदृश421ंवदान्यत्वम्॥१७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • नैतावदेव, किन्तु परस्परविरुद्धधर्मवस्तुपरिग्रहत्वमपि तस्मिन्नाह—**एष इति।*एष शिवः विरुद्धधर्मा विरुद्धाचरणशीलः कृत्तिवासाः चर्मवस्त्रः कुतः स्तोतव्यः॥१३६॥

  • तदेवोपपादयति—धत्त इति। हरः मूर्ध्नि मस्तके तत् प्रसिद्धम् औषधीशं चन्द्रसम्बन्धि महस्तेजो धत्ते धारयति, भालतले कपालस्थलोचने इत्यर्थः। उषर्बुधस्म अग्नेः इदम् औषर्बुधम् अग्निसम्बन्धीत्यर्थः। “बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः।” इत्यग्निनामस्वमरः। तेजो धत्ते, शीतत्वप्राप्त्यर्थञ्चन्द्रधारणे कृते पुनरुष्णधर्माग्निधारणं विरुद्धमिति भावः। एवमग्रेऽपि यथायथमूह्यम्। तथा अङ्गान्येवाङ्गकानि तेषु सर्वावयवेष्वित्यर्थः। फणीन्द्रस्य शेषस्य मौलिस्थमणेः प्रसूतम् उत्पन्नं महः धत्ते। तथापि अन्धकारः ध्वान्तम् अस्यास्तीत्यन्धकारी तस्य भावः अन्धकारित्वं, पक्षे अन्धको नाम दैत्यः तस्य अरित्वं शत्रुत्वं च उपैति प्राप्नोति॥३३०॥*

  • अन्यदपि तारकारिमिति। अङ्के उत्सङ्गे “उत्सङ्ग-चिह्नयोरङ्कः” इत्यमरः। तारकारिं तारकासुरस्य शत्रुं स्कन्दं, मस्तके च तारकस्य, तारकानां नक्षत्राणां च अधिपं चन्द्रं च वहन्धारयन्, तथा सुदृश शोभनां दृष्टि, सुष्ठु शोभने दृशौ लोचने यस्याः सा तां पार्वतीं च, अङ्गीकुर्वन् स्वीकुर्वन् वामभागेऽर्धाङ्गीकुर्वन्नित्यपि च, अलीके ललाटे अप्रियस्थले च “अलीकमप्रियेऽपि स्याद्गोध्यसत्ये नपुंसकम्।” इति मेदिनी। “ललाटमलिक गोधिः” इत्यमरश्च। अक्षि नेत्रं यस्य सः अयं शिवः विभाति विरुद्धं प्रकाशते, विशेषेण दीप्यते इति चापि॥३३१॥*

  • पुनः समाधत्ते—किमिति। एभिः शब्दश्लेषैकशरणैः शब्दश्लेषैकावलम्बैः दूषणैर्दोषैः किम्? किन्तु अस्य प्रसिद्धस्य मृत्युञ्जयस्य शिवस्य वदान्यत्वं दातृत्वं विश्वस्तुत्यं सर्वैरपि स्तोतुं योग्यं, अत एव असदृशम् अन्यादृशम् अनन्यसाधारणमिति यावत्। अस्तीति शेषः। खलु निश्चयेन॥१३७॥*

दीर्घायुर्मुनिसूनवे स्म ददते दिव्यं तथाऽभीष्टदम्
प्रख्याताय भगीरथाय मगवत्पादामृतं प्राददात्॥
पापेभ्यो422ऽपि च बाण-पङ्क्तिवदनप्रष्ठेभ्य423 इष्टं फलम्
प्रादात्तस्य शिवस्य भाति जगदाह्लादाय वादान्यकम्॥३३२॥

** कृ०**—तदेतैद्व्याहतं424 भाषितम्। यन्महादेवस्य वादान्यकं जगदाह्लादायेति425॥१३८॥

यतः**—**

दत्त्वा वरं दानवराक्षसेभ्यो विश्वस्य च स्वस्य च यो विषादम्॥
सम्पादयामास शशाङ्कमौलिर्द426ातृत्वमेतस्य तवैव हृद्यम्॥३३३॥

** वि०—**कुटिलधिषण, गुणमपि दोष इति घोषयति भवान् !॥१३९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • तदेवोपपादयति**—दीर्घायुरिति।** यः शङ्करः मुनेः मृकण्डोः सूनवे पुत्राय मार्कण्डेयाय दीर्घायुः चिरञ्जीवित्वं ददते स्म ददौ। ‘दद दाने’ इत्यस्माद्धातोर्लटि रूपम्। तथा प्रख्याताय स्वचारित्र्यप्रसिद्धाय भगीरथाय एतन्नाम्ने राज्ञे अभीष्टद इच्छितफलप्रदं दिव्यं भगवतो विष्णोः पादसम्बन्धि अमृतं जलं गङ्गारूपं प्राददात्दत्तवान्। तथा बाणः बलिपुत्रः पङ्क्तिवदनः रावणश्च तौ प्रष्ठौ मुख्यौ येषु तेभ्यः पापेभ्यः पापरूपेभ्यो दैत्येभ्योऽपि, इष्टमभीष्टं फलं प्राददात् समर्पितवान्। तस्य शिवस्य वादान्यकं दातृत्व जगतः आह्लादाय आनन्दाय भाति विराजते॥३३२॥*

  • पुनरपि दोषमाह**—तदेतदिति।** तदेतत् त्वयोक्तं भाषितं व्याहतं व्याघातरूपदोषयुक्तं भवति। किं तत्। यन् महादेवस्य वादान्यकं जगतः आह्लादाय इत्युक्तं तत्॥१३८॥*

  • कथं व्याहतं भवतीत्येतदेवोपपादयति**—दत्त्वेति।** यः शशाङ्कमौलिः शिवः दानवा दैत्याश्च राक्षसाश्च तेभ्यः वरम् इच्छितफलप्राप्तिरूप दत्त्वा, विश्वस्य स्वस्य च विषादं दुःखं सम्पादयामास। रावणादिसदृशेभ्यो वरदानाज् जगतः, भस्मासुरादिसदृशेभ्यश्च स्वस्यापि दुःखोत्पादनात्। तस्मादेतस्य शिवस्य दातृत्वं तवैव हृद्यं मनोहरं, न तु सर्वस्येत्यर्थः॥३३३॥*

  • ** कुटिलेति।** कुटिला वक्राधिषणा बुद्धिर्यस्य तत्सम्बुद्धौ हे कुटिलधिषण, भवान्गुणमपि दोष इति घोषयति उच्चारयति॥१३९॥*

  • *यद्वा—

काञ्चीनाम्निपुरे सुरेन्द्र427महिते प्राक्पश्चिमोद्देशयो-
श्चित्रं दैवतयोश्चिरं निवसतो रीतिर्विरुद्धा मिथः॥
एको हि428द्विजराजमप्यधरयत्यन्यस्तमुत्तंसय-
त्यङ्घ्रौहन्त बिभर्ति कश्चिदपरः स्वे मूर्धनि स्वर्धुनीम्॥३३८॥

विरुद्धदेवाक्रान्तकाञ्चीनगरसमागमाद्वारणधराधरो429ऽप्येवम्॥१४१॥

तथाहि—

भेत्ता430गोप्ता च हरिर्महासवजुषो हिरण्यगर्भस्य॥
भयकृदिभस्याभयकृन्मूलाञ्चलयोश्चकास्ति हस्तिगिरेः॥३३९॥

** **अयं चापरो दोषः—

दरानुषङ्गं431 च गदान्वयं च त्यक्तुं जना ये निवसन्ति काञ्च्याम्॥
दन्तावलादीश्वरमाश्रितास्ते देहक्षये तौ नियतं भजन्ते॥३४०॥

<MISSING_FIG href="../books_images/U-IMG-1722660494Screenshot2024-07-28221953.png"/> पक्षान्तरेणापि तदेवोपपादयति—काञ्चीनाम्नीति। सुरेन्द्रेणेन्द्रेण महितेपूजिते काञ्चीनाम्नि पुरे नगरे, प्राक्पश्चिमोद्देशयोः पूर्वपश्चिमदिशोरित्यर्थः। चिरम्बहुकालं निवसतोः वासं कुर्वतोः दैवतयोः वरदराजैकाम्रेश्वरयोः मिथः परस्परंविरुद्धा रीतिः आचारः। हि यस्माद् एकः वरदराजःद्विजराजं पक्षिराजं ब्राह्मणराजं चापि, अधरयति वाहनत्वेनाधरीकुरुते तिरस्करोति च। अन्यः एकाम्रेश्वरस्तुतं द्विजराजं चन्द्रम् उत्तंसयति पूजयति शिरोभूषणत्वेन स्वीकरोति च। हन्तेत्याश्चर्ये। कश्चिदेकः स्वर्धुनीं गङ्गाम् अङ्घ्रौचरणे बिभर्ति धारयति, अपरः स्वे मूर्धनि मस्तकेच स्वर्धुनीं बिभर्ति। एतद्वा चित्रमाश्चर्यम्पश्येति पूर्वेणान्वयः॥३३८॥

  • अपि च विरुद्धेति। विरुद्धौ यौ देवौ वरदराजैकाम्रेश्वरौ ताभ्यामाक्रान्तमधिष्ठितं यत्काञ्चीनगरं तस्य समागमात् सम्बन्धाद्धेतोः वारणधराधरः हस्तिशैलोपि एवं विरुद्वाचार एव॥१४१॥*

  • भेत्तेति।अयं हरिः श्रीवरदराजरूपः महांश्चासौ आसवः मद्यम्महांश्चासौ सवोयज्ञश्च तं जुषत इति तज्जुषः नित्यं मद्यपायिनोऽश्वमेधादिसदृशमहायज्ञकर्तुश्चेत्यर्थः।हिरण्यं चासौ गर्भश्च तस्य हिरण्यकशिपोरित्यर्थः। हिरण्यगर्भस्य ब्रह्मणश्चभेत्ताविनाशकर्ता गोप्ता रक्षिता च। तथा इभस्य हिरण्यकशिपुरूपस्य गजेन्द्रस्य च भयकृद् भीत्युत्पादकः, अभयकृञ्च भयविनाशयिता च हस्तिगिरेः मूलाञ्चलयोः मूलेशिखरे चेत्यर्थः। चकास्ति प्रकाशते॥३३९॥*

  • अपरमपि दोषं कथयति— दरानुषङ्गमिति। ये जनाः दरस्य भयस्य अनुषङ्गं*

    • वि०—सखे मैवं सम्भाषिष्ठाः, यत एकरूपदैवतमिदं नगरमितिसमर्थ्यते। शृणु तावत् ॥१४२॥

फणिपतिसरस्फुरन्तीभनायकधरोत्तमाङ्गशोभितनुः॥
भवहरि432सञ्ज्ञा काञ्च्योः पूर्वापरयोर्हि देवता जयति॥३४९॥

अन्यच्चास्य नगरस्य भूषणमेव न तु दूषणम्॥१४३॥

इत्यन्यत्र दृष्टिमादाय सानन्दम्—

अहो खलु ममाद्य पचेलिमं भागधेयम्॥१४४॥

यतः—

सुरयौवतोपगीतः प्रातः पद्माननो मुनि433ध्यातः॥
व्यासकृतौ यः ख्यातः पाण्डवदूतः स दृक्पथं नीतः॥३४२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

सम्बन्धं, गदस्य, रोगस्य अन्वयं स्पर्शञ्च त्यक्तुं हातुं काञ्च्यां नगर्यो वसन्ति, ते जनाःदन्तावलाद्रीश्वरं हस्तिशैलाधिपतिं वरदराजमित्यर्थः। “दन्ती दन्तावलो हस्ती”इत्यमरः। आश्रिताः सन्तः, देहक्षये देहावसाने जाते सति तौ दरानुषङ्गगदान्वयौभगवत्सारूप्यात् पाञ्चजन्याभिधशङ्खस्य कौमोदकीत्याख्यगदायाश्च सम्बन्धमित्यर्थः। नियतं नियमेन निश्चयेनेत्यर्थः। भजन्ते सेवन्ते ॥३४०॥

  • अथ समाधत्ते—सख इति। हे सखे, मैवं सम्भाषिष्टाः पूर्वोक्तदोषयुक्तभाषणं मा कुरु। यतो यस्मात्कारणाद् एकरूपे अभिन्नस्वरूपे दैवते वरदराज-एकाम्रेश्वररूपे यस्मिन् तथाभूतमिदं काञ्चीसञ्ज्ञकं नगरम् इत्येवं समर्थ्यते साध्यते। मयेति शेषः॥१४२॥*

  • तमेव प्रकारं दर्शयति—फणिपतीति। फणिपतिसरसि तन्निकटवर्तिनि अनन्तसरोवरे स्फुरन्ती प्रकाशमाना अर्थाद्वरदराजरूपा, फणिपतीनां सर्पाधिपानां सरैःहारैः स्फुरन्तीति च एकाम्रेश्वरसञ्ज्ञक शिवरूपेत्यर्थः। इभनायकधरस्य हस्तिशैलस्यउत्तमाङ्गेशिरसि शिखरे इत्यर्थः। भानां नक्षत्राणां नायकश्चन्द्रः तस्य धरेण धारकेणोत्तमाङ्गेन शिरसा च शोभिनी तनुः शरीरं यस्याः सा भवः हरिश्चइति सञ्ज्ञे नामनी, भव संसारं हरन्ति तथाभूताश्च सञ्ज्ञाः वरदराज राम-कृष्णादिनामानि च यस्याः सा देवता पूर्वा चापरा च तयोः विष्णु-शिवसञ्ज्ञयोरित्यर्थः। काञ्च्योः जयति हिजयत्येव। एव चेदं नगरमेकरूपदैवतमेवेति भावः॥३४१॥*

  • अथ तत्रस्थपार्थसारथिभगवद्वर्णनं सूचयन्नाह—अन्यञ्चेति। अस्य नगरस्यकाञ्चीनगरस्य भूषणमेव॥१४३॥*

  • अहो इति। आश्चर्ये। ममाद्य पचेलिमं फलाभिमुखं “तव्यत्तव्यानीयरः” इतिसूत्रस्थेन “केलिमर उपसङ्ख्यानम्” इति वार्तिकेन केलिमर् प्रत्ययः। भाग्यम्दैवम्॥१४४॥*

  • सुरेति। सुरयौवतेन देवस्त्रीसमूहेन। समूहार्थेऽण्। “गणिकादेस्तु*

** कृ०—अनुचितकर्मासौ किमर्थमनुवर्ण्यते?॥१४५॥

सकलजगतामीशानोऽपि स्वयं विगतश्रिया-
मिदमनुचितं दूतो जातो यदेष पृथाभुवाम्॥
किमिह महतां हृद्या खद्योतपोतनिकेतने
चिरमधिपतेर्भासां दासानुदासतया स्थितिः॥३४३॥

वि०—पुरोभागिन्, भगवद्गुणेषु दोषमनीषया भवानेव दुष्यति॥१४६॥ श्रूयतामेतत् —

कवित्वस्य गाम्भीर्यमौदार्यमृद्धेः प्रभुत्वस्य शौर्यङ्गुरुत्वस्य विद्याम्॥
महावंश्यतायाः सदाचारपूर्तिं महत्त्वस्य सौलभ्यमाकल्पमाहुः॥३४४॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

गाणिक्यं गार्भिणं यौवतं गणे” इत्यमरः। सुरयुवतीनां समूह इति विग्रहः।उपगीतः प्रशंसितः, प्रातः प्रभातकाले मुनिभिः सनकादिभिः ध्यातः अनन्यमनसाचिन्तितः, यश्च व्यासस्य कृतौ महाभारते ख्यातः नायकत्वेन प्रसिद्धः सः पद्माननःकमलमुखः पाण्डवानां दूतः भगवान् श्रीकृष्णः, दृक्पथं दृष्टिपथं नीतः प्रापितः।मया दृष्टः इत्यर्थः॥३४२॥

  • तं दूषयति—अनुचितेति। अनुचितानि अयोग्यानि कर्माणि यस्य सः असौपाण्डवदूतः किमर्थमनुवर्ण्यते स्तूयते। त्वयेति शेषः॥१४५॥*

  • अनुचितकर्मत्वमेव प्रतिपादयति—सकलजगतामिति। यद् यस्मात् कारणाद् एष श्रीकृष्णः स्वय सकलजगतां त्रयाणामपि लोकानामित्यर्थः। ईशानोऽधिपतिरपि सन्, विगता कपटद्यूते विनष्टा श्री राज्याद्यैश्वर्यंयेषां तेषां पृथाभुवां कुन्तीपुत्राणां पाण्डवानान्दूतः जातः इदमेव अनुचितमयोग्यम्। अत्र दृष्टान्तमाह—भासां कान्तीनामधिपतेः सूर्यस्य खद्योतपोतानां ज्योतिरिङ्गणशिशूनां निकेतने गृहे।“यानपात्रे शिशौ पोतः” इत्यमरः। दासानां सेवकानाम् अनुदासः तस्य भावो दासानुदासता तया तद्रूपेणेत्यर्थः। स्थितिः सादि चिरं बहुकालपर्यन्तं, इह लोके महताङ्किं हृद्या मनोहरा भवति? अपि तु नैवेत्यर्थः ॥ ३४३ ॥*

  • पुरोभागिन्निति। हे पुरोभागिन् दोषैकदर्शिन्, भगवतो गुणेषु दोषमनीषयादोषबुद्ध्या भवानेव दुष्यति॥१४६॥*

  • कवित्वस्येति। कवित्वस्य काव्यरचनस्य गाम्भीर्यम् अर्थबाहुल्यालङ्कारादिसम्पन्नत्वेन गभीरत्वम् आकल्पं भूषणमाहुः। ऋद्धेः सम्पत्तेः औदार्यं दातृत्वम् आकल्पं, प्रभुत्वस्य आधिपत्यस्य शौर्यंशूरत्वं गुरुत्वस्य आचार्यत्वस्य विद्यां महावंश्यतायाःसद्वशोत्पन्नत्वस्य सदाचारेण सत्कर्माचरणेन पूर्ति परिपूर्णतां महत्त्वस्य सर्वजनश्रेष्ठत्वस्य सौलभ्यं सुलभत्वं सर्वेषामपि जनानां सहजदर्शनत्वमिति यावत्। सर्वत्रआकल्पमित्यनुसन्धेयम्॥३४४॥*

इत्यपरत्र विमानमानयन् सानन्दम्।

अत्र हि—

विकचरुचिरपुण्डरीकषण्डद्युतिमदमोचनलोचनप्रभावः॥
जयति विजयराघवः स देवः434 शुचितरगृध्रसरोवरोपकण्ठे॥३४५॥

** **किञ्च—

सम्पातिसोदरसरस्तटसम्प्ररूढो
भात्यद्भुतो विजयराघवपारिजातः॥
शाखाततेरुपरि सद्भिरुदीक्ष्यते यो
यस्याध एव सकलः सुमनःप्रपञ्चः॥३४६॥

** **पुनः सभक्तिप्रकर्षं जनानुद्दिश्य—

भो भो भुक्ति435मुक्तिप्रेप्सवः इदं शृण्वन्तु भवन्तः॥१४७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • अथ विजयराघववर्णनमुपसूचयन्नाह—विकचेति। विकच विकासितम् अतएव रुचिरं सुन्दरं यत्पुण्डरीकषण्डं श्वेतकमलवृन्द “पुण्डरीकं सिताम्भोजम्”इत्यमरः। तस्य द्युतिमदं कान्तिगर्वं मोचयतीति तथाभूतः लोचनयोः प्रभावो यस्यसः, सः त्रिलोकीविश्रुतः विजयराघवो देवः शुचितरस्य अतीव पवित्रस्य गृध्रसरोवरस्य एतदाख्यतीर्थस्य उपकण्ठे अन्तिके “उपकण्ठान्तिकाभ्यर्णाभ्यग्राअप्यभितोऽव्ययम्” इत्यमरः। जयति सर्वोत्कर्षेण वर्तते॥३४५॥*

  • सम्पातीति। सम्पातेः सोदरस्य बन्धोर्जटायुषः सम्बन्धि सरः गृध्रतीर्थमित्यर्थः।तस्य तटे तीरे सम्प्ररूढः उत्पन्नः अद्भुतः आश्चर्योत्पादकः विजयराघवः एतत्सञ्ज्ञकोभगवानेव पारिजातः वृक्षः भाति शोभते। अद्भुतत्वमेव प्रपञ्चयति—लोके हि वृक्षस्योपरितनभागे शाखाः सम्भवन्ति। यः अयं विजयराघवस्तु सद्भिः सज्जनैः शाखानांवृक्षस्कन्धानां वेदशाखानाम् आश्वलायनापस्तम्ब—बौधायनादीनां च ततेः उपरि ऊर्ध्वभागे उपनिषत्सु च उदीक्ष्यते अवलोक्यते। तथा लोके वृक्षशाखाग्रे पुष्पाण्युद्भवन्ति।यस्यास्य विजयराघवस्य तु, अध एवाधोभागे एव सकलःसम्पूर्णः सुमनसां पुष्पाणाम्प्रपञ्चः विस्तारः उदीक्ष्यते अवलोक्यते। एतेन “ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।” इति भगवद्गीतोतार्थः स्मारितः। तत्र अश्वत्थरूपकमत्र च पारिजातरूपकमियानेव भेदः॥३४६॥*

  • भो भो इति। भोभो इति सम्बोधने। भुक्तिश्च मुक्तिश्च ते प्रकर्षेण ईप्सन्तिइच्छन्ति ते तथाभूता हे जनाः इदं वक्ष्यमाणं शृण्वन्तु भवन्तः॥१४७॥*

विश्रुताश्रितवात्सल्यं वीरं विजयराघवम्॥
नमस्कुरुत यो गृध्रंसमस्कुरुत दाहतः436॥३४७॥

अत्र च गृध्र437पतिक्षेत्रे विश्वप्रसिद्धा काचिद्वैचित्री॥१४८॥

तनयार्थनया समागताभिस्तरुणीभिः परिभर्जिताश्च मुद्गाः॥
दृढमङ्कुरमत्र देवशक्त्या सममासां पुलकाङ्कुरैः फलन्ति॥३४८॥

कृ०—निजरूपमहिमाननुरूपस्थितिरसौ, विजयराघवः किमीड्यते? ॥१४९॥

शुकस्तुतो हंसमयूरवाहमुखप्रगीतो गरुडासनोऽसौ॥
क्षीराब्धितीरावसथोऽपि वासं करोत्यहो गृध्रसरोऽन्तिकेऽस्मिन्॥३४९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • किं तदित्यपेक्षायामाह—विश्रुतेति। यो विजयराघवः गृध्रं जटायुषं दाहतःदहनेन समस्कुरुत सञ्चस्कार। तस्य दाहादिसंस्कारांश्चक्रे इत्यर्थः। “सम्परिभ्यां करोतौ भूषणे” इति सुडागमः स च “अडभ्यासव्यवायेऽपि” इत्युक्तत्वात् तद्व्यावधानेऽपि। अत एव विश्रुतं प्रसिद्धम् आश्रितेषु भक्तेषु वात्सल्यं प्रेम यस्य सः तं वीरंशौर्यादिगुणयुक्तं विजयराघवं नमस्कुरुत। यूयं सर्वे इति शेषः॥३४७॥*

  • अत्र चेति। अत्र गृध्रपतिक्षेत्रे जटायुषस्तीर्थे इत्यर्थः। विश्वप्रसिद्धा काचित्चित्ताह्लादकत्रीं वैचित्री आश्चर्यम्॥१४८॥*

  • वैचित्रमेवाह—तनयार्थनयेति। अत्र विजयराघवक्षेत्रे तनयानां पुत्राणाम्अर्थनया प्रार्थनया समागताभिः प्राप्ताभिः तरुणीभिः वन्ध्यस्त्रीभिः परिभर्जिताःभक्षणार्थं पाचिताः मुद्गाःदेवस्य विजयराघवस्य शक्त्या सामर्थ्येन आसां स्त्रीणाम्पुलकाङ्कुरैः रोमाञ्चोद्गमैः समं सह, दृढमत्यर्थे यथा तथा अङ्कुरं फलन्ति उत्पादयन्ति। भर्जितधान्यस्य कुत्राप्यङ्कुरासम्भवात्तदेवात्राश्चर्यमिति भावः॥३४८॥*

  • निजेति। निजस्य आत्मनः रूपस्य यो महिमा माहात्म्यं तस्य अननुरूपाअयोग्या स्थितिः रीतिर्यस्य सः असौ विजयराघवः किं कुतो हेतोः ईड्यते स्तूयते ?।त्वयेति शेषः॥१४९॥*

  • कथं वाननुरूपस्थितिरित्याकाङ्क्षायामाह—शुकस्तुत इति। यो विजयराघवःशुकेन कीरेण शुक्राचार्येण योगिना च स्तुतः, हंसश्च मयूरश्चतौ वाहौ वाहने ययोस्तौ ब्रह्म-षडाननौ मुखं मुख्यौ येषां तैरिन्द्रादिदेवैः प्रगीतः प्रकर्षेण वर्णितः, पुनश्चगरुडासनः क्षीराब्धितीरे क्षीरसागरतीरे आवसथं स्थानं यस्य तथाभूतोपि सन्,असौ विजयराघवः अस्मिन् गृध्रसरसः गृध्रतीर्थस्य अन्तिके तीरे वासं करोति। अहो अतीवायुक्तमेतदित्यर्थः। श्लेषमूलकविरोधाभासोऽत्रालङ्कारः। भक्तात्वाद्गृध्रेऽपि वात्सल्यप्रतीतेश्चालङ्कारस्य ध्वनिमात्ररूपत्वम्॥३४९॥*

  • *वि०—तदेतद्दयापयोनिधेरस्य भूषणमेव न तु दूषणम्438॥१५०॥

तत्तादृगुत्तमपदे तमसः परस्तादस्ताम439यैरतुलसूरिभिरर्चितोऽपि॥
अत्राविरस्ति440 हरिरेष चिरं नराणां दृष्टिं कृतार्थयितुमेव दृढानुकम्पः॥३५०॥

<MISSING_FIG href="../books_images/U-IMG-1722995247Screenshot2024-07-08185832.png"/>

अथ क्षीरनदीवर्णनम्—२७

<MISSING_FIG href="../books_images/U-IMG-1722003254Screenshot(9"/>.png)

इति दक्षिणतो विमानं प्रस्थापयन् सहर्षम्—

इयं हि—

गङ्गा-सिन्धु-सरस्वती-भवहरातुङ्गा-पतङ्गात्मजा-
रङ्गाभ्याशतरङ्गिणीवदघतत्यङ्गारभङ्गा441वहा॥
शुग्धाराशमनी मनीषिजनतारब्धावगाहा मुहु-
र्मुग्धानामपि शुद्ध442बुद्धिजननी दुग्धापगा दृश्यते॥३५१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

*** तदेतदिति।** तदेतत्त्वया वर्णितं दयापयोनिधेर्दयासागरस्यास्य विजयराघवस्यभूषणमेव न तु दूषणम्॥१५०॥*

  • तदिति। तमसः अज्ञानस्य परस्तात् परस्मिन् “दिक्छब्देभ्यः सप्तमी-पञ्चमी-प्रथमाभ्यः-” इत्यादिसूत्रेण सप्तम्यर्थेऽस्तातिप्रत्ययः। तत्तादृशि तथाविधप्रसिद्धे उत्तमपदे वैकुण्ठे अस्तामयैर्दोषरहितैः अत एव अतुलसूरिभिः अनन्यसदृशैःविद्वद्भिः सनक-नारदप्रभृतिभिः अर्चितः पूजितोऽपि सन्, दृढानुकम्पः सततभक्तप्रेमवान्, एषः हरिर्विजयराघवरूपः, अत्र गृध्रसरसि चिरं बहुकालम् आविरस्ति प्रकटोवर्तते इति यत्, तन् नराणां मनुष्याणां दृष्टिं नेत्रं, जातावेकवचनम्। सफलयितुं स्वदर्शनेन सफलीकर्तुमेव॥३५०॥*

  • अथ क्षीरनदीवर्णनार्थमुपक्रमते—गङ्गेति। गङ्गासिन्धुर्गङ्गा नदी अथवा सिन्धुनाम्नी अन्या नदी, सरस्वती, भवहरा संसारनाशिनी तुङ्गा, पतङ्गस्य सूर्यस्य। “पतङ्गौपक्षि-सूर्यौ च” इत्यमरः आत्मजा यमुना “कालिन्दी सूर्यतनया यमुना” इतिचामरः। रङ्गाभ्याशे रङ्गनाथक्षेत्रसमीपे या तरङ्गिणी नदी कावेरी च ता इव तद्वत्।अघानां पापानां ततिः परम्परैव अङ्गाराः दाहकत्वाद् उल्मुकानि “अङ्गारोऽलातमुल्मुकम्” इत्यमरः। तेषां भङ्गावहा नाशसम्पादयित्री, तथा शुचां दुःखानां धारायाःपङ्क्तेः शमनी विनाशयित्री मुहुर्वारंवारं मनीषिजनतया विद्वत्समूहेन आरब्धाःउपक्रान्ताः अवगाहाः स्नानानि यस्यां सा तथाभूता, मुग्धानां मूर्खाणामपि “मुग्धः*

** किञ्च—

मम दुग्धनदी धनदीकृतमज्जन्मानवा नवाम्भोभिः॥
बुधजातनुता तनुतां तनुतां तनुतापहृद्धनाघानाम्443॥३५२॥

** **कृ०—भवत्वेवमथाप्यस्याः क्षीरतरङ्गिण्या विधिना कृता विरसता444॥१५१॥

कालुप्यलेशविधुरा मधुराऽपि पयोनदी ॥
रोचते साधवे युक्ता नो चेल्लवणसिन्धुना॥३५३॥

** **वि०—गुणमपि भणसि दोषतया॥१५२॥

यतः—

क्वचन समागतसिन्धुनि धुनीजले445 साधुनि स्नानम्॥
पङ्कविलोपं कलयति सङ्घटयति श्रियमिति446 स्मरन्ति बुधाः॥३५४॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

सुन्दर-मूढयोः” इति कोशः। शुद्धां निर्मलां बुद्धिं जनयति उत्पादयतीति तज्जननीदुग्धापगा क्षीरनदी दृश्यते॥३५१॥

  • ममेति। नवानि च तानि अम्भांसि उदकानि च तैर्धनदीकृताः पूर्वं दरिद्राः सन्तःकुबेरवद्धनाढ्याः कृताः मज्जन्तः स्वस्याम् अवगाहमानाः मानवा यया सा, बुधानाञ्जातेन समूहेन नुता स्तुता, तनोः शरीरस्य तापहृत्, सन्तापहर्त्री, दुग्धनदी क्षीरनदी, मम सबन्धिनां घनाघानां महापापानां तनुतां क्षीणत्व, तनुतां करोतु,पापानि विनाशयत्वित्यर्थः॥३५२॥*

  • भवत्विति। एवं त्वदुक्तप्रकारं भवतु अस्तु, अथापि अस्याः क्षीरतरङ्गिण्याःक्षीरनद्याःविधिना दैवेन विरसता रसरहितता अनास्वाद्यतेत्यर्थः। कृता॥१५१॥*

  • कालुष्येति। कालुष्यस्य मालिन्यस्य लेशेन लवेनापि विधुरा रहिता सत्यपि,मधुराऽपि पयोनदी क्षीरनदी, लवणसिन्धुना क्षारसमुद्रेण युक्ता नो चेन्न भवेद्यदि तर्हिसाधवे सज्जनाय रोचते लवणसंसृष्टक्षीरपानस्य धर्मशास्त्रनिषिद्धत्वादिति भावः॥३५३॥*

  • क्वचनेति। समागतः सङ्गतः सिन्धुः समुद्रः येन तस्मिन्, अत एव साधुनिपवित्रतया शोभने क्वचन कस्मिन्नपि धुनीजले नद्याः उदके स्नानं पङ्कस्य पापस्यकर्दमस्य च विलोपं नाशं कलयति सम्पादयति। श्रियं सम्पत्तिं च सङ्घटयति उत्पादयति। इत्युक्तप्रकारं बुधाः स्मरन्ति जानन्ति। क्वचित् ‘धियं’ इति पाठान्तरं,तत्पक्षे उत्तमां बुद्धिमित्यर्थः। अत्र च “समुद्रगानदीस्नानं नराणां शुद्धबुद्धिदम्” इति स्मृतिरप्यनुकूला॥३५४॥*

अथ बाहानदीवर्णनम्—२८.

<MISSING_FIG href="../books_images/U-IMG-1722071806Screenshot(10"/>.png)

किञ्चिद्दक्षिणतोऽभिक्रम्य—

मोहादिदोषरहितां तटवासिदेहि-
व्यूहाय कामपि मतिं महतीं दिशन्ती॥
स्वाहाकरोति दुरितानि शुभप्रवाहा447
बाहानदी बुधसमूहकृतावगाहा॥३५५॥

** **अस्याश्चोत्तरतीरे श्रोत्रियोत्तंसनिवासयोग्यः समग्रगुणोऽसावग्रहारःसंलक्ष्यते पश्य॥१५३॥

कर्णानन्दकरस्फुरन्मधुकरव्याहारबाहापगा-
रोधःशाखिमरन्दतुन्दिलपयःकल्याणकुल्यावृतः॥
आत्रेयान्वयविद्वदध्वरहविर्गन्धानुबन्धार्पित-
क्षेमो भात्यरशाणिपाल इति हि ग्रामोऽभिरामो भुवि॥३५६॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • अथ बाहानदीं वर्णयति—मोहेति। तटयोस्तीरयोर्वासिनां वसतिं कुर्वतां देहिनाम्प्राणिनां व्यूहाय समूहाय, मोहादिदोषरहितां, आदिशब्देन लोभादीनां ग्रहणम्।कामप्यनिर्वाच्यां महतीं स्वर्गापवर्गादिमहाफलप्रदामित्यर्थः। मतिं ज्ञानं दिशन्तीददती। बुधसमूहकृतावगाहा पण्डितजनवृन्दकृतस्नाना बाहानदी शुभप्रवाहामङ्गलकरप्रवाहा, दुरितानि पापानि स्वाहाकरोति विनाशयतीत्यर्थः॥३५५॥*

  • अस्य इति। अस्याः बाहानद्याः उत्तरे तीरे श्रोत्रियोत्तंसानाम् अग्निहोत्रिश्रेष्ठानां निवासयोग्यः समग्राः सम्पूर्णा गुणाः कुशसमित्समृद्ध्यादयो यस्मिन् असौ अग्रहारःब्राह्मणस्वामिको ग्रामः। अस्तीति शेषः॥१५३॥*

  • कर्णेति। कर्णानन्दकराः श्रोत्रयोरानन्दजनकाः स्फुरन्तश्च मधुकराणां व्याहाराः उक्तयो गुञ्जारवरूपा इत्यर्थः। येषु तेषां बाहापगायाः रोधसि तटे ये शाखिनोवृक्षास्तेषां सम्बन्धिभिः मरन्दैस्तुन्दिलस्य परिपूर्णस्य पयसः जलस्य कल्याणाभिःकुल्याभिः कृत्रिमसरिद्भिः ‘कालवा’ इति महाराष्ट्रभाषाप्रसिद्धैरित्यर्थः। वृतः वेष्टितः। अत्रेर्मुनेरयम् आत्रेयः स चासौ अन्वयः वंशः येषां तेषां विदुषाम् अध्वरेषु यज्ञेषुहविषां पुरोडाश-वपादीनां गन्धस्य अनुबन्धेन सम्बन्धेन अर्पितं दत्तं क्षेमं कुशलंयस्य सः। अभिरामः मनोहरः भुवि ‘अरशाणिपाल’ इति तन्नामकः ग्रामः भातिप्रकाशते। हि प्रसिद्धौ। अयं कवेरग्रहारः केनचिद्राज्ञा विद्याचरणादिसन्तुष्टेन समर्पितइति बोध्यम्॥३५६॥*

साध्वग्रे-सरयूपेतः साकेतनगरश्रियम्॥
अग्रहारो विभत्येष448 रघुनाथाभिरक्षितः॥३५७॥

किञ्चिद्विमानमुन्नमय्य नद्योः पार्श्वद्वयमवलोक्य सश्लाघम्—

चारुगुणैः सन्मणिभिर्जुष्टा बाहानदी-पयखिन्योः॥
उपकूलमग्रहारा उदग्रहारा इवावनेर्भान्ति॥३५८॥

कृ०—

अमून् ग्रामान् कथङ्कारमग्रहारान् प्रचक्षते॥
सुवृत्तमुक्तारहिता यदेनानाश्रिता जनाः॥३५९॥

** विश्वावसुः**—सखे भवता स्तुतिरेवैषां भङ्ग्यन्तरेण कृतेतिमृष्यामि तुष्यामि च॥१५४॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • साध्विति। साधुषु मध्ये अग्रेसराणां श्रेष्ठानाम् आत्रेयगोत्राणां यूपैः यज्ञपशुबन्धनस्तम्भैः इतः प्राप्तः, पक्षे साधु अग्रे सरय्वा नाम नद्या उपेतः, रघुनाथेन श्रीरघुनाथदीक्षितेन कवेः पित्रा, श्रीरामेण च अभिरक्षितः एष अग्रहारः साकेतस्य अयोध्यायाः श्रियं शोभां वहति धारयति॥३५७॥*

  • किञ्चिदिति। उन्नमय्य ऊर्ध्वं नीत्वा, नद्योः बाहा-क्षीरनद्योः—*

  • चार्विति। चारवः गुणाः दया-दाक्षिण्यादयः सूत्राणि च येषां तैः सतां साधूनाम्मणिभिः श्रेष्ठैः, पक्षे सद्भिरुत्तमैः मणिभी रत्नैश्च जुष्टाः युक्ताः बाहानदी-पयखिन्योः बाहानदी-क्षीरनद्योः कूलानां तीराणां समीपे इत्युपकूल, सामीप्येऽव्ययीभावः। “कूलं रोधश्च तीरं च” इत्यमरः। अग्रहाराः, अवनेर्भूमेः उदग्राः उन्नताः हाराइव “उच्च-प्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने।” इत्यमरः। भान्ति प्रकाशन्ते॥३५८॥*

  • अमूनिति। अमून् नदीद्वयतीरस्थान् ग्रामान् कथङ्कारं कथमित्यर्थः। अग्रहारान् प्रचक्षते वदन्ति ? बुधा इति शेषः। यद्यस्मादेनान् ग्रामान् आश्रिता जनाः,सुवृत्ताभिः सुन्दरवर्तुलाकृतिभिः मुक्ताभिमौक्तिकैः रहिताः, सुवृत्तैः साध्वाचारैःमुक्तैर्विगतसंसारबन्धनैश्च जनैः अरहिताः सङ्गताश्च, “वृत्तोऽधीतेऽप्यतीतेऽपि वर्तुलेऽपि मृते वृते। वृत्तेऽन्यलिङ्गं वा क्लीबे छन्दश्चारित्रवृत्तिषु” इति मेदिनी। सन्तीतिशेषः॥३५९॥*

  • सख इति। भवता भङ्ग्यन्तरेण अन्यया रीत्या व्याजस्तुतिप्रकारेणेति यावत्।एषां जनानां स्तुतिः प्रशंसैव कृता, इति हेतोः मृष्यामि सहे, तुष्यामि सन्तुष्टश्चभवामि॥१५४॥*

अथ तुण्डीरमण्डलवर्णनम्—२९.

<MISSING_FIG href="../books_images/U-IMG-1722073435Screenshot(9"/>.png)

अथ सर्वतस्तुण्डीरमण्डलमवलोकयन् सहर्षातिरेकम् —

वयस्य स्फुटमस्य तुण्डीरमण्डलेस्य449 पश्यतु भवान् पावनत्वंरमणीयत्वं च॥१५५॥

तीरे तीरे स्फुरति सरितामग्रहारोऽत्र भूया—
नग्र्यो वर्गोधरणिमरुतामग्रहारेऽग्रहारे॥
वर्गे वर्गे धरणिमरुतां वर्धते साधु यज्ञो
यज्ञे यज्ञे श्रवणसुभगः स्तोत्रशस्त्रानुघोषः450॥३६०॥

किञ्च—

तुण्डीरमण्डलनिवासिषु दुग्धसिन्धु-
डिण्डीरखण्डनिभकीर्तिषु पण्डितेषु॥
आप्यायमानमखिलैरविगीत451मेत—

द्रोचेत धूतदुरितं चरितं न कस्मै॥३६१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • अथेति। तुण्डीरमण्डलमिति देशविशेषनाम, भाषायां ‘तोण्डमनाडु’ इतिटीकान्तरे दृश्यते—*

  • वयस्येति। हे वयस्य, अस्य पुरोवर्तिनः तुण्डीरमण्डलस्य रमणीयत्वं सौन्दर्यं पावनत्वं पवित्रत्वं च, स्फुटं स्पष्टं यथा तथा पश्यतु भवान्॥१५५॥*

  • तीरे तीर इति। सरितां बाहानद्यादीनाम् अत्रास्मिन् तीरे तीरे प्रतितीरं भूयान्बहुशः अग्रहारः स्फुरति प्रकाशते। अग्रहारेऽग्रहारे प्रत्यग्रहारं च अग्र्यःपूज्यःधरणिमरुतां ब्राह्मणानां वर्गःवृन्दं स्फुरति। वर्गे वर्गे च यज्ञः ज्योतिष्टोमादिः साधुयथा तथा वर्धते। यज्ञे यज्ञे च सर्वत्र वीप्सायां द्विर्भावः। श्रवणयोः कर्णयोः सुभगःमनोज्ञः स्तोत्र-शस्त्राणां मन्त्रविशेषाणाम् अनुघोषः पाठशब्दश्च वर्धते॥३६०॥*

  • तुण्डीरेति। तुण्डीरमण्डले निवसन्ति ते निवासिनस्तेषु दुग्धसिन्धोः क्षीरसमुद्रस्य डिण्डीरखण्डैः फेनखण्डैः निभा तुल्या, तद्वन्निर्मलेति यावत्। कीर्तिर्येषा तेषुपण्डितेषु आप्यायमानं व्याप्नुवानं तैः क्रियमाणमिति यावत्। अखिलैः वेद-शास्त्र-पुराणादिग्रन्थैःअविगीतम् अनिन्दितम् अत एव धूतदुरितं प्रक्षालितदोषं, एतच्चरितं सत्कर्मं कस्मै न रोचेत ? सर्वस्मा अपि रोचेतैवेत्यर्थः। “रुच्यर्थानाम् —” इत्यादिना चतुर्थी॥३६१॥*

    कृशानुः—हन्त एतस्मिन् अन्तिमयुगेऽपि अध्वरकर्माचरताममीषां चरितानि कथमिव रोचेरन् कोविदेभ्यः?॥१५६॥

न ऋत्विक्सम्पत्तिर्न च कुशलता यष्टुरनघा
न च द्रव्यं शुद्धं न च हृदयशुद्धिः कलियुगे॥
प्रसिद्धिं काङ्क्षन्तः परिमितधनं452 हन्त कृपणा
वृथा पश्वालभ्भं विदधति तथापि क्षितिसुराः॥३६२॥

किञ्च—

शौचं नाचरितुं यथाविधि कलौ शक्ता द्विजाः किञ्च ते
ये खल्वाचमनाप्लवादिनियमास्तान्453 स्मर्तुमप्यक्षमाः॥
क्वामीषां पुनरग्निहोत्रनियमः क्वेष्टेरनुष्ठानधीः454
क्वाग्निष्टोममुखा मखाः सपशुकाः क्वत्याग्निचित्या455 तु सा॥३६३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

*** हन्तेति।** अस्मिन् अन्तिमयुगे चरमयुगे कलियुगे इत्यर्थः। “अन्तो जघन्यचरममन्त्य-पाश्चात्य-पश्चिमम्।” इत्यमरः। अध्वरकर्म यज्ञकर्म आरभतां कुर्वाणानाम् अमीषां लोकानां चरितानि को विदेभ्यः बुधेभ्यः कथमिव रोचेरन्? कलौ यज्ञकर्मणान्निषेधादिति भावः॥१५६॥*

  • कलौ यज्ञकरणानर्हलमेवाह—नेति। कलियुगे ॠत्विजां मन्त्र-तद्विनियोगादिज्ञानिनां सम्पत्तिः सुलभत्वं न, तथा यष्टुर्यजमानस्य “यष्टा च यजमानश्च” इत्यमरः। अनघा निर्मला, एतत्पूर्वत्राप्यनुसन्धेयम्। कुशलता निपुणता न च नास्त्येव,तथा धन द्रव्य शुद्धम् अगर्हितोपायलब्धं न च किञ्च हृदयस्यान्तःकरणस्यशुद्धिः काम-क्रोधादिराहित्यं च न, तथापि कृपणाः द्रव्यव्ययकातराः क्षितिसुरा ब्राह्मणाः, प्रसिद्धिं ‘अय यज्ञकर्ता, अयं दीक्षितः, अयं सोमयाजी’ इत्यादिरूपाम्प्रख्याति काङ्क्षन्तः वाञ्छन्तः सन्तः परिमितम् अल्पं धनं यस्मिन् अल्पद्रव्यव्ययसाध्यमित्यर्थः। वृथा सम्यग्ऋत्विगादिसम्पत्त्यभावाद्व्यार्थमेव पशोः यज्ञीयमेषादेः आलम्भंवधं विदधति कुर्वन्त्येव॥३६२॥*

  • अपि च शौचमिति। किञ्च कलौ युगे ये द्विजाः शौचं मृज्जलादिना शरीरशुद्धिंयथाविधि शास्त्रविधिमनतिक्रम्य आचरितुं न शक्ताः न समर्थाः, ते द्विजाः आचमनम्आप्लवः स्नानं च तौ आदी येषां ते ये नियमाः स्वाध्यायादयः खलु प्रसिद्धाः सन्ति,तान् नियमान् स्मर्तुमपि किमुताचरितुं, अक्षमाः असमर्थाः। एतादृशाममीषाम्ब्राह्मणानां पुनः अग्निहोत्रनियमः क्व? इष्टेःदर्श-पूर्णमासादियागरूपायाः अनुष्ठानधीःअनुष्ठानज्ञानं क्व? तथा पशुभिः सहिताः सपशुकाः पशुवधयुक्ता इति भावः। अग्नि-*

    • विश्वावसुः— स्थूल456मनीष मृषा किमिति भाषसे ?॥१५७॥

यतः—

शिष्टेभ्यः प्रतिगृह्ण457 वित्तमुचितं सम्पाद्य विद्याः कलौ
श्रद्धालून् श्रुति-कल्पसूत्रचतुरान् लब्ध्वा शुचीनृत्विजः॥
प्रीतिं भागवतीं प्रकाममभिसन्धायाहरन्तः क्रतून्
धीमन्तो युगमन्तिमं तु कृतयन्त्यन्तर्मुखाः सन्ततम्॥३६४॥

** **किञ्च—

अयज्ञार्हद्रव्या वयमिति तु यज्ञाद्विरमतां
न कल्पेत स्वान्नैर्ननु भगवदाराधनमपि॥
प्रयत्नेन द्रव्यं शुचि किमपि लब्ध्वा भगवतः
कृतं चेत्कैङ्कर्यं किमिति न तदेवाध्वरमयम्458॥३६५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

ष्टोमः मुख आदिर्येषां ते मखाः यज्ञाः क्व? तथैव सा प्रसिद्धा अग्नेश्चयनमग्निचित्याअग्निसञ्चयनादिक्रिया “चित्याग्निचित्ये च” इति निपातनाच् चिनोतेः क्यप्तुगागमश्च। क्वत्या कुतः प्राप्ता भवति? अपि तु एतत्पूर्वोक्तं सर्वमपि दुर्लभमेवैतेषामिति भावः॥३६३॥

  • स्थूलेति। हे स्थूलमनीष मन्दमते, किमिति पूर्वोक्तरूप मृषा मिथ्याभाषसे ?॥१५७॥*

  • मिथ्यात्वमेवाह—शिष्टेभ्य इति। धीमन्तः ईश्वरतोषककर्मबुद्धियुक्ताः अतएव सन्ततं निरन्तरम् अन्तः हृदयस्थपुण्डरीके मुखं मुखमिव चित्तं येषां ते तथाभूताःशिष्टेभ्यः जनेभ्यः उचितं यज्ञाद्यनुष्ठानपर्याप्तं वित्तं द्रव्यं प्रतिगृह्य स्वीकृत्य, कलौ अपिविद्याः वेदशास्त्रादीः सम्पाद्य, श्रुत्रयः वेदाः कल्पसूत्राणि आश्वलायनापस्तम्वीयादीनि च तेषु चतुरान् निपुणान् श्रुत्यादीनां यथार्थज्ञानयुक्तानित्यर्थः। किञ्च श्रद्धालून्वेद-शास्त्रोक्तकर्मसु विश्वासयुक्तान्, अत एव शुचीन् पवित्रान् ऋत्विजः लब्ध्वा, भागवतीं परमेश्वरसम्बन्धिनीं प्रीतिं सन्तोषम् अभिसन्धाय निश्चित्य, न तु स्वार्थं पारलौकिं सुखम् अभिसन्धाय प्रकामं यथेच्छं क्रतून् आहरन्तः कुर्वन्तः सन्तः, अन्तिमं चरमं युगं कलियुगं कृतयन्ति कृतयुगमिव सम्पादयन्ति॥३६४॥*

  • एतावता कलौ यज्ञकरणस्य युक्तवं प्रतिपादितम् इदानीम् अल्पधनत्वादिनोकं दूषणमुद्धारयन्नाह—अयज्ञार्हेति। वयं यज्ञस्यार्हं विहितव्यापारागतं कर्मपर्याप्तं चद्रव्यं येषां ते तथा न भवन्तीत्ययज्ञार्हद्रव्याः इति हेतोस्तु यज्ञाद् यज्ञानुष्ठानाद् विरमतांयज्ञानुष्ठानमकुर्वतामित्यर्थः। “जगुप्सा-विराम-प्रमादार्थानाम्-” इत्यादिवार्तिकेनापादानसञ्ज्ञा।‘विरमताम्’ इत्यत्र च “व्याङ्परिभ्यो रमः” इतिसूत्रेण विपूर्वकस्य रम-*

  • *अपि च—

हिंसाकृत्प्रत्यवेयादिति कथयति यो वेद एवैष यागे
पश्वालम्भं विधत्ते यदि क इह मखे वैदिकः संशयीत ?॥
हिंसात्वाभावमेवाध्वरपशुनिहतेराह रामानुजार्य-
स्तत्पक्षस्थोऽपि यो न प्रसजति यजने कस्तदन्यो गुरुद्विट्॥ ३६६॥

इदं चावधेयम्—

हिंसान्तरेष्विव मखाश्रितहिंसनेऽपि
जैनेतरो यदि जनो भजते जुगुप्साम्॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

तेः परस्मैपदविधानात् शतृप्रत्ययः। ननु तर्हि स्वैः आत्मीयैः अन्नैः भगवतः आराधनं नैवेद्यार्पणरूपमपि न कल्पेत न क्रियेत। तस्याप्यल्पत्वादिना भगवदाराधनानर्हत्वादिति भावः। प्रयत्नेन अनिन्द्यप्रयासेन शुचि याजनाध्यापनादिव्यापारब्धत्वात् पवित्रङ्किमपि यत्किचित्स्वल्पमपि द्रव्यं लब्ध्वा सम्पाद्य तेनेति शेषः। भगवतः ईश्वरस्य कैङ्कर्यम्पूजननैवेद्यार्पणादिरूपं कृतं चेत् तदेव अध्वरमयं यज्ञप्रचुरं यज्ञरूपमित्यर्थः। किमितिन भवति ? अपि तु भवत्येवेति। एवं च यदि कलौ यज्ञकरणमयुक्तं स्यात्, तर्हिभगवत्पूजनादिकमपि त्वन्मते त्याज्यमेव स्यात्। उभयोरपि यज्ञत्वाविशेषाद्द्रव्यानर्हत्वस्य चापि समत्वादिति भावः॥ ३६५॥

  • किञ्च हिंसाकृदिति।—‘हिंसाकृत् प्राणिप्राणवियोगानुकूलव्यापारकर्ता जनःप्रत्यवेयाद् दोषीभवेत्’ इति यः वेदः “न हिंस्यात् सर्वभूतानि” इत्यादिरूपःकथयति, एष एव वेदः यागे यज्ञे पशोः आलम्भं वधं “आग्नीषोमीयं पशुमालभेत”इत्यादिनेति भावः। विधत्ते कथयति यदि, तर्हि इह मखे यज्ञविषये कः वेदमधीतेवेद वा वैदिकः वेदवेत्ता पुरुष इत्यर्थः। संशयीत सन्देही स्यात् ? अपि तु न कोऽपिसंशयीतेति। उभयत्र प्रामाण्ये संशयाभावादिति भावः। अपि च रामानुजार्योरामानुजाचार्यस्तु, अध्वरे यागे या पशोर्निहतिर्वधः तस्याः हिसात्वस्य अभावमेवाह।तथा च मनुरपि—“यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा। यज्ञस्य भूत्यै सर्वस्यतस्माद्यज्ञे वधोऽवधः।” इत्याह। तस्मात् तस्य रामानुजार्यस्य पक्षे मते तिष्ठतीतितन्मतस्थः, तन्मताभिमानीत्यर्थः। सोऽपि, अपिशब्दोऽस्य विधेः सार्वत्रिकत्वबोधनार्थः। सञ्जनः यजने यज्ञकर्मणि न प्रसजति नोद्युक्तो भवति, ‘षञ्ज सङ्गे’इत्यस्मात् प्रपूर्वकाद्धातोर्लट्। “दंश-सञ्ज-स्वञ्जाम्” इति नलोपः। तस्मात्पुरुषादन्यः कः पुरुषः गुरुं द्वेष्टीति तथोक्तः गुरोर्द्वेष्टेत्यर्थः। भवति ? अपि तु स एव तथाविध इत्यर्थः॥ ३६६॥*

  • किञ्च हिंसान्तरेष्विति। यदि जैनान् महावीरजिनस्थापितमतानुयायिनःश्रावकादेः इतरः भिन्नः जनः हिंसान्तरेष्विव यज्ञकर्मबहिर्भूतकेवलस्वशरीरपोषणार्थं कृतेषु पशुवधेष्विव, मखे यज्ञे आश्रितं श्रुतिस्मृतिविहितत्वादवश्यप्राप्तं तच्च तद्धिं-*

नार्यन्तरेष्विव न निन्दति नन्दनानां
निष्पादनं किमनधेऽपि निजे कलत्रे॥३६७॥

** **इदमप्यवगन्तव्यम् —

ऋत्विग्विशुद्धिविरहादतिशङ्कया459 चेत्460
केचित्कलौ जहति नित्यमपि क्रतुं ते॥
मुञ्चन्ति गुर्वशुचिताविशयेन किं न
चक्राङ्कवैष्णवमनुग्रहणादि सर्वम्॥३६८॥

** **किञ्च —

सर्वैर्वेदैः स्मृतिगुणयुतैः सेतिहासैः पुराणैः
शिष्टाचारैरपि नियमितानध्वरान्मध्वरातेः॥
आज्ञासिद्धानहह जहतस्तद्विरुद्धानि कृत्या-
न्यातन्वन्तः कतिचिदपरान461प्यमी शिक्षयन्ति॥३६९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

सन वधश्च तस्मिन्नपि जुगुप्सां निन्दां भजते चेत्, यज्ञीयपशुहिंसनमपि निन्द्यं मन्यते चेदित्यर्थः। तर्हि नार्यन्तरेष्विव परस्त्रीष्विव नन्दनानां पुत्राणां निष्पादनमुत्पादनं, अनघे पातिव्रत्यादिस्त्रीधर्म-सम्पन्नत्वान्निर्दोषे निजे स्वकीये कलत्रे भार्यायामपि,पुत्रोत्पादनं किं कस्माद्धेतोर्न निन्दति ? ऋतुकाले स्वस्त्रीसङ्गस्य यज्ञकर्मणि पशुवधस्यचापि शास्त्रेणैव विहितत्वादुभयमपि तुल्यमिति भावः॥३६७॥

  • अपि च ऋत्विगिति। ऋत्विजां विशेषेण या शुद्धिः यथार्थानुष्ठानरूपा तस्याःविरहादभावाद्धेतोः अत एव अतिशङ्कया ‘सम्यक्तया अनुष्ठानं भवेद्वा न भवेत्’इति संशयेन केचिज्जनाः कलौ युगेनित्यमपि ऋतुं पञ्चमहायज्ञान्तर्भूतं वैश्वदेवादियज्ञमपि, दर्श-पूर्णमासादिरूपं वा जहति त्यजन्ति चेत्, तर्हि ते जनाः गुरोः आचार्यस्य अशुचितायाः अपवित्रतायाः विशयेन संशयेन चक्राङ्कः चक्रचिह्नं चक्र-शङ्खादि-मुद्राधारणमिति यावत्। वैष्णवमनुः दीक्षाग्रहणकाले उपदेष्टव्यो नारायणाष्टाक्षरमन्त्रःतस्य ग्रहणं च ते आदी यस्य तत् सर्वम्पञ्चसंस्कारादिरूपं किं कुतः कारणान् नमुञ्चन्ति। पञ्चसंस्कारास्तु प्रागुक्ताः। एवं च यथा चक्राङ्कादिधारणं त्यक्त न युक्तं,तथैव वेदविहितयज्ञाद्यनुष्ठानमपि त्यक्तुं न युक्तमिति भावः॥३६८॥*

  • श्रुति-स्मृति-पुराणविहितयज्ञकर्माननुष्ठानमनुचितमिति सखेदमाह—सर्वैर्वेदैरिति। सर्वैर्वेदैः, स्मृतिगणयुतैः मनु-याज्ञवल्क्य-पराशरप्रोक्तस्मृतिसमूहसहितैः,सेतिहासैः महाभारतादिपुरावृत्तसहितैः पुराणैः पाद्म-वैष्णवादिभिः शिष्टाचारैश्वापिनियमितान् अवश्यकर्तव्यत्वेन प्रतिपादितान् मध्वरातेः श्रीविष्णोः आज्ञासिद्धानपि*

    • किं बहुना—

यागं ये बत वैष्णवा विजहति छागच्छिदाभीतितः
शिष्यक्लेशनसाध्वसाज्जहतु ते चक्राङ्कनप्रक्रियाम्॥
पूर्वस्मिन्बहुसम्मतिर्भगवतः प्रीतिः फलं नो धना-
न्यल्पीयोऽभिमतिः तेः परत्र फलमप्यर्थाप्तिरित्थं भिदा॥३७०॥

कु०—(विहस्य)

तप्ताभ्यां शङ्खचक्राभ्यां तापनं प्राणिनामिदम्॥
छागालम्भसमत्वेन साधो! किमिति वर्ण्यते462॥३७१॥

** **वि०—गुणदोषतारतम्यानभिज्ञ, श्रृणु तावदिदम्॥१५८॥

छागालम्भसहस्रतः क्षितिसुरस्यैकस्य हिंसाधिका
तस्माद् ब्राह्मणतापनं न किमिदं तुल्यं पशोर्हिसया॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

अध्वरान् यज्ञान्, अहहेति खेदे। जहतः त्यजन्तः तेषां भेद-शास्त्रादीनां विरुद्धानि स्वसङ्कल्पसिद्धानीत्यर्थः। कृत्यानि कर्माणि आतन्वन्तः आचरन्तः सन्तः, कतिचिद् अमी जनाः अपरानप्यन्यानपि जनान् शिक्षयन्ति। एतदेवायुक्तमितिज्ञेयम्॥३६९॥

  • किं च यागमिति। ये वैष्णवाः छागस्य मेषस्य छिदायाः हिंसायाः भीतितः भयाद्धेतोः यागं यज्ञं विजहति त्यजन्ति। बतेति खेदे। ते वैष्णवाः शिष्याणाङ्क्लेशन तापोत्पादनं तद्रूपं यत् साध्वसं भय तस्माद्धेतोः चक्राङ्कनस्य तप्तचक्र-शङ्खादिमुद्रालक्षणस्य प्रक्रियां करणं जहतु त्यजन्तु। किञ्च यागाङ्कनयोर्मध्येऽङ्कनमेवत्याज्य स्यादित्याह—पूर्वस्मिन् यज्ञे विषये बहूनां मतान्तरस्थानामपि सम्मतिरनुमतिः, भगवतो विष्णोःप्रीतिः सन्तोषः फलं धनानि विषयादिलालसाजनकानि तुनो न भवन्ति। परत्र चक्राङ्कने तु अल्पीयसी अत्यल्पा एकदेशीयमतस्थानां जनानामित्यर्थः। अभिमतिः, सम्मतिः फलमपि अर्थानां द्रव्याणाम् आप्तिः प्राप्तिः, पूर्वप्रतिपादितजार-चोरादिनीचजनेभ्य इत्यर्थः। इत्थमेवरूपा भिदा भेदः अस्तीत्यर्थः॥३७०॥*

  • कृशानुः सोपहासमाह—तप्ताभ्यामिति। हे साधो ! एतत् परिहासद्योतकंसम्बोधनम्। तप्ताभ्यां शङ्ख-चक्राभ्यां तन्मुद्राभ्यामित्यर्थः। प्राणिनां शिष्यजनानान्तापनं सन्तापोत्पादकं, छागालम्भसमत्वेन पशुहिंसातुल्यत्वेन किमिति कुतो हेतोःवर्ण्यते ? प्राणवियोजनं, किञ्चित्कालपर्यन्तं शरीरस्यैकस्मिन् भागे तापनं च नैव तुल्यमिति भावः॥३७१॥*

  • गुणदोषेति। हे गुणदोषतारतम्यानभिज्ञ गुण-दोषयोर्न्यूनाधिकभावनिर्णायकविचारशक्तिशून्य, इदं वक्ष्यमाणं शृणु॥१५८॥*

  • छागेति। छागस्य आलम्भः हिंसा तेषां सहस्रं तस्मादिति ततः सहस्रपशुहि -*

शास्त्रात्तप्तरथाङ्गधारणमपि463 श्रेयस्करं चेत्तदा
वेदैरेव464 सवे पशोर्विशसनाद्धर्मोपि किं ? हीयते॥३७२॥

** **इत्यलं श्रुत्ययुतविहितसवनकरणा465वश्यकतासमर्थनेन करबदरास्तित्वसाधकप्रमाणान्तरपरिकल्पनकल्पेन॥१५९॥

अथ चञ्जीपुरी (तञ्जावूर्) वर्णनम्—२०

<MISSING_FIG href="../books_images/U-IMG-1722228437Screenshot(11"/>.png)

** **इति दक्षिणतो विमानमानयन्466 सशिरःकम्पम्—

खञ्जीकृताखिलहृदां रमणीमणीनाम्
मञ्जीरमञ्जुतरशिञ्जितरञ्जितेन॥
चञ्जीपुरी युवगणेन चकास्ति पूर्णा
सञ्जीवितोग्रपरिवञ्चितपञ्चबाणा॥३७३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

सापेक्षयेत्यर्थः। एकस्य क्षितिसुरस्य ब्राह्मणस्य एका हिंसा अधिका। तस्मात् कारणाद् ब्राह्मणतापनं तप्तमुद्रयेत्यर्थात्। इदम् एकस्य पशोहिंसया तुल्यं समं न किम् ?अपि तु अस्त्येवेत्यर्थः। यतः मुद्राधारणकाले ‘हा ! हा !’ इत्यादिखेदप्रदर्शकशब्दाः श्रूयन्ते। तस्माद् यद्यपि तस्मिन् काले प्रत्यक्षप्राणहानिर्न भवति तथापि तत्तुल्यत्वादेकपशुहिंसातुल्यमेवन्तदिति भावः। शास्त्रप्राप्तत्वान्मुद्राधारणमावश्यकमितिचेत्तत्राह—तप्तरथाङ्गधारणं सन्तप्तचक्रादिमुद्राधारणमपि शास्त्रान् नारदपाञ्चरात्राद्यागमात्, प्राप्तमिति शेषः। श्रेयस्कारं कल्याणकरम् अस्ति चेत्, तदा वेदैरेव वेदान्तर्गतविधिवाक्यैरेव सवे यज्ञे पशोर्मेषादेः विशसनान् मारणाद् धर्मः हीयते अपि किम् ?अपि तु नैवेत्यर्थः॥३७२॥

  • इतीति। इत्येवम्प्रकारेण श्रुतीनाम् अयुतेन अनन्तश्रुतिकदम्बकेनेतियावत्। विहितस्य प्रतिपादितस्य सवकरणस्य यज्ञकरणस्य आवश्यकतायाः अवश्यकर्तव्यत्वस्यसमर्थनेन प्रतिपादनेन अलं पर्याप्तम्। कीदृशं तत्समर्थनं, करे हस्ते वर्तमानस्य बदरस्य बदरीफलस्य अस्तित्वसाधकस्य सत्ताप्रतिपादकस्य प्रमाणान्तरस्य प्रत्यक्षादन्यस्यानुमानादेः परिकल्पकल्पेन विरचनतुल्येनेति श्रुत्ययुतेत्यादेर्विशेषणं “ईषदसमाप्तौ-” इति कल्पप्प्रत्ययः॥१५९॥*

  • अथ चञ्जीपुरीं वर्णयति—खञ्जीकृतेति। खञ्जीकृतं निरभिमानीकृतम् अखिलानां स्त्रीजनानां हृन् मनो याभिस्तासां रमणीमणीनां स्त्रीरत्नानां मञ्जीराणां नूपुराणाम्मञ्जुतरम् अतिमञ्जलं यत् शिञ्जितं शब्दः तेन रञ्जितः अनुरक्तीकृतः तेन, यूनां तरुणानां गणेन समूहेन पूर्णा, अत एव सञ्जीवितः उग्रेण शिवेन परिवञ्चितः भस्मीकृतः*

    • किञ्च—

ऋक्सामयोश्च यजुषां च निवासभूता
पूता द्विजाः स्मृति-पुराण-कलाधुरीणाः॥
कुर्वन्ति वासमिह कर्कशतर्कशब्द-
तन्त्रत्रयीशिखरशिन्धुतलस्पृशोऽमी॥३७४॥

कृ०—(सहासम्)

नैतद्विभाति नगरं नगरम्यदुर्ग-
प्राकारसाधनदशासु विशां पतीनाम्॥
युद्धोन्नमद्भ467टशिरस्तटनिस्सृतासृक्-468
स्रोतःसहस्रभरविस्रपलास्थि469सान्द्रम्॥३७५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

पञ्चबाणो मदनो यया सा चञ्जीपुरी ‘तञ्जावूर’ इति भाषाप्रसिद्धा नगरी चकास्तिशोभते॥३७३॥

  • किञ्च वेद-शास्त्रनिपुणा विद्वांसोऽप्यत्र सन्तीत्याह—ऋक्सामयोश्चेति। ऋग्ऋग्वेदश्च साम सामवेदश्च तयोः “अचतुर-विचतुर-” इत्यादिनिपातनादच् समासान्तः। यजुषां यजुर्वेदस्येत्यर्थः। इति त्रयाणामपि वेदानामित्यर्थः। निवासभूताःगृहरूपाः सम्पूर्णवेदानामध्येतार इति यावत्। अत एव पूताः पवित्राः, न तुकेवलं वैदिका एव, किन्तु स्मृतयः मन्वादयश्च पुराणानि पाद्म-वैष्णवादीनि चकलाश्चतुःषष्टिसङ्ख्याकाः प्रसिद्धाः ताश्च तासु धुरीणाः प्रवीणाः अपि च कर्कशाःअर्थगाम्भीर्येण कठिनाः ये तर्काः न्यायशास्त्रं शब्दो व्याकरणं तन्त्रं मीमांसा त्रय्याःवेदत्रितयस्य शिखरं वेदान्तशास्त्रं च तान्येव सिन्धवः समुद्राः तेषां तलं स्पृशन्तीतितादृशाः, तेष्वप्यत्यन्तं निपुणा इत्यर्थः। अनेन सर्वज्ञत्वं तेषां सूचितम्। अमी द्विजाब्राह्मणाः इह चञ्जीपुर्यां वासं कुर्वन्ति॥३७४॥*

  • अथ कृशानुः सत्यप्येवं बहुवारं युद्धादिप्रसङ्गान् नैतत्पुरं विभातीत्याह—नैतद्विभातीति। विशां मनुजानां ‘द्वौ विशौ वैश्य-मनुजौ” इत्यमरः। पतीनांराज्ञां नगवत्पर्वतवद् रम्यस्य रमणीयस्य पर्वत इवोन्नतस्येत्यर्थः। अत एव दुर्गस्यगन्तुमशक्यस्य प्राकारस्य सालस्य ‘किल्ला’इति महाराष्ट्रभाषाप्रसिद्धस्य “प्राकारोवरणःसालः”इत्यमरः। साधनदशासु स्वीकारावसरेषु युद्धे समरे उन्नमन्तःजयावेशेन शत्रुषूत्पतन्तः ये भटाः योधास्तेषां शिरस्तटेभ्यः मस्तकप्रान्तेभ्यःनिःसृतानि निर्गलितानि असृजां रक्तानां स्रोतः सहस्राणि प्रवाहसहस्राणि तेषां भरेणअतिशयेन विस्राणि आमगन्धीनि “विस्रं स्यादामगन्धि यत्” इत्यमरः। यानिपलानि मांसानि “पलमुन्मान-मांसयोः” इति रुद्रः। अस्थीनि च तैः सान्द्रं निबिडम् एतन्नगरं चञ्चीपुरं न विभाति विशेषेण न शोभते। युद्धव्यग्रचित्तत्वादतिनिन्द्यत्वाच्चस्वास्थ्याभावादिति भावः॥३७५॥*

    वि०—वयस्य गुणान्वयस्य पुनरस्य नगरस्य निन्दाच्छद्मनाप्रशंसामेव भवान् कृतवान्॥१६०॥

    यतः—

पुरातनानां हि पुरान्तराणां प्रशासितारोऽपि470 दिशासु भूषाः॥
पुरं तदेतद्वपुरन्तमाजौ हन्ताभ्युपेत्याप्यलमर्थयन्ति471॥२७६॥

कृशा०—निरूपणमभिनीय,सास्वरसम्472

हन्त चिरन्तनानामिदानीन्तनानां च वसुन्धराधुरन्धराणामवारणीयोऽसावविवेकः॥१६१॥

पश्य—

प्राज्ये हन्त धने स्थितेऽपि नृवरो राज्येऽपि सत्यूर्जिते
सम्भोगानुगुणा विलोचनगुणैरम्भोजदम्भद्रुहः॥
कल्याणीस्तरुणी473रुपेक्ष्य करुणाहीनः ससेनः स्वयं
हर्तुं शत्रुधरां चिरादभिलषन् मर्तुं रणे जृम्भते॥३७७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • वयस्येति। हे वयस्य मित्र, गुणानां शम-दमादीनां पूर्वश्लोकप्रतिपादितानांशौर्य-तेजआदीनां च अन्वयः सम्बन्धो यस्मिन् तस्य पुनरस्य नगरस्य चञ्जीपुरस्यनिन्दायाः छद्मना निमित्तेन, प्रशंसामेव स्तुतिमेव भवान् कृतवानकरोः॥१६०॥*

  • पुरातनानामिति। हि यस्मात्, दिशासु दशदिक्षु स्थितानामिति शेषः।पुरातनानां पुराणानां, पुराशब्दाट् ट्युः तुडागमश्च “पुराणे प्रतन-प्रत्न-पुरातन-चिरन्तनाः।” इत्यमरः। पुरान्तराणाम् अन्यनगराणां प्रशासितारोऽपि रक्षितारोऽपि सन्तः, सर्वे भूपा राजानः, हन्तेत्यानन्दे। आजौ युद्धे वपुषः शरीरस्य अन्तं नाशम्अभ्युपेत्य स्वीकृत्यापि, तत् प्रसिद्धमेतत्पुरं नगरम् अलम् अत्यर्थम्अर्थयन्ति इच्छन्ति।‘युद्धे मरणमपि भवतु, परं च बहुतरसम्पद्युक्तेऽस्मिन्नेव पुरेऽस्माभिर्वर्तितव्यं’ इति वाञ्छन्तीत्यर्थः॥३७६॥*

  • निरूपणमिति। सास्वरसम् अस्वरसेन असन्तोषेण सहितं यथा तथा—*

  • हन्तेति। चिरन्तनानां पुरातनानाम् इदानीतनानां च अत्राप्युभयत्र “सायं चिरं-” इति सूत्रेण ट्युः तुट् च। वसुन्धरायाः पृथ्व्याः धुरन्धराणां भारभृतां राज्ञां, असौवक्ष्यमाणः अवारणीयः निवारयितुमशक्यः अविवेकः अविचारः। अस्तीति शेषः १६१*

  • अविवेकमेवोपपादयति—प्राज्य इति। हन्तेति खेदे। प्राज्ये बहुले “प्रभूतम्प्रचुरं प्राज्यमदभ्रं बहुलं, बहु।” इत्यमरः। धने स्थिते सत्यपि तथा राज्ये ऊर्जितेधनादिसम्पन्ने च सत्यपि तथैव सम्भोगस्य सुरतस्य अनुगुणाः अनुरूपाः, सुरतयोग्या*

    • वि०—विरुद्धबुद्धे ! विवेकमेव तावदविवेकमाकलयसि474॥१६२॥

तथाहि—

सम्पद्वन्यसरिज्झरीसहचरी शम्पासमं प्राभवं
नार्यः सूर्यकरावलीढरजनी475च्छायासुहृद्यौवनाः॥
देहः स्नेहविहीनदीपसख इत्यालोच्य पृथ्वीश्वराः
प्राणान् जुह्वति नाकमाकलयितुं, शुद्धा हि युद्धानले॥३७८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

इत्यर्थः। विलोचनयोर्नेत्रयोर्गुणैः विशालत्व-सुभगत्वादिरूपैः, अम्भोजानां कमलानान्दम्भद्रुहः गर्वविनाशयित्रीः, किञ्च कल्याणीः कल्याणगुणयुक्ताः राज्यसम्पत्तिवर्धकसल्लक्षणैर्युक्ता इत्यर्थः। एतादृशोऽपि तरुणीःस्त्रीः उपेक्ष्य अनादृत्य, अत एव करुणयादयया हीनः रहितः नृवरः राजा, शत्रोः धरां पृथ्वीं चिराच् चिरकालपर्यन्तं हर्तुम् अपहर्तुमभिलषन् काङ्क्षमाणः सन्, ससेनः सेनया सहितः स्वयं रणे युद्धे मर्तुं प्राणांस्त्यक्तुं समुज्जृम्भते उद्युक्तो भवति। बहुलधन-दारादिसम्पन्नं स्वराज्यमुपेक्ष्य परराज्याभिलाषकरणमविवेकमूलमिति भावः॥३७७॥

  • विरुद्धेति। विरुद्धा युक्तायुक्त विवेकशून्या वस्तुस्थित्यननुरूपा वा बुद्धिर्यस्यतत्सम्बुद्धौ हे विरुद्धबुद्धे इति। विवेकमेव क्षत्रियं प्रति त्वदुक्तरीत्या एव विहितत्वादितिभावः। तावत्साकल्येन अविवेकमाकलयसि कथयसि। त्वमिति शेषः॥१६२॥*

*** सम्पदिति।** हि यस्मात् कारणात् शुद्धाः शास्त्रविहिताचरणेन निर्मलान्तःकरणाः पृथ्वीश्वरा राजानः, सम्पत् सम्पत्तिः वने भवा वन्या सा चासौ सरितो नद्याःझरी प्रवाहः वर्षाकालोत्पन्नवन्यक्षुद्रसरित्प्रवाह इत्यर्थः। तस्याः सहचरी सदृशी, तद्वच्चञ्चलेत्यर्थः। प्रभोः भावः प्राभवं प्रभुत्वं, शम्पया विद्युता “शम्वा शतह्रदा-ह्रादिन्यैरावत्यः क्षणप्रभा। तडित् सौदामिनी विद्युत्” इत्यमरः। समं तुल्यं, तद्वत्क्षणिकमित्यर्थः। तथा नार्यः स्त्रियः, सूर्यस्य करैः किरणैः अवलीढायाः व्याप्तायाः,तत्प्रसरपर्यन्तस्थायिन्या इत्यर्थः। रजन्याः रात्रेः छायायाः सुहृन् मित्रभूतं सदृशमितियावत्। यौवनं तारुण्यं यासां तास्तथोक्ताः, सूर्योदयपर्यन्तस्थायिरजनीवत् स्वल्पकालपर्यन्तस्थायितारुण्यावस्था इत्यर्थः। अपि च देहः स्नेहविहीनः तैलरहितः यो दीपस्तस्य सखा, तद्वदकालनश्वर इत्यर्थः। एवं च धन-दारा-शरीरादिकं सर्वमप्यनित्यमित्यर्थः। इति एवं प्रकारेणालोच्य ज्ञात्वा, न विद्यते अकं दुःखं यस्मिन्निति नाकःस्वर्गः “नभ्राण्-नपान्-नवेदा-” इत्यादिसूत्रेण निपातनान्नञः प्रकृत्यावस्थानम्। तम् आकलयितुं सम्पादयितुं युद्धानले युद्धाग्नौ प्राणान् जुह्वति त्यजन्ति। अयमेव राज्ञां मुख्यो धर्म इति ज्ञेयम्। तदुक्तम् – “द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनी।योगनिर्भिन्नमूर्धैकोऽपरावृत्तमृतः परः।” इति। भगवद्गीतायामपि— “यदृच्छयाचोपपन्नं स्वर्गद्वारमपानृतम्। सुखिनः क्षत्रियाः पार्थं लभन्ते युद्धमीदृशम्।” इति।एवं च विवेक एवायमिति भावः॥३७८॥*

    • शृणु चेमं चमत्कारम्॥१६३॥

रक्ते भटे रणमुखे रुधिरेण तस्मिन् रक्ता भवत्यमरयोषिदनुव्रतेव॥
शूरः स चेदतनुसायकखण्डिताङ्गः साऽप्युच्चकैरतनुसायकखण्डितेव476॥३७९॥

किञ्च—

दीप्रोतिप्रममाश्रितक्षितितलं477 दिव्ये विमाने स्थितो
गाढाश्लिष्टकृपाणपाणि च करग्रस्तामरस्त्रीस्तनः॥
तत्सन्दत्तनखक्षतो बहुतरप्रत्यर्थिबाणक्षतं
युद्धाग्नौहुतजीवितं478 निजवपुर्वीरो मुदा वीक्षते॥३८०॥

अथ पिनाकिनीगरुडनदीश्रीदेवनायकवर्णनम्—३१.

