विश्वास-प्रस्तुतिः
अथ मीमांसकवर्णनम्॥
कॄ०.- अपरत्र व्योमयानमानयन्नग्रतो निर्वर्ण्य सोपालम्भम् –
मीमांसकाः कतिचिदत्र मिलन्ति वेद-
प्रामाण्यसाधनकृतोऽपि न तेऽभिवन्द्याः ॥
उद्घोषितोऽप्युपनिषद्भिरशेषशेषी
ब्रह्मैव नाभ्युपगतः पुरुषोत्तमो यैः ॥ ५६१ ॥
विशिष्य च मीमांसकगोष्ठ्यां विश्रुताः शवरादयः शबरा इव भगवद्भक्तानां विनिन्दनीयाः ॥ २३९& ॥
ते मीमांसाशास्त्रलोकप्रसिद्धाः सर्वर्षीणां सेहिरे नैव सत्ताम् ॥
चैतन्यस्यापह्नवं देवतानां चक्रुर्विश्वं नश्वरं1 मन्यमानाः ॥ ५६२ ॥
मूलम्
अथ मीमांसकवर्णनम्॥
कॄ०.- अपरत्र व्योमयानमानयन्नग्रतो निर्वर्ण्य सोपालम्भम् –
मीमांसकाः कतिचिदत्र मिलन्ति वेद-
प्रामाण्यसाधनकृतोऽपि न तेऽभिवन्द्याः ॥
उद्घोषितोऽप्युपनिषद्भिरशेषशेषी
ब्रह्मैव नाभ्युपगतः पुरुषोत्तमो यैः ॥ ५६१ ॥
विशिष्य च मीमांसकगोष्ठ्यां विश्रुताः शवरादयः शबरा इव भगवद्भक्तानां विनिन्दनीयाः ॥ २३९& ॥
ते मीमांसाशास्त्रलोकप्रसिद्धाः सर्वर्षीणां सेहिरे नैव सत्ताम् ॥
चैतन्यस्यापह्नवं देवतानां चक्रुर्विश्वं नश्वरं1 मन्यमानाः ॥ ५६२ ॥
बाल-कृष्णः
मीमांसका इति । अत्रास्मिन् देशे कतिचित् मीमांसकाः जैमिनिमुनिप्रणीत- कर्मविचारणाप्रतिपादकशास्त्रविदः मिलन्ति उपलभ्यन्ते । ते वेदे प्रामाण्यस्य स्वतः- प्रामाण्यस्य साधनं व्यवस्थापनं कुर्वन्तीति तत्कृतोऽपि, अभिवन्द्याः नमस्कर्तुं योग्या न भवन्ति । यतः उपनिषद्भिः श्रुतिशिरोभागैः अशेषस्य निखिलप्रपञ्चस्य शेषी अङ्गी अधिष्ठानमिति यावत् । सकलदृश्यप्रपञ्चविलयेऽप्येक एवाविनाशीत्यर्थः । अत एव ब्रह्म परब्रह्मरूपः पुरुषोत्तमो नारायणो भगवान् उद्घोषितः " आत्मा वा इदमेक एवाग्र आसीत्, नान्यत्किंचन मिषत्, यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यः, तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इत्यादिवचनैः यथार्थतया प्रतिबोधितो ऽपि यैर्मीमांसकैः नाभ्युपगतः न स्वीकृतः, तत इति संबन्धः । कर्मैव जगज्जन्मा- दिकारणमिति हि मीमांसकानां सिद्धान्तः ॥ ५६१ ॥
विशिष्येति । मीमांसकानां गोष्ठ्यां सभायां विश्रुताः प्रसिद्धाः शबरः शबर- स्वामी मीमांसासूत्रभाष्यकर्ता आदिमुख्यो येषां कुमारिलभट्टादीनां ते तदादयः शबराः किराता इव भगवद्भक्तानां विनिन्दितुं योग्याः विनिन्दनीयाः सन्ति ॥ २३९& ॥
