विश्वास-प्रस्तुतिः
अथ राजसेवकवर्णनम्॥
कृ॰ - पुनरन्यतो दृष्ट्वा सोपहासम् -
पश्यैतान् राजसेविनः परित्यक्तलोकद्वय सौख्यान् स्पष्टमौर्ख्यान् पुरुषान् ॥ २५०& ॥
मूलम्
अथ राजसेवकवर्णनम्॥
कृ॰ - पुनरन्यतो दृष्ट्वा सोपहासम् -
पश्यैतान् राजसेविनः परित्यक्तलोकद्वय सौख्यान् स्पष्टमौर्ख्यान् पुरुषान् ॥ २५०& ॥
बाल-कृष्णः
सूत्रमिति । पाणिना हस्तेन निबद्धं त्रिसूत्र्यादिकरणेन निर्मितं, पाणिनिना ऋषिणा बद्धं विरचितं च सूत्रं, यज्ञोपवीतरूपं ग्रन्थरूपं च कण्ठे गले, मुखे च कलयन् उपनयनविधिना, उच्चारणरूपेण च धारयन् सन् अत्रोभयार्थेऽपि “लक्षण हेत्वोः-” इत्यादिना हेतौ शतृप्रत्ययः । तेन सूत्रस्य यथाविधिधारणाद्धेतोरित्यर्थः । अन्यथाऽधिकाराभावात् । सुदृशं स्त्रियं, सुष्ठु ज्ञानं च, अत्र दृशिर्ज्ञानार्थकः । समुद्वहति पाणिग्रहणविधिना स्वीकरोति, प्राप्नोति च । ततः असौ बुधः पण्डितः वर्णादीनां ब्राह्मणादीनाम् आदिशब्देन ब्रह्मचर्याद्याश्रमग्रहणम् । अक्षरादीनां च अत्रादिपदेन शब्दादिग्रहः । धर्मान् अध्ययनाध्यापनादीन् ह्रस्व-दीर्घ- पुंलिङ्ग - स्त्रीलिङ्गा- दींश्च बुद्ध्वा ज्ञात्वा विधिवद्यथाविधि प्रयुङ्क्ते आचरति, उच्चारयति च ॥ ५७५ ॥
सख इति । छान्दसान् केवलं वेदमन्त्रपाठकान्, न त्वर्थज्ञान् अर्थचापलेन द्रव्यलोभेन विक्रीयमाणाः मासिकादिवेतनग्रहणेन अध्याप्यमानाः आम्रायाः वेदा यैस्तान् पश्य ॥ २४६& ॥
एतदेव प्रपञ्चयति — आ इति । वित्तचापलेन धनलोभेन आविष्टाः कृतप्रवेशाः, धनार्जनलालसायुक्ता इत्यर्थः । अत एव अप्रहृष्टाः सन्तोषरहिताः शिष्टा अपि वैदिकाः मासि मासि प्रतिमासं भृतिं वेतनमादाय चिराय सन्ततं वेदान् अध्यापयन्ति शिक्षयन्ति । आः कष्टमिति खेदे ॥ ५७६ ॥
नाध्यापयिष्यन्निति । उपाध्यायलोकाः अध्यापकजनाः शिष्यवर्गान् निगमान् वेदान् श्रमेण स्वोदरनिर्वाहार्थभृतिग्रहणयत्नेन यदि नाध्यापयिष्यन् नाशिक्षयि यन् तर्हि तदा उर्वीतलं भूतलं निर्वेदवादं वेदपाठरहितम् अत एव च निर्वितानं यज्ञरहितं " क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके ।" इत्यमरः । अभविष्यत् किल । अत्र “लिङ्गिमित्ते लृङ् क्रियातिपत्तौ " इत्यनुवर्तमाने “भूते च " इति क्रियाया अनिष्पत्तिरूपेऽर्थे ऌङ् । हन्तेति खेदे । “वेदा हि यज्ञार्थमभिप्रवृत्ताः” इत्यादिवचनप्रामाण्याद्वेदानां यज्ञार्थत्वात्तदभावे यज्ञानामप्यभावः ततश्च भूमौ अन्नाद्यनुत्पत्तेरतीव हानिः स्यादिति भावः । तदुक्तम् - " यज्ञाद्भवति पर्जन्यः पर्जन्यादन्नसम्भवः । " इति । एतदभिप्रायमेव भगवानप्याह गीतायाम् - " सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ।” इति ॥ ५७७ ॥
विरुद्धमिति । वेदानाम् अपाये नाशे सति यज्ञानाम् अभ्युदयः उत्पत्तिः यथाविध्यनुष्ठानमित्यर्थः । न स्यादिति यद् इदं विरुद्धं भाषितं कथितम् । स्मृत्यादावपि तद्विधानादिति भावः॥२४८& ॥
अवगच्छेति । एतद् वेदाध्यापनाभावे निर्वेदवादं निर्वितानं भूतलमित्याद्यस्मत्प्रतिपादितमेव अविरुद्धं यथार्थ, तत्पुनरिति शेषः । अवगच्छ जानीहि ॥ २४९& ॥,
नाम्नेति । यस्मिन् मखे यज्ञे आम्नायज्ञः वेदविद् यजमानतया यष्टृरूपेण स्थितः न भवेत्, तस्यावेदज्ञयजमानस्य समागमतः संसर्गाद्धेतोः सः यज्ञोऽपि न विद्यते आम्नायज्ञो वेदवेत्ता यस्मिन् तथाभूतः वेदविद्यजमानरहित इत्यर्थः । अथवा स यज्ञः नाम्ना सञ्ज्ञामात्रेणैव, न तु विधिना वेदमन्त्रपाठाभावात् । न भवेत् किम् ? अपि तु भवेदेवेति कृत्वा जगतो निर्वेदवादत्वेऽतीव महती हानिः स्यादिति भावः ॥ ५७८ ॥