<MISSING_FIG href="../books_images/U-IMG-1722250434Screenshot(10"/>.png)

इत्यन्यत्र विमानं सञ्चारयन् परितो दृष्ट्वा—

पिनाकिनीं पश्य घनाघनाशिनीं जलाच्च लघ्वीं गरुडापगामपि॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

अपि च रक्त इति। रणस्य युद्धस्य मुखे प्रारम्भे रुधिरेण रक्तेन“रुधिरेऽसृग्लोहितास्त्र-रक्त-क्षतज-शोणितम्।” इत्यमरः। रक्ते वक्तवर्णे सति तस्मिन्पुरुषे अमरयोषित् स्वर्गाङ्गना स्वर्वेश्येत्यर्थः। अनुत्रतेव पतिव्रतेव रक्ता रक्तवर्णा अनुरागयुक्ता च भवति। किं च सः शूरः पुरुषः अतनुभिर्बहुभिः सायकैः बाणैः खडितानि छिन्नान्यङ्गानि यस्य सः तथाभूतश्चेद् भवति, तर्हि सापि स्वर्गाङ्गनापि उच्चकैःअतिशयेन अतनुसायकैः बहुभिर्बाणैः अतनोः मदनस्य च बाणैः खण्डितेव छिन्नेवभवति॥३७९॥

  • किञ्च दीप्र इति। वीरः अत एव दीप्रः तेजस्वी, दिव्ये विमाने स्थितः कराभ्यां ग्रस्तौ धृतौ अमरस्त्रियाः देवाङ्गनायाः स्तनौ येन सः, तया अमरस्त्रिया दत्तानिनखानां क्षतानि व्रणानि यस्मै सः तथाभूतश्च सन्, पूर्वम् आश्रितं क्षितितलं पृथ्वीतलंयेन तत्, गाढं यथा तथा आश्लिष्टः कृपाणः खङ्गः येन तथाभूतः पाणिर्हस्तो यस्मिन्तत्, बहुतराणाम् अतिबहूनां प्रत्यर्थिनां शत्रूणां “दस्यु-शात्रव-शत्रवः। अभिघाति-पराराति-प्रत्यर्थि-परिपन्थिनः।” इत्यमरः। बाणानां क्षतानि यस्मिन् तत्,तदेव, युद्धाग्नौ हुतं जीवितं यस्य तद् अत एव अतिप्रभम् अतिशयकान्तियुक्तं निजवपुः स्वकीयशरीरं मुदा, आनन्देन वीक्षते अवलोकयति॥३८०॥*

  • इदानीं पिनाकिनी-गरुडनद्योरधिपतिं देवनायकाभिधं भगवन्तं वर्णयति - पि-*

इदन्तटे राजति देवनाय कः परोऽत्र479 सर्गादिव480देवनायकः॥३८१॥

<MISSING_FIG href="../books_images/U-IMG-1723003324Screenshot2024-07-11131326.png"/>

अथ श्रीमुष्णक्षेत्रयज्ञवराहवर्णनम्—३२.

<MISSING_FIG href="../books_images/U-IMG-1722250991Screenshot(9"/>.png)

इतरत्र विमानं प्रस्पन्दयन् सानन्दम्—

अद्य प्रत्नं पक्त्रिमं सच्चरित्रम्481 देवः प्रीतः सुप्रभाता निशा मे॥
श्रीमुष्णं यन्मुष्णदंहःसहस्रं482 क्षेत्रं प्राप्तं नेत्रयोः पात्रभावम्483॥३८२॥

अत्र हि—

वरा वराहरूपिणी चराचरान्तरस्थिता
सुरासुरानुसेविता धराधरादिदेवता484

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

*** नाकिनीमिति।** घनानि बहूनि च यानि अघानि पापानि तेषां नाशिनीं जलात्लघ्वीम् अल्पां, खल्पजलामिति यावत्। पिनाकिनीम् एतन्नामिकां नदीं पश्य अवलोकय। तथा गरुडापगां नाम नदीमपि पश्य। किं वा एतयोरेतावन्माहात्म्यं यद्द्रष्टव्यम्इत्याकाङ्क्षायामाह—इदन्तट इति। एतयोः पिनाकिनी-गरुडनयोस्तटे तीरे, सर्गात्प्राकृतप्रपञ्चात् परत्र इव परत एव तस्मादलिप्त इत्यर्थः। अत्र इवेति निश्चये। तत्त्वत एव प्रपञ्चात् परत्र वर्तमाने भगवति उत्प्रेक्षादेरसम्भवात्। देवनायकः एतन्नामा कः परमात्मा विष्णुः “को ब्रह्मणि समीरात्म-यम-दक्षेषु भास्करे। मयूरेऽग्नौ च पुंसि” इति मेदिनी। देवनाय क्रीडार्थं राजति शोभते। भगवन्निवासाद्दर्शनीयमिदंस्थलमिति भावः ॥ ३८१ ॥*

  • अथ श्रीमुष्णक्षेत्रस्थयज्ञवराहवर्णनं प्रतिजानीते। इदं च रामानुजीयानां प्रसिद्धस्थानानामेकतमं प्रियं च दक्षिणतः ‘अर्काडु’ इति तद्भाषाप्रसिद्धे प्रान्ते वर्ततेइति पुस्तकान्तरादुपलभ्यते।*

  • अद्येति। अद्य मम, एतदग्रेऽपि योज्यम्। प्रत्नं पुरातनं प्राग्जन्मकृतमितियावत्। सच्चरित्रं सत्कर्माचरणं पक्रिमम् फलाभिमुखं जातम्। देवो भगवान् प्रीतःतुष्टः, तथा निशा रात्रिः सुप्रभाता शोभनफलप्रदप्रातःकाला जातेति शेषः। यद्यस्मात् कारणाद् अंहसां पापानां सहस्रं मुष्णन् नाशयितृ। “मुष स्तेये’ इति क्र्यादेर्धातोः शत्रन्तस्य रूपमिदम्। श्रीमुष्णं नाम क्षेत्रं मे मम नेत्रयोः पात्रभावं दृष्टिगोचरत्वमित्यर्थः। प्राप्तम्। तस्मादिति सम्बन्धः ॥ ३८२ ॥*

  • पूर्वत्र ‘मुष्णदंहःसहस्रं’ इत्युक्तमेव सहेतुकमुपपादयति—वरेति। वरासकलदेवश्रेष्ठा चराचरयोः स्थिर-चञ्चलयोः अन्तरे चित्ते स्थिता, अन्तर्यामिरूपेणेत्यर्थः। सुरा देवा असुरा दैत्याश्च तैरनुसेविता, धरां पृथ्वीं धरति उद्धारयतीति*

सदा सदावलिस्तुता मुदामुदारशेवधि-
र्हिता हि तार्क्ष्यकेतना नता485न तापतां नयेत्॥३८३॥

श्रीमत्कवीन्द्रश्चात्र कश्चिदित्थमनुसन्धत्ते॥१६४॥

सदावदातनिम्नगातटीकुटीरवासिनी
कटिस्फुटीभवत्करा किटीश्वरी पटीयसी॥486
रसारसादिहोदिता रसालसालसंवृते
वनेऽवनेषु दीक्षिता मदीक्षिताधिदेवता487॥३८४॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

धराधरा, रसातलगतायाः पृथ्व्या दंष्ट्राप्रेणोद्धारयित्रीत्यर्थः। अत एव सदा सततं सतां साधूनाम् आवल्या पङ्क्त्यास्तुता प्रशंसिता, मुदां निरतिशयात्मानन्दानाम् उदारोमहान् शेवधिः समुद्रः तद्रूपेत्यर्थः। हिता निखिलजगद्धिकर्त्री, तार्क्ष्यकेतना गरुडध्वजा एतादृशौआदिदेवता वराहरूपिणी सूकररूपधारिणी, नता नमस्कृता सती,तापतां संसारसम्बन्धितापत्रयरूपं न नयेन् न प्रापयेत्। हिरवधारणार्थकः॥३८३॥

  • अत्रार्थे अन्यकवेरपि सम्मतिं द्योतयन्नाह—श्रीमदित्यादि। अनयोक्त्याऽग्रिमपद्यं न प्रस्तुतकवेरिति प्रतिभाति॥१६४॥*

  • सदेति। रसायां भूमौ “भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा।” इत्यमरः। रसात् प्रीतेर्हेतोः “रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे। बोले रागे गृहेधातौ तिक्तादौ पारदेऽपि च।”इति हैमः। इह रसाला आम्रवृक्षाश्च सालाः सर्जवृक्षाश्च तैः (“आम्रश्चूतो रसालोऽसौ” “साले तु सर्ज-कार्श्याश्वकर्णकाः सस्यसंवरः।” इत्युभयत्राप्यमरः। संवृते वेष्टिते वनेऽरण्य उदिता उत्पन्ना सदा अवदातागौरवर्णा शुद्धा वा “अवदातः सितो गौरः” इत्यमरः। या निम्नगा नदी पिनाकिनी तस्यास्तटी तीरं “कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु” इत्यमरात् तट-शब्दस्य त्रिलिङ्गत्वम्। तस्यां यत् कुटीरम् अल्पगृहं गुहारूपमित्यर्थः। “कुटी-शमी-शुण्डाभ्यो रः” इति सूत्रेणात्पार्थे रप्रत्ययः। “वासः कुटी द्वयोः शाला सभासञ्जवनं त्विदम्।” इत्यमरः। तस्मिन् वासिनी निवासिनी कठ्यां स्फुटीभवन् प्रत्यक्षतया दृश्यमानः करो हस्तो यस्याः सा किटीनां वराहाणाम् ईश्वरी स्वामिनी आदिचराहरूपिणीत्यर्थः। “वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः।” इत्यमरः। पटीयसी अघटितघटनाचतुरा, पटुशब्दात् “द्विवचनविभज्य–” इत्यादिना ईयसुनि टिलोपः। अत एवअवनेषु पालनेषु दीक्षिता गृहीतव्रता एतादृशी आदिदेवता मदीक्षिता मया अवलोकिता॥३८४॥*

    • कु० —

सोऽयं488 हेयप्रत्यनीकोऽपि शार्ङ्गी कष्टं पृथ्वीकाङ्क्ष्यामूद्वराहः॥
इत्थं सिद्धे ब्रूहि भूलाभलोभात्कं कं वेषं मानुषो नेह धत्ते489॥३८५॥

वि० — अनभिज्ञो भवान् भगवदवताररहस्यस्य॥१६५॥

शृणु —

पाठीनीयं कामठं कैटभारिः कैटं रूपं यातु काण्ठीरवं वा॥
अन्यद्वा यत्सर्वमप्राकृतं तन्नासौ तेष्वप्युज्झति स्वस्वभावम्॥३८६॥

किं च—

कोलं भुवि कोऽलं जगदालम्बमवैतम्
स्वामी शुभकामी किल भूमीमसुरार्ताम्490

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • सोऽयमिति। सः अयं त्वया वर्णितः शार्ङ्गीश्रीविष्णुः, हेयानां राग-द्वेषादिप्राकृतदोषाणां प्रत्यनीको विरुद्धः तद्रहितोऽपीत्यर्थः। पृथ्व्याः काङ्क्ष्यावाञ्छया वराहःसूकरः अभूद् इति कष्टम् अन्याय्यम्। यतः इत्थं भगवतोपि पृथ्वीलाभहेतुना पशुरूपस्वीकारे सिद्धे सति, इह लोके भूलाभलोभात् पृथ्वी प्राप्तिकाङ्क्षायाः हेतोः, मानुषोमनुष्यः कं कं नीचतरं वेषं न धत्ते स्वीकरोति। को वा आढ्योपि सन् सेवकत्व-याचकत्वासत्याचरणानृतभाषणादि न करिष्यतीत्यर्थः। अपि तु भगवदुदाहरणात् सर्वमपिकरिष्यत्येवेत्यर्थः। एतत् सत्यमसत्यं वेति ब्रूहि॥३८५॥*

  • अनभिज्ञ इति। भवान् भगवत ईश्वरस्यावताराणां रहसि भवं रहस्यं तस्य,गौप्यस्येत्यर्थः। “रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु।” इत्यमरः। अनभिज्ञःअभिजानातीत्यभिज्ञः तथा न भवतीत्यनभिज्ञः, तन्न जानातीत्यर्थः॥१६५॥*

  • अनभिज्ञत्वमेवाह – पाठीनीयमित्यादिना। कैटभारिः कैटभनामकासुरशत्रुःश्रीविष्णुः, पाठीनस्य सहस्रदंष्ट्राभिधमत्स्यविशेषस्येदं पाठीनीयं ‘तस्येदम्’ इत्यर्थे छः तस्य च इयादेशः। “सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ।” इत्यमरः। कमठस्य कूर्मस्येदं कामठं पूर्वोक्तेऽर्थे एवाण्। “कूर्मे कमठ-कच्छपौ” इत्यमरः। चाथवा किटेर्वराहस्येदं कैटं, कण्ठीरवस्य सिंहस्येदं काण्ठीरवं वा रूपं यातु प्राप्नोतु,अन्यद् अश्वादिरूपं वा यातु। तथापि यद्यद्भगवान् रूपं धत्ते, तत्सर्वम्अप्राकृतं प्रकृतिसम्बन्धरहितं यद्यस्माद् असौ भगवान् तेषु रूपेषु स्वीकृतेष्वपि स्वस्य स्वभावंसामर्थ्यं न उज्झति न त्यजति। यथा-मत्स्यरूपेण वेदोद्धारणं, कूर्मरूपेण मन्दराचलधारणं, वराहेण धरण्युद्धारण-मित्याद्यूत्यम्। नैतत् प्राकृतेन रूपेण कर्तुं शक्यमितिभावः॥३८६॥*

  • पुनरपि तमेव वराहं वर्णयति—कोलमिति। जगतः आलम्बम् आश्रयं कोलं वराहं “कोलः पोत्री किरिः किटिः।” इत्यमरः। भुवि अवैतुं ज्ञातुं, अवपूर्वकात्*

वाराशिगभीराम्भसि काराभवनेऽभि-
ग्रस्तामिह491 मुस्तामिव यस्तामुदहार्षीत्॥३८७॥

सभक्तिप्रकर्षं यज्ञवराहमभिध्यायन् तमामन्त्र्य—

द्राघिष्ठं कुहनावराह ! भगवन्दंष्ट्रात्मकं ते दृढ492-
स्तम्भं सम्प्रति चिन्तयामि जलधिस्नेहौघसम्पूरिता493
यस्मिन्विन्दति दीपभाजनविधामामोदिनी मेदिनी
चित्रस्तत्र च रत्नसानुरयते निष्कम्पदीपाकृतिम्॥३८८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

‘इण् गतौ’ इत्यादादिकात् तुमुन्। “एत्येधत्यूठ्सु–” इति वृद्धिः। कः पुरुषःअलं समर्थः ?। कोपि नैवेत्यर्थः। यतः यः शुभानि भक्तकल्याणानि कामयते वाञ्छति तच्छीलः स्वामी सकलजगदधिपतिः वराहः, असुरेण हिरण्याक्षनामकदैत्येनआर्ताम्पीडितां भूमिं पृथ्वीं, वाराशेः समुद्रस्य गभीरे निम्ने अम्भसि उदके तद्रूपेइत्यर्थः। काराभवने बन्धनालये “कारा स्याद्बन्धनालये” इत्यमरः। स्थितां ताम्पृथ्वीम् अभिग्रस्तां भक्षितां मुस्तामिव वराहभक्ष्यदूर्वासदृशद्रव्यविशेषमिव ‘नागरमोथा’ इति महाराष्ट्रभाषा-प्रसिद्धमिवेत्यर्थः। इह लोके उदहार्षीत् समुद्दधार। तङ्कोलमिति सम्बन्धः। अस्य वृत्तस्य वृत्तरत्नाकरादौ लक्षणं नोपलभ्यते। चित्रवृतेष्वस्यान्तर्भावः (?)॥३८७॥

  • एवं संवर्ण्य भक्त्या तमेव चिन्तयति—द्राघिष्ठमिति। कुहना दम्भेनकपटेनेति यावत् “कुहना दम्भचर्यायामीर्ष्यालो कुहनस्त्रिषु।” इति मेदिनी।वराहः सूकररूपधरः तत्सम्बोधने हे कुहनावराह, हे भगवन्, ते दंष्ट्रात्मकं दंष्ट्रारूपं द्राघिष्ठम् अतिदीर्घं दृढस्तम्भम् अशिथिलस्तम्भं सम्प्रति इदानीं चिन्तयामि स्मरामि।यस्मिन् स्तम्भे जलधिः समुद्र एव स्नेहौघः तैलपूरःतेन सम्पूरिता, अत एव आमोदिनी आनन्दवती मेदिनी पृथ्वी दीपभाजनस्य दीपपात्रस्य विधां प्रकारं विन्दतिप्राप्नोति। किञ्च तत्र पात्रे चित्रः चित्रवर्णः रत्नसानुः सुमेरुः “मेरुः सुमेरुर्हेमाद्रीरत्नसानुः सुरालंयः।” इत्यमरः। निष्कम्पः चलनरहितः अकृत्रिमत्वाज्जडत्वाच्चवातादिभयाभावादित्यर्थः। स चासौ दीपश्च तस्य आकृति आकारम् अयते प्राप्नोति। तं स्तम्भमिति सम्बन्धः॥३८८॥*

अथ कावेरीवर्णनम्—३३.

<MISSING_FIG href="../books_images/U-IMG-1722331723Screenshot(9"/>.png)

इत्यन्यत्राभिक्रामन् मन्दानिलस्पर्शसुखमभिनीय सानन्दम् —

कह्लारोत्पलतल्लजोल्ललनव494त्कल्लोलनिर्लोलन-
क्रीडापाटवगाढरूढहिमतासौरभ्यविभ्राजितः॥
कावेरीसलिलाबगाहरसिकः कस्यैव नेड्योमरुत्
क्लान्तानां पुनरध्वनीनवपुषां यन्निर्धुनीते श्रमम्॥३८९॥

कावेरीझरीं495 निरीक्ष्य496 सशिरःकम्पम् —

हन्त रङ्गपुरसङ्गतमत्राहं तरङ्गचलपङ्कजसङ्घम्॥
सह्यजायतझरं बहु मन्ये स ह्यजायत तमः शमनार्थम्॥३९०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

अथ कावेरीं वर्णयितुमुपक्रमते—इतीत्यादि। अभिक्रामन् अभिगच्छन् “वाभ्राश-भ्लाश-” इत्यादिना श्यनभावपक्षे शप्। “क्रमः परस्मैपदेषु” इति दीर्घः।अभिनीय प्रकटीकृत्य —

  • कह्लारेति। कह्लाराणि सुगन्धीनि यानि उत्पलानि कमलानि तानि कह्लारोत्पलानि प्रशस्तानि च कह्लारोत्पलानि कह्लारोत्पलतल्लज्जाः “प्रशंसावचनैश्च”इति समासः। “मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ। प्रशस्तवाचकान्यमूनि”इत्यमरः। तेषाम् उल्ललनम् उन्नयनं विद्यते यस्मिन् तथाभूतं यत् कल्लोलेषु महातरङ्गेषु निर्लोलनम् ऊर्ध्वाधोभ्रमणं तद्रूपा या क्रीडा तस्यां यत्पाटवं कुशलवं तेन गाढम् अतिमात्रंरूढाभ्यां हिमता शीतलता च सौरभ्यं सौगन्ध्यं च ताभ्यां विभ्राजितः विराजितः, एतादृशः कावेर्याः नद्याः सलिले जले योऽवगाहः स्नानं तस्मिन् रसिकः अनुरक्तः एषः मरुद् वायुः, “मरुतौ पवनामरौ” इत्यमरः। कस्य पुरुषस्य ईड्यः स्तुत्यः न भवति? यद् यस्मात् कारणात् क्लान्तानाम् अतिमार्गक्रमणश्रान्तानाम् अध्वनीनानाम्पथिकानां, अध्वन्शब्दात् “अध्वनो यत्खौ” इति अलङ्गच्छतीत्यस्मिन्नर्थे खः“आत्माध्वानौ खे,” इति टिलोपो न। “अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिकइत्यपि।” इत्यमरः। वपूषि शरीराणि तेषां श्रमं क्लमं निर्धुनीते निवारयति। अतःस मरुत् सर्वस्यापि स्तुत्य इति भावः॥३८९॥*

  • पुनरपि तामेव कावेरीझरीं वर्णयति—हन्तेति। हन्तेति हर्षे। अत्र पुरोवर्तिभागेरङ्गपुरेण श्रीरङ्गनाथक्षेत्रेण सङ्गतं मिलितं तरङ्गैर्लहरीभिः चलाञ्चैञ्चलाः पङ्कजानाङ्कमलानां सङ्घाः समुदाया यस्मिंस्तम् एतादृशं सह्यजायाः सह्याद्रेरुत्पन्नायाः कावेर्याः आयतं दीर्घ झरं प्रवाहं, अहं बहु अतिशयेन मन्ये मानयामि। हि यस्मात् सः*

  • *एषा खलु497दोषाकुलसकलमनुजकुल498सकलकलुषशोषणबद्धकङ्कणा499। निजतटनिविडतमबकुलधवल-कुल500तिलकामलकाविरलसरलकुन्दचन्दनमन्दारसहकारकेरलकेसर501सरलबदरकदम्बकदम्बक502गम्भीर-जम्बीरजम्बूसम्पूर्णपर्णकुसुमपलाशसमृद्धकपित्थलोध्रनीरन्ध्रशिलीन्ध्रपाटलपटलजटिलक्रमुकप्रमुखवि-शङ्कटविटपिमञ्जरीपुञ्जसञ्जरीजृम्भदुरुतरश्रमशमकरमकरन्दरस-

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

कावेरीप्रवाहः तमसः अज्ञानस्य पापस्य वा शमनार्थं विनाशार्थम् अजायतप्रकटीबभूव॥३९०॥

  • एषेति। एषा कावेरी नदी खलु दोषैः पापैराकुलानि व्याप्तानि यानि सकलमनुजकुलानि निखिलमनुष्यवृन्दानि तेषां सकलकलुषाणां सकलपातकानां शोषणे नाशनेबद्धं कङ्कणं यया सा तदर्थङ्कृतनिश्चयेति यावत्। निजतटे स्वकीयतीरे निबिडतमाःअतिसान्द्राः ये बकुला बकुलवृक्षाश्च धवलकुलानि अर्जुनवृक्षसमूहाश्च तिलकाःक्षुरकाश्च “तिलकः क्षुरकः श्रीमान्” इत्यमरः। आमलकाश्च अविरला निबिडाःसरलाःपीतद्रुसञ्ज्ञकवृक्षाश्च “पीतद्रुःसरलः पूतिकाष्ठं” इत्यमरः। कुन्दाश्च चन्दनाश्च मन्दाराः पारिजातकाश्च “मन्दारः पारिजातकः इत्यमरः। सहकाराआम्रवृक्षाश्च केरलाश्च वृक्षविशेषाः केसराश्च सरलाश्च क्वचित् सरस इति पाठः।तत्पक्षे बदरविशेषणम्। बदराश्च कदम्बा नीपाश्च “तूलं च नीप-प्रियक-कदम्बास्तुहलिप्रिये।” इत्यमरः। तेषां वृक्षविशेषाणां कदम्बकं समूहः तथा गम्भीरा येजम्बीराश्च जम्ब्वः जम्बूवृक्षाश्च, जम्बूशब्दः स्त्रीलिङ्गः। “बार्हतं च फले जम्ब्वाजम्बू स्त्री जम्बु जाम्बवम्।” इत्यमरात्। सम्पूर्णानि समग्राणि निबिडानीति यावत्।पर्णानि कुसुमानि पुष्पाणि च येषु तादृशाः पलाशाः किंशुकाः “पलाशे किंशुकःपर्णो वातपोतोऽथ वेतसे।” इत्यमरः। समृद्धाः ये कपित्थाः लोध्राश्च तैः नीरन्ध्राःसान्द्राः शिलीन्ध्राः पाटलाश्च तेषां पटलानि समूहाः “समूहे पटल न ना”इत्यमरः। तैश्च जटिला निबिडाः अन्योन्यसम्मिश्रा इत्यर्थः। ये क्रमुकाः पूगवृक्षाश्च “घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु।” इत्यमरः। ते सर्वे प्रमुखाः मुख्याः येषु ते ये विशङ्कटाः विशालाः “विशङ्कटं पृथु बृहद्विशालं पृथुलं महत्।”इत्यमरः। विटपिनो वृक्षाः तेषां मञ्जरीपुत्रेभ्यः मञ्जरीसमूहेभ्यः सञ्जरीजृम्भन्अत्यन्तं प्रवहन्, जृम्भतेर्यङ्लुकि द्वित्वे च “रीगृदुपधस्य च ” इत्यभ्यासस्य रीगागमः। उरुतरः अतिबहुलः श्रमशमकरः ग्लानिनिवारकः मकरन्दरसः पुष्परससारन्तस्य सुग्रसने सुष्ठु पाने तात्पर्यम् अत्यन्तासकत्वं तेन पर्यटन्तः परितो भ्रमन्तः अदभ्राणां बहूनां विभ्रमाणामालम्बा आश्रयभूताः रोलम्बा भ्रमरास्तेषां निकुरम्बैः समूहैः*

सुग्रसनतात्पर्यपर्यटददभ्रविभ्रमालम्बरोलम्ब503निकुरम्बकरम्भित504तया कलिन्दनन्दिनीप्रतिच्छन्दतामनु-विन्दन्ती। निशाकलितविशालसुरतदशाभव505श्रमशालिक्षितीशालि506निशान्तकृशाङ्गीजनमज्जनवेलादोला-यितपृथुलहारप्रत्युप्तमुक्ताफलरुचिनिचयपरिचयरचितया शुचितया पीताम्बरपदाम्बुरुहसम्भवसरिद-म्बुडम्बरं विडम्बयन्ती507। सन्ततमन्तर्गतचिरन्तनपुरुषतरूषतल्पीभवदनन्तफणामणिघृणि- श्रेणी508शोणीभूततया सरस्वतीमनुकुर्वन्ती। पार्श्वद्वय्यामपि नैयमिककर्मानुष्ठानश्रद्धाबद्धासनशुद्धावनी सुरारब्धानवद्य509ब्रह्मयज्ञसमयसमधिगत510मन्त्रब्राह्मणाम्रेडनपूर्वकमजस्रं सहस्रपत्रम511ध्यमध्यासीनानां श्रीरङ्गराजना-भिसरोजविराजमाननिखिलनिगमपठनमुखरचतुर्मुखवैख-

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

“समुदायः समुदयः समवायश्चयो गणः। स्त्रियां तु सहतिर्वृन्दं निकुरम्ब कदम्बकम्।समूहे”इत्यमरः। करम्भिततया व्याप्ततया कलिन्दनन्दिनी यमुना तस्याः प्रतिच्छन्दतान्तुल्यताम् अनुविन्दन्ती प्राप्नुवती। तथा निशायां रात्रौ आकलितं चरितं यद् विशालं सुरतं बहुव्यवायः तस्य दशायामवस्थायां भवो जातो यः श्रमः तेन शालीयुक्तः क्षितीशालीनां राजसमूहानां निशान्तकृशाङ्गीजनः अन्तःपुरस्त्रीसमूहः तस्यमज्जनवेलायां स्नानवेलायां दोलायिताः दोलावदाचरिताः ये पृथुला महान्तो हाराः तेषु प्रत्युप्तानि खचितानि यानि मुक्ताफलानि मौक्तिकानि तेषां रुचिनिचयस्य कान्तिसमूहस्य परिचयेन रचितया निर्मितया शुचितया शुभ्रत्वेन पीताम्बरस्य विष्णोःपदाम्बुरुहाच् चरणकमलात् सम्भव उत्पत्तिर्यस्याः सा सादृशी या सरिद् गङ्गानदीतस्याः अम्बुडम्बरम् उदकाडम्बरं विडम्बयन्ती अनुकुर्वती। तथा सन्ततं निरन्तरमन्तर्गतः अन्तः स्थितो यश्चिरन्तनपुरुषः श्रीरङ्गनायकाख्यो भगवान् तस्य तल्पीभवन्शयनरूपीभवन् योऽनन्तः शेषः तस्य फणामणीनां घृणिश्रेणीभिः किरणपङ्क्तिभिः “किरणोऽस्र-मयूखांशु गभस्ति-घृणि-रश्मयः।” इत्यमरः। शोणीभूततया रक्तीभूतत्वेन सरस्वतीं नाम नदीमनुकुर्वन्ती, तथा पार्श्वद्वय्यां तीरद्वयेऽपीत्यर्थः। द्वय्यामित्यत्रायचः स्थानिवद्भावेन तयप्प्रत्ययान्तत्वात् “टिठ्ठाणञ्—” इत्यादिना डीप्। नैयमिकानि नियमसम्बन्धीनि यानि कर्माणि तेषामनुष्ठाने या श्रद्धा आस्तिक्यबुद्धिःतया बद्धानि रचितान्यासनानि यैस्ते अत एव शुद्धाः पवित्रा ये अवनीसुरा ब्राह्मणास्तैरारब्धोयो ब्रह्मयज्ञः तत्समये समधिगतानि प्राप्तानि मन्त्रब्राह्मणानि वेदमन्त्राइत्यर्थः। तेषाम् आम्रेडनपूर्वकं द्विस्त्रिरुच्चारणपूर्वकं “आम्रेडितं द्विस्त्रिरुक्तम्” इत्यमरः। अजस्रं निरन्तरं सहस्रपत्रमध्यं कमलमध्यमध्यासीनानां श्रीरङ्गराजस्य भगवतः नाभिसरोजे नाभिकमले विराजमानस्य शोभयानस्य निखिलनिगमानां चतुर्णामपि

रीं व्याचक्षमाणानां512 मदकलमरालयूनां वरटापरिरम्भचुम्बन513मुखानङ्गसङ्गरप्रक्षोभसमुत्सृत्वरै514रभि-रामतामरसपरागैरभिनवचन्दनरसमसृण515शरीरेव। सलीलमाकण्ठनिमग्नमूर्तीनां सुगात्रीणां वदनैरदसीये पयसि विहायसाध्या516सेन समागतश्चन्द्रमाः सन्निहितश्रीरङ्गधामा स्वसमाननामा विधुर्विरचितानेकावतार इतीर्ष्यया स्वयमपि बहूनि रूपाणि विदधानो विराजत इति भ्रान्त्यां517सत्यामनुरागमान्द्यसम्पादि-कायामितरेतरदृढाश्लेषविशेषोन्मिषत्तोषाभिः कोकदम्पतीपरम्पराभिर्निराकृतायामकुण्ठोत्कण्ठेन युव- लोकेननिर्निमेषमवलोक्यमानै518रलङ्कृता सरस्वत्याभिमुख्येन519 कवेरात्मजेति प्रसिद्धिं सार्थ-

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

वेदानां पठनेन मुखरा शब्दायमाना या चतुर्मुखवैखरी ब्रह्मवाणी तां व्याचक्षमाणानां स्पष्टीकुर्वतां मदकलानां मदोत्कटानां “मदोत्कटो मदकलः” इत्यमरः। मरालयूनां तरुणहंसानां वरटाभिः हंसयोषिद्भिः सह “हंसस्य योषिद्वरटा” इत्यमरः। परिरम्भः आलिङ्गनं चुम्बनं च मुखं मुख्यं यस्मिंस्तादृशं यदनङ्गसङ्गरं मदनयुद्धं सुरताचरणमित्यर्थः। तस्य प्रक्षोभेन समुत्सृत्वरैः निःसृतैः समुत्पूर्वकात्सर्तेः “इण्-नश्-जि-सर्तिभ्यः—” इति क्वरप् प्रत्ययः, पित्त्वात्तुगागमः। अभिरामतामरसपरागैः मनोहरकमलरजोभिः अभिनवचन्दनरसेन मसृणमुपलिप्तं शरीरं यस्याः सेव, तथासलीलं यथा तथा आकण्ठं कण्ठपर्यन्तं निमग्नाः जलाच्छादिताः मूर्तयो देहा यासान्तासां सुगात्रीणां सुन्दरशरीराणां स्त्रीणां वदनैः मुखैः, हेतौ तृतीया। अदसीये अस्याःकावेर्याः सम्बन्धिनि पयसि जले विहायसाध्यासेन आकाशभ्रान्त्या समागतश्चन्द्रमाःसन्निहितं समीपं श्रीरङ्गस्य भगवतः धाम स्थानं यस्य सः तथाभूतः सन् आत्मना समानं तुल्यं नाम विधुरिति यस्य सः, विधुः विष्णुः “विधुर्विष्णौ चन्द्रमसि”इत्यमरः। विरचिताः धृताः अनेके बहव अवतारा येन तथोक्तः इति एवंरूपयाईर्ष्यया अक्षमया स्वयं चन्द्रमा अपि बहूनि रूपाणि विदधानः धारयन् सन् विराजति शोभते। इत्येवंरूपायाम् अनुरागस्य प्रेम्णः मान्द्यसम्पादिकायां मन्दत्वोत्पादिकायाम्भ्रान्त्यां सत्यां, ततः इतरेतरदृढाश्लेषे परस्परदृढालिङ्गने विशेषेणातिशयेन उन्मिषन्
उत्पद्यमानः तोषः सन्तोषो यासां ताभिः कोकदम्पतीपरम्पराभिः चक्रवाकमिथुनपङ्क्तिभिः निराकृतायां, ‘यद्येते सर्वे चन्द्राः स्युस्तर्हि नास्माकं परस्परालिङ्गनं सम्भवति, परञ्चेदानीमेतत्सम्भवति, तस्मान्नेमे चन्द्राः, किन्तु स्त्रीणां मुखान्येव’ इति निवारितायांसत्यां, अकुण्ठाअप्रतिहताउत्कण्ठायस्य तेन युवलोकेन तरुणजनेन निर्निमेषन्नेत्रमीलनरहितं यथा स्यात्तथा अवलोक्यमानैः स्त्रीमुखैरिति शेषः। अलङ्कृता, सरस्वत्याः वेदशास्त्रवाण्याः सरस्वति समुद्रे च आभिमुख्येन साम्मुख्येन पण्डितबाहुल्यात्

यन्ती। शान्तनवास्पदतया गाङ्गेयतरङ्गिणीति सञ्ज्ञामन्वर्थयन्ती। सम्मज्जने520दुरितहराऽपि नमज्जनदुरितहरा निराकृतपथिकश्रान्तिः स्रवन्तीयं521कन्दलयति चक्षुषोरमन्दमानन्दम्॥१६६॥

प्रहसति भवशोषकरी भवेन परितोषिता सुवर्णनदी॥
दुर्वर्णरुचि522रफेनैः सह्यसुता जाह्नवीमसह्यसुताम्॥३९१॥

पुनः सश्लाघम्—

स्वर्णवन्तं विदुः कान्तं रामां हेमापगामिमाम्॥
दाम्पत्यमनयोरेतदनुरूपं विशोभते॥३९२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • प्रयत्नमन्तरा सम्पादनेन, समुद्रे च प्रेमातिशयेन चेत्यर्थः। कवेः पण्डितस्य आत्मजा कवेरस्य सह्याद्रेः आत्मजा कन्येति च प्रसिद्धिं ख्यातिं सार्थयन्ती यथार्थीकुर्वन्ती।शन्तनोरपत्यं शान्तनवो भीष्मः तस्य, शान्तानां शमयुक्तानां नवाः स्तुतयश्च तासां चआस्पदतया स्थानतया योग्यतया च गाङ्गेयतरङ्गिणी भीष्मजननी गङ्गेत्यर्थः। पक्षेगाङ्गेयं सुवर्णं तन्मयी तरङ्गिणीति च “स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम्।तपनीयं शातकौम्भं गाङ्गेयं भर्म कर्बुरम्।” इत्यमरः। सञ्ज्ञां नाम अन्वर्थयन्तीअर्थयुक्तां कुर्वन्ती। सम्मज्जनेन स्नानमात्रेण दुरितहरापि पापहरापि, मज्जनदुरितहरा नभवति इति विरोधः, नमतां नमस्कुर्वतां जनानां दुरितहरा इत्यर्थेन च तत्परिहारः। निराकृता निवारिता पथिकानां पान्थानां श्रान्तिः श्रमो यया सा इयं कावेरीनाम स्रवन्ती नदी चक्षुषोर्नेत्रयोः अमन्दं बहुलम् आनन्दं कन्दलयति उत्पादयति॥१६६॥*

  • पूर्वस्मिन् गद्ये गङ्गासाम्यं प्रतिपान्दित कावेर्याः, अधुना गङ्गाया अप्याधिक्यप्रतिपादयति उत्प्रेक्षया—प्रहसतीति। भवस्य संसारस्य शोषकरी नाशकरी भवेनशिवेन संसारेण च परितोषिता, सह्यस्य सह्याद्रेः सुता कन्या तत्रोत्पन्नेत्यर्थः। सुवर्णाशोभनवर्णयुक्ता, सुवर्णा कनकमयी च नदी कावेरी, दुर्वर्णैःकृष्ण-ताम्रादिरागैः, दुर्वर्णमिवरजतमिव च “दुर्वर्णंरजतं रूप्यम्” इत्यमरः। रुचिराः मिश्रिताः सुन्दराश्व फेना तैःअसह्यस्य निन्द्यत्वात् सोढुमशक्यस्य “अकारो वासुदेवः स्यात्” इति कोशाद् अस्यविष्णोः सह्यां मनोहरत्वात् सहनीयां लालनीयामिति यावत्। सुतां कन्यां जाह्नवीङ्गङ्गां प्रहसति उपहसत्येवेति गम्योत्प्रेक्षेयम्। श्लेषमूलिका गम्योत्प्रेक्षेयम्॥३९१॥*

  • पुनरपि सश्लाघमाह—स्वर्णवन्तमिति। इमं कान्तं पतिं स्वर्णं कनकमस्यास्तीति तद्वन्तं, त प्रसिद्धम् अर्णवं समुद्रं च विदुः जानन्ति। इमां कावेरीं हेमापगांसुवर्णनदीं रामां कान्तां च विदुः जानन्ति। अत एव एतद् अनयोर्जायापत्योःदाम्पत्य अनुरूपं योग्यं विशोभते विशेषेण राजते॥३९२॥*

** कृ०**—साक्षेपम्—

परिशोभिताम्रपार्श्वा मध्यमहितरङ्ग523राजतः स्फुरिता॥
कथमिव दधाति कीर्तिं कावेरी कनकनिम्नगेत्येषा॥३९३॥

** विश्वावसुः**—आपातदूषणमिदं निरूप्यमाणमस्या524 गुण एव स्यात्पश्य तावदेतस्या525 रामणीयकम्॥१६७॥

पीताम्बरालङ्कृतमध्यभागा कह्लारमालाकमनीयवेणी॥
सह्याद्रिकन्या जनकस्य गेहात् पत्युः समीपं व्रजति प्रसन्ना॥३९४॥

पुनर्निर्वर्ण्य496

उद्गच्छदच्छतम526गुच्छलसच्छिरस्का-
स्तीरद्वयेऽपि तरवः प्रतिभान्त्यमुप्याः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

अत्राक्षिपतिकृशानुः—परिशोभीति। परितः आसमन्तात् शोभिनौताम्रमयौ पार्श्वौयस्याः सा, परितः आसमन्तात् शोभिताः फल-पुष्पसम्पन्नत्वेन विराजिताः आम्राः आम्रवृक्षाः ययोस्तथाभूतौ च पार्श्वौयस्याः सा इति च, मध्ये मध्यभागे महिताभ्यां महद्न्यारङ्गं त्रपु “त्रपु पिच्चटम्। रङ्ग-वङ्गे अथ पिचुः” इत्यमरः।राजत रजतसमूहश्च ताभ्यामिति ततः स्फुरिता, मध्ये महितेन पूज्येन रङ्गराजतःश्रीरङ्गराजेन च, सार्वविभक्तिकस्तसिः। स्फुरिता शोभिता एतादृशी एषा कावेरीनदी कनकनिम्नगा सुवर्णनदी इति कीर्ति कथमिव दधाति धारयति ? व्यर्थैवेयकीर्तिरस्या इति भावः॥३९३॥

  • समाधत्ते—आपातेति। इदं पूर्वोक्तं निरूप्यमाणं त्वया दीयमानम्आपातदूषणम्अतात्त्विक श्लेषमूलकमितियावत्, यद्दूषणमित्यर्थः। तदस्याः कावेर्याः गुण एव स्यात्।तावत्तस्मात् तत्त्वतः एतस्याः रामणीयकं रमणीयत्वं पश्य॥१६७॥*

  • तदेवाह—पीताम्बरेति। इयं सह्याद्रिकन्या कावेरी पीतं च तन्द् अम्बरं वस्त्रं तेन, पीतकौशेयवस्त्रेणेत्यर्थः। पीताम्बरेण विष्णुना च “पीताम्बरोऽच्युतः शार्ङ्गी”इत्यमरः। अस्मिन् पक्षे च बहुव्रीहिः समासः। अलकृतः मध्यभागो मध्यप्रदेशोनितम्बप्रदेशश्च यस्याः सा, कह्लाराणां रक्तकमलानां मालया पङ्क्त्या च कमनीयासुन्दरा वेणी केशपाशः प्रवाहश्च यस्याः सा तथाभूता “वेणी सेतु प्रवाहयोः। देवताडे केशबन्धे” इति हैमः। प्रसन्ना प्रसन्नान्तःकरणा स्वच्छजला च सती, जनकस्य पितुः, सह्याद्रेश्च गेहाद् गृहान्, प्रदेशाच्चपत्युः भर्तुः, समुद्रस्य च समीपं व्रजति गच्छति॥३९४॥*

  • किञ्च उद्गच्छदिति। अमुष्याः कावेर्यास्तीरद्वयेऽपि, स्थिता इति शेषः। उद्ग-*

एनां तरीतुमिह यत्नजुषः स्वशीर्ष-
बद्धावदातवसनाः पथिका इवामी॥३९५॥

अथ श्रीरङ्गनगरीवर्णनम्—३४.

<MISSING_FIG href="../books_images/U-IMG-1722426663Screenshot(9"/>.png)

किञ्चिदन्तरमुपसृत्य अधस्तादवलोक्य सहर्षम्—

सारङ्गडिम्भनयनानवकेलियोग्यनारङ्गमुख्यतरु527पुष्कलनिष्कुटेयम्॥
श्रीरङ्गदिव्यनगरी प्रथते नयाब्धिपारङ्गतैर्बुधजनैः परिसेव्यमाना528॥३९६॥

निपुणं विभाव्य सशिरःकम्पम्—

हंसा निष्कुटदीर्घिकावसतयः प्रक्रान्ततर्कावहा529
लीलोद्यानचरः पतञ्जलिगिरा पुंस्कोकिलः खेलति॥
द्वैताद्वैतकथा यथ530ा विधदति क्रीडामयूरा इह
स्वैरं तान्त्रिककारिकाः परिपठन्त्येता मुहुः सारिकाः॥३९७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

च्छन्तः उत्पद्यमानाः अच्छतमाः अतिस्वच्छाः ये गुच्छाः पुष्पपुञ्जः तैः लसन्तिशोभमानानि शिरांसि शाखाग्राणि येषां ते लसच्छिरस्काःतरवो वृक्षाः भान्तिशोभन्ते। कथम्भूताः। इहअस्यास्तीरे एनां नदीं तरीतुं पारं गन्तुं ‘तॄ प्लवन-तरणयोः’इति धातोः “तुमुन्-ण्वलौ—” इत्यादिना तुमुनि इटि च तस्य “वृतो वा” इतिदीर्घः। यत्नजुषः प्रयत्नं कुर्वाणाः सन्तः अमी वृक्षाः स्वशीर्षे निजमस्तके बद्धानिजलस्पर्शभयेन वेष्टितानि अवदातानि शुभ्राणि वसनानि परिधानवस्त्राणि यैस्तथाभूताःपथिकाः पान्था इव, प्रतिभान्तीति सम्बन्धः। उत्प्रेक्षालङ्कारः॥३९५॥

  • सारङ्गेति। सारगडिम्भस्य हरिणशिशोरिव नयने नेत्रे यासां तासां हरिणनयनानां स्त्रीणां नवकेलीनां नवीनश्रृङ्गारक्रीडानां “हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः। द्रव-केलि-परीहासाः क्रीडा लीला च नर्म च।” इत्यमरः। योग्याः नारङ्गा नारङ्गत्रृक्षा मुख्या येषु ते ये तरवो वृक्षास्तैःपुष्कलाः परिपूर्णाः निष्कुटाःगृहारामा यस्यां सा तथाभूता, तथा नयाः न्यायशास्त्राण्येव, नीतिशास्त्राणि वा अब्धिःसमुद्रः तस्य पारङ्गतैः परतीरप्राप्तैः, सम्पूर्णनयशास्त्रनिपुणैरित्यर्थः। बुधजनैर्विद्वज्जनैःपरिसेव्यमाना इयं पुरो दृश्यमाना श्रीरङ्गसञ्ज्ञा दिव्यनगरी प्रथते प्रकाशते॥३९६॥*

  • किञ्च अत्र क्षेत्रे पक्षिणोऽपि विविधशास्त्रनिपुणा इत्याह—हंसा इति। इहश्रीरङ्गनगर्यां निष्कुटेषु गृहोद्यानेषु या दीर्घिका वाप्यस्तासु वसतिर्निवासो येषां ते*

  • *किञ्च—

प्रातः प्रातः पयसि विमले पावने सह्यपुत्र्याः
स्नायं स्नायं सकलविषयत्यागिनो योगिनोऽमी॥
वारं वारं भुजगशयनं लोचनाभ्यां पिबन्तः
क्षेमङ्क्षेमं531क्षणवदखिलं कालमत्र क्षिपन्ति॥३९८॥

कृशानुः—वयस्य विरुद्धमेव भाषसे॥१६८॥

सारङ्गर्दृष्टिं532कथमुत्सृजद्भ्यः सा रङ्गदृष्टिः स्वदते ? मुनिभ्यः॥
कवेरजासङ्गतिमुत्सिसृक्षोः कवेरजासङ्गरुचिः कथं स्यात्॥३९९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

तथोक्ताः प्रक्रान्तान् स्वसमुदाये वक्तुमुपक्रान्तास्तर्कान् न्यायशास्त्राणि वहन्ति धारयन्तीति तद्वहाः। न्यायशास्त्रनिपुणा इत्यर्थः। हंसाः सन्ति। तथा लीलोद्याने क्रीडोपवने चरतीति तच्चरः पुंस्कोकिलः कोकिलपुरुषः। अत्र ‘पुं कोकिलः’ इतिस्थितेः “पुमः खयि-” इति रुत्वे विसर्गे सत्वे “अनुनासिकात् परः—” इत्युकारस्यानुस्वारे च सिद्धमिदम्। पतञ्जलेः गिरा व्याकरणमहाभाष्यरूपया खेलतिक्रीडति। तथा क्रीडामयूराः द्वैतं जीवेश्वरयोर्भेदः अद्वैत तयोरैक्यं च तयोः कथाःस्वसमुदाये संवादरूपा इत्यर्थः। यथा विदधति कुर्वन्ति तथैव एताः सारिकाःशुकस्त्रियः तान्त्रिककारिकाः मीमांसाशास्त्रकारिकाः स्वैरं स्वच्छन्द यथा तथा मुहुर्वारंवारं परिपठन्ति उच्चारयन्ति॥३९७॥

  • अथ तत्रत्यजनानां सदाचारं वर्णयति—प्रातः प्रातरिति। अत्र नगर्या सकलविषयत्यागिनः ऐहिकसकलकामाद्युपभोगत्यागिनः, अत एव योगिनः योगाभ्यासिनःअमी जनाः प्रातः प्रातः प्रतिप्रातः कालं सह्यपुत्र्याः कावेर्याः नद्याः पावने पवित्रेविमले निर्मले च पयसि उदके, स्नायं स्नायं स्नात्वा स्नात्वा“आभीक्ष्ण्ये—”इत्यादिनापौनःपुन्यार्थे णमुल् द्वित्वं च। वारं वारं निरन्तरं भुजगः शेषः शयनं यस्य त श्रीरङ्गेशं, लोचनाभ्यां पिबन्तः अवलोकयन्तः सन्तः, क्षेमं क्षेमं निरन्तरकल्याणकारकम्अखिलं सकलं कालं क्षणवत् क्षिपन्ति निर्यापयन्ति॥३९८॥*

  • अथ दूषयितुमुपक्रमते—वयस्येत्यादि॥१६८॥*

  • विरुद्धत्वमेवाह—सारङ्गदृष्टिमिति। सारङ्गस्य हरिणस्येव दृष्टी नयने यस्याः सा तां स्त्रियं, जातावेकवचनम्। उत्सृजद्भ्यः त्यजद्भ्यः मुनिभ्यः योगिभ्यः सारङ्गदृष्टिःस्त्री, सा प्रसिद्ध रङ्गस्य रङ्गनास्थस्य दृष्टिः दर्शनं च कथं स्वदते रोचते ? तथा क ब्रह्मवेत्तीति कविः तस्य ब्रह्मविदः “को ब्रह्मणि शरीरे च” इति कोशः। अजायाःमायायाः मायामय संसारस्येत्यर्थः। सङ्गतिं सम्बन्ध, कवेरजायाः कावेर्याश्च सङ्गतिम्उत्सिसृक्षोः त्यक्तुमिच्छोः कवेः पण्डितस्य अजासङ्गे मायासमागमे, कवेरजासङ्गेकावेरीसम्बन्धे च रुचिः प्रीतिः कथं स्यात् ? अपि तु नैव भवेदित्यर्थः। अत्र ‘सा-*

    • वि०—सखे भवता भणितानां पदानां व्यासेनैवविरोधः समाधेयः॥१६९॥

    इत्यग्रतः पश्यन्नञ्जलिं बद्ध्वा—

श्रीरङ्गे शोभते यस्य श्रीरङ्गे शोभते च यः॥
नमोऽहं कलये तस्मै न मोहं कलये ततः॥४००॥

किञ्च—

प्रणिपतिकर्मीकुर्मः फणिपतिभोगेशयं रथाङ्गशयम्॥
कारणमेकं जगतां वारणपतिभीतिवारणं ज्योतिः533॥४०१॥

** कृशानुः**— किमस्मिन्नपि महाभुजङ्गशायिनि534 क्रियन्ते त्वया प्रणामाः। तथाहि—

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

रङ्गदृष्टि कवेरजासङ्गति’ इति श्लिष्टाभ्यां पदाभ्यां विरोधाभासोऽलकारः, वास्तवार्थेनच तत्परिहारः। दूषणमपि श्लेषेणैव नतु वास्तवार्थेनेति ज्ञेयम्॥३९९॥

  • सख इति। हे सखे, भवता भणितानाम् उच्चारितानां पदानां शब्दानां विरोधःविरोधाभासः व्यासेनैव, न त्वन्येनेति सूचनार्थमेवशब्दः। समाधेयः समाधातुं शक्यःपरिहारार्ह इत्यर्थः॥१६९॥*

  • अहं तु केवलं भगवन्तं नमस्करोमीति सूचयन्नाह—श्रीरङ्ग इति। यस्यभगवतः अङ्गे वक्षःस्थले श्रीलक्ष्मीः शोभते, स्वयं च यः श्रीरङ्गे नाम क्षेत्रे च शोभते।तस्मै श्रीरङ्गनाथाय अहं नमः नमस्कारं कलये करोमि। कुतः, ततः नमस्काराचरणान् मोह प्रपञ्चासक्तिरूपम् अविचारं, न कलये न स्वीकरोमि॥४००॥*

  • किञ्च प्रणिपतीति। फणिपतेः सर्पराजस्य शेषस्य भोगे शरीरे “अहेः शरीरम्भोगः स्यात्” इत्यमरः। शेते इति तथाभूतः तं शेषशायिनमित्यर्थः। “शयवासवासिष्वकालात्” इति सप्तम्या अलुक्। रथाङ्ग चक्र शये हस्ते यस्य सः तं,चक्रपाणिमित्यर्थः। “पञ्चशाखः शयः पाणिः” इत्यमरः। जगताम् एकमद्वितीयम्मुख्यमित्यर्थः। कारणं, वारणपतेर्गजेन्द्रस्य भीतिवारणं भयनिवारकं ज्योतिःतेजोरूपं, प्रणिपतेः प्र-नि-इत्येतदुपसर्गपूर्वकस्य पतधातोः अर्थात् प्रणिपातस्य नमस्कारक्रियाया इत्यर्थः। कर्मीकुर्मः, ईप्सिततमरूपं कुर्मः। तं प्रति नमस्कुर्म इत्यर्थः॥४०१॥*

  • पुनरपि दूषयति—किमिति। अस्मिन् महांश्चासौ भुजङ्गः विटः महाभुजङ्गःशेषश्च “भुजङ्गो विट-सर्पयोः” इति कोशान्तरम्। तस्मिन् शेते तस्मिन्नपि त्वयाप्रणामा नमस्काराः क्रियन्ते किम् ? अहो शेषशायि भगवन्नमस्कारकरणान्महद्भाग्यन्तवेति वास्तवोऽर्थः॥१७०॥*

श्यामोतुङ्गपयोधरोज्ज्वलरुचिस्तन्वन्भुजङ्गान्वयं
श्रीरङ्गस्थलनित्यवासरसिकः शृङ्गारिणामग्रणीः॥
प्राकारप्रकरान्तर स्थितिमती या राजपद्मिन्यहो
निःशङ्कं535 परपूरुषश्चिरमसौ निद्राति तत्सन्निधौ॥४०२॥

** विश्वावसुः**—श्लेषावलम्बना दोषा इमे न मे रोषावहाः536, प्रत्युततोषावहा इति नाहमत्रोत्तरयामि॥१७१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • तदेव सविस्तृतमुपपादयति—श्यामेति। श्यामानां षोडशवर्षवयस्कानान्तरुणीनां “श्यामा षोडशवार्षिकी” इति तल्लक्षणम्। उत्तुङ्गयोरुचयोः पयोधरयोःस्तनयोः उज्ज्वला अतिशयिता रुचिरासक्तिर्यस्य सः, श्यामस्य नीलवर्णस्य उत्तुङ्गस्योन्नतस्य च पयोधरस्य मेघस्येव “स्त्रीस्तनाब्दौ पयोधरौ” इत्यमरः। उज्ज्वलाभासमाना रुचिः कान्तिर्यस्य सः इति च तत्त्वार्थः। शृङ्गारः स्त्र्यासक्तिरूपो विद्यतेयेषां ते शृङ्गारिणस्तेषाम् अग्रणीः अग्रेसरः। शृङ्गारलक्षणमुक्तं रससुधाकरे—“विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः। नीता सदस्यरस्यत्वं रतिः शृङ्गार उच्यते।”इति। स्त्रीपुरुषयोरन्योन्यासक्तिरूपेच्छाविशेषो रतिरित्युच्यते। तल्लक्षणमपि तत्रैव—“यूनोरन्योन्यविषयस्थायिनीच्छा रतिः स्मृता।” इति। अन्यत्रापि – “शृङ्गहिमन्मथोद्भेदस्तदागमनहेतुकः। पुरुष-प्रमदाभूमिः शृङ्गार इति गीयते।” इति। भरतोऽप्याह—“ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्व-प्रणय-सेवाभिः। उपवनगमनविहारैः शृङ्गाररसः समुद्भवति। नयन-वदनप्रसादैः श्रुतिमधुर-वचो धृति-प्रमोदैश्च।ललितैश्वाङ्गविहारैस्तदभिनयः सम्प्रयोक्तव्यः।” इति। अत एव भुजङ्गानां विद्यानाम्भुजङ्गस्य शेषस्य च “भुजङ्गो विटसर्पयोः”।अन्वय सम्बन्ध, अन्यत्र शयनरूपं चतन्वन् कुर्वन् श्रीमति रङ्गस्थले, रङ्गशालायां नाट्यस्थले इत्यर्थः। नित्यवासे सततनिवासे रसिकः, पक्षे श्रीरङ्गस्थले नाम क्षेत्रे नित्यवासरसिकः तत्र नित्यनिवासीत्यर्थः। असौ परः पत्युरन्यः जार इति यावत्। पूरुषः, पक्षे पर उत्तमः पुरुषश्च याप्राकाराणां पाषाणादिभित्तीनां शैवलादिवेष्टनानां च प्रकरस्य समूहस्य अन्तरे मध्येस्थितिमती स्थितिशीला राज्ञः चक्रवर्तिभूपतेः पद्मिनी तल्लक्षणोपेता पत्नी, पक्षे राज्ञःचन्द्रस्य पद्मिनी कमलिनी “द्विजराजः शशधरः” इति कोशोक्तद्विजराजशब्दस्यराजेत्येकदेशेनग्रहणम्। अथवा “सोमो वै राजा ब्राह्मणानाम्” इति श्रुतेश्चन्द्रस्य राजसञ्ज्ञा। चन्द्रोदये विकासशालिनी कमलिनीत्यर्थः। तस्याः सन्निधौ समीपेनिःशङ्कं निर्भयं यथा तथा चिरं बहुकालपर्यन्तं निद्राति। अहो इत्याश्चर्ये॥४०२॥*

  • एवं श्लेषगर्भितं भाषणं श्रुत्वा सन्तुष्टः सन्नाह विश्वावसुः—श्लेषावलम्बनाइति। इमे ‘श्यामोत्तुङ्ग—’ इत्यादिना प्रतिपादिताः दोषाः श्लेषावलम्बनाः अर्थद्व-*

    • पुनर्निरूप्य—

क्षितिभृद्भिर्निजमौलिषु घृतपादो विरहितापकारी च॥
इन्दुरिव रङ्गबन्धुदोषाभावे विलोक्यते537 किन्तु॥४०३॥

यद्वा —

न विधौ शुभरङ्गलक्षिताङ्गे समुदाप्यायन538कारिणीह दृष्टे॥
कलयामि कुरङ्गलक्षिताङ्गं कुमुदाप्यायनकारिणं विधुं तम्॥४०४॥

पुनः सञ्चिन्त्य539 सविस्मयम् —

रङ्गेशसेवको युक्तं नार्तरीतिं भजेदिति॥
चित्रमेतदसङ्गीति व्यपदेशं यदश्रुते॥४०५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

यावहशब्दाश्रयाः, अत एव मे मम रोष क्रोध आवहन्ति सम्पादयन्ति तथाभूताः रोपोत्पादका इति यावत्। न भवन्ति। प्रत्युत तर्हि तोषावहाः सन्तोषजनका एवसन्तीति नाहमत्र त्वदुक्तदूषणेषु उत्तरयामि, प्रत्युत्तरं न ददामि॥१७१॥