ते इति । ते पूर्वोक्ताः मीमांसाशास्त्रेण, अत्र शास्त्रशब्दस्तज्ज्ञानपरः तेन मीमांसाशास्त्रज्ञानेनेत्यर्थः । लोके प्रसिद्धाः, पक्षे ते अमी किरातादयः मांसाशैः मांस- भक्षकैर्जनैः अस्त्रैः बाणादिभिश्व सहिताः लोके प्रसिद्धाः इति च सर्वर्षीणां व्यास-वसिष्ठादीनां सत्तां स्थितिं नैव सेहिरे नैवमर्षितवन्तः । तेषां कर्मानभिमानपूर्वकपरमात्मैकचित्तत्वात् । यतः, एते मीमांसकाः नश्वरं विनाशशीलं विश्वं मन्यमानाः सत्यतयाङ्गीकुर्वाणाः सन्तः क्वचित् ‘वीश्वरं ’ इति पाठः । तत्पक्षे विश्व वीश्वरं ईश्वररहितमित्यर्थः । देवतानां अग्नीन्द्रादियज्ञियदेवानां चैतन्यस्य चिद्रूपत्वस्य अपह्नवं लोपं चक्रुः कृतवन्तः । अग्नीन्द्रादिदेवतानां विग्रहवत्त्वे युगपन्नानाकर्तृकयागेषूपस्थानासंभवान्मन्त्राणामेव देवतारूपत्वाङ्गीकारान्मन्त्राणां चाचेतनत्वादिति भावः ॥ ५६२ ॥
विश्वास-प्रस्तुतिः
वि॰ - सखे ! निखिलनिगमार्थनिर्धारणबद्धादरेषु मीमांसकेषु मा
स्म सन्नह्येथाः ॥ २४०& ॥
शृणु -
आदौ धर्मे प्रमाणं विविधविधिभिदां2 शेषतां च प्रयुक्तिम्
पौर्वापर्याधिकारौ तदनु बहुविधं चातिदेशं तथोहम् ॥
बाधं तन्त्रं प्रसङ्गं नयनयनशतैः सम्यगालोचयद्भ्यो
भिन्ना मीमांसकेभ्यो विदधति ? भुवि के सादरं वेदरक्षाम् ॥५६३॥
मूलम्
वि॰ - सखे ! निखिलनिगमार्थनिर्धारणबद्धादरेषु मीमांसकेषु मा
स्म सन्नह्येथाः ॥ २४०& ॥
शृणु -
आदौ धर्मे प्रमाणं विविधविधिभिदां2 शेषतां च प्रयुक्तिम्
पौर्वापर्याधिकारौ तदनु बहुविधं चातिदेशं तथोहम् ॥
बाधं तन्त्रं प्रसङ्गं नयनयनशतैः सम्यगालोचयद्भ्यो
भिन्ना मीमांसकेभ्यो विदधति ? भुवि के सादरं वेदरक्षाम् ॥५६३॥
बाल-कृष्णः
सख इति । निखिलानां निगमानां वेदानाम् अर्थस्य निर्धारणं नयसहस्रपुरस्कारपूर्वकं निश्चयः तस्मिन् बद्धादरेषु कृतादरेषु मीमांसकेषु मा स्म संनह्येथाः तान् दूषयितुं मोद्युक्तो भव ॥ २४०& ॥