पश्येति । परित्यक्तं लोकद्वयस्य ऐहिकामुष्मिकरूपस्य तत्र यथाविधि कर्मानु- ष्ठानाभावात्परलोकस्य सततराजकार्यपरत्वाद्यथाकालं भोजनसुखनिद्राद्यभावादितर- लोकोपयोगाभावात्तत्तिरस्कारभाजनत्वाच्चास्यापि लोकस्येति बोध्यम् । सौख्यं यैस्तान् अत एव स्पष्टम् अभिव्यक्तं मौर्ख्यं मूर्खत्वं येषां तान् राजसेविनः पुरुषान् पश्य ॥ २५०& ॥
विश्वास-प्रस्तुतिः
नैषां सन्ध्याविधिरविकलो1 नाच्युतार्चाऽपि साङ्गा
न स्वे काले हवन नियमो नापि वेदार्थचिन्ता ॥
न क्षुद्वेला नियतमशनं नापि निद्रावकाशो
न द्वौ लोकावपि तनुभृतां राजसेवापराणाम् ॥ ५७९ ॥
वि॰ - दुस्सहैषा बहुजनपोषकाणामेषां निन्दा ॥ २५१& ॥
अशुभपुषि कलावप्यप्रमत्ताः स्वधर्मा-
दनुदिनमुपकारानाचरन्तो बुधानाम् ॥
बहुजनपरिपुष्टौ बद्धदीक्षास्त एते
तनुसुखमपि हित्वा तन्वते राजसेवाम् ॥ ५८० ॥
मूलम्
नैषां सन्ध्याविधिरविकलो1 नाच्युतार्चाऽपि साङ्गा
न स्वे काले हवन नियमो नापि वेदार्थचिन्ता ॥
न क्षुद्वेला नियतमशनं नापि निद्रावकाशो
न द्वौ लोकावपि तनुभृतां राजसेवापराणाम् ॥ ५७९ ॥
वि॰ - दुस्सहैषा बहुजनपोषकाणामेषां निन्दा ॥ २५१& ॥
अशुभपुषि कलावप्यप्रमत्ताः स्वधर्मा-
दनुदिनमुपकारानाचरन्तो बुधानाम् ॥
बहुजनपरिपुष्टौ बद्धदीक्षास्त एते
तनुसुखमपि हित्वा तन्वते राजसेवाम् ॥ ५८० ॥
बाल-कृष्णः
एतदेव स्पष्टमाह - नैषामिति । एषां राजसेवापराणां जनानां सन्ध्यायाः विधिरनुष्टानम् अविकलः यथोक्तः न भवति, एषामिति प्रतिवाक्यं योजनीयम् । अच्युतस्य भगवतो विष्णोः अर्चा पूजापि साङ्गा सम्पूर्ण न भवति । एतेन सन्ध्या - पूजादिकं यद्यपि एतैः कृतं तथापि तन्मनःपूर्वकं यथाविधि न भवति, किन्तु कथमपि केवलमाचमनादिमात्रेण गन्ध-पुष्पादिमात्रसमर्पणेन चेति बोध्यम् । तथा स्वे प्रातर्मध्याह्नादिशास्त्र- विहिते काले हवनस्य औपासन-वैश्वदेवादेर्नित्यमागन्तुसाधनस्य कर्मणः नियमः नियताचरणरूपः “नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम् ।" इत्यमरः । न भवति । वेदस्य अर्थचिन्ता अभिधेयविचारोऽपि न भवति । एतावता पारलौकिक सौख्याभाव मुक्त्वा ऐहलौकिक माह — नेति । क्षुधः बुभुक्षायाः वेलायां नियतं सम्यकूपाचितम् उदरपूर्ति पर्याप्तं वा अशनं भोजनं न, तथा भोजनोत्तरं निशायां वा निद्रायाः अवकाशः अवधिः निश्चिन्ततया प्रातः कालपर्यन्तः कालो वा न अस्ति । एवं राज्ञः सेवापराणां तनुभृतां जनानां द्वौ लोकावपि द्वयोर्लोकयोरपि सौख्ये इत्यर्थः । न भवतः ॥ ५७९॥ दुःसहेति । बहुजनानां पोषकाणां यथोक्ततया तत्कार्यकरणादित्यर्थः । एषां राजसेवकानामेषा त्वत्कृता निन्दा दुःसहा श्रोतुमशक्या ॥ २५१& ॥
अशुभेति । अशुभानि पापसम्पादकानि कर्माणि पुष्णाति वर्धयतीति तत्पुषि कलौ युगेऽपि स्वधर्मात् स्वाचाराद् अप्रमत्ताः स्वाचारे सावधानाः सन्त इत्यर्थः । बहूनां स्वकीयानां जनानां परिपुष्टौ परिपोषणे बद्धा स्वीकृता दीक्षा व्रतं यैस्ते एते राजसेवकाः अनुदिनं प्रतिदिनं बुधानां पण्डितानाम् उपकारान् आचरन्तः कुर्वन्तः सन्तः, तनुसुखं शरीरसुखं यथाकालं पर्याप्तभोजन-निद्रादिरूपमपि हित्वा त्यक्त्वा राज्ञः सेवां तन्वते कुर्वन्ति । यथाकालं भोजन निद्राद्यसेवनं सन्ध्या-पूजाद्यनाचरणं चापि लोकोपकारार्थमेव ततश्चोत्तमलोकप्राप्तिरत्रापि मानश्चेति द्वयमपि सिध्यतीतिभावः ॥ ५८० ॥
विश्वास-प्रस्तुतिः
अथ दिव्यक्षेत्रादिवर्णनोपसंहारः ५२.
सर्वाणि दिव्यक्षेत्राण्यवलोक्य साञ्जलिबन्धं कृशानुमुद्दिश्य –
गङ्गाझरीपरिचिताङ्घ्रि जगन्निदानं
रङ्गादिधामसु चिरात्कृतसन्निधानम् ॥
विश्वं स्वतो विशदमेव विलोकमानं
वन्दस्व वस्तु वरदार्तिहराभिधानम् ॥ ५८१ ॥
कृ॰ - नन्वत्र तृतीयचरणार्थो न मह्यं रोचते ॥ २५२& ॥
विलोचने विभोर्यस्य विख्याते पुष्पवत्तया ॥
साक्षात्कर्तुं स्फुटं सर्वे स शक्नोति ? कथं हरिः ॥ ५८२ ॥
मूलम्
अथ दिव्यक्षेत्रादिवर्णनोपसंहारः ५२.