  • क्षितिभृद्भिरिति। क्षितिभृद्भिः राजभिः पर्वतैश्च निजमौलिषु स्वकीयमस्तकेषुशिखरेषु च धृतौ पादौ चरणौ यस्य सः, पक्षे धृताः पादाः किरणाः यस्य सः इतिच, अविः पर्वतः मेरुखरूपः, सूर्यो वा “अवयः शैल-मेषाऽर्काः” इत्यमरः। अथवा विः पक्षी गरुडः भगवद्विभूतिरूपः “मेरुः शिखरिणामहम् आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्।” “वैनतेयोऽस्मि पक्षिणाम्।” इति भगवद्गीतायां भगवतैवोक्तत्वात्। अहितानां शत्रूणाम् अपकारी नाशकर्ता, पक्षे विरहिणाम्प्रियजनवियोगयुक्तानां तापकारी सन्तापजनकश्च रङ्गबन्धुः श्रीरङ्गनाथः इन्दुरिव चन्द्रइव, किन्तु दोषाणां कामक्रोधादीनाम् अभावे सति, दोषाभावे निशाभावे च विलोक्यते दृश्यते॥४०३॥*

  • किञ्च नेति। शुभे कल्याणगुणयुक्ते रङ्गे क्षेत्रे लक्षितम् अङ्ग मूर्तिर्यस्य तस्मिन्, सुष्ठु शोभना अत्यन्तकल्याणावहा या मुद् आनन्दः तया आप्यायनकारिणि सुखकारिणिइह क्षेत्रे, विधौ चन्द्रे विष्णैच “विधुर्विष्णौ चन्द्रमसि” इत्यमरः। दृष्टे सति,पुनः कुत्सितेन निन्दितेन रङ्गेण लक्षित अङ्ग यस्य सः त कुरङ्गेण मृगेण च लक्षितं चिह्नितम् अङ्गं शरीरं यस्य सः त च कुत्सितया मुदा आनन्देन, कुमुदानां चन्द्रविकासिकमलानां च आप्यायनकारिणं विकासकारिणं च तं प्रसिद्ध विधु चन्द्रं न कलयामि न पश्यामि॥४०४॥*

  • रङ्गेशेति। रङ्गेशस्य श्रीरङ्गनाथस्य उत्तमरङ्गस्य च सेवको भक्तः आश्रितश्च आर्तस्य दुःखिनः रीतिं प्रकारं न भजेन् न सेवेत। नार्ता नृत्यसम्बन्धिनीं रीतिं चभजेदिति च युक्तं योग्यमेव। किं तु रङ्गेशसेवकः असङ्गी ख्यादिभोगासक्तिरहितःइति व्यपदेशं व्यवहारम् अश्रुते प्राप्नोति इति यत्, एतदेव चित्रमाश्चर्यम्॥४०५॥*

अन्यदद्भुतमुद्भूतमत्र श्रीरङ्गधामनि॥
यच्चन्द्राभिख्ययाप्येषा शोभते पुष्करिण्यहो॥४०६॥

समन्तादवलोक्य सश्लाघम्—

रङ्गक्षेत्रमिदं रमेशितुरभिव्यक्तिस्थलेष्वादिमं
तीर्थं सैवमरुद्वृधा भगवती यां तोष्टवीति श्रुतिः॥
सर्वात्मा नगरस्य चास्यु जगतां निर्वाहको नायको
वासश्चेदिह लभ्यते जगति को वैकुण्ठमुत्कण्ठते !॥४०७॥

** कृ०**—सार्धाङ्गीकारम्—

सोऽयं यद्यपि हृद्य एव विषयः सायन्तनेन्दीवर-
श्यामाङ्गेन सनायकः कृततमोभङ्गेन रङ्गेन्दुना॥
भ्रान्ताः किन्तु चरन्ति हन्त पिशुनाः शान्तात्मनां तापदाः
श्रीमन्तो यदुदञ्चनाद्बत न खल्वत्रासमत्रासते॥४०८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • किञ्च अन्यदिति। अत्र श्रीरङ्गस्य भगवतः धामनि स्थाने क्षेत्रे अन्यद् उक्तादितरद् अद्भुतमाश्चर्यम् उद्भूतमुत्पन्नम्। किं तद् यद् एषा पुष्करिणी कमलिनी चन्द्रस्य अभिख्यया नाम्ना, कान्त्या चन्द्रिकया चापि शोभते। तद् अद्भुतमिति सम्बन्धः॥४०६॥*

  • रङ्गक्षेत्रमिति। इद रङ्गक्षेत्र रमेशितुर्लक्ष्मीपतेर्विष्णोः अभिव्यक्तिस्थलेषु प्रकटीभावस्थानेषु मध्ये आदिमं प्रथमं वर्तत इति शेषः। किञ्च यां नदीं श्रुतिः वेदः “इम मे गङ्गे यमुने-" इत्यादिरूपा इत्यर्थः। तोष्टवीति पुनःपुनर्भृशं वा स्तौति, ‘ष्टुञ् स्तुतौ’ इत्यस्माद्धातोर्यड्लुकि लटि रूपम्। सैव भगवती मरुद्वृधाकावेरी नदी अत्र तीर्थ विरजाभिधं प्रसिद्धम्। अस्य च नगरस्य नायकोऽधिपतिस्तु जगतां सर्वेषां लोकानां निर्वाहको रक्षिता, सर्वेषां प्राणिनाम् आत्मा अन्तर्यामी, भगवान् विष्णुरित्यर्थः। अस्ति। तस्माद् इह क्षेत्रे वासः सततं वसतिः लभ्यते प्राप्यते चेज् जगति कः पुरुषः वैकुण्ठं लोक, गन्तुमिति शेषः। उत्कण्ठते ! अपि तु न कोऽपीत्यर्थः॥४०७॥*

  • सोऽयमिति। सायं भवानि सायन्तनानि यानि इन्दीवराणि नीलकमलानि तेषामिव श्यामम् अङ्गं मध्यभागश्च यस्य तेन कृतः तमसोऽज्ञानस्य अन्धकारस्य च भङ्गो येन तेन, रङ्ङ्गे क्षेत्रे इन्दुरिव चन्द्र इव तेन रङ्गनाथेन, पक्षे रङ्गयुक्तेन रागयुक्तेन इन्दुना चन्द्रेण च सनायकः सनाथः नायकेन शृङ्गारिणा च सहितः सः प्रसिद्धः अयं विषयो देशः यद्यपि हृद्य एव मनोहर एव वर्तते, किन्तु तथापि भ्रान्ताः परधनलुब्धत्वेन अनवस्थितचित्ताः अत एव शान्तः आत्मा चित्तं येषां तेषां तापदाः सन्तापजनकाः पिशुनाः खलाः “पिशुनौ खल-सूचकौ” इत्यमरः। एतादृशश्चोरा इत्यर्थः। चरन्ति परिभ्रमन्ति। हन्तेति खेदे। येषां दुष्टानामुदञ्चनात् सर्वतः सञ्चाराद्धेतोः*

  • *किं बहुना—

नित्यं काञ्चनसिन्धुमध्यरुचिरो निष्कम्पसम्पन्निधि-
र्निस्तुल्यामपि काञ्चनश्रियमुरोमध्ये दधानः स्वयम्॥
विभ्यत्किम्पिशुनेभ्य एष बहुलप्राकारसंवेष्टिते
शेते धामानि रङ्गनायक इति स्वाख्यामिह ख्यापयन्॥४०९॥

** वि०**—सङ्खे540 न जातु श्रीमतां हानिः, प्रत्युत त**द्द्वेष्टॄणां541 पिशुनानामेव भवन्त्यनर्थाः॥१७२॥

परवित्तजिहीर्षया प्रवृत्तः पिशुनस्तु स्वयमेव नाशमेति॥
सुलभः शलभस्य किं न दाहः पृथुदीपप्रसनाय जृम्भितस्य॥४१०॥

अलमन्यप्रसङ्गेन, तमेव542चरङ्गेशं श्रीरङ्गधामानमनुसन्दधामि॥१७३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

अत्र क्षेत्रे श्रीमन्तः सम्पत्तिमन्तो जनाः अत्रासं भयरहितं यथा तथा न खलु आसते तिष्ठन्ति, न वसन्तीत्यर्थः। बतेति खेदे॥४०८॥

  • किच नित्यमिति। नित्यं सन्तत काञ्चनसिन्धोः सुवर्णसमुदायस्य कावेर्या नद्याथमध्ये रुचिरः सुन्दरः, तत्र वसान इत्यर्थः। अत एव निष्कम्पायाश्चलन रहितायाःशाश्वताया इत्यर्थः। सम्पदः सम्पत्तेः निधिः, तत एव च निस्तुल्यां निरुपमां काञ्चनस्य सुवर्णस्य सुवर्णालङ्कारस्येत्यर्थः। श्रियं, पक्षे काञ्चन अनिर्वाच्यगुणयुक्तामित्यर्थः। श्रियं लक्ष्मीं च उरसो वक्षस्थलस्य मध्ये मध्यभागे दधानः धारयन् सन्नपि स्वयम् एष भगवान् पिशुनेभ्यः खलेभ्यः बिभ्यत् किं भयं प्राप्नुवन्निवेत्युत्प्रेक्षा। बहुलाःअनेके ये प्राकाराः शिलादिनिर्मिताः प्रासादभित्तयः तैः संवेष्टिते परितो वृते धामनि स्थाने रजस्य एतत्क्षेत्रस्य वङ्गस्य च नायकः पतिः इति खस्य आख्यां नाम,चोरभयात् स्वर्णनायक इति नाम निह्नुवन्नित्यर्थः। इह प्रदेशे ख्यापयन् प्रकथयन्प्रसिद्धीकुर्वन्निति यावत्। शेते निलीय तिष्ठति निद्रातीति च॥४०९॥*

  • सख इति। जातु कदाचिदपि श्रीमतां सम्पत्तिमतां लक्ष्मीवतां च पिशुनेभ्यइति शेषः। न हानिः, प्रत्युत किं तु तान् लक्ष्मीवतः द्विषन्ति ते तद्द्वेष्टारस्तेषां पिशुनानामेव अनर्थःशिक्षादिरूपाः भवन्ति॥१७२॥*

  • एतदेव सविस्तरमाह—परवित्तेति। यस्तु पिशुनः परेषामन्येषां वित्तस्यद्रव्यस्य जिद्दीर्षया हर्तुमिच्छया प्रवृत्तः उद्यतः, सः स्वयमेव नाशम् एति प्राप्नोति।एतदेव सदृष्टान्तमाह—पृथोर्महतः दीपस्य ग्रसनाय भक्षणाय जृम्भितस्य उद्यतस्य शलभस्य कीटविशेषस्य दाहो दहनं भस्मीभाव इत्यर्थः। सुलभः न किम्? किन्तु सएव सुलभः नान्यत् किमपीति भावः॥४१०॥*

  • अत एव भगवदन्यकथाप्रसङ्गो मास्त्विति सूचयन्नाह—अलमिति। अन्यस्य*

  • *सविस्मयम्—

सपर्या विरुद्धादपि प्राप्तुमीष्टे
समर्थो जगत्यां यतो रामचन्द्रात्॥
अरं543-गाधिराजोदितप्रौढभक्ते-
रपि प्राप पूजां स रङ्गाधिराजः॥४११॥

अथवा नात्र विरोध इति समर्थये॥१७४॥

कुवस्तुहानात्544 सद्वस्तुसङ्ग्रही राघवः क्षमम्॥
हन्ता कुरङ्गराजस्य रङ्गराजमपूजयत्॥४१२॥

पुनः सभक्तिप्रकर्षं भगवन्तमुद्दिश्य—

श्रुतसुरनुतिघोषे545 शत्रुषु स्फीतरोषे
निहतविनतदोषे नित्यदास्याभिलाषे॥
ललितवपुषि शेषे लब्धसम्पूर्णतोषे
परमपुरुष ! शेषे पर्वचन्द्राविशेषे॥४१३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

भगवत्कथेतरस्य प्रसङ्गेन अवसरेण अलं पर्याप्तं, स न कार्य इत्यर्थः। किन्तु त प्रसिद्धमेव च श्रीरङ्गे क्षेत्रे धाम स्थान यस्य त रङ्गेश भगवन्तम् अनुसन्दधामि वर्णयामि॥१७३॥

  • सपर्यामिति। जगत्यां पृथिव्यां समर्थःसम्पत्तिमान्, कर्तुमकर्तुमित्यादिसामर्थ्ययुक्तश्च विरुद्धात् शत्रोरपि विपरीताचारादपीति च सपर्या पूजा, “पूजा नमस्यापचितिः सपर्या” इत्यमरः। प्राप्तुं लब्धुम् ईष्टे समर्थो भवति। यतो यस्मात् स प्रसिद्धः रङ्गाधिराजः भगवान् अरङ्गाधिराजे रङ्गनाथभगवदितरस्मिन् पक्षे ‘अरं’ इतिछेदः। अरमतिशयित गाधिराजे विश्वामित्रे च उदिता उत्पन्ना प्रौढा प्रगत्या भक्तिर्यस्य तस्माद् रामचन्द्रादपि पूजां प्राप स्वीकृतवान्। तस्माद् इति सम्बन्धः। श्रीरङ्गनाथ रघुकुलदैवतमिति हि पुराणप्रसिद्धिः॥४११॥*

  • किच कुवस्त्विति। राघवः कुवस्तूनां कुत्सितवस्तूनां हानात् त्यागात् सताम्उत्तमानां प्रशस्तानां वा “सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्” इत्यमरः। वस्तूनां सङ्ग्रही स्वीकारकर्ता एतत् क्षमं युक्तम्। यतः कुत्सितस्य निन्द्यस्यरङ्गराजस्य, कुरङ्गराजस्य मायामृगस्य च मारीचस्येत्यर्थः। हन्ता मारयिता राघवःइमं रङ्गराजं रङ्गनाथम् अपूजयत् पूजितवान्॥४१३॥*

  • श्रुतेति। श्रुतः आकर्णितः सुराणां देवानां नुतिघोषः स्तुतिघोषो येन तस्मिन्,शत्रुषु वैरिषु स्फीतः प्रवृद्धः रोषः क्रोधो यस्य तस्मिन् निहताः विनाशिताः विनतानां नम्राणां दोषाः पापानि येन तस्मिन् नित्यं दास्ये भगवद्दासकर्मणि अभिलाष*

** भगवन् रङ्गनायक ! भवदीये546 सदसि भाषितुमपि वयं बिभीमः॥१७५॥

तथाहि—

कर्तृ547 व्याकरणस्य वाममितरद्यस्य प्रवक्त्रीक्षणम्
भाष्यं व्याकरणस्य साधु विदधे शय्या यदीया पुनः॥
यद्वाहो द्विजशेखरः श्रुतिमयो यस्य स्नुषा भारती
गोष्ठ्यां त्रस्यति तस्य ते कविजनो रङ्गेश ! कर्तुं स्तुतिम्548॥४१४॥

पुनरञ्जलिं बद्धा सप्रार्थनम्—

वरगुणगणसीमा वारिदश्यामधामा
सततममररामसङ्घसङ्गीतनामा॥
परिहृतभवदामा भासिताकल्पहेमा
मम कलयतु भूमा मङ्गलं रङ्गधामा॥४१५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

इच्छा यस्य तस्मिन् लब्धः प्राप्तः सम्पूर्णस्तोषः सन्तोषो येन भगवद्दृढभक्त्येत्यर्थः।तस्मिन् ललित मृदु सुन्दरं वा वपुः शरीरं यस्य तस्मिन् पर्वणि पौर्णमास्यांयश्चन्द्रः तस्मादविशेषे विशेषरहिते तत्सदृशे इत्यर्थः। एतादृशे शेषे अनन्ते, हेपरमपुरुष भगवन् रङ्गनाथ ! शेषे शयनं करोषि॥४१३॥

  • भगवन्निति। हे भगवन् रङ्गनायक ! भवदीये त्वत्सम्बन्धिनि सदसि सभायाम्भाषितुं वक्तुमपि वय बिभीमः भय प्राप्नुमः॥१७५॥*

  • भयकारणमेवोपपादयति—कर्त्रिति। यस्य भगवतः वाम सव्यम् ईक्षणं नेत्रञ्चन्द्ररूपमित्यर्थः। व्याकरणस्य चान्द्रव्याकरणस्य कर्तृ उत्पादकं, तथा इतरद् वामाद् भिन्न दक्षिणनेत्र सूर्यरूपं सौरव्याकरणशास्त्रस्य प्रवक्तृ प्रणेतृ, पुनश्च यस्यरङ्गनाथभगवतः इयं यदीया भगवत्सम्बन्धिनीत्यर्थः। शय्या शेषरूपा व्याकरणस्यपाणिनीयव्याकरणशास्त्रस्य भाष्यं महाभाष्यरूपं व्याख्यानं साधु यथा तथा विदधेचकार, तथा यस्य भगवतो वाहो वाहन श्रुतिमयो वेदरूपः द्विजानां ब्राह्मणानाम्पक्षिणां च श्रेष्ठः गरुडः, यस्य भगवतः स्नुषा पुत्रपत्नी भारती सरस्वती, तस्मात् हेरजेश रङ्गनाथ भगवन् ! तस्य एतादृशगुणविशिष्टस्य ते तव गोष्ट्यां सभायां कविजनः काव्यकर्तृसमुदायः स्तुति स्तव कर्तुं त्रस्यति बिभेति॥४१४॥*

  • पूर्वोक्त गुणविशिष्टा देवता मम कल्याणं विदधातु इति मनसि निधाय प्रार्थयते—वरगुणेति। वराणां श्रेष्ठानां गुणगणानां गुणसमुदायानां सीमा मर्यादा, वारिदस्य मेघस्येव श्यामं नीलवर्णं धाम देहो यस्य सः, “गृह-देह-लिट्-प्रभावा धामानि” इत्यमरः। सततं निरन्तरम् अमररामाणां देवस्त्रीणां सङ्घेन समुदायेन सङ्गीतम् उत्तम- *

  • *अन्यतो वीक्ष्य सश्लाघम्549

स्वामिनीं स्तौमि550 नीलाब्जमदमोचनलोचनाम्॥
अङ्गनां रङ्गनाथस्य551 दीप्तिं मूर्तिमतीमिव॥४१६॥

देवीमुद्दिश्य—

मोहोन्मूलनमूलिका भवजुषां मोक्षाध्वनिःश्रेणिका
चेतःशुद्धिविधानसिद्धगुलिका552 चिन्तातमश्चन्द्रिका॥
विद्याविभ्रमसरिकासि553 कमले ! विष्णोरुरोमालिका
मातस्त्वं मम पारिजातलतिका मोदाम्बुधेवचिका॥४१७॥

कृ०—

कान्त्येव हन्त वृत्त्याऽपि कमलामपि554 चञ्चलाम्॥
अशिष्टेष्वेव रज्यन्तीमभिष्टौति कथं बुधः॥४१८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

प्रकारेण गानेनवर्णितं नाम यस्य सः, परिहृत निवारित भवस्य संसारसम्बन्धि दाम बन्धनपाशो येन सः, समस्त संसारबन्धनोच्छेदक इत्यर्थः। भासित प्रकाशित आकपानां भूषणानां हेम सुवर्ण यस्य सः, रङ्गे रङ्गक्षेत्रे धाम स्थान यस्य सः भूमामहात्मा भगवान् रङ्गनाथः, मम मत्सम्बन्धि मङ्गल कल्याण कलयतु करोतु॥४१५॥

  • एवं भगवन्तं रङ्गनाथं स्तुत्वा तत्पत्नीं भगवतीं महालक्ष्मीं स्तौति—स्वामिनीमिति। नीलाब्जस्य नीलकमलस्य मदमोचने सौन्दर्यगर्वनिवारणे लोचने नेत्रेयस्याः सा तां मूर्तिमतीं प्रत्यक्षशरीरधारिणीं दीप्तिं कान्तिमिव स्थितां स्वामिनीसर्वजनानामीश्वरी, रङ्गनाथस्य भगवतः अङ्गनां पत्नीं लक्ष्मीं स्तौमि वक्ष्यमाणप्रकारेण स्तुतिं करोमि॥४१६॥*

  • मोहोन्मूलनेति। भो मातः सकललोकजननि ! कमले महालक्ष्मि ! त्वं भवजुषां संसारिणां मोहस्याज्ञानस्य उन्मूलने निर्मूलने मूलिका मूली, अत एव मोक्षाध्वनः मोक्षमार्गस्य निःश्रेणिकाम् अधिरोहिणीं, चेतसः अन्तःकरणस्य शुद्धिविधाने पवित्रीकरणे सिद्धगुलिका सिद्धगुटिका, चिन्तारूपस्य तसम अन्धकारस्य चन्द्रिकाचन्द्रकान्तिः, विद्याविभ्रमस्य विद्याक्रीडायाः सारिका, विष्णोर्भगवतः उरोमालिकावक्षःस्थलमाला, मम पारिजातलतिका कल्पवल्ली, अत एव मोदाम्बुधेरानन्दसमुद्रस्यवीचिका लहरी च असि। एतदेव क्रियापदं पूर्वविशेषणेष्वपि योज्यम्॥४१७॥*

  • एवं लक्ष्मीवर्णनमाकर्ण्य चपलवरूप दोष तस्यामुद्भाव्य कृशानुः प्राह-कान्त्येवेति। हन्तेति खेदे। कान्त्या प्रभयेव वृत्त्या स्थित्या स्वभावेन चापि चञ्चलांविद्युतं चापि, किञ्च अशिष्टेष्वेव असभ्येष्वेव रज्यन्तीं रममाणां कमलां लक्ष्मीमपि बुधः पण्डितः कथमभिष्टौति प्रशसति ? अपि तु नैव स्तोतीत्यर्थः। “उपसर्गात् सुनोति—” इत्यादिना षत्वम्॥४१८॥*

  • *तथाहि—

प्रक्पर्यङ्कमधिष्ठितोपि मृदुलं555 पालाशशय्यामपि
प्रायः प्रार्थयते कदन्नमिव यः क्षीरौदनं भुक्तवान्556
प्राश्नात्येष कदुष्णिकाममृतवत् प्रागप्ति557पीताम्बरः
कन्थां याचति558 भृत्यति559क्षितिपतिर्लक्ष्मीकटाक्षात्यये॥४१९॥

अन्यच्चावधेयम्—

दातुर्द्वारि य एष वारणमगात्तद्वार्यहो वारणम्
पश्याम्यद्य चिरादशेत भुवि यो भूस्तस्य शेते भुजे॥
नाहारानपि लेभिरे यदबला हारानमूस्तत्प्रिया
विन्दन्ते कमलादृगूर्मिभिरहो निम्ने भवत्युन्नतिः560 ॥४२०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • लक्ष्म्याश्चञ्चलत्वमेव तावत्सविस्तृतमाह—प्रागिति। यः क्षितिपतिः पृथ्वीपतीराजा, प्राक् लक्ष्म्याः कृपाकटाक्षसमये मृदुलं मृदुतरं पर्यङ्कम् अधिष्ठितः आरूढोऽपिसन्, लक्ष्म्याः कटाक्षस्य नेत्रापाङ्गदर्शनस्य अत्यये नाशे सति लक्ष्मीप्रसादाभावेइत्यर्थः। एतदेवाग्रेध्वपि वाक्येषु योज्यम्। पलाशानां पर्णानामियं पालाशी ताम्पर्णनिर्मितामित्यर्थः। शय्यामपि प्रायः प्रार्थयते वाञ्छति। तथा यः प्राक् क्षीरौदन दुग्धयुक्त भोजन भुक्तवान् बुभोज, सः एषः कदुष्णिकां कुत्सिता यवागूअमृतवत् प्रकर्षेण अश्नाति भुनक्ति। तथा यः प्राक् आप्त परिहित पीत कौशेयअम्बर वस्त्र येन सः तथाभूतः आसीत् स एव कन्थां बहुवस्त्रखण्डरचिता याचति, अत एव भृत्यति दासवदाचरति च॥४१९॥*

  • किञ्च दातुरिति। यः एषः याचकः दातुः उदारधनिकस्य द्वारि द्वारदेशेवारण निवारण अन्तर्गमननिषेधम् अगात् प्राप्तवान् तस्य याचकस्य द्वारि वारणनिवारण, गज वा पश्यामि अवलोकयामि। अहो इत्याश्चर्ये। तथा यः चिरात्बहुकालपर्यन्तं भुवि केवलभूमावेव अशेत शयनं करोति स्म, तस्यैव भुजे बाहौअद्य भूः पृथ्वी शेते। भुजबलाद् भुवं लब्धवानित्यर्थः। तथा यस्य दरिद्रस्य अबलाःस्त्रियः आहारान् भोजनान्यपि न लेभिरे न प्राप्तवत्यः, तस्य दरिद्रस्य प्रियाः ‘अमूःस्त्रियः हारान् मुक्ताफलमणिरचितान् विन्दन्ते प्राप्नुवन्ति। तस्मात् कमलायालक्ष्म्याः दृशः दृष्टय एव ऊर्मयः तरङ्गास्तैर्हेतुभिः निम्ने नीचेऽपि उन्नतिः उच्चतासम्पत्त्यादिनेति भावः। भवति॥४२०॥*

इदं च पुनर्बोद्धव्यम्—(श्रियमुद्दिश्य—)

हन्तुर्बन्धुजनान् धनार्थमनघान् गन्तुः परस्त्रीशतं
रन्तुर्जन्तुविहिंसकैः सह जनैः सन्तुष्यतो वञ्चनैः॥
वक्तुस्तीक्ष्णमयुक्तमेव वचनं पक्तुर्मितं चौदनं
नित्यं नृत्यसि मन्दिरेषु कमले ! क्वत्यं561 तवैतन्मतम्॥४२१॥

अन्यच्च—

येषामन्यकलत्रदर्शनकला562व्युत्पत्तिशून्ये दृशौ
मूढं हृच्च परार्थ563चिन्तनविधौ मिथ्यानभिज्ञं मुखम्॥
अप्रज्ञातपशून्बुभुक्षितशिशूनभ्रोदकैस्ताम्यत-
स्तेषां लक्ष्मि गृहान् दृशा564च भयभीतेवेह नावेक्षसे॥४२२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

अपि च हन्तुरिति। हे कमले लक्ष्मि ! धनार्थं द्रव्यार्थम् अनघान् निरपराधान् बन्धुजनान् हन्तुः, परस्त्रीणां शतं, अनेकपरस्त्रीरित्यर्थः। गन्तुः उपभोगार्थं गच्छतः, जन्तुविहिंसकैः प्राणिवधकर्तृभिः जनैः सह रन्तुः विहारशीलस्य, वञ्चनैःपरप्रतारणैः सन्तुष्यतः, किञ्च अयुक्तं सभ्यजनानामयोग्यं तीक्ष्णं कठोरं च वचनम्भाषणं वक्तुः, मितं स्वोदरपूर्तिमात्रमेव ओदनमन्नं च पक्तुः, “आत्मार्थ पाचयेन्नान्नं”इत्यादिशास्त्राद् आत्मपर्याप्तिमात्रान्नपचनमयुक्तमिति भावः। एतादृशजनस्य मन्दिरेषु गृहेषु नित्यं नृत्यसि। एतत् तव मतं क्वत्यं कुत उत्पन्नम् ?नान्यतः कुतोऽपि तु त्वत्त एवोत्पन्नमित्यर्थः॥४२१॥

  • अथ ये तावत् सदाचरणतत्परास्तेषां गृहे नैव तिष्ठसीति वदन् लक्ष्मीं दूषयतियेषामिति। येषां निर्मलमानसानां जनानां दृशौ लोचने अन्यकलत्राणामन्यस्त्रीणान्दर्शनरूपा या कला तस्याः व्युत्पत्तिर्ज्ञानं तेन शून्ये रहिते, कदापि परस्त्रीदर्शनवर्जितेइत्यर्थः। तथा येषां, इदमेव सर्वत्राग्रिमवाक्येषु योज्यम्, हृत् हृदयं च परार्थचिन्तनविधौ अन्यद्रव्यग्रहणविचारकरणे मूढं, सर्वदा सत्कार्य परतया परद्रव्यापहाराद्यसत्कर्मविचारशून्यमित्यर्थः। क्वचित् ‘परार्तिचिन्तनविधौ’ इति पाठः। तत्पक्षे परपीडाकरणविचाररहितमित्यर्थः। तथा मुखं मिथ्यानभिज्ञम् असत्यभाषणरहितं सर्वदा सत्यभाषणपरमेवेत्यर्थः। तेषां जनानाम् अप्रज्ञाताः कदाप्यदृष्टाः पशवो गोमहिष्यादयोयेषु तान्, बुभुक्षिताः क्षुधिताः शिशवो बालाः येषु तान्, अभ्रोदकैः वर्षाकालिकमेघजलैः ताम्यतः सम्यक् जलवारणाभावाद् दुःखप्रदांश्च गृहान् प्रति हे लक्ष्मि ! इह भयभीतेवं दृशा न अवेक्षसे नैव पश्यसि। सदाचारसद्विद्यादिसम्पन्नाञ्जनान् सततं दारिद्र्यावस्थायामेव वर्तयसीत्यर्थः॥४२२॥*

  • *विश्वा०—सखे ! मानसखेदजननी तवेयं वाणी। यतो दुःशीलेषु दृश्यमानाः साधुजनानुपयुक्ताः सम्पदाभासाः, प्रत्युत मृत्युतरणकारणभुवनजननीकृपाकटाक्षवैधुर्यनिबन्धना एव। उक्तं हि गुणहानेरु-दधिदुहितृवैमुख्यनिबन्धनत्वमुचितज्ञेन केनचिद्विदुषा565॥१७६॥

‘सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः॥
पराङ्मुखी जगद्धात्रि! यस्य त्वं विष्णुवल्लभे !॥४२३॥’ इति।

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • सख इति। हे सखे मित्र ! मानसस्य मनसः खेदजननी तव इयं ‘कान्त्येवहन्त —’ इत्यारभ्य ‘—नावेक्षसे’ इत्यन्ता वाणी। यतो यस्मात् कारणाद् दुःशीलेषुदुष्टस्वभावाचारेषु जनेषु दृश्यमानाः सम्पदः द्रव्यादिसमृद्धेः आभासाः, न तु सत्याः,चिरकालस्थायित्वाभावात्। अत एव साधुजनानाम् अनुपयुक्ताः प्रत्युत विचारेकृते तु मृत्योः जन्म-मरणादिपरम्परायुक्तस्य संसारस्य तरणे पारगमने कारणरूपा ये भुवनजनन्या लक्ष्म्याः कृपाकटाक्षाः तेषां वैधुर्यं शून्यत्वं निबन्धनं प्रयोजकं येषां तथाभूता एव। सदाचार-सद्विद्यादिसम्पन्नसज्जनानां जन्ममरणादिराहित्य-चिरसुखस्थायित्वादिदर्शनात् तद्विरुद्धाचाराणां च धनादिसम्पन्नत्वेऽपि पुनःपुनर्जन्म-मरण- दुर्गतिप्रापणादिश्रवणाच्च। उक्तार्थे विद्वत्सम्मतिमाह-उक्तं हीति। गुणानां दया-दाक्षिण्यादीनां हानेः उदधिदुहितुः क्षीरसागरकन्यकायाः लक्ष्म्याःवैमुख्यं पराङ्मुखत्वमेव निबन्धनं प्रयोजकं यस्य तस्य भावस्तत्वं केनचिद् उचितंलक्ष्मीकटाक्षस्य भवसागरमोचनमेव सत्यं फलमिति योग्यं जानातीति तज्ज्ञस्तेनविदुषा पण्डितेन। उक्तं हि कथितमेव। क्वचित् ‘नमुचिद्द्विषा’ इति पाठः। तत्पक्षेइन्द्रेणेत्यर्थः। इममेव पाठमनुसृत्याग्रिमपद्ये ‘इयं हि (‘सद्यो वैगुण्यमायान्ति’इत्यादिरूपा) इन्द्रायैरावतारूढाय राजोपहारकारणीभूता केनचित् स्वस्मै समर्पितापुष्पमाला सहजमन्युना दुर्वाससा मध्येमार्गमेव दत्ता। शक्रश्च तां गृहीत्वागजेन्द्रगण्डस्थलोपरि निक्षिप्तवान्। स चैरावतस्तां पुष्करेण गृहीत्वाछिन्नामकरोत्।तद्दृष्ट्वा परमकोपनो मुनिराट् इन्द्राय ‘त्वत्पालितेषु भुवनेषु लक्ष्मीर्न वत्स्यति’इति शापमदात्। ततश्च सर्वत्र लक्ष्मीप्रादुर्भावाभावे यज्ञादिसम्पत्यभावे च देवानांहविर्भागाद्यप्राप्या चिन्ताविष्टतया ब्रह्मादिकृतस्तवनसन्तुष्टाया लक्ष्म्याः सर्वलोकहिताव हे प्रादुर्भावे शक्रकृतलक्ष्मीप्रशंसारूपा प्रासङ्गिकी उक्तिः विष्णुपुराणेदृश्यते।’ इति टिप्पणी मुद्रितपुस्तके दृश्यते॥१७६॥*

  • तामेवोक्तिं दर्शयति-सद्य इति। हे विष्णुवल्लभे विष्णुप्रिये, जगद्धात्रि जगन्मातः !त्वं यस्य पुरुषस्य पराङ्मखीभवसि तस्य शीलं सद्वृत्तम् आद्यं मुख्यं येषां ते गुणाःसदाचरणपरोपकारादयः सकला अपि सद्यः सपद्येव विगुणान्नां दोषाणां भावःवैगुण्यं दोषरूपत्वम् आयान्ति प्राप्नुवन्ति॥४२३॥*

    ततश्च—

सम्पत्तिः किम्पचानानां सम्प्राप्ता कापथेन या॥
नरकानुभवोदर्का न सा लक्ष्म्याः कृपा566फलम्॥४२४॥

तथाहि—

धन्यम्मन्यतया तृणीकृतबुधा धर्मेषु दुर्मेधसः
सेर्ष्यास्तामसपुण्यलेशविलसत्सम्पल्लवाः पल्लवाः॥
पश्या567सूनपहाय पञ्चषदिनान्याकल्पमल्पा568 इमे
भोक्ष्यन्ते बत यातना बहुविधाः कार्तान्तगर्तान्तरे॥४२५॥

यच्च भणितं भवता तत्रभवतः शिष्टान् लक्ष्मीर्न वीक्षत569 इति तदज्ञानोपबृंहितमेव।570 यतः साधुजनेभ्यो मुक्त्यैश्वर्यपर्यन्तनिरन्तरभगव-

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

*** सम्पत्तिरिति।** किम्पचानानां कृपणानां “कदर्ये कृपण-क्षुद्र-किपचान-मितं-पचाः।” इत्यमरः। सम्पत्तिः या कापथेन कुत्सितमार्गेण प्राप्ता, सा नरकानुभवःउदर्कः उत्तरं फलं यस्याः सा तथाभूता। अत एव सा लक्ष्म्याः कृपाफलं नभवति। नहि खलु लोकमातुः कृपारसार्द्रचित्ताया लक्ष्म्याः प्रसादेन दुर्गत्युदर्काणिफलानि भवन्तीति भावः॥४२४॥*

  • नरकानुभवोदर्कत्वमेव प्रपञ्चयति—धन्यम्मन्यतयेति। आत्मानं धन्यम्मन्यन्तेते धन्यम्मन्यास्तेषां भावो धन्यम्मन्यता तथा हेतुना तृणीकृतास्तृणवत्तुच्छीकृता बुधाःपण्डिता यैस्ते तथाभूताः अत एव दुर्मेधसो दुष्टबुद्धयः, धर्मेषु सेर्ष्याः धर्मनिबन्धनान्यसहमाना इत्यर्थः। पल्लवाः परदारासक्ताः जाराः “पल्लवः किसले बले। विटपे विस्तरेऽलक्तरागे शृङ्गार-षिङ्गयोः।” इति कोशः(?)। अल्पाः क्षुद्राः पञ्चषदिनानि पञ्चषदिनपर्यन्तमित्यर्थः। “बहुव्रीहौ सङ्ख्येये-” इत्यादिना डचि टिलोपः। तामसः तमोगुणप्रभवः यः पुण्यस्य लेशःअंशः तेन विलसन् सम्पदः धनादिसम्पत्तेः लवो लेशोयेषां ते तथोक्ताः इमे जनाः अन्ते असून् प्राणानपहाय त्यक्त्वा आकल्पं कल्पपर्यन्तं बहुविधाः यातनाः तीव्रनरकवेदनाः कृतान्तस्य यमस्य अयं कार्तान्तः स चासौ गर्तःनरकरूपः तस्य अन्तरे मध्ये भोक्ष्यन्ते; पश्य। बतेति खेदे॥४२५॥*

  • एतावता ‘दातुर्द्वारि य एष—’ इत्यादिना ‘हन्तुर्बन्धुजनान्—’ इत्यादिनाचोक्तन्दूषणं परिहृत्य ‘येषामन्यकलत्रदर्शन—’ इत्यादिनोक्त दूषणं परिहर्तुमाहयच्चेति। यच्च तत्रभवतः पूज्यान् शिष्टान् जनान् प्रति लक्ष्मीर्न वीक्षते नावलो-*

द्भक्तिसम्पदं प्रदत्ते571 दूरापास्तमारामयविकारा वाराशिदुहितुरुदारकटाक्षसाधुसुधाधारा॥९७७॥

सम्भोगारम्भजृम्भन्मदकितवपरीरम्भसम्पीड्यमान-
प्रौढस्त्रीरत्नहारप्रशिथिलगुणवद्भङ्गुराः सम्पदोघाः॥
साधूनां मा स्म भूवन्सुरपुरनिरसीकार572दक्षं573 हि लोके
भोक्ष्यन्ते मोक्षमन्ते स्थिरनिरवधिकानन्दधारात्मकं ते॥४२६॥

लक्ष्मीकटाक्षपूरः स जयति यदुपचयतारतम्येन॥
नरसुरपशुप्रजानां पतयः स्युर्हन्त जन्तवः केऽपि॥४२७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

कयति इति भणितं ‘येषामन्यकलत्र—’ इत्यादिना प्रतिपादितं तदज्ञानेन तत्त्वतोऽवबोधाभावेन उपबृंहितमुपवृद्धमेव। यतो हेतोः वाराशिदुहितुः समुद्रकन्याया लक्ष्म्याः दूरम् अपास्तस्त्यक्तः मारः काम एव आमयो रोगस्तस्य विकारो ययासा उदारा मोक्षपर्यन्तानन्तसुखप्रदत्वान्महान्तो ये कटाक्षास्तद्रूपा या साध्वी उत्तमासुधाधारा अमृतसम्पातः मुक्त्यैश्वर्यम्मोक्षरूपा भूतिः पर्यन्ते अवसाने यस्यास्तादृशीन्निरन्तराम् अविच्छिन्नां भगवति विष्णौ भक्तिसम्पदं प्रदत्ते प्रददाति॥१७७॥

  • ‘दूरापास्तमारामयविकारा’ इति यलक्ष्मीकटाक्षाणामुदारत्वमुक्तं तदेव सहेतुकमुपपादयति—सम्भोगेति। सम्भोगस्य सुरतसुखस्य आरम्भे जम्भन्तः उद्यन्तःमदयुक्ताश्च ये कितवा धूर्तास्तेषां परीरम्भेणाश्लेषेण सम्पीड्यमानाः प्रौढस्त्रीणां तरुस्त्रीणां रत्नहाराणां प्रशिथिला अतिशयशिथिला ये गुणाः सूत्राणि तद्वद् भङ्गुराविनाशिनः, क्षणमात्रनश्वरा इत्यर्थः। सम्पदाम् ओघाः समूहाः साधूनां सततपरोप-कारतत्पराणां सज्जनानां मा स्म भूवन् मा भवन्तु, एतादृशनश्वरसम्पदां नैव तेषामपेक्षेति भावः। हि यस्मात् कारणाद् लोके ते साधवः सुरपुरस्य स्वर्गस्य निरसीकारेनरसीकरणे तुच्छीकरणे इत्यर्थः। दक्षं समर्थं, तस्याप्यनित्यत्वात्। तदुक्तं भगवतैव—“त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते। ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान्॥ते तं भुक्त्वा स्वर्गलोकं विशालङ्क्षीणे पुण्ये मर्त्यलोकं विशन्ति।” इति। श्रुतिरपि—“तद्यथेह कर्मचितो लोकःक्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते” इति। किं तर्हि स्थिरसुखं यत्साधुभिरुपभुज्यते इत्याकाङ्क्षायामाह—स्थिरा कालत्रयेऽप्यनश्वरा अत एव निरवधिका निःसीमा च अनुत्तमेत्यर्थः। आनन्दस्य धारैव आत्मा स्वरूपं यस्य तं मोक्षं मुक्तिम्अन्ते देहावसाने भोक्ष्यन्ते॥४२६॥*

  • लक्ष्मीति। सः पूर्वोक्तरीत्या प्रसिद्धः लक्ष्म्याः भगवत्याः कटाक्षाणां पूरः अति-*

  • *कृ०—कमलाकटाक्षातिशयो विभवोपचयहेतुरिति नोपपद्यते। यतस्तदल्पीयस्त्वमेव सम्पदुत्कर्षसम्पादकम्॥१७८॥

    तथाहि—

गजशिबिकातुरगाः स्युर्नरस्य तन्व्या दृशा हरेस्तन्व्याः॥
तद्भूम्नि भवति वाहो नीरद उक्षा च हन्त पक्षी च॥४२८॥

** वि०**—विहस्य—

ईदृशीमुत्कर्षपिशुनामरविन्दालयाया निन्दामभिनन्दामि॥१७९॥

किं दर्पदायकधनोपचयप्रमत्तैः कन्दर्पसायकहतैः574 क्षितिपैरिहेति॥
सन्तः पुरन्दरनुतं त्वरविन्दनाभेरन्तःपुरं तदवनावनुचिन्तयन्ति॥४२९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

शयः जयति सर्वोत्कर्षेण वर्तते। कथम्भूतः सः। यस्य कटाक्षपूरस्य उपचयो वृद्धिः तस्य तारतम्येन न्यूनाधिकभावेन हेतुना केऽपि पूर्वं हीनदशापन्ना अपि जन्तवःप्राणिनः नराणां मनुष्याणां सुराणां देवानां नरसुराणां ब्राह्मणानां वा पशूनां सर्वजीवानां गोमहिष्यादीनां च प्रजानां च पतयः पालकाः स्वामिनश्च हन्तेत्यानन्दे। नृपति इन्द्र-रुद्र-ब्रह्माणो वा स्युः॥४२७॥

  • कमलेति। कमलाकटाक्षाणां लक्ष्मीकटाक्षाणामतिशयो विभवस्यैश्वर्यस्य उपचयहेतुर्वृद्धिकारणमिति नोपपद्यते नैव युज्यते। यतः कारणात् तेषां लक्ष्मीकटाक्षाणामपीयस्त्वमेव अत्यल्पत्वमेव सम्पदः सम्पत्तेः उत्कर्षसम्पादकं भवति॥१७८॥*

  • तदेवोपपादयति—गजशिबिकेति। हरेः विष्णोस्तन्व्याः कान्तायाः लक्ष्म्याःतन्व्या अल्पयैव दृशा कटाक्षरूपया नरस्य गजा हस्तिनश्च शिबिका आन्दोलिकाश्चतुरगा अश्वाश्च ते स्युः भवन्ति। तेषां लक्ष्मीकटाक्षाणां भूम्नि अतिशये सति क्रमेण नीरदो मेघः वाहो वाहनं भवति। एतदेव पदद्वयमग्रेऽपि योज्यम्। अनेन चेन्द्रस्वरूपमुक्तम्। उक्षा वृषभश्च, अनेन शिवखरूपं, पक्षी गरुडश्च, एतेन विष्णुस्वरूपञ्चोक्तम्। एतद्यथोत्तरमाधिक्ये ज्ञेयम्। हन्तेत्यानन्दे॥४२८॥*

  • ईदृशीमिति। ईदृशीं शब्दमात्रविरोधदर्शिनीं वस्तुतस्तत्त्वार्थप्रतिपादिनीम्अत एवोत्कर्षस्यातिशयस्य पिशुनां सूचकाम् अरविन्दालयायाः पद्मालयायाः लक्ष्म्याःनिन्दामप्यभिनन्दामि आनन्दयामि॥१७९॥*

  • यतः सज्जनाः क्षणभङ्गुरत्वं लौकिकराज्यायैश्वर्यस्यालोच्य मोक्षमार्गमेवानुसरन्तीत्याह—किमिति। दर्पदायकःगर्वसम्पादको यो धनस्य द्रव्यस्योपचयो वृद्धिः तेनप्रमत्तैः सदसद्विवेकशून्यैः केवलं कन्दर्पस्य मदनस्य सायकैः बाणैः करणैः हतैः,सततं कामास कैरित्यर्थः। क्षितिपै राजभिः इह लोके किं कर्तव्यमस्ति ? इत्यालोच्यसन्तः पुरन्दरेणेन्द्रेणापि नुतं स्तुतम् अरविन्दं कमलं नाभौ यस्य तस्य विष्णोः तत्*

पुनरनुध्याय साञ्जलिबन्धम्575

मातस्ते मधुसूदनप्रणयिनि ! प्रातः सरोजच्छटा-
मुष्टीमुष्टिविचक्षणे शुभगुणे दृष्टी नमस्कुर्महे॥
अष्टाभिः किल दृष्टिभिश्च तिसृभि576र्जुष्टाः सहस्रेण वा
देवा द्वादशभिश्च यद्विषयतामेवार्थयन्ते क्षणम्॥४३०॥

इत्यन्यतो वीक्ष्य सामोदम् —

उग्ररिपुनिग्रहपविग्रह577दिवौकश्चक्रवृतशक्रमदविक्रमनिहन्ता॥
मोदरसमादरसमेत इह पूर्णः578 प्रक्षिपतु579 पक्षिपतिरक्षियुगले मे॥४३१॥

** कृ०**— किं वर्णयसि सुपर्णममुमतिक्रान्तमर्यादम् ?॥१८०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

शाश्वतसुखप्रदत्वेन प्रसिद्धं, तुरवधारणार्थकः। अन्तःपुरं स्त्रीं लक्ष्मी, अवनौ पृथिव्याम् अनुचिन्तयन्ति ध्यायन्ति॥४२९॥

  • मातरिति। हे मधुसूदनस्य विष्णोः प्रणयिनि मातः लक्ष्मि ! ते तव प्रातःप्रातःकाले सरोजानां कमलानां छटा समूहः तया मुष्टीमुष्टि मुष्टिभ्यां मुष्टिभ्यां प्रहृत्यप्रवृत्तं युद्धं तस्मिन् “इच् कर्मव्यतिहारे” इति समासान्त इच्प्रत्ययः। विचक्षणेकुशले, कमलशोभामपि तुच्छीकुर्वन्त्यावित्यर्थः। शुभगुणे कल्याणगुणयुक्ते दृष्टी नमस्कुर्महे। किंवा दृष्टयोरेतावन्माहात्म्यं यत्ते नमस्करोषि इति चेदाह—ययोर्दृष्ट्योःविषयतां गोचरतां, अष्टाभिरष्टसङ्ख्याकाभिः दृष्टिभिः अनेन चतुर्मुखब्रह्मावबोधः,तिसृभिश्च दृष्टिभिः अनेन त्र्यम्बकस्य शिवस्य ग्रहणं, सहस्रेण दृष्टिभिः सहस्रसङ्ख्याकलोचनैरित्यर्थः। अनेनेन्द्रः, द्वादशभिर्दृष्टिभिश्च अनेन षडाननश्चोक्तः, जुष्टा युक्तादेवाः क्षणं क्षणमात्रमपि अर्थयन्ते याचन्त एव॥४३०॥*

  • उग्रेति। उग्राणामपि रिपूणां शत्रूणां निग्रहः पराभवो यस्मात् तादृशः यःपविर्वज्रं तस्य ग्रहः स्वीकारो यस्यास्ति तादृशो दिवौकसां देवानां चक्रेण समूहेन वृतो यःशक्र इन्द्रस्तस्य मदस्य गर्वस्य विक्रमस्य पराक्रमस्य च मदकरो गर्वोत्पादको योविक्रम इति वा तस्य निहन्ता विनाशयिता। अमृताहरणसमये इत्यर्थः। अत एव पूर्णःसकलगुणैः परिपूर्णः आदरेण प्रेम्णा समेतः युक्तः पक्षिपतिर्गरुडः इह मे अक्षियुगलेनेत्रयुग्मे मोदरसमानन्दरसं प्रक्षिपतु योजयतु। इन्दुवदना वृत्तम् “इन्दुवदनाभ-ज-स-नै सगुरुयुग्मैः” इति वृत्तरत्नाकरे तल्लक्षणात्॥४३१॥*

  • किमिति। अतिक्रान्ता उल्लङ्घिता मर्यादा स्थितिर्येन तममुं सुपर्णं गरुडं किङ्कुतः कारणाद् वर्णयसि ?॥१८०॥*

तथाहि—

अधिगतनिगमाङ्गोऽपि द्विजराजोऽप्यच्युतं दधानोऽपि॥
निजगार? कथङ्कारं निःशङ्कं भिल्लपल्लिकां गरुडः॥४३२॥

** वि० —** पक्षिराजस्य भिल्लपल्लीनिगरणे580न साधुजनानुग्रहासाधुजननिग्रहसामर्थ्यं सदसद्विवेचनचातुर्यं च व्यञ्जितमे581तत्कथं भूषणमेव दूषयसि?582॥१८१॥

शृणु —

गरुडो गिलन्583 कमपि किल्विषाविलं खलभिल्लजाल584मुषितं तदन्तरे॥
निरजीगलन्निजगलादिलासुरं भवतः प्रपन्नमिव पन्नगेशयः॥४३३॥

हन्त शकुन्तपुरन्दरस्यास्य स्वच्छन्दविहारावसरेष्वप्यभङ्गुरमेव स्वामिकैङ्कर्यम्॥१८२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • अतिक्रान्तमर्यादत्वमेवाह — अधिगतेति। अधिगतानि ज्ञातानि निगमावेदाश्च अङ्गानि शिक्षा-व्याकरणादीनि च येन, अधिगतानि प्राप्तानि निगममयान्यङ्गानिहस्तपादाद्यवयवा येनेति वा, तथाभूतोऽपि द्विजानां ब्राह्मणानां पक्षिणां च राजाश्रेष्ठः अधिपतिश्चापि, अच्युतं विष्णुं दधानोऽपि धारयन् सन्नपि गरुडः भिल्लपल्लिकाम्भिल्लगोधिकां, हिरण्यपुराभिधं शबरप्रामं चेति भावदर्पणकारः। निःशङ्कं भयरहितं यथा तथा कथङ्कारं कथं निजगार भक्षितवान्। एतदेवातिक्रान्तमर्यादत्वमित्यर्थः॥४३२॥*

  • पक्षिराजस्येति। भिल्लपल्लयाः निगरणेन भक्षणेन साधुजनेषु अनुग्रहः कृपाच असाधुजनेषु दुष्टजनेषु च निग्रहः शिक्षा च तयोः सामर्थ्यं, तत एव च सदसतोः सत्यासत्ययोः विवेचने चातुर्यं नैपुण्यं च पक्षिराजस्य गरुडस्य व्यञ्जितप्रकटीभूतम् एतच्च भूषणमेव तत् त्वं कथं दूषयसि ?॥१८१॥*

  • गरुड इति। गरुडः कमपि किल्बिषैः पापैः आविलं मलिनं दूषितमित्यर्थः।खलभिल्लानां दुष्टशबराणां जालं समूहं गिलन् भक्षयन् सन् तस्य भिल्लसमूहस्यअन्तरे मध्ये उषितं स्थितं निजगलात् स्वकण्ठाद् इलासुरं भूसुरं ब्राह्मणमित्यर्थः।भवतः संसारात् प्रपन्नं शरणागतं भक्तम्पन्नगे शेषे शेतेऽसौ पन्नगेशयः विष्णुरिवनिरजीगलद् बहिर्निःसारितवान्। अनेन तस्य दुष्टेष्वेव निग्रहो द्योतितः॥४३३॥*

  • हन्तेति। शकुन्तानां पक्षिणां पुरन्दरस्य इन्द्रस्य पक्षिश्रेष्ठस्येत्यर्थः। “शकुन्त-पक्षि-शकुनि-” इत्यमरः। अस्य गरुडस्य स्वच्छन्दाः खतन्त्रा ये विहाराः क्रीडाः तेषाम् अवसरेषु समयेष्वपि स्वामिनो भगवतो विष्णोः कैङ्कर्यन्दास्यम् अभडरमेव विच्छेदरहितमेव। वर्तत इति शेषः॥१८२॥*

यतः—

स्वज्येष्ठप्रेर्यहर्याश्रितरथघृणिमन्मण्डलस्थाच्युताप्यं
सन्मार्गं पक्षवातोद्गतधरणिरजश्छन्नमेतज्जवेन॥
कल्लोलैरुल्लसद्भिः585 प्रचलजलनिधेः क्षालयन्पूर्णदर्णः-
प्रेङ्खड्डिण्डीरखण्डच्छलकुसुमकुलैर्मण्डयत्यण्डजेन्द्रः॥४३४॥

पुनरभिध्यायन्—

यद्वीक्षा धैर्यरक्षां किल पुलकभृतां धावतां586 दैवतानां
सेवासम्मर्दकाले गिरिशफणिगणाद्विभ्यतामभ्यतानीत्॥
सोऽयं गाङ्गेयपृथ्वीधरवरशिखरच्छायदायादकाय-
श्छिन्दन्वृ587न्दं रिपूणां कलयतु कुशलं छान्दसो नः शकुन्तः॥४३५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

*** स्वज्येष्ठेति।** अण्डजेन्द्रः पक्षीन्द्रः गरुडः पक्षयोः पत्रयोर्वातेन उद्गतम् ऊर्ध्वङ्गतं यद्धरण्याः पृथ्व्याः रजस्तेन छन्नम् आच्छादितं स्वस्य ज्येष्ठेन ज्येष्ठभ्रात्रा अरुणेन प्रेर्याः प्रेरणीयाः ये हरयोऽश्वाः “यमाऽनिलेन्द्र-चन्द्रार्कविष्णु-सिंहांशु वाजिषु। शुकाहि-कपि-भेकेषु हरिर्ना कपिले त्रिषु।” इत्यमरः। तैराश्रितो रथो यस्यस चासौ घृणिमान् किरणवान् सूर्यश्च तस्य मण्डले तिष्ठतीति तत्स्थः यः अच्युतोविष्णुः तेन आप्यं प्राप्यम् अत एव सन्मार्गमुत्तमाध्वानमाकाशं च एतस्य पक्षवातस्य जवेन वेगेन प्रचलःप्रकर्षेण चञ्चलः यः जलनिधिः समुद्रः तस्य उल्लसद्भिः उद्भूयमानैः कल्लोलैः महातरङ्गैः क्षालयन् सन् घूर्णतः क्षुभ्यतः अर्णसः समुद्रोदकात्प्रेङ्खन्ति निर्गच्छन्ति यानि डिण्डीरस्य फेनस्य खण्डानि शकलानि तेषां छलं व्याजोयेषां तथाभूतानि यानि कुसुमकुलानि पुष्पवृन्दानि तैःमण्डयति भूषयति च॥४३४॥*

  • यद्वक्षेति। सेवायां भगवत्पूजायां यः सम्मर्दः युगपदेकत्र बहुजनानां समागमः तत्काले गिरिशस्य शङ्करस्य फणिगणात् सर्पसमुदायाद् बिभ्यताम् अत एवपुलकभृतां भयाद्रोमाञ्चयुक्तानाम् अत एव च धावतां पलायमानानां दैवतानां देवानांयस्य गरुडस्य वीक्षा दर्शनं धैर्येण रक्षां रक्षणम् अभ्यतानीद् विस्तारयामास चकारेति यावत्। किल निश्चयेन। गाङ्गेयपृथ्वीधरस्य सुवर्णपर्वतस्य मेरोः वरशिखराणाम् उत्तमशृङ्गाणां छाया इति वरशिखरच्छायं “छाया बाहुल्ये” “इति नपुंसकत्वम्। तस्य दायादः भागहरः कायः शरीरं यस्य सः, मेरुशिखरवत् खर्णकान्तिरित्यर्थः। सः अयं छान्दसः वेदप्रतिपाद्यः शकुन्तः पक्षी गरुडः नोऽस्माकं रिपूणांशत्रूणां वृन्दं समूहं छिन्दन् विनाशयन् सन् कुशलं कल्याणं कलयतु करोतु॥४३५॥*

** पुनः सविस्मयम् —

नगरूपमुपैति युक्तमङ्गीकृतशाखोऽपि सुपर्ण उन्नतोऽपि॥
विनतैकवियेय एष चित्रं स्थिरमामोदमगान्म588धोर्विपक्षात्॥४३६॥

अथ सर्वतः पुरीं निरीक्ष्य साञ्जलिबन्धम्—

श्रीवल्लभदासेभ्यः श्रीरङ्गक्षेत्रनित्यवासेभ्यः589
त्रुटितभवत्रासेभ्यो नमोऽस्तु कृतशिष्यधीविकासेभ्यः॥४३७॥

कु० — सखे! सर्वानेतत्पुरवास्तव्यान्मा स्म भवान्नमस्कार्षीत्॥१८३॥

निबिरीसगुणस्तोमैर्हरिदासैरलङ्कृते॥
अट्टशूलाः कतिपये पट्टनेऽस्मिन्प्रतिष्ठिताः॥४३८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • नगेति। अङ्गीकृताः स्वीकृताः शाखाः शिफाः ऋग्वेदादिशाखाश्च येन सःतथाभूतोऽपि अत एव उन्नतः उच्चोऽपि सुष्ठु पर्णानि पलाशानि पक्षाश्च यस्य सःगरुडः नगस्य वृक्षस्य मेरुपर्वतस्य च रूपं साम्यम् उपैति प्राप्नोतीति तु युक्तं योग्यमेव। परन्तु एषः विनतानां नम्राणां विनताभिधायाः स्वमातुश्च एकः अद्वितीयः विधेयः वचनग्राही आज्ञाधारक इत्यर्थः। “विधेयो वचनग्राही” इत्यमरः। मधोर्वसन्तस्य मधुनामकदैत्यस्य च विपक्षात् शत्रोः विष्णोश्च स्थिरमनश्वरम् आमोदं सुगन्धम् आनन्दं च अगात् प्राप्तवानिति यत्, एतदेव चित्रमाश्चर्यम्। श्लेषमूलको विरोधाभासोऽलङ्कारः॥४३६॥*

  • श्रीति। श्रीवल्लभस्य भगवतो विष्णोः दासेभ्यो भक्तेभ्यः श्रीरङ्गक्षेत्रे नित्यंवस्तुं शीलं येषां तथाभूतेभ्यः अत एव त्रुटितः भवस्य संसारस्य त्रासो येषां तेभ्यः कृतः शिष्याणां धियो बुद्धेः विकासः विविधशास्त्राध्यापनेन प्रकाशो यैस्तेभ्यश्च नमः अस्तु॥४३७॥*

  • सख इति। सर्वान् एतत्पुरस्थान् रङ्गक्षेत्र निवासिनो जनान् भवान् मा स्मनमस्कार्षीन् मा नमस्करोतु॥१८३॥*

  • निबिरीसेति। निबिरीसाः अतिसान्द्राः अत्र सान्द्रार्थे “नेर्बिडज्बिरीसचौ”इति सूत्रेण तद्धिती बिरीसच् प्रत्ययः। ये गुणाः सौशील्यादयः तेषां स्तोमः समूहोयेषां तैः अतिगुणवद्भिरित्यर्थः। हरिदासैर्भगवद्भक्तैः अलङ्कृते विराजितेऽप्यस्मिन्पट्टने श्रीरङ्गक्षेत्रे कतिपये जनाः अट्टशूलाः अन्नविक्रयिणः “अट्टमन्नं शिवो वेदःशूलो विक्रय उच्यते।” इति कोशः। प्रतिष्ठिताः स्थिताः सन्तीति शेषः॥४३८॥*

  • *निरूप्य सविस्मयम् —

शक्राद्यर्थं हविरघहरं शौरिणाऽऽस्वादितं यद्
दत्तं वित्तग्रहणचपलाः केऽपि विक्रीणते तत्॥
धाम श्रीमद्यदि मधुजिता दीयते590 स्वीयमेते
नो त्रस्यन्ते591 धनकणतृषा तच्च विक्रेतुमज्ञाः592॥४३९॥

वि० — मन्दमते मैवं भाणीः॥१८४॥

किं किं न जीर्यति मुकुन्दपदारविन्द-
द्वन्द्वाभिवन्दनकृतामिह देहभाजाम्॥
अत्यद्भुतौषधविशेषनिषेवकाणा-
मापादयेत ? किमनर्थमपथ्यसेवा॥४४०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

‘अट्टशूला’ इत्युक्तमेव सविस्तरमुपपादयति—शक्राद्यर्थमिति। यत् हविःशौरिणा विष्णुना आस्वादितं भक्षितं, तस्मै समर्पितमिति यावत्। अत एव तदघहरं पापनिवारकं हविः शक्र इन्द्रः आदिर्मुख्यो येषाम् अग्निवरुणादीनां तदर्थं दत्तंसमर्पितं च तत् हविः केऽपि नीचाः वित्तग्रहणचपलाः द्रव्यसम्पादनलोलुपाःसन्तः विक्रीणते। नैतावदेव किन्तु मधुजिता विष्णुना यद्यपि श्रीमत् सम्पत्तियुक्तंलक्ष्मीयुक्तं वा स्वीयं धामं वैकुण्ठस्थानं दीयते समर्प्यते, तथापि एते अज्ञा मूर्खाःधनकणे अल्पीयस्यपि द्रव्ये इत्यर्थः। तृषा वाञ्छा तया तच्च विष्णुपदमपि, विक्रेतुन्नो त्रस्यन्ते नैव बिभ्यति। तस्मान्नैतेभ्यो द्रव्यार्जनैकपरेभ्यः अन्ये नीचा इतिभावः॥४३९॥

  • किं किमिति। इह रङ्गक्षेत्रे मुकुन्दस्य भगवतो विष्णोः पादारविन्दयोश्चरणकमलयोर्द्वन्द्वस्य अभिवन्दनम् अभिवादनं कुर्वन्तीति तथाभूतास्तेषां देहभाजां प्राणिनाङ्किं किं पापाचरणं न जीर्यति न नश्यति ? अपि तु सर्वमेव जीर्यत्येवेत्यर्थः। एतदेवार्थान्तरन्यासेनाह—अत्यद्भुतेति। अत्यद्भुतः सत्वररोगनिवारकत्वादत्यांश्चर्यावहः य औषधविशेषः तस्य निषेवकाणां पानं कुर्वतां रोगिणाम् अपथ्यसेवा अपथ्यभक्षणम् अनर्थंरोगवृद्धिकरणरूपम् आपादयेत सम्पादयेत किम् ? अपि तु नैव सम्पादयेदित्यर्थः। पथ्यसेवनं हि क्षुद्रौषधस्वीकारे, न दिव्यौषधस्वीकारे इति भावः। तथैव दृढभगवदासक्तिसत्वे एतादृशक्षुद्रपापाचरणं नैव दोषायेति ज्ञेयम्॥४४०॥*

  • *समन्तात् पुरीं निरीक्ष्य सश्लाघम्—

रङ्गादन्यदनङ्गारेः कंसारेर्वा स्थलेष्वहो॥
किं दृष्टं ? किमपि क्षेत्रं सप्तप्राकारवेष्टितम्॥४४१॥

अथ श्रीजम्बूकेश्वरवर्णनम्—३५.
<MISSING_FIG href="../books_images/U-IMG-1723047562Screenshot2024-08-04235410.png"/>

कृ०—वयस्य मैवं वोचः॥१८५॥

अभ्यर्णेऽस्य पुरस्यैतदधिसह्यात्मजातटम्॥
शैवक्षेत्रमवेक्षेथाः सप्तप्राकारसंवृतम्॥४४२॥

वि०—विहस्य—

सत्यं जटाघरनाकारसंवृतस्यास्य श्लेषनैपुण्येनैव रङ्गसाधर्म्यं समर्थनीयम्॥

निपुणं निरूप्य—

नन्दत्कन्दर्पदर्पक्षपणनिपुणदृग्वह्निसम्पन्नभाला-
रुण्यः फण्यग्रगण्य593प्रकरमयतया भीषणै594र्भूषणैर्यः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • किञ्च रङ्गादिति। अनङ्गारेर्मदनशत्रोर्महादेवस्य कसारेर्विष्णोर्वा स्थलेषु स्थानेषुअहो हे कृशानो! रङ्गात् श्रीरङ्गक्षेत्राद् अन्यदितरत् सप्तभिः प्राकारैः सालैर्वेष्टितक्षेत्र किमपि कुत्रापि वा दृष्टं किम् ? अपि तु नैवेत्यर्थः॥४४१॥*

  • अभ्यर्ण इति। यस्मादस्य पुरस्य श्रीरङ्गक्षेत्रस्य अभ्यर्णे समीपे “समीपे निकटासन्न-सन्निकृष्ट-सनीडवत्। सदेशाभ्याश-सविध-समर्याद-सदेशवत्। उपकठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोव्ययम्।” इत्यमरः। अधिसत्यात्मजातट कावेरीनदीतीरे, विभक्त्यर्थेऽव्ययीभावः। सप्तभिः प्राकारैः संवृतं वेष्टितं, पक्षे सप्तस्य जटाधरस्य (?) प्राकारैः संवृतं च एतत् प्रसिद्धं शैवक्षेत्रं शिवस्थानं जम्बूकेश्वराभिधम्अवेक्षेथाः अवलोकय॥४४२॥*

*** सत्यमिति**। सत्यं त्वदुक्तमित्यर्थः। यतः जटाधरस्य शकरस्य प्राकारैश्चतुः-सङ्ख्याकैः संवृतस्यास्य जम्बूकेश्वरक्षेत्रस्य श्लेषस्य सप्तशब्द सम्बन्धिनोऽर्थद्वयस्येत्यर्थः।नेपुण्येनैव नतु वास्तवार्थेन सङ्ख्यापरेणेत्यर्थः। रङ्गस्य रङ्गक्षेत्रस्य साधर्म्य सादृश्यं समर्थनीयम् प्रतिपादनीयम्॥१८६॥*

  • एवं कृशानुं प्रत्युत्तरय्यभगवन्तं शङ्करं वर्णयति—नन्ददिति। नन्दन्सकलविश्वजयेनानन्दं प्राप्नुवन् यः कन्दर्पो मदनस्तस्य यो दर्पो गर्वस्तस्य क्षेपणे*

कान्तः सान्तःपुरस्सन्कवलितगरलो राजते राजतेऽद्रौ
मह्यां सह्यात्मजाग्रे विहरति सुचिरं595 शङ्करः शङ्खरोचिः॥४४३॥

** कृ०**—सखे ! नात्र स्थातव्यम्। यदिह596विश्वविलक्षणा रीतिरालक्ष्यते॥

पश्य—

ये तोयैर्नादेयैरभिषिक्तास्ते हि तापमुज्झन्ति॥
प्रत्युत जहाति तापं कावेरी शङ्कराभिषेकेण॥४४४॥

** वि०**—कुत एवम्?॥१८८॥

** कृ०**—शृणु तावत्—

गङ्गानुषङ्गाद्यमुना सदर्पेत्यसह्यतापा बत सह्यकन्या॥
गङ्गाधरे स्वैरभिषिच्यमाने तोयैः स्वयं तापमियं जहाति॥४४५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

नाशने निपुणा चतुरा समर्थेत्यर्थः। या दृक् तृतीयनेत्रं तस्यां यो वह्निरग्निस्तेनसम्पन्नं जातं भालारुण्यं यस्य सः फण्यग्रगण्यानां सर्पश्रेष्ठानां महासर्पाणामित्यर्थः।प्रकरमयतया समूहात्मकतया भीषणैः भयङ्करैर्भूषणैरलङ्कारैर्यः कान्तो मनोहरः।क्वचित् ‘भूषणः’ इति पाठः। तत्पक्षे भूषणैर्भीषण इति शङ्करस्य विशेषणम्। अपिच कवलितं भक्षितं गरलं कालकूटं येन सः राजते रौप्यमये अद्रौ कैलासपर्वते योराजते शोभते, स एव शङ्खवत् श्वेतवर्णंरोचिः कान्तिर्यस्य सः, सान्तःपुरः अन्तःपुरेण पत्न्या भगवत्या पार्वत्या सहितः सन् शङ्करः शिवः, पूर्वोक्तैरलौकिकविशेषणैरतिसामर्थ्यं कृपालुत्वं च शङ्करस्य सूच्यते। मयां पृथिव्यां सत्यात्मजायाः कावेर्याः अग्रे तीरप्रदेशे जम्बूकेश्वरक्षेत्रे इत्यर्थः। सुचिरं बहुकालपर्यन्तं विहरति क्रीडति॥४४३॥

*** सख इति।** नात्र स्थातव्यम्। यद् यतः इह क्षेत्रे विश्वविलक्षणा लोकविरुद्धारीतिः आलक्ष्यते अवलोक्यते॥१४७॥*

*** य इति।** हि यस्मात् कारणाद् ये जनाः नद्या इमानि नादेयानि तैः, नदीशब्दात् “स्त्रीभ्यो ढक्” इति ढक् प्रत्ययः। तोयैरुदकैरभिषिक्ताः स्नाताः भवन्ति, तेतापं सन्तापम् उज्झन्ति त्यजन्ति। प्रत्युत तद्विरुद्धत्वेनेत्यर्थः। कावेरी नदी शङ्करस्य अभिषेकेण तापं जहाति त्यजति॥४४४॥*

*** कुत इत्यादि।** कस्मात् कारणादेवं भवतीति प्रश्नः॥१८८॥*

  • तदेव कारणमाह—गङ्गानुषङ्गादिति। गङ्गायाः अनुषङ्गात् सङ्गमाद्धेतोःयमुना नदी सदर्पा गर्वसहिता इति विचार्येति शेषः। इति हेतोर्वा। सह्यकन्याकावेरी असह्यः सोढुमशक्यस्तापश्चित्तसन्तापो यस्याः सा तथाभूता सती, वतेति*

  • *वि०—ईदृशं दूषणं गुणग्राहिणामभिमतमेव॥१८९॥

<MISSING_FIG href="../books_images/U-IMG-1723053746Screenshot2024-07-18103322.png"/>

अथ चोलदेशवर्णनम्—३६.

