अथ वैदिकवर्णनम्॥
कृ॰ — अस्त्विति विमानमन्यतश्चालयन् पुरोऽवलोक्य - सखे ! पश्य छान्दसानर्थचापलेन1 विक्रीयमाणाम्नायान् ॥ २४६& ॥
आः कष्टमपहृष्टाः शिष्टा अपि वित्तचापलाविष्टाः ॥
अध्यापयन्ति वेदानादाय चिराय मासि मासि भृतिम् ॥ ५७६ ॥
० – वयस्य मैवं वादीः ॥ २४७& ॥
वि॰
नाध्यापयिष्यन् निगमान् श्रमेणोपाध्यायलोका यदि शिष्यवर्गान् ॥
निर्वेदवादं किल निर्वितानमुर्वीतलं हन्त ! तदाभविष्यत् ॥ ५७७ ॥
कृ॰ विरुद्धमिदं भाषितं यद्वेदापाये सति न यज्ञाभ्युदयः स्यादिति ॥२४८&॥
वि॰ - अवगच्छ तावदेतदविरुद्धमेव ॥ २४९& ॥
नाम्नायज्ञो मखे यस्मिन् यजमानतया स्थितः ॥
तत्समागमतः सोऽपि नाम्ना यज्ञो भवेन्न किम् ? ॥ ५७८ ॥
-
न्धनचापलेन ↩︎