सर्वाणि दिव्यक्षेत्राण्यवलोक्य साञ्जलिबन्धं कृशानुमुद्दिश्य –
गङ्गाझरीपरिचिताङ्घ्रि जगन्निदानं
रङ्गादिधामसु चिरात्कृतसन्निधानम् ॥
विश्वं स्वतो विशदमेव विलोकमानं
वन्दस्व वस्तु वरदार्तिहराभिधानम् ॥ ५८१ ॥
कृ॰ - नन्वत्र तृतीयचरणार्थो न मह्यं रोचते ॥ २५२& ॥
विलोचने विभोर्यस्य विख्याते पुष्पवत्तया ॥
साक्षात्कर्तुं स्फुटं सर्वे स शक्नोति ? कथं हरिः ॥ ५८२ ॥
बाल-कृष्णः
गङ्गेति । गङ्गायाः झर्या प्रवाहेण परिचितौ समाश्रितौ अङ्गी चरणौ यस्य तत्, पक्षे गङ्गाझर्या परिचिता सततनिवासरूपेणाश्रिताः अङ्गयः शिफा इव अङ्गयः जटा इत्यर्थः । यस्य तद् इति च जगतो विश्वस्य निदानमादिकारणम् उत्पादकमिति यावत् । अत एव विश्वं स्वसृष्टं निखिलं जगत् स्वत एव विशदं सुप्रसन्नं यथा भवति तथा विलोकमानं रङ्गादिधामसु श्रीरङ्ग द्वारावती - जम्बूकेश्वरप्रभृतिषु पुण्यक्षेत्रेषु चिराद् बहुकालपर्यन्तं कृतं सन्निधानं सामीप्यं येन तथाभूतम् अत एव वरदानि इच्छित फलप्रदानि आर्तिहराणि तापत्रयादिपीडापरिहराणि च अभिधानानि हरि श्रीकृष्ण- हर शिव-साम्बादीनि नामानि यस्य तद् वसति निखिलप्राणिनां मनसि इति वस्तु निखिलप्राणिमात्रान्तर्यामिरूपमिति यावत् । ‘वस निवासे’ इति धातोः “वसे- स्तुन्" इत्यौणादिकस्तुन् प्रत्ययः । परमात्मरूपं वन्दस्व अभिवादय । हे कृशानो ! त्वमिति शेषः ॥ ५८१ ॥
अत्रेति । अत्र श्लोके तृतीयचरणस्य ‘विश्वं स्वतः’ इत्यादेः अर्थः स्वत एव जगदवलोकनकर्तृत्वरूपः मह्यं न रोचते ॥ २५२& ॥
विलोचन इति । यस्य विभोः प्रभोः विलोचने द्वे नेत्रे, अत्र द्विवचनेन तृतीय- नेत्राभावः सूचितः । पुष्पं तदाकारो दृष्टिप्रतिबन्धकरः कनीनिकायां जायमानो रोग- विशेषः अस्ति ययोस्ते तयोर्भावस्तत्ता तया, “पुष्पं विकास आर्तवे । धनदस्य विमाने च कुसुमे नेत्ररुज्यपि ।” इति हैमः । पुष्पवन्तौ चन्द्रसूर्यौ तद्रूपेण चेति । विख्याते प्रसिद्धे स्तः । स हरिः विष्णुः, न तु हरः, तस्य तृतीयलोचनस्य विद्यमानत्वादित्यर्थः । सर्वं विश्वं साक्षात् प्रत्यक्षं स्फुटं कर्तुं स्पष्टतया द्रष्टुं कथं शक्नोति समर्थो भवति ? वस्तुतस्तु ‘विलोचने विख्याते पुष्पवत्तया’ इत्युपलक्षणम् । तेन श्रोत्रे दिशः पादौ भूमिः, उदरमाकाशः, इत्यादि यथायथमूह्यम् । तेन च विश्वव्यापकतोक्ता । ततश्च य एवं तद्रूपतया व्यापकः स हरिः स्वस्माद् विश्वं पृथकू द्रष्टुं - कथं शक्नोतीति प्रश्नाभिप्रायः ॥ ५८२ ॥
विश्वास-प्रस्तुतिः
वि॰ - सूर्यचन्द्रलोचनतया सचमत्कारं चक्रधरं स्तुवानाय2 तुभ्यं न कुप्यामि । शृणु तावदिदम् ॥ २५३& ॥
श्रेयस्तोयदसम्प्रदायरसिकच्छायः सहायः श्रिय-
श्चिन्तारत्नसपत्नवीक्षितलवश्चेक्रीयतामायतम् ॥
यो विश्वेन हि गात्रवान् हिमरुचाप्युष्णांशुना नेत्रवान्
सुग्रीवेण च मित्रवान् कुश-लव-ब्रह्मादिभिः पुत्रवान् ॥ ५८३ ॥
सखे ! सङ्क्षिप्य वक्ष्यमाणं सारभूतमिममर्थं गृहाण ॥ २५४& ॥
मूलम्
वि॰ - सूर्यचन्द्रलोचनतया सचमत्कारं चक्रधरं स्तुवानाय2 तुभ्यं न कुप्यामि । शृणु तावदिदम् ॥ २५३& ॥
श्रेयस्तोयदसम्प्रदायरसिकच्छायः सहायः श्रिय-
श्चिन्तारत्नसपत्नवीक्षितलवश्चेक्रीयतामायतम् ॥
यो विश्वेन हि गात्रवान् हिमरुचाप्युष्णांशुना नेत्रवान्
सुग्रीवेण च मित्रवान् कुश-लव-ब्रह्मादिभिः पुत्रवान् ॥ ५८३ ॥
सखे ! सङ्क्षिप्य वक्ष्यमाणं सारभूतमिममर्थं गृहाण ॥ २५४& ॥
बाल-कृष्णः