<MISSING_FIG href="../books_images/U-IMG-1722597683Screenshot(9"/>.png)

इत्यन्यतो विमानं प्रस्थाप्य सानन्दम्-

अमी खलु—

व्यालाधिपेशयशुभस्थलभूषितेलाः
क्ष्वेडाशनायतनसान्द्रतरान्तरालाः॥
चोला विभान्ति पवमानविहारवेला-
दोलायमानसहकारनवप्रवालाः॥४४६॥

निपुणं विभाव्य सोत्कण्ठम्—

नागवल्लीमतल्लीभिः सुमुखीभि597रिवादरात्॥
परिरब्धाः प्रमोदन्ते क्रमुकाः कामुका इव॥४४७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

खेदे। गङ्गाधरे शिवे स्वैस्तोयैरुदकैः अभिषिच्यमाने सति इयं स्वयं तापं मनस्तापं जहाति त्यजति। तत्र गङ्गासम्बन्धादिति भावः॥४४५॥

*** ईदृशमिति**। ईदृशं गुणोत्कर्षव्यञ्जकं दूषणं गुणग्राहिणामभिमतमेवेष्टमेव॥१८९॥*

*** व्यालाधिपेति**। व्यालानां सर्पाणामधिपे शेषे शेते इति व्यालाधिपेशयोविष्णुस्तस्य शुभैः मङ्गलप्रदैः स्थलैः स्थानैः भूषिता अलङ्कृता इला भूमिर्येषां ते तथाभूताः, यद्देशे भगवतो विष्णोर्वहूनि स्थानानि सन्तीति भावः। तथा क्ष्वेडाशनःविषभक्षकः शङ्करः “क्ष्वेडस्तु गरलं विषम्” इत्यमरः। तस्य आयतनैः मन्दिरैःसान्द्रतराणि अतिनिबिडानि अन्तरालानि मध्यभागाः येषां ते तथोक्ताः पवमानस्यवायोः विहारवेलासु वहनकालेषु दोलायमानाः दोलावदाचरन्तः, चञ्चला इत्यर्थः।सहकारस्य आम्रवृक्षस्यनवप्रवाला नूतनपल्लवा येषु ते “प्रवालोऽस्त्री किसलये वीणादण्डे च विद्रुमे।”इति विश्वः। चोलाः देशाः विभान्ति विराजन्ते॥४४६॥*

*** नागवल्लीति**। किञ्च अस्मिन् देशे इति शेषः। नागवल्लीमतद्दीभिः प्रशस्तनागल्लीभिः आदरात् प्रेमातिशयान् सुमुखीभिः स्त्रीभिः इव परिरब्धाः वेष्टिताः आलिङ्गिताश्च क्रमुकाः पूगवृक्षाः कामुका इव प्रमोदन्ते आनन्दयन्ति॥४४७॥*

** इतश्च भवानवेक्षताम्—

अभ्रंलिहानहह पश्य मरुद्वृधाया
रोधोरुहः पृथुफलानिह नारिकेलान्॥
आगच्छते सवितृमण्डलमाश्रिताय
देवाय598भक्तित इवात्तनवोपहारान्॥४४८॥

मम तु एवं मतिः —

लोलद्दीर्घदला बृहत्तरफला वातोल्ललद्धूलिभि-
श्छन्नाः प्रांशुतमाः स्फुरन्ति पुरतो599 ये नारिकेलद्रुमाः॥
धूमास्वादनपात्रधारिण इमे द्राघिष्ठचञ्चज्जटा-
भस्मोद्धूलितमूर्तयो विवसनाः पाखण्डि600भेदा इव॥४४९॥

सहासमन्यतो निर्दिश्य —

पद्मिन्याकर्षोचितगन्धप्रसवान्601 प्रपश्य पुन्नागान्॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

*** अभ्रंलिहानिति।** मरुद्वृधायाः कावेर्याः रोधसि तीरे रुहन्ति उत्पद्यन्तेइति रोधोरुहः अभ्रम् आकाशं लिहन्ति स्पृशन्तीति तथाभूतास्तान्, अत्युच्चानित्यर्थः।पृथूनि महान्ति फलानि येषां तान् नारिकेलान् तालवृक्षान् इह देशे पश्यावलोकयअहहेत्यानन्दे। कथम्भूतान्। सवितृमण्डलं सूर्यबिम्बम् आश्रिताय आगच्छते देवायभगवते नारायणाय, समर्पयितुमिति शेषः। भक्तितः भक्त्या आत्ताः स्वीकृताःनवाः नूतनाः उपहारा उपायनानि यैस्तथाभूतानिव स्थितान्॥४४८॥*

  • ममेति। मम तु एवं मतिरभिप्रायः —*

*** लोलदिति।** लोलन्ति वातेन चलन्ति दीर्घाणि दलानि पर्णानि येषां ते, वृहत्तराणिअतिमहान्ति फलानि येषां ते तथोक्ताश्च वातेन उल्ललन्तीभिरूर्द्ध्वं गच्छन्तीभिर्धूलिभिःछन्नाः आच्छादिताः प्रांशुतमाः अतिशयोन्त्रताः नारिकेलद्रुमाः तालवृक्षाः ये पुरतःअग्रभागे स्फुरन्ति विलसन्ति, त इमे नारिकेलद्रुमाः द्राघिष्ठाः दीर्घतमाः चञ्चन्त्यश्चञ्चलाश्च जटा येषां ते धूमास्वादनस्य पात्रं धारयन्तीति तथाभूताः भस्मना उद्धूलिताः मूर्तयः शरीराणि येषां ते तथोक्ताः विवसनाः दिगम्बराश्च पाखण्डिनां नास्तिकसन्न्यासिनां भेदा इव स्फुरन्ति प्रकाशन्ते। अत्र ‘नागवल्ली—’इत्यादिश्लोकत्रयवर्णनेन चोलदेशस्य बहुलाम्र-नारिकेल-क्रमुकादिवृक्षसम्पन्नत्वं सूचितम्॥४४९॥*

*** सहासमिति।** अत्रास्यपूर्वंविश्वावसुरिति दृश्यते। तदत्र निष्प्रयोजनमेवेतिभाति। तस्यैव भाषणस्य प्रचलितत्वात्। एवं सति केनचित् तत्समर्थनार्थं ‘इयं चासूयाविरहेण यथार्थोक्तितया कृशानुकर्तव्याक्षेपमन्तरेणैव विषयान्तरप्रक्रान्ततयैकस्यैवोतिप्रक्रमेऽपि पुनरुक्तिर्न दोषाय भवति’ इति यदुक्तं तदप्यविचाररम-*

अतनूग्राशुगकलनात्सम्प्राप्तानधिकरेणुसम्पर्कम्॥४५०॥

पार्श्वतो वीक्ष्य —

अहो महोन्नता जनपदानाममीषामभिजातता॥१९०॥

** **पश्य—

ज्योतिष्टोम602स्तोम उक्थ्योऽतिरात्रो-
ऽप्याप्तोर्यामः603 षोडशी वाजपेयः॥
प्रौढा यज्ञाः पौण्डरीकादयो ये604
चोलेप्वेते चित्रमौपासनन्ति605॥४५१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

णीयमेव। अग्रिमश्लोकमारभ्य तद्भाषणसमाप्तिपर्यन्त नैव कुत्राप्यसूया, सर्वत्रयथार्थोक्तिरेव विद्यते। विषयान्तरप्रक्रान्तिरपि नैव पूर्वोक्तवर्णनस्यैवापि सत्त्वात्।तस्मादिय पुनरुक्तिरेव सा च दोषायैवेत्यलमप्रकृतेन॥

*** पद्मिनीति ।*पद्मिनीनां कमलिनीनां स्त्रीणां च आकर्षे आकर्षणे स्पर्धायामितियावत्। अतिशयसौरभ्यद्योतनार्थमिदम्। वशीकरणे च उचितानि योग्यानिगन्धप्रसवानि सुगन्धिपुष्पाणि गन्धस्य मदस्य च प्रसव उत्पत्तिश्च येषां येभ्यश्च तान्अतनोर्महतः अत एवोग्रस्य भयङ्करस्य च आशुगस्य वायोः अतनोर्मदनस्य च उग्राणामसह्यानाम् आशुगानां बाणानां च “आशुगौ वायु-विशिखौ” इत्यमरः। कलनात्सम्बन्धाद् अधिकस्य रेणोः धूल्याः सम्पर्क स्पर्श करेणुषु गजस्त्रीषु चेत्यधिकरेणुइति च। अस्मिन् पक्षे विभक्त्यर्थेऽव्ययीभावः। सम्प्राप्तान् पुन्नागान् एतन्नामकवृक्षान्पुरुषगजांश्च प्रपश्यावलोकय। यद्वा पद्मिनीनां पद्मिनीजातिस्त्रीणाम् आकर्षोचितानिवशीकरणयोग्यानि गन्धप्रसवानि सुगन्धपुष्पाणि येषां तान् अधिकः रेणुः रजो यासान्तासामधिकरेणूनां स्त्रीणां सम्पर्क स्पर्श सम्भोगरूपमिति यावत्। सम्प्राप्तान् पुरुषेषुनागान् श्रेष्ठान् तांश्च प्रपश्येति तृतीयार्थोप्यत्र सम्भवति॥४५०॥

  • अहो इति। अमीषां चोलानां जनपदानां देशानां महोन्नता अभिजाततारमणीयता च अस्तीति शेषः॥१९०॥*

*** ज्योतिष्टोमेति।** ज्योतिष्टोमानां नाम यज्ञविशेषाणां स्तोमः समूहः, उक्थ्यः,अतिरात्रः, आप्तोर्यामः, षोडशी, वाजपेयश्चापि। एते सर्वेपि यज्ञविशेषाः क्रमात् पञ्चचतुस्त्रिद्व्येकरात्रकालसाध्याः। प्रौढाः बहुकालसाध्यत्वान्महान्तः, पौण्डरीकादयश्चये प्रसिद्धा यज्ञाः सन्ति, त एते चोलेषु देशेषु औपासनन्ति औपासनवद् गृह्याहिमवद् आचरन्ति। तद्वन्नित्य भवन्तीत्यर्थः। आचारे क्विप्। एतच्चित्रमाश्चर्यम्॥४५१॥*

** किञ्च—

गृहे गृहे पश्य कृताग्निहोत्राः
शास्त्रौषधोल्लाघहृदो606 विदोषाः ॥
पुण्योत्तराः पण्डितपुण्डरीकाः
पुनन्ति वेदैकधना जगन्ति ॥ ४५२ ॥

** कृ०**—एतद्विषयविषया श्लाघा607 शाखानुशाखं न कर्तव्या। यत एतद्देशेवसतां सतामप्यनेकप्रकारा दुराचारा उपलभ्यन्ते ॥ १९९ ॥

स्नान्ति प्रातरधिस्रवन्ति विधिवत्सन्ध्यादि कर्माचर-
न्त्यग्नीनादधते मखान्विदधते शास्त्राणि चाधीयते ॥
अभ्यर्चन्ति सुरान्परार्ध्य608कुसुमैरर्चन्ति609 किञ्चातिथी -
नन्नैः किन्तु पुरातनैस्तनुममी पुष्यन्ति610 दुष्यन्त्यतः ॥४५३ ॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

*** गृहे गृह इति**। शास्त्राण्येवौषधानि तैः उल्लाघानि नीरोगाणि हृन्दि अन्तःकरणानि येषां ते विविधशास्त्राभ्यासेन निर्मलान्तःकरणा इत्यर्थः। उल्लाघ इतिअनुपसर्गात् फुल-क्षीव—” इत्यादिनिपातनात् साधुः।“वार्तो निरामयः”कल्य उल्लाघो निर्गतो गदात्।” इत्यमरः। “उल्लाघो निपुणे हृष्टे शुचि-नीरोगयोरपि।” इति हैमश्च। अत एव विदोषाः पापरहिताः वेदा एव एक मुख्यं धनं सम्पादनीयं द्रव्यं येषा ते पुण्योत्तराः अतिशयपुण्यवन्तः पण्डितानां पुण्डरीकाःश्रेष्ठाः गृहे गृहे प्रतिगृह कृत अग्निहोत्र यैस्ते तथाभूताश्च सन्तः जगन्ति पुनन्तिपवित्रयन्ति पश्य ॥ ४५२ ॥*

*** एतदिति**। एषः विषयः चोलदेशः विषयः प्रतिपाद्यो यस्याः सा श्लाघा प्रशंसाशाखानुशाख तत्रत्यान् प्रातिस्विकरूपेणोपादाय न कर्तव्या। यतो यस्माद् एतद्देशेचोलदेशे वसतां वासं कुर्वता सता विदुषामपि अनेकप्रकारा नानाविधाः दुराचाराउपलभ्यन्ते दृश्यन्ते ॥ १९१ ॥*

  • के दुराचारा इत्याकाङ्क्षायामाह—स्नान्तीति। अमी चोलदेशवासिनो जनाःप्रातः स्रवन्त्या कावेर्या नद्यामित्यधिस्रवन्ति, विभक्त्यर्थेऽव्ययीभावः। “स नपुंसकम् ” इति नपुसकत्वम्। स्नान्ति स्नानं कुर्वन्ति, सन्ध्यादि कर्म च विधिवत् शास्त्रोक्तविधिमनुसृत्य आचरन्ति कुर्वन्ति, अग्नीन् दक्षिणादित्रीन् आदधते स्थापयन्तिराततमग्निहोत्र पालयन्तीत्यर्थः। मखान् दर्श-पूर्णमासादीन् विदधते कुर्वन्ति,शास्त्राणि धर्मप्रतिपादकानि पूर्वमीमांसादीनि च अधीयते अभ्यस्यन्ति, सुरान् विष्णुशिवादिदेवान् परार्ध्यकुसुमैः सुगन्धिपुष्पैः अभ्यर्चन्ति पूजयन्ति किच अतिथी-.*

    • पुनर्निरूप्य सविस्मयम् —

    कष्टमेतद्देशवासिनीनां611 विलासिनीनां नित्यमेव लज्जाव्युत्पत्तिराहित्यम् ॥

तथाहि—

अपि हन्त चोलवासस्थैर्यवतीनां चिराय युवतीनाम् ॥
अपकञ्चुलिकाबन्धौ कुचकुम्भाविति विरुद्धमुपलब्धम् ॥४५४ ॥

** **किञ्च—

अगूढगाढस्तनकुम्भिकुम्भमम्भोजदम्भोदयजैत्रनेत्रम् ॥
चित्ते निधत्ते612 बत चोलदेशस्त्रैणं प्रवीणं रतिकान्तबाणम् ॥४५५

अपि च—

नवार्तवमहोत्सवे ननु सहस्रशः सङ्गता
गृहाद्बहिरशङ्कितं गदितकामगाथाशताः ॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

नपि अर्चन्ति सत्कुर्वन्ति। किन्तु स्वयं पुरातनैः पर्युषितैरन्नैः तनु शरीरं पुष्यन्तिपुष्टीकुर्वन्ति। अतः पर्युषितान्नभक्षणाद् दुम्यन्ति दोषयुक्ता भवन्ति। शास्त्रेतस्य निषिद्धत्वादिति भावः ॥ ४५३ ॥

  • किञ्च कष्टमिति। एतद्देशवासिनीनां विलासिनीनां स्त्रीणां नित्यमेव सततमेव,अनेन सुरताद्युपभोगस्थले तथा करणं न दोषायेति सूचितम्। लज्जायाः व्युत्पत्तिर्ज्ञानं तस्या राहित्यम् अभाववत्वमिति यत् तत् कष्टम् ॥ १९२ ॥*

  • तदेवाह—अपीति। चोलस्य कूर्पासकस्य “चोलःकूर्पासकोऽस्त्रिया” इत्यमरः। वाससः वस्त्रस्य च, चोले देशे वासस्य निवासस्य च स्थैर्यं स्थिरत्वं विद्यते यासां तथाभूतानां ‘वासस्थैर्य —’ इत्यत्र “खर्परे शरि वा विसर्गलोपो वक्तव्यः”इति पक्षे विसर्ग लोपः। युवतीनां स्त्रीणामपि कुचौ स्तनौ कुम्भाविव तौ चिरायबहुकालपर्यन्तम् अपगतः कञ्चुलिकायाः बन्धो बन्धन ययोस्तौ इति एतद् विरुद्धइतरजनविरुद्धम् उपलब्धं दृष्टम्। हन्तेति खेदे ॥ ४५४ ॥*

*** अगूढेति।** अगूढौ अनाच्छादितौ गाढौ कठिनौ च स्तनौ कुर्चां कुम्भिनःहस्तिनः कुम्भौ गण्डस्थले इव यस्य तद् अम्भोजस्य कमलस्य दम्भोदयस्य गर्वोत्पत्तेः जैत्रे जेतृणी नेत्रे यस्य तच् चोलदेशसम्बधि स्त्रैण स्त्रीसमूहः, प्रवीण रतौकुशल सन्, मोहने कुशलं वा, अस्मिन्। पक्षे रतिकान्तबाणस्यैतद्विशेषणम्। रतिकान्तस्य मदनस्य बाण चित्ते निधत्ते नितरां धारयति। सततस्तनानावृतत्वात्कामासक्तमिव भातीति भावः। बतेति खेदे ॥ ४५ ॥*

*** नवार्तवेति।** नवं प्रथमप्राप्त यद् अतिवं स्त्रीरजः तत्सम्बन्धी यो महानुत्सवः*

अहार्यकठिनस्तनप्रकटनादनागस्विनो
मुनेरपि घनां धृतिं613 चुलुकयन्ति चोलाङ्गनाः ॥४५६॥

** वि०**—वयस्य मा स्म निन्द614 चोलमण्डलवासिनो जनान् ॥ १९३॥

याभिः सर्वपदार्थशुद्धिरुदिता तास्वप्सु देवार्पितं
निक्षिप्तं निशि रक्षितं शुचि हविर्भक्ष्येत चेत्का क्षतिः ?॥
त्याज्यं शास्त्रनिषेधतस्तदिति चेत्साज्यं सतैलं च त-
द्भोज्यं पर्युषितं स्मरन्ति यदतो615योज्यं न तद्दूषणैः ॥४५७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

तस्मिन् गृहाद् बहिःप्रदेशे सहस्रशः सहस्रसङ्ख्याकाः सङ्गतः एकत्र मिलिताःअशङ्कितं भयरहितं यथा तथा गदितानि परस्पर भाषितानि कामगाथानां व्यवायाभिलाषोत्पादककथानां शतानि याभिस्ताः चोलाङ्गनाः चोलदेशीयस्त्रियः अहार्यवत्पर्वतवत् “महीध्रे शिखरि-क्ष्माभृदहार्य-धर-पर्वताः”। इत्यमरः। कठिनौ यौस्तनौ तयोः प्रकटनाद् अनाच्छादनतया व्यक्तं प्रदर्शनाद् अनागस्विनःकामादिवासनारहितत्वान्निर पराधिनः मुनेः मननशीलस्यापि घनां निबिडाम् अतिशयितामित्यर्थः।वृति धैर्यं ननु निश्चयेन चुलुकयन्ति चुलुकवत् कुर्वन्ति त्याजयन्तीत्यर्थः ॥ ४५६ ॥

  • एतदग्रे मुद्रितैकस्मिन् पुस्तके श्लोकद्वयमधिक दृश्यते, परन्तु तस्य प्राचीनादर्शपुस्तके अन्यपुस्तकेषु चानुपलम्भात् प्रकृतवर्णनासङ्गतत्वाच्च तन्मूले नैव निवेशितमतएव तत्र टीकामपि कर्तुं नोत्सहे। किन्तु लोकबोधनार्थ यथास्थित टीकायामेव निवेश्यते*

  • किञ्च—*

न केशेषु स्नेहो न च नयनयोरञ्जनकथा
न वा वीटी वक्त्रेन च कुचतटे चन्दनरसः ॥
न चाल्पोऽप्याकल्पो न च सुवसनं नैव कुसुमं
स्नुषात्वं पापानां फलमधनगेहेषु616 सुदृशाम् ॥ १ ॥

  • अपि च—*

अंसौ चेदुदकुम्भभारकिणितावङ्घ्रीपुनर्गोमय-
स्फायन्नाट्यमलीमसौ करतलं घासच्छिदाकर्कशम् ॥
पाकाग्न्युस्थितधूममेलनगलद्वाष्पाविले लोचने
कष्टं रिक्तगृहिस्नुषात्वनरकः स्त्रीणामहो दुस्सहः ॥ २ ॥

*** वयस्येति** । मा स्म निन्द निन्दां मा कुरु इत्यर्थः ॥ १९३ ॥*

  • अथ क्रमेण दूषणानि निराकुर्वन् प्रथमं तावत् ‘स्नान्ति प्रातरधिस्रवन्ति’ इत्यादिनोक्तं पर्युषितान्नभक्षणरूपं दोषं निराकरोति—याभिरिति । याभिरद्भिः सर्वपदार्थानां शुद्धिरागन्तुका नागन्तुकदोष निवृत्तिरुदिता कथिता तास्वेवाप्सु जलेषु निक्षिप्तएकस्मिन् पात्रे जलं सम्पूर्य तस्मिंस्थापितं, कुलस्त्रियः औदनिका वा उर्वरितान्नपात्रं*

पातिव्रत्यमुपेत्य नित्यमनघाचारावदातात्मनां
चोलीनां यदि कञ्चुकी617 न कुचयोर्मालीमसी का ततः?
नारीणां सुरतोपयोग्यवयवस्पष्टीकृतिर्दोष इ-
त्युक्तं618 चेदधरापिधानमपि किं न स्यात् सदा वाससा ?॥४५८॥

अथ कुम्भघोणशार्ङ्गपाणिवर्णनम् ३७.

<MISSING_FIG href="../books_images/U-IMG-1722773746Screenshot(12"/>.png)

इति पार्श्वतोऽवलोक्य सश्लाघम्—

अस्य देवस्य619 भाग्यवत्ता खल्वियत्तापरित्यक्ता॥१९४॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

जलपूरितपात्रे पिपीलिकादिभ्यो रक्षणार्थं स्थापयन्तीति सुविदितमेव गृहस्थानाम्।तच्च देवेभ्यः अर्पितं नैवेद्यादिरूपेण निवेदितं सन् निशि रात्रौ रक्षित मूषक-मार्जारादिभ्य इत्यर्थः। अत एव शुचि प्रकारत्रयेण पवित्र हविरन्न भक्ष्येत चेत् तस्मात्का क्षतिः को वा दोषः ? तर्हि शास्त्रनिषेधस्य का व्यवस्था इत्याकाङ्क्षायामाह—शास्त्रनिषेधतः तन्निशि रक्षितमन्न त्याज्य इति चेत् साज्य घृतयुक्त सतैल तैलपक्व च यदन्नन्तत्पर्युषितमपि भोज्य भोजनार्ह स्मरन्ति। तथा च मनुः—“यत्किञ्चित् स्नेहमयुक्तं भक्ष्यं भोज्यमगर्हितम्। तत् पर्युषितमप्याद्य हविःशेषं च यद्भवेत्।” इति।अतः कारणात् तत् पर्युषितान्नभक्षणं दूषणैः न योज्यम्। एतेषां शास्त्रविहितान्नस्यैवभक्षणात्॥४५७॥

  • अथ स्त्रीणां कचुकीराहित्यरूप दूषण निराकरोति—पातिव्रत्येति। पतिव्रतानां भावः पातिव्रत्य पतिसेवापरत्व उपेत्य प्राप्य अत एव नित्यं सन्ततम् अनघैर्निदोषैराचारैः अवदातः शुद्धः आत्मा चित्तं यासां तासां चोलीनां चोलदेशीयस्त्रीणाङ्कुचयोः स्तनयोः यदि कञ्चुकी न भवति, ततः कञ्चुक्यभावान् मालीमसी मलिनताका ? अपि तु कापि नास्तीति। पातिव्रत्येन शुद्धाचाराणाम् अवयवगोपनेऽगोपने वा नकोऽपि दोषः समुज्जृम्भत इति भावः। अथ सुरते रतिकाले उपयोगिनामवयवानांस्पष्टीकृतिर्व्यक्तीकरणं नारीणां दोषः इति उक्तं, शास्त्रे इति शेषः। तस्माद्दोष एवायस्तनानाच्छादनुरूप इति चेद् वाससा वस्त्रेण अधरस्याधरोष्ठस्यापिधानमाच्छादनतस्य सुरतोपयोगित्वात् किं कुतो हेतोर्न स्यात् ? सर्वासामपि स्त्रीणामिति भावः।एतेन चोलीनां देशाचारात् कञ्चुक्यभावो न दोषायेति सूचितम्॥४५८॥*

*** अस्येति**। अस्य पुरोदृश्यमानस्य देवस्य शार्ङ्गपाणिनःभाग्यवत्ता ऐश्वर्यवत्त्व, इयत्तापरित्यक्ता परिमितिरहिता निःसीमेत्यर्थः॥१९४॥*

    • यतोऽत्र—

मणिमयफणितल्पे मल्लिकापुञ्जकल्पे
शमितजगदभद्रां संश्रयन्योगनिद्राम्॥
दहरकुहरवर्ती देवताचक्रवर्ती
दलितदुरितबाणे दृश्यते कुम्भघोणे॥४५९॥

अन्तर्नागरिकीं जनतामवेक्ष्य सशिरःकम्पम् —

स्नात्वा सह्यसुताजले शुचितमा भूत्वा जपादिक्रमै-
र्हुत्वाग्नौ च हविः कृतेतरगिरां कृत्वा च पारायणम्॥
नत्वा शार्ङ्गधरं भवामयहरं स्तुत्वा च तं भक्तितः
श्रेष्ठाः कालममी क्षिपन्ति बहवः श्रीकुम्भघोणे द्विजाः॥४६०॥

अथ चम्पकारण्यश्रीराजगोपालवर्णनम् ३८

इतश्च—

कुटीषु गोपीरुचिरासु योऽर्कभूतटीषु गोपाल इति श्रुतोऽचरत्620

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>
मणिमयेति। मल्लिकापुञ्जकल्पे मल्लिकाकुसुमराशितुल्ये तद्वन्मृदुनीत्यर्थः।मणिमयो रत्नप्रचुरः फणी शेष एव तल्प शय्या तस्मिन् शमित जगतो विश्वस्यअभद्रममङ्गलं यया तां योगः वृत्तिनिरोधरूपः समाधिः तद्रूपां निद्रां प्रलयकाले सर्वमात्मनि प्रविलाप्य स्वस्थस्थितिमिति यावत्। संश्रयन् आश्रयन् सन्’ किञ्चदहरमन्तराकाशस्तदेव कुहरं विवरं तद्वर्ती अन्तर्यामीत्यर्थः। देवतानां चक्रवर्ती श्रेष्ठोभगवान्, दलितः भग्नः दुरित पापमेव बाणः, (बाणवत् पीडाकरत्वात्) येन तस्मिनकुम्भघोणे नाम क्षेत्रे दृश्यते अवलोक्यते, जनैरिति शेषः॥४५९॥

  • अन्तरिति। अन्तः पुरमध्ये नगरे भवा नागरिकी तां जनतां जनसमूहम्—*

  • स्नात्वेति। श्रीकुम्भघोणे नगरे श्रेष्ठाः अमी बहवो द्विजाः ब्राह्मणाः सह्यसुतायाः कावेर्याः जले स्नात्वा जपः गायत्र्यादिमन्त्राणामुपांशुपाठः आदिमुख्यो येषु तैःक्रमैः सन्ध्यादिभिः कर्मक्रमैरित्यर्थः। शुचितमाः पवित्रतरा भूत्वा अग्नौ च हविर्घृतादिक हुवा विधिवत् प्रक्षिप्य कृतेतराः रचितभिन्नाः नित्याः या गिरः वाण्यःतासां, वेदवाचामित्यर्थः। पारायण पठन च ब्रह्मयज्ञसमये इत्यर्थः। कृत्वा, भवामयहरं संसाररोगहरं शार्ङ्गधरं विष्णुं नत्वा नमस्कृत्य तं विष्णुं भगवन्तं च भक्तितः स्तुत्वाच काल क्षिपन्ति निर्यापयन्ति॥४६०॥*

  • कुटीष्विति। अर्कभुवः सूर्योत्पन्नायाः यमुनायाः तटीषु तीरेषु गोपीभिर्गोपस्त्री-*

*** ** *अकम्पकारुण्यमुपेत्य मोदते स चम्पकारण्यमगण्यवैभवः॥४६१॥

** **अत्र किल राजगोपालपादकमलमुपाश्रयतः साधुजनस्येत्थम621नुसन्धानम्॥१९५॥

कोपाटोपदशाविशालपरुषालापादिरूपाशुभ-
व्यापारग्लपितार्थिलोकहृदयैर्भूपालपाशैरलम्॥
तापाविष्टसकृत्प्रपन्नजनमुक्त्यापादने दीक्षितम्
पापानामपनोदनाय कुहनागोपालमेवाश्रये॥४६२॥

** कु०**—अत्रापि मे विरोध एव प्रतिभाति॥१९६॥

यतः—

न्यस्तपादः सुमनसां शीर्षेषु मधुहार्यहो!॥
मुरारातिर्द्विरेफोऽपि चम्पकारण्यमाश्रितः॥४६३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>
भी रुचिरामु सुन्दरासु कुटीषु लतागृहेषु यः गोपालः इति नाम्ना श्रुतः प्रसिद्धः रान्अचरद् बभ्राम, स एव भगवान्, साम्प्रतमिति शेषः। अगण्य सङ्ख्यातुमशक्य वैभवमैश्वर्य यस्य सः अचिन्त्यैश्वर्य इत्यर्थः। तथाभूतः सन्, अकम्प निश्चल शाश्वतमित्यर्थः। कारुण्व यस्मिस्तत्तथाभूत चम्पकारण्यं नाम क्षेत्र उपेत्य आगत्य मोदते क्रीडति॥४६१॥

  • अत्रेति। अत्र चम्पारण्यक्षेत्रे राजा त्रिलोक्यधिपतिश्चासौ गोपालश्च तम्यभगवतः पादकमलमुपाश्रयतो भजतः साधुजनस्य इत्थ वक्ष्यमाणप्रकारेण अनुसधानम्॥१९५॥*

  • कोपेति। कोपस्य क्रोधस्य आटोपदशायामतिशयावस्थायां ये विशाला बहुलाःपरुषाः कठोराश्च आलापाः भाषणानि आदौ प्रथमतो येषु तद्रूपा ये अशुभाःदुष्टाः व्यापाराः कर्माणि तैर्ग्लपित दुःखाकृत अर्थिलोकानां याचकजनानां हृदयमन्तःकरणं यैस्तैः अत एव भूपालपाशैर्दुष्टनृपैः अलं पर्याप्तम्। न तेऽनुसार्याइत्यर्थः। किन्तु तापाविष्टानाम् आध्यात्मिकादितापतप्तानाम् अत एव सकृदेकवारमपि प्रपन्नानां जनानां मुक्त्यापादने मुक्तिसम्पादने दीक्षित गृहीतव्रत कुहनागोपाल कपटगोपालवेष भगवन्त पापाना दुरितानामपनोदनाय निवारणार्थम्आश्रयेभजे॥४६२॥*

  • अत्रापीति। अत्र गोपालस्तवनेऽपि मे विरोध एव प्रतिभाति॥१९६॥*

  • तमेवोपपादयति—न्यस्तपाद इति। सुमनसां देवानां पुष्पाणां च शीर्षषुमस्तकेषु अग्रभागेषु च’ न्यस्तौ पादो येन तथाभूतः सन् मुरारातिर्मुरनामकदैत्यशत्रुः विष्णुः द्विरेफोऽपि रेफद्वययुक्तो मुरारातिरिति शब्दः भ्रमरश्चापि मधुहारी मधु-*

    वि०—विरुद्धानामपि सहावस्थिति622सम्पादकेदेवे वासुदेवे कनाम विरोधकथा ?॥१९७॥

यस्मिन्विलोचनतया सह पुष्पवन्तौ
पर्यङ्कवाहनतया फणि-पक्षिराजौ॥
तेजखिनौ प्रमुदितौ स्थितिमाश्रयेते
तस्मिन्नहोभगवति क्व विरोधगन्धः ?॥४६४॥

इति परिक्रम्यावलोक्य प्राञ्जलिः—

परिगतसहकारैः प्रांशुभिर्नारिकेलै-
र्दिनकरकरधारादुष्प्रवेशान्तरेभ्यः॥
चुलुकितदुरितेभ्यश्चोलदेशस्थितेभ्यो
नम इदमखिलेभ्यो नाथदिव्यस्थलेभ्यः॥४६५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>
नामकदैत्यविनाशकः मकरन्दहारकश्च चम्पकारण्यं नाम क्षेत्रं चम्पकवनं च आश्रितः। अहो इत्याश्चर्ये। तच्च चम्पक-भ्रमरयोः स्वभावविरोधित्वादिति भावः॥४६३॥

  • अनुकूलमेवैतदस्मन्मतस्येति सूचयन्नाह—विरुद्धानामिति। विरुद्धानां निसर्गविरोधिनामपि सहावस्थितिः एकत्र सहवासः तस्याः सम्पादके निर्मातरि देवे भगवति वासुदेवे विरोधकथा विरोधवार्ता का नाम भवति ?॥१९७॥*

  • यस्मिन्निति। यस्मिन् भगवति तेजखिनौ विरुद्धशीतोष्णतेजोयुक्तौ पराक्रमयुक्तौ च प्रमुदितौ आनन्दयुक्तौ च पुष्पवन्तौ सूर्य-चन्द्रौ “एकयोक्त्यापुष्पवन्तौ दिवाकर- निशाकरौ।” इत्यमरः। विलोचनतया नेत्ररूपेण, फणिराजः शेषःपक्षिराजो गरुडश्च तौ, द्वन्द्वान्ते श्रूयमाणस्य प्रत्येकमभिसम्बन्धाद् राजशब्दस्योभयत्राप्यन्वयः। पर्यङ्कवाहनतया अत्रापि पूर्ववदेव। शयनतया वाहनतया चेत्यर्थः। स्थिति वासं सह युगपदेव आश्रयेते कुरुतः। तस्मिन् भगवति गोपाले, अहो हे कृशानो ! विरोधस्य गन्धः लेशोऽपि “गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः।”इति विश्वः। क्वअस्ति ? अपि तु नास्त्येव॥४६४॥*

  • एवं भगवन्तं गोपालं स्तुत्वा तत्रत्यभगवन्निवासस्थानानि स्तौति—परिगतेति। परिगताः सर्वतः सङ्गताः सहकारा आम्रवृक्षा येषु तैः प्रांशुभिरुन्नतैः नारिकेलैस्तालवृक्षैः दिनकरस्य सूर्यस्य कराणां किरणानां धारायाः दुष्प्रवेशं प्रवेष्टुमशक्यअन्तरं मध्यभागो येषां तेभ्यः चुलुकितं विनाशितं दुरितं पाप यैस्तेभ्यः चोलदेशस्थितेभ्यः अखिलेभ्यः सर्वेभ्यः नाथस्य भगवतो गोपालस्य दिव्यस्थलेभ्यः दिव्यमन्दिरेभ्यः, इदं नमः तेभ्यो नमस्करोमीत्यर्थः॥४६५॥*

    • क्रु०—भवतु तवैतेषु623 नमस्कर्तृता। मम तु देवलकादिदेवालयोपजीविदुराचारानालोकयतो624 न भवति नमश्चिकीर्षा॥१९८॥

तथाहि—

वारस्त्रीकुचमर्दिभिर्विरचयन्त्यर्घ्यादिदानं करै-
स्तद्वीटीरसवासितैश्च625 वदनैर्जल्पन्ति मन्त्रानमी॥
द्रव्यं देवलका हरन्त्यचकिता देवस्य तत्पूजिता-
स्वेतासु प्रतिमासु हन्त भविता किं देवतासन्निधिः \।\। ४६६॥

किञ्च—

आघ्राता बत पण्ययौवतकथा नो कर्मसन्ध्यादिकं
यैरभ्यस्तमभूदसभ्य626वचनं न त्वेव वेदाक्षरम्॥
अन्धश्चैर्यपरैर्दुरन्वयभवैः सूदैरमीभिः कृता-
न्यन्नौघानि627 निवेदितानि भगवानङ्गीकरोत्येष किम् \।\।४६७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>
भवत्विति। एतेषु नाथस्थलेषु तव नमस्कर्तृता नमस्काराचरणभवतु।मम तु देवलकाः वेतनादिना देवपूजकाः “देवाजीवस्तु देवलः”। इत्यमरः। आदयोमुख्याः येषु तादृशा ये देवालयोपजीविनः देवालयोत्पन्नधन-फलादिभिः स्वोदर-पूरकाःअत एव दुराचारास्तान् आलोकयतः पश्यतः सतः नमश्चिकीर्षा नमस्कर्तुमिच्छा न भवति नैवोत्पद्यते॥१९८॥

  • वारस्त्रीति। अमी देवलकाःवारस्त्रीणां वेश्यानां कुचमर्दिभिः स्तनमर्दिभिःकरैर्हस्तैः देवस्य, देवाय भगवते इत्यर्थः अर्घ्यआदिः प्रधानं येषामावाहनादिषोडशपूजोपचाराणां तेषां दानं समर्पणं विरचयन्ति कुर्वन्ति। तासां वेश्यानां वीट्याःमुखसम्बन्धिताम्बूलस्य रसेन वासितैः सुगन्धयुक्तैर्वदनैर्मुखैश्च मन्त्रानर्घ्याद्युपचारसमर्पणमन्त्रान् जल्पन्ति पठन्ति। तथा अचकिताः परलोकभयरहिताः सन्तः द्रव्यकैश्चिद्भक्तैः समर्पितं फलादिकं हरन्ति स्वयमेव गृह्णन्ति। तैर्देवलकैः पूजितासु एतासुप्रतिमासु देवमूर्तिषु देवतानां सन्निधिः सामीप्य भविता भविष्यति किम् ? अपि तुनैवेत्यर्थः। हन्तेति खेदे॥४६६॥*

  • एव देवलकानां स्थितिमुक्त्वा तन्नैवेद्यान्नपाचकानां सूदानामाचरणमाह—आघ्रातेति। यैः सूदैः पण्ययुवतीनां वारस्त्रीणां समूहः पण्ययोवृतं तस्य कथा आघ्राता अभ्यस्ता सन्ध्यादिक कर्म तु नो नैवाघ्रातम्। बतेति विषादे। तथा असभ्यवचनम् अश्लीलभाषणम् अभ्यस्तमधीतमभूत्, वेदस्य अक्षरमपि किमुत मन्त्रादिकं तु नैवाभ्यस्तम्। किञ्च अन्धसोऽन्नस्य “भिःसा स्त्री भक्तमन्धोऽन्नमोदनः” इत्य-*

    **विमृश्य—

    अहो कलिमाहात्म्यादखिलजनानामनिवार्यो विवेकविपर्ययः628॥१९९॥

यतः—

सद्मस्वादरतोऽर्पितानि हरये सत्त्वोत्तरैर्भूसुरै-
रन्नान्यत्र न मानयन्ति विधिवत्सिद्धानि वृद्धा अपि॥
देवस्यायतने स्वदन्ति629 विभया व्रात्यैः कृतानोदनान्
स्पृष्टान्दुष्टजनेन कष्टमखिलै630र्दृष्टानशिष्टाहृतान्631॥४६८॥

** वि०**— मादृशेभ्यो हि दिव्यक्षेत्रमाहात्म्यवेदिभ्यो भवदीयमत्रदूषणं न रोचते॥२००॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>
मरः। चौर्यपरैः चौर्यतत्परैः यतो दुरन्वयभवैः दुष्कुलोत्पन्नैः अमीभिः सूदैः ओदनपाचकैः कृतानि पाचितानि अन्नौघानि विविधान्नसमूहाः, अत्रौघशब्दस्य नपुंसकत्व “स्तोमाघ - निकर-व्रात-वार-सङ्घात-सञ्चयाः।” इत्यमरानुशासनात् प्रामादिकमिति भाति। क्वचित् ‘अन्नाद्यानि’ इति पाठान्तरं दृश्यते तत्तु युक्तमेवेति मन्यामहे। तत्पक्षे च अन्नं भक्तम् आद्य मुख्यं येषु सूप-शाकादिवस्तुषु तानीत्यर्थः। परन्तु प्राचीन बहुतरपुस्तकेषु अस्यैव पाठस्य स्वीकृतत्वादस्माभिरपि स एवाङ्गीकृतः। निवेदितानि समर्पितानि सन्ति, एष भगवान् अङ्गीकरोति स्वीकरोति किम् ?॥४६७॥

  • अहो इति। कलिमाहात्म्यात् कलियुगप्रभावाद् अखिलजनानां नतु केवलदेवलकादीनामेव, विवेकस्य विधि-निषेधविवेचनस्य विपर्ययः वैपरीत्यम्॥१९९॥*

  • सद्मस्विति। सत्त्वेन सत्त्वगुणेन उत्तरैः श्रेष्टतां प्राप्तैः भूसुरैर्ब्राह्मणैः सद्मसु स्वगृहेषु आदरतः सत्कारेण हरये भगवते अर्पितानि निवेदितानि अत एव विधिवद्यथाशास्त्र सिद्धानि पक्वानि अन्नानि अत्र चोलदेशे वृद्धा अपि किमुतेतरे! नमानयन्ति ? नैव स्वीकुर्वन्ति। किन्तु देवस्यायतने देवालये व्रात्यैः पूर्वोक्तरीत्याविद्यादिसंस्कारहीनैः कृतान् पाचितान् किञ्च दुष्टजनेन दुराचारिणा मनुष्येणस्पृष्टान् कृतस्पर्शान्, अखिलैः सर्वैः शूद्रादिभिर्जनैर्दृष्टान्, अशिष्टैरसभ्यैः आहृतान्आनीतान् ओदनान् अन्नानि ‘ओदनोऽस्त्री’ इत्यनुशासनादोदनशब्दस्य पुंलिङ्गतापि।विभयाः भयरहिताः सन्तः वदन्ति आखादयन्ति भक्षयन्तीत्यर्थः॥४६८॥*

  • मादृशेभ्य इति। मादृशेभ्यः मत्सदृशेभ्यः दिव्यक्षेत्रस्य माहात्म्यवेदिभ्यःप्रभावविद्भयः हि भवदीय त्वत्सम्बन्धि, त्वयोक्तमित्यर्थः। अत्र श्रीराजगोपालविषयेदूषण न रोचते॥२००॥*

    यतः—

उषस्येव स्नानादुचितशुचिताशालिवपुषो
विनीताः खे शास्त्रे विगतवृजिनाः632 पूजकजनाः॥
परित्रातुं लोकान्विधिवदपतन्द्रा विदधते
पवित्रैरन्नाद्यैः परमपुरुषाराधनममी633॥४६९॥

आकर्ण्यतामिदमपि यदभ्युपगम्याप्यभिधास्यामि634 रहस्यम्॥२०१॥

विधिवदविधिवद्वा भक्तितोऽभक्तितो वा
ननु शुचिरशुचिर्वा नाथमर्चत्विहत्यः॥
अनुदिनमुपयातैरर्च्यमानासु देवै-
ररुचिरजितमूर्तिष्वास्तिकस्यास्ति कस्य ?॥४७०॥

** **इदं चावधेयम्—

केचिच्चक्रधरापराध635चकिताः क्ष्मापालभीताः परे
श्रद्धातः कतिचित्पचन्त्यवहिताः शुद्धाश्च दिव्यं हविः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>
उषसीति। अमी पूजकजनाः उषस्येव प्रातःकाले एव स्नानाद्धेतोः उचितायथाशास्त्राचारतया योग्या या शुचिता पवित्रता तया शालि शोभमानं वपुः शरीरंयेषां ते, स्वे आत्मीये शास्त्रे विनीताः शिक्षिता, स्वशास्त्रकृताभ्यासा इत्यर्थः। अतएव विगत विनष्ट वृजिनं दुष्कृतं येषां ते लोकान् परित्रातुं संरक्षितु अपगता तन्द्रा मन्दतायेषां ते, सन्ततं जागरूका इत्यर्थः। विधिवद्यथाशास्त्रं पवित्रैः अन्नाद्यैः परमपुरुषस्यभगवतो गोपालस्य आराधनं पूजनं विदधते कुर्वन्ति॥४६९॥

  • आकर्ण्यतामिति। किञ्च यद् अभ्युपगम्य भवदीयदूषणं स्वीकृत्यापि रहस्यङ्गौप्यम् अभिधास्यामि कथयामि तद् आकर्ण्यता श्रूयताम्। त्वयेति शेषः॥२०१॥*

  • ‘वारस्त्रीकुचमर्दिभिः—’ इत्यादिनोक्तं दूषणमुद्धर्तुमाह—**विधिवदिति।*इहत्यः एतद्देशीयः जनः शुचिः पवित्रः, अशुचिः अपवित्रो वा सन् नाथ गोपालम्भगवन्तं विधिवद्यथाशास्त्रं वाऽथवा अविधिवत् शास्त्रविरुद्धतया, भक्तितः अभक्तितो वा अर्चतु पूजयतु। किन्तु अनुदिनं प्रतिदिनम् उपयातैः आगतैः देवैरिन्द्रादिभिःअर्च्यमानासु पूज्यमानासु अजितमूर्तिषु भगवन्मूर्तिषु कस्य अस्ति परमात्मा इति मतिर्यस्य स आस्तिकः “अस्तिनास्तिदिष्टं मतिः” इति ठक् प्रत्ययः। तस्य पुरुषस्य अरुचिःअप्रीतिः अस्ति ? अपि तु सततमिन्द्रादिदेवैः पूजितत्वाद्देवतासन्निधानात्सर्वस्याप्यास्तिकस्य श्रद्धा जागरूकैवेति भवादृशनास्तिकस्य तु अश्रद्धैवेति च भावः॥३७०॥

  • ‘आघ्राता बत—’ इत्यादिश्लोकद्वयेनोकं दूषणं परिहरति — केचिदिति।*

अग्रेन्यस्तमिदं मुदैव भगवानालोकनैः स्वीकरो-
त्यंहःसंहरणास्थया636 च तदिदं प्राश्नन्ति भाग्योत्तराः \।\। ४७१॥

** **पश्य तावत् स्वानुभवसिद्धौप्रकर्ष-निकर्षौ637 भगवदायतन-तदितरस्थलपरिकल्पितयोरन्नयोः॥२०२॥

उपस्कारैः स्फारैरुपचितरसामोदभरम-
प्यवैत्यन्नं गेहे कृतमनतिभोग्यं638 बुधजनः॥
अभूयःसंस्कारिण्यपि हविषि देवालयभवे
त्वनल्पं भोग्यत्वं पुनरघहरत्वं च मनुते॥४७२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

केचित् सूदादयः चक्रधरस्य विष्णोः अपराधाच् चकिताः यदि तावद् अशुचितयाऽन्नादिकं पाचितं तर्हि भगवतोऽपराधः स्यादिति भीताः, परे अन्ये ये तावदीश्वराद्भयन मानयन्ति ते इत्यर्थः। क्ष्मापालाद् राज्ञः सकाशाद् भीताः यदि तावदनवहितत्वेनाशुचित्वेन च पाकनिष्पत्तिः कदाचिद्राज्ञा राजपुरुषेण वा केनचिद्दृष्टा स्यात्तदा वयन्दण्ड्या भवेमेति शङ्किताः सन्तः, अत एव अवहिताः पाककर्मणि दत्तचित्ताः, तत एवच शुद्धाः स्नानादिना पवित्राश्च सन्तः कतिचिदौदनिकाः श्रद्धातः आस्तिक्यबुद्ध्यादिव्य सम्यग्विहितत्वेन तेजोयुक्त हविरन्नादिक पचन्ति। ततश्च इदं सावधानतयापवित्रतया च निष्पादितमन्न अग्रे न्यस्तं नैवेद्यार्थं पुरःस्थापितं सद् भगवान् मुदैवआनन्देनैव आलोकनैरवलोकनैः स्वीकरोति। तच्चेद भगवदीक्षणेनात्यन्तपरिशुद्धमनादिक अंहसां पापानां संहरणास्थया विनाशाशया भाग्योत्तराः अतिशयभाग्यवन्तो जनाः प्राश्नन्ति भक्षयन्ति॥४७१॥

  • नन्वनुभवमन्तरेण व्यर्थमेवेद सर्वं त्वद्भाषणमिति चेदाह— पश्येति। भगवतः आयतने स्थाने तदितरस्मिंश्चस्थले कस्यचिद्गृहे परिकल्पितयोः पाचितयोरन्नयोःस्वानुभवेनात्मीयानुभवेनैव नतु मत्सदृशान्येन केनचित्कथितमात्रेण, सिद्धौ प्रकर्षःदेवालयनिष्पादितस्योत्कर्षः निकर्षः तदितरस्थलनिर्मितस्य चापकर्षश्च तौ पश्यतावत्॥२०२॥*

*** उपस्कारैरिति।** स्फारैर्बहुलैः उपस्कारैः वेसवारादिव्यञ्जनैः उपचितः वृद्धः रसस्य तिक्ताम्लादेः आमोदस्य सुगन्धस्य च भरः अतिशयः यस्मिन् तथाविधम्रप्यन्नं गेहे गृहे कृत पक्वचेत्, तद् बुधजनः अनतिभोग्यम् अतीव भोजनानर्हम् अवैति जानाति। किञ्च देवालयभवे भगवन्मन्दिरपक्वेन विद्यन्ते भूयांसो बहुलाः संस्कारा व्यञ्जनादयो यस्मिन् तथाभूतेऽपि किं पुनर्बहुतर संस्कारवति हविषि अन्ने अनल्पं बहुतरम्भोग्यत्वं भोजनयोग्यत्वं, न त्वेतावदेव, पुनः अघहरत्वं पापनिवर्तकत्वं चापि मनुते। अयं हि केवलमीश्वरस्थानप्रभाव एवेति भावः॥४७२॥*

इदं च बोद्धव्यम्—

देवागारनिषेविणः किल जना दुष्यन्तु शुध्यन्तु वा
तेऽमी स्वामिपरिग्रहेण नियतं मान्या मनीषाजुषाम्॥
प्रायेणाश्रयगौरवेण लभते हीनोऽपि मानाईतां
कुब्जक्लीबमुखो जनोऽपि भजते पूजां हि राजाश्रयात्॥४७३॥

<MISSING_FIG href="../books_images/U-IMG-1723079129Screenshot2024-08-08063503.png"/>

अथ सेतुवर्णनम्—३९.

<MISSING_FIG href="../books_images/U-IMG-1723079079Screenshot2024-08-04235410.png"/>

इत्यन्यतः परिक्रामन्नग्रतोऽवलोक्य सहर्षं साञ्जलि बन्धनम् —

पातुं पातकिनो जनानशरणान् पातुं तमःसागरं
यातुं यातुपुरीमरीन् रणमुखे जेतुं दशास्यादिकान्॥
नेतुं भूतनयां मुदं विरहिणीमेतुं यशः शाश्वतं
दातुं शर्म च राघवेण रचितं639 सेतुं नमस्कुर्महे॥४७४॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

किञ्च देवागारेति। देवागारे देवमन्दिरस्य निषेविणः पूजनान्ननिष्पादनादिरूपेण सेवकाः जनाः प्रातःकालस्नानादिना शुद्ध्यन्तु, सन्ध्यानाचरणादिना दुष्यन्तुदोषयुक्ता भवन्तु वा। परन्तु ते उभयविधा अपि अमी जनाः खामिनः भगवतःपरिग्रहेणानुग्रहेण मनीषाजुषां बुद्धिमतां नियत नियमेन मान्याः पूज्याः भवन्ति। अत्रार्थान्तरमुपन्यस्यति—लोके प्रायेण बहुधा हीनोऽपि नीचोऽपि जनः आश्रयस्याधारस्य गौरवेण महत्त्वेन मानार्हतां पूज्यतां लभते प्राप्नोति। हि यस्मात् कुब्जःवक्राङ्गः क्लीबश्च तौ मुखौ प्रमुखौ यस्मिन् तथाभूतो जनोऽपि, जातावेकवचनम्।राजाश्रयात् पूजाम् इतरजनेभ्यः सत्कारं भजते प्राप्नोति॥४७३॥

अथ दक्षिणतः श्रीरामकृत सेतु दृष्ट्वा त नमस्कुर्वन्नाह—पातुमिति। अशरणान्रक्षकहीनान् पातकिनश्च जनान् पातुं रक्षितुं, तमः सागरमज्ञानसमुद्र पातु तस्य पानं कर्तुं, पूर्वं ‘पा रक्षणे’ इति धातो रूपमत्र च ‘पा पाने’ इति धातोश्च रूपमङ्गीकृतमितिबोध्यम्। तेन सकलाज्ञानं विनाशयितुमित्यर्थः। यातूनां रक्षसां “ यातुधानःपुण्यजनो नैर्ऋतो यातु रक्षसी।” इत्यमरः। पुरी लङ्कानगरीं यातु गन्तुं रणमुखेयुद्धमध्ये दशास्यादिकान् रावणप्रमुखान् अरीन् शत्रून् जेतुं पराभावयितुं, विरहिणीस्ववियोगिनीं भूतनयां सीतां मुदमानन्दं नेतुं प्रापयितुं शाश्वतं विनाशरहितं यशःकीर्तिम् एतुं सम्पादयितुं, शर्म सुखं दीनजनेभ्य इति शेषः। दातुं च राघवेण श्रीरामचन्द्रेण रचितं निर्मितं सेतुं नमस्कुर्महे वन्दनं कुर्मः॥४७४॥

हन्त कठिनानामप्यमीषामतिमहती प्रीतिरनुबन्धिजने॥२०३॥

यतः—

लङ्कापुरे पङ्क्तिमुखेन रुद्धां भूमेः सुतां भूमिभृतोऽनुबन्धात्॥
पतिं पुनः प्रापयितुं पयोधौ सेतूभवन्तः स्वयमाप्नुवन्ति॥४७५॥

निरूप्य —

पयोधिमध्ये प्लवमानमूर्तयस्तरङ्गवेगार्पितफेनचिह्निताः॥
हसन्ति किं मन्दरमन्तरर्णवं निमग्नमेते नलसेतुभूधराः॥४७६॥

पुनर्विमृश्य—

लङ्कापुरावासिरघूद्वहारिसम्पर्कपापादिव सिन्धुराजः॥
सपक्षभूभृन्निबिडान्तरोऽपि विपक्षभूभृद्भिरबन्धि कष्टम्॥४७७॥

शुद्धाः संश्रितधर्मसेतव इमे सोढोग्रवर्षातपाः
स्थित्वा सिन्धुजले सदा क्षितिभृतो घोरं तपः कुर्वते॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • हन्तेति। कठिनानां कटोराणामपि अमीषां सेतुसम्बन्धिनां शिला-पाषाणादिकानामिति शेषः। अनुबन्धिजने स्वसम्बन्धिने अर्थात् सीताविषये अतिमहती प्रीतिःप्रेम, अस्तीति शेषः। हन्तेत्यानन्दे॥२०३॥*

  • प्रीतिमेव विशदयति—लङ्कापुर इति। भूमिभृतः सेतुसम्बन्धिपर्वताः अनुबन्धाद् भूमिकन्यात्वात्सोदरसम्बन्धादित्यर्थः। लङ्कापुरे दशानननगर्या पङ्क्तिमुखेनरावणेन रुद्धां भूमेः पृथिव्याः सुतां सीतां पुनः पतिं श्रीरामचन्द्रसन्निधिं प्रापयितुं यो समुद्रे स्वयंसेतूभवन्तः सन्तः, आप्लवन्ति तरन्ति॥४७५॥*

  • किञ्च पयोधिमध्य इति। पयोधेः समुद्रस्य मध्ये प्लवमानाः तरन्तः मूर्तयो येषां ते, तरङ्गाणाम् ऊर्मीणां वेगैः जवैः अर्पितैः समर्पितैः फेनैः चिह्निताः कृतलाञ्छनाः एते नलो नाम रामसैनिकानां वानराणामेकतमः तन्निर्मितसेतुसम्बन्धिनोभूधराः पर्वताः, अन्तरर्णव समुद्रमध्ये निमग्न मन्दरं नाम पर्वतं हसन्ति किं, उपहासं कुर्वन्त्येवेति किमित्युत्प्रेक्षा॥४७६॥*

  • पुनरिति। विमृश्य विचार्य —*

  • लङ्केति। सिन्धुराजः समुद्रः लङ्कापुरावासिनः रघूद्वहस्य रघुश्रेष्ठस्य रामचन्द्रस्यअरेः शत्रो रावणस्य सम्पर्कपापात् स्पर्शदोषादिव सपक्षाः समानमतस्थाः सुहृदइत्यर्थः। पक्षसहिताश्च ये भूभृतः राजानः पर्वताश्च तैः निबिडं घनम् अन्तरं मध्यभागो यस्य सः तथाभूतोऽपि विपक्षभूभृद्भिः शत्रुभूतराजभिः पक्षरहितैश्चपर्वतैः अबन्धि बद्धः, कष्टमिति खेदे॥४७७॥*

  • शुद्धा इति। संश्रितः आश्रितः धर्मस्य सेतुर्मर्यादा यैस्ते, पक्षे संश्रितः धर्मेण*

नृत्यन्तीरिह नित्यमेव लुलिता640स्तीक्ष्णैरतन्वाशुगै-
र्लावण्यं दधतीः कदापि न चलन्त्यालोक्य वीचीरमूः॥४७८॥

क्षणमभिध्यायन्नञ्जलिं बद्धा—

अस्तोकदृप्तिरपि वारिधिरेष यस्मात्
त्रस्तो बिभर्ति विपुलोपलसान्द्रसेतुम्॥
गोपायते दुरितवन्ति जगन्ति तस्मै
कोपाय ते रघुपते महते नमोऽस्तु॥४७९॥

** कृ०**—साक्षेपम् —

काकुत्स्थकोप641चकितः कमिता नदीना-
मासीद्यदानघगुरु642प्लवनार्हतोयः॥
शक्यस्तदैष तरितुं हरिभिः पदाभ्यां
किं वा फलं कथय सेतुकृतिश्रमस्य ?॥४८०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

धर्मरूपेण रामेण रचितः सेतुर्यैस्ते इति च, सोढौ मर्षितौ उग्रौ वर्ष वृष्टिः आतपःसूर्यप्रकाशश्च तौ द्वौ यैस्ते अत एव शुद्धाः पवित्राः सदा सर्वदा सिन्धुजले समुद्रोदकेस्थित्वा क्षितिभृतः राजानः पर्वताश्च घोरं भयकरं तपः कुर्वते कुर्वन्ति। अतः इमेपर्वताः राजानश्च इह लोके समुद्रे च लावण्यं सौन्दर्यं लवणस्य भावः लावण्यं क्षाररसमित्यर्थः। दधतीः धारयन्तीः तीक्ष्णैस्तिग्मैः अतनुभिः बहुभिः आशुगैः वायुभिःअतनोर्मदनस्य च आशुगैर्बाणैश्च “आशुगौ वायु-विशिखौ” इत्यमरः। लुलिताःक्षुभिताः पीडिताश्च अत एव नित्यमनवरतमेव नृत्यन्तीः वर्द्धिताः नृत्यमाचरन्तीश्च अमूः वीचीः लहरीः आलोक्यावलोक्य कदापि न चलन्ति न मुह्यन्ति न भ्रमन्ति च॥४७८॥

  • अस्तोकेति। एष वारिधिः समुद्रः अस्तोका बहुला दृप्तिर्गर्वोयस्य तथाभूतःसन्नपि, यस्मात् कोपात् त्रस्तो भीतः सन् विपुला बहुला ये उपलाः पाषाणास्तैःसान्द्र निबिड सेतु बिभर्ति धारयति, तस्मै दुरितवन्ति पापयुक्तानि जगन्ति गोपायतेरक्षते, ‘गुपू रक्षणे’ इत्यस्मात् “गुपू- धूप-” इत्यादिना आयप्रत्यये शतृप्रत्ययः।हे रघुपते भगवन् रामचन्द्र ! ते तव महते कोपाय क्रोधाय नमः अस्तु॥४७९॥*

  • ‘वारिधिस्त्रस्तो बिभर्ति विपुलोपलसान्द्रसेतु’ इत्यत्राक्षिपति—काकुत्स्थेतिनदीनां कमिता पतिः समुद्रः ककुत्स्थस्य गोत्रापत्यं पुमान् काकुत्स्थःरामचन्द्रः तस्य कोपाच् चकितो भीतः यदा अनघानां निर्मलानां गुरूणाम्महतां, सोढुमशक्यानामित्यर्थः। अर्थात् पाषाणानां प्लवनाय तरणाय अर्हं योग्यं तोयमुदक यस्य तथाभूतः आसीत्, तदा तर्हि एषः हरिभिः वानरैः पदाभ्यां*

    • वि०—तत् कथितमेव मया। भवता तु न सम्यगवधारितम्। शृणु तर्हि पुनः सावधनम्643॥२०४॥

अम्भोराशिं वानरा लङ्घयन्त्वित्येतद्व्याजीकृत्य राजीवनेत्रः॥
अंहोराशेर्लङ्घनार्थं नराणामम्भोराशौ644 सेतुमुच्चैरबध्नात्॥४८१॥

पुनर्निरूप्य—

न सागरोऽसौ नभ एव फेनव्रजा न चामी विपुलोडुवर्गाः॥
न सेतुरेषोऽपि निशाचराणां नृपातकानामपि धूमकेतुः॥४८२॥

पश्यात्र जलचरभ्रमचमत्कारम्॥२०५॥

गजेन्द्रबुद्ध्या नलसेतुशैलान्ग्राहा ग्रसन्ते जलधौ वसन्तः॥
तद्ग्रासजायाससमुत्थदंष्ट्राव्यथाः प्रधावन्ति यथागतं ते॥४८३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

चरणाभ्यां तरितुं लङ्घयितुमपि शक्यः स्यात्। तस्मात् सेतुकृतिश्रमस्य सेतुरचनाप्रयत्नस्य किं वा फलमुपयोगः ? कथय॥४८०॥

  • तदिति। तत् सेतुकृतिश्रमफलं मया कथितं ‘दातुं शर्म च राघवेण रचित’इत्यादिनोक्तमेव। भवता तु पुरोभागितया न सम्यक् अवधारितं ज्ञातम्। तर्हि पुनः कथयामीति शेषः। सावधान केवलपुरोभागित्वं त्यक्त्वा तत्त्वजिज्ञासया मनःपूर्वकयथा तथा शृणु॥२०४॥*

  • अम्भोराशिमिति। वानराः अम्भोराशिं समुद्रं लङ्घयन्तु तरन्तु इत्येतत्व्याजीकृत्य निमित्तीकृत्य, राजीवनेत्रः कमलनयनः श्रीरामचन्द्रः नराणाम् अंहसापापानां राशेः समुद्रस्य लङ्घनार्थम्उल्लङ्घनार्थम्अम्भोराशौ समुद्रे उच्चैर्महान्तं सेतुअवघ्नाद् बबन्ध॥४८१॥*

*** नेति।*असौ दृश्यमानः सागरः समुद्रो न, किन्तु नभ आकाश एव \। अमी सागरतरङ्गेषु विलसन्तः फेनव्रजाः फेनसमुदायाः न, किन्तु विपुलानां बहूनाम् उडूनान्नक्षत्राणां वर्गाः समुदाया एव। तथा एषः सागरे श्रीरामनिबद्धः सेतुर्न, अपि तुनिशाचराणां राक्षसानां नृणां मनुष्याणां सम्बन्धिनां पातकानामपि च धूमकेतुःउत्पातसूचकग्रहविशेषः। अत्र सागरादीनां प्रकृतस्वरूपं निषिध्य नभआदीनामप्रकृतानां साधनादपह्नुतिरलङ्कारः। तदुक्तम्—“प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपहुतिः।” इति॥४८२॥

  • पश्येति। अत्र समुद्रे जलचराणां मत्स्यादीनां भ्रमस्य मिथ्याज्ञानस्य चमत्कारम्आश्चर्य पश्य॥२०५॥*

  • ** गजेन्द्रेति।** जलधैौ समुद्रे वसन्तो वासं कुर्वन्तः प्राहाः नक्राः, गजेन्द्रा महाहस्तिन इति या बुद्धिस्तया नलस्य नलनिर्मितस्य सेतोः सम्बन्धिनो ये शैलाः पाषा-*

    • पुनर्विचिन्त्य —

डिण्डीरखण्डान्मयपाण्डुराभं द्राघिष्ठमुच्चैः परिणाहवन्तम् !!
काकुत्स्थसेतुं कलये गुणाढ्यं धौतोत्तरीयं धृतमर्णवेन॥४८४॥

** **यद्वा—

चिराद्धराभूरिभरार्तमूर्तिर्हरित्करिष्वर्पितनैजकृत्यः॥
श्रमक्षयायार्णववारि शीते शेते स किंसेतुमिषेण शेषः॥४८५॥

विमृश्य सश्लाघम् —

यः पुरा पापदशकच्छेदे साधनतां गतः॥
स सेतुर्न कथं शक्तः ? पापपञ्चकभञ्जने॥४८६॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

णास्तान् ग्रसन्ते भक्षयन्ति। ततः तेषा ग्रासाज्जाता ये आयासाः प्रयत्नाः तेभ्यःसमुत्था उत्पन्नादंष्ट्राणां व्यथा येषां ते तथाभूताः सन्तः, यथागत आगतस्थानमनतिक्रम्य, स्वस्थानमित्यर्थः। प्रधावन्ति शीघ्रगत्या गच्छन्ति॥४८३॥

  • डिण्डीरेति। डिण्डीरखण्डानां फेनशकलानाम् अन्वयेन स्पर्शसम्बन्धेन पाण्डुराश्वेतवर्णा आभा कान्तिर्यस्य त द्राघिष्ठ अतिदीर्घ उच्चैः परिणाहवन्त अतिविशालतासम्पन्नं च गुणैः प्रणतजनदुःखनिर्हरणादिभिः, सूत्रैश्च आढ्यं सम्पन्नं काकुत्स्थसेतु श्रीरामनिर्मितः सेतुः, अर्णवेन समुद्रेण धृतं परिवृतं धौतं प्रक्षालितम् उत्तरीय उपवस्त्र, कलयेअवगच्छामि॥४८४॥*

  • अथवा एव कल्पनीयमित्याह—चिरादिति। चिराद् बहुकालपर्यन्तं धरायाः पृथिव्याः भूरिभरेणातिभारेण आत पीडिता मूर्तिः शरीरं यस्य सः, अत एवहरित्करिषु दिग्गजेषु अर्पित समर्पित नैजं स्वकीय कृत्य पृथ्वीधारणरूप येन तथाभूतःसन् श्रमक्षयाय पृथ्वीधारणायासपरिहाराय सः प्रसिद्धः शेषः अनन्तः सेतुमिषेणसेतुव्याजेन शीते अर्णववारि समुद्रजले, रेफान्तोय शब्दः। शेते शयनं करोतिकिम् ? उत्प्रेक्षालकारः॥४८५॥*

  • य इति। यः सेतुः पुरा रामावतारे पापानां दशक, तस्य त्रिविधकायिकचतुर्विधवाचिक-त्रिविधमानसिकेति भेदेन दशसङ्ख्याकपापानामित्यर्थः। तानि स्कान्देयथा—“ अदत्तानामुपादानं हिंसा चैवाविधानतः। परदारोपसेवा च कायिकं त्रिविधं स्मृतम्॥पारुष्यमनृतं चैव पैशून्यं चापि सर्वशः। असम्बद्धप्रलापश्च वाड्मय स्याच्चतुर्विधम्॥परद्रव्येष्वभिध्यान मनसाऽनिष्टचिन्तनम्। वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम्॥”इति। दशसङ्ख्यानि कानि शिरांसि यस्यसः दशकः पापश्चासौ दशको रावणस्तस्य च छेदे विनाशे साधनतां निखिलवानरसैन्यस्य लङ्कायां प्रापणात् साहाय्यत्व गतः सः सेतुः पापानां ब्रह्महत्यादीनां पञ्चकन्तस्य भञ्जने विनाशे कथं न शक्तः न समर्थः ? अपि तु शक्त एव स्यादिति तत एव च स स्तुत्य एवेति च भावः॥४८६॥*

अथ ताम्रपर्णीवर्णनम्—४०.