प्रथमं तावन्मीमांसकानां वेदरक्षकत्वादतीव वन्द्यत्वमाह - आदाविति । आदौ द्वादशाध्यायघटितमीमांसाशास्त्रस्य प्रथमाध्याये धर्मे चोदनालक्षणेऽर्थे प्रमाणम् “अग्निहोत्रं जुहोति, वसन्ते वसन्ते ज्योतिषा यजेत” इत्यादिचोदनारूपं ततो द्वितीयाध्याये विविधाः अनेकप्रकारा ये विधयः चोदनाः तेषां भिदां भेदं ततस्तु तृतीये, एवमग्रेऽप्युक्तं सर्वं प्रत्यध्यायं ज्ञेयम् । शेषतां अङ्गत्वं प्रयुक्तिप्रयोज्यप्रयोजकभावं च, पौर्वापर्यं पूर्वमिदं कर्म कर्तव्यं अनन्तरमिदमित्यादिक्रमः, अधिकारः फलस्वाम्यं च तौ, तदनु तदनन्तरं सप्तमाष्टमयोर्बहुविधमनेकप्रकारम् अतिदेशं प्रकृतितुल्यत्वं तथा ऊहं कर्मभेदे मन्त्रादिविनियोग विपर्ययादितर्कं, बाधं उत्सर्गतः प्राप्तस्य अपवादं, तन्त्रं सकृदनुष्ठितस्याङ्गजातस्य स्वप्रयोजकानेकप्रधानोपकारकत्वं प्रसङ्गं अन्यार्थानुष्ठिताङ्गस्यान्येनोपजीवनं च एतान् सर्वान् नयाः तत्तदधिकरणप्रतिपादितयुक्तय एव नयनानि लोचनानि तेषां शतैः सम्यक् आलोचयद्भ्योऽवलोकयद्भ्यः मीमांसकेभ्यः भिन्नाः अन्ये भुवि के पण्डिताः सादरं श्रद्धया सहितं यथा तथा वेदस्य रक्षां तत्प्रतिपादितकर्मणां यथार्थनिर्णयरूपां विदधति कुर्वते ? प्रमाणादीनां यथार्थबोधबे तावन्नान्ये मीमांसकेभ्यः शक्ता इति भावः ॥ ५६३ ॥
विश्वास-प्रस्तुतिः
पश्य तावद्भगवत इव जैमिनिमुनेः शासनं वैदिकैः सर्वैरप्यनतिक्र-
मणीयम् ॥ २४१& ॥
तथाहि-
नैयायिका वा ननु शाब्दिका वा त्रयीशिरस्सु श्रमशालिनो वा ॥
वादाहवे बिभ्रति जैमिनीयन्यायोपरोधे सति मौनमुद्राम् ॥ ५६४ ॥
यच्च मीमांसकेषु दोषोद्घाटनं तदज्ञानतः3 ॥ २४२& ॥
भगवदनभ्युपगमनं दैवतचैतन्यनिह्नवश्चैषाम् ॥
कर्मश्रद्धावर्धकतत्प्राधान्यप्रदर्शनायैव ॥ ५६५ ॥
पुनरालोच्य सबहुमानम् —
आगमरूपविचारिण्यधिकरणसहस्रशिक्षितविपक्षे ॥
स्वामिनि जैमिनियोगिन्यपि रज्यति हृदयमस्मदीयमिदम् ॥ ५६६ ॥
मूलम्
पश्य तावद्भगवत इव जैमिनिमुनेः शासनं वैदिकैः सर्वैरप्यनतिक्र-
मणीयम् ॥ २४१& ॥
तथाहि-
नैयायिका वा ननु शाब्दिका वा त्रयीशिरस्सु श्रमशालिनो वा ॥
वादाहवे बिभ्रति जैमिनीयन्यायोपरोधे सति मौनमुद्राम् ॥ ५६४ ॥
यच्च मीमांसकेषु दोषोद्घाटनं तदज्ञानतः3 ॥ २४२& ॥
भगवदनभ्युपगमनं दैवतचैतन्यनिह्नवश्चैषाम् ॥
कर्मश्रद्धावर्धकतत्प्राधान्यप्रदर्शनायैव ॥ ५६५ ॥
पुनरालोच्य सबहुमानम् —
आगमरूपविचारिण्यधिकरणसहस्रशिक्षितविपक्षे ॥
स्वामिनि जैमिनियोगिन्यपि रज्यति हृदयमस्मदीयमिदम् ॥ ५६६ ॥
बाल-कृष्णः
पश्येति । भगवतः ईश्वरस्येव जैमिनिमुनेः मीमांसाशास्त्रप्रणेतुः शासनं सर्वैरपि वैदिकैर्वेदविद्भिः अनतिक्रमणीयमनुनीयम् ॥ २४१& ॥