सूर्य-चन्द्रेति । सूर्य-चन्द्रलोचनतया तद्रूपेणेत्यर्थः । सचमत्कारम् अर्थद्वयबोधकशब्दप्रयोगसहितं यथा तथा चक्रधरं विष्णुं स्तुवानाय तस्य स्तुतिं कुर्वते तुभ्यं न कुप्यामि । " क्रुध द्रुह – ” इत्यादिना चतुर्थी । वस्तुतो दूषणाभावादित्यर्थः ॥ २५३॥
श्रेय इति । तोयदस्य मेघस्य सम्प्रदायः रीतिः वर्णरूप इत्यर्थः । तस्मिन् रसिका छाया कान्तिर्यस्य सः, पक्षे तोयदानां सम्प्रदायो मार्गः व्योमरूपः स एव रसिकाः स्निग्धाः छाया इव छायाः केशाः यस्य सः भगवान् व्योमकेशः शिव इत्यर्थः । श्रियः लक्ष्म्याः, अणिमाद्यष्टविधैश्वर्यस्य च “लक्ष्मी - सरखती-धा ( ? ) त्रिवर्गसम्पद-विभूति-शोभासु । उपकरणवेशरचनाविधानेषु च श्रीरिति प्रथिता । " इति व्याडिः । सहायः पतिः, पोषकच अत एव चिन्तारत्नं चिन्तामणिः तस्य सपत्नः सदृशः वीक्षितस्य अवलोकनस्य लवः लेशः कटाक्ष इत्यर्थः । यस्य सः भक्तेभ्य इष्टफलप्रद इत्यर्थः । आयतं विस्तृतं श्रेयः चेक्रीयतां भृशं करोतु । करोतेर्यङि " रीङ् ऋतः " इति रीङादेशः । कथम्भूतः सः । यः प्रभुः विश्वेन गात्रवान् देहवान् " आत्मा वा इदमेक एवाम आसीत् " " स भूमिं विश्वतो वृत्वाऽत्यतिष्ठद्दशाङ्गुलम् । पुरुष एवेदं सर्व” इत्यादिश्रुतिभ्यः । हिरवधारणार्थकः । हिमा शीतला रुक् कान्तिर्यस्य सः तेन चन्द्रेण अपिः समुच्चायकः । उष्णाः अंशवः किरणाः, ज्वालाच यस्य तेन सूर्येण अग्निना चापि नेत्रवान् चन्द्र- सूर्यनेत्रो विष्णुः, अग्निनेत्रः शिवश्चेत्यर्थः । सुग्रीवेण एतन्नामकवानरेण मित्रवान् स्नेहसम्पादकः, रामावतारे इत्यर्थः । कुशः लवश्व, एतौ रामावतारोत्पन्नौ । ब्रह्मा च ते आदयः मुख्याः येषु इन्द्रादिषु तैः, पक्षे कुशलं कल्याणं वान्ति प्राप्नुवन्तीति कुशलवाः अखण्डकल्याणसम्पन्ना इत्यर्थः । ये ब्रह्मादयः आदिशब्देन विष्णु-शक्रा- दिग्रहणम् । तैश्च पुत्रवान् पुत्रयुक्तः । एतादृशमहासामर्थ्यसम्पन्नः शिवो विष्णुश्चेति बोध्यम् ॥ ५८३ ॥
सख इति । सङ्क्षिप्य सर्वमप्येकीकृत्य अत एव सारभूतं वक्ष्यमाणम् अनुपदमेव कथ्यमानम् अर्थमभिधेयं गृहाण शृणु ॥ २५४& ॥
विश्वास-प्रस्तुतिः
[ यामुनतीर्थाश्रमिणौ रामानुजमुनिर्मुकुन्दश्च ॥
आद्यं त्रिवेणुधरमधिकमन्यदन्ताद्यमेकवेणुधरम् ॥ ५८४ ।
कटाक्षलहरी मुहुःकवलितामृतस्तोमया
विलोचनयुगश्रियं (या) विवृतसर्वदानव्रतम् ॥
शुकादिभिरुपासितं शुभचरित्रभाजो जनाः
समस्तभयवारणं शरणयन्ति नारायणम् ॥ ५८५ ॥
नाहं नापि च मत्सुतो न च सुरास्सर्वे अभी तत्त्वतो
ध्यानादौ च सचेतसो मुनिगणा जानन्ति विष्णोः पदम् ॥ इन्धन्नाभिसरोजशायिपृथुलस्वास्तारमाकर्णयन्
शेते पन्नगसार्वभौमशयने श्रीपद्मनाभः श्रिया ॥ ५८६ ॥
मूलम्
[ यामुनतीर्थाश्रमिणौ रामानुजमुनिर्मुकुन्दश्च ॥
आद्यं त्रिवेणुधरमधिकमन्यदन्ताद्यमेकवेणुधरम् ॥ ५८४ ।
कटाक्षलहरी मुहुःकवलितामृतस्तोमया
विलोचनयुगश्रियं (या) विवृतसर्वदानव्रतम् ॥
शुकादिभिरुपासितं शुभचरित्रभाजो जनाः
समस्तभयवारणं शरणयन्ति नारायणम् ॥ ५८५ ॥
नाहं नापि च मत्सुतो न च सुरास्सर्वे अभी तत्त्वतो
ध्यानादौ च सचेतसो मुनिगणा जानन्ति विष्णोः पदम् ॥ इन्धन्नाभिसरोजशायिपृथुलस्वास्तारमाकर्णयन्
शेते पन्नगसार्वभौमशयने श्रीपद्मनाभः श्रिया ॥ ५८६ ॥
बाल-कृष्णः