<MISSING_FIG href="../books_images/U-IMG-1722696776Screenshot(10"/>.png)

इति परावृत्यान्यतोऽवलोक्य सामोदम्—

तापं विलुम्पति नृणामिह ताम्रपर्णी-
त्याख्यां वहन्नघदवानलजृम्भणोत्थम्645
पाथोनिधेस्त्रिजगति प्रथितोऽवरोधो
रोधोलसत्परमहर्षमहर्षियूथः॥४८७॥

अथ कुरुकानगरश्रीशठकोपमुनिवर्णनम्—४१.

<MISSING_FIG href="../books_images/U-IMG-1722696795Screenshot(9"/>.png)

तदभ्यर्णं निर्वर्ण्य —

चकास्ति कुरुकापुरी शुचिनि ताम्रपर्णीतटे
विरक्तिपरिपक्त्रिमत्रियुगभक्तिभिर्वैष्णवैः॥
दृढव्रतशठार्युरोबकुलसम्पतद्बम्भर-
ध्वनिद्विगुणजृम्भणद्रविडवेदघोषोज्ज्वला॥४८८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • एवं सेतुं संवर्ण्य ततो निवृत्य ताम्रपणत्याख्यां नदी वर्णयतीत्याह—इतीत्यादि।*

  • तामिति। रोधसोस्तीरयोः लसन्ति शोभमानानि परमहर्षाणाम् अतिशयानन्दयुक्तानां महर्षीणां यूथानि समूहाः यस्य सः, अत एव त्रिजगति त्रैलोक्ये प्रथितःप्रसिद्धः पाथोनिधेः समुद्रस्य अवरोधः अन्तःपुरस्त्री ताम्रपर्णी इति प्रसिद्धाम् आख्यां नाम वहन् धारयन् सन् इह लोके नृणां मनुष्याणाम् अघानि पापान्येव दवानलस्तस्य जृम्भणात् प्रज्वलनाद् उत्थमुत्पन्नं ताप आध्यात्मिकादिरूप विलुम्पतिविनाशयति॥४८७॥*

  • एवं ताम्रपर्णी प्रस्तूय तत्समीपवर्तिश्रीशटकोपमुनि वर्णयितुं प्रस्तौति—तदित्यादि। अभ्यर्ण समीपदेशम्—*

  • चकास्तीति। शुचिनि पवित्रे ताम्रपर्ण्या नद्यास्तटे तीरे दृढव्रतस्य निर्भरनियमसम्पन्नस्य शठारेः एतन्नामकवैष्णवगुरोः उरः स्थिते बकुले बकुलमालायां सम्पतन्तः सम्प्राप्नुवन्तः ये बम्भराः भ्रमरास्तेषां ध्वनिभिः गुञ्जारवशब्दैः द्विगुण जृम्भण ध्वनिप्रसारणं येषां तैर्द्रविडपठितैर्वेदघोषैः उज्ज्वला कान्तिमती कुरुकाख्या पुरी*

    अत्रत्यानां धर्मनिरतानां हरिभृत्यानामि646त्थमनुसन्धानम्॥२०६॥

परिदृष्टवते647 सहस्रशाखां परमां द्राविडसंहितां हितां नः॥
वे करवाम नित्यमस्मै शठकोपाय महर्षये प्रणामान्॥४८९॥

अञ्चाम चिञ्चातरुमद्भुतं तं पञ्चामरद्रूनवधीरयन्तम्॥
शठारिसञ्ज्ञं किल यस्य मूले तपःफलं किञ्चिदुदञ्चितं नः॥४९०॥

दिशन् श्रितानाममृतात्मकं फलं
विलक्षणो भाति स तिन्तिडीतरुः॥
सहस्रशाखं द्रविडागमं सृजन्
स यस्य मूलं समुपाश्रितो मुनिः॥४९१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

नगरी विरक्तैर्विषयवैतृष्ण्याद्धेतोः परिपक्रिमा फलाभिमुखा त्रियुगे विष्णौ भक्तिर्येषान्तथाभूतैर्वैष्णवैः विष्णुभक्तैः करणैः चकास्ति प्रकाशते॥४८८॥

  • अत्रत्यानामिति। अत्रत्यानां कुरुकापुरनिवासिनां धर्मनिरतानां पुण्यकर्मतत्पराणां हरेर्भृत्यानां सेवकानाम् इत्थं वक्ष्यमाणप्रकारकमनुसन्धानं चिन्तनम्॥२०६॥*

  • परीति। सहस्र चतस्रः शाखा विभागाः यस्यास्तां, सहस्रसङ्ख्यायाश्चतुर्थस्थानत्वाच्चतुर्षु सहस्रशब्दस्यौपचारिकः प्रयोगः। अत एव परमां महतीं द्राविडैःपठनीयां संहितां, नः अस्माक वैष्णवानां हितां हितकारिणीं परिदृष्टवते सम्यगवगच्छते, ‘परिसृष्टवते’ इत्यपि पाठः, तत्पक्षे परिसृष्टवते उत्पादयित्रेइत्यर्थः। शठकोपाय गुरवे महर्षये अस्मै नित्यं प्रणामान् नमस्कारान् करवाम कुर्मः। “क्रियार्थोपपदस्य–” इत्यादिना चतुर्थी। ‘स्वयम्भुवे नमस्कृत्य’ इत्यादिवत्। तेन शठकोपायेत्यस्य तमनुकूलयितुमित्यर्थः॥४८९॥*

  • अञ्चामेति। यस्य चिञ्चातरोर्मूले नः अस्माकं वैष्णवजनानां किचिदनिर्वाच्यशठारिसञ्ज्ञ शठारिमुनिरूपमित्यर्थः। तपःफलम् उदचितं प्रकटीभूत किल त पञ्चअमरद्रून् मन्दार-पारिजातादिदेववृक्षान्। “पञ्चैते देवतरवो मन्दारः पारिजातकः।सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्।” इत्यमरः। अवधीरयन्तं तिरस्कुर्वन्तम्अत एव अद्भुतमाश्चर्यावहं चिञ्चातरुं तिन्तिडीवृक्षम् अञ्चाम पूजयाम।‘अञ्चु गतिपूजनयोः’ इत्यस्य लोडुत्तमपुरुषः॥४९०॥*

  • दिशन्निति। यस्य तिन्तिडीतरोः मूल सः प्रसिद्धः सहस्रशाखं द्रविडागमद्रविडवेदं सृजन्नुत्पादयन् मुनिः शठारिसञ्ज्ञः समुपाश्रितः, सः श्रितानामाश्रितानाम् अमृतात्मक मोक्षरूपं पीयूषरूपं च फलं दिशन् समर्पयन् अत एव विलक्षणः आश्चर्यावहः स्वस्य आम्लमयत्वाद् अमृतफलप्रदत्वेनेति भावः। तिन्तिडीतरुःभाति शोभते॥४९१॥*

हरिमिव कृतावतरणं बकुलाभरणं वृणीमहे शरणम्॥
ध्येयं यं विदुरार्या मुमुक्षुभिर्यत्प्रबन्धमध्येयम्॥४९२॥

तस्मिन्मतिर्मेऽस्तु दृढा शठारौ गायन्त उच्चैरिह यस्य गाथाः॥
प्रहाय648 देहं प्रथयन्ति649 दिव्ये पदेऽहमन्नाद इति प्रगीते॥४९३॥

कृतदुरितनिरोधानां कलितश्रुतिमौलिभावबोधानाम्॥
वशितरमानाथानां न सुधाऽपि समा शठारिगाथानाम्॥४९४॥

जनानुद्दिश्य—

कठिनशठनरेन्द्रस्तावकान् श्लोकपाशान्
जठरपिठरपूर्त्यै जातु मा सङ्गिरध्वम्॥650

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • हरिमिवेति। हरिमिव श्रीविष्णुमिव कृत अवतरणमवतारो येन सः तम्भगवन्तं विष्णुमिव लोकोपकारार्थमाविर्भूतमित्यर्थः। बकुलाभरणं श्रीशठकोपमुनिशरण रक्षक वृणीमहे अङ्गीकुर्मः। किं वा तस्मिन् रक्षणसामर्थ्यं यस्मात्तदङ्गीकारम् इत्याकाङ्क्षायामाह—यं शठकोपमुनि आर्याः श्रेष्ठजनाः मुमुक्षुभिः ध्येयं ध्यातुंयोग्यः यत्प्रबन्धः यस्य शठकोपस्य ग्रन्थम् अध्येयम् अभ्यसनीयं च विदुः जानन्ति।एतदेव शरणत्वेन स्वीकारे वलवत्तरं प्रमाणमित्यर्थः॥४९२॥*

  • तस्मिन्निति। इह लोके यस्य शठारेः गाथाः संहितारूपाः उच्चैरुच्चस्वरेणगायन्तः सन्तः देह प्रदाय त्यक्त्वा अहमन्नादः इति प्रगीते वर्णिते, यजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवल्ल्यां दशमेऽनुवाके “य एव वित्। अस्माल्लोकात्प्रेत्य”इत्युपक्रम्य “एतत्साम गायन्नास्ते। हा३वु हा ३ वहा ३ वु। अहमन्नमहमन्नमहमन्नम्। अहमन्नादोऽहमन्नादो२ऽहमन्नादः।”इत्युपसंहारपरया श्रुत्येति शेषः। अत एव दिव्ये तेजःसम्पन्ने पदे वैकुण्ठस्थाने ग्रथयन्ति प्रसिद्धा भवन्ति। तस्मिन्शठारौ शठकोपमुनौ मे दृढा अनन्यविषया मतिः अस्तु॥४९३॥*

  • एव शठकोप वर्णयित्वा तद्गाथामाहात्म्यं वर्णयति—कृतेति। कृतं दुरितानाम्पापानां निरोधो वारणं याभिस्तासां कुतः यतः कलितः प्रकटीकृतः श्रुतिमौलीनाम्उपनिषदां भावस्याभिप्रायस्य बोधो ज्ञानं याभिस्तासाम् अत एव वशितः वशीकृतः रमानाथो भगवान् विष्णुर्याभिस्तासां शठारिगाथानां सुधा अमृतमपि समातुल्या न, का पुनरितरेषां वार्तेति भावः॥४९४॥*

  • कठिनेति। भो भो जनाः भवन्तः कठिनाः निष्ठुराः अत एव शठाः दुस्तरकरभारादिग्रहणेन वञ्चकाश्च ये नरेन्द्रा राजानः तेषां स्तावकाः वृथैव श्लाघाकारिणस्तान् अत एव श्लोकपाशान् निन्द्यश्लोकान् केवलं जठरपिठरस्य उदरकुण्डस्य “पिठरः स्थाल्युखा कुण्ड” इत्यमरः। पूर्त्यै भरणार्थं जातु कदाचिदपि मा *

लुठत दृढतमस्के मा च संसारकूपे
पठत शठजिदुक्तीरश्रमानीतमुक्तीः॥४९५॥

कृशानुमामन्त्र्य—

ननु शठकोपाय त्वं प्रणतिं प्राप्ताय भावुकोपायत्वम्॥
विमलमते ! कुरु कायान्निरसितुमंहो विराजते कुरुकायाम्॥४९६॥

किञ्च—

बकुलाभरणीयानां गाथानां सन्मुखेन651 भरणीयानाम्॥
हरिगृहमध्ये तारस्वरेण पुनते प्रपञ्चमध्येतारः॥४९७॥

सश्लाघम्—

विरक्तेरास्थानी मधुमथनभक्तेर्नटनभू-
र्विमुक्तेर्निःश्रेणी सुकृतपरिपक्तेः652 फलमसौ॥
प्रपत्तेरुद्यानक्षितिरकृतकोक्तेः प्रियसखी
चिदङ्कूरक्षोणी बकुलधरवाणी विजयते॥४९८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

सङ्गिरध्वम् मा उच्चारयत। तथा दृढ गाढ तमोऽज्ञानंयस्मिन् तथाभूते संसारकूपे च मा लुठत मा तिष्ठत। किन्तु अश्रमेणानायासेनैव आनीता प्रापिता मुक्तिर्याभिस्ताः शठजितः शठकोपस्य मुनेः उक्तीः गाथाः पठत उच्चारयत॥४९५॥

  • अथ कृशानुमुपदिशति—नन्विति। हे विमलमते शुद्धबुद्धे **कृशानो !*त्व कायात् शरीराद् अंहःपाप निरसितुं निवारयितुं भावुकः कुशलश्चासावुपायःसाधनं च “भावुकं भविकं भव्य कुशलं क्षेममस्त्रियाम्। शस्त चाथ त्रिषु द्रव्येपापं पुण्यं सुखादि च” इत्यमरात् सुखादयः शब्दाः विशेष्यनिघ्नाः। तत एवात्रभावुकशब्दस्य पुंल्लिङ्गत्वम्। सः तस्य भावः भावुकोपायत्व प्राप्ताय कुरुकायां नामनगर्यां विराजते शोभमानाय शठकोपाय मुनये प्रणतिं नमस्कारं कुरु। ननु निश्चयेन। मा तस्मिन् दोषारोपं कार्षीरित्यर्थः॥४९६॥

  • बकुलेति। सतां सत्पुरुषाणां सता सद्विद्यादिसंस्कारवत्त्वेनोत्तमेन वा मुखेन भरितुं पठितुं योग्याः भरणीयास्तासां बकुलाभरणः शठकोपमुनिस्तस्येमाः बकुलाभरणीयाः श्रीशठकोपमुनिप्रणीता इत्यर्थः। तासां गाथानां हरिगृहस्य श्रीभगवद्विष्णुमन्दिरस्य मध्ये तारस्वरेण उच्चस्वरेण अध्येतारः अध्ययनकर्तारः जनाःप्रपञ्चं सकलं संसारं पुनते पवित्रीकुर्वन्ति॥४९६॥*

  • विरक्तेरिति। विरक्तेर्वैराग्यस्य आस्थानी सभा “समज्या परिषगोष्टीसभा समिति- संसदः। आस्थानी” इत्यमरः। मधुमथनभक्तेर्विष्णुभक्तेः नटनभूः*

  • *समन्तादवलोक्य सानन्दं653 कृशानुमुद्दिश्य—

अभ्यस्तवेदमौलिभ्यः सद्भ्यस्तत्त्वबुभुत्सया॥
कुरुकापुरवासिभ्यः कुरु कामं नमस्क्रियाः॥४९९॥

कृ०—सत्यमेवं तथापि पुनरतिपतित654श्रुतिस्मृतयो यतयोऽपि कतिचिदत्र वर्तन्त इति भातीह नातिमाननीयता655॥२०७॥

तथाहि

न सन्ध्यासु स्नानं तिसृषु न कमण्डल्वभिधृति-
र्न चातुर्मास्यादिव्रतमपि न भिक्षाटनविधिः॥
न लिप्सायास्त्यागो न परिपठनं चोपनिषदां
यतित्वं नैतेषां श्रुतिमत656मतिक्रम्य चरताम्॥५००॥

न केवलमेतावदेव शृणु तावदन्यदपि॥२०८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

रङ्गभूमिः, विमुक्तेर्मोक्षस्य निःश्रेणी, अधिरोहिणी, सुकृतस्य पुण्यकर्मणः परिपक्तेःपरिपाकस्य फलम् इच्छितलाभः प्रपत्तेः शरणागतेः उद्यानक्षितिः उपवनभूमिः, विशिष्टसुखोत्पादकत्वात्। अकृतकायाः अकृत्रिमायाः उक्तेः वेदस्य प्रियसखी, चिदङ्कुरस्य चिन्मयनूतनप्ररोहस्य क्षोणी उत्पत्तिभूमिः, एतदभ्यासादेव चिन्मयब्रह्मज्ञानं प्रादुर्भवतीत्यर्थः। एतादृशी असौ बकुलधरस्य श्रीशठकोपस्य वाणी प्रबन्धरूपाविजयते सर्वोत्कर्षेण वर्तते॥४९८॥

  • अभ्यस्तेति। हे कृशानो, त्वमिति शेषः। तत्त्वस्य आत्मयाथार्थ्यस्य बुभुत्या जिज्ञासया हेतुभूतया अभ्यस्ताः अधीताः वेदमौलयः उपनिषदः यैस्तेभ्यः अत एव सद्भ्यः कुरुकापुरवासिभ्यः काम यथेच्छं नमस्क्रियाः नमस्कारान्कुरु॥४९९॥*

  • सत्यमिति। सत्यमित्यार्धाङ्गीकारे। एव त्वदुक्तप्रकारेण सत्यं, तथापि अतिपतिताः अतिक्रमिताः श्रुतयः स्मृतयश्च यैस्ते कतिचिद् यतयः सन्न्यासिनोऽपि अत्र कुरुनगर्यां वर्तन्ते इति हेतोः अविमाननीयता अतिपूज्यता इह न भाति॥२०७॥*

  • नेति। श्रुतिमतं वेदमतमतिक्रम्य चरताम् एतेषां सन्न्यासिनाम् एतत्प्रतिवाक्यान्वयि। तिसृषु सन्ध्यासु प्रातर्मध्याह्न-सायाह्नासु स्नानं यतीनां वेदविहितं न, कमण्डलोअभिधृतिर्धारणं न चातुर्मास्यादिव्रतम् एकस्मिन्नेव स्थाने संवासादिरूपम् एतच्च यतीनशास्त्रविहितम्। तदपि न, भिक्षाटनं भिक्षार्थं परिभ्रमणं तस्य विधिः न लिप्सायाधनवाञ्छायाः त्यागो न, किञ्च उपनिषदां पठनमपि न, अत एव एतेषां यतित्वं नकेवलं काषायवस्त्रपरिधानादिना बाह्यतः सन्न्यासित्वेपि न तथाऽन्तत इत्यर्थः॥५००॥*

सन्न्यासाश्रममाश्रितोऽपि सकलव्यापारलोपात्मकं
कैङ्कर्यञ्चपलो हरेरपदिशन्द्राग्राजधानीं विशन्॥
अर्थानर्जयति श्रितोर्जितमठो मृष्टान्नमश्नात्यसौ
को मृष्येदिह राम ! राम ! तदिदं कष्टं कलेश्चेष्टितम्657॥५०१॥

** **किम्बहुना—

अन्याय्यमस्ति किमितोऽपि हते कलौ यत्658
सन्न्यासिनो विदधते गृहिणां प्रणामान्॥
एतत्तु चेत इह कृन्तति वैष्णवोऽसा-
वित्यत्र659 शूद्रममतिर्नमति द्विजो यत्॥५०२॥

** वि०**— सखे मैवं सम्भाषिष्ठाः॥२०९॥

इच्छन्तु हन्त यतिनः कतिचिद्धनौघ-660
मुज्झन्तु661 भैक्ष्यचरणं कलयन्तु मावा662

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • सन्न्यासेति। सकलाश्च ते व्यापारा धनार्जनादिरूपाश्च तेषां लोपः शास्त्रतस्त्यागएवात्मा स्वरूप यस्य त सन्न्यासाश्रम आश्रितोऽपि चपलःद्रव्याशाधीनत्वाच्चञ्चलान्तःकरणः हरेर्भगवतः कैङ्कर्य दास्य अपदिशन् निमित्तीकुर्वन् सन्, द्राक् शीघ्रमेवराजधानी राजनिवासनगरी विशन् प्रविशन् संश्च अर्थान् द्रव्याण्यर्जयति सपादयति। नैतावदेव, किन्तु श्रितः निवासार्थमाश्रितः ऊर्जितः सुभगशिला भित्त्यादिसम्पन्नः मठः येन तथाभूतः सन् असौ यतिः मृष्टान्न मधुरान्न अश्नाति भुनक्ति। तत् तस्माद् इद कलेः कलियुगस्य, क्वचित् ‘यतेः’ इत्यपि पाठः। अर्थात् कलियुगसम्बन्धियतेः चेष्टितं कष्टम् अन्याय्यम्। अत एव इह लोके को जनः मृष्येत्सहेत ? राम ! राम ! इति खेद्वे॥५०१॥*

  • किञ्च अन्याय्यमिति। सन्न्यासिनः गृहिणां गृहस्थाश्रमिणां प्रणामान् नमस्कारान् विदधते कुर्वन्ति इति यत्, इतोऽप्यस्मादपि हते दुष्टे कलौ युगे अन्याय्यकिमस्ति ? नान्यत् किमपीत्यर्थः। किञ्च एतस्मादपि अन्यद्दुश्चरितं श्रण्वित्याह—एतत्त्विति। असौ शूदः वैष्णवः विष्णुभक्तः इति मत्वा, अत्र कुरुकानगर्या अमतिर्मन्दबुद्धिः स्वयं द्विजो ब्राह्मणोऽपि सन्, शूद्रं नमति नमस्करोतीति इयद् एतत्तुद्विजेन शूद्रममस्काराचरण च, इह नगर्या चेतः चित्त कृन्तति त्रोटयति॥५०२॥*

  • अथ धनार्जनादिरूपं यतिनामारोपितं दोषमुद्धारयन्नाह—इच्छन्त्विति।हन्तेति हर्षे। कतिचिद् यतिनःन तु सर्वे। धनौघं द्रव्यसञ्चय इच्छन्तु, उज्झन्तुत्यजन्तु वा। तथा भैक्ष्याचरणं च मा कलयन्तु न कुर्वन्तु। किं तु ते यतयः*

हर्यङ्घ्रिपङ्करुहकिङ्करतारताश्चे -
दङ्कप्रसक्ति663रकलङ्कहृदां क्व ? तेषाम्॥५०३॥

यत्पुनरभिहितं फणिवर्यपर्यङ्ककैङ्कर्यार्थं पर्यटनमपि तुर्याश्रमाननुगुणमिति तदपि निपुणनिरूपणविरहविजृम्भितम्॥२१०॥

केचन पङ्कजलोचनकैङ्कर्यायैव पर्यटाट्यन्ते664
सन्न्यासिन इह धन्यास्ते हि स्वत उपगतस्पृहाविरहाः॥५०४॥

इत्थं हि हेयोपादेयविद उदाहरन्ति॥२९९॥

भोगायैव नितम्बिनीपरिणयो यागाहृतिः ख्यातये
स्वार्थे665 पाककृतिः कुपात्रविषये666 त्यागार्थमर्थार्जनम्॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

हरेर्विष्णोरङ्घ्रीचरणावेव पङ्करुहे कमले, पङ्करुह इति प्रामादिकम्। “तत्पुरुषेकृति-” इत्यलुग्विधानात्। “पङ्केरुह तामरसं” इत्यमरोऽपि। बाहुल्याद्वा कथञ्चित्समाधेयम्। तयोः किङ्करतायां दास्ये रतास्तत्पराश्चेद् यदि भवेयुस्तर्हि तत एवअकलङ्क दोषरहित हृदन्तःकरणं येषां तेषां यतीनाम् अङ्कस्य कलङ्कस्य “उत्सङ्ग-चिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः।” इत्यमरः। प्रसक्तिः सम्बन्धः क्वसम्भवति ? हरिभक्तिप्रभावादेव धनार्जनादिरूपाः क्षुद्रदोषा नश्यन्तीति भावः। तदुक्तं भगवतैव— “अपि चेत्सुदुराचारो भजते मामनन्यभाक्। साधुरेव स मन्तव्यः— ” इत्यादि॥५०३॥

  • यदिति। यत् पूर्वं फणिवर्यः शेषः पर्यङ्कः शयनः यस्य तस्य विष्णोः कैङ्कर्यार्थं दास्यार्थं पर्यटनं परिभ्रमणमपि तुर्याश्रमस्य चतुर्थाश्रमस्य अननुगुणमयोग्यमितियदभिहित ‘सन्न्यासाश्रममाश्रितोऽपि—’ इत्यादिना प्रतिपादितं तत्प्रतिपादनमपि निपुणं सविवेक यन्निरूपणम् अवलोकनं तस्य विरहेणाभावेन विजृम्भितं समुल्लसितम्॥२१०॥*

  • केचनेति। केचन सन्न्यासिनः पर्यटाट्यन्ते पुनः पुनरतिशयेन वा परिभ्रमन्ति,राजधानीमिति शेषः। ‘अट गटौ’ इत्यस्माद् यडि रूपम्। ते पङ्कजलोचनस्यभगवतो विष्णोः कैङ्कर्यायैव दास्यार्थमेव, एवकारेणेतरदोषारोपव्यवच्छेदः। अतएव स्वतः उपगतः प्राप्तः स्पृहायाः इच्छायाः विरहः अभावो येषां तथाभूताःनिःस्पृहा इत्यर्थः। सन्ति। अत एव च ते इहलोके धन्याः सुकृतिनः हि एव॥५०४॥*

  • इत्थमिति। हेयं त्याज्यम् उपादेय ग्राह्यं च ते उभे विदन्ति जानन्तीति तद्विदःते, इत्थं वक्ष्यमाणप्रकारेण उदाहरन्ति कथयन्ति॥२११॥*

  • भोगायैवेति। यदि नितम्बिन्याः स्त्रियाः परिणयः विधिवत् पाणिग्रहः भोगायैवकामवासनापूरणायैव आचर्यते तदा दुष्येन् निन्द्यो भवेत् प्रत्यवायमुत्पादयेदिति वा।एवकारः यदि आचर्यते दुष्येदिति च प्रतिवाक्यमन्वेतव्यम्। न तु सन्तत्यै*

स्वाध्यायाध्ययनं प्रतिग्रहकृते वादाय शास्त्रश्रमो
दुष्येत्स्वोदर667पूर्तये यदि हरेः कैङ्कर्यमाचर्यते॥५०५॥

अन्यच्च—

भूयोदोषैरपि परिवृतः पूरुषः सात्विकानाम्
प्रायः पूज्यो भवति भगवद्भक्तिमासाद्य हृद्याम्॥
आक्रान्ताऽपि प्रबलभुजगैः कण्टकैरप्यनल्पैः
किं नादृत्या सुरभिकुसुमा केतकी भाग्यभाजाम्668॥५०६॥

<MISSING_FIG href="../books_images/U-IMG-1723089207Screenshot2024-08-08063503.png"/>

अथ पाण्ड्य-चोलदेशनिवासिस्मार्त-शैवादिवर्णनम्—४२.

<MISSING_FIG href="../books_images/U-IMG-1722701047Screenshot(12"/>.png)

इत्यन्यतोऽभिक्रामन् समन्तादवलोक्य साञ्जलिबन्धम् —

क्रियासार्थितवेदेभ्यो ग्राहयद्भयः श्रुतीर्बहून्॥
पाण्ड्य-चोलनिवासिभ्यः पण्डितेभ्यो नमोऽस्तु वः॥५०७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

अग्निहोत्राद्याश्रमधर्माय वा; यागानां ज्योतिष्टोमादीनाम् आहृतिरनुष्टानं ख्यातयेकीर्त्यर्थं न तु स्वर्गाद्यर्थं, पाकस्य कृतिः निष्पादनं स्वार्थे स्वभक्षणार्थं न तुपञ्चयज्ञाद्यर्थ; अर्थार्जनं द्रव्यसम्पादनं कुपात्रविषये कुत्सितवेश्यादिजनविषये त्यागार्थं समर्पणार्थमेव, न तु धर्मार्थं; स्वाध्यायस्य वेदस्य अध्ययनमभ्यासः प्रतिग्रहकृतेपरदत्तद्रव्यादिग्रहणार्थं, न तु स्वीयानुष्ठानोपयोगिकर्मज्ञानाद्यर्थं शास्त्रेषु व्याकरण-तर्क-मीमांसादिषु श्रमोऽभ्यासः वादाय, न तु तत्त्वावबोधाय; तथा हरेः कैङ्कर्य दास्य स्वोदर-पूर्तये आचर्यते तदादुष्येदिति हेयोपादेयविद उदाहरन्तीति पूर्वेण सम्बन्धः॥५०५॥

  • भूय इति। पुरुषो मनुष्यः भूयोदोषैर्वहुभिर्दोषैः सध्यादिकर्मत्यागादिभिःपरिवृतः युक्तोऽपि सात्त्विकानां सत्त्वप्रधानमनसां शुद्धमानसानामित्यर्थः। जनानां हृद्यां मनोज्ञां भगवति विष्णौ भक्तिम् आसाद्य सम्पाद्य प्रायः बहुधा पूज्यो मान्योभवति। एतदेव दृष्टान्तमाह—केतकी प्रवलाः दुर्भरगरलसपन्नत्वेन प्रकृष्टशक्तिमन्तश्चते भुजगाः सर्पाश्च तैः अनल्पैर्बहुभिः कण्टकैश्चापि आक्रान्ता व्याप्तापि सुरभीणि सुगन्धीनि कुसुमानि पुष्पाणि यस्याः सा तथाभूता, हेतुगर्भमिदं विशेषणम्। सुरभिकुसुम सपन्नत्वादित्यर्थः। भाग्यभाजा आदृत्या आदरार्हान भवतिकिम् ? अपि त्ववश्यमादर्तव्यैव भवतीत्यर्थः॥५०६॥*

  • क्रियेति। क्रियाभिः यागाद्यनुष्टानैः सार्थिताः सफलीकृताः वेदाः यैस्तेभ्यः,बहून् शिष्यवर्गानिति शेषः। श्रुतीर्वेदान् ग्राहयद्भ्यः पाठयद्भयः पाण्ड्यश्च चोलश्च*

अथ वेदान्तिवर्णनम्—४३.
<MISSING_FIG href="../books_images/U-IMG-1723089240Screenshot2024-08-04235410.png"/>

कृ०—सत्यं पुनर्मह्यमराणामप्येषां न रोचते नमस्क्रिया। यदेतेषुमिथ्यावादिन एव बहुलमुपलभ्यन्ते। अमी खलु प्रामाणिकार्थं दूरीकृत्याप्रामाणिकमर्थ669मुररीकुर्वन्ति॥२१२॥

तथाहि—

प्रत्यक्षगोचरमशेषमपि प्रपञ्चं मिथ्येति मायिन इमे प्रतिपादयन्ति॥
सर्वप्रमाणसरणीमतिवर्तमानं ब्रह्माश्रयन्ति च परं670 बत निर्विशेषम्॥५०८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

देशभेदौ तयोः निवासो वसतिरस्त्येषां तेभ्यः पण्डितेभ्यो वो युष्माकं नमः अस्तु॥५०७॥

*** सत्यमिति**। सत्यं ‘क्रियासार्थित —’ इत्यादिनोक्तं तथ्यमेव, पुनः किन्तुएषां मह्यमराणामपि ब्राह्मणानामपि, अपिशब्दात्तत्वतस्तेषां पूज्यत्वं सूचितम्। नमस्क्रिया नमस्करणं, मह्यमिति शेषः। न रोचते। यद्यस्मादेतेषु ब्राह्मणेषु मध्येमिथ्यावादिनः प्रपञ्चमिथ्याभाषिणः, असत्यभाषणशीला एव च बहुल उपलभ्यन्तेदृश्यन्ते। अमी ब्राह्मणाः खलु प्रमाणेन चक्षुरादीन्द्रियसन्निकर्षेण प्रत्यक्षतया सिद्धःप्रामाणिकः, शास्त्रतः सिद्धश्च तमर्थः शरीरादेः सत्यत्वादिकं कर्तव्यादिकं चदूरीकृत्य परित्यज्य, अप्रामाणिकं “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, नचक्षुषा गृह्यते नापि वाचा, नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन” इत्यादिश्रुतिभिः सर्वप्रमाणागोचरं स्वकपोलकल्पितं च अर्थम् उररीकुर्वन्तिअङ्गीकुर्वन्ति॥२१२॥*

  • उक्तमेवार्थं विशदीकरोति—प्रत्यक्षगोचरमिति। प्रत्यक्षस्य चक्षुरादीन्द्रियजातस्य गोचरं विषयीभूतमपि, सर्वैराकीटपतङ्गमा च देवर्षिभ्यः साक्षात्क्रियमाणतया दुःशकापह्नवमपीत्यहोसाहसमिति भावः। अशेष सकल प्रपञ्च चराचरात्मकजगद् इमे पुरोदृश्यमाना मायायाः अविद्यायाः सम्बन्धो येषां ते माथिनः, सम्बन्धेमतुप्। स च प्रतिपाद्यप्रतिपादकभावः। मायावादिन इत्यर्थः। पक्षे मायिनः कपटिनःमिथ्येति स्वेन रूपेण निस्तत्त्व इति प्रतिपादयन्ति। “सर्व विकारजात मायामात्र”“द्वितीयकारणाभावादनुत्पन्नमिदं जगत्” “इदं प्रपञ्चं नास्त्येव नोत्पन्नन्नो स्थितञ्जगत्” इत्यादिवचनैरिति भावः। पक्षे मिथ्येति परप्रतारणाय वास्तवरूपविपर्यासेनयथा—हीरकादिक काचत्वेन प्रतिपादयन्ति महत्यारभट्या समर्थयन्ति। किं तर्हिते परमार्थसन्न किमप्यङ्गीकुर्वन्तीत्याकाङ्क्षायामाह—सर्वप्रमाणेति। सर्वाणि चतानि प्रमाणानि प्रत्यक्षागमादीनि तत्र प्रत्यक्षाणि चक्षुरादीन्द्रियाणि आगमादीनि तर्कमीमांसादीनि च तेषां सरणीं पद्धतिम् अतिक्रम्य वर्तमानं “न*

    पुनः सरोषम्—

    हन्त ! ब्रह्मबन्धव इमे ब्रह्मणे परस्मै द्रुह्यन्ति॥२१३॥

    यतः—

यदेव सर्वज्ञमपास्तदोषं भवार्तिहारि श्रुतमागमान्ते
अज्ञं परं ब्रह्म तदेव भुङ्क्ते671 संसारतापानिति सङ्गिरन्ते॥५०९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो न विद्मो न विजानीमो यथैतदनुशिष्यादन्यदेव तद्विदितादथो अविदितादधि। इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे।” “‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन।” इत्यादिबहुश्रुतेः सर्वप्रत्यक्षागमप्रमाणातीतमित्यर्थः। पक्षे सर्वप्रमाणबहिर्भूतत्वात्स्वकपोलकल्पितमित्यर्थः। अत एव विशिष्यते इतरव्यावृत्तत्वेन ज्ञायते यैस्ते विशेषाःप्रकाराः। धर्मो इति यावत्। ते निर्गता यस्मात् तन्निर्विशेषम्। पक्षे आदरातिशयप्रयोजकानितरसाधारणप्रशस्तगुणरहितं; परं “इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः।मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः।” इत्यादिभगवद्वाक्यप्रामाण्यात्सर्वेभ्यःश्रेष्ठतमं पक्षे कुत्रापि केनाप्यदृष्टपूर्वस्वभावक सकललोकविलक्षणमिति यावत्। ब्रह्मआश्रयन्ति स्वीकुर्वन्ति। बतेत्यानन्दे खेदे च॥५०८॥

  • ननु परं ब्रह्माश्रयन्ति चेत् का हानिः सम्यगेव तदित्याशङ्कयाह—हन्तेति।ब्रह्मबन्धवः दुष्टब्राह्मणाः परस्मै इन्द्रियसङ्घातात् परत्र वर्तमानाय ब्रह्मणे परमात्मने द्रुह्यन्ति॥२१३॥*

  • द्रोहप्रकारमेवोपपादयति—यदेवेति। आगमान्ते वेदान्ते यदेव ब्रह्म सर्वं जाग्रत्-स्वप्न सुषुप्त्यात्मकमवस्थात्रय जानाति अन्तर्यामित्वेन प्रत्यक्षयतीति तथाभूतसर्गस्थित्यादिक वा जानातीति। तथा च श्रुतिः—“यः सर्वज्ञः सर्वविद् यस्यैषमहिमा भुवि।” इति। अत एव अपास्ताः निर्गताः दोषाः जन्मादिविकारान जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्। अजोनित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।” इति श्रुतिरत्रार्थे प्रमाणम्। भवार्तिहारि संसारदुःखनिवर्तकं “ज्ञात्वा स देव सर्वपाशापहानिः क्षीणैःक्लेशैर्जन्म-मृत्युप्रहाणिः।” इति श्रुतिरपि। इति श्रुतम् आकर्णितं, तदेव परं ब्रह्मअज्ञं जीववत् किञ्चिज्ज्ञं, अल्पार्थे नञ्। ससारतापान् जन्म-जरा-मरणादीन् भुङ्क्तेइति सङ्गिरन्ते। “ज्ञाज्ञौ द्वावआवनीशावजा ह्येका भोक्त-भोगार्थयुक्ता। अनन्तश्चात्मा विश्वरूपो ह्यकर्ता”। “द्वा सुपर्णा सयुजा सखाया समान वृक्ष परिषस्वजाते।तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति।” इत्यादिबहुलश्रुतिभ्यः प्रतिपादयन्ति। जीवब्रह्मणोरैक्यप्रतिपादकानामेतत्कथनं व्याहन्यत इति भावः॥५०९॥*

** न केवलममी परस्मै ब्रह्मणे द्रुह्यन्ति, किन्तु तत्प्रमाणेभ्यः श्रुतिभ्योऽपि॥२१४॥

यतः—

मिथ्यार्थावेदकत्वात् श्रुतिषु कुमतिभिः कर्मकाण्डे निरस्त-
प्रामाण्ये ब्रह्मकाण्डैः सह गुणवचनैः शेषितो ब्रह्मशब्दः॥
मिथ्यार्थास्मिन्विभक्तिः प्रकृतिरपि परं ब्रह्म नैवाभिधत्ते
वाच्यत्वानाश्रयत्वात्कथमुपनिषदां मानतां जानतां ते॥५१०॥

परमेते श्रुतिभ्यो न द्रुह्यन्ति, किन्तु शारीरकायापि॥२१५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • नेति। तस्मिन् परब्रह्मणि विपये यानि प्रमाणानि यथार्थतद्भावप्रतिपादकानितेभ्यः, श्रुतिभ्यः उपनिषद्भ्योऽपि द्रुह्यन्ति॥२१४॥*

  • द्रोहप्रकारमेवाह—मिथ्येति। श्रुतिषु कर्म-ब्रह्मपरेषु सर्वेषु वेदवाक्येषुमध्ये मिथ्यार्थानाम् असत्यार्थानां “ज्योतिष्टोमेन स्वर्गकामो यजेत” इत्यादिश्रुतिभिः स्वर्गप्रात्यादिरूपाणाम् आवेदकत्वाद्बोधकत्वाद्धेतोः कर्मकाण्डे मन्त्रब्राह्मणात्मकेब्रह्मकाण्डैः अपवादरूपोपनिषद्वाक्यैः “तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते” इत्यादिभिः निरस्त निवारित प्रामाण्य यस्यतथाभूते सति एभिः कुमतिभिः कुत्सितबुद्धिभिः, ‘कु कुत्सितम् असत्यं प्रपञ्च अतन्तिजानन्तीति तैः कुमतिभिः प्रपञ्चमिथ्यात्वज्ञातृभिरित्यर्थः।’ इति भावदर्पणव्याख्यायामर्थान्तरं दृश्यते। तत्पक्षे। ‘अत सातत्यगमने इत्यस्माद्धातोर्गत्यर्थाद् औणादिक इप्रत्यय इत्यवगन्तव्यम्। गत्यर्थस्य ज्ञानार्थकत्व च। गुणवचनैःसगुणेश्वरप्रतिपादकैः कर्मकाण्डवाक्यैः सह ब्रह्म इत्येक एव शब्दः शेषितः एकार्थीकृतः, तत्र प्रमाणत्वेन स्वीकृत इत्यर्थः। उपनिषदां कर्मकाण्डापवादरूपत्वादेतदयुक्तमिति भावः। किञ्च अस्मिन् ब्रह्मशब्दे विभक्तिः सु औ इत्यादिरूपामिथ्यार्था निरर्थका। ब्रह्मणः सदैकरूपत्वाद् द्वित्वबहुत्वाभावादित्यर्थः। ततश्चप्रकृतिः केवलः विभक्तिरहितः रूपः वाच्यत्वस्य शब्दप्रतिपाद्यत्वस्य अनाश्रयत्वादनधिकरणत्वाद्धेतोः परं ब्रह्म नैवाभिधत्ते नैव बोधयति। ततः ते अद्वैतवादिनः उपनिषदां मानतां प्रामाण्य कथं जानतां विदन्तु ? नैव ज्ञातुं शक्नुवन्तीत्यर्थः॥५१०॥*

  • परमिति। किञ्च परम् अन्यदपि कथयामीति शेषः। एते केवलं श्रुतिभ्योवेदेभ्य एव द्रुह्यन्तीत्येतावदेव न, किन्तु शरीरमधिकृत्य कृत शारीरकं श्रीमद्व्यासनिर्मित ब्रह्मसूत्ररूप शास्त्र तस्मै अपि द्रुह्यन्ति। उपनिषत्प्रतिपादितार्थमेव स्पष्टीकर्तुं तत्रभवता व्यासेन ब्रह्मसूत्ररूपं शास्त्रं व्यरचि, तत्रापि द्रोहाचरणमन्याय्यमित्यपिशब्दाद्बोध्यम्॥२१५॥*

पराशरभुवा शास्त्रं ब्रह्मज्ञानाय निर्मितम्॥
असमञ्जसतां नीतमद्वैतब्रह्म672वादिभिः॥५११॥

** **किं च यादृशस्वभावः सर्वेश्वरस्तद्विपरीतमेव तमुशन्ति673 विरुद्ध674मतयएते॥२१६॥

सर्वज्ञमज्ञ इति सर्वपदाभिधेयं
कस्याप्यवाच्य इति सर्वमहागुणानाम्॥
स्थानं च निर्गुण इतीह समस्तवेद-
वेद्यं त्ववेद्य इति ते675 जगदीशमाहुः॥५१२॥

किम्बहुना—

विविधदुरितव्रातस्फीत स्थिरव्यसनाकुला-
दतिमितमतेर्जीवादेवाभिदां परमेशितुः॥
अपगतपरिच्छेदामोदाम्बुधेरुपगच्छताम्
मशकशिशुतोऽभेदो न स्यात्कुतो मदहस्तिनः॥५९३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

उक्तार्थमेव प्रपञ्चयति—पराशरभुवेति। पराशरभुवा श्रीमद्व्यासेन शास्त्रसूत्ररूप ब्रह्मणः ज्ञानाय ज्ञानार्थमेव, सकलजीवानामिति शेषः। निर्मितं रचितम्।तदपि द्वे जीव-ब्रह्मरूपे इते गते यस्मात् तद्द्वीत द्वीतमेव द्वैत जीव-ब्रह्मणोर्द्विरूपत्वतन्न भवतीत्यद्वैत जीवात्म- परमात्मनोरैक्यरूप ब्रह्म एकमिति वदन्तीति तद्वादिभिः“आत्मा वा इदमेकएवाग्रआसीन् नान्यत् किचन मिषत्“ “एकमेवाद्वितीयम्” “तत्त्वमसि’ इत्यादिबहुलश्रुत्यनुरोधेन जीवात्मनोरेकत्वप्रतिपादकैरित्यर्थः।असमञ्जसता अयोग्यता नीत प्रापितम्॥५११॥

*** किञ्चेति**। किञ्च यादृशस्वभावः तत्त्वतो यत्प्रकाररूपो भगवान् सर्वेश्वरःतस्माद्विपरीत विरुद्धस्वभावमेव त सर्वेश्वरं परमात्मानम् उशन्ति इच्छन्ति। विरुद्धमतयः एते अद्वैतिनः॥२१६॥*

  • सर्वज्ञमिति। ते अद्वैतवादिनः वस्तुतः सर्व भूतभविष्यादि जानातीति सर्वज्ञःतं जगदीशः अज्ञः अल्पज्ञः ज्ञातुमशक्यश्च इति, आहुः कथयन्ति। एतदेव सर्वत्रान्वेतत्र्यम्। सर्वेषां पानां शब्दानाम् अभिधेयं वाच्यं जगदीश, कस्यापि पदस्यअवाच्यः इति,सर्वेषां महागुणानां स्रष्टृत्वादीनां स्थानभूत जगदीश निर्गुणः सत्त्व-रजआदिगुणरहितः इति, समस्तैः सर्वैरपि वेदैर्वेद्य ज्ञेय, तुपदंविरोधसूचकम्। अवेद्यः “विज्ञातारमरे केन विजानीयान्” इत्यादिश्रुतिभिः अज्ञेयइति च आहुः॥‘९१२॥*

*** विविधेति**। विविधानामनेकेषां दुरितानां पापानां व्रातेन समूहेन स्फीतैः*

    • अपरं च—

दृश्यं मिथ्या दृष्टिकर्ताऽपि मिथ्या
दोषो मिथ्यैवेति या धीरमीषाम्॥
साधिष्ठानांशेपि किं नेति चिन्ता
साधिष्ठानां पण्डितानामुदेति॥५९४॥

** वि०**—वयस्य ! मैवं महीसुरदूषणेषु विजृम्भिष्ठाः॥२१७॥

पारम्पर्यत आगतो निजकुले पन्था न हातव्य इ-
त्यद्वैतं परिगृह्य हन्त जगतो मिथ्यात्वमाचक्षताम्॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

प्रवृद्धैः स्थिरैश्च व्यसनैः आकुलात् पीडितात्, अत एव च अतिमितमतेः अत्यल्पबुद्धे. जीवादेव, एवकारेणात्यन्तानौचित्यं सूचितम्। अपगतः परिच्छेदः परिमितिर्यस्मात् तादृशः य आमोदाम्बुधिः आनन्दसागरः तद्रूपः, अपरिमितानन्दरूपइत्यर्थः। तस्य परमेशितुरीश्वरस्य अभिदामभेद उपगच्छता जानतां तेषामद्वैतिनाम्मशकशिशुतः मशकबालान् मदयुक्तस्य हस्तिनः अभेदः कुतो न स्यात् ? अपि तु“विद्या-विनयसम्पन्ने ब्राह्मणे गवि हस्तिनि। शुनि चैव श्वपाके च पण्डिताः समदर्शिनः।”इति गीताप्रामाण्यात् शरीरमात्रभेदेन विरोधेऽपि सर्वत्र जीवसाम्यात्स्यादेवाभेद इति भावः॥५१३॥

*** दृश्यमिति**। द्रष्टुं योग्यः दृश्यः रज्जु-सर्पादि, शुक्ति-रजतादिक वा, मिथ्याअसत्य, दृष्टेरय सर्पः, इदं रजत, इत्यादिभ्रान्तेः कर्ता आश्रयो देवदत्तादिश्चापिमिथ्या, दोषः पित्तादिश्च मिथ्यैव। अत्र दृश्य-दृष्टिकर्तृ-दोषशब्दैः क्रमेण सकलप्रपञ्च-अन्तःकरणावच्छिन्नचैतन्य-अज्ञानानि ग्राह्याणि। तेनैतत्त्रयमपि ज्ञानोत्तरकाले बाधप्रतीतेर्मिथ्यैवावभासते इत्यद्वैतवेदान्तिनामभिप्रायः। इत्युक्तप्रकारा या अमीषामद्वैतवादिनां धीर्ज्ञानं विद्यते सा दृश्याद्यशत्रयेऽपि मिथ्येति बुद्धिः अधिष्ठानःआश्रयःरज्जुः शुक्तिर्वा, परब्रह्म च तस्मिन्नशेऽपि किं कुतो न भवति ? इत्येवप्रकारा चिन्तासाधिष्ठाना श्रेष्ठानां पण्डितानां विदुषामुदेति उत्पद्यते। अत्र केचित् ‘अज्ञाननाशात्सत्ये अधिष्ठानांशे सा मिथ्याबुद्धिर्नोत्पद्यते इत्यद्वैतिनामभिप्रायः। अत एव आधिनाकामादिमनोव्यथया सहिताः तिष्ठन्तीति साधिष्ठाः गाढाज्ञानिनस्तेषामेवेदृशी चिन्तेति न्यायावतारः’ इत्याहुः॥५१४॥*

*** वयस्येति**। एवमुक्तप्रकारेण मा विजृम्भिष्ठाः उद्युक्तो मा भव॥२१७॥*

*** पारम्पर्यत इति।** निजकुले स्ववंशे परम्परायाः श्रीमद्व्यास-शङ्कराचार्यादिप्राचीनसम्प्रदायस्य भावः पारम्पर्य तस्मादिति ततः आगतः प्राप्तः पन्था अद्वैतमार्गःन हातव्यः न त्याज्यः। अन्यथा अतिप्राचीनपरम्परागतसम्प्रदायत्यागदोषापातप्रसङ्गादिति भावः। अनेन अद्वैत सम्प्रदायः माध्वरामानुजीयादिसम्प्रदायवन्नाधुनिकः, केवलस्वकपोलकल्पित सङ्केतसिद्धश्च, किन्तु अतिप्राचीनश्रुत्यर्थानुसरणपूर्वकं श्रीमद्यास-*

अध्येतुं निगमानशेषत इमान्676 कर्माणि निर्मातुम-
प्यास्तिक्याच्चतुरा निकाममितरे के ? तावदेतादृशाः॥५१५॥

किं च—

श्रुतीरध्येतारः किमपि विदितारः प्रतिदिनं
क्रतूनाहर्तारः किमपि जपितारो677 मनुगणम्॥
अमी स्मार्ताः श्राद्धान्यपि रचयितारो विधुनते
श्रुतेरप्रामाण्यं प्रसजदननुष्ठापकतया॥११६॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

शङ्करप्रभृतिभिरीश्वरांशैरेव प्रवर्तित इति प्रतीयते। इति हेतोः अद्वैत जीवेश्वरयोरैक्य परिगृह्य जगतः मिथ्यात्वमसत्यत्वम् आचक्षतां कथयताम्।एतेअद्वैतवादिनइति शेषः।अतिसर्गे लोट्। हन्तेति हर्षे “नेह नानास्ति किचन”“मृत्योः समृत्युमाप्नोति य इह नानेव पश्यति।” इत्यादिश्रुतिप्रामाण्याद् एकमात्मानं विनाऽन्यत्सर्वमपि जगन्मिथ्यैवेति भावः। किञ्च एते इमान् प्रसिद्धान् निगमान् स्वस्वशाखीयऋगादिवेदान् अशेषतः मूलमारभ्य समाप्तिपर्यन्तम् अध्येतुम् अभ्यसितुं, तदुक्तानि कर्माणिनित्यं नैमित्तिकादीनि आस्तिक्याद् अस्ति वेदविहितं सत्यमिति बुद्धिर्येषां ते आस्तिकाःतेषां भावस्तस्माद्धेतोः निकामं यथेच्छं निर्मातुमाचरितुमपि चतुराः कुशलाः इतरेअद्वैतभ्योऽन्ये एतादृशाः अद्वैतिसमाः के सन्ति ? न केपीति भावः।अनेन वैष्णवादयोन तावद्वेदस्यैकं मन्त्रमपि यथार्थतया पठितुं शक्ता इति प्रसिद्धिः सूचिता।दृश्यतेहि साम्प्रतमप्येवं रीतिः केषुचित् कर्नाटकीय वैष्णवेषु॥५१५॥

  • **श्रुतीरिति।*अमी स्मार्ताः अद्वैतिनः अत्र स्मार्तपदम् अद्वैतिषु योगरूढं पङ्कजादिवदिति वोध्यम्। श्रुतीर्वेदान् प्रतिदिनं ब्रह्मयज्ञसमये इति शेषः। अध्येतारःपठितारः। न केवलं पठितार एव, किन्तु किमपि यथामति विदितारः तदुक्तमर्थमपि जानन्तः, क्रतून् ज्योतिष्टोमादियज्ञान् आहर्तारः कर्तारः, किमपि यथाशक्तिमनुगणं स्वसम्प्रदायप्रोक्तं मन्त्रसमुदाय जपितारः जपं कुर्वन्तः क्वचित् ‘ददितारःप्रतिदिनम्’ इति पाठः। तत्पक्षे दानं कुर्वाणा इत्यर्थः। श्राद्धानि प्रतिवार्षिकविहितानि पितृतृप्तिकराणि अपिः समुच्चयार्थकः। रचयितारः कुर्वन्तश्च सन्तः अननुष्ठापकतया अध्ययनं तदर्थज्ञान-होम-जपाद्याचरणाभावतया प्रसजति निकट प्राप्नोतीति प्रसजन् नित्यं प्राप्नुवत् श्रुतेऋगादेर्वेदस्य अप्रामाण्य प्रमाणत्वाभाव विधुनतेनिरस्यन्ति। यथार्थानुष्ठानाभावात् श्रुतेरप्रामाण्य प्राप्तावसरमिति भावः। अत्र वेदाप्रामाण्यनिरसनद्वारा अद्वैतवादिना वेदप्रमाणकत्वेन तदुक्तानुष्ठानतया च जगन्मिथ्यात्वादिकाः सकलाअपि सिद्धान्ताः सप्रमाणास्तेनैव हेतुना पूर्वोक्तानि सकलान्यपि दूषणानि निष्फलानीति सूचितम्। एवमेव भावदर्पणकृतोप्यभिप्रायः॥५१६॥

*** *** **कृ०—**समन्तादवलोक्य —

निस्तुला अप्यमी विषयाः शैवप्रचुरतया न श्लाघामर्हन्ति। अत्र हि तत्त्वहितपुरुषार्थानयथावस्थितानभिदधानाः678 शैवा विदुषोऽपि विमोहयन्ति॥२९८॥

तथाहि—

मदनजनके वीतातङ्के महागुणशेवधौ
परमपुरुषे नित्यासक्तां श्रुतिं कमलामिव॥
वत पशुपतौ शूलोपेते मनोभवदाह के
निहितहृदयां शैवा जल्पन्त्यभाग्यहता इव679॥५१७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • उक्तार्थाङ्गीकारपूर्वकमाह कृशानुः—निस्तुला इति। अमी विषया देशाःनिस्तुला वेदविहितकर्म ज्ञानविद्बहुजनसत्त्वान्निरुपमा अपि, शिवस्य भक्ताः शैवास्तेप्रचुराः बहुला येषु ते तत्प्रचुरास्तेषां भावस्तत्ता तया हेतुना श्लाघाप्रशसां नार्हन्ति,तस्याः न योग्या भवन्ति। सन्तु नाम शैवाः किं वा तेन प्रशसानर्हत्वमिति चेदाह—अत्रहीति। अत्र पु देशेषु हि तत्त्वतः सत्यतया हिता हितकरा ये पुरुषार्थास्तान्अयथावस्थितान् स्थितिमतिक्रम्य वर्तमानान् विरुद्धस्वभावानिति यावत्। अभिदधानाःप्रतिपादयन्तः सन्तः, क्वचित् ‘तत्पदार्थ यथावस्थितमनभिदधानाः’ इति पाठःतत्पक्षे तदिति पदस्य शब्दस्य अर्थब्रह्मरूपं यथावस्थितं स्थितिमतिक्रम्य वर्तमान,यथास्थितस्वभावमित्यर्थः। अनभिदधानाः अकथयन्तः सन्त इत्यर्थः। शैवाविदुषोऽपि पुरुषान् किमुतान्यान्, विमोहयन्ति विभ्रमयन्ति॥२१८॥*

  • मोहनप्रकारमेव स्पष्टतयाह — मदनजनक इति। वीताः गताः आतङ्काःरोगाः दोषाश्च यस्मात् तस्मिन्, महता स्रष्टृत्व—पालकत्वादीनां गुणानां शेवधौ निधौमदनस्य कामस्य जनके पितरि परमपुरुषे देवानामपि श्रेष्ठपुरुषे विष्णौनित्यं सन्ततमासक्ताम् अनुरक्तां, अत एव कमला लक्ष्मीमिव स्थिता श्रुति सर्वमपि वेद शूलेनरोगेण, शूलनामकायुधविशेषेण चोपेते युक्ते पशूनां गवादीना ब्रह्मादिदेवानां च पतिस्तस्मिन् मनोभवस्य मदनस्य दाहके शिवे निहितः अनुरक्तः स्थापितः च हृदयः मनःअभिप्रायश्च यस्याः सा तां श्रुतिम्अभाग्येन प्राक्तनदुष्कर्मणा हता नष्टा इव शैवाःजल्पन्ति वर्णयन्ति। अत्र शैवानां तात्पर्यं वर्णिताभावदर्पणकृता तदित्थम्—‘महताम् अगुणानां कामक्रोधादीनां शेवधिर्यस्मात्तस्मिन् रागं-द्वेषादिजनके अतएव मदनस्य स्मरविकारस्य जनके अत एव विशेषेण इताः प्राप्ताः आतङ्काः तापा-*

सूर्यादा680रोग्यमिच्छेत्कमपि हुतवहात्सम्पदुल्लासमिच्छे-
दीशानाज् ज्ञानमिच्छेदनवधिविभवं मोक्षमिच्छेन्मुकुन्दात्॥
इत्याद्याः सत्यवाद्यादि681ममुनिभणितीराकलय्यापि विष्णोः
सेवां शैवास्त्यजन्तो बत भवहतये भावयन्ते भवं ते॥५१८॥

अपि च—

तद्विष्णोः परमं पदं हि तमसः पारे सदा पश्यता
सान्द्रं सूरिगणेन निर्मलमहानन्दात्मकं शाश्वतम्॥
अप्रेप्सन्त इमे समेतमनिशं वेतालभूतालिभि-
र्लोकं भीकरमञ्चितुं व्यवसिता माहेश्वरं नश्वरम्॥५१९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

स्त्रयः यस्मात्तस्मिन् तज्जनके “रुक् ताप-शङ्कास्वातङ्कः” इत्यमरः। परं भृश अपुरुषे अल्पपुरुषे, अनुदरा कन्येत्यादाविव अत्पार्थे नञ्समासः। नित्य आ ईषदंशेनसताम् अत एव के चित्ते मल अपुरुषसम्बन्धजन्यदुःख यस्यास्तथोक्तामिव स्थितां“काश्चित्तात्म-रवि-ब्रह्म-वाताः” इति कोशः। अत एव च अभाग्यहतामिव श्रुतिमनसि भवन्तीति मनोभवाः कामादयस्तद्दाहके शूलमिव शूल अज्ञाननाशक ज्ञानतेनोपेते प्राप्ये इत्यर्थः। पशुपतौ सर्वेश्वरे निहितहृदया शैवाः जल्पन्ति’ इति॥५१७॥

*** सूर्यादिति**। सूर्यात् सूर्यमुपास्य, ल्यब्लोपे पञ्चमी। आरोग्य इच्छेत्, हुतवहादग्नेः कमप्यनिर्वचनीयं सम्पदः धनादिसम्पत्तेः उल्लासं विस्तारम् इच्छेत्, ईशानात्भगवतः शङ्कराज् ज्ञानं परमात्मविषयम् इच्छेत्, अनवधिर्नि सीमः विभव ऐश्वर्ययस्मिन् तथाभूत अनश्वरमुखादिसपद्युक्तमित्यर्थः। मोक्ष मुक्ति मुकुन्दाद् भगवतःश्रीविष्णोः इच्छेत्, इत्याद्याः सत्यवादिनो यथार्थवक्तारः ये आदिमाः प्रथमाः मुनयःव्यास-वाल्मीकादयस्तेषां भणितीर्वाक्यानि “आरोग्य भास्करादिच्छेत्” इत्याद्याःआकलय्य ज्ञात्वापि शैवाः भवस्य संसारस्य हतये नाशार्थं विष्णोःसेवां परिचर्यां त्यजन्तः सन्तः, ते भव शिवमेव भावयन्ते पूजयन्ति। अत्रार्थे शैवानामेवमभिप्रायः— “तरति शोकमात्मविज् ज्ञात्वादेव मृत्युमुखात् प्रमुच्यते, ज्ञानादेव तुकैवल्यम्” इत्यादिबहुलश्रुति-स्मृतिप्रामाण्याज्ज्ञानेनैव मोक्षः, तज्ज्ञान च “ईशानःसर्वविद्यानामीश्वरः” इत्यादिश्रुतिभ्यः शिवादेव प्राप्नोति ततश्च युक्तमेव तद्भजनमिति॥५१८॥*

*** तदिति**। तमसः अज्ञानस्य पारे समाप्तौ सत्या अज्ञानविनाशे सतीत्यर्थ।पश्यता अवलोकयता सूरीणां ज्ञानिनां गणेन समुदायेन सनक-नारदादिज्ञानिमुनिसमुदायेनेत्यर्थः। सान्द्र निबिड व्याप्तमिति यावत्। निर्मलः जन्म-मरणादिविकाररहितश्चासौ महानन्दः अतिशयानन्दश्च स आत्मा स्वरूप यस्य सः तथाभूतम्अत एव शाश्वतं विनाशरहितम् अत एव च परम सर्वोत्तम, हिः समुच्चायकः। तत्*

** वि०**—सखे गुणग्रहणकुतूहली682 भूयाः॥२१९॥

नित्यं कर्म समाचरन्ति निगमान् शास्त्राणि चाधीयते
सन्तन्वन्ति च सप्ततन्तुनिचयं धिन्वन्ति भक्त्यातिथीन्683
साम्बं त्र्यम्बकमर्चयन्ति शुचयः शैवाः सदैवादरा-
देषामीदृशधर्मणां684 कतिपये दोषा विषह्यान किम् ?॥५२०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

प्रसिद्ध विष्णोः पद वैकुण्ठ अप्रेप्सन्तः अनिच्छन्तः सन्तः, वेतालः पिशाचसेनानीश्च भूतानि च तेषामालिभिः पङ्क्तिभिः, वेतालो नाम पिशाचसेनापतिरिति हिरुद्रपटले पिशाचसाधनप्रकरणे दृश्यते। “वेतालो नीलदेहोऽसौ पिशाचगणनायकः। सर्वकार्यकरः शम्भोः सेनानीः शवभूमिगः।” इति। एतेन ‘वेतालानाम भूतानि’ इति भावदर्पणकारोक्तं व्याख्यानं परास्तम्। यद्वा वेतालस्यभूतानामाधिपत्ये सेनानीत्वे वा सत्यपि भूतत्व पिशाचत्वं वा नापैति। यथा मनुजसेनानेः।प्रत्यक्षशिवसन्निधौ च तदितरक्षुद्रभूतानां प्रयोजनाभावाद् युक्तमेव पूर्वोक्तं व्याख्यानमिति समाधेयम्। अनिशं सन्ततं समेतं व्याप्तम् अत एव भीकरं सर्वलोकानाम्भयोत्पादकं, नश्वरं विनाशयुक्तं च महेश्वरस्याय माहेश्वरः त लोक कैलासम् अञ्चितुं गन्तुं व्यवसिताः कृतनिश्चयाः इमे शैवाः सन्ति। ‘वस्तुतस्तु “यस्य ब्रह्मा चविष्णुश्च उभे भवत ओदनः। मृत्युरस्योपसेचनम्।” इति श्रुत्या वैकारिकमूर्तित्रयावसानाना त्रयाणामपि नश्वरत्वेन निर्विकारसदाशिवावासपरमकैलासकाङ्क्षिषु शैवेषूक्तदूषणमारोपितमेवेति ध्येयम्’ इति भावदर्पणकारः॥५१९॥

*** सख इति।** गुणग्रहणे यथार्थगुणाङ्गीकारे कुतूहलः कौतुकः यस्यास्ति स तत्कुतूहली भूयाः भव॥२१९॥*

  • के वा शैवानां गुणा इत्यपेक्षायामाह—नित्यमिति। शुचयः पवित्राः शैवाःसदैव नित्यमेव आदरान् नित्यं सन्ध्योपासनादिकं कर्म सं सम्यक्, न तु यथाकथञ्चित्,आचरन्ति, निगमान् वेदान् शास्त्राणि च अधीयते अभ्यस्यन्ति, सप्ततन्तूनानित्य नैमित्तिकादियज्ञानां निचय समुदायं सन्तन्वन्ति सम्यगनुतिष्ठन्ति च भक्त्याप्रेम्णा अतिथीनभ्यागतान् धिन्वन्ति प्रीणयन्ति, अम्बया भगवत्या पार्वत्या सहितःसाम्बः तं त्रीणि अम्बकानि नेत्राणि यस्य सः त शिव, भक्त्येत्यत्रापि सम्बन्धनीयम्।अर्चयन्ति पूजयन्ति। ईदृशाःपूर्वोक्तरीत्या शुद्धाः धर्माः पुण्यकर्माणि येषां “धर्मापुण्य-यम-न्याय-स्वभावाचार-सोमपाः।” इत्यमरः। तथाभूतानां “धर्मादनिचकेवलात्” इति समासान्तोऽनिच्प्रत्ययः। एषा शैवानां कतिपये बहुगुणसमवायेद्वि-त्राः दोषाः विषह्याः विशेषेण सहनीया न किम् ? अपि तु “एकोहि दोषोगुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः।” इति न्यायमाश्रित्यावश्य सह्याएवेति भावः॥५२०॥*

    • अन्यच्च श्रोतव्यम्॥२२०॥

स्मरहरपरिचर्या साम्प्रतं तन्यते या
जनयति हरिभक्तिं हन्त जन्मान्तरे सा॥
शमितदुरितवर्गं सा च सूतेऽपवर्गं
कुत इव फलहानिः ? कुर्वतां शर्वपूजाम्॥५२१॥

परन्तु—

सा रुद्रभक्तिर्वितनोति भद्रं या विष्णुविद्वेषलवासहिष्णुः॥
त एव धर्माय भवन्ति दाराः कदापि यान्नाभिमृशन्ति जाराः॥५२२॥

शेषशायिविद्वेष एव हि मूर्धाभिषिक्तो दोषः पुरुषाणाम्॥२२१॥

पश्य—

नास्तिक्यमावहति नारकमातनोति
प्रौढिं निहन्ति परिलुम्पति सम्पदं च॥
आयुः क्षिणोत्युपचिनोति समस्तदोषान्
द्वेषो मुकुन्दविषयो विषयोगतुल्यः॥५२३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • किञ्चैतेषां शिवपूजनं हरिभक्तिजननद्वाराऽपवर्गसाधकमतो महदुपकारकं तदितिवक्तुमवतारयति—अन्यच्चेति॥२२०॥*

*** स्मरहरेति।** साम्प्रतमधुना स्मरहरस्य शिवस्य परिचर्या पूजा या तन्यतेक्रियते, जनैरिति शेषः। सा। हन्तेति हर्षे। जन्मान्तरेऽन्यस्मिन् जन्मनिहरिभक्तिं विष्णुभक्तिं जनयति उत्पादयति। सा हरिभक्तिश्वापि शमितःविनाशितः दुरितानां पापानां वर्गः समुदायो येन स तं सकलपापसम्बन्धनिवारकमित्यर्थः। अपवर्गं मोक्षं सूते उत्पादयति। तस्मात् शर्वस्य शिवस्य पूजां कुर्वन्ताञ्जनानां फलहानिः कुतो भवति ? अपि तु कुतोऽपि नैव भवतीत्यर्थः ५२१॥*

  • शिवभजनेऽपि विष्णुभजनमावश्यकमन्यथानर्थापात इति वक्तुमाह-परमिति—*

*** सेति।** या रुद्रभक्तिः शिवभक्तिः विष्णौद्वेषः अप्रीतिस्तस्य लवस्य लेशस्यापि,किमुताधिकस्य, असहिष्णुरसहनशीला सा भद्र मोक्षप्राप्तिरूपं कल्याण वितनोतिविस्तारयति। अन्यथाधःपातः स्यादिति भावः। एतदेवार्थान्तरेण द्रढयति—**त एवेति।*यान् दारान् स्त्रियः जाराःपरस्त्रीलम्पटाः पुरुषाः कदापि न अभिमृशन्ति नस्पृशन्ति, ते एव दाराः स्त्रियः धर्माय धर्मसाध्यपुरुषार्थाय भवन्ति प्रभवन्ति॥५२२॥

*** शेषशायीतिः।** पुरुषाणां शेषशायिविद्वेषः विष्णुद्वेष एव हि मूर्धाभिषिक्तःसर्वदोषेभ्योऽधिकः दोषः॥२२१॥*

  • एतदेव सप्रपञ्चमुपपादयति—नास्तिक्यमिति। विषस्य योगेन भक्ष्य-पेयपदार्थसम्बन्धेन तुल्यः समः मुकुन्दविषयः श्रीविष्णुविषयः द्वेषः नास्तिक्यं नास्तिपरलोक*

  • *कृ०—तथ्यमेव तथाप्यवैदिकव्रतेष्वेव प्रयततां685, शिवभक्तिमभिनयताम्पाषण्डविशेषाणामेषां वेष एव भीषयति हृदयम्॥२२२॥

तथाहि—

श्रिताभव्यमार्गाश्चिताभस्मशुष्यन्निटाला जटालाः स्फुटालापशून्याः॥
स्मशानाग्निसख्या दृशा निर्दहन्तः पिशाचा इवामी दिशासु भ्रमन्ति॥५२४॥

** **किञ्च—

एषामतिजुगुप्सिता रीतिः॥२२३॥

पक्षीकृत्य गिरीशं सिद्ध्या रहिताश्च मानहीनाश्च॥
इच्छन्त्यधिगन्तुमिमे धनञ्जयं लिङ्गदर्शनेनैव॥५२५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

इति मति आवहति सम्पादयति, नारकं दुर्गतिम् आतनोति विस्तारयति। पुनः पुनर्नरकमेव प्रापयतीत्यर्थः। प्रौढिं महत्त्वं निहन्ति विनाशयति, क्षुदत्वं ददातीत्यर्थः। सम्पदमर्थसम्पत्तिमपि परिलुम्पति परिहरति। आयुर्जीवितकालं क्षिणोति क्षीणं करोति, ततश्चैवं समस्तदोषान् उपचिनोति वर्धयति॥५२३॥

  • **तथ्यमिति।*त्वयोक्तं तथ्यमेव सत्यमेव, तथापि एतेषु शैवेष्वयं प्रकारो न दृश्यते, किन्तु अवैदिकानि वेदबाह्यानि यानि व्रतानि केवलं शैवागमप्रोक्तानि तेष्वेवप्रयततां प्रयत्नं कुर्वाणानां पाषण्डविशेषाणां वेददूषकभेदानां जनानां शिवभक्तिम् अभिनयतां प्रकटीकुर्वताम् एषां शैवानां वेषः जटा-भस्मादिधारणरूपः दिगम्बरत्वादि-रूपश्च हृदयमन्तःकरणं भीषयत्येव॥२२२॥

  • श्रितेति। श्रितः अङ्गीकृतः अभव्यः अकल्याणकरः मार्गः यैस्ते, चितायाःभस्मना शुष्यत् शुष्कीभवन् निटालं भालं येषां ते, जटालाःजटायुक्ताः, स्फुटः स्पष्टःश्रवणयोग्यः य आलापो भाषणं तेन शून्याः रहिताः, स्मशानाग्नेः सख्या मित्रभूतयातत्सदृश्या अतिरक्तवर्णयेत्यर्थः। दृशा लोचनेन निर्दहन्त इव सन्तः, अमी पाषण्डाःपिशाचा इव दिशासु दशसु भ्रमन्ति पर्यटन्ति॥५२४॥*

  • एषामिति। एषां पाषण्डानाम् अतिजुगुप्सिता अतीव निन्द्या रीतिः॥२२३॥*

  • तामेव स्पष्टतया प्रतिपादयति—पक्षीकृत्येति। मानेन अभिमानेन वह्निव्याप्यधूमवानयं पर्वतः इत्यनुमानेन च हीनाः रहिताः अत एव सिद्ध्या फलनिष्पत्त्या,पर्वतो वह्निमान् इति निश्चयेन च रहिताःइमे पाषण्डाः लिङ्गस्य शिवलिङ्गस्य धूमरूपस्य च दर्शनेनैव दर्शनमात्रेणैव गिरीशं शिवं पर्वतं च पक्षीकृत्य इष्टदेवत्वेनाश्रित्य,पक्षताश्रयं च कृत्वा, धनं द्रव्यं जयमुत्कर्षञ्च धनञ्जयमग्निं च अधिगन्तुं प्राप्तुम्इच्छन्ति॥५२५॥*

    • अन्ये चात्र—

दीर्घवक्रनखरं686 खरकल्पा उद्धरन्त इव बाहुयुगं ते॥
शौचमाचरितुमप्यसमर्था नीचबुद्धिहृदया687 विहरन्ति॥५२६॥

** वि०**—विमृश्य—

सखे गुणग्राहिणा नैतेऽपि दूषणीयाः॥२२४॥

शीतोष्णजृम्भणसहेषु जितेन्द्रियेषु
कष्टोपवासपरिशुष्ककलेवरेषु
पुण्यस्थलाटनपराकृतकिल्बिषेषु
जानीहि कानपि गुणान् जटिलेष्वमीषु॥५२७॥

<MISSING_FIG href="../books_images/U-IMG-1723089594Screenshot2024-08-08063503.png"/>

अथ ज्यौतिषिकवर्णनम्—४४.

