४९ वैयाकरणवर्णनम्

विश्वास-प्रस्तुतिः

अथ वैयाकरणवर्णनम्॥

कृ॰ – अस्त्विति विमानमन्यतो गमयन् पार्श्वतो दृष्ट्वा सोपहासम् –

टिड्ढाणञ्-द्वयसच्चुटू ङसिङसोस्तिप्-तस्- झि-सिम्प्-थस्-थ- मिब्-
वस्-मस् तानचि चोष्टुनाष्टुरत इञ् शश्छोऽट्यचोऽन्त्यादि टि ॥
लोपो व्योर्वलि वृद्धिरेचि यचि भं दाधा घ्वदाम्नाज्झला —
वित्येते दिवसान्नयन्ति कतिचिच्छब्दान् पठन्तः कटून् ॥५६८ ॥

मूलम्

बाल-कृष्णः

‘शबरादयो भगवद्भक्तानां विनिन्दनीयाः’ इत्युक्तं निराकरोति - शबरेति । शबरः शबरस्वामी कुमारिलः गुरुः प्रभाकरश्च ते, मण्डनः मण्डनमिश्रश्च भवदेवः पार्थसारथिश्च ते एते सर्वे मीमांसासूत्रभाष्य-वार्तिकतयाख्यानादिकर्तारः । अन्ये ताताचार्य-अप्पयदीक्षितादयो बोध्याः । ते च सम्यक् त्रायमाणं रक्ष्यमाणं तन्त्रं मीमांसाशास्त्रं यैस्ते तथाभूताः सन्तः अत एव विश्वमान्याः सर्वलोकपूज्याः सन्तः जयन्ति सर्वोत्कर्षेण वर्तन्ते । सकलवैदिककर्मप्रवर्तकत्वाद् अन्येभ्यस्तर्कादि- शास्त्र मीमांसका एव मान्या इति भावः ॥ ५६७ ॥

टिड्डाणञिति । ‘टिड्डाणञ् द्वयसच्’ इति " टिड्डाणञ्-द्वय सज् दन्नञ्-मात्रच्- तयपू- ठक्-ठङ्कज्करपः” इति पाणिनीयसूत्रैकदेशः, “चुटू" “ङसिङसोः”, " तिप् तस् झि” इत्यप्येकदेशः । " तिप् तस् झि सिप्-थस्-थ- मिप्-वस्-मस् तातां- झ थासाथां ध्वमिडू - वहि महिङ् " इति सूत्रस्य । " अनचि च" “टुना टुः " “अत इज्” “शश्छोऽटि” " अचोऽन्त्यादि टि” “लोपो व्योर्वलि”

“वृद्धिरेचि” “यचि भम्” “ दाधा घ्वदाप्” " नाज्झलौ ” इत्युक्तप्रकारान् एते वैयाकरणाः कतिचित् कटून् कठोरत्वात् श्रवणानर्हान् शब्दान् पठन्तः सन्तः दिवसान् नयन्ति गमयन्ति ॥ ५६८ ॥

विश्वास-प्रस्तुतिः

झोऽन्तः शरछोटि शेषो व्यसखि ससजुषो रुर्विरामोऽवसानं

छे चेति व्यर्थवाचः सदसि यदि सतां शाब्दिकाश्चेद्बुधा स्युः॥

किं तैरेवापराद्धं ? नट-विट-गणिका नृत्य - हस्त-प्रचारै-

स्तोधी तोधी तधीति त्तकिट तकिट धिक् ताहधिक् तत्तकारैः ॥ ५६९ ॥

किञ्च-

सूत्रैः पाणिनिकीर्तितैर्बहुतरैर्निष्पाद्य शब्दावलिं

वैकुण्ठस्तवमक्षमा रचयितुं मिथ्या श्रमाः शाब्दिकाः ॥

पक्त्वान्नं महता श्रमेण विविधापूपाग्र्यसूपान्वितम्

मन्दाग्नीननुरुन्धते मितबलानाघ्रातुमप्यक्षमान् ॥ ५७० ॥

झोन्त इति । " झोन्तः" “शरछोऽटि” “शेषो ध्यसखि " जुषोरुः " “विरामोऽवसानम्” “छे च” इत्युक्तप्रकारेण व्यर्था निष्फला वाचो येषां ते शाब्दिकाः वैयाकरणाः सतां पण्डितानां सदसि यदि बुधाः पण्डिताः स्युः, तर्हि तैः प्रसिद्धैः नटाः नाट्यकर्तारश्च विटाः जाराश्व गणिका वेश्याश्च तेषां नृत्यं हस्ता हस्तविक्षेपाः प्रचाराः पादविक्षेपाश्च तैः, नटानां नृत्यं विदानां हस्ताः, गणिकानां पादविक्षेपाश्चेति क्रमेण बोध्यम् । तथा तोधी तोधीत्यादिमृदङ्गादिवाद्य- शब्दः किमपराद्धम् ? नृत्यादिकर्तारोऽपि पण्डिताः कुतो न भवेयुरिति प्रश्ना भिप्रायः ॥ ५६९ ॥