इतः परं ’ यामुनतीर्थ - इत्यादयो द्वादश श्लोकाः अस्मत्सम्पादितादर्श- पुस्तकेऽन्येषु पुस्तकेषु च नैवोपलभ्यन्ते । किन्तु अत्रत्यमुद्रितैकस्मिन् पुस्तके एव दृश्यन्ते । अत एव ते रामानुजीयमतपक्षपातिना केनचित्प्रक्षिप्ता एवेति भाति, तेषु कतिचिदतीव विसम्बद्धाः पूर्वापरसम्बन्ध रहिताश्च कतिचिच्च सुसम्बद्धाः इति ये प्रतीतास्ते एवात्र मूले निवेशिताः यथामति व्याख्याताश्चापि – यामुनेति । यामुनतीर्थेन एतन्नामकगुरुणा प्रोक्तः उपदिष्ट इति यावत् । आश्रमः चतुर्थः सन्न्यासः अस्यास्तीति तदाश्रमी, यमुनैव यामुनं तच्च तत्तीर्थे च यामुनतीर्थं तत्र तत्सन्निधावित्यर्थः । आश्रमः निवासः यस्यास्तीति तदाश्रमी तौ, एकः रामानुजमुनिः अन्यश्च मुकुन्दः श्रीकृष्णः । द्वयोस्तारतम्यमाह - - आद्यं प्रथमं श्रीरामानुजरूपं त्रिवेणुधरं सन्न्यासाश्रमित्वात् त्रिदण्डधरम् अत एव अधिकम् अन्यस्मात् श्रेष्ठं, अन्य- मुकुन्दात्मकं च एकस्यैव वेणोः वाद्यविशेषस्य धरं धारकम् अत एव अन्तः लुप्तः आद्य इति शब्दो यस्मात् तथाभूतं, पूर्वस्मान्नयूनमित्यर्थः । वस्तुतस्तु अन्तः प्रलयः आद्यः सर्गश्च अर्थाज्जगतः तौ यस्मात् तद् एतदुपलक्षणं स्थितेरपि । तेन जगतः सर्ग- स्थितिलयकरमित्यर्थः ॥ ५८४ ॥
कटाक्षेति । कटाक्षाणाम् अपाङ्गदर्शनानां लहरीभिः मुहुर्वारंवारं कवलितः ग्रस्तः अमृतस्य स्तोमः निधिर्यया तया विलोचनयोर्नेत्रयोर्युगस्य द्वयस्य श्रिया विवृतं प्रकटीकृतं सर्वदानस्य भक्तेभ्यः सर्वस्वार्पणस्य व्रतं येन तं शुकादिभिः, आदिशब्देन नारद-सनकादिमुनिग्रहणम् । मुनिभिः उपासितं सेवितं, समस्तानां सकलानां भयानां वारणं निवारणं यस्मात् तं नारायणं शुभानि कल्याणावहानि चरित्राणि भजन्तीति तद्भाजः, सत्कर्मकर्तार इत्यर्थः । जनाः शरणयन्ति शरणं कुर्वन्ति, स्वरक्षकं ज्ञात्वा भजन्तीत्यर्थः ॥ ५८५ ॥
नाहमिति । इन्धद् दीप्तिमद् यन्नाभिसरोजं नाभिकमलं तस्मिन् शायिनः निवासिनः अर्थाद्ब्रह्मणः पृथुलं महान्तम् उचैरुच्चारितमित्यर्थः । स्वास्तारं वेदमन्त्रयुक्तं निजस्तवम् आकर्णयन् शृण्वन् पन्नगसार्वभौमशयने श्रीशेषशयने श्रीपद्मनाभः विष्णुः श्रिया लक्ष्म्या सह शेते स्वपिति कीदृशं वास्तारं विष्णोर्भगवतः पदम् अहं न जानामि, मम सुतः पुत्रोऽपि न जानाति, किञ्च अमी शकादयः सुरा देवा अपि न जानन्ति, किन्तु ध्यानादौ तद्रूपैकतानचित्तवृत्त्यादौ आदिशब्देन धारणा-समाध्यादेः ग्रहणम् । सचेतसः सावधानान्तःकरणाः मुनिगणा एव तत्त्वतो जानन्ति ॥५८६॥
विश्वास-प्रस्तुतिः
उपवीतिनमूर्ध्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम् ॥
शरणागतसार्थवाहमीडे शिखया शेखरिणं पतिं यतीनाम् ॥५८७॥
कपर्दिमतकर्दमं कपिलकल्पनानाटकैः
कुमारिलकुभाषितैर्गुरुनिबन्धनग्रन्थिभिः ॥
तथागतकथाशतैस्तदनुसारिजल्पैरपि
प्रतारितमिदं जगत्प्रगुणितं यतीन्द्रोक्तिभिः ॥ ५८८ ॥
सावित्रान्वयसम्भवेन भवता मुक्तश्शराशीविषः
संवर्तोदितसप्तसप्त (प्ति) पटलीसब्रह्मचारी हठात् ॥
आस्वाद्य क्षितिजापहारिहृदयक्रीडारतं मारुतं
तत्सन्तोषकथाभिधानकुतुकी मन्ये जगाहे महीम् ॥ ५८९ ॥
मूलम्
उपवीतिनमूर्ध्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम् ॥
शरणागतसार्थवाहमीडे शिखया शेखरिणं पतिं यतीनाम् ॥५८७॥
कपर्दिमतकर्दमं कपिलकल्पनानाटकैः
कुमारिलकुभाषितैर्गुरुनिबन्धनग्रन्थिभिः ॥
तथागतकथाशतैस्तदनुसारिजल्पैरपि
प्रतारितमिदं जगत्प्रगुणितं यतीन्द्रोक्तिभिः ॥ ५८८ ॥
सावित्रान्वयसम्भवेन भवता मुक्तश्शराशीविषः
संवर्तोदितसप्तसप्त (प्ति) पटलीसब्रह्मचारी हठात् ॥
आस्वाद्य क्षितिजापहारिहृदयक्रीडारतं मारुतं
तत्सन्तोषकथाभिधानकुतुकी मन्ये जगाहे महीम् ॥ ५८९ ॥
बाल-कृष्णः