<MISSING_FIG href="../books_images/U-IMG-1722779564Screenshot(12"/>.png)

इत्यन्यतो वीक्ष्य साशङ्कम् —

क इमे पुस्तकहस्ताः कल्य एवोत्थाय तत इतः पर्यटन्ति ?॥२२५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • दीर्घेति। दीर्घाणि आयतानि वक्राणि कुटिलानि च नखानि यस्मिन् तद् बाहुयुगं भुजद्वयं, ते पाषण्डाः उद्धरन्तः उत्क्षिपन्त इव सन्तः, अत एव खरकल्पाः गर्दभतुल्याः शौचमप्याचरितुम् असमर्थाः, नीचाः हीनाः बुद्धिर्निश्चयो यस्मिन् तादृश हृदयमन्तःकरणं येषां तथोक्ताः सन्तः विहरन्ति इतस्ततः क्रीडन्ति॥५२६॥*

  • सख इति। गुणग्राहिणा “गुण-दोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः। शिरसा श्लाघते पूर्व परं कण्ठे नियच्छति।” इति न्यायेन दोषसत्त्वेऽपि गुणमात्रस्वीकारपरेणपुरुषेण एते पाषण्डा अपि, अपिना दोषबाहुल्यं द्योत्यते। न दूषणीयाः॥२२४॥*

  • शीतोष्णेति। शीतं वर्ष-वातादि च उष्णम् आतपादि च तयोः जृम्भण अतिशयत्वं सहन्तीति तत्सहास्तेषु, अत एव जितेन्द्रियेषु कष्टाः दुःखप्रदा ये उपवासाःप्रदोष-शिवरात्र्यादिष्वनशनत्रतरूपास्तैः परिशुष्कं कृशीभूतं कलेवर शरीरं येषां तथाभूतेषु पुण्यस्थलेषु वाराणसी-गोकर्ण-रामेश्वरादिक्षेत्रेषु अटनेन यात्रार्थं भ्रमणेनपराकृतं निरस्तं किल्बिषं पापं यैस्तेषु अमीषु जटिलेषु कानपि वक्तुमशक्यान् गुणाञ्जानीहि अवगच्छ। नहि तावदेतत्कष्टोपवासादि गृहिभिर्विषयिजनैश्च कर्तुं शक्यन्तस्मादेते पूज्या एवेति भावः॥५२७॥*

  • क इति। इमे पुस्तकं पञ्चाङ्गादिकं हस्ते येषां ते जनाः कल्ये प्रातःकाले एवोत्थाय तत इतः गेहाद्गेहं पर्यटन्ति, भ्रमन्ति, ते के?॥२२५॥*

  • *कृ०—निपुणमवलोक्य सपरिहासम् —

ज्योतिःशास्त्रमहोदधौ बहुतरोत्सर्गापवादात्मभिः
कल्लोलैर्निबिडे कणान् कतिपयान् लब्ध्वा कृतार्था इव॥
दीर्घायुः सुत-सम्पदादिकथनैर्दैवज्ञपाशा इमे
गेहम्मनुप्रविश्य धनिनां मोहं मुहुः कुर्वते॥५२८॥

किञ्च—

विलिखति सदसद्वा जन्मपत्रं जनानाम्
फलति यदि तदानीं दर्शयत्यात्मदाक्ष्यम्॥
न फलति यदि लग्नं द्रष्टुरेवाह मोहं688
हरति धनमिहैवं हन्त ! दैवज्ञपाशः॥५२९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • ज्योतिरिति। बहुतराः अतिबहुलाः उत्सर्गाः सामान्यवचनानि अपवादाःविशेषवचनानि च आत्मा स्वरूप येषां तथाभूतैः, अतिशयोत्सर्गापवादवचनरूपैरित्यर्थः। कल्लोलैस्तरङ्गैः निबिडे परिपूर्ण ज्योतिःशास्त्र प्राणिनां ग्रहाद्यानुकूल्य-प्रातिकूल्यज्ञापनद्वारा शुभाशुभफलप्रतिपादक ग्रहनक्षत्रस्वरूपगत्यादिज्ञापक च शास्त्र सएव महोदधिः समुद्रस्तस्मिन् कतिपयान् अत्यल्पान् द्वि-त्रान् कणान् लेशान् लब्ध्वाप्राप्य, अतिविशालज्योतिःशास्त्रस्य यत्किचिदशमधीत्येति यावत्। कृतार्थाः कृत-कृत्या इव वर्तमानाः इमे कुत्सिता दैवज्ञाःज्यौतिषिकाः दैवज्ञपाशाः, याग्ये पाशप्।गेह गेह प्रतिगृह अनुप्रविश्य दीर्घायुः सुत-सम्पदादिकथनैः कस्यचिद् दीर्घायुष्यकथनेन, कस्यचित्सुतार्थिनः ‘तव सद्गुणसम्पन्नः पुत्रः स्यात्’ कस्यचिद्दरिद्रस्य त्व ‘अग्रेबहुतरद्रव्यसम्पन्नो भविष्यसि’ इत्यादि कथनमूह्यम्। धनिनां द्रव्यवतां मुहुर्वारंवारं मोहं कुर्वते। इमे भविष्यच्छुभकथनेनातीव विद्वांस इति भ्रान्तिमुत्पादयन्तीत्यर्थः॥५२८॥*

  • विलिखतीति। किञ्च अयं दैवज्ञपाशःज्यौतिषिकाधमः जनानां सत्यथार्थफलज्ञापक असद् अयथार्थफलं वा कथमपि जन्मपत्रं विलिखति। तच्चाग्रेयदि कदाचिद्दैववशतः फलति स्वलेखनानुरूपफलप्राप्तिर्भवति चेत्, तदा आत्मनः दाक्ष्यम्भविष्यत्फलकथनचातुर्यन्दर्शयति। यदि च लग्नं न फलति तदा दुष्टुर्जन्मकालीनलग्नादिकं पश्यत एव मोहम् अज्ञानम् आह कथयति। अस्य जन्मकालीन लग्नादि सम्यञ्ज्ञातं भवद्भिस्तस्माद्भवतामेवायं दोषो न ममेति वदतीत्यर्थः। एवं दह लोकेधनिनामिति शेषः। धनं हरति। इन्तेति खेदे॥५२९॥*

  • *अपि च—

प्रमोदे689 खेदे वाऽप्युपनमति पुंसो विधिवशा-
न्मयैवं690 प्रागेवाभिहितमिति मिथ्या कथयति॥
जनानिष्टानिष्टाकलनपरिहारैकनिरता691-
नसौ मेषादीनां परिगणनयैव भ्रमयति॥५३०॥

** **अस्तु वा तथ्यवादी दैवज्ञस्तथापि वृथा तद्वचःश्रवणम्॥२२६॥

तथाहि—

असुखमथ सुखं वा कर्मणां पक्तिवेला-
स्वहह ! नियतमेते भुञ्जते देहभाजः॥
तदिहपुरत एव प्राह मौहूर्तिकश्चेत्
कथय फलममीषामन्ततः किं ततः स्यात् ?॥५३१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • प्रमोद इति। पुंसो जनस्य विधिवशाद्दैववशादेव न तु स्वकथनेन, प्रमोदेआनन्दे वाऽथवा खेदे दुःखे उपनमति प्राप्नुवति सति, इद सुखं दुःखं वा मया प्रागेवप्राप्तकालात् पूर्वमेव अभिहितं कथितम् इत्येव मिथ्या असत्यं कथयति। इष्टं मुखादि अनिष्टं दुःखादि च तयोः आकलन स्वीकारः परिहारः निवारणञ्च तयोः एकम्मुख्यं यथा स्यात् तथा निरतानासक्तान् सुखस्याङ्गीकारे दुःखस्य परिहारे चतत्परानिति यथायथमूह्यम्। जनान् असौ ज्यौतिषिकः मेषादीनां राशीनां परिगनया सङ्ख्यानेनैव भ्रमयति विमोहयति। ‘तव जन्मराशेः सकाशाद्द्रव्यादेर्ग्रहस्येष्टफलप्रतिपादके एकादशादिस्थाने प्रवेशात् सुखोत्पत्तिः, जन्म-चतुर्थादिस्थानप्रवेशाच्चानिष्टफलप्राप्तिः’ इत्यादिकमनेन भ्रमयतीत्यर्थः॥५३०॥*

  • अस्त्विति। किञ्च दैवज्ञः तथ्यवादी सत्यवक्ता, वाऽप्यर्थङ्कः। अस्तु तथापितस्य वचसो भाषणस्य श्रवणं वृथा निष्फलमेव॥२२६॥*

  • वृथात्वमेवाह—असुखमिति। एते दृश्यमाना देहभाजः प्राणिनः कर्मणाम्पूर्वजन्मकृतानां पङ्क्तिवेलासु फलनिष्पत्तिकालेषु असुखं दुःखम् अथवा सुखं च नियतन्नियमेनैव भुञ्जते। अहहेत्याश्चर्ये। तदेव सुख दुःखं वा मौहूर्तिको ज्यौतिषिकःइह पुरतः तत्प्राप्तेः प्रागेन प्राह कथयति चेत्, ततः अग्रिमसुख-दुःखादिकथनात्अमीषां देहभाजां फलम् अन्ततः अन्तकालपर्यन्तं किं स्यात् ? कथय। प्राणिनामिष्टानिष्टप्राप्तिः स्वस्वकर्मानुसारेणैव भविष्यति ज्यौतिषिकादिकथनेन किमप्यन्यथा न भवेदित्यर्थः॥५३१॥*

वि०— ऐहिकामुष्मिककर्मारम्भो692पयोगिनो नोपालम्भमर्हन्ति ज्योतिर्विदः॥२२७॥

शृणु तावत् —

न दैवं न पित्र्यं च कर्मात्र सिध्येन्न यत्रास्ति देशे ननु ज्योतिषज्ञः॥
न तारा न चारा नवानां ग्रहाणां न तिथ्यादयो वा यतस्तत्र693 बुद्धाः॥५३२॥

यच्च समर्थितं मौहूर्तिकवचननिशमनं694 मुघेति तन्निपुणनिरूपणा न भणन्ति695॥२२॥

यतः—

भानोः शीतकरस्य वापि भुजगग्रासे पुरो निश्चिते
तीर्थानामटनं जनस्य घटयेत्तापत्रयोच्चाटनम्॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • ऐहिकेति। इहलोके भवान्यैहिकानि अमुष्मिन् परलोके भवान्यामुष्मिकाणि चयानि कर्माणि तेषामारम्भे उपयोगिनः भविष्यदिष्टानिष्टकथनेनेति भावः। ज्योतिर्विदःज्योतिःशास्त्रवेत्तारः उपालम्भं निन्दां नार्हन्ति निन्दितुं न योग्या भवन्ति॥२२७॥*

  • ज्योतिर्विदां सर्वाण्यपि दूषणानि परिहरन् प्रथमं तावत्तेषामुपयोगमाह—नेति। ननु इति आमन्त्रणे। हे कृशानो। इत्यर्थः। यत्र यस्मिन् देशे ज्योतिषङ्ग्रह-नक्षत्रादीनां खरूप-गत्यादिज्ञापकं शास्त्रं जानातीति तज्ज्ञः नास्ति न विद्यते, अत्रास्मिन् ज्योतिर्विदभाववति देशे दैव देवसम्बन्धि कर्म पूजादिक एकादश्युपवासादिकञ्च सम्यक् तिथ्यादिज्ञानाभावान् न सिध्येत्, तथा पित्र्यं पित्रुद्देशेन कर्तव्यं श्राद्धादिकं चापि न सिध्येत्। अत्रापि पूर्वोक्त एव हेतुज्ञेयः। किञ्च ताराः नक्षत्राणिन सिध्येयुः, तेषां स्वरूपज्ञानाभावादित्यर्थः। तथा नवानां नवसङ्ख्याकानां ग्रहाणांरव्यादीनां चारा मेषादिराशिप्रवेशाश्च न सिध्येयुः, तिथ्यादयः प्रतिपदादितिथयःआदिशब्देन योग-करणादीनां सङ्ग्रहः। न सिध्येयुः। वाऽप्यर्थङ्कः। यतः कारणात्तत्र दैव-पित्र्यादिकर्मसु ज्योतिर्विद इति शेषः। बुद्धाः ज्ञानवन्तः सन्ति। तस्मात्तेषामभावात् क्वापि दैव-पित्र्यादिकर्मोपयोगि कालज्ञानं नोत्पद्येतेत्यर्थः। क्वचित्’यतोऽत्रैष बुद्धः’ इति पाठः। पूर्व सम्बन्धदर्शनेन स एव युक्त इति भाति। परञ्च प्राचीन पुस्तकेषु तस्याभावात् स नादृतः॥५३२॥*

  • यच्चेति। मौहूर्तिकानां ज्योतिर्विदां वचनस्य भाषणस्य निशमनंश्रवणं मुधाव्यर्थमेव इति च यत् समर्थितं प्रतिपादितं तन् निपुणं युक्तायुक्तविवेकपूर्वकं निरूपणं भाषणं येषां ते न भणन्ति न प्रतिपादयन्ति॥२२८॥*

  • तत्कारणमुपपादयति—भानोरिति। भानोः सूर्यस्य शीतकरस्य चन्द्रस्य वापि,भुजेन कौटिल्येन गच्छतीति भुजगस्तेन ‘भुजो कौटिल्ये’ इति धातोः ‘अन्यत्रापि -’*

इष्टे प्रागवधारिते सति धृतेस्तुष्टेश्च लाभो भवे-
द्दृष्टे696 तु व्यसनेऽत्र तत्परिहृतिः कर्तुं जपाद्यैः क्षमा॥५३३॥

अविस्रम्भश्च दैवज्ञवचनेष्वनुपपन्नः॥२२९॥

वृद्धि697-ह्रासौ कुमुदसुहृदः पुष्पवन्तोपरागः698
शुक्रादीनामुदयविलयावित्यमी सर्वदृष्टाः॥
आविष्कुर्वन्त्यखिलवचनेष्वत्र कुम्भीपुलाक-
न्यायाज्ज्योतिर्नयगतिविदां699 निश्चलं मानभावम्॥५३४॥**

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

इत्यनेन प्रत्ययः। राहुणा केतुना वा ग्रासे, चन्द्र-सूर्यग्रहणे इत्यर्थः। पुरः ग्रासकालात् पूर्वमेव निश्चिते ज्ञाते सति ज्यौतिषिकेनेति शेषः। तापत्रयस्य आध्यात्मिकादिदुःखत्रयस्व उच्चाटनं निर्मूलन यस्मात् तत्, तापत्रयनाशकरमित्यर्थः। तीर्थानाङ्गङ्गादीनां यात्रार्थमिति शेषः। अटनं भ्रमणं जनस्य घटयेत् सम्पादयेत्। किञ्चग्रहाणामानुकूल्येन इष्टे अभीष्टफले प्राक् तत्प्राप्तिकालात् पूर्वमेव अवधारिते निश्चितेसति धृतेर्धैर्यस्य तुष्टेः सन्तोपस्य च लाभः भवेत्। व्यसने दुःखे ग्रहाणां प्रातिकूल्येनेति शेषः। दृष्टे प्राग्गणितेन ज्ञाते सति तु, अत्र तस्य व्यसनस्य परिहृतिः परिहारः जपाद्यैः तत्तदनिष्टग्रहमन्त्रजपाद्यैः, आद्यशब्देन दानादेर्ग्रहणम्। कर्तुं क्षमायोग्या स्यात्। अनेन ‘असुखमथ सुखं वा’ इत्यादिनोकं दूषणं परिहृतमिति ज्ञेयम्॥५३३॥

  • अत एव ज्यौतिषिकवचनमवश्यं माननीयमिति वक्तुमाह—अविस्रम्भ इति। दैवज्ञानां ज्योतिर्विदां वचनेषु भाषणेषु अविस्रम्भोऽविश्वासः अनुपपन्नः अयुक्तः॥२२९॥*

  • कुत इत्यत आह—वृद्धि ह्रासाविति। कुमुदसुहृदश्चन्द्रस्य वृद्धिः शुक्लपक्षेप्रतिदिनमेकैककलया जायमाना पुष्टिः ह्रासः कृष्णपक्षे तत्क्रमेणैव जायमानः क्षयश्चतौ, पुष्पवन्तौ सूर्याचन्द्रमसौ “एकयोक्त्या पुष्पवन्तौ दिवाकर-निशाकरौ” इत्यमरः।तयोः उपरागः ग्रहणं “उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च।” इत्यमरः।शुक्रादीनां ग्रहाणाम् आदिशब्देन गुर्वादीनां ग्रहणम्। उदयः विलयः अस्तमयश्चतौ, इत्येवम्प्रकारेण अमी कालविशेषाः सर्वैर्लोकैः दृष्टाः, एते ज्यौतिषिकनिश्चिताएवेति शेषः। अत्र लोके कुम्भी अन्नपचनपात्रं पुलाकः धान्यकणः तयोर्न्यायःएककणपचनज्ञानात् सर्वधान्यपाकज्ञानरूपः तस्माज् ज्योतिर्नयो ज्योतिःशास्त्रं तस्यगतिं लापनरीतिं विदन्ति जानन्तीति तद्विदस्तेषाम् अखिलानि सर्वाणि यानि वचनानितेषु निश्चलं चञ्ञ्चलतारहितं सनिश्वयमित्यर्थः। मानभावं पूज्यभावम् अविष्कुर्वन्तिप्रकटीकुर्वन्ति॥५३४॥*

    • इत्थं किल नीतिविदो विदुः॥२३०॥

विदैवज्ञं ग्रामं विबुधविधुरं700 भूपतिसभम्701
मुखं श्रुत्या हीनं मनुजपतिशून्यं च विषयम्॥
अनाचारान् दारानपहरिकथं काव्यमपि च
प्रवक्तृत्वापेतं गुरुमपि सुबुद्धिः परिहरेत्॥५३५॥

<MISSING_FIG href="../books_images/U-IMG-1723089728Screenshot2024-08-08063503.png"/>

अथ भिषग्वर्णनम्—४५.

<MISSING_FIG href="../books_images/U-IMG-1722835505Screenshot(9"/>.png)

कृ०—अस्त्वेवम्। इत्यन्यतो वीक्ष्य सोपहासम् —

मिथ्यौषधैर्हन्त ! मृषाकषायैरसह्यलेह्यैरयथार्थतैलैः॥
वैद्या इमे वञ्चितरुग्णवर्गाः पिचण्डभाण्डं परिपूरयन्ति॥५३६॥

** **किञ्च—

न धातोर्विज्ञानं न च परिचयो वैद्यकनये
न रोगाणां तत्त्वावगतिरपि नो वस्तुगुणधीः॥
तथाप्येते वैद्या इति तरलयन्तो जडजना-
नसून्भृत्या मृत्योरिव वसु हरन्ते ! गदजुषाम्॥५३७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • विदैवज्ञमिति। सुष्ठु विचारसम्पन्ना बुद्धिर्यस्य सः सुबुद्धिः पुरुषः विदैवज्ञं ज्यौतिषिकरहितं ग्राम, विबुधविधुरं पण्डितशून्यं भूपतिसभः राज्ञः सभां क्वचित् ‘विबुधविधुरां भूपतिसभां’ इति पाठान्तरं दृश्यते। तत्तु न युक्तं, “सभा राजाऽमनुष्यपूर्वा” इति राजपर्यायपूर्वसभान्ततत्पुरुषस्य नपुंसकत्वविधानात्। श्रुत्या वेदेनहीनं रहितं मुखं मनुजपतिना राज्ञा शून्यं च विषयं देशं, अनाचारान् सतीत्वाचाररहितान् व्यभिचारसम्पन्नानित्यर्थः। दारान् स्त्रिय चापि, अपगता हरिकथायस्मात् तत् हरिगुणानुवर्णनरहितमित्यर्थः। काव्यं च प्रकर्षेण यद्वक्तृत्वं यथार्थोपदेशरूपं तस्मादपेतं निवृत्तं गुरुमध्यापक च परिहरेत् त्यजेत्॥५३६॥*

  • मिथ्येति। इमे वैद्याःमिथ्यौषधैः रोगादिसम्यक्परीक्षामन्तरा प्रयुक्तैरसत्यौषधैः, मृषाकषायैः पूर्ववदेव वृथाप्रयुक्तैः, असह्यैः सोढुमशक्यैर्लेह्यैः, अयथार्थैःविरुद्धरोगप्रयुक्ततया अयोग्यैस्तैलैश्च वञ्चितः रुग्णानां रोगिजनानां वर्गः समुदायो यैस्तथाभूताः सन्तः, पिचण्डमुदरं भाण्डमिव परिपूरयन्ति पूर्णं कुर्वन्ति॥५३६॥*

  • नेति। एषां वैद्यानां धातोः पारद-ताम्रादेः विज्ञानं विशेषतः शुद्धिकरणादिज्ञानन्न, वैद्यकनये वैद्यकशास्त्रे चरक-सुश्रुतादिग्रन्थे परिचयोऽभ्यासः न, रोगाणां ज्वरा-*

  • *अपि च—

कषायैरुपवासैश्च नृणामुल्लाघतां कृताम्॥
निजौषधकृतां वैद्यो निवेद्य हरते धनम्॥५३८॥

** वि०**—वयस्य ! विश्वोपकारिषु वैद्येषु अवद्यानि न कलयेथाः702॥२३१॥

पश्य—

मस्ते दुःसह703वेदनाकवलिते मग्ने स्वरेऽन्तर्गलं
तप्तायां ज्वरपावकेन च तनौ तान्ते704 हृषीकाव्रजे॥
दूने बन्धुजने कृतप्रलपने धैर्यं विधातुं पुनः
कः शक्तः कलितामयप्रशमनाद्वैद्यात्परो विद्यते?॥५३९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

दीनां तत्त्वतः अवगतिर्ज्ञानं चापि न, वस्तूना औषधीनां गुणाः शैत्यौष्ण्यादयःतेषां धीर्ज्ञानं नो नास्ति। तथापि औषध-रोगादिज्ञानाभावे सत्यपि वैद्या वयम् इति कथयित्वा जडजनान् मूर्खलोकान् तरलयन्तो मोहयन्तः सन्तः मृत्योर्यमस्य भृत्याःदूता इवेत्युत्प्रेक्षा। गदजुषां रोगिणां वसु द्रव्य, असून् प्राणांश्चापि हरन्ते अपहरन्ति॥५३७॥

  • कषायैरिति। कषायैः त्रिकटु-त्रिफलादिसाररूपैः उपवासैलङ्घनैश्चापि नृणाम्मनुष्याणाम् उल्लाघतां नीरोगतां “अनुपसर्गात्फुल्ल-क्षीब-कृशोल्लाघाः” इति निपातनात्साधुः। “उल्लाघो निर्गतो गदात्” इत्यमरः। कृता सम्पादितां वैद्यः निजैःस्वकीयैः औषधैः कृतां सम्पादिता निवेद्य कथयित्वा धनं हरते। रोगिजनानामिति शेषः॥५३८॥*

  • वयस्येति। हे वयस्य ! विश्वोपकारिषु सर्वजनोपकारकर्तृषु, सदौषधप्रयोगादिभिरिति भावः। वैद्येषु अवद्यानि दूषणानि न कलयेथाः दूषणानां वृथारोप माकुर्वित्यर्थः॥२३१॥*

  • विश्वोपकारित्वमेवाह—मस्ते इति। रोगिण इति शेषः। मस्ते शिरसिदुःसहा सोढुमशक्या या वेदना रोगोत्पन्नं दुःखं तया कवलिते ग्रस्ते सति, स्वरेशब्दे च अन्तर्गल कण्ठमध्ये एव मग्ने लीने सति, स्फुटतया कण्ठाद्बहिरप्रकटे सतीत्यर्थः। तनौ देहे च ज्वरो रोगविशेषः स एव पावकोऽग्निस्तेन तप्तायां सत्यातद् एव हृषीकाणां चक्षुरादीन्द्रियाणां व्रजे समुदाये तान्ते निम्नगतत्वेनसम्यग्दर्शनाद्यभावसम्पन्ने च सति बन्धूनां मातृ-पितृ-भ्रातृ-पुत्रादिस्वजनानां जनेसमुदाये दूने दुःखिते च सति अत एव कृत प्रलपन शोको येन तथाभूते च सतिपुनः धैर्यं विधातुमुत्पादयितुं कलितं सम्पादितमामयानां शिरोवेदनानां प्रशमनंशान्तिर्येन तस्माद् वैद्यात् परोऽन्यः पुरुषः कः शक्तः समर्थः विद्यते ? अपि तुकोऽपि नास्तीत्यर्थः॥५३९॥*

मा बोधि वैद्यकमथापि महामयेषु705
प्राप्तेषु यो भिषगिति प्रथितस्तमेव॥
आकारयत्यखिल एव विशेषदर्शी
लोकोऽपि तेन भिषगेष न दूषणीयः॥५४०॥

** **कष्टमहो कृतोपकारेष्वगदङ्कारेषु कृतघ्न एव निर्विवेको लोकः। इत्थं हि कवयः कथयन्ति॥२३२॥

निर्वृत्ताध्वरकृत्य ऋत्विजमथोत्तीर्णापगो नाविकम्
युद्धान्ते706 सुभटं च सिद्धविजयो वोढारमाप्तस्थलः॥
वृद्धं वारवधूजनं च कितवो707 निर्घृष्ट708तद्यौवनो
ध्वस्तातङ्कचयश्चिकित्सकमपि द्वेष्टि प्रदेयार्थिनम्॥५४१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • ‘न धातोर्विज्ञानं न च परिचयोवैद्यकनये’ इत्यादिनोक्तं दूषणं परिहर्तुमाह—मा बोधीति। अयं वैद्यः वैद्यकं शास्त्रं मा बोधि मा ज्ञासीत् ‘बुध अवगमने’इत्यस्मान् माड्योगाल्लुडि अडागमाभावः “दीप-जन-बुध-” इत्यादिना विकल्पेनचिण्। तथापि आमयेषु रोगेषु प्राप्तेषु सत्सु विशेषदर्शी समयविशेषेण कार्याकार्यद्रष्टा अखिल एव सर्वोऽपि जनः भिषक् वैद्यः इति यो लोके प्रथितः प्रसिद्धःतमेव आकारयति आह्वयति। तेन कारणेन एष भिषक् वैद्यः न दूषणीयः। अयम्भावः—वैद्यक्रिया हि न तावत्सर्वकालमेव ग्रन्थज्ञानमवलम्ब्य भवति, किन्तुविशेषतः अनुभवज्ञानमवलम्बते। ततश्च यदि केषाञ्चिद् गुरुपरम्परया रोगपरीक्षण तत्परिहत्रौषधविज्ञानं च स्यात्, तदा न ग्रन्थावगतिरावश्यकी, तत एव चतादृशा दोषारोपोऽपि वृथैवेति॥५४०॥*

  • कष्टमिति। कृतोपकारेष्वप्यगदकारेषु वैद्येषु विषये “अङ्गदकारो भिषग्वैद्यौचिकित्सके” इत्यमरः। निर्विवेकः विचाररहितः अत एव कृतम् औषधादिनां सम्पादितमारोग्यं हन्तीति कृतघ्नः लोकः, इति अहो कष्टमन्याय्यम्॥२३२॥*

  • उक्तार्थे वृद्धसम्मतिमाह—निर्वृत्तेति। निर्वृत्तं समाप्तम् अध्वरकृत्यं यज्ञकृत्यंयस्य सः जनः, प्रदेय दक्षिणादिद्रव्यं पूर्वं प्रतिज्ञातम् अर्थते याचते इति प्रदेयार्थीतम् एतदेव विशेषणं प्रतिद्वितीयान्त योजनीय द्वेष्टीति क्रियापदं च। ऋत्विजं यज्ञकर्तारन्द्वेष्टि, उत्तीर्णा लङ्घिता आपगा नदी येन सः नाविकं कर्णधारं, सिद्धःविजयः शत्रोरुत्कर्षप्राप्तिर्यस्य सः, युद्धान्ते समरावसाने सुभटः वीरपुरुषः, आप्तं प्राप्तं स्थलं गन्तव्यस्थानं येन सः वोढारं वाहकं, निर्घृष्ट असकृदुपभोगेन विनाशितः तस्य वारस्त्रीजनस्ययौवनं तारुण्यं येन सः कितवो धूर्तः अत एव वृद्धं वारवधूनां वेश्यानां जनं समूहं*

अथ कविवर्णनम् ४६.

<MISSING_FIG href="../books_images/U-IMG-1722837028Screenshot(12"/>.png)

    • इति विमानमग्रतश्चालयन्नग्रतोऽवलोक्य सोपालम्भम्—

    कृ०—सखेऽत्र पश्यकवीनामेषां शास्त्रैर्विप्रतिषिद्धां चर्याम्॥२३३॥

श्रीनाथस्तवनानुरूपकवनां वाणीं मनोहारिणीं
कष्टं हा कवयः कदर्यकुटिलक्ष्मापालसात्कुर्वते॥
दूरोपाहृतसौरसैन्धवपयो देवाभिषेकोचितं
संसेके विनियुञ्जते सुमतयः शाकालवालस्य किम् ?॥५४२॥

किञ्च—

स्तुवद्भवनिवर्तके सति हरौ कविः सूक्तिभिः
करोति वरवर्णिनीचरितवर्णनं गर्हितम्॥
अनीतिरवनीपतिर्गृहशुनीतनुं मौक्तिकै-
र्विभूषयति देवतामुकुटभागयोग्यैर्यथा॥५४३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

च, ध्वस्तो विनष्टः आतङ्कानां रोगाणां चयः समुदायो यस्य सः चिकित्सकं वैद्य चापि द्वेष्टि॥५४१॥

  • अथ कविवर्णनं सूचयितुमवतारयति—इतीति। सोपालम्भं सनिन्दम्॥*

  • सख इति। हे सखे विश्वावसो ! अत्रास्मिन् देशे एषां कवीनां शास्त्रैर्विप्रतिषिद्धां निषिद्धां चर्यामाचारं पश्यावलोकय॥२३३॥*

  • श्रीनाथेति। श्रीनाथस्य भगवतो लक्ष्मीपतेः स्तवने स्तुतौ अनुरूपं योग्यङ्कवनं शब्दनिवेशनचातुर्यंयस्याः सा ताम् अत एव मनोहारिणीं सहृदयजनचित्ताकर्षिणीं वाणीम् एते कवयः कदर्याः कृपणाः“कदर्ये कृपण क्षुद्र-किम्पचान-मित-पचाः।” इत्यमरः। कुटिलाः वक्रान्तःकरणाश्च ये क्ष्मापाला भूपालास्तेषाम् अधीनां कुर्वते कुर्वन्ति। हा कष्टमिति खेदे। एतदेव दृष्टान्तेन द्रढयति — दूरोपाहृतेति। दूरात् शतशो योजनप्रदेशाद् उपाहृतमानीतं सुरसिन्धोः गङ्गायाः इदं सौरसैन्धवं यत् पमः उदकं तद् अत एव देवस्य श्रीसेतुबन्धरामेश्वरादेः अभिषेके उचितंयोग्यं सुमतयः सुबुद्धयो जनाः शाकस्य शाकवृक्षस्य आलवालं तस्य संसेकेनिषेचने विनियुञ्जते उपयुञ्जते किम् ? अपि तु नैवेत्यर्थः॥५४२॥*

  • स्तुवदिति। स्तुवतां स्तुतिं कुर्वतां जनानां भवनिवर्तके संसारनिवर्तके हरौविष्णौ सत्यपि कविः सूक्तिभिः मधुरवाणीभिः गर्हितं सद्भिर्निन्द्य वरवर्णिन्याः स्त्रियाचरितस्य वर्णन नेत्र-वदनाद्यवयवप्रशंसारूपं करोति। किञ्च कतिपये कवयः*

  • *वि०—आन्तरध्वान्तहरयः कवयस्त्वया नाधिक्षेप्याः॥२३४॥

कामं वाचः कतिचिदफलाः सन्तु लोके कवीनां
सन्त्येवान्या मधुरिपुकथासंस्तवाः कामदोग्ध्र्यः॥
वित्तं कामं भवतु विफलं दत्तमश्रोत्रियेभ्यः
पात्रे दत्तैर्भवति हि धनैर्धन्यता भूरिदातुः॥५४४॥

कल्याणं भगवत्कथाग्रथनतः काव्यं विधातुः कवे-
स्तस्यैवाङ्गतया क्वचिद्रचयतः शृङ्गार-वीरादिकम्॥
को दोषो भविता ? यदत्र कविताशीलैः समाश्रीयते
पन्था व्यास-वसुन्धराश्रुतिभवग्रन्थादिषु प्रेक्षितः॥५४५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

प्रत्यक्षं प्रन्थारम्भे मङ्गलादौ श्रीहरि-शिवादिवर्णनप्रसङ्गेऽपि बीभत्स-शृङ्गारादिवर्णनेन निजां वाणीं दूषयन्ति वास्तविकेश्वरसामर्थ्यं निह्नुवते च। यथा भट्टनारायणेन वेणीसंहारनाटके मङ्गलाचरणतृतीयपद्ये ‘उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ—’ इत्यादिनाभगवत्या लक्ष्म्याः सम्भोगोत्थानं वर्णितं, तत्किं भगवत्याः अन्यन्निरवद्यं माननीयं चचरित्रं नासीदेव ? परं तदेषां विषयवासनामलिनान्तःकरणानां कवीनां मनःकुतः प्रवेष्टुं शक्नोति ? इत्यलमप्रस्तुतप्रवचनेन। अत्रापि दृष्टान्तमाह—अनीतिः नयशिक्षणरहितः अवनीपती राजा यथा देवतानां मुकुटस्य किरीटस्य भागेषु प्रान्तेषुयोग्यैरुचितैः, खचितुमिति शेषः। मौक्तिकैः गृहे पालितायाः शुन्याः तनु शरीरंविभूषयति। तथैवैतेषां कवीनां कृतिरिति भावः॥५४३॥

  • आन्तरेति। आन्तरस्य मनोगतस्य ध्वान्तस्य अन्धकारस्य अज्ञानरूपस्येत्यर्थः।हरयः सूर्याः तत्सदृशा इत्यर्थः। कवयस्त्वया नाधिक्षेप्याः न निन्दनीयाः॥२३४॥*

  • उक्तमेव स्पष्टयति—काममिति। लोके कवीनां कतिचिद् वाचः वाण्यःस्त्रीवर्णनादिरूपाः काम अफलाःनिष्फलाः सन्तु। नैतादृशः सर्वा अपीत्यर्थः। किन्तु अन्याः स्त्री-राजादिवर्णनादितराः मधुरिपोः श्रीकृष्णस्य कथायाः संस्तवः सम्यक्स्तुतिः यासु ताः अत एव कामदोग्ध्र्यःअभीष्टसद्गत्यादिप्रदात्र्यः वाचः सन्त्येव। अत्रैतादृशो वाचः कालिदासस्य रघुवंशकुमारसम्भवादिकाः, माघस्यशिशुपालवधादिरूपाः, भवभूतेरुत्तररामचरित्रादयश्चोह्याः। अत्रार्थान्तरं न्यस्यति—अश्रोत्रियेभ्यः अवैदिकेभ्यः अर्थात् कुपात्रेभ्यः दत्तं स्वत्वत्यागपूर्वकं परस्वत्वोत्पादनपूर्वकं च समर्पितं वित्तं द्रव्यं कामं विफलं भवतु। किन्तु पात्रे सन्त्पात्रे अग्निहोत्रादिसम्पन्ने दत्तैः समर्पितैः धनैः भूरिदातुः अतिशयदानकर्तुः पुरुषस्य धन्यतापुण्यवत्ता भवति हि एव॥५४४॥*

  • ‘स्तुवद्भवनिवर्तके—’इत्यादिनोक्तं स्त्रीवर्णनरूपं दोषमुद्धारयन्नाह—कल्याणमिति। भगवतः श्रीविष्णोः कथानां राम-कृष्णाद्यवतारचरित्राणां प्रथनतः रचनया कल्याणं निःश्रेयसकरं काव्यं रघुवंश- कुमारसम्भवं-शिशुपालवधं- किरातार्जुनीं-*

    कृ०

नरस्तुतेर्विधातारो न वस्तुत इमे बुधैः॥
श्लाघनीया इति कवी शास्त्राध्वन्यो विनिन्दति॥५४६॥

** वि०**—धनचपलसकलपुरुषसाधारणमिदं दूषणमविवेकिभिः कविष्वेव केवलमाधीयते॥२३५॥

यतः—

पद्यैर्हृद्यतमैः स्तुवन्ति कवयः प्रायेण पृथ्वीपती-
नन्ये तान् स्तुवते वचोभिरचमत्कारैरसारैरपि॥
पद्यारम्भणशक्त्यशक्तिविहितो भेदः कवीनां भव-
त्यन्येषां च परं नरस्तुतिकृतो दोषस्तु सार्वत्रिकः॥५४७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

यादिक शाकुन्तल-महावीरचरितोत्तररामचरितादिनाटकरूपं च विधातुः कर्तुः कवेःकालिदास-माघ-भारवि-भवभूत्यादेः, तस्य काव्यस्यैवाङ्गतया यत्किञ्चिदंशरूपत्वेन क्वचित्विवाहादिप्रसङ्गे दम्पतीसमागमादिप्रसङ्गे वा, न तु सर्वत्र। यथा रघुवंशे इन्दुमत्याःवर्णनं, कुमारसम्भवे भगवत्याः पार्वत्याश्च वर्णनं, सर्वतो वीररसप्रधाने वेणीसंहारनाटके चभानुमत्यादिवर्णनं चेत्यादिकं यथायथमूह्यम्। शृङ्गारः वीरश्च तौ आदी यस्मिन् तदादिकंरसं, आदिशब्दात् करुणाद्भुतादेर्ग्रहणम्। रचयतः को दोषो भविता भविष्यति ? नैवायंसम्प्रदायः आधुनिककवीनामेव, किन्तु प्राचीनानामपीत्याह—यद् यस्माद् अत्र लोकेकविताशीलैः काव्यकर्तृभिः व्यासः पाराशरः वसुन्धराश्रुतिः पृथिव्याः श्रवणेन्द्रिय लक्षणया वल्मीक तत्र भवो वाल्मीकिश्च तयोर्ग्रन्थादिषु महाभारत-भागवत- रामायणादिपुराणग्रन्थेषु प्रेक्षितोऽवलोकितः पन्थाः क्वचिदङ्गतया शृङ्गारादिवर्णनरूपः, यथा महाभारते द्रौपद्यादिसमागमवर्णन, भागवते च श्रीकृष्ण-गोपिकारासक्रीडादिवर्णनं,रामायणे सीतावर्णनादिक च ज्ञेयम्। समाश्रीयते स्वीक्रियते। न तु स्वकपोलकल्पितइति भावः॥५४५॥

  • पुनरपि दूषयति—नरेति। नरस्य मनुष्यस्य राजादेः स्तुतेः स्तवस्य विधातारः कर्तारः इमे कवयः, अत एव वस्तुतः तत्त्वतः बुधैः पण्डितैः न श्लाघनीयाः न प्रशंसनीयाः। इति हेतोः कवीन् शास्त्राध्वन्यः शास्त्रपथिकः “अध्वनो यत्खौ” इति सूत्रेण‘अलं गच्छति’ इत्यर्थे यत् प्रत्ययः। शास्त्रोक्तमार्गेण गन्तेत्यर्थः। विनिन्दति॥५४६॥*

  • धनेति। धने द्रव्यसम्पादने चपला आसता ये सकलाः सर्वेऽपि पुरुषाः कवयःतदन्ये च तेषां साधारणं समानमिदं नरस्तवनरूपं दूषणं, परं तु अविवेकिभिः अविचारिभिः केवलं कविष्वेव, न त्वन्येषु आधीयते आरोप्यते॥२३५॥*

  • पद्यैरिति। कवयःहृद्यतमैः अतिमनोहरैः रसालङ्कारादिपरिपूर्णत्वेनेत्यर्थः।पद्यैः श्लोकैः पृथ्वीपतीन् राज्ञः प्रायेण स्तुवन्ति। प्रायग्रहणात् केचित् पद्यादिरचनप्रयत्नं विनैव स्तुवन्तीति ज्ञेयम्। अन्ये च तान् राज्ञः अचमत्कारैः उपमाद्यलङ्काराभावाद् आह्लादजननासमर्थैः अत एव असारैरपि वचोभिर्भाषणैः स्तुवते*

    • क्षणमालोक्य सादरम्—

प्राचेतस-व्यास-पराशराद्याः प्राञ्चः कवीन्द्रा जगदञ्चितास्ते॥
गोष्ठी नवीनापि महाकवीनां पूज्या गुणज्ञैर्भुवनोपकर्त्री॥५४८॥

तथा हि—

माघश्चोरो मयूरो मुररिपुरपरो भारविः सारविद्यः
श्रीहर्षः कालिदासः कविरथ भवभूत्याह्वयो भोजराजः॥
श्रीदण्डी डिण्डिमाख्यः श्रुतिमुकुटगुरुर्भल्लटो709 भट्टबाणः
ख्याताश्चान्ये सुबन्ध्वादय इह कृतिभिर्विश्वमाह्लादयन्ति॥५४९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

तेषां स्तुतिं कुर्वन्ति। उभयोस्तारतम्यमाह—पद्यानां श्लोकानाम् आरम्भणे करणेशक्तिः सामर्थ्यम् अशक्तिरसामर्थ्यं च ताभ्यां विहितः कृतः कवीनाम् अन्येषां चमध्ये भेदः विशेषः अस्ति। परन्तु नरस्तुतिकृतो दोषस्तु सर्वत्र कवि-तदितर-धन-चपलजनेषु भवतीति सार्वत्रिक एव, न तु कवीनामेवाय दोषः प्रत्युत चमत्कारजनितो गुण एव सम्भवतीति॥५४७॥

  • प्राचेतसेति। प्राचेतसः वाल्मीकिः, व्यासः सत्यवतीसुतः, पराशरश्च तेयः प्रथमः येषु ते प्राञ्चः प्राचीनाः अत एव कवीन्द्राः कविषु श्रेष्ठाः ते प्रसिद्धाःजगति अञ्चिताः पूज्याः, आसन्निति शेषः। तथा तत्पथसमाश्रयणान् नवीनाअर्वाचीनापि भुवनोपकर्त्री, विविधसृष्टपदार्थगुण-दोषवर्णनेनेति शेषः। महाकवीनाङ्कालिदासादीनां गोष्टी सभा “समज्या परिषद्गोष्टी सभा—”इत्यमरः। गुणज्ञैः जनैः पूज्या माननीया॥५४८॥*

  • ‘कवीनां नवीनापि गोष्टी पूज्या’ इत्युक्तं तदन्तर्भूतानेव कांश्चित् प्रसिद्धान्नामतो निर्दिशति—माघ इति। माघः एतन्नामा कविःशिशुपालवधाख्यकाव्यकर्ता, चोरः एतन्नामा कविः, अस्यैव बिह्लण इति नामान्तरं श्रूयते। एतद्विषये अत्रत्यमुद्रितपुस्तके टिप्पण्यामेव वृत्तान्तम् उपलभ्यते—‘चोरपञ्चाशिकाभिधमेकङ्काव्यमनेन कविना राजाज्ञैकविधेयराजपुरुषकरिष्यमाणशूलारोपणप्राक्कालिकतद्वञ्चनलब्धावसरे कालचौरत्वापदेशेन निमित्तेन विरचितम्’ इति। मयूरः, मुररिपुर्मुरारिनामा कविः अनर्घराघवनाटककर्ता, अपरः एभ्यः अन्यः यः सारवित् काव्यनिर्मा-णसामग्रीभूतसाहित्यालङ्कारादितत्त्वज्ञः भारविनामा किरातार्जुनीयादिकाव्यनिर्माता, श्रीहर्षः वत्सराजचरितादिकर्ता, कालिदासः कविकुलगुरुत्वेन प्रसिद्धः रघुवंश-कुमारसम्भव-मेघदूतादिकाव्यानां, अभिज्ञानशाकुन्तल-विक्रमोर्वशीयादिनाटकानां च निर्माता, अत एवायं प्रथमं ग्रथितुं योग्यः कविमालिकायां परं छन्दोऽनुरोधान्न तथा कृतमिति बोध्यम्। अथ भवभूतिरिति आह्वयो नाम यस्य सः कविः मालतीमाधव-उत्तररामचरितादिनाटककर्ता, भोजराजः प्रसिद्धः, श्रीदण्डी दशकुमारचरितादिकर्ता*

  • परं तु—*

सम्पन्निर्मदभावयोरनघयोः साहित्य-पाण्डित्ययोः
सामर्थ्यान्यजनोपकारकतयोः साम्राज्य-दाक्षिण्ययोः॥
औदार्य-प्रियवादयोश्च कथयन्त्याचार-विज्ञानयोः
सामानाधिकरण्यमेव विबुधोत्तंसप्रशंसास्पदम्॥५५०॥

*** *इदं चावधेयम्—

प्रणतचरणरेणुविष्णुचित्तः शठमथनरसो मुनिः स भूतः॥
मधुरकविरितोपरे च धन्याः कति न पुनन्ति जगन्ति सूक्तिपूरैः॥५५१॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

डिण्डिमाख्यः, श्रुतिमुकुटगुरुर्वेदान्ताचार्यः, भल्लटः भट्टवाणः, कादम्बर्यादिग्रन्थकर्ता च, अन्ये उक्तेभ्य इतरे सुबन्ध्वादयः कवयः, आदिशब्देन जयदेवादिग्रहणम्। ख्याताः प्रसिद्धाः सन्ति। ते कृतिभिः उपरिनिर्दिष्टस्वविरचितकाव्य-नाटकादिग्रन्यैः इह लोके विश्रम् आह्लादयन्ति आनन्दयन्ति॥५४९॥

को वैतेषां कृतिभिर्जनानां लाभः इत्यपेक्षायामाह—परं त्विति। तुर्विरोध-सूचकः। तेन तत्कृतिषु वक्ष्यमाणप्रकारेण वर्णनमपेक्षितमिति तदर्थः।

सम्पदिति। अनघयोर्निर्दोषयोः, एतत्प्रतिपष्ठ्यन्त योजनीयम्। सम्पदः भावःलक्ष्म्याः सत्ता निर्मदस्य अहङ्कारराहित्यस्य भावश्च तयोः, भावशब्दस्य द्वन्द्वान्तेश्रूयमाणत्वात् प्रत्येक सम्बन्धः। साहित्यं काव्यालङ्कारादिज्ञानं, पाण्डित्यं तर्कादिशास्त्रेषुप्रावीण्यं तयोः, सामर्थ्यं परपराभवशक्तत्व अन्यजनेषु उपकारकता च तयोः,साम्राज्यं सार्वभौमत्व दाक्षिण्यं सरलत्वं च तयोः, औदार्यं दातृत्वं प्रियवादः प्रियभाषण च तयोः, आचारः शास्त्रोक्ताचरणं विज्ञानं शास्त्रज्ञानं च तयोश्चसामानाधिकरयमेकत्र स्थितिमेव विवुधोत्तसानां ज्ञानिश्रेष्ठानां प्रशंसायाः स्तुतेः आस्पद स्थानङ्कथयन्ति। जना इति शेषः॥५५०॥

प्रणतेति। प्रणताः प्रकर्षेण नमस्कृताः अर्थाद्भक्तैः चरणरेणवः पादपांसवोयस्य सः तथाभूतः स चासौ विष्णुश्च भगवान् तस्मिन् चित्त यस्य सः, सततविष्णुध्यानतत्पर इत्यर्थः। शठानां कपटवादिनां मथने पराजये रस उल्लासो यस्यसः, सः प्रसिद्धः मुनिः मधुरकविः श्रीशठकोपमुनिरित्यर्थः। तस्यैवेदं नामान्तरमितिभाति। भूतः जातः। इतः श्रीशठकोपमुनेः अपरे अन्ये तत्तद्देशभाषायां काव्यनिर्मातारः ज्ञानेश्वर-एकनाथ-तुलसीदास श्रीधर-नामदेव-तुकाराम वामनादयः धन्याः पुण्यवन्तः सन्तः सूक्तीनां मधुरभाषणानाम् अर्थाद् भावार्थदीपिकादिरूपाणां पूरैः प्रवाहैः कतिजगन्ति लोकान् न पुनन्ति ? अपि तु बहव एतादृशः सन्तीत्यर्थः॥५५१॥

अथ तार्किकवणनम्—४७.

<MISSING_FIG href="../books_images/U-IMG-1722844522Screenshot(9"/>.png)

** क्रु०**—पुरतो विमानं प्रस्थाप्य पार्श्वतो दृष्ट्वा—

पश्यैतानाग्रहिणः पुरुषान् य एते व्यर्थमेव न्यायग्रन्थसन्ततचिन्तनेन विश्राम्यन्ति710॥२३६॥

तथाहि—

कर्म-ब्रह्मविचारणां विजहतो भोगापवर्गप्रदां
घोषं कञ्चन कण्ठशोषफलकं कुर्वन्त्यमी तार्किकाः॥
प्रत्यक्षं न पुनाति नापहरते पापानि पीलुच्छटा
व्याप्तिर्नावति नैव पात्यनुमितिर्नो पक्षता रक्षति॥५५२॥

किञ्च—

हेतुः किञ्च विशिष्टधीरनुमितौ न ज्ञानयुग्मं मरुत्
त्वाचो नेति च मोहबादमुखरा नैयायिकाश्चेद्बुधाः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • पश्येति। ये एते न्यायग्रन्थानां गादाधारी- जागदीशीप्रभृतितर्कशास्त्रग्रन्थानांसन्ततचिन्तनेन निरन्तरविचारेण विश्राम्यन्ति विफल क्लाम्यन्ति। श्रमातिरिक्तं नकिचित्फलं प्राप्नुवन्तीत्यर्थः। अत एव आग्रहिणः वादप्रसङ्गे परमतानङ्गीकारपूर्वकस्वमतस्यैव प्रतिपादकान् एतान् दृश्यमानान् पुरुषान् पश्यावलोकय॥२३६॥*

  • कर्मेति। अमी तार्किकाः तर्कशास्त्रविदः भोगः ऐहिकामुष्मिक सुखम् अपवर्गोमोक्षश्च तौ प्रददातीति तां कर्मणःज्योतिष्टोमादिरूपस्य ब्रह्मणः परमात्मनश्च विचारणां मीमांसां, पूर्वमीमांसामुत्तरमीमांसां चेत्यर्थः। तत्र पूर्वमीमांसा कर्मकाण्डप्रतिपादिका ऐहिकामुष्मिकभोगप्रदा। उत्तरमीमांसा च जीव-ब्रह्मणोर्वास्तवस्वरूपप्रतिपादिका मोक्षप्रदा चेति ज्ञेयम्। विजहतस्त्यजन्तः सन्तः, कञ्चन निष्फलम् अत एवकण्ठशोष एव फलं यस्मात् स तत्फलकस्त घोषं कलकलं कुर्वन्ति। निष्फलवमेवाह—प्रत्यक्षं चक्षुरादीन्द्रियाणि प्रमाणचतुष्टयान्यतमं प्रमाणं न पुनाति न पवित्रीकरोति, पीलूनां परमाणूनां छटा समूहः पापानि नापहरते न परिहरति, व्याप्तिः व्यापकसामानाधिकरण्यरूपा नावति न रक्षति, अनुमितिः परामर्शजन्यं ज्ञानं ‘पर्वतो वह्निमान्’ इत्यादिरूपं नैव पाति संरक्षति, पक्षता सन्दिग्धसाध्यवत्ता च न रक्षति। अत्र प्रत्यक्षादिशब्देन सर्वत्र तत्तद्विचारों ग्राह्यः॥५५२॥*

  • हेतुरिति। किञ्च अनुमितौ पर्वतो वह्निमान् इयादिरूपायां विशिष्टस्य साध्यव्याप्तिमत्त्वेन धूमादेर्लिङ्गस्य धीः पक्षवृत्तित्वज्ञानं तदेव हेतुः, ज्ञानयोः*

मेषस्याण्डमियत्पलं बलिभुजो दन्ताः कियन्तस्तथे—
त्येवं सन्ततचिन्तनैः श्रमजुषो न स्युः ?कथं पण्डिताः॥५५३॥

विशिष्य चैतस्य शुष्कतार्किकस्य रीतिर्विवेकिनामुपहासास्पदम्॥२३७॥

शृणु तावत्—

न जिघ्रत्याम्नायं स्पृशति न तदङ्गान्यपि सकृत्
पुराणं नाधीते न गणयति किञ्च स्मृतिगणम्॥
वदन् शुष्कं तर्कं परपरिभवार्थोक्तिभिरसौ
नयत्यायुः सर्वं निहितपरलोकार्थयतनः॥५५४॥

** **अपि च—

प्रयत्नैरस्तोकैः परिचितकुतर्कप्रकरणाः
परं वाचो वश्यान् कतिपयपदौघान्विदधतः॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

वह्निव्याप्यो धूमः धूमवानय च पर्वतः इत्यादिरूपयोः युग्मं द्वयं तु न हेतुः, मरुद्वायुः त्वाचः त्वगिन्द्रियग्राह्यः न भवति। इत्युक्तरीत्या मोहसम्पादकेन भ्रमसम्पादकेन वादेन मुखराः शब्दायमानाः नैयायिकाः न्यायशास्त्रविदः बुधाः पण्डिताश्चेत्स्युः, तर्हि मेषस्य अण्ड इयन्ति एतावत्परिमाणानि पलानि यस्य तत्तथाभूत, पलन्नाम कर्षचतुष्टयरूपं तोलप्रमाणम्। एतदेकद्व्यादिसङ्ख्या कपलप्रमाणमित्यर्थः। तथा बलिभुजः काकस्य “काके तु करटारिष्ट-वलिपुष्ट-सकृत्प्रजाः। ध्वाङ्क्षात्मघोष-परभृद्-बलिभुग्-वायसा अपि।” इत्यमरः। दन्ताः कियन्तः कतिसङ्ख्याकाः सन्ति? इत्येवप्रकारेण सन्तत चिन्तनैर्विचारैः श्रमजुषः प्रयत्नकर्तारः जनाः पण्डिताः कथं न स्युः? अपि तु उभयत्रापि फलाविशेषात्स्युरेवेति भावः॥५५३॥

  • विशिष्येति। विशिष्य विशेषतः एतस्य शुष्कतार्किकस्य निष्फलतर्कशास्त्रविदोरीतिर्विवेकिनाम् इतरशास्त्रविवेचनशीलानाम् उपहासास्पद परिहासास्पदं भवति॥२३७॥*

  • नेति। असौ तार्किकः आम्नाय वेदं न जिघ्रति नाभ्यस्यति, तस्य वेदस्याङ्गानिशिक्षादीनि सकृदेकवारमपि किमु वारं वारं, न स्पृशति नाधीते, पुराणं पाद्मवैष्णवादिकन्नाधीते, किञ्च स्मृतीनां मन्वादीनां गणं समुदायं न गणयति न मानयति। अत एवनिहित परित्यक्तं परलोकार्थं स्वर्गादिप्राप्त्यर्थं यतनं यत्नो येन सः तथाभूतः सन्,परस्यान्यशास्त्रवादिनः परिभवः पराभव एव अर्थः प्रयोजनं यासां ताश्च ता उक्तयश्च ताभिः उपलक्षितःशुष्कःनिष्फलः तर्कः वदन् सन्, सर्वमायुर्जीवितकालं नयतिगमयति॥५५४॥*

  • प्रयत्नैरिति। किञ्च अस्तोकैर्बहुभिः प्रयत्नैः श्रमैः परिचितान्यभ्यस्तानिकुत्सितानां तर्काणां प्रकरणानि वाद-जल्प-वितण्डादिपरिपूरितानि यैस्ते परं वाचोवाण्याः वश्यान् खाधीनान् असकृत् परिशीलनादित्यर्थः। कतिपयानां त्रि-चतुर्णां*

सभायां वाचाटाः श्रुतिकटु रटन्तो घटपटान्
न लज्जन्ते मन्दाः स्वयमपि तु जिह्रेति विबुधः॥५५५॥

वि०—वयस्य विविधोपकार711विधायकान् नैयायिकान् मावमंस्थाः॥

शृणु तावत्—

मोहं रुणद्धि विमलीकुरुते च बुद्धिं
सूते च संस्कृतपदव्यवहारशक्तिम्॥
शास्त्रान्तराभ्यसनयोग्यतया युनक्ति712
तर्कश्रमो न तनुते ? किमिहोपकारम्॥५५६॥

** **तथाहि—

प्रायः काव्यैर्गमितवयसः पाणिनीयाम्बुराशेः
पारज्ञस्याप्यपरिकलितन्यायशास्त्रस्य पुंसः॥
वादारम्भे वदितुमनसो वाक्यमेकं सभायाम्
प्रह्वा जिह्वा भवति कियतीं पश्य कष्टामवस्थाम्॥५५७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

पदानाम् अवच्छिन्नावच्छेदकः प्रतियोग्यादिशब्दानाम् ओघान् विदधतः प्रयोजयन्तः सन्तः, अत एव वाचाटाः बहुगर्ह्यवाचः “वाचाटो वहुगर्ह्यवाक्” इत्यमरः।सभायां श्रुतिकटु कर्णकटु यथा तथा घटपटान् शब्दान् रटन्तः सन्तः मन्दाः मूढाःएते नैयायिकाः स्वयं न लज्जन्ते, अपि तु विबुधः पण्डितः जिह्रेति लज्जते॥५५५॥

  • वयस्येति। विविधाः नानाप्रकाराः ये उपकाराः शास्त्रान्तराभ्यासे बुद्धिवैशद्यादयस्तेषां विधायकान् सम्पादकान् नैयायिकान् मावमस्थाः वृथादूषणैस्तेषामपमानम्मा कुर्वित्यर्थः॥२३८॥*

  • मोहमिति। तर्केतर्कशास्त्रे श्रमोऽभ्यासः मोहम्बुद्धिभ्रमं रुणद्धि विनाशयति,बुद्धिं च विमलीकुरुते मान्यादिदोषपरिहारपूर्वकं निर्दोषीकरोति, संस्कृतानिप्रौढत्व- परिशुद्धत्वादिसंस्कारयुक्तानि यानि पदानि तेषां व्यवहारे भाषणे शक्तिं सामर्थ्यं सूते जनयति। शास्त्रान्तरस्य व्याकरणाद्यन्यशास्त्रस्य अभ्यसने योग्यतया युनक्ति उपयुज्यते। ततः इह लोके तदध्येतरि वा तर्कश्रमः उपकारं नतनुते न करोति किम् ?॥५५६॥*

  • प्राय इति। काव्यैः काव्यग्रन्थाभ्यासैः गमितं यापितं वयो येन तस्य जन्मपर्यन्तं काव्याभ्यासशीलस्येत्यर्थः। पाणिनीयस्य पाणिनिमुनिप्रणीतव्याकरणस्यअम्बुराशेः समुद्रस्य पारज्ञस्यापि आसमाप्तिव्याकरणशास्त्रनिष्णातुस्यापीत्यर्थः। अपरिकलितमनभ्यस्त न्यायशास्त्रं येन तस्य पुंसः पुरुषस्य सभायां वादस्य पक्षद्वयस्थपण्डितानां पूर्वपक्षोत्तरपक्षरूपस्य आरम्भे एकं वाक्यमपि न त्वधिकं वदितुमनसः*

  • *किम्बहुना—

अपरीक्षितलक्षण-प्रमाणैरपरामृष्टपदार्थसार्थतत्त्वैः॥
अवशीकृतजैत्रयुक्तिजालैरलमेतैरनधीततर्कविद्यैः॥५५८॥

निरूप्य—

अद्भुतस्तर्कपाथोधिरगाधो यस्य वर्धकः॥
अक्षपादोऽतमस्पृष्टस्त्वकलङ्कः कलानिधिः॥५५९॥

पुनरालोच्य सश्लाघम्—

ज्ञानाव्धिरक्षचरणः कणभक्षकश्च
श्रीपक्षिलोऽप्युदयनः स च वर्धमानः॥
गङ्गेश्वरः शशधरो बहवश्च नव्या
ग्रन्थैर्निरुन्धत इमे हृदयान्धकारम्॥५६०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

वक्तुमिच्छोः सतः जिह्वा प्रह्वा नम्रा, वाग्रहितेत्यर्थः। भवति। एतां कष्टां दुखप्रदां कियतीम् अनिर्वाच्यामिति यावत्। अवस्थां पश्यावलोकय। हे कृशानो, त्वमिति शेषः॥५५७॥

  • अपरीक्षितेति। अपरीक्षितानि अनवलोकितानि अनभ्यस्तानीति यावत्। लक्षणानि असाधारणवस्तुधर्माः प्रमाणानि प्रत्यक्षानुमानादीनि च यैस्तैः अपरामृष्टानि अविचारितानि पदार्थानां द्रव्यं गुणादीनां सार्थस्य समूहस्य तत्त्वानि यथा-स्थितस्वरूपाणि यैस्तैः अत एव अवशीकृतानि अस्वाधीनीकृतानि जैत्राणि जयशीलानि युक्तीनां जालानि यैस्तैः एतादृशः एतैः अनधीता अनभ्यस्ता तर्कविद्या तर्कशास्त्र यैस्तैः पुरुषैरलं पर्याप्तम्॥५५८॥*

  • अद्भुत इति। तर्कः न्यायशास्त्रमेव पाथोधिः समुद्रः अगाधः अतलस्पर्शःअद्भुत आश्चर्यकरश्च। यतो यस्य तर्कपाथोधेः वर्धकः तमसाऽन्धकारेण राहुणाअज्ञानेन च स्पृष्टः कृतस्पर्शः न भवतीत्यतमस्पृष्टः अक्षाणीन्द्रियाण्येव पादाः किरणाः यस्य सः अक्ष नेत्रेन्द्रिय पादे चरणे यस्य सः गौतममुनिश्च अकलङ्कः निष्कलङ्कः निरपवादश्च “कलङ्कोऽङ्कापवादयोः” इत्यमरः। कलानां षोडशभागानां चतुःषष्टिकलानांविद्यानां च निधिः चन्द्रः अस्ति॥५५९॥*

  • ज्ञानाब्धिरिति। ज्ञानानां स्वर्गापवर्गसाधकशास्त्रावबोधानाम् अब्धिः समुद्रःसर्वज्ञ इत्यर्थः। इदमेन प्रत्येकमभिसम्बन्धनीयम्। अक्षचरणः श्रीगौतममुनिः षोडशपदार्थबोधङ्कन्यायंसूत्रकर्ता, कणभक्षकः कणादमुनिः सप्तपदार्थावबोधकसूत्रकर्ता,श्रीपक्षिलः, अपिः समुच्चायकः। उदयनः, स प्रसिद्धः वर्धमानश्च गङ्गेश्वरः, तत्त्वचिन्तामणिकारः शशधरः, बहवो नव्याः पक्षधरमिश्र- रघुनाथशिरोमणि-विश्वनाथ-*

अथ मीमांसकवर्णनम्—४८.