सूत्रैरिति । पाणिनिना मुनिना कीर्तितैः रचितैः बहुतरैः अष्टाध्यायपरिमितैः सूत्रैः सुप्-तिङ्-कृत्-तद्धितादिप्रत्यय विधायकैः “ङयाप्प्रातिपदिकात्” “लः कर्मणि च -” “तिप्-तस्-झि - " " कर्तरि कृत्” “तस्यापत्यम्” “अत इञ् " इत्यादिभिः शब्दानां, अत्र शब्दपदं सुप्तिदुभयसाधारणम् । राम-कृष्ण-मुकुन्दादीनां, भवति, एधते, नौमि, स्तौमि इत्यादितिङन्तानां वासुदेव - राघवप्रभृतीनां च आवलिं प िनिष्पाद्य साधयित्वा, वैकुण्ठस्य भगवतो विष्णोः स्तवं स्तुतिं रचयितुं गद्यपद्यादिचमत्कृतिजनकवचनैः कर्तुमक्षमाः असमर्थाः, प्रकृतिप्रत्यय संयोजनेन शब्द सिद्धिज्ञानेऽपि सम्यक् तदर्थावगमादिति भावः । अत एव मिथ्या व्यर्थ एव श्रमोभ्यास येषां ते तथाभूताः शाब्दिकाः शब्दशास्त्रविदः वैयाकरणा इत्यर्थः । सन्तीति शेषः । एतदेवोपमानेन स्पष्टयति– विविधाः नानाविधाः ये अपूपाः गोधूमा दिपिष्टनिर्मिता भक्ष्यपदार्थाः तैः अयं श्रेष्ठं सूपादिभिरन्वितं युक्तं च अन्नं महता श्रमेण प्रयत्नेन पक्त्वा निर्माय मितम् अल्पं बलं येषां तान् अत एव मन्दः अग्निर्जाठरो येषां तान् अत एव च आघ्रातुं गन्धोपादानं कर्तुमपि किमुत भोक्तुं, अक्षमान् असमर्थान् जनान् अनुरुन्धते अनुसरन्ति । तत्तुल्या इत्यर्थः ॥ ५७० ॥ महीति । मह्याः पृथिव्याः आभरणेषु भूषणरूपेषु वैयाकरणेषु भवान् दोषस्य शकलं खण्डमपि किमुत सम्पूर्ण दोषं, मा स्म कलयतु ॥ २४३ ॥

विश्वास-प्रस्तुतिः

वि॰—मह्याभरणेषु1 वैयाकरणेषु भवान् मा स्म कलयतु दोष-
शकलम् ॥ २४३ ॥
यतः-
कृतदुरितनिराकरणं व्याकरणं चतुरधीरधीयानः ॥
बुधजनगणनावसरे कनिष्ठिकायां2 परं जयति ॥ ५७१ ॥
पातञ्जले विष्णुपदापगायाः पातं जले चापि नयेऽवगाहम्3
आचक्षते शुद्धिदम4 प्रसूतेरा च क्षते रागमधोक्षजे5 च ॥ ५७२ ॥
अपि च-
नृणामनभ्यस्तफणाभृदीशगिरां दुरापा बुधराजगोष्ठी ॥
अबुद्धचापश्रुतिपद्धतीनां युद्धक्षमेवोर्द्धतयोद्धृसार्था6 ॥ ५७३ ॥

मह्याभरणत्वमेवाह-कृतेति । कृतं दुरितानां पापानां निराकरणं निवारणं येन तत्तथोक्तं, वेदाङ्गत्वादिति भावः । तदुक्तम् पाणिनीयशिक्षायाम् - “शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।” इति । अत एव भगवान् पतञ्जलिरपि महाभाष्ये आह– " रक्षोहागमलध्वसन्देहाः प्रयोजनम्, एकः शब्दः सम्यग्ज्ञातः सम्यक् प्रयुक्तः खर्गे लोके कामधुग् भवति” इति । व्याकरणं शास्त्रं चतुरा धीर्बुद्धिर्यस्य सः पुरुषः अधीयानः अभ्यस्यन् सन् हेतौ शतृप्रत्ययः । बुधजनानां पण्डितजनानां गणनावसरे सङ्ख्यानसमये कनिष्ठिकायां परमत्यन्तं जयति सर्वोत्कर्षेण वर्तते । अङ्गुलिभिः पण्डितगणने प्रथमं वैयाकरण एव गण्यते पश्चान् नैयायिका- दय इति भावः ॥ ५७१ ॥

पातञ्जल इति । पतञ्जलेः एतन्नामकमुनेः शेषावतारस्य अयं पातञ्जलस्तस्मिन् तेन रचिते इत्यर्थः । नये व्याकरणमहाभाष्यरूपे शास्त्रे पातं प्रवेशम् अभ्यासमित्यर्थः । तथा विष्णुपदापगायाः गङ्गायाः जले चापि अवगाहं स्नानं, अधोक्षजे भगवति विष्णौ च रागं भक्तिं च आ प्रसूतेः जन्नारम्य आ क्षतेर्मरणपर्यन्तं च शुद्धिं क्रमेण वाचिकीं शारीरीं मानसीं च पवित्रतां ददाति समर्पयतीति तथाभूतम् आचक्षते कथयन्ति । पण्डिता इति शेषः ॥ ५७२ ॥