उपवीतिनमिति । उपवीतिनं यज्ञोपवीतयुक्तं, रामानुजीय सम्प्रदाये सन्न्यासिनामपि यज्ञोपवीत धारणविधानात् । ऊर्ध्वपुण्ड्रेण भाले ऊर्ध्ववर्तिगोपीचन्दनतिलकेन युक्तं त्रिजगतः त्रैलोक्यस्य पुण्यफलं मूर्तिमत्, त्रयो दण्डाः " वाग्दण्डोऽथ मनो- दण्डः कायदण्डस्तथैव च । यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥" इत्यनेन सन्न्यासिनो विहितास्ते हस्ते स्वाधीना यस्य सः तं शिखया शेखरिणं शिरोभूषणयुक्तं शरणागतानां सार्थवाहं धनिकम् अभीष्टपूरकत्वात् । यतीनां सन्न्यासिनां पतिं श्रीरामानुजम् ईडे स्तौमि । एतद्वर्णनेन श्रीरामानुजयतीनां शिखात्यागो नोक्त इति भाति ॥५८७॥
कपर्दीति । कपर्दिनः शिवस्य यन्मतं शैवागमप्रोक्तं जटाकौपीनादिधारणरूपं यथाशास्त्राचारराहित्यादिकं च तेन कर्दमं कर्दमसदृशकालुष्ययुक्तं, एतद्वर्णनं केवलमेकदेशि पक्षपातयुक्तं तत्त्वविवेकशून्यं चेति ज्ञेयम् । कपिलस्य मुनेः कल्पना नाटकैः श्रुत्यादिप्रामाण्याङ्गीकारपूर्वकं केवलं मनः कल्पितलोकमोहकैः साङ्ख्यशास्त्रवचनरूपैः, कुमारिलस्य मीमांसाशास्त्रप्रवर्तकस्य कुत्सितैर्भाषितैः, ईश्वरास्तित्वानङ्गीकारात् । अत एव गुरूणि महान्ति बन्धनानि पुनः पुनर्जन्म-मरणादिरूपाणि येभ्यस्तथाभूतैर्ग्रन्थिभिः तत्सदृशैरित्यर्थः । तथागतस्य बुद्धस्य “सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः " इत्यमरः ।कथाशतैः, तदनुसारिणां बुद्धमतानुयायिनां जल्पैर्भाषणैश्चापि इदं जगत् प्रतारितं वञ्चितं, तद् यतीन्द्रस्य रामानुजस्य उक्तिभिः उपनिषद्भाष्यादिग्रन्थरूपाभिः प्रकर्षेण गुणितं व्यवस्थापितम् ॥ ५८८ ॥
सावित्रेति । हे राम ! इति शेषः । सवितुः सूर्यस्यायं सावित्रः स चासावन्वयो वंशश्च तत्र सम्भव उत्पत्तिर्यस्य तेन भवता त्वया, दशाननवधेच्छयेति शेषः । शरो बाण एव आशीविषः सर्पः यो मुक्तः खशरासनात्प्रेरितः सः संवर्ते प्रलये “संवर्तः प्रलयः कल्पः” इत्यमरः । उदिता उदयं प्राप्ता ये सप्त सप्तसङ्ख्याकाः सप्तयोऽश्वा येषां ते “घोटके वीति- तुरग - तुरङ्गाश्व- तुरङ्गमाः । वाजि - वाहावे - गन्धर्व - हय-सैन्धव- सप्तयः ।” इत्यमरः । सप्तसप्तयः सूर्याः तेषां पटली समुदायः तया सब्रह्मचारी सदृशः सन्, हठात् प्रसह्य क्षितिजापहारिणः सीतापहर्तुं रावणस्य हृदयक्रीडायां रत- मासक्तं मारुतं प्राणवायुम् आखाद्य भक्षयित्वा रावणप्राणमपहृत्येत्यर्थः । तेन रावण- हृत्स्थवातास्वादनेन यः सन्तोषस्तस्माद्धेतोः कथाभिधानस्य श्रीरामचरितकथनस्य कुतुकं कौतुकं यस्यास्तीति तत्कुतुकी सन् महीं पृथ्वीं जगाहे लुलोड इति अहं मन्ये । स एवायं साम्प्रतं रामानुजरूपेणावततारेति मन्ये इत्यर्थः ॥ ५८९ ॥
विश्वास-प्रस्तुतिः
दलितदुरितजाले दन्दशूकेन्द्रशैले
कवलितभवगन्धे कालिमा कश्चिदिन्धे ॥
कुवलयमुदहारी कुञ्जरेन्द्रोपकारी
मुनिहृदयविहारी मुक्तसन्तोषकारी ॥ ५९० ॥
ध्यातं योगिकलाविलासरसिकैः शीतं दयास्रोतसा
ख्यातं मौलिषु कृत्रिमेतरगिरां वातन्धयक्ष्माधरे ॥
जातं धाम पराकरोतु जगतामातङ्कमङ्कूरितं
वेतण्डेन्द्र विपद्विमोचनचणं क्रीतं रमाविभ्रमैः ॥ ५९१ ॥
मूलम्
दलितदुरितजाले दन्दशूकेन्द्रशैले
कवलितभवगन्धे कालिमा कश्चिदिन्धे ॥
कुवलयमुदहारी कुञ्जरेन्द्रोपकारी
मुनिहृदयविहारी मुक्तसन्तोषकारी ॥ ५९० ॥
ध्यातं योगिकलाविलासरसिकैः शीतं दयास्रोतसा
ख्यातं मौलिषु कृत्रिमेतरगिरां वातन्धयक्ष्माधरे ॥
जातं धाम पराकरोतु जगतामातङ्कमङ्कूरितं
वेतण्डेन्द्र विपद्विमोचनचणं क्रीतं रमाविभ्रमैः ॥ ५९१ ॥
बाल-कृष्णः