<MISSING_FIG href="../books_images/U-IMG-1722855477Screenshot(10"/>.png)

कू०—अपरत्र व्योमयानमानयन्नग्रतो निर्वर्ण्य सोपालम्भम् —

मीमांसकाः कतिचिदत्र मिलन्ति वेद-
प्रामाण्यसाधनकृतोऽपि न तेऽभिवन्द्याः॥
उद्घोषितोऽप्युपनिषद्भिरशेषशेषी
ब्रह्मैव नाभ्युपगतः पुरुषोत्तमोयैः॥५६१॥

विशिष्य च मीमांसकगोष्ठठ्यां विश्रुताः शबरादयः शबरा इव भगवद्भक्तानां विनिन्दनीयाः॥२३९॥

ते मीमांसाशास्त्रलोकप्रसिद्धाः सर्वर्षीणां सेहिरे नैव सत्ताम्॥
चैतन्यस्यापह्नवन्देवतानां चक्रुर्विश्वन्नश्वरं713 मन्यमानाः॥५६२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

भवानन्द-जगदीश-गदाधरप्रभृतयश्चाचार्याः ग्रन्थैः स्वस्वकृतैः शास्त्रप्रबन्धैः हृदयस्य अन्धकारम् अज्ञानरूपं निरुन्धते निवारयन्ति॥५६०॥

  • मीमांसकाइति। अत्रास्मिन् देशे कतिचिन् मीमांसकाः जैमिनि मुनिप्रणीतकर्मविचारणाप्रतिपादक-शास्त्रविदः मिलन्ति उपलभ्यन्ते। ते वेदे प्रामाण्यस्य स्वतःप्रामाण्यस्य साधनं व्यवस्थापनं कुर्वन्तीति तत्कृतोऽपि, अभिवन्द्याः नमस्कर्तुं योग्याः न भवन्ति। यतः उपनिषद्भिः श्रुतिशिरोभागैः अशेषस्य निखिलप्रपञ्चस्यशेष अङ्गी अधिष्ठानमिति यावत्। सकलदृश्यप्रपञ्चविलयेऽप्येक एवाविनाशीत्यर्थः। अत एव ब्रह्म परब्रह्मरूपः पुरुषोत्तमो नारायणो भगवान् उद्घोषितः “आत्मा वाइदमेकम् एवाग्रम् आसीत्, नान्यत्किञ्चनमिषत्, यतो वा इमानि भूतानि जायन्ते येनजातानि जीवन्ति, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यः, तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्थाः विद्यतेऽयनाय” इत्यादिवचनैः यथार्थतया प्रतिबोधितोऽपियैमीमांसकैः नाभ्युपगतः न स्वीकृतः, तत इति सम्बन्धः। कर्मैव जगज्जन्मादिकारणमिति हि मीमांसकानां सिद्धान्तः॥५६१॥*

  • विशिष्येति। मीमांसकानां गोष्ठ्यां सभायां विश्रुताः प्रसिद्धाः शवरः शवरस्वामी मीमांसासूत्रभाष्यकर्ता आदिर्मुख्यो येषां कुमारिलभट्टादीनां ते तदादयःशबराः किराता इव भगवद्भक्तानां विनिन्दितुं योग्याः विनिन्दनीयाः सन्ति॥२३९॥*

  • ते इति। पूर्वोक्ताः मीमांसाशास्त्रेण, अत्र शास्त्रशब्दरतज्ज्ञानपरः। तेन मीमांसाशास्त्रज्ञानेनेत्यर्थः। लोके प्रसिद्धाः, पक्षे ते अमी किरातादयः मांसाशैः मांसभक्षकैर्जनैः अस्त्रैः बाणादिभिश्च सहिताः लोके प्रसिद्धाः इति च, सर्वर्षीणां व्यास- वसिष्ठादीनां सत्तां स्थितिं नैव सेहिरे नैव मर्षितवन्तः। तेषां कर्मानभिमानपूर्वकपरमा-*

    • वि०—सखे ! निखिलनिगमार्थनिर्धारणबद्धादरेषु मीमांसकेषु मास्म सन्नह्येथाः॥२४०॥

    शृणु—

आदौ धर्मे प्रमाणं विविधविधिभिदां714 शेषतां च प्रयुक्तिम्
पौर्वापर्याधिकारौ तदनु बहुविधं चातिदेशं तथोहम्॥
बाधं तन्त्रं प्रसङ्गं नयनयनशतैः सम्यगालोचयद्भ्यो
भिन्ना मीमांसकेभ्यो विदधति ? भुवि के सादरं वेदरक्षाम्॥५६३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

त्मैकचित्तत्वात्। यतः, एते मीमांसकाः नश्वरं विनाशवद् विश्वं मन्यमानाः सत्यतयाङ्गीकुर्वाणाः सन्तः, क्वचित् ‘वीश्वरं’ इति पाठः। तत्पक्षे विश्वं वीश्वरम् ईश्वररहितमित्यर्थः। देवतानाम् अग्नीन्द्रादियज्ञीयदेवानां चैतन्यस्य चिद्रूपत्वस्य अपह्नवं लोपञ्चक्रुः कृतवन्तः। अग्नीन्द्रादिदेवतानां विग्रहवत्त्वे युगपन्नानाकर्तृकयागेषूपस्थानासम्भवान्मन्त्राणामेव देवतारूपत्वाङ्गीकारान्मन्त्राणां चाचेतनत्वादिति भावः॥५६२॥

  • सख इति। निखिलानां निगमानां वेदानाम् अर्थस्य निर्धारणं नयसहस्रपुरस्कारपूर्वक निश्चयः तस्मिन् बद्धादरेषु कृतादरेषु मीमांसकेषु मा स्म सन्नह्येथाः तान् दूषयितुं मोद्युक्तो भव॥२४०॥*

  • प्रथमं तावन्मीमासकानां वेदरक्षकत्वादतीव वन्द्यत्वमाह—**आदाविति।*आदौ द्वादशाध्याय घटितमीमांसाशास्त्रस्य प्रथमाध्याये धर्मे चोदनालक्षणेऽर्थे प्रमाण“अग्निहोत्र जुहोति, वसन्ते वसन्ते ज्योतिषा यजेत” इत्यादिचोदनारूपं, ततोद्वितीयाध्याये विविधाः अनेकप्रकारा ये विधयः चोदनाः तेषां भिदां भेदं, ततस्तृतीये,एवमग्रेऽप्युक्तं सर्वं प्रत्यध्याये इति ज्ञेयम्। शेषताम् अङ्गत्वं प्रयुक्ति प्रयोज्यप्रयोजकभाव च, पौर्वापर्य पूर्वमिद कर्म कर्तव्य अनन्तरमिदमित्यादिक्रमः, अधिकारःफलस्वाम्य च तौ, तदनु तदनन्तरं बहुविधमनेकप्रकारम् अतिदेशं प्रकृतितुल्यत्वन्तथा ऊह कर्मभेदे मन्त्रादिविनियोग- विपर्ययादितर्क, बाध उत्सर्गतः प्राप्तस्य अपवादं,तन्त्र एकत्र करणेन प्रोक्तेन वा अनेकोपकारकं, प्रसङ्गम् अर्थनिर्णयं च एतान् सर्वान्नयाः तत्तदधिकरणसिद्धशास्त्रवचनान्येव नयनानि लोचनानि तेषां शतैः सम्यक्आलोचयद्भ्योऽवलोकयद्भ्यः मीमासकेभ्यः भिन्नाः अन्ये भुवि के पण्डिताः सादरंश्रद्धा सहितं यथा तथा वेदस्य रक्षा तत्प्रतिपादितकर्मणां यथार्थनिर्णयेन आचरणरूपाः विदधति कुर्वते ? प्रमाणादीनां यथार्थबोधने तावन्नान्ये मीमांसकेभ्यःशक्ता इति भावः॥५६३॥

  • *पश्य तावद्भगवत इव जैमिनिमुनेः शासनं वैदिकैः सर्वैरप्यनतिक्रमणीयम्॥२४१॥

    तथाहि—

नैयायिका वा ननु शाब्दिका वा त्रयीशिरस्सु श्रमशालिनो वा॥
वादाहवे बिभ्रति जैमिनीयन्यायोपरोधे सति मौनमुद्राम्॥५६४॥

यच्च मीमांसकेषु दोषोद्घाटनं तदज्ञानतः715॥२४२॥

भगवदनभ्युपगमनं दैवतचैतन्यनिह्नवश्चैषाम्॥
कर्मश्रद्धावर्धकतत्प्राधान्यप्रदर्शनायैव॥५६५॥

पुनरालोच्य सबहुमानम्—

आगमरूपविचारिण्यधिकरणसहस्रशिक्षितविपक्षे॥
स्वामिनि जैमिनियोगिन्यपि रज्यति हृदयमस्मदीयमिदम्॥५६६॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • पश्येति। भगवतः ईश्वरस्येव जैमिनिमुनेः मीमांसाशास्त्रप्रणेतुः शासनं शास्त्ररूपाज्ञां सर्वैरपि वैदिकैर्वेदविद्भिः अनतिक्रमणीयमनुलङ्घनीयम्॥२४१॥*

  • नैयायिका इति। नैयायिकास्तार्किकाः वाथवा शाब्दिकाः शब्दशास्त्रविदःवैयाकरणा इत्यर्थः। ननु वा किंवा त्रयीशिरस्सु उपनिषत्सु श्रमशालिनः अभ्यासशीलिनश्च, वेदान्तिन इत्यर्थः। वादः परस्परपूर्वपक्षोत्तरपक्षरूपः एव आहवो युद्धन्तस्मिन् जैमिनीयस्य मीमांसाशास्त्रस्य न्यायैः अधिकरणैः उपरोधे वाक्प्रतिबन्धेसति मौनमुद्रां बिभ्रति धारयन्ति। प्रमाणादीनां यथार्थावगमाभावान्न किमपिवक्तं शक्नुवन्तीत्यर्थः॥५६४॥*

  • यच्चेति। अत एव मीमांसकेषु यद् दोषाणां ‘मीमांसकाः कतिचित्-’ इत्यादि- पद्यद्वयप्रतिपादितानाम् उद्घाटनमारोपणं कृतं तद् अज्ञानतः याथातथ्येन तत्खरूपानवगमादित्यर्थः॥२४२॥*

  • यदुक्तं ‘ब्रह्मैव नाभ्युपगतः पुरुषोत्तमः’ ‘देवतानां चैतन्यस्यापह्नवं चक्रुः’इति दूषणद्वयं तदुद्धारार्थमाह—भगवदिति। एषा मीमासकानां भगवतःपरब्रह्मणः अनभ्युपगमनम् अनङ्गीकरणं दैवतानां चैतन्यस्य निह्नवः अपलापश्चेति द्वयकर्मणि यज्ञादिरूपे श्रद्धायाः आस्तिक्यबुद्धेः वर्धक यत् तस्य यज्ञादिकर्मणः प्राधान्यम्मुख्यत्वं तस्य प्रदर्शनायैव, न तु वस्तुत इत्यर्थः॥५६५॥*

  • आगमेति। आगमस्य वेदस्य रूपं विधि-अर्थवाद-मन्त्रविनियोगादिखरूपविचारयति तच्छीलः आगमरूपविचारी तस्मिन्, आगमैः—“न जायते म्रियते वाविपश्चिद् अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः, तरति शोकमात्मवित् तत्त्वमसि” इत्यादिश्रुतिवचनैःरूपं स्वकीयम् अविनाशित्व-सच्चिदानन्दा-*

    किञ्च—

शबर^(१)-कुमारिल-गुरवो मण्डन-भवदेव पार्थसारथयः॥
अन्ये च विश्वमान्या जयन्ति सन्त्रायमाणतन्त्रास्ते॥५६७॥

अथ वैयाकरणवर्णनम्—४९.

<MISSING_FIG href="../books_images/U-IMG-1722856339Screenshot(12"/>.png)

** कृ०**—अस्त्विति विमानमन्यतो गमयन् पार्श्वतो दृष्ट्वा सोपहासम्—

टिढ्ढाणञ्-द्वयसच्चुटूडसिडसोस्तिप्-तस्-झि-सिप्-थस्-थ- मिब्-
वस्-मस्-तानचि च ष्टुना ष्टुरत इञ् शश्छोऽट्यचोऽन्त्यादि टि॥
लोपो व्योर्वलि वृद्धिरेचि यचि भं दाधा ध्वदाम्नाज्झला —

वित्येते दिवसान्नयन्ति कतिचिच्छव्दान् पठन्तः कटून्॥५६८॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

त्मकत्व-मुक्तिप्रदत्वादिरूपं विचारयति सर्वत्र जगति सञ्चारयतीति तस्मिन्निति च,अधिकरणानां शास्त्रीयनयानां, अधिकेन परम्पराभवसमर्थेन रणानां युद्धानां चसहस्रेण शिक्षिताः अध्यापिताः, दण्डिताश्च विपक्षाः शास्त्रान्तरीय पूर्वपक्षाः शत्रवश्च येन तस्मिन्, स्वामिनि वेदोक्तकर्मणां याथार्थ्यवेत्तत्वात्सकलपण्डितानामधिपतौजैमिनिनामके योगिन्यप्येव, अपिरवधारणार्थकः। पक्षे स्वामिनि भगवति, जैमिनि-योगिनि चेत्यर्थः। अत्रापिः समुच्चायकः। इदमस्मदीय मम हृदयं मनः राज्यतिरमते॥५६६॥

  • ‘शवरादयो भगवद्भक्तानां विनिन्दनीयाः’ इत्युक्त निराकरोति—शवरेति। शवरः शवरखामी कुमारिलः गुरुः प्रभाकरश्च ते, मण्डनः मण्डनमिश्रश्च भवदेवःपार्थसारथिश्च ते, एते सर्वे मीमांसासूत्र—भाष्य अधिकरणरत्नमालादिग्रन्थकर्तीरः।अन्ये ताताचार्य- अप्पयदीक्षितादयो बोद्ध्याः। ते च राम्यक् त्रायमाणं रक्ष्यमाणं तन्त्रम्मीमांसाशास्त्र यैस्ते तथाभूताः सन्तः अत एव विश्वमान्याः सर्वलोकपूज्याः सन्तः जयन्तिसर्वोत्कर्षेण वर्तन्ते। सकलवैदिककर्मप्रवर्तकत्वाद् अन्येभ्यस्तर्कादिशास्त्रविद्भ्योऽपिमीमांसका एव मान्या इति भावः॥५६७॥*

*** ट़िढ्ढाणञ्चिति।** ‘टिठ्ठाणञ् द्वयसच्’ इति “टिढ्ढाणञ्-द्वयसज्-दघ्नञ्-मात्रच्-तयप्-ठक्-ठञ्-कञ् क्वरपः” इति पाणिनीयसूत्रैकदेशः, “चुट्”“ङसि-ङसोः” “तिप्-तस्-झि”इत्यप्येकदेशः। “तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस् तातां-झ-थासाथां-“ध्वमिड्-वहि-महिड्” इति सूत्रस्य। “अनचि च” “ष्टुना ष्टुः” “अत इञ्” “शंश्छोऽटि” “अचोऽन्त्यादि टि”“लोपो व्योर्वलि”*

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • १. ‘शबर-कुमारिल-गुरवो मण्डनयन् समुद्वहति सुदृशम्। वर्णादीनां धर्मान् बुद्ध्वाविधिवत्प्रयुङ्क्तेऽसौ’. ( ? )*

झोऽन्तः^(१)शश्छोटि शेषो घ्यसखि ससजुषो रुर्विरामोऽवसानं
छे चेति व्यर्थवाचः सदसि यदि सतां शाब्दिकाश्चेद्बुधाः स्युः॥
किं तैरेवापराद्धं ? नट-विट-गणिकानृत्य-हस्त-प्रचारै-
स्तोधी तोधी तधीति त्तकिट तकिट धिक्, ताहधिक् तत्तकारैः॥५६९॥

*** *किञ्च —

सूत्रैः पाणिनिकीर्तितैर्बहुतरैर्निष्पाद्य शब्दावलिं
वैकुण्ठस्तवमक्षमा रचयितुं मिथ्याश्रमाः716 शाब्दिकाः॥
पक्त्वान्नं महता श्रमेण विविधापूपाग्र्यसूपान्वितम्
मन्दाग्नीननुरुन्धते मितबलानाघ्रातुमप्यक्षमान्॥५७०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

“वृद्धिरेचि” “यचि भम्” “दाधा घ्वदाप्” “नाज्झलौ” इत्युक्तप्रकारान्एते वैयाकरणाः कतिचित् कटून् कठोरत्वात् श्रवणानर्हान् शब्दान् पठन्तः सन्तःदिवसान् नयन्ति गमयन्ति॥५६८॥

  • झोन्त इति। “झोन्तः” “शरछोऽटि” “शेषो घ्यसखि” “सस जुषोरुः” “विरामोऽवसानम्” “छे च” इत्युक्तप्रकारेण व्यर्था निष्फला बाचो येषां ते शाब्दिकाः वैयाकरणाः सतां पण्डितानां सदसि यदि बुधाः पण्डिताः स्युः, तहिं तैः प्रसिद्धेः नटाः नाट्यकर्तारश्च विटाः जाराश्च गणिका वेश्याश्च तेषां नृत्यम् इस्ता इस्तविक्षेपाः प्रचाराः पाद‌विक्षेपाश्च तैः, नटानां नृत्यं, विटानां हस्ताः, गणिकानां पादविक्षेपाश्वेति कमेण बोध्यं तथा तोधी तोधीत्यादिमृदङ्गादिवाद्यशब्दैः किमपराद्धम् ? नृत्यादिकर्तारोऽपि पण्डिताः कुतो न भवेयुरिति प्रश्नाभिप्रायः॥५६९॥*

  • सूत्रैरिति। पाणिनिना मुनिना कीर्तितैः रचितैः बहुतरैः अष्टाध्यायपरिमितैः सूत्रैः सुप्-तिङ्-कृत्-तद्धितादिप्रत्ययविधायकैः “ङ्याप्प्रातिपदिकात्” “लःकर्मणि च-” “तिप्-तस्-झि-” “कर्तरी कृत्” “तस्यापत्यम्” “अत इञ्” इत्यादिभिः शब्दानां, अत्र शब्दपदं सुप्तिङुभयसाधारणम्। राम-कृष्ण-मुकुन्दादीनां, भवति, एधते, नौमि, स्तौमि, इत्यादितिङन्तानां, वासुदेव-राघवप्रभृतीनां च आवलिं पङ्क्तिनिष्पाद्य साधयित्वा, वैकुण्ठस्य भगवतो विष्णोः स्तव स्तुतिं रचयितुं गद्य-पद्यादिचमत्कृतिजनकवचनैः कर्तु अक्षमाः असमर्थाः, प्रकृति-प्रत्ययसंयोजनेन शब्दसिद्धिज्ञानेऽपि सम्यक् तदर्थानवगमादिति भावः। अत एव मिथ्या व्यर्थ एव श्रमोऽभ्यासो येषां ते तथाभूताः शाब्दिकाः शब्दशास्त्रविदः वैयाकरणा इत्यर्थः। सन्तीति शेषः। एतदेवोपमानेन स्पष्टयति— विविधाः ‘नानाविधाः ये अपूपाः गोधूमादिपिष्टनिर्मिता भक्ष्यपदार्थाः तैः अग्र्यं श्रेष्ठं सूपादिभिरन्वितं युक्तं च अन्नं*

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

** * १. अयं श्लोको मुद्रितपुस्तके एव दृश्यते, अन्यत्रानुपलम्भात् प्रक्षिप्त इति भाति।*

  • *वि०—मह्याभरणेषु717 वैयाकरणेषु भवान् मा स्म कलयतु दोषशकलम्॥२४३॥

यतः—

कृतदुरितनिराकरणं व्याकरणं चतुरधीरधीयानः॥
बुधजनगणनावसरे कनिष्ठिकायां718 परं जयति॥५७१॥

पातञ्जले विष्णुपदापगायाः पातं जले चापि न719येऽवगाहम्॥
आचक्षते शुद्धिदम प्रसूते720राचक्षते रागमधोक्षजे च721॥५७२॥

अपि च—

नृणामनभ्यस्तफणाभृदीशगिरां दुरापा बुधराजगोष्ठी॥
अबुद्धचापश्रुतिपद्धतीनां युद्धक्षमेवोद्धतयोद्धृसार्था722॥५७३॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

महता श्रमेण प्रयत्नेन पक्त्वा निर्माय मितम् अल्पं बलं येषां तान् अत एव मन्दःअग्निर्जाठरो येषां तान् अत एव च आघ्रातुं गन्धोपादानकर्तुमपि किमुत भोक्तु,अक्षमान् असमर्थान् जनान् अनुरुन्धते अनुसरन्ति। तत्तुल्या इत्यर्थः॥५७०॥

  • महीति। मह्या पृथिव्याः आभरणेषु भूषणरूपेषु वैयाकरणेषु भवान् दोषस्यशकल खण्डमपि किमुत सम्पूर्णं दोषं, मा स्म कलयतु॥२४३॥*

  • मह्याभरणत्वमेवाह—कृतेति। कृत दुरितानां पापानां निराकरणं निवारणं येन तत्तथोक्त, वेदाङ्गत्वादिति भावः। तदुक्तम् पाणिनीयशिक्षायाम् – “शिक्षाघ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्।” इति। अत एव भगवान् पतञ्जलिरपिमहाभाष्ये आह—“ रक्षोहागमलध्वसदेहाः प्रयोजनम्, एकः शब्दः सम्यग्ज्ञातःसम्यक् प्रयुक्तः स्वर्गे लोके कामधुग् भवति” इति। व्याकरणं शास्त्रं चतुरा धीर्वुद्धिर्यस्य सः पुरुषः अधीयानः अभ्यस्यन् सन् हेतौ शनृप्रत्ययः। बुधजनानां पण्डितजनानां गणनावसरे सङ्ख्यानगमये कनिष्ठिकायां परमत्यन्तं जयति सर्वोत्कर्षेणवर्तते। अङ्गुलिभिः पण्डितगणने प्रथमःवैयाकरःएवं गण्यते पश्चान् नैयायिकादयइति भावः॥५७१॥*

  • पातञ्जल इति। पतञ्जलेः एतन्नामकमुनेः शेषावतारस्य अयं पातञ्जलस्तस्मिन्, तेन रचिते इत्यर्थः। नये व्याकरणमहाभाष्यरूपे शास्त्रे पात प्रवेश अभ्यासमित्यर्थः। तथा विष्णुपदापगायाः गङ्गायाः जले चापि अवगाहं स्नानं, अधोक्षजेभगवति विष्णोः च रागः भक्तिः च आ प्रसूतेः जन्मारभ्य आ क्षतेर्मरणपर्यन्तं चशुद्धिः क्रमेण वाचिकी शारीरी मानसी च पवित्रता ददाति समर्पयतीति तथाभूतम्आचक्षते, कथयन्ति। पण्डिता इति शेषः॥५७२॥*

  • किञ्च नृणामिति। अनभ्यस्ता अनधीता फणाभृतां सर्पाणाम् ईशस्य शेषाव -*

    तथाहि—

नाङ्ङ्गीकृत723व्याकरणौषधानामपाटवं वाचि सुगाढमास्ते॥
कस्मिंश्चिदुक्ते तु पदे कथञ्चित्स्वैरंवपुः खिद्यति वेपते च॥५७४॥

** कृ०**— साक्षेपम्—

कथं सखे ! शतकोटिपाणिनिगदितादपि पाणिनिगदितमेव व्याकरणमाद्रियन्ते724 सन्तः ?॥२४४॥

वि०—पाणिनीयमेव हि व्याकरणं प्रयोगौपयिकं725 प्रविशदप्रतीतिकारणमिति तत्रैवादरः पण्डितानाम्॥२४५॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

तारस्य पतञ्जलेः गीर्भाष्यरूपा वाणी यैस्तेषां नृणां पण्डितजनानां बुधराजानाम्पण्डितश्रेष्ठानां गोष्ठी सभा दुरापा दुष्प्रवेशा भवति। कथमिव। अबुद्धा अज्ञाताचापश्रुतेर्धनुर्वेदस्य पद्धतिमार्गे यैस्तेषाम्उद्धतः योद्धुमुद्युक्तः योद्धृृणां योधानां सार्थःसमूहो यस्यां सा युद्धस्य समरस्य क्षमेव भूमिरिव॥५७३॥

  • एतदेव स्पष्टयति—नाङ्गीकृतेति। नाङ्गीकृत दृढाभ्यासेन न स्वीकृतं व्याकरणमेवौषध यैस्तेषां जनानां वाचि वाण्याम् अपाटव वक्तृत्वाभावरूपमकौशलं सुगाढं दृढतरम् आस्ते वर्तते। ततश्च केनचित् पण्डितेनेति शेषः। कथचित्, न तु सम्यक्प्रकृति-प्रत्ययादिज्ञानयुक्त कस्मिश्चित् पदे सुप्तिङन्तादिरूपे, उक्ते सति स्वैरं स्वच्छन्दं यथा तथा वपुः शरीरं स्विद्यति धर्मयुक्तं भवति। वेपते कम्पते च। व्याकरणज्ञानाभावात् सुप्तिङन्तपदानां याथार्थ्यानवगमादिति भावः॥५७४॥*

  • कथमिति। हे सखे ! शतकोटिर्वज्र “शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः।” इयमरः। पाणौ हस्ते यस्य सः तेन इन्द्रेणेत्यर्थः। एतदुपलक्षणम्। तेन चन्द्र-काशकृत्स्नादयोऽपि व्याकरणप्रणेतारो ज्ञेयाः। निगदितात्प्रोक्तादपिपाणिनिना मुनिना एकेनैव गदितम्प्रोक्तंव्याकरणम्अष्टाध्यायपरिमितसूत्रपाठरूपमेव, सन्तः पण्डिताः कथम् आद्रियन्ते सत्कुर्वन्ति !॥२४४॥*

  • पाणिनीयमिति। हि यस्मात्कारणात् पाणिनेरिदं पाणिनीयं तत्प्रणीतमित्यर्थः।व्याकरणमेव प्रयोगाणां वैदिक-लौकिकानाम् औपयिकं यथायुक्तं प्रकृति-प्रत्ययादियोजनेन साधकतयोपयोगि, अत एव प्रकर्षेण विशदायां निर्मलायां प्रतीतौ ज्ञानेकारणं भवति। एतस्मिन् ज्ञाते कस्मिंश्चिदपि प्रयोगसाधने न व्याकरणान्तरस्यापेक्षेतिभावः। इति हेतोः पण्डितानां तत्र पाणिनीयव्याकरणम्एवादरः सत्कारः॥२४५॥*

** तथाहि—

सूत्रं पाणिनिबद्धं कण्ठे726 कलयन् समुद्वहति सुदृशम्॥
वर्णादीनां धर्मान्बुद्ध्वाविधिवद्बुधः प्रयुङ्क्तेऽसौ॥५७५॥

अथ वैदिकवर्णनम्—५०.
<MISSING_FIG href="../books_images/U-IMG-1723166264Screenshot2024-08-04235410.png"/>

कृ०—अस्त्विति विमानमन्यतश्चालयन् पुरोऽवलोक्य—

सखे ! पश्य छान्दसानर्थचापलेन727 विक्रीयमाणाम्नायान्॥२४६॥

आः कष्टमपहृष्टाः शिष्टा अपि वित्तचापलाविष्टाः॥
अध्यापयन्ति वेदानादाय चिराय मासि मासि भृतिम्॥५७६॥

वि०—वयस्य मैवं वादीः॥२४७॥

नाध्यापयिष्यन् निगमान् श्रमेणोपाध्यायलोका यदि शिष्यवर्गान्॥
निर्वेदवादं किल निर्वितानमुर्वीतलं हन्त ! तदाभविष्यत्॥५७७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • सूत्रमिति। पाणिना हस्तेन निबद्ध त्रिसूत्र्यादिकरणेन निर्मित, पाणिनिनाऋषिणा बद्धं विरचिन्त च सूत्रं, यज्ञोपवीतरूप ग्रन्थरूप च कण्ठे गले, मुखे च कलन् उपनयनविधिना, उच्चारणरूपेण च धारयन् सन्, अत्रोभयार्थेऽपि “लक्षण..वोः—” इत्यादिना हेतौ शतृप्रत्ययः। तेन सूत्रस्य यथाविधिधारणाद्धेतोरित्यर्थः। अन्यथाऽधिकाराभावात्। सुदृशं स्त्रियं, सुष्ठु ज्ञानं च, अत्र दृशिर्ज्ञानार्थकः। मुद्वहति पाणिग्रहणविधिना स्वीकरोति प्राप्नोति च। ततः असौ बुधः पण्डितः पर्णादीनां ब्राह्मणादीनाम् आदिशब्देन ब्रह्मचर्याद्याश्रमग्रहणम्। अक्षरादीनां च, अत्रापदेन शब्दादिग्रहः। धर्मान् अध्ययनाध्यापनादीन् ह्रस्व-दीर्घ-पुल्लिङ्ग स्त्रीलिङ्गादीश्चवद्ध्वाज्ञात्वा विधिवद्यथाविधि प्रयुङ्क्ते आचरति, उच्चारयति च॥५७५॥*

  • सख इति। छान्दसान्केवलं वेदमन्त्रपाठकान्, न त्वर्थज्ञान् अर्थचापलेनव्यलोभेन विक्रीयमाणाः मासिकादिवेतनग्रहणेन अध्याप्यमानाः आम्नायाः वेदास्तान् पश्य॥२४७॥*

  • एतदेव प्रपञ्चयति—आ इति। वित्तचापलेन धनलोभेन आविष्टाः कृतप्रकाशाः, धनार्जनलालसायुक्ता इत्यर्थः। अत एव अप्रहृष्टाः सन्तोषरहिताः शिष्टा वपि वैदिकाः मासि मासि प्रतिमासं भृतिं वेतनमादाय चिराय सन्तत वेदान् अध्यायन्ति शिक्षयन्ति। आः कष्टमिति खेदे॥५४६॥*

  • नाध्यापयिष्यन्निति। उपाध्यायलोकाः अध्यापकजनाः शिष्यवर्गान् निगमान्वेदान् श्रमेण स्वोदरनिर्वाहार्थभृतिग्रहणयत्नेन यदि नाध्यापयिष्यन् नाशिक्षयि-*

    कृ०—विरुद्धमिदं भाषितं यद्वेदापाये सति न यज्ञाभ्युदयः स्यादिति॥

    वि०—अवगच्छ तावदेतदविरुद्धमेव॥२४९॥

नाम्नायज्ञो मखेयस्मिन् यजमानतया स्थितः॥
तत्समागमतः सोऽपि नाम्ना यज्ञो भवेन्न किम् ?॥५७८॥

<MISSING_FIG href="../books_images/U-IMG-1723139132Screenshot2024-08-08063503.png"/>

अथ राजसेवकवर्णनम्—५१.
<MISSING_FIG href="../books_images/U-IMG-1723165834Screenshot2024-08-04235410.png"/>

कु०—पुनरन्यतो दृष्ट्वा सोपहासम्—

पश्यैतान् राजसेविनः परित्यक्तलोकद्वयसौख्यान् स्पष्टमौर्ख्यान्पुरुषान्॥२५०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

ष्यन्, तर्हि तदा उर्वोतल भूतल निर्वेदवादं वेदपाठरहितम् अत एव च निर्वितान यज्ञरहित “क्रतु विस्तारयोरस्त्री वितान त्रिषु तुच्छके।” इत्यमरः। अभविष्यत्किल। अत्र “लिङ्गिमित्ते लृड् क्रियातिपत्तौ” इत्यनुवर्तमाने “भूते च ” इति क्रियायाअनिष्पत्तिरूपेऽर्थे ऌड्। हन्तेति खेदे। “वेदा हि यज्ञार्थमभिप्रवृत्ताः” इत्याद्यनुशासनेन वेदानां यज्ञप्रवर्तकत्वात्तदभावे यज्ञानामप्यभावः ततश्च भूमौ अन्नाद्यनुत्पत्तेरतीव हानिः स्यादिति भावः। तदुक्तम्—“ यज्ञाद्भवति पर्जन्यः पर्जन्यादन्नसम्भवः।” इति। एतदभिप्रायमेव भगवानप्याह गीतायाम् —“ सहयज्ञाः प्रजाः सृष्ट्वापुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्।” इति॥२४८॥

  • विरुद्धमिति। वेदानाम् अणये नाशे सति यज्ञानाम् अभ्युदयः उत्पत्तिः यथाविध्यनुष्ठानमित्यर्थः। न स्यादिति यद् इदं विरुद्धं भाषितं कथितम्। स्मृत्यादावपितद्विधानादिति भावः॥२४८॥*

  • अवगच्छेति। एतद् वेदाध्यापनाभावे निर्वेदवाद निर्वितानं भूतलमित्याद्यस्मत्प्रतिपादितमेव अविरुद्धं यथार्थं, तत्पुनरिति शेषः। अवगच्छ जानीहि॥२४९॥*

  • नाम्नेति। यस्मिन् मखे यज्ञे आम्नायज्ञः वेदविद् यजमानतया यष्टृरूपेण स्थितःन भवेत्, तस्य वेदज्ञयजमानस्य समागमतः संसर्गाद्धेतोः सः यज्ञोऽपि न विद्यतेआम्नायज्ञो वेदवेत्ता यस्मिन् तथाभूतः वेदविद्यजमानरहित इत्यर्थः। अथवा सयज्ञः नाम्ना सञ्ज्ञामात्रेणैव न तु विधिना वेदमन्त्रपाठाभावात्। न भवेत्किम् ? अपि तु भवेदेवेति कृत्वा जगतो निर्वेदवादलेऽतीव महती हानिः स्यादितिभावः॥५७८॥*

  • पश्येति। परित्यक्तं लोकद्वयस्य ऐहिकामुष्मिकरूपस्य तत्र यथाविधिः कर्मानुष्टानाभावात्परलोकस्य सततराजकार्यपरत्वाद्यथाकालं भोजन-सुखनिद्राद्यभावादितरलोकोपयोगाभावात्तत्तिरस्कारभाजनत्वाच्चास्यापि लोकस्येति बोध्यम्। सौख्यं यैस्तान् अत एव स्पष्टम् अभिव्यक्तं मौर्यं मूर्खलं येषां तान् राजसेविनः पुरुषान् पश्य॥२५०॥*

नैषां सन्ध्याविधिरविकलो728 नाच्युतार्चाऽपि साङ्गा
न स्वे काले हवननियमो नापि वेदार्थचिन्ता॥
न क्षुद्वेलानियतमशनं नापि निद्रावकाशो
न द्वौ लोकावपि तनुभृतां राजसेवापराणाम्॥५७९॥

** वि०**—दुस्सहैषा बहुजनपोषकाणामेषां निन्दा॥२५९॥

अशुभपुषि कलावप्यप्रमत्ताः स्वधर्मा-
दनुदिनमुपकारानाचरन्तो बुधानाम्॥
बहुजनपरिपुष्टौ बद्धदीक्षास्त एते
तनुसुखमपि हित्वा तन्वते राजसेवाम्॥५८०॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • एतदेव स्पष्टमाह—नैषामिति। एषा राजसेवापराणा जनानां सन्ध्यायाः विधिरनुष्ठानम् अविकलः यथोक्तः न भवति, एषामिति प्रतिवाक्यं योजनीयम् \। अच्युतस्यभगवतो विष्णोः अर्चा पूजापि साङ्गा सम्पूर्णा न भवति। एतेन सन्ध्या पूजादिकं यद्यपिएतैः कृत तथापि तन्मनः पूर्वक यथाविधि न भवति, कितु कथमपि केवलमाचमनादिमात्रेण गन्ध-पुष्पादिमात्रसमर्पणेन चेति बोध्यम्। तथा स्वे प्रातर्मध्याह्नादिशास्त्रविहिते काले हवनस्य औपासन-वैश्वदेवादेर्नित्यमागन्तुसाधनस्य कर्मणः नियमः नियताचरणरूपः “नियमस्तु स यत्कर्मं नित्यमागन्तुसाधनम्।” इत्यमरः। न भवति। वेदस्यअर्थचिन्ता अभिधेयविचारोऽपि न भवति। एतावता पारलौकिकसौख्याभावमुक्त्वा ऐहलौकिकमाह—नेति। क्षुधः वुभुक्षायाः वेलाया नियत सम्यक्पाचित उदरपूर्तिपर्याप्त वा अशनं भोजनं न, तथा भोजनोत्तर निशाया वा निद्रायाः अवकाशःअवधिः निश्चिन्ततया प्रातः कालपर्यन्तः कालो वा न अस्ति। एव राज्ञः सेवापराणान्तनुभृतां जनानां द्वौ लोकावपि द्वयोर्लोकयोरपि सौख्ये इत्यर्थः। न भवतः॥५७९॥*

  • दुःसहेति। बहुजनानां पोषकाणां यथोक्ततया तत्कार्यकरणादित्यर्थः। एषांराजसेवकानामेषा त्वत्कृता निन्दा दुःसहा श्रोतुमशक्या॥ २५१॥*

  • अशुभेति। अशुभानि पापसम्पादकानि कर्माणि पुष्णाति वर्धयतीति तत्पुषिकलौ युगेऽपि स्वधर्मात् स्वाचाराद् अप्रमत्ताः स्वाचारे सावधानाः सन्त इत्यर्थः।बहूनां स्वकीयानां जनानां परिपुष्टौ परिपोषणे बद्धा स्वीकृता दीक्षा व्रत यैस्ते एतेराजसेवकाः अनुदिनं प्रतिदिनं बुधानां पण्डितानाम् उपकारान् आचरन्तः कुर्वन्तःसन्तः, तनुसुखः शरीरसुखः यथाकाल पर्याप्तभोजन-निद्रादिरूपमपि हित्वा त्यक्त्वाराज्ञः सेवां तन्वते कुर्वन्ति। यथा काल भोजन-निद्राद्यसेवन सन्ध्या-पूजाद्यनाचरणचापि लोकोपकारार्थमेव ततश्चोत्तमलोकप्राप्तिरत्रापि मानश्चेति द्वयमपि सिध्यतीतिभावः॥५८०॥*

अथ दिव्यक्षेत्रादिवर्णनोपसंहारः—५२.

<MISSING_FIG href="../books_images/U-IMG-1722923765Screenshot(12"/>.png)

सर्वाणि दिव्यक्षेत्राण्यवलोक्य साञ्जलिबन्धं कृशानुमुद्दिश्य —

गङ्गाझरीपरिचिताङ्घ्रि जगन्निदानं
रङ्गादिधामसु चिरात्कृतसन्निधानम्॥
विश्वं स्वतो विशदमेव विलोकमानं
वन्दस्व वस्तु वरदार्तिहराभिधानम्॥५८१॥

** कृ०**—नन्वत्र तृतीयचरणार्थे न मह्यं रोचते॥२५२॥

विलोचने विभोर्यस्य विख्याते पुष्पवत्तया॥
साक्षात्कर्तुं स्फुटं सर्वं स शक्नोतिः? कथं हरिः॥५८२॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • गङ्गेति। गङ्गायाः झर्या प्रवाहेण परिचितौ समाश्रितौ अग्घ्रीचरणौ यस्य तत्,पक्षे गङ्गाझर्यापरिचिता सततनिवासरूपेणाश्रिताः अङ्घ्रयः शिफा इव अङ्घ्रयः जटाइत्यर्थः। यस्य तद् इति च जगतो विश्वस्य निदानमादिकारणम् उत्पादकमितियावत्। अत एव विश्व स्वसृष्ट निखिल जगत् स्वत एव विशदं सुप्रसन्नं यथा भवतितथा विलोकमान रङ्गादिधाममु श्रीरङ्ग-द्वारावती-जम्बूकेश्वरप्रभृतिषु पुण्यक्षेत्रेषु चिराद् बहुकालपर्यन्त कृत सन्निधानं सामीप्य येन तथाभूत अत एव वरदानि इच्छितफलप्रदानि आर्तिहराणि तापत्रयादिपीडापरिहराणि च अभिधानानि हरि-श्रीकृष्ण- -हर-शिव-साम्बादीनि नामानि यस्य तद् वसति निखिलप्राणिनां मनसि इति वस्तुनिखिलप्राणिमात्रान्तर्यामिरूपमिति यावत्। ‘वस निवासे’ इति धातोः “वसेस्तुन्" इत्यौणादिकस्तुन् प्रत्ययः। परमात्मरूप वन्दस्व अभिवादय। हे कुशानो ! त्वमिति शेषः॥५८१॥*

  • अत्रेति। अत्र श्लोके तृतीयचरणस्य ‘विश्व स्वतः’ इत्यादेः अर्थः स्वत एवजगदवलोकनकर्तृत्वरूपः मह्यं न रोचते॥२५२॥*

  • विलोचन इति। यस्य विभोः प्रभोः विलोचने द्वे नेत्रे, अत्र द्विवचनेन तृतीयनेत्राभावः सूचितः। पुष्प तदाकारो दृष्टिप्रतिबन्धकरः कनीनिकायां जायमानो रोग-विशेषः अस्ति ययोस्ते तयोर्भावस्तत्ता तया, “पुष्प विकास आर्त। धनदस्यविमाने च कुसुमे नेत्ररुज्यपि।” इति हैमः। पुष्पवन्तौ चन्द्र-सूर्यौ तद्रूपेण चेति।विख्याते प्रसिद्धे स्तः। स हरिः विष्णुः, न तु हरः, तस्य तृतीयलोचनस्य विद्यमानत्वादित्यर्थः। सर्वं विश्वं साक्षात् प्रत्यक्षं स्फुटं कर्तुं स्पष्टतया द्रष्टुं कथं शक्नोति समर्थोभवति ? वस्तुतस्तु ‘विलोचने विख्याते पुष्पवत्तया’ इत्युपलक्षणम्। तेन श्रोत्रे दिशः पादौ भूमिः, उदरमाकाशः, इत्यादि यथायथमूह्यम्। तेन च विश्वव्यापकतोक्ता।ततश्च य एव तद्रूपतया व्यापकः स हरिः स्वस्माद् विश्व पृथक् कर्तुं कथं शक्नोतीतिप्रश्नाभिप्रायः॥५८२॥*

वि०—सूर्यचन्द्रलोचनतया सचमत्कारं चक्रधरं स्तुवानाय729 तुभ्यन्न कुप्यामि। शृणु तावदिदम्॥२५३॥

श्रेयस्तोयदसम्प्रदायरसिकच्छायः सहायः श्रिय-
श्चिन्तारत्नसपत्नवीक्षितलवश्चेक्रीयतामायतम्॥
यो विश्वेन हि गात्रवान् हिमरुचाप्युष्णांशुना नेत्रवान्
सुग्रीवेण च मित्रवान् कुश-लव-ब्रह्मादिभिः पुत्रवान्॥५८३॥

** **सखे ! सङ्क्षिप्य वक्ष्यमाणं सारभूतमिममर्थं गृहाण॥२५४॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • सूर्य-चन्द्रेति। सूर्य-चन्द्रलोचनतया तद्रूपेणेत्यर्थः। सचमत्कारम् अर्थद्वयबोधकशब्दप्रयोगसहित यथा तथा चक्रधरं विष्णुं स्तुवानाय तस्य स्तुतिं कुर्वते तुभ्यं नकुप्यामि। “कुध दुह –” इत्यादिना चतुर्था। वस्तुतो दूषणाभावादित्यर्थः॥२५३॥*

  • श्रेय इति। तोयदस्य मेघस्य सम्प्रदायः रीतिः वर्णरूप इत्यर्थः। तस्मिन्रसिका छाया कान्तिर्यस्य सः, पक्षे तोयदाना सम्प्रदायो मार्गः व्योमरूपः स एवरसिकाः स्निग्धाः छाया इव छायाः केशाः यस्य सः भगवान् व्योमकेशः शिवइत्यर्थः। श्रियः लक्ष्म्याः, अणिमाद्यष्टविधैश्वर्यस्य च “लक्ष्मी-सरस्वती-धा(?)त्रिवर्गसम्पद-विभूति-शोभासु। उपकरणवेशरचनाविधानेषु च श्रीरिति प्रथिता।”इति व्याडिः। सहायः पतिः, पोषकश्च अत एव चिन्तारत्न चिन्तामणिः तस्यसपत्नः सदृशः वीक्षितस्य अवलोकनस्य लवः लेशः कटाक्ष इत्यर्थः। यस्य सःभक्तेभ्य इष्टफलप्रद इत्यर्थः। आयतः विस्तृतः श्रेयः चेक्रीयतां भृशं करोतु।करोतेर्यडि “रीड् ऋतः” इति रीडादेशः कथम्भूतः सः। यः प्रभुः विश्वेनगात्रवान् देहवान् “आत्मा वा इदमग्र एक आसीत्” “स भूमिं विश्वतोवृत्वाऽत्यतिष्ठद्दशाङ्गुलम्। पुरुष एवेद सर्व” इत्यादिश्रुतिभ्यः। हिरवधारणार्थकः। हिमा शीतला रुकङ्कान्तिर्यस्य सः तेन चन्द्रेण अपिः समुच्चायकः। उष्णाः अशवः किरणाः, ज्वालाश्च यस्य तेन सूर्येण, अग्निना चापि नेत्रवान् चन्द्रसूर्यनेत्रो विष्णुः, अग्निनेत्रः शिवश्चेत्यर्थः। सुग्रीवेण एतन्नामकवानरेण मित्रवान् स्नेहसम्पादकः, रामावतारे इत्यर्थः। कुशः लवश्च, एतौ रामावतारोत्पन्नौ। ब्रह्मा च तेआदयः मुख्याः येषु इन्द्रादिषु तैः, पक्षे कुशलं कल्याणं वान्ति प्राप्नुवन्तीति कुशलवाः अखण्डकल्याणसम्पन्ना इत्यर्थः। ये ब्रह्मादयः आदिशब्देन विष्णु-शक्रादिग्रहणम्। पुत्रवान् पुत्रयुक्तः। एतादृश महासामर्थ्यसम्पन्नः शिवो विष्णुश्चेतिबोध्यम्॥५८३॥*

  • सखम् इति। सङ्क्षिप्य सर्वमप्येकीकृत्य अत एव सारभूतं वक्ष्यमाणम् अनुपदमेव कथ्यमानम् अर्थमभिधेयं गृहाण शृणु॥२५४॥*

यामुनतीर्थाश्रमिणौ रामानुजमुनिर्मुकुन्दश्च॥
आद्यं त्रिवेणुधरमधिकमन्यदन्ताद्यमेकवेणुधरम्॥५८४॥

कटाक्षलहरीमुहुःकवलितामृतस्तोमया
विलोचनयुगश्रियं(या) विवृतसर्वदानव्रतम्॥
शुकादिभिरुपासितं शुभचरित्रभाजो जनाः
समस्तभयवारणं शरणयन्ति नारायणम्॥५८५॥

नाहं नापि च मत्सुतो न च सुरास्सर्वे अमी तत्त्वतो
ध्यानादौ च सचेतसो मुनिगणाः जानन्ति विष्णोः पदम्॥
इन्धन्नाभिसरोजशायिपृथुलस्वास्तारमाकर्णयन्
शेते पन्नगसार्वभौमशयने श्रीपद्मनाभः श्रिया॥५८६॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • इतः परं ‘यामुनतीर्थ—’ इत्यादयो द्वादश श्लोकाः अस्मत्सम्पादितादर्शपुस्तकेऽन्येषु पुस्तकेषु च नैवोपलभ्यते। किन्तु अत्रत्यमुद्रितैकस्मिन् पुस्तके एवदृश्यन्ते। अत एव ते रामानुजीयमतपक्षपातिनां केनचित्प्रक्षिप्ता एवेति भाति,तेषु कतिचिदतीव विसम्बद्धाः पूर्वापरसम्बन्धरहिताश्च, कतिचिच्च सुसम्बद्धाः इति येप्रतीतास्ते एवात्र मूले निवेशिताः यथामति व्याख्याताश्चापि—**यामुनेति।*यामुनतीर्थेन एतन्नामकगुरुणा प्रोक्तः उपदिष्ट इति यावत्। आश्रमः चतुर्थः सन्न्यासःअस्यास्तीति तदाश्रमी, यमुनैव यामुन तच्च तत्तीर्थ च यामुनतीर्थ तत्र तत्सन्निधावित्यर्थः। आश्रमः निवासः यस्यास्तीति तदाश्रमी तौ, एकः रामानुजमुनिः अन्यश्चमुकुन्दः श्रीकृष्णः। द्वयोस्तारतम्यमाह—आय प्रथम श्रीरामानुजरूप त्रिवेणुधरंसन्न्यासाश्रमित्वात् त्रिदण्डधरम् अत एव अधिकम् अन्यस्मात् श्रेष्ठ, अन्यन्मुकुन्दात्मकञ्च एकस्यैव वेणोः वाद्यविशेषस्य धरं धारकम् अत एव अन्तः लुप्तः आद्य इति शब्दोयस्मात् तथाभूतः, पूर्वस्मान्न्यूनमित्यर्थः। वस्तुतस्तु अन्तः प्रलयः आद्यः सर्गश्चअर्थाज्जगतः तौ यस्मात् तद् एतदुपलक्षणं स्थितेरपि। तेन जगतः सर्ग-स्थिति-लयकरमित्यर्थः॥५८४॥

  • कटाक्षेति। कटाक्षाणाम् अपाङ्गदर्शनानां लहरीभिः मुहुर्वारंवारं कवलितः ग्रस्तःअमृतस्य स्तोमः निधिर्यया तया विलोचनयोर्नेत्रयोर्युगस्य द्वयस्य श्रिया विवृत प्रकटीकृत सर्वदानस्य भक्तेभ्यः सर्वस्वार्पणस्य व्रत येन त शुकादिभिः, आदिशब्देननारद-सनकादिमुनिग्रहणम्। मुनिभिः उपासितः सेवितः, समस्तानां सकलानां भयानांवारणः निवारणः यस्मात् त नारायणः शुभानि कल्याणावहानि चरित्राणि भजन्तीतितद्भाजः, सत्कर्मकर्तार इत्यर्थः। जनाः शरणयन्ति शरणं कुर्वन्ति, स्वरक्षकं ज्ञात्वा भजन्तीत्यर्थः॥५८५॥*

  • नाहमिति। इन्धद् दीप्तिमद् यन्नाभिसरोज नाभिकमल तस्मिन् शायिनःनिवासिनः अर्थाद्ब्रह्मणः पृथुल महान्त उच्चैरुच्चारितमित्यर्थः। स्वास्तारं वेदमन्त्रयुक्तं*

उपवीतिनमूर्ध्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम्॥
शरणागतसार्थवाहमीडे शिखया शेखरिणं पतिं यतीनाम्॥५८७॥

कपर्दिमतकर्दमं कपिलकल्पनानाटकैः
कुमारिलकुभाषितैर्गुरुनिबन्धनग्रन्थिभिः॥
तथागतकथाशतैस्तदनुसारिजल्पैरपि
प्रतारितमिदं जगत्प्रगुणितं यतीन्द्रोक्तिभिः॥५८८॥

सावित्रान्वयसम्भवेन भवता मुक्तश्शराशीविषः
संवर्तोदितसप्तसप्त(प्ति)पटलीसब्रह्मचारी हठात्॥
आस्वाद्य क्षितिजापहारिहृदयक्रीडारतं मारुतं
तत्सन्तोषकथाभिधानकुतुकी मन्ये जगाहे महीम्॥५८९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

निजस्तव आकर्णयन् शृण्वन् पन्नगसार्वभौमशयने श्रीशेषशयने श्रीपद्मनाभः विष्णुःश्रिया लक्ष्म्या सह शेते स्वपिति, कीदृश स्वास्तार विष्णोर्भगवतः पदम् अहं न जानामि,मम सुतः पुत्रोऽपि न जानाति, किञ्च अमी शक्रादयः सुरा देवा अपि न जानन्ति,कितु ध्यानादौ तद्रूपैकतानचित्तवृत्त्यादौ आदिशब्देन धारणा-समाध्यादेर्ग्रहणम्।सचेतसः सावधानान्तःकरणाः मुनिगणा एव तत्त्वतो जानन्तीति॥५८६॥

  • उपवीतिनमिति। उपवीतिन यज्ञोपवीतयुक्त, रामानुजीयसम्प्रदाये सन्न्यासिनामपि यज्ञोपवीतधारणविधानात्। ऊर्ध्वपुण्ड्रेण भाले ऊर्ध्ववर्तिगोपीचन्दनतिलकेनयुक्तः त्रिजगतः त्रैलोक्यस्य पुण्यफलं मूर्तिमन्, त्रयो दण्डाः “वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च। यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते॥”इत्यनेनसन्न्यासिनो विहितास्ते हस्ते स्वाधीना यस्य सः त शिखया शेखरिण शिरोभूषणयुक्तशरणागतानां सार्थवाहः धनिक अभीष्टपूरकत्वात्। यतीनां सन्यासिनां पतिः श्रीरामानुजईडे स्तौमि। एतद्वर्णनेन श्रीरामान्नुजयतीनां शिखात्यागो नोक्त इति भाति॥५८७॥*

  • कपर्दीति। कपर्दिनः शिवस्य यन्मत शैवागमप्रोक्तः जटा- कौपीनादिधारणरूपयथाशास्त्राचारराहित्यादिक च तेन कर्दम कर्दमसदृशकालुष्ययुक्तं, एतद्वर्णनं केवलमेकदेशि पक्षपातयुक्तं तत्त्वविवेकशून्यं चेति ज्ञेयम्। कपिलस्य मुनेः कल्पनानाटकैःश्रुत्यादिप्रामाण्याङ्गीकारपूर्वकं केवलं मनः कल्पितलोकमोहकैः साख्यशास्त्रवचनरूपैः,कुमारिलस्य मीमांसाशास्त्रप्रवर्तकस्य कुत्सितैर्भाषितः, ईश्वरास्तित्वानङ्गीकारात्। अतएव गुरूणि महान्ति बन्धनानि पुनः पुनर्जन्म-मरणादिरूपाणि येभ्यस्तथाभूतैर्ग्रन्थिभिःतत्सदृशैरित्यर्थः। तथागुतस्य बुद्धस्य “सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः”इत्यमरः। कथाशतैः, तदनुसारिणां बुद्धमतानुयायिनां जल्पैर्भाषणैश्चापि इदं जगत्प्रतारितं वञ्चितं, तद् यतीन्द्रस्य रामानुजस्य उक्तिभिः उपनिषद्भाष्यादिग्रन्थरूपाभिःप्रकर्षेण गुणितं व्यवस्थापितम्॥५८८॥*

  • सावित्रेति। हे राम ! इति शेषः। सवितुः सूर्यस्याय सावित्रः स चासावन्वयो*

दलितदुरितजाले दन्दशूकेन्द्रशैले
कवलितभवगन्धे कालिमा कश्चिदिन्धे॥
कुवलयमुदहारी कुञ्जरेन्द्रोपकारी
मुनिहृदयविहारी मुक्तसन्तोषकारी॥५९०॥

ध्यातं योगिकलाविलासरसिकैः शीतं दयास्रोतसा
ख्यातं मौलिषु कृत्रिमेतरगिरां वातन्धयक्ष्माधरे॥
जातं धाम पराकरोतु जगतामातङ्कमङ्कुरितं
वेतण्डेन्द्रविपद्विमोचनचणं क्रीतं रमाविभ्रमैः॥५९९॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

वंशश्च तत्र सम्भव उत्पत्तिर्यस्य तेन भवता त्वया, दशाननवधेच्छयेति शेषः। शरोबाण एव आशीविषः सर्पः यो मुक्तः स्वशरासनात्प्रेरितः सः संवर्ते प्रलये “संवर्तःप्रलयः कल्पः” इत्यमरः। उदिता उदय प्राप्ता ये सप्त सप्तसङ्ख्याकाः सप्तयोऽश्वायेषां ते “घोटके वीति-तुरग-तुरङ्गाश्व-तुरङ्गमाः। वाजि-वाहार्व-गन्धर्व-हय-सैन्धव-सप्तयः।” इत्यमरः। सप्तसप्तयः सूर्याः तेषां पटली समुदायः तया सब्रह्मचारी स्रदृशः सन्, हठात् प्रसह्य क्षितिजापहारिणः सीतापहर्तुरावणस्य हृदयक्रीडायां रतमासक्तं मारुतं प्राणवायु आस्वाद्य भक्षयित्वा रावणप्राणमपहृत्येत्यर्थः। तेन रावणहृत्स्थवातास्वादनेन यः सन्तोषस्तस्माद्धेतोः कथाभिधानस्य श्रीरामचरितकथनस्य कुतुकङ्कौतुकं यस्यास्तीति तत्कुतुकी सन्, महीं पृथ्वीं जगाहे लुलोड इति अहं मन्ये। स एवायं साम्प्रत रामानुजरूपेणावततारेति मन्ये इत्यर्थः॥५८९॥

  • दलितेति। दलितं विनाशितं दुरितानां पापानां जालं समूहो येन तस्मिन्कवलितः भक्षितः विनाशित इति यावत्। भवस्य संसारस्य गन्धः सम्बन्धो येनतस्मिन् “गन्धो गन्धक आमोदे लेशे सम्बन्ध-गर्वयोः।” इति यादवः। दन्दशूकेन्द्रशैले शेषाद्रौकुवलयानां कमलानां मुद हरतीति यथाभूतः कुञ्जरेन्द्रोपकारी गजेन्द्रोद्धारकः मुक्तानां सन्तोष करोतीति तत्कारी अत एवं मुनीनां मननशीलानांहृदयेऽन्तःकरणे विहर्तुं शीलं यस्येति तथाभूतः कश्चिदलौकिकः कालिमा नीलिमाश्री निवासरूपः इन्धे प्रकाशते॥५९०॥*

  • ध्यातमिति। दयायाः स्रोतसा प्रवाहेण शीत अत एव योगिनां कलानां ध्यान-धरणादीनां विलासा आनन्दास्तेषु रसिकैः सततं योगाभ्यासास कचित्तैरित्यर्थः।ध्यातं कृत्रिमेतरगिरां वेदवाणीनां मौलिषु उपनिषत्सु ख्यातं प्रसिद्धं वेतण्डेन्द्रस्यगजेन्द्रस्य विपद्विमोचनेन ग्राहकृतदुःखनिवारणेन वित्तं ख्यातमिति तच्चणं “तेनवित्तः—” इति चणप् प्रत्ययः। रमाया लक्ष्म्याः विभ्रमैर्विलासैः क्रीत वशीङ्कृत वातन्धयक्ष्माधरे शेषशैले जातमुत्पन्नं, वातधयेत्यत्र “बात-शुनी-तिल-इत्यादिवार्तिकेन वातोपपदस्य धेटः खश् “अरुर्द्विषद—” इत्यादिना मुमागमश्च। धाम तेजः अङ्कुरितमुत्पन्नं जगताम् आतङ्कं तापं “रुक्-ताप-शङ्काखातङ्कः” इत्यमरः।पराकरोतु दूरीकरोतु॥५९१॥*

नराः सुरा वा पशवः परेऽपि वा न निन्दनीयाः पुरुषेण भूष्णुना॥
यतोऽपि730 दोषप्रचुरे जगत्रये न सन्ति ते वीतगुणाः कलावपि॥५९२॥

कृ०—अभ्युपगम्य—

दार्ढ्याय गुणसमृद्धेर्दूषणभणितिः समस्तवस्तूनाम्॥
अस्माभिरुप731निबद्धा सिद्धान्तस्येव पूर्वक्षोक्तिः॥५९३॥

<MISSING_FIG href="../books_images/U-IMG-1723139455Screenshot2024-08-08063503.png"/>

कवेर्वाक्यम्—५३.