नैयायिका इति । नैयायिकास्तार्किकाः वाथवा शाब्दिकाः शब्दशास्त्रविदः वैयाकरणा इत्यर्थः । ननु वा किंवा त्रयीशिरस्सु उपनिषत्सु श्रमशालिनः अभ्यासशीलिनश्च वेदान्तिन इत्यर्थः । वादः परस्परपूर्वपक्षोत्तरपक्षरूपः एव आहवो युद्धं तस्मिन् जैमिनीयस्य मीमांसाशास्त्रस्य न्यायैः अधिकरणैः उपरोधे विरोधप्रदर्शने सति मौनमुद्रां बिभ्रति धारयन्ति । प्रमाणादीनां यथार्थावगमाभावान्न किमपि वक्तुं शक्नुवन्तीत्यर्थः ॥ ५६४ ॥
यच्चेति । अत एव मीमांसकेषु यत् दोषाणां ‘मीमांसकाः कतिचित्-’ इत्यादि - पद्यद्वयप्रतिपादितानां उद्घाटनमारोपणं कृतं तत् अज्ञानतः याथातथ्येन तत्स्वरूपा - नवगमादित्यर्थः ॥ २४२& ॥
यदुक्तं ‘ब्रह्मैव नाभ्युपगतः पुरुषोत्तमः ’ ’ देवतानां चैतन्यस्यापहरं चक्रुः ’ इति दूषणद्वयं तदुद्धारार्थमाह- भगवदिति । एषां मीमांसकानां भगवतः परब्रह्मणः अनभ्युपगमनं अनङ्गीकरणं दैवतानां चैतन्यस्य निह्नवः अपलापश्चेति द्वयं कर्मणि यज्ञादिरूपे श्रद्धायाः आस्तिक्यबुद्धेः वर्धकं यत् तस्य यज्ञादिकर्मणः प्राधान्यं मुख्यत्वं तस्य प्रदर्शनायैव, न तु वस्तुत इत्यर्थः ॥ ५६५ ॥
आगमेति । आगमस्य वेदस्य रूपं विधि- अर्थवाद-मन्त्रविनियोगादिखरूपं विचारयति तच्छीलः आगमरूपविचारी तस्मिन्, आगमैः " न जायते म्रियते वा विपश्चित् अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः, तरति शोक- मात्मवित् तत्त्वमसि’ इत्यादिश्रुतिवचनैः रूपं स्वकीयं अविनाशित्व सच्चिदानन्दात्मकत्वमुक्तिप्रदत्वादिरूपं विचारयति सर्वत्र जगति संचारयतीति तस्मिन्निति च, अधिकरणानां शास्त्रीयनयानां, अधिकेन परपराभवसमर्थेन रणानां युद्धानां च सहस्रेण शिक्षिताः अध्यापिताः, दण्डिताश्च विपक्षाः शास्त्रान्तरीयपूर्वपक्षाः शत्रवश्च येन तस्मिन् स्वामिनि वेदोक्तकर्मणां याथार्थ्यवेत्तृत्वात्सकलपण्डितानामधिपतौ जैमिनिनामके योगिन्यप्येव, अपिरवधारणार्थकः । पक्षे स्वामिनि भगवति, जैमिनियोगिनि चेत्यर्थः । अत्रापिः समुच्चायकः । इदमस्मदीयं मम हृदयं मनः रज्यति रमते ॥ ५६६ ॥
"
→
किंच-
शबर-4 कुमारिल - गुरवो मण्डन- भवदेव पार्थसारथयः ॥
अन्ये च विश्वमान्या जयन्ति संत्रायमाणतन्त्रास्ते ॥ ५६७ ॥