दलितेति । दलितं विनाशितं दुरितानां पापानां जालं समूहो येन तस्मिन् कवलितः भक्षितः विनाशित इति यावत् । भवस्य संसारस्य गन्धः सम्बन्धो येन तस्मिन् “गन्धो गन्धक आमोदे लेशे सम्बन्ध - गर्वयोः ।" इति यादवः । दन्दशूके- न्द्रशैले शेषाद्री कुवलयानां कमलानां मुदं हरतीति यथाभूतः कुञ्जरेन्द्रोपकारी गजेन्द्रोद्धारकः मुक्तानां सन्तोषं करोतीति तत्कारी अत एव मुनीनां मननशीलानां हृदयेऽन्तःकरणे विहर्तुं शीलं यस्येति तथाभूतः कश्चिदलौकिकः कालिमा नीलिमा श्रीनिवासरूपः इन्धे प्रकाशते ॥ ५९० ॥
ध्यातमिति । दयायाः स्रोतसा प्रवाहेण शीतम् अत एव योगिनां कलानां ध्यान-धारणादीनां ये विलासा आनन्दास्तेषु रसिकैः सततं योगाभ्यासासक्त चित्तैरित्यर्थः । ध्यातं कृत्रिमेतरगिरां वेदवाणीनां मौलिषु उपनिषत्सु ख्यातं प्रसिद्धं वेतण्डेन्द्रस्य गजेन्द्रस्य विपद्विमोचनेन ग्राहकृतदुःखनिवारणेन वित्तं ख्यातमिति तच्चणं " तेन वित्तः" इति चणम् प्रत्ययः । रमाया लक्ष्म्याः विभ्रमैर्विलासैः क्रीतं वशीकृतं वातन्धयक्ष्माधरे शेषशैले जातमुत्पन्नं, वातन्धयेत्यत्र “वातं शुनी-तिल " इत्यादिवार्तिकेन वातोपपदस्य घेटः खश् “अरुर्द्विषद् - " इत्यादिना मुमागमश्च । धाम तेजः अङ्कुरितमुत्पन्नं जगताम् आतङ्कं तापं “रुक्-ताप-शङ्कास्वातङ्कः” इत्यमरः । पराकरोतु दूरीकरोतु ॥ ५९१ ॥
विश्वास-प्रस्तुतिः
वर्णनोपसंहारः
नराः सुरा वा पशवः परेऽपि वा न निन्दनीयाः पुरुषेण भूष्णुना ॥
यतोऽपि3 दोषप्रचुरे जगत्त्रये न सन्ति ते वीतगुणाः कलावपि ॥ ५९२ ॥
कृ॰ - अभ्युपगम्य-
दार्ढ्याय गुणसमृद्धेर्दूषणभणितिः समस्तवस्तूनाम् ॥
अस्माभिरुपनिबद्धा4 सिद्धान्तस्येव पूर्वपक्षोक्तिः ॥ ५९३ ॥
कवेर्वाक्यम् ५३.
इति सकलजनानामीरयन्तौ शुभं5 तौ
मधुमथनपवित्रक्षेत्रसेवा कृतार्थौ ॥
अनुपथि दृढसख्यौ हन्त गन्धर्वमुख्यौ
निजसदनमगातां निर्भरानन्दसान्द्रौ ॥ ५९४ ॥
मूलम्
वर्णनोपसंहारः
नराः सुरा वा पशवः परेऽपि वा न निन्दनीयाः पुरुषेण भूष्णुना ॥
यतोऽपि3 दोषप्रचुरे जगत्त्रये न सन्ति ते वीतगुणाः कलावपि ॥ ५९२ ॥
कृ॰ - अभ्युपगम्य-
दार्ढ्याय गुणसमृद्धेर्दूषणभणितिः समस्तवस्तूनाम् ॥
अस्माभिरुपनिबद्धा4 सिद्धान्तस्येव पूर्वपक्षोक्तिः ॥ ५९३ ॥
कवेर्वाक्यम् ५३.
इति सकलजनानामीरयन्तौ शुभं5 तौ
मधुमथनपवित्रक्षेत्रसेवा कृतार्थौ ॥
अनुपथि दृढसख्यौ हन्त गन्धर्वमुख्यौ
निजसदनमगातां निर्भरानन्दसान्द्रौ ॥ ५९४ ॥
बाल-कृष्णः
नरा इति । भूष्णुना भवनशीलेन भूधातोः “ग्ला-जि- स्थश्च ग्नुः” इति चकाराद् ग्नुप्रत्ययः । “भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ ।" इत्यमरः । पुरुषेण नराः मनुष्याः, वा चकारार्थकः । सुरा देवाश्च पशवः, परे पक्ष्यादयोऽपि च न निन्दनीयाः । यतो यस्मात् कारणाद् दोषैः प्रचुरे बहुलेऽपि जगत्रये त्रैलोक्ये अस्मिन् कलियुगेऽपि ये वीताः गताः गुणाः येषां तथाभूताः जनाः ते सर्वेऽपि न सन्ति । किन्तु केचिद्गुणयुक्ता अपि सन्तीत्यर्थः ॥ ५९२ ॥
अभीति । अभ्युपगम्य तदुक्तं सर्वमप्यङ्गीकृत्य -
दार्ढ्यायेति । अस्माभिः उपनिबद्धा आरोपिता दूषणानां भणितिर्भाषणं सम- स्तानां सर्वेषां वस्तूनां पदार्थानां गुणसमृद्धेः दार्ढ्याय दृढीकरणायैव भवति, न वस्तुतः । कथमिव । सिद्धान्तस्य कस्यापि शास्त्रीयप्रमेयस्य दृढीकरणाय पूर्वपक्षोक्तिरिव ॥ २९३ ॥
एवं कथनीयमुक्त्वोपसंहरति- इतीति । इत्येवम्प्रकारेण सकलानां जनानां शुभं कल्याणं, क्वचित् ‘स्वभावान्’ इति पाठः । ईरयन्तौ कथयन्तौ अनुपथि प्रतिमार्गे मधोः एतन्नामक दैत्यस्य, मधुशब्दस्य वसन्तवाचकतया लक्षणया तन्मित्रस्य मदनस्य च मथनः विनाशकः विष्णुः शिवश्च तयोः पवित्राणि यानि क्षेत्राणि श्रीरङ्ग- वाराणस्यादीनि तेषां सेवया कृतार्थी दृढं सख्यं, मैत्री ययोस्तौ अत एव निर्भरानन्देन अतिशयहर्षेण सान्द्रौ परिपूर्णौ हन्तेत्यानन्दे । गन्धर्वाणां मुख्यौ कृशानु- विश्वावसू निजसदनं गन्धर्वलोकम् अगातां जग्मतुः ॥ ५९४ ॥