<MISSING_FIG href="../books_images/U-IMG-1723006385Screenshot(10"/>.png)

इति सकलजनानामीरयन्तौ शुभं732 तौ
मधुमथनपवित्रक्षेत्रसेवाकृतार्थौ॥
अनुपथ दृढसख्यौ हन्त गन्धर्वमुख्यौ
निजसदनमगातां निर्भरानन्दसान्द्रौ॥५९४॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • नरा इति। भूष्णुना समञ्जसेन भूधातोः “ग्ला-जि-स्थश्च ग्स्नुः” इति चकाराद् ग्स्नुप्रत्ययः। “भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ।” इत्यमरः।पुरुषेण नराः मनुष्याः, वा चकारार्थकः। सुरा देवाश्च, पशवः, परे पक्ष्यादयोऽपि चनिन्दनीयाः। यतो यस्मात् कारणान् दोषैः प्रचुरे बहुलेऽपि जगत्त्रये त्रैलोक्येअस्मिन् कलियुगेऽपि ये वीताः गताः गुणाः येषां तथाभूताः जनाः ते सर्वेऽपि नसन्ति। किन्तु केचिद्गुणयुक्ता अपि सन्तीत्यर्थः॥५९२॥*

  • अभीति। अभ्युपगम्य तदुक्तं सर्वमप्यङ्गीकृत्य—*

  • दार्ढ्यायेति। अस्माभिः उपनिबद्धा आरोपिता दूषणानां भणितिर्भाषणं समस्तानां सर्वेषां वस्तूनां पदार्थानां गुणसमृद्धेः दार्ढ्याय दृढीकरणायैव भवति, न वस्तुतः। कथमिव। सिद्धान्तस्य कस्यापि शास्त्रीय प्रमेयस्य दृढीकरणाय पूर्वपक्षोक्तिरिव॥२९३॥*

  • एवं कथनीयं मुक्त्वोपसंहरति—इतीति। इत्येवप्रकारेण सकलानां जनानां शुभङ्कल्याणं, क्वचित् ‘स्वभावान्’ इति पाठः। ईरयन्तौ कथयन्तौ अनुपथि प्रतिमार्गेमधोः एतन्नामकदैत्यस्य वसन्तस्य च। “मधु क्षौद्रे जले क्षीरे मद्ये पुष्परसे मधुः।दैत्ये चैत्रे वसन्ते च” इति विश्वः। मथनः विनाशकः विष्णुः शिवश्च तयोःपवित्राणि यानि क्षेत्राणि श्रीरङ्ग वाराणस्यादीनि तेषां सेवया कृतार्थी दृढ सख्य,मैत्री ययोस्तौ अत एव निर्भरानन्देन अतिशयहर्षेण सान्द्रौ परिपूर्णौहन्तेत्यानन्दे। ‘गन्न्धर्वाणां मुख्यौ कृशानु-विश्वावसू निजसदनं गन्धर्वलोकम्अगातां जग्मतुः॥५९४॥*

सकलकुशलसिद्ध्यै सर्वदेवस्थलेषु
व्रजतु भुवि विवृद्धि वत्सराद्युत्सवश्रीः॥
अपगतभवरोगैरध्वराणां प्रयोगै-
रखिलशुभकराणामस्तु भद्रं द्विजानाम्॥५९५॥

जयतु जगति लक्ष्मणार्यपक्षो
जयतु वचः श्रुतिमौलिदेशिकानाम्॥
जयतु निगमवर्त्म निःसपत्नम्733
जयतु चिराय च मूर्तिरञ्जनाद्रौ॥५९६॥

प्रकाशदोपप्रचुरेप्यमुष्मिन् ग्रन्थे मदीये करुणानुबन्धात्॥
प्रसादवन्तो न कृशानवन्तु परन्तु विश्वावसवन्तु सन्तः॥५९७॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

  • सकलेति। सर्वदेवानां विष्णु-शिवादीनां स्थलेषु वत्सराद्युत्सवानां वत्सरादितिथौ विहितानां ध्वजारोपणादीनां श्रीः शोभा सकलानां जनानां कुशलस्य कल्याणस्य सिद्धै भुवि विवृद्धि व्रजतु गच्छतु। तथा अपगतः भवरोगः संसाररोगः येभ्यस्तथाभूतैरध्वराणां यज्ञानां प्रयोगैरनुष्टानैः अखिलस्य सर्वस्यापि जनस्य शुभकराणाङ्कल्याणकराणां द्विजानां ब्राह्मणानां भद्रं कल्याण अस्तु॥५९५॥*

  • जयत्विति। जगति लक्ष्मणार्यस्य श्रीरामानुजस्य पक्षो विशिष्टाद्वैतरूपः सिद्धान्तः जयतु, पक्षे लक्ष्मणस्य आर्यः ज्येष्टभ्राता श्रीरामः तस्य पक्षः शिवोपासनारूपश्चेत्यर्थः। श्रुतिमौलिदेशिकानां वेदान्ताचार्याणां वचः उपदेशरूप च जयतु सर्वोत्कर्षेण वर्ततां नि सपन्न शत्रुरहित दुस्तर्कप्रतिपादनरहितमिति यावत्। निगमवर्त्मवेदमार्गश्च जयतु, अञ्जनाद्रौनीलपर्वते मूर्तिः श्रीनिवःसरूपा चापि चिराय बहुकालपर्यन्तं जयतु सर्वोत्कर्षेण वर्तताम्। इति पद्यद्वयप्रतिपादित शिष्टाचारपरिप्राप्तग्रन्थान्ते मङ्गलाचरणं वोध्यम्॥५९६॥*

  • एवं समाप्तिमद्गल कृत्वा विद्वत्प्रार्थनां विधत्ते—प्रकाशेति। अमुष्मिन् मदीयेमया रचिते विश्वगुणादर्शनाम्नि प्रकाशाः प्रसिद्धाः दोषाः वस्तूनां कृशानुप्रतिपादिताम् इत्यर्थः। यस्मिन् तथाभूतेऽपि ग्रन्थे करुणायाः दयाया अनुबन्धात् सम्बन्धात् सन्तोविद्वांसः प्रसादवन्तः प्रसन्नान्त करणयुक्ता सन्तः न कृशानवन्तु कृशानुवन् नाचरन्तु दोषबुद्धियुक्ता न भवन्त्वित्यर्थः। परन्तु सर्वे विश्वावसवन्तु विश्वावसुवद्गुणमात्रग्रहणतत्परा भवन्वित्यर्थः। ‘विश्वावसवन्तु’ ‘कृशानवन्तु’ इत्यत्र विश्वावसु-कृशानुशब्दाभ्यामाचारक्विपि धातुत्वाल्लोट्। तत्र च “सार्वधातुक-” इत्यादिना गुणः॥५९७॥*

इति श्रीपञ्चमतभञ्जननिबन्धनविख्याततातयज्वभागिनेयवाजपेयसार्वप्रष्टा-
प्तोर्यामादियाज्यात्रेयवंशमौक्तिकीभवदप्पय्यार्यतनूभवश्लेष-यमक-
चक्रवर्तिरघुनाथाचार्यतनयस्य श्रीनिवासकृपातिशयसं-
विदितनयस्य सीताम्बागर्भसम्भवस्य श्रीमत्काञ्ची-
नगरवास्तव्यस्य महाकविश्रीमद्वेङ्कटाध्वरिणः
कृतौ विश्वगुणादर्शचम्पूः समा-
प्तिमगात्॥

<MISSING_FIG href="../books_images/U-IMG-1722663072Screenshot2024-07-28221953.png"/>

इति विरादमनीषाशालिना यज्वना वा
विरचित इह काव्ये वेङ्कटाचार्यनाम्ना॥
कृशतरमतियुक्तेनापि टीका कृतेय
गुण-सुकरुणास्ता पण्डिता मानयन्ताम्॥१॥

श्रेयःसप्रति सचिनोतु भगवान् श्रीमद्गणेशः प्रभु-
दूने देवगणे द्विजक्रतुचये ध्वस्ते च दैत्यार्तितः॥
आविर्भूय तदातदार्तिहरणौत्सुक्याद्भवानीपते—
र्दैत्येन्द्र परिभूय सिन्दुरमथो देवान् व्यधान्निर्वृतान्॥२॥

नमामि कमलालयापरिचिताङ्घ्रिमानन्दद
प्रभु मुनिजनस्तुत भुजगशायिन श्यामलम्॥
करोतु जनमङ्गल हरतु पापसङ्घ नृणा
स्वधर्मरतिमन्तरे जनयतु स्वभूःसर्वदा॥ ३॥

जयति भगवान् मर्ता देव्याःशिवःशिवदः सता
श्रुतिपथमथारुन्धन् सर्वे यदा सुगतादयः॥

नतिवरतनु धृत्वा वुद्वान् विजित्य च यस्तदा
श्रुतिहितमथो सविन्मार्ग निरञ्जनमन्वधात्॥४॥

अस्ति कृष्णापगासङ्गात् पावनी लोकरञ्जनी।
राजधानी सुविख्याता पट्टवर्धनभूभृताम्॥५॥

कुरुन्दवाटनगर कीर्तिमत्तत्र विद्यते॥
श्रीमान् गणपतिस्तस्य पुरस्याधिपतिर्महान्॥६॥

तस्याश्रये पुरातिष्ठद्योगिवशावतसकः॥
गणेशपण्डितः प्रज्ञाशाली सत्कर्मपेशलः॥७॥

तन्मुतो ह्यकरोदेतद् व्याख्यान वालतुष्टये॥
इन्दुनेत्रवमुक्षोणीमिते ( १८२१ ) शाके ह्यपूरि तन्॥८॥

इति श्रीमत्पदवाक्यपारावारीणश्रीमद्योगिकुलावतसश्रीमद्गणेशसूरि-
सूनुना बालकृष्णशर्मणा विरचिता पदार्थचन्द्रिकाख्या
श्रीविश्वगुणादर्शचम्पूव्याख्या समाप्तिमगात्॥

<MISSING_FIG href="../books_images/U-IMG-1723007718Screenshot(15"/>.png)

श्रीः

विश्वगुणादर्शस्थपद्यानामकाराद्यनुक्रमेण सूची—
<MISSING_FIG href="../books_images/U-IMG-1723047911Screenshot2024-07-18103322.png"/>

अगूढगाढस्तन अमून् ग्रामान्
अङ्गान् वङ्गान् अमृत विबुधेभ्यो
अङ्गानुषङ्गोदित अमृतोत्साहशक्तीना
अच्छैर्द्विजेन्द्रैरमृताभि अम्भोराशि वानरा
अजयज्ञोद्भवे तस्मिन् अयज्ञार्हद्रव्या
अज्ञानामविराम अयुक्त युक्त वा
अञ्चाम चिञ्चातरु अर्वन्तमास्ये
अत्र देहमपवित्र अल मड्क्षु संहर्तुं
अत्र वसन्तः सन्त अल्पोऽपि काक्ष्या
अत्रापि सन्ति बहवः अवनावतीतपवनाश्च
अद्भुतस्तर्कपाथोधि अवेमव्यापाराकलन
अद्भुतोत्साहशक्तीनां अव्यादाश्रयता
अद्य प्रत्न पक्त्रिमं अशिलाप्राणदपदै
अधः करोत्यादिम अशुभपुषि कला
अधिगतनिगमाङ्गोपि असत्क्षयार्थाभ्युदय
अनपायरमो विष्णुः असुखमथ सुखं वा
अनभ्यस्य वेदानहो असे सलीलमधिरोप्य
अनत्पक धराया हि असौ चेदुदकुम्भ
अनायासग्राह्या अस्तोकदृप्तिरपि
अन्यदद्भुतमुद्भूत अस्त्रामास तृण
अन्याय्यमस्ति कि आः कष्टमप्रहृष्टाः
अपरीक्षितलक्षण आकिञ्चन्यादति
अपारैर्व्यापारैरह आक्रान्तासु वसुधारासु
अपि हन्त चोल आघ्राता वत
अपुण्यधौरेय आगमरूपविचारि
अब्रह्मास्त्रीकृततृणैर आचारस्य दवीयसा
अभिषिक्तो यथावच्च आचार्याः पुरुषा
अभीष्टघटकः क्षिता आदौ धर्मे प्रमाण
अभ्यर्णेऽस्य आवालस्थविर स्थि
अभ्यस्तवेदमौलिभ्यः आम्नायमौलिगुरुणा
अभ्रलिहानहह आशापालेषु पाशा
अमलमतिषु लोके

विश्वगुणादर्शस्थपद्यानां—

आशामीशानव कत्यौषधीः कति
आश्रयितव्यो नरपति कन्यां कामप्युदूह्य
इच्छन्तु हन्त कपर्दिमतकर्दमं
इच्छेद्यस्तु सुख करुणारसकल्लोल
इतस्तावद्भावव्यतिकर कर्णाटदेशो यः पूर्व
इति सकलजनाना कर्णानन्दकरस्फुनरन्
इदं वदरिकाश्रमस्थल कर्तृ व्याकरणस्य
इयं काञ्ची काञ्ची कर्म-ब्रह्मविचारणां
इयं हि सर्वमङ्गला कल्पन्ते कामरामा
इष्टप्राप्तिमनिष्टभङ्ग कल्याणं भगवत्कथा
इष्टात्स्वबान्धव कल्याणोल्लाससीमा
ईशः करस्थीकृत कवित्वस्य गाम्भीर्य
उग्ररिपुनिग्रह कषायैरुपवासैश्च
उच्चैःश्रवः प्रदातुर् कंस ध्वसयते मुरं
उच्छिष्टान्यतिदूरतः कह्लारोत्पलतल्लजो
उत्कर्ष चरमाश्रमी काकः शोक व्यसृजद
उद्गच्छदच्छतम काकुत्स्थकोपचकितः
उपनयन-विवाहा काञ्चीनगरविभूषा
उपवीतिनमूर्ध्वपुण्ड्र काञ्चीनाम्नि पुरे
उपस्कारैः स्फारैरुप काञ्चीमण्डलमण्डनस्य
उपादेय प्राज्ञै कान्तो विरूपाक्ष इति
उपेत्य वीक्षावन कान्त्येव हन्त वृत्त्यापि
उषस्येव स्नानादुचित काम जनाः केऽपि
ऋक्सामयोश्च यजुषां कामं वाचः कतिचिद
ऋत्विग्विशुद्धि कामादिवैरिगण
एकादश्यां कालयोर् कालुष्यलेशविधुरा
एतद्देश्यप्रचुर काशीसकाशीभवदिन्द्र
एतादृशे कलियुगेऽपि किं किं न जीर्यति
एषा कैरविणी किं दर्पदायकधनो
एषा भूतपुरी किमप्युपादाय दिशन्
ककुत्स्थकुलपर्याय कुक्षेः पूर्त्यै यवन
कटाक्षलहरीमुहुः कुटीषु गोपीरुचिरासु
कठिनशठनरेन्द्र कुम्भकर्णमदाम्भोधि
कण्ठोपरि कण्ठीरव कुम्भजपीतोत्सृष्टं
कतिचिदलसाः कुवस्तुहानात् सद्वस्तु

अकाराद्यनुक्रमसूची।

कुशलीभनाथवक्त्रः गृध्रराजस्य नाकादि
कृतत्रिदशपोषण गृहे गृहे पश्य
कृतदुरितनिराकरण गोदावरीविमलतीर्थ
कृतदुरितनिरोधानां ग्रामे ग्रामे निवसति
कृत्वा सेतुं किल घटिकाचलं वपु
कृशानुरकृशासूयः घण्टाघोषं त्यजन्तो
कृष्णाश्लेषविशेषिता चकास्ति कुरुकापुरी
केचन पङ्कजलोचन चतुर्वेदाध्ययी
केचिच्चक्रधरापराध चन्द्रालोकचया
कोपाटोपदशाविशाल चमूनियमनेन वा
कोलं भुवि कोलं चारुगुणैः सन्मणिभिर्
को वा कल्पतरोर्गुणः चित्र चित्रं
क्रियासार्थितवेदेभ्यो चिराद्धराभूरिभरार्त
क्लेशत्यागकृतेऽर्पितेन चिराय संसृत्युदधौ
क्वचन समागतसिन्धुनि चोरस्य चौर्य
क्षितिभृद्भिर्निज छागालम्भसहस्रतः
क्षेमारम्भनिदान जनन-मरण-क्वाधि-व्याधि
खञ्जीकृताखिलहृदां जम्भदम्भहरक्षेमा
खर-दूषणकिम्पाक जम्भशासनजीवातुर्
खलकृतपरिभाषा जयतु जगति लक्ष्मणार्य
गङ्गाझरीपरिचिताङ्घ्रि जह्नोरपत्य जगतः
गङ्गानुषङ्गाद्यमुना जाग्रत्येव शिरांसि
गङ्गातरङ्गावलिभिः जारान् चोरान्
गङ्गा-सिन्धु सरस्वती जीवानां दृषदादिमत्त्व
गजशिबिकातुरगाः ज्ञानाब्धिरक्षचरणः
गजेन्द्रबुद्ध्या नलसेतु ज्योतिःशास्त्रमहोदधौ
गम्भीरशब्देन ज्योतिष्टोमस्तोम
गरुडो गिलन् कमपि ज्वलनाकलनाद्
गहनगुहाविदारि झोन्तः शश्छोटि शेषो
गाङ्गानिश्वारि ठिड्ढाणञ् द्वयसच्चुटू
गातु क ईष्टे श्रितराम डिण्डीरखण्डान्वय
गाम्भीर्येण गदाधरस्य तत्तद्देशनिवासि
गम्भीर्यैकावलम्बे तत्तादृगुत्तमपदे
गयत्रीं सहसा जहद् तत्तादृक्ताटकादेह
गुरावसत्योक्तिनिरास तत्सुतस्तर्कवेदान्त

विश्वगुणादर्शस्थपद्यानां—

तद्विष्णोः परमं पदं दुःखं च जन्मदुरितं च
तनयार्थनया दुरितभरितक्षीबक्ष्माप
तप्तस्वर्णसवर्ण दुरितमवनतानां
तप्ताभ्यां शङ्ख-चक्राभ्यां दुर्निरोधधुनीनाथ
तस्मिन्मतिर्मेऽस्तु दुर्वादिनो विष्णु
तातेत्यामन्त्र्य दृश्यं मिथ्या दृष्टि
तापत्रयप्रशमना दृष्टं वन्ध्वितरैः
तापं विलुम्पति [ दृष्टे झटित्यखिल ]
तापादिभिः सपापां देवक्षोणीसुरहितकृते
तारकारिं वहन् देवागारनिषेविणः
तीरे तीरे स्फुरति देवौ द्वावधिकाश्चि
तुण्डीरमण्डल देशे देशे किमपि
ते मीमांसाशास्त्र देशे देशे लम्पटाः
ते मीमांसाशास्त्रलोक दैत्येभ्यो न वरान्
त्यजतु विहितमेत दोषेभ्यो नैव भेतव्य
त्रिदशाकलितस्नेह द्राघिष्ठ कुहनावराह
त्रैविक्रमस्त्रिपथगा द्विपाचलमुपाश्रितं
दत्तं साधुमुदे यदेकमपि द्विरेफवर्णा सुमनोरमां
दत्त्वा वरं दानव धत्ते महो मूर्ध्नि
दधती चिराय सुदती धन्यमन्यतया तृणीकृत
दनुजभिदभिषेकैः धिक्कृत्यैव दशास्यदर्प
दन्तश्रीस्तव दृश्यते धुनोति निबिड तमः
दयासमुदयालये ध्यात योगिकलाविलास
दरानुषङ्गं च गदा ध्यायामि राममभि
दर्पाविष्टकुदृष्टि न ऋत्विक्सम्पत्तिर्
दलितदुरितजाले [ न केशेषु स्नेहो ]
दशाननकुशासन नगरूपमुपैति
दातुर्द्वारि य एष न गाहन्ते गङ्गामपि
दारुणि सन्निहिताय न जिघ्रत्याम्नायं
दार्ढ्याय गुणसमृद्धेर् न दैव न पित्र्यं
दिशन् श्रिताना न धातोर्विज्ञानं
दीपप्रकाशसञ्ज्ञा ननु शठकोपायर्त्व
दीप्रोतिप्रभमाश्रित नन्दत्कन्दर्पदर्प
दीर्घवक्रनखरं नमामि गिरिनन्दिनी
दीर्घायुर्मुनिसूनवे नरस्तुतेर्विधातारो

अकाराद्यनुक्रमसूची ।

नराः सुरा वा पशवः पक्षीकृत्य गिरीशं
नवार्तवमहोत्सवे पद्यं यद्यपि विद्यते
न विधौ शुभरङ्ग पद्यैर्हृद्यतमैः स्तुवन्ति
न सन्ध्यासु स्नानं पन्थानमनुरुन्धानः
न सागरोऽसौ नभ पन्नगेषु च नगेषु
नागवल्लीमतल्लीभिः पद्मिन्याकर्षोचित
नाङ्गीकृतव्याकरणौ पद्मोल्लासविधायिनि
नाधीतेऽत्र जनो पम्पातरङ्गशिशिरा
नाध्यापयिष्यन् पयोधिमध्ये प्लवमान
नानाजातिभवा परमहिमयुतत्वात् प्राप्त
नानाम्नायपरिश्रम परवित्तजिहीर्षया
नाम्नायज्ञो मखे परं वेगं सरस्वत्या
नास्तिक्यमावहति पराशरभुवा शास्त्रं
नास्त्येषामुपयुक्तता परिगतसहकारैः
नाह नापि च मत्सुतो परिदृष्टवते सहस्र
निगमपाठनिराकृत परिशोभिताम्रपार्श्वा
नित्यं कर्म समाचरन्ति पाठीनीय कामठ
नित्यं काञ्चनसिन्धु पातञ्जले विष्णुपदाप
नित्यं हेयगुणावधूनन पातिव्रत्यमुपेत्य
नित्यानपायिप्रमदो पातुपातकिनो जनान्
नित्योन्नतोऽपि पान्थान् दीनानहह
निविरीसगुणस्तोमैर् पामरैरप्यपेयानां
नियन्ता जन्तूनां पारम्पर्यत आगतो
निर्वृत्ताध्वरकृत्य पिनाकिनी पश्य
निवस्तां वा कृत्ति पिबन्तु मदिराममी
निवेदितस्यात्र रमा पीताम्बरालकृत
निशमयति यः [ पुण्यश्लोकः पर ]
नीचैर्दुर्यवनैः शुनीभिरपि पुरः पुरो घन वन
नीला राधिकया पुरातनानां हि
नृणाम अभ्यस्त पूताङ्गानां पुण्यगङ्गा
नैतद्विभाति नगरं प्रकटितदशावतारे
नैयायिकां वा ननु प्रकाशदोषप्रचुरे
नैषां न्याय्य इह प्रकाशबहुपाद
नैषां सन्ध्याविधिर प्रगल्भवालिजीमूत
न्यस्तपादः सुमनसां प्रचण्डविश्वकण्टक

विश्वगुणादर्शस्थपयानां—

प्रणतचरणरेणु भागीरथी प्राप्य
प्रणिपतिकर्मीकुर्मः भागीरथीं यः पटुधी
प्रतिनगरमिहारामाः भानुभानुदलदब्ज
प्रतिमधुबिन्दु मिलिन्दाः भानोः शीतकरस्य
प्रत्यक्षगोचरमशेष भार्गदाग्रहदावाग्नि
प्रदोषवत्प्राप्त इह भाले शुद्धमृदूर्ध्व
प्रमोदे खेदे वा भाषा-वेषाचारैर्
प्रयत्नैरस्तोकैः भिक्षां कष्टमटन्ति
प्रशस्तगुणसिन्धवे भुवनकदनक्रुद्ध्यद्वृद्ध
प्रसह्य न हरन्त्यमी भुवनवहनशीला
प्रहसति भवशोषकरी भूभृत्यस्मिन् पक्षि
प्रह्लादमाह्लादयितु भूयोदोषैरपि परिवृतः
प्राक्पर्यङ्कमधि भेत्ता गोप्ता च
प्राचेतस-व्यास-पराशरा भेदाभिदाविषय
प्राजापत्यमखान्तराय भोगायैव नितम्बिनी
प्राज्ये हन्त धने [ मज्जन् जनः खचरण ]
प्राणप्रतिष्ठा क्लिष्टानां मणिमयफणितल्पे
प्रातः प्रातः पयसि मदनजनके वीतातङ्के
प्रातः प्रातर्जाह्नवी मनुष्यतिर्यक्त्व
प्रातर्हन्त कृताप्लवोऽपि मन्देतरस्मरमलीमस
प्रातश्शीतजले निमज्ज्य मम दुग्धनदी
प्रायः काव्यैर्गमित मस्ते दुःसहवेदना
प्रायो येषां सकृदकरणे महाराष्ट्राभिख्यो
प्रियसहचरी लक्ष्मीः माघश्चोरो मयूरो
प्रौढपङ्क्तिरथागार मातस्ते मधुसूदन
प्रौढेषु गौडेषु च मान्धाता च भगीरथश्च
फणिपतिसरस्फुरन्ती माधुर्याध्ययनोपसन्न
बकुलविभूषणेन मा नाम यक्षत मखै
बकुलाभरणीयानां मा बोधि वैद्यक
बालत्वे वा तरुणिमनि वा मायाचुञ्चुतया
ब्रह्मचर्यव्रतोत्सर्ग मिथ्यार्थावेदक्वत्वात्
भगवदनभ्युपगमन मिथ्यौषधैर्हन्त
भयार्तजीवातुदया मीमांसकाः कतिचिदत्र
भक्त्यलधिनिमज्जत् मुक्ताश्रिता विष्णु
भवसागरशोषणेन मुञ्चन्तः पञ्चयज्ञान्

अकाराद्यनुक्रमसूची।

मूकारब्ध कमपि रजतपीठपुरं ननु
मोह रुणद्धि विपुली रत्नाकरोऽपि च
मोहोन्मूलनमूलिका रमणीयः स हि
मोहादिदोषरहितां रहस्यव्याख्यानैः
य एष राजत्कटकः रामः क्षेमस्य दाता
यज्ञाः पञ्च महत्पदेन रामानुजाय गुरवे
[ यज्ञान् पञ्च च ] रामानुजी यामुनतीर्थ
यत्तीरे पुरुषोत्तम रोमावल्या तपनसुतया
यदत्र जागर्ति शिला लक्ष्मीकटाक्षपूरः
यदा न पश्यन्ति लक्ष्मी वक्षसि बिभ्रद
यदि कतिपये लङ्कापुरावासि
यदेव सर्वज्ञमपास्त लङ्कापुरे पङ्क्तिमुखेन
यदुगिरितटागारा लीलालोलतमा रमा
यद्वीक्षा धैर्यरक्षां लुण्ठित्वा नवनीत
यः पुरा पापदशक लोलद्दीर्घदला बृहत्तर
यः प्रभुर्यादवक्ष्माभृत् [ वद रहसि पदाम्बु ]
यस्मिन्पक्षेऽस्ति वरकेतुस्थतार्क्ष्याय
यस्मिन्विलोचनतया वरगुणगणसीमा
यस्य क्वापि विलोकने वरद भो भज
यस्य स्वर्णश्रिय उरु वरा वराहरूपिणी
यस्यां नास्ति पुरस्कृतिर् वर्षीयानपि जानकीसहचरो
यागं ये बत वैष्णवा वारस्त्रीकुचमर्दिभिर्
याभिः सर्वपदार्थ वाराणसि त्वयि सदैव
यामुनतीर्थाश्रमिणौ वालिनि बलोर्मिमालिन
युद्धाय प्रमिलन्तु हन्त विकचरुचिरपुण्डरीक
ये कायस्थजनाश्च विदुषामपि मोह
ये तोयैर्नादेयैर विदैवज्ञं ग्राम
ये मिष्टान्नभुजो विद्याविहरणोद्यान
ये मुष्णन्ति निशि विधिवदविधिवद्वा
येषां जनिश्चरणतस्तु विभीषणस्य साम्राज्य
येषामन्यकलत्रदर्शन विमलचरिता विश्वा
रक्ते भटे रणमुखे विरक्तेरास्थानी
रङ्गक्षेत्रमिदं विलिखति सदसद्वा
रङ्गादन्यदनङ्गारेः विलोचने विभोर्यस्य
रङ्गेशसेवको युक्तं विविधदुरितव्रात

विश्वसुण्णादर्शस्थपद्यानां—
<MISSING_FIG href="../books_images/U-IMG-1723018362Screenshot2024-07-18063849.png"/>

विविधनिगमसारे शुद्धाः संश्रितधर्म
विश्रुताश्रितवात्सल्य शौचत्यागिषु हूण
विश्वावलोकस्पृहया शौचं नाचरितु
विश्वाह्लादकरी श्यामोत्तुङ्गपयोधरो
विष्णुपद्याकलनया श्रिताभव्यमार्गा
वक्षारण्यमिदं वदन्ति श्रीनाथस्तवनानुरूप
वृद्धि-ह्रासौ पुष्पवन्तोप श्रीमानपि स्वय दैत्यात्
वृष्टि घृष्टिभिरा श्रीमान् गभीरतर
वेगवतीसेतुतया श्रीरङ्गे शोभते यस्य
वेद-वैदिकविद्वेष श्रीरङ्गेश्वरशासना
वेदव्यासः स इह श्रीराजीवाक्ष
वेदान्ताचार्यशब्दो श्रीरामानुजदर्शनैक
वेदान्तार्थविशोधित श्रीवल्लभदासेभ्यः
वेदान्तार्यगिरः श्रुतसुरनुतिघोषे
वैकुण्ठेऽपि निरुत्कण्ठ श्रुतीरध्येतारः
वैकुण्ठ महता श्रेयस्तोयदसम्प्रदाय
व्यापारान्तरमुत्सृज्य श्रेयांसि भूयांसि
व्यालाधिपेशयशुभ सकर्पूरस्वादुक्रमुक
वीडामारव्यतिकर सकलकुशलसिद्ध्यै
शक्राद्यर्थ हवि सकलजगतामीशानो
शतमखमणिस्तोम स जयति चित्रचरित्रो
शबर-कुमारिल स जयति रामानुज
शबरीचित्तकुमुद सततमकृतसन्ध्योपास्ति
शशाङ्कमौलिः सहकार सन्तत क्रन्दते सर्वो
शस्त्रैर्जीवति शास्त्रमुज्झति सदावदातनिम्नगा
शास्त्र भूरि निजखरूप सद्मस्वादरतोऽर्पितानि
शिथिलितभवखेदा सद्यो वैगुण्यमायान्ति
शिरः पुरारेर्द्विजराज सद्वशप्रभवश्चरित्र
शिवशिरसि शीतभानुः सन्न्यासाश्रममाश्रितो
शिवाक्ष्यालोकितः कामो सम्पत्तिः किपचानान्द्र
शिष्यार्पितेन शुचिना सम्पद्वन्यसरिज्झरी
शिष्टेभ्यः प्रतिगृह्य सम्पन्निर्मदभावयो
शीतोष्णजृम्भणसहेषु सपर्या विरुद्धादपि
शुक्रस्तुतो हसमयूर सम्पातिसोदर
शुचीभूताः स्नानैः सम्भोगारम्भजृम्भन्

अकाराद्यनुक्रमसूची—
<MISSING_FIG href="../books_images/U-IMG-1723018324Screenshot2024-07-18063849.png"/>

समग्राहि हरेर्वेदैः सौजन्य-वादान्येकयोः
समन्तरूढद्रुम सौवर्णभूधरमपि
सम्यक्शिष्यजन स्तुवद्भवनिवर्तके
स यासां व्याकर्ता स्थिरशङ्खादिचिह्नाय
सरस्वत्या श्लिष्टा स्नात्वा सह्यसुताजले
सर्वज्ञमज्ञ इति स्नान्ति प्रातरधि
सर्वतोमुखसमृद्धि स्मरहर परिचर्या
[ सर्वाभ्यर्हितवैष्णवाद्घ्रि] स्वज्येष्ठप्रेर्यहर्याश्रित
सर्वैर्वेदैः स्मृतिगणयुतैः स्वयं तरितुमक्षमः
सर्वोत्तुङ्गः श्रितशुभगुहः स्वर्गौकोभिरदोनिवासि
संसारमार्गसञ्चार स्वर्णवन्तं विदुः कान्तं
साकेताय नमः पुराय [ स्वातन्त्र्यं परिवर्जयन् ]
साध्वग्रेतरयूपेतः स्वानुज्ञामनवाप्य
सारङ्गडिम्भ स्वामिनि विनियुक्तानां
सारङ्गदृष्टिं कथमु स्वामिनीं स्तौमि
सा रुद्रभक्तिर् स्वावज्ञानसमु
सावित्रान्वयसम्भवेन स्वेक्षासाध्यजगज्जनिः
सा सर्वतोमुखवती स्वेनादौ निखिलं
सुमनोजनतास्थानं हत्वा मार्गे द्विजादीन्
सुरभितमतमाल हन्त रङ्गपुरसङ्गत
सुरयौवतोपगीतः हन्तुर्बन्धुजनान्
सुशोभनक्रमकरैः हरिमिव कृताव
सूक्ष्मसितांशुकलाभे हर्म्यस्थानमधर्म
सूत्रं पाणिनिबद्धं हसा निष्कुट
सूत्रैः पाणिनिकीर्तितैर् हिंसाकृत् प्रत्य
सूर्यादारोग्यमिच्छेत् हिंसान्तरेष्विव
सेवेऽनन्तसरः हूणाः करुणाहीना
सोय यद्यपि हृद्य एव हेतुः किञ्च विशिष्टधी
सोय हेयप्रत्यनीकोपि

]


  1. “‘निःसरन्ती,’ ‘निःस्रवन्ती’” ↩︎

  2. “‘महाडदल’ इति महाराष्ट्रभाषायां प्रसिद्धः” ↩︎

  3. “सागलीस्थव्याकरणपाठशालाध्यापकाः” ↩︎

  4. “‘रस्येव’” ↩︎

  5. “‘पूर्णैर्गुणै’” ↩︎

  6. “‘आधत्ते’” ↩︎

  7. “’ रूपम् ‘” ↩︎

  8. “‘तत्र तु’” ↩︎

  9. “‘अवन्दतैनम्’” ↩︎

  10. “’ आगमसार’” ↩︎

  11. “‘बिम्बैक’” ↩︎

  12. “‘सखे कथं ‘” ↩︎

  13. “‘भुवनशोषकारिणं’ " ↩︎

  14. “’ तपनमपि नमनक०’” ↩︎

  15. “‘क्लान्त’” ↩︎

  16. “‘विनिन्दयसि’” ↩︎

  17. “‘कृत’” ↩︎

  18. “‘सन्धायिने’” ↩︎

  19. “’ किमये’” ↩︎

  20. “‘विवेकलोभवता’” ↩︎

  21. “‘सकलं ‘” ↩︎

  22. “‘उपैत्’” ↩︎

  23. “‘महसा’” ↩︎

  24. “‘तस्मिन्’” ↩︎

  25. " ‘पयोधा’” ↩︎

  26. “‘दृषदामिवत्व’. ‘दृषदामिषत्व’” ↩︎

  27. “‘अध्यास्यन्ति’” ↩︎

  28. “‘शुद्धिम्’” ↩︎

  29. “‘किञ्चिदन्तरं ‘” ↩︎

  30. “’ हेतुभूतं ‘” ↩︎

  31. " ’ त्वमवलोकय’" ↩︎

  32. “‘तस्यै’” ↩︎

  33. “‘मध्यलोक’” ↩︎

  34. “’ मथ्यमाना’” ↩︎

  35. “‘सत्यमेव तथापि मा स्न’” ↩︎

  36. " ‘द्विषः ‘" ↩︎

  37. “एतत्क्वचित्पुस्तके नोपलभ्यते” ↩︎

  38. " ‘ते’" ↩︎

  39. “‘सन्ति’” ↩︎

  40. “एतत्क्वचित् पुस्तके नैवोपलभ्यते” ↩︎

  41. " ‘कलुषताक०’" ↩︎

  42. “‘सर्वे’” ↩︎

  43. “’ सर्वकाले’” ↩︎

  44. “एतत् क्वचित् क्वचिन्न दृश्यते” ↩︎

  45. " ‘स्थिरतरम् ‘" ↩︎

  46. “‘अस्मदनुकूलमेतद्भवति’” ↩︎

  47. “’ तदन्तर’” ↩︎

  48. “‘पुनः पुनर्नि’” ↩︎

  49. “‘धामा’” ↩︎

  50. “‘विलोपकररोपकः’” ↩︎

  51. “’ पयोधिनिस्तारकं’” ↩︎

  52. “’ हेतुम् ‘” ↩︎

  53. “‘अन्यच्च’ " ↩︎

  54. “’ क्षितावमित’” ↩︎

  55. “’ प्रशमया’” ↩︎

  56. “‘ईडिषे’” ↩︎

  57. “‘दर्पदमनं’” ↩︎

  58. “गुणेषु” ↩︎

  59. “‘कथमारचयसे’” ↩︎

  60. “‘फणायितु’” ↩︎

  61. “‘अवितथ’” ↩︎

  62. “‘कणानामेकदेशलेश’” ↩︎

  63. " ‘काकुत्स्थ’” ↩︎

  64. " ‘प्राञ्चत्पङ्क्तिः’" ↩︎

  65. “‘सर्वपातकवेताल ‘” ↩︎

  66. “‘पीयूष’” ↩︎

  67. “‘तटाकवनतोयदः ‘” ↩︎

  68. “’ विनयस्थान’” ↩︎

  69. “‘सौरभ्य’” ↩︎

  70. “’ प्रभवोत्कर्ष’” ↩︎

  71. “‘निवेशनः’” ↩︎

  72. “एतदर्द्धं क्वचिन्न दृश्यते” ↩︎

  73. “’ प्रसादस्य’” ↩︎

  74. “’ शिष्टाना ’ " ↩︎

  75. " ‘परिवर्जन’” ↩︎

  76. “‘दुर्मोचनीयः’” ↩︎

  77. “‘कल्हार’” ↩︎

  78. “‘महाम्भोधि’” ↩︎

  79. “‘दलने’, ‘दलनापविः’” ↩︎

  80. “एतदर्द्ध क्वचिन्न दृश्यते” ↩︎

  81. “’ मशकी’” ↩︎

  82. “‘मासिथाः’” ↩︎

  83. " ‘परै’" ↩︎

  84. “‘प्रमोदा’” ↩︎

  85. “‘विस्तृताम्भोधिसङ्गा’” ↩︎

  86. “‘मौलौ’” ↩︎

  87. “एतत् क्वचित्पुस्तके नैव दृश्यते” ↩︎

  88. " ‘मरन्दधारा’" ↩︎

  89. “’ विनिन्दयसि’” ↩︎

  90. “‘नातोऽधिकं’” ↩︎

  91. “‘बलिजितः’” ↩︎

  92. “‘सुराणा’” ↩︎

  93. “‘पटुत्वाकलनया’” ↩︎

  94. “‘इव’” ↩︎

  95. “’ साञ्जलिः’” ↩︎

  96. " ‘नादा’" ↩︎

  97. “‘किमरे वयस्यपापि तव स्तवापदम्’.” ↩︎

  98. “’ मृष्टान्न’” ↩︎

  99. “‘गजोद्धतहयारोहाः’” ↩︎

  100. “’ स्वगेहान्तरे’” ↩︎

  101. “‘सक्ताभिः ‘” ↩︎

  102. " ‘अन्यच्च ‘" ↩︎

  103. “’ त्वयीत्याख्यया’” ↩︎

  104. " ’ भूरिति निकाम’" ↩︎

  105. “‘जडभाववत्’ ‘जलभाववत्’” ↩︎

  106. “’ गुणोदयामपि किमेति’, ‘गुणान् किमिति’” ↩︎

  107. “‘योगिना प्राप्य’, ‘यो-नामप्यप्राप्यं’” ↩︎

  108. “‘व्यपदेशमन्ते’” ↩︎

  109. “’ प्राप्तनित्यक्रियेभ्यः ‘” ↩︎

  110. “’ स्नात्वा’” ↩︎

  111. “’ निकटागताम् ‘” ↩︎

  112. “‘वेदाक्षरः’ " ↩︎

  113. “‘हानत’” ↩︎

  114. “‘असाराणि च ‘” ↩︎

  115. “‘व्यादितैवम्’” ↩︎

  116. “‘सुचर्याविपर्यासः’” ↩︎

  117. " ‘कुतो नाम’” ↩︎

  118. “‘उपघ्नायितात्मा’” ↩︎

  119. “’ मर्मासनं ‘” ↩︎

  120. “’ दुर्लिपिचयः’” ↩︎

  121. “’ क्षितावपि च’” ↩︎

  122. " ‘शास्त्रिणः ‘" ↩︎

  123. “‘मुधोदासते’” ↩︎

  124. “‘ध्वगाधभेधेषु च ’ " ↩︎

  125. “‘सत्स्वेषु’” ↩︎

  126. “‘रोचन्ते चेदथ’” ↩︎

  127. “‘क्षुन्दधः ‘” ↩︎

  128. “’ कदनोत्क्रुध्यद’” ↩︎

  129. " ‘मिराणा’ " ↩︎

  130. " ‘जडजन्तूना’” ↩︎

  131. “‘दोष एव’’” ↩︎

  132. " ‘समुद्रोऽपि ’ " ↩︎

  133. “‘स्थिती’” ↩︎

  134. “‘महोर्मिकोऽपि’” ↩︎

  135. “‘तटतरौ’” ↩︎

  136. “’ उद्भर्जन्तमन्त’ " ↩︎

  137. " ‘विदितो’” ↩︎

  138. “‘च्छिष्टम्’” ↩︎

  139. “‘प्रेष्ठैः’” ↩︎

  140. “‘सान्निध्यमुख्यास्पदम् ‘” ↩︎

  141. " ‘किलौदनस्य’" ↩︎

  142. " ‘भक्ताशनं ‘" ↩︎

  143. “‘चक्षुषी सुखिनी करोति’, ‘सुखाकरोति’” ↩︎

  144. “‘कनद्रत्नाकल्पा’” ↩︎

  145. " ’ अत्रत्यानाम्’ " ↩︎

  146. " ‘सरसवस्तूपभोग’" ↩︎

  147. “‘ममितं’” ↩︎

  148. “‘वधूभिः ‘” ↩︎

  149. “‘मुद्दिश्य’” ↩︎

  150. " ‘अवधार्यता’ " ↩︎

  151. “’ कार्येषु दद्यात् ’ " ↩︎

  152. " ‘समये’” ↩︎

  153. “’ मवधारणीयम्’ " ↩︎

  154. " ’ गिरा तं च विनुयात्’” ↩︎

  155. “‘सानन्दम्’ इत्यधिकः पाठःक्वचिद्दृश्यते” ↩︎

  156. “‘परिलिप्सया’” ↩︎

  157. “‘चोर - जारशिरोमणेः ‘” ↩︎

  158. “‘परिकृष्य’” ↩︎

  159. " ‘रितः’" ↩︎

  160. " ’ कृतरुपा’ " ↩︎

  161. " ‘नीलया’" ↩︎

  162. " ‘समस्तरम्याय’" ↩︎

  163. " अद्भुतं चरितम्’ ‘अद्भुतं चारित्र्यम्’ अद्भुतञ्चरित्रम्’" ↩︎

  164. " ‘प्रसिद्धम्’ " ↩︎

  165. " ‘चौर्याणि कार्याणि,’ ‘चौर्यादिकार्याणि ’ " ↩︎

  166. “’ नृणा’” ↩︎

  167. “‘गर्व’” ↩︎

  168. “’ निराकुर्वते’” ↩︎

  169. “‘सबहुमान’ " ↩︎

  170. " ‘कति नो’” ↩︎

  171. “‘प्राक्कालिक चरित्र’, ‘चारित्र्यं’” ↩︎

  172. “’ कलयसि’” ↩︎

  173. " ’ माहात्म्यात्’ " ↩︎

  174. “दशदि-शास्व’” ↩︎

  175. " ‘द्विजकुलभुवां’" ↩︎

  176. " ‘कालभेदानभिज्ञाः’" ↩︎

  177. “‘विदधति च कदाचित् ’ " ↩︎

  178. " ’ यवनानां ’ " ↩︎

  179. “’ यवनविततेः’” ↩︎

  180. “‘पुनः’, ‘निजस्वामिनाम्’ " ↩︎

  181. “’ कानने’ " ↩︎

  182. " ‘इव " ↩︎

  183. " ‘यज्ञेन’ " ↩︎

  184. “’ नव दश’” ↩︎

  185. " ‘भासुरेषु’ इत्यधिकं क्वचिद्दृश्यते ‘” ↩︎

  186. " ‘शुचीभूत्वा’” ↩︎

  187. " ‘श्रुतिहितपुराणोक्त’” ↩︎

  188. “‘चेष्टित’” ↩︎

  189. “‘परिहार्यते’” ↩︎

  190. “’ अस्त्वेवमप्यत्र’” ↩︎

  191. “’ वर्णाना’ " ↩︎

  192. " ’ पुनरपि ’ " ↩︎

  193. " ‘सत्यमेव तथापि एतेषाञ्चेष्टितं सहनीयम्’” ↩︎

  194. “‘मायाचञ्चुतया’ ‘चञ्चुत्वं मोहजनकत्वनैपुण्यम्’ इति तट्टिप्पणी " ↩︎

  195. " ‘पर्यटत्येव चेत्’” ↩︎

  196. " ‘निर्वेद’ " ↩︎

  197. “’ प्रतिकृति ‘” ↩︎

  198. “‘अशेषान्’ इत्येतत् क्वचित्पुस्तके न दृश्यते.” ↩︎

  199. " ’ देशान् ’ " ↩︎

  200. “‘पर्यटन्ते’” ↩︎

  201. " ‘अभिनन्दयसि ‘" ↩︎

  202. " ’ निर्धूताखिल’" ↩︎

  203. “‘किमरे हरिभक्तेषु’” ↩︎

  204. “’ विरक्तेषु’ क्वचिच्चैतन्न दृश्यते " ↩︎

  205. “क्वचिदपि ‘विदूषयितुं’ इत्यधिकं दृश्यते” ↩︎

  206. " ‘सप्तसालान्’” ↩︎

  207. " ‘न- देशवत्’" ↩︎

  208.  ↩︎
  209. “‘मावाधिगीतवचनानि ‘” ↩︎

  210. “हारा” ↩︎

  211. “‘कल्पतरौ ’ " ↩︎

  212. " ’ दधतः ’ " ↩︎

  213. " ’ मोहतः’ " ↩︎

  214. " ‘सम,’ ‘स्फुटं,’ ‘घनं’” ↩︎

  215. “इत आरभ्य १५१ श्लोकपर्यन्तो ग्रन्थस्तावन्नोपलभ्यते आदर्श पुस्तके । अत्रैव मुद्रिते एकस्मिन्पुस्तके उपलब्धः स तथैवास्माभिः सङ्गृहीतः ।” ↩︎

  216. “‘धर्मनिरतानाम्’” ↩︎

  217. “‘भूपतिः’ " ↩︎

  218. " ‘दशापि दिशः” ↩︎

  219. " ‘बहवो’" ↩︎

  220. " ’ रणाङ्गणे’" ↩︎

  221. " “द्वाभ्या युग्ममिति प्रोक्तत्रिभिः श्लोकैर्विशेषकम् । कालापकं चतुर्भिः स्यात्तदूर्ध्वं कुलकं स्मृतम् ।”" ↩︎

  222. " ‘उत्सर्जति’" ↩︎

  223. “‘मैव वादी’, ‘मैवं सगिरिष्ठाः ‘” ↩︎

  224. " ‘दुर्निवारं ‘" ↩︎

  225. “‘अतन्त्रैः’ " ↩︎

  226. “’ निवसति ‘” ↩︎

  227. " ’ पुनः सविस्मयम्’ " ↩︎

  228. " ’ मरकत’” ↩︎

  229. “‘निरुपम’, ‘निरुपधि’” ↩︎

  230. “‘अधःकृत्वा’” ↩︎

  231. " ‘मानसान्नि’, ‘मानसे’ " ↩︎

  232. " ‘विस्तृतो’" ↩︎

  233. " ’ शुभरीतिरहो’" ↩︎

  234. “‘उच्चै’” ↩︎

  235. “‘तद्भक्तपूजापराणाम्’” ↩︎

  236. “‘शुद्धा हि ‘” ↩︎

  237. " ‘हृदयरञ्जनी रीतिः’ " ↩︎

  238. “अहर्दिवं’” ↩︎

  239. “’ अधिका’ " ↩︎

  240. “’ सा च’” ↩︎

  241. “’ तत्पुराणावलोकैः’” ↩︎

  242. " ‘कदन’ " ↩︎

  243. " ‘यतिवर्याः’ " ↩︎

  244. “’ मदविहित, ’ ‘मदनपिहित’” ↩︎

  245. “‘सत्त्वेनानध्यवस्यता’” ↩︎

  246. " ’ तद्भुजस्तु’ " ↩︎

  247. “’ जातालस्याः’” ↩︎

  248. " ‘दृश्यन्ते’” ↩︎

  249. " ‘वयस्य’ " ↩︎

  250. " ‘अतिक्रमावः’" ↩︎

  251. “‘प्रष्ठ’” ↩︎

  252. “‘द्वीपिराजिषु’” ↩︎

  253. “‘सह’” ↩︎

  254. " ‘सत्यमेव विदितम्’" ↩︎

  255. “‘दुत्पत्ति’” ↩︎

  256. " ‘इह’" ↩︎

  257. “‘विश्वनिदानस्य’” ↩︎

  258. “‘वर्णने’” ↩︎

  259. " ‘दधाने’, अयं पाठः अस्मत्सम्पादितादर्शपुस्तके उपलभ्यते, परं तस्मिन् अध्याहारकरणत्रासात् स नादृतः।" ↩︎

  260. " ‘मौनभाजा’" ↩︎

  261. “’ सान्द्रालस्या शिशुभरणतो मन्दमायाति बन्ध्या’” ↩︎

  262. “’ वंशोश्चयन’ " ↩︎

  263. " ’ एव’” ↩︎

  264. " ‘भृत्यतः ‘" ↩︎

  265. “‘पयोधरे’, ‘पयोधरम्’” ↩︎

  266. “’ प्राप्यास्त्वपि सुदृगपेक्ष्याः” ↩︎

  267. “‘गिरौ’” ↩︎

  268. " ‘नरसिंहाय मङ्गलम्’." ↩︎

  269. “‘लम्भक’ " ↩︎

  270. “‘व्यधात्’” ↩︎

  271. " ’ दम्भात् स्तम्भादिहाजृम्भत’” ↩︎

  272. " ‘सद्यो’ " ↩︎

  273. " ‘रवेत्य’" ↩︎

  274. “‘कुशस्थली’” ↩︎

  275. " ‘मश्चितं’" ↩︎

  276. “‘वीरराघवे देवे स्तवनं विरचयितुं’” ↩︎

  277. “‘स्वेच्छा’” ↩︎

  278. “‘देव’” ↩︎

  279. “‘नृणां’” ↩︎

  280. “‘रामानुजाख्यो’” ↩︎

  281. “‘अभिलापगरिमा’” ↩︎

  282. “‘अवनौ’” ↩︎

  283. “‘पथानुधाविनाम्’” ↩︎

  284. “‘प्रबन्धश्रमो’” ↩︎

  285. “‘बद्धादरो’” ↩︎

  286. “‘तैः सङ्क्षिपन्त्येव कालम्’” ↩︎

  287. “’ त्रय्यध्व’ ‘” ↩︎

  288. " ’ जगत्सु’" ↩︎

  289. “‘वेदानामपि हेलनं” ↩︎

  290. " ‘कृतिपुषे’ " ↩︎

  291. " ‘हर’" ↩︎

  292. " ‘अविवेकानां’" ↩︎

  293. “‘अतिमात्रं " ↩︎

  294. " ’ उच्छिष्टानति’ " ↩︎

  295. " ‘निर्ममते’” ↩︎

  296. " ’ जगति’" ↩︎

  297. “‘मितभुजां’ " ↩︎

  298. " ‘प्रमुखसत्त्वस्थमुनि’ " ↩︎

  299. " ’ उद्भावितः’” ↩︎

  300. " ‘विद्वद्भयः’" ↩︎

  301. “‘कर्मायासाद्विहाय विनिश्चलाः ‘” ↩︎

  302. " ‘अविरोधेन साधुभावम् ‘" ↩︎

  303. “’ विवेकिभ्यः’” ↩︎

  304. " ‘मत्ताः’ " ↩︎

  305. “‘वंशपारम्परीतः ‘” ↩︎

  306. " ‘मथनाम्’ " ↩︎

  307. " ‘महाशाः ’ " ↩︎

  308. " ‘नयविधुराः ‘" ↩︎

  309. “‘मनिवत्यों’ " ↩︎

  310. “’ मत्यूर्जितं’” ↩︎

  311. " ’ त्यश्रुमः,’ " ↩︎

  312. “‘आराध्यैव समर्पणै ‘” ↩︎

  313. " ’ अर्थै ’ " ↩︎

  314. " ’ प्रशस्य ’ " ↩︎

  315. " ’ क्रमेणा ‘” ↩︎

  316. " ’ मन्दमते ’ " ↩︎

  317. “‘महापुरुषान् ‘,’ महतः पुंस एवं’ " ↩︎

  318. " ’ कृष्टाः ‘” ↩︎

  319. “‘नवाप्ततनवो.’ " ↩︎

  320. " ’ नाभ्यर्चितः ’ " ↩︎

  321. " ‘पटुतमं. ‘” ↩︎

  322. " ‘शान्तिधनाः ‘" ↩︎

  323. " ’ परिकल्पित’ " ↩︎

  324. " ’ विगणयन्ति’ " ↩︎

  325. " ‘दैव’" ↩︎

  326. " ‘अवेहि’; ‘एहि’" ↩︎

  327. “‘मतुलम् ’ " ↩︎

  328. " ‘सुमनोजनवादरणस्थानं’ " ↩︎

  329. “’ स्थाने सद्रूपसेवनी सेयम्’ " ↩︎

  330. " ‘भगवतो’” ↩︎

  331. “‘पपन्न’” ↩︎

  332. " ‘पान्तु’ " ↩︎

  333. " ‘मधु’ " ↩︎

  334. “‘निरूप्यताम्’” ↩︎

  335. “’ वपासुरभिताननं’” ↩︎

  336. " ‘सिन्धुराजं.’” ↩︎

  337. “’ सादरं.’ " ↩︎

  338. “’ तत्प्रातिकूल्यभाजिनि नोचिता’” ↩︎

  339. “‘सकलहेयप्रत्यनीकतैवास्मिन्नाविष्कृता.’ " ↩︎

  340. " ‘श्रीपुण्यकोट्याश्रयम्.’” ↩︎

  341. “’ विधया’” ↩︎

  342. " दूणे च द्रूहिणे ‘दूने तद्द्रुहिणे’” ↩︎

  343. " ‘विघ्नितम्’" ↩︎

  344. " ‘देव’" ↩︎

  345. " ’ स एष सेतूद्धरणो न्यरुणयुगपत् ‘" ↩︎

  346. “’ कुण्डीडिम्भस्य’ " ↩︎

  347. " ‘न्यस्त’” ↩︎

  348. " ‘भगवती’" ↩︎

  349. “‘यथोक्तकृदन्वयम्’. " ↩︎

  350. " ’ अभिनन्दयसि’, ‘अभिनन्दसि’” ↩︎

  351. “’ खलु निष्प्रत्यूहं सरस्वती विजयते’” ↩︎

  352. " ‘परिकनत्’" ↩︎

  353. “‘लम्बित’, ‘तुन्दिल’. " ↩︎

  354. “’ मह्यामम ह्यार्ति’” ↩︎

  355. " ‘पुण्या’ " ↩︎

  356. " ’ जुषीम् ‘” ↩︎

  357. " ‘नमामि’" ↩︎

  358. " ‘आसेविताम्’." ↩︎

  359. “‘स्नेहो मूर्तिमान्’, ‘स्नेहपूर्तिमान् " ↩︎

  360. “‘तर्क’” ↩︎

  361. " ’ वेङ्कटेश गुरु’” ↩︎

  362. “‘आपगास्पदविनोदापहारभणितिः ‘” ↩︎

  363. “’ खेदापनोद’ " ↩︎

  364. " ‘देशिकगुरुः’ " ↩︎

  365. " ‘अनयोः’ " ↩︎

  366. " ’ सा ह्यक्षता साहिती’” ↩︎

  367. " ‘मेकं’" ↩︎

  368. " ’ मा स्मैवं वद’, ‘वादीः ’ " ↩︎

  369. " ’ एतत्पक्षात्पक्षान्तरस्वीकारः’" ↩︎

  370. “‘वेदान्तार्य’” ↩︎

  371. " ‘पद’" ↩︎

  372. " ‘गजतुरगौ मुखे’." ↩︎

  373. “‘स्थापके’” ↩︎

  374. " ‘प्रस्तरोदर निष्ठुर ‘" ↩︎

  375. “‘कोपाविष्ट ‘” ↩︎

  376. “‘भेदाङ्कुरोद्बोधाय’” ↩︎

  377. “’ ‘महा’. " ↩︎

  378. " ‘विजयते’.” ↩︎

  379. “‘भूमावध द्रुहि’.” ↩︎

  380. “नामासिना नरहरिः’कामालिकानरहरिः कबरीकरोतु .” ↩︎

  381. " ’ नाम्ने’ ’ " ↩︎

  382. " ’ आम्नाययुक्तः ‘." ↩︎

  383. “’ इति श्रुतेः, इति विश्रुतैव तव श्रुतिः” ↩︎

  384. “‘मुनयो’, ‘गुरवो’” ↩︎

  385. " ‘गृह्णाति वा’" ↩︎

  386. " ‘नानुसरन्तु ‘" ↩︎

  387. " ‘सम्पतन् ‘" ↩︎

  388. " ‘महा’" ↩︎

  389. “‘पृथ्वीमिष्टां’” ↩︎

  390. “‘लेभे’” ↩︎

  391. “‘एतन्न दृश्यते आदर्शपुस्तके’” ↩︎

  392. “’ शर्वस्य शर्वरी सुखदा’, ‘सर्वस्य सर्वस्वं " ↩︎

  393. “‘दृष्टं ’ , ’ दृष्टियुगं ‘” ↩︎

  394. “’ नीलोत्पले ‘” ↩︎

  395. “‘इह’” ↩︎

  396. " ‘अप्रशस्तैरपि वास-कृत्तिवासः प्रभृतिभिः ‘” ↩︎

  397. " ’ अवहीयते’ " ↩︎

  398. “’ तदपि ‘” ↩︎

  399. " ’ लोकतः ‘" ↩︎

  400. “‘जितः काञ्च्यां’” ↩︎

  401. “‘आविरास्ते ‘” ↩︎

  402. " ‘च आह्वय’ " ↩︎

  403. “‘अन्वर्थयन्निह ‘” ↩︎

  404. “‘अङ्गानुषङ्गामति’, ‘गङ्गानुषङ्गोदितशीतबाधाम् ‘” ↩︎

  405. " ‘तदन्वयेन’ " ↩︎

  406. " ‘सुरसरिद्वर-शिशिरशिरस’ " ↩︎

  407. “‘मुधा’ " ↩︎

  408. “’ तोयेन’” ↩︎

  409. “‘हरस्य’” ↩︎

  410. “‘अस्त्वेवमथाप्यन्यदप्यनुयुज्यते’.” ↩︎

  411.  ↩︎
  412. " इदं पद्यं नोपलभ्यते आदर्शपुस्तके, अन्येषु पुस्तकेषु च । केवलं मुद्रितैकस्मिन्नत्रत्यपुस्तके दृश्यते.” ↩︎

  413. “‘लाभो’” ↩︎

  414. " ’ अन्यदल्प ’ " ↩︎

  415. " ‘पदादुदीता’" ↩︎

  416. “’ वनवासनया’ " ↩︎

  417. " ‘व्यवधि’” ↩︎

  418. “’ कर स्वीकृत ‘” ↩︎

  419. “‘जड’” ↩︎

  420. “’ दोषैरस्य’ " ↩︎

  421. " ’ अन्यादृशं’” ↩︎

  422. “‘पापिभ्यो’” ↩︎

  423. " ‘प्रेष्ठेभ्यः’ " ↩︎

  424. “’ आहतं’” ↩︎

  425. " ‘आह्लादयति’" ↩︎

  426. " ‘मौलेर्’" ↩︎

  427. “सुरेश” ↩︎

  428. “यद्वि” ↩︎

  429. “भूधरो” ↩︎

  430. “छेत्ता गोप्ता च हरो हरिः सव,भेत्तास्ति” ↩︎

  431. “दारानुषङ्गं” ↩︎

  432. “हर” ↩︎

  433. “स्फुटतरपद्मासनामुनि” ↩︎

  434. “एषः” ↩︎

  435. “भक्ति-” ↩︎

  436. “राघवः” ↩︎

  437. “गृध्रसरस्तीरे” ↩︎

  438. “एतत् क्वचिन्नास्ति” ↩︎

  439. “अस्तामयेऽप्य” ↩︎

  440. “आविरास” ↩︎

  441. “वदवहा गम्भीरभङ्गा” ↩︎

  442. “शुद्धि” ↩︎

  443. “कृद्धनाघानां” ↩︎

  444. “नीरसता” ↩︎

  445. “सिन्धुजले” ↩︎

  446. “धियं” ↩︎

  447. “शुभप्रवाहैर्” ↩︎

  448. “वहत्येष” ↩︎

  449. “मण्डलस्य रामणीयकम्” ↩︎

  450. “शस्त्रादिघोषः” ↩︎

  451. “अवगीत” ↩︎

  452. “परिमितधना” ↩︎

  453. “यः खल्वाचमनाप्लवादिनियमस्तं” ↩︎

  454. “अनुष्ठानगीः” ↩︎

  455. “क्वत्याग्निचित्यादयः” ↩︎

  456. “लक्ष” ↩︎

  457. “परिगृह्म” ↩︎

  458. “समम्” ↩︎

  459. “विरहादिविशङ्कया” ↩︎

  460. “ये” ↩︎

  461. “इतरान्” ↩︎

  462. “भाषसे” ↩︎

  463. “मिदं " ↩︎

  464. “वेदादेव मखे पशोविंशसनं नैतेन कि मीयते,धर्मो न कि र्हीयते” ↩︎

  465. “सदाचरणा, सवनाकर्तव्यता” ↩︎

  466. “विमानमानीय” ↩︎

  467. “युद्धोन्नटत् " ↩︎

  468. “निस्सृतात्रस्रोत” ↩︎

  469. “पलाब्धि” ↩︎

  470. “प्रशाधितारो हि” ↩︎

  471. “अर्थयन्ते” ↩︎

  472. “साश्रुरसं, ससाध्वमं " ↩︎

  473. “कल्याणी रुदती” ↩︎

  474. “आकलयति भवान्” ↩︎

  475. “जलद” ↩︎

  476. “खण्डिताङ्गा” ↩︎

  477. “दीप्रो विप्रभमात्रितक्षितितलं, दीप्तोपि प्रभयाश्रितक्षितितरुं, दीप्रोऽप्यप्रभमाश्रितं क्षितितलं” ↩︎

  478. “जीवितो, जीविते” ↩︎

  479. “परत्र” ↩︎

  480. “दिवि” ↩︎

  481. “नश्चरित्रम्” ↩︎

  482. “समस्तं” ↩︎

  483. “प्राप्तभावम्” ↩︎

  484. “धराधराभिदेवता” ↩︎

  485. “नता गतिं” ↩︎

  486. “कटीतटीस्फुटीभवत्करा किटी पटीयसी” ↩︎

  487. “तादिदेवता” ↩︎

  488. “योऽयम् " ↩︎

  489. “नैव धन्ते " ↩︎

  490. “असुरात्ताम्” ↩︎

  491. “न्यस्तामिवयस्तामिव मुस्तामिद” ↩︎

  492. “तद्दृढम्, ते दृढम्” ↩︎

  493. “सम्पूरितम्” ↩︎

  494. “ललनकृत्” ↩︎

  495. “सरितं” ↩︎

  496. “निरूप्य” ↩︎ ↩︎

  497. “किल” ↩︎

  498. “दोषाकुलमनुज” ↩︎

  499. “बद्धकङ्कणकङ्कणा” ↩︎

  500. “बकुलवकुल, बकुलधरवकुल, बकुलधवलबकुलकुल” ↩︎

  501. “सहकारकेसरं” ↩︎

  502. “सरसकदम्बकदम्बकबदर” ↩︎

  503. “लोलम्ब” ↩︎

  504. “राम्भित” ↩︎

  505. “सुरतदशानुभव” ↩︎

  506. “क्षितीशनि” ↩︎

  507. “सरितंविडम्बयन्ती;सरिज्झरं विडम्बयन्ती” ↩︎

  508. “फणामणिश्रेणी; अनघ” ↩︎

  509. “अनर्घ” ↩︎

  510. “समेधित” ↩︎

  511. “सहस्रपत्रपत्र” ↩︎

  512. “आचक्षमाणानां” ↩︎

  513. “परिचुम्बचुम्बन” ↩︎

  514. “विसृत्वरैः” ↩︎

  515. “मसृणित” ↩︎

  516. “वैहायसाध्वना” ↩︎

  517. “भ्रान्तावनुराग” ↩︎

  518. “अवलोकनैः, अवलोकमानेन” ↩︎

  519. “सारस्वत्याभिमुख्येन” ↩︎

  520. “सज्जन,ससज्जन” ↩︎

  521. “स्रवन्ती चक्षुषोरमन्दं कन्दलयत्यामोदम्” ↩︎

  522. “रुचिः” ↩︎

  523. “मध्यमितरङ्ग, मध्यमतोरङ्ग” ↩︎

  524. “निरूप्यमाणाया अस्या” ↩︎

  525. “एनां परमरमणीयाम्” ↩︎

  526. “उच्चतम” ↩︎

  527. “नग” ↩︎

  528. .# “परिभूष्यमाणा, परिहृष्यमाणा " ↩︎

  529. “तर्का अहो, तर्कच्छटा” ↩︎

  530. “युधा” ↩︎

  531. “क्षामक्षेमाः, क्षामाक्षेमा” ↩︎

  532. “दृष्टीः” ↩︎

  533. “धाम” ↩︎

  534. “किमस्मिन् महाभुजङ्गे” ↩︎

  535. “निःशङ्कः” ↩︎

  536. “दोषावहाः” ↩︎

  537. “पिलोक्यते” ↩︎

  538. “सुहृदाप्यायन” ↩︎

  539. “विचिन्त्य” ↩︎

  540. “विहस्य, सखे” ↩︎

  541. “द्रोहिणां” ↩︎

  542. “परमेश” ↩︎

  543. “अलं गाधि” ↩︎

  544. “हन्ता” ↩︎

  545. “श्रित” ↩︎

  546. “रक्तचन्द्र ! भवदीयसम्मुखे " ↩︎

  547. “वक्तृ " ↩︎

  548. “नुतिं” ↩︎

  549. “सप्रश्रयम्” ↩︎

  550. “नौमि” ↩︎

  551. “रङ्गधाम्नोऽस्य” ↩︎

  552. “गुटिका " ↩︎

  553. “शालिका” ↩︎

  554. “कमलामति” ↩︎

  555. “मणिमय” ↩︎

  556. “दृष्टवान्” ↩︎

  557. “प्रागात्त” ↩︎

  558. “कन्थां याचति च क्षितरधिपतिर्लक्ष्मी " ↩︎

  559. “भृत्यवत्” ↩︎

  560. “निम्नो भवत्युन्नतः” ↩︎

  561. “कृत्यं” ↩︎

  562. “कथा” ↩︎

  563. “परातिं” ↩︎

  564. " दृशा भवसरिन्नावेह” ↩︎

  565. “नमुचिह्निषा” ↩︎

  566. “लक्ष्मीकृपा” ↩︎

  567. “पश्य” ↩︎

  568. “पश्चषदिनैराकल्पकल्पा " ↩︎

  569. “विन्दते” ↩︎

  570. “अज्ञानोपशमवज्ञातुमेवार्हम्” ↩︎

  571. “सम्प्रदत्ते दुरापास्ततमोमयविकारा वाराशिदुहितुरुदाराः कटाक्षाः साधुसुधाधाराः” ↩︎

  572. “निरयीकार” ↩︎

  573. “दक्षा, दक्षो” ↩︎

  574. “हृतैः” ↩︎

  575. “देवीमुद्दिश्यइ० अ०” ↩︎

  576. “चतसृभि” ↩︎

  577. “दविग्रह” ↩︎

  578. “पूर्णं” ↩︎

  579. “प्रक्षिपति” ↩︎

  580. “निगरणे " ↩︎

  581. “विजृम्भितं” ↩︎

  582. “दूषयति भवान्” ↩︎

  583. “गिरन्” ↩︎

  584. “भिल्लजात” ↩︎

  585. “रुल्ललद्भिः " ↩︎

  586. “याचताम्” ↩︎

  587. “च्छायसच्छायकायो भिन्दन्” ↩︎

  588. “मधात्” ↩︎

  589. “यतवासिभ्यः” ↩︎

  590. “घ्रीयते " ↩︎

  591. “नो त्रप्स्यन्ते” ↩︎

  592. “विक्रीणतेऽशाः” ↩︎

  593. “पुण्याप्रगण्य " ↩︎

  594. “भीषणो” ↩︎

  595. “स चिरं " ↩︎

  596. “यदीह” ↩︎

  597. “कामिनीभिः” ↩︎

  598. “नाथाय” ↩︎

  599. “परितो” ↩︎

  600. “पाषण्ड " ↩︎

  601. “प्रसरान्” ↩︎

  602. “ज्योतिष्टोमः साङ्ग उक्थ्योऽतिररात्रोप्या” ↩︎

  603. “आप्तोर्यामाः” ↩︎

  604. “वा” ↩︎

  605. “नित्यमेव क्रियन्ते” ↩︎

  606. “’ औषधोल्लास’ " ↩︎

  607. " ‘लाघानुश्राघा न कर्तव्या’. " ↩︎

  608. " ‘अनर्घ्य’. " ↩︎

  609. " ’ अवन्ति’. " ↩︎

  610. “’ पुष्णन्ति’” ↩︎

  611. " ‘देशवासिनीना नित्यमेव’. " ↩︎

  612. “‘न धत्ते,’ ‘विधत्ते’” ↩︎

  613. “‘मनोधृति’ " ↩︎

  614. “‘मा दूषय’ " ↩︎

  615. " ‘अतिदुस्सहमन्यत्’. ‘” ↩︎

  616. " ‘फलमिह बतात्रत्यसुदृशाः.” ↩︎

  617. “‘कञ्चुकं’” ↩︎

  618. “‘उक्तश्चेत्’” ↩︎

  619. “‘देशस्य’” ↩︎

  620. “श्रुतश्चरन्” ↩︎

  621. “साधुजनस्येदमित्थम्” ↩︎

  622. “सहावस्थान” ↩︎

  623. “भवत एतेषु” ↩︎

  624. “आलोचयतो” ↩︎

  625. “रसभासितैश्च” ↩︎

  626. “मदभ्र” ↩︎

  627. “अन्नाद्यानि” ↩︎

  628. “विपर्यासः” ↩︎

  629. “आयतनेष्वदन्ति त्वदन्ति” ↩︎

  630. “नूनमखिलैः” ↩︎

  631. “शिष्टावृतान्” ↩︎

  632. “‘विजित’” ↩︎

  633. “मपि” ↩︎

  634. “‘अभिधास्यामि’ इत्येव कचिदृश्यते” ↩︎

  635. “‘पचार’” ↩︎

  636. “‘संहरणाशया’” ↩︎

  637. “’ प्रकार्षापकर्षौ’” ↩︎

  638. “’ कृतमयमभोग्य’” ↩︎

  639. “‘निर्मितं भगवता ‘” ↩︎

  640. “‘चपला’” ↩︎

  641. “‘रोष’” ↩︎

  642. “‘गुरुनग’, ‘ननु गुरु’” ↩︎

  643. “‘सावधानः’” ↩︎

  644. “‘उद्गा राशौ’, ‘पाथोराशौ’” ↩︎

  645. “‘वहन्भवदवानलजृम्भितोत्थाम्’” ↩︎

  646. “‘धर्मनित्यानां’,‘धर्मनित्यानां हरिभृत्यानां’” ↩︎

  647. “‘परिसृष्टवते’” ↩︎

  648. “‘प्रव्हाय वेद’” ↩︎

  649. “‘प्रपठन्ति’” ↩︎

  650. “‘सगदिष्ठाः’” ↩︎

  651. “‘सन्मुखाब्ज’” ↩︎

  652. “‘सुकृततरुपक्तेः’” ↩︎

  653. “‘सहर्षम्’” ↩︎

  654. “‘अतीतं’” ↩︎

  655. “‘न भातीह माननीयता’” ↩︎

  656. “‘भुतिगति’” ↩︎

  657. “‘यतेश्चेष्टित’ " ↩︎

  658. “‘कलौ युगे यत्’” ↩︎

  659. “‘इत्यान्ध्र’” ↩︎

  660. “‘मुञ्चन्तु हन्त यतयः कतिचिद्रतौघान्’” ↩︎

  661. “‘मुच्छन्तु’ " ↩︎

  662. “‘कलयन्तु वामी’” ↩︎

  663. “‘पङ्कप्रसक्ति’” ↩︎

  664. “‘पर्यटन्तेऽमी’” ↩︎

  665. “‘स्वार्थः’” ↩︎

  666. “‘विषय’” ↩︎

  667. “‘दुष्येच्चोदर’” ↩︎

  668. “‘भाग्यभाजा’” ↩︎

  669. " ‘मत’.” ↩︎

  670. “२ ’ श्रवन्ति परम’.” ↩︎

  671. “१ ‘भोक्त’.” ↩︎

  672. " ‘भोक्तृ, वेद्य’. " ↩︎

  673. “‘तमुपदिशन्ति’ " ↩︎

  674. “३ ’ बुद्धयः’ " ↩︎

  675. " ‘तं’.” ↩︎

  676. " ‘इमे’. " ↩︎

  677. " ‘किमपि ददितारः प्रतिदिनम् .” ↩︎

  678. “‘अत्र हि तत्पदार्थं यथावस्थितमनभिदधानाः’.” ↩︎

  679. “‘हतामिव’.” ↩︎

  680. " ‘सूरात्’” ↩︎

  681. “‘सत्यवाचो हितमुनि” ↩︎

  682. “१ ‘कौतुकी’. " ↩︎

  683. “२ ‘भृत्यातिथीन् ’ " ↩︎

  684. “३ ‘कर्मणा’.” ↩︎

  685. “‘सत्यमेव तथाप्यवैदिकवृत्तिष्वेव प्रयियासतां’” ↩︎

  686. “नखराः” ↩︎

  687. “‘नीचबुद्धिहृदयं भ्रमयन्ति’” ↩︎

  688. “‘लग्नप्रष्टरेवैष दोषो’” ↩︎

  689. “प्रमोदः खेदो वा” ↩︎

  690. “भयेद” ↩︎

  691. “नियतान्” ↩︎

  692. “‘ऐहिकामुष्मिकारम्भो’” ↩︎

  693. “‘यतोत्रैष बुद्धः’” ↩︎

  694. “वचः श्रवणं” ↩︎

  695. “‘पणायन्ति’” ↩︎

  696. “‘कष्टे च’” ↩︎

  697. “‘बुद्धि’” ↩︎

  698. “‘पुष्पवन्तोपरागौ’” ↩︎

  699. “‘विदो’” ↩︎

  700. “‘विधुरां’” ↩︎

  701. “सभाम्” ↩︎

  702. “‘न कल्पयेथाः’” ↩︎

  703. “‘दुस्तर’” ↩︎

  704. “‘ग्लाने’” ↩︎

  705. “‘वैद्यककलामयमामयेषु’” ↩︎

  706. “‘युद्धन्त’ " ↩︎

  707. “‘कुविटो’ " ↩︎

  708. “‘निर्विष्ट’” ↩︎

  709. “‘बिल्हणो’” ↩︎

  710. “‘भ्राम्यन्ति’” ↩︎

  711. “विविधोपाय” ↩︎

  712. “‘योग्यतमं व्यनक्ति’” ↩︎

  713. “‘वीश्वर’” ↩︎

  714. “‘विशदमथ भिदाम्’, ‘प्रथितमथभिदा’, ‘विविधदुरभिदा’” ↩︎

  715. “‘तत्र तावदवधेहि’, ‘तदापाततः’” ↩︎

  716. “वन्ध्यश्रमाः” ↩︎

  717. “‘त्रय्या’” ↩︎

  718. " ‘कनिष्ठिकामेव चैष रञ्जयति’” ↩︎

  719. “‘च’” ↩︎

  720. “‘शुद्धिमथा प्रसूते’” ↩︎

  721. “‘रित्थमधोक्षजे च’” ↩︎

  722. " बोद्यावायोध सार्था’” ↩︎

  723. “‘अस्वीकृत’” ↩︎

  724. “‘आद्रियते’ इत्येव कचिदृश्यते” ↩︎

  725. “‘प्रायेणानाैपाधिक’” ↩︎

  726. “कचित् ‘कण्ठे’ इति पदं न दृश्यते” ↩︎

  727. “‘धनचापलेन’” ↩︎

  728. “‘भवति सकला’” ↩︎

  729. “‘स्तुवते’” ↩︎

  730. “‘यतोऽति’” ↩︎

  731. “‘आत्माकमुप’” ↩︎

  732. “‘स्वभावान्’” ↩︎

  733. “सुप्रसन्न” ↩︎