किञ्च नृणामिति । अनभ्यस्ता अनधीता फणाभृतां सर्पाणाम् ईशस्य शेषावतारस्य पतञ्जलेः गीर्भाष्यरूपा वाणी यैस्तेषां नृणां पण्डितजनानां बुधराजानां पण्डितश्रेष्ठानां गोष्ठी सभा दुरापा दुष्प्रवेशा भवति । कथमिव । अबुद्धा अज्ञाता चापश्रुतेर्धनुर्वेदस्य पद्धतिर्मार्गो यैस्तेषाम् उद्धतः योद्धुमुद्युक्तः योद्धॄणां योधानां सार्थः समूहो यस्यां सा युद्धस्य समरस्य क्षमेव भूमिरिव ॥ ५७३ ॥

विश्वास-प्रस्तुतिः

तथा हि-
नाङ्गीकृतव्याकरणौषधानामपाटवं7 वाचि सुगाढमास्ते ॥
कस्मिंश्चिदुक्ते तु पदे कथञ्चित्खैरं वपुः स्विद्यति वेपते च ॥५७४॥
कृ॰ - साक्षेपम् -
कथं सखे ! शतकोटिपाणिनिगदितादपि पाणिनिगदितमेव व्याकरणमाद्रियन्ते8 सन्तः ? ॥२४४& ॥
वि॰ – पाणिनीयमेव हि व्याकरणं प्रयोगौपयिकं9 प्रविशदप्रतीतिकारणमिति तत्रैवादरः पण्डितानाम् ॥ २४५&॥

एतदेव स्पष्टयति- नाङ्गीकृतेति । नाङ्गीकृतं दृदाभ्यासेन न स्वीकृतं व्याकरणमेवौषधं यैस्तेषां जनानां वाचि वाण्याम् अपाटवं वक्तृत्वाभावरूपं कौशलं सुगाढं दृढतरम् आस्ते वर्तते । ततश्च केनचित् पण्डितेनेति शेषः । कथञ्चित्, न तु सम्यक् प्रकृति-प्रत्ययादिज्ञानयुक्तं कस्मिंश्चित् पदे सुप्तिङन्तादिरूपे, उक्ते सति स्वैरं स्वच्छन्दं यथा तथा वपुः शरीरं स्विद्यति धर्मयुक्तं भवति । वेपते कम्पते च । व्याकरणज्ञानाभावात् सुप्तिङन्तपदानां याथार्थ्यानवगमादिति भावः ॥ ५७४ ॥

कथमिति । हे सखे ! शतकोटिर्वज्रं “शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः ।” इत्यमरः । पाणौ हस्ते यस्य सः तेन इन्द्रेणेत्यर्थः । एतदुपलक्षणम् । तेन चन्द्र-काशकृत्स्नादयोऽपि व्याकरणप्रणेतारो ज्ञेयाः । निगदितात्प्रोक्तादपि पाणिनिना मुनिना एकेनैव गदितं प्रोक्तं व्याकरणम् अष्टाध्यायपरिमितसूत्रपाठरूपमेव, सन्तः पण्डिताः कथम् आद्रियन्ते सत्कुर्वन्ति ? ॥ २४४& ॥

पाणिनीयमिति । हि यस्मात्कारणात् पाणिनेरिदं तत्प्रणीतमित्यर्थः । व्याकरणमेव प्रयोगाणां वैदिक-लौकिकानाम् औपयिकं यथायुक्तं प्रकृति-प्रत्ययादियोजनेन साधकतयोपयोगि, अत एव प्रकर्षेण विशदायां निर्मलायां प्रतीतौ ज्ञाने कारणं भवति । एतस्मिन् ज्ञाते कस्मिंश्चिदपि प्रयोगसाधने न व्याकरणान्तरस्यापेक्षेति भावः । इति हेतोः पण्डितानां तत्र पाणिनीयव्याकरण एवादरः सत्कारः ॥ २४५& ॥

तथाहि-
सूत्रं पाणिनिबद्धं कण्ठे10 कलयन् समुद्वहति सुदृशम् ॥
वर्णादीनां धर्मान्बुद्ध्वा विधिवद्बुधः प्रयुङ्क्तेऽसौ ॥ ५७५ ॥

  1. त्रय्या ↩︎ ↩︎

  2. कनिष्टिकामेव चैष रञ्जयति । ↩︎ ↩︎

  3. चये ↩︎ ↩︎

  4. शुद्धिमथा प्रसूते ↩︎ ↩︎

  5. रित्थमधोक्षजे च ↩︎ ↩︎

  6. वोद्यतयोधसार्था ↩︎ ↩︎

  7. अस्वीकृत ↩︎ ↩︎

  8. आद्रियते इत्येव क्वचिद्दृश्यते ↩︎ ↩︎

  9. प्रायेण अनौपाधिकं ↩︎ ↩︎

  10. क्वचित् कण्ठे इति पदं न दृश्यते ↩︎