विश्वास-प्रस्तुतिः
सकलकुशलसिद्ध्यै सर्वदेवस्थलेषु
व्रजतु भुवि विवृद्धिर्वत्सराद्युत्सवश्रीः ॥
अपगतभवरोगैरध्वराणां प्रयोगै -
रखिलशुभकराणामस्तु भद्रं द्विजानाम् ॥ ५९५ ॥
जयतु जगति लक्ष्मणार्यपक्षो
जयतु वचः श्रुतिमौलिदेशिकानाम् ॥
जयतु निगमवर्त्म निःसपत्नम्6
जयतु चिराय च मूर्तिरञ्जनाद्रौ ॥ ५९६ ॥
प्रकाश दोषप्रचुरेप्यमुष्मिन् ग्रन्थे मदीये करुणानुबन्धात् ॥
प्रसादवन्तो न कृशानवन्तु परन्तु विश्वावसवन्तु सन्तः ॥ ५९७ ॥
मूलम्
सकलकुशलसिद्ध्यै सर्वदेवस्थलेषु
व्रजतु भुवि विवृद्धिर्वत्सराद्युत्सवश्रीः ॥
अपगतभवरोगैरध्वराणां प्रयोगै -
रखिलशुभकराणामस्तु भद्रं द्विजानाम् ॥ ५९५ ॥
जयतु जगति लक्ष्मणार्यपक्षो
जयतु वचः श्रुतिमौलिदेशिकानाम् ॥
जयतु निगमवर्त्म निःसपत्नम्6
जयतु चिराय च मूर्तिरञ्जनाद्रौ ॥ ५९६ ॥
प्रकाश दोषप्रचुरेप्यमुष्मिन् ग्रन्थे मदीये करुणानुबन्धात् ॥
प्रसादवन्तो न कृशानवन्तु परन्तु विश्वावसवन्तु सन्तः ॥ ५९७ ॥
बाल-कृष्णः
सकलेति । सर्वदेवानां विष्णुशिवादीनां स्थलेषु वत्सराद्युत्सवानां वत्सरादि- तिथौ विहितानां ध्वजारोपणादीनां श्रीः शोभा सकलानां जनानां कुशलस्य कल्याणस्य सिद्ध्यै भुवि विवृद्धिं व्रजतु गच्छतु । तथा अपगतः भवरोगः संसाररोगः येभ्यस्तथाभूतैरध्वराणां यज्ञानां प्रयोगैरनुष्ठानैः अखिलस्य सर्वस्यापि जनस्य शुभकराणां कल्याणकराणां द्विजानां ब्राह्मणानां भद्रं कल्याणम् अस्तु ॥ ५९५ ॥
जयत्विति । जगति लक्ष्मणार्यस्य श्रीरामानुजस्य पक्षो विशिष्टाद्वैतरूपः सिद्धान्तः जयतु, पक्षे लक्ष्मणस्य आर्यः ज्येष्ठ भ्राता श्रीरामः तस्य पक्षः शिवोपासनारूपश्चेत्यर्थः । श्रुतिमौलिदेशिकानां वेदान्ताचार्याणां वचः उपदेशरूपं च जयतु सर्वोत्कर्षेण वर्ततां निःसपत्नं शत्रुरहितं दुस्तर्कप्रतिपादनरहितमिति यावत् । निगमवर्त्म वेदमार्गश्च जयतु, अञ्जनाद्रौ नीलपर्वते मूर्तिः श्रीनिवासरूपा चापि चिराय बहुकालपर्यन्तं जयतु सर्वोत्कर्षेण वर्तताम् । इति पद्यद्वयप्रतिपादितं शिष्टाचारपरिप्राप्तं ग्रन्थान्ते मङ्गलाचरणं बोध्यम् ॥ ५९६ ॥
एवं समाप्तिमङ्गलं कृत्वा विद्वत्प्रार्थनां विधत्ते - प्रकाशेति । अमुष्मिन् मदीये मया रचिते विश्वगुणादर्शनाम्नि, प्रकाशाः प्रसिद्धाः दोषाः वस्तूनां कृशानुप्रतिपादिता इत्यर्थः । यस्मिन् तथाभूतेऽपि ग्रन्थे करुणायाः दयाया अनुबन्धात् सम्बन्धात् सन्तो विद्वांसः प्रसादवन्तः प्रसन्नान्तःकरणयुक्ताः सन्तः न कृशानवन्तु कृशानुवन् नाचरन्तु दोषबुद्धियुक्ता न भवन्दित्यर्थः । परन्तु सर्वे विश्वावसवन्तु विश्वावसुवद्गुणमात्रग्रहणतत्परा भवन्त्वित्यर्थः । ‘विश्वावसवन्तु’ ‘कृशानवन्तु’ इत्यत्र विश्वावसु-कृशानुशब्दाभ्यामाचार क्विपि धातुत्वाल्लोट् । तत्र च " सार्वधातुक-" इत्यादिना गुणः ॥ ५९७ ॥
इति श्री-पञ्चमत-भञ्जन-निबन्धन-विख्यात-
तात-यज्व-भागिनेय-
वाजपेय–सार्व-प्रष्टाप्तोर्यामादि-याज्य्–
आत्रेय-वंश-मौक्तिकी-भवद्-
अप्पय्यार्य-तनू-भव–
श्लेष-यमक-चक्र-वर्ति-
रघुनाथाचार्य-तनयस्य
श्रीनिवास-कृपातिशय-संविदित-नयस्य
सीताम्बा-गर्भ-सम्भवस्य
श्रीमत्-काञ्ची-नगर-वास्तव्यस्य
महा-कवि-श्रीमद्-वेङ्कटाध्वरिणः कृतौ
विश्वगुणादर्श-चम्पूः समाप्तिम् अगात् ॥