४७ तार्किकवर्णनम्

विश्वास-प्रस्तुतिः

अथ तार्किकवर्णनम्॥

कृ॰ - पुरतो विमानं प्रस्थाप्य पार्श्वतो दृष्ट्वा -
पश्यैतानाग्रहिणः पुरुषान् य एते व्यर्थमेव न्यायग्रन्थसन्ततचिन्तनेन विश्राम्यन्ति1 ॥ २३६& ॥
तथाहि—
कर्म-ब्रह्मविचारणां विजहतो भोगापवर्गप्रदां
घोषं कञ्चन कण्ठशोषफलकं कुर्वन्त्यमी तार्किकाः ॥
प्रत्यक्षं न पुनाति नापहरते पापानि पीलुच्छटा
व्याप्तिर्नावति नैव पात्यनुमितिर्नो पक्षता रक्षति ॥ ५५२ ॥
किञ्च
हेतुः किञ्च विशिष्टधीरनुमितौ न ज्ञानयुग्मं मरुत्
त्वाचो नेति च मोहवादमुखरा नैयायिकाश्चेद्बुधाः ॥
मेषस्याण्डमियत्पलं बलिभुजो दन्ताः कियन्तस्तथे-
त्येवं सन्ततचिन्तनैः श्रमजुषो न स्युः कथं पण्डिताः ॥ ५५३ ॥

मूलम्

अथ तार्किकवर्णनम्॥

कृ॰ - पुरतो विमानं प्रस्थाप्य पार्श्वतो दृष्ट्वा -
पश्यैतानाग्रहिणः पुरुषान् य एते व्यर्थमेव न्यायग्रन्थसन्ततचिन्तनेन विश्राम्यन्ति1 ॥ २३६& ॥
तथाहि—
कर्म-ब्रह्मविचारणां विजहतो भोगापवर्गप्रदां
घोषं कञ्चन कण्ठशोषफलकं कुर्वन्त्यमी तार्किकाः ॥
प्रत्यक्षं न पुनाति नापहरते पापानि पीलुच्छटा
व्याप्तिर्नावति नैव पात्यनुमितिर्नो पक्षता रक्षति ॥ ५५२ ॥
किञ्च
हेतुः किञ्च विशिष्टधीरनुमितौ न ज्ञानयुग्मं मरुत्
त्वाचो नेति च मोहवादमुखरा नैयायिकाश्चेद्बुधाः ॥
मेषस्याण्डमियत्पलं बलिभुजो दन्ताः कियन्तस्तथे-
त्येवं सन्ततचिन्तनैः श्रमजुषो न स्युः कथं पण्डिताः ॥ ५५३ ॥

बाल-कृष्णः

पश्येति । ये एते न्यायग्रन्थानां गादाधारी - जागदीशीप्रभृतितर्कशास्त्रप्रन्थानां सन्ततचिन्तनेन निरन्तर विचारेण विश्राम्यन्ति विफलं क्लाम्यन्ति । श्रमातिरिक्तं न किञ्चित्फलं प्राप्नुवन्तीत्यर्थः । अत एव आग्रहिणः वादप्रसङ्गे परमतानङ्गीकारपूर्वकं स्वमतस्यैव प्रतिपादकान् एतान्पुरोदृश्यमानान् पुरुषान् पश्यावलोकय ॥ २३६ ॥

कर्मेति । अमी तार्किकाः तर्कशास्त्रविदः भोगः ऐहिकामुष्मिक सुखम् अपवर्गो मोक्षश्च तौ प्रददातीति तां कर्मणः ज्योतिष्टोमादिरूपस्य ब्रह्मणः परमात्मनश्च विचा- रण मीमांसां, पूर्वमीमांसामुत्तरमीमांसां चेत्यर्थः । तत्र पूर्वमीमांसा कर्मकाण्डप्रति - पादिका ऐहिकामुष्मिक भगप्रदा । उत्तरमीमांसा च जीव ब्रह्मणोर्वास्तवस्वरूपप्रति- पादिका मोक्षप्रदा चेति ज्ञेयम् । विजहतस्त्यजन्तः सन्तः, कञ्चन निष्फलम् अत एव कण्ठशोष एव फलं यस्मात् स तत्फलकस्तं घोषं कलकलं कुर्वन्ति । निष्फलत्व- मेवाह - प्रत्यक्षं चक्षुरादीन्द्रियाणि प्रमाणचतुष्टयान्यतमें प्रमाणं न पुनाति न पवि- श्रीकरोति, पीलूनां परमाणूनां छटा समूहः पापानि नापहरते न परिहरति, व्याप्तिः व्यापकसामानाधिकरण्यरूपा नावति न रक्षति, अनुमितिः परामर्शजन्यं ज्ञानं ‘पर्वतो- वहिगान्’ इत्यादिरूपं नैव पाति संरक्षति, पक्षता सन्दिग्धसाध्यवत्ता च न रक्षति । अत्र प्रत्यक्षादिशब्देन सर्वत्र तत्तद्विचारों ग्राह्यः ॥ ५५२ ॥

हेतुरिति । किञ्च अनुमितौ पर्वतो वह्निमान् इत्यादिरूपायां विशिष्टस्य साध्यव्याप्तिमत्त्वेन धूमादेर्लिङ्गस्य धीः पक्षवृत्तित्वज्ञानं तदेव हेतुः, ज्ञानयोः वह्निव्याप्यो धूमः धूमवांश्चायं च पर्वतः इत्यादिरूपयोः युग्मं द्वयं तु न हेतुः, मरुद्वायुः त्वाचः त्वगिन्द्रियग्राह्यः न भवति । इत्युक्तरीत्या मोहसम्पादकेन भ्रमसम्पादकेन वादेन मुखराः शब्दायमानाः नैयायिकाः न्यायशास्त्रविदः बुधाः पण्डिताश्चेत् स्युः, तर्हि मेषस्य अण्डम् इयन्ति एतावत्परिमाणानि पलानि यस्य तत्तथाभूतं, पलं नाम कर्षचतुष्टयरूपं तोलप्रमाणम् । एतदेकद्वय दिसङ्ख्याक पलप्रमाणमित्यर्थः । तथा बलभुजः काकस्य " का तु करटारिष्ट - बलिपुष्ट - सकृत्प्रजाः । ध्वाङ्खात्मघोष-परभृद्- बलिभुग्- वायसा अपि ।" इत्यमरः । दन्ताः कियन्तः कति सङ्ख्याकाः सन्ति । इत्ये- वम्प्रकारेण सन्ततं चिन्तनैर्विचारैः श्रमजुषः प्रयत्नकर्तारः जनाः पण्डिताः कथं न स्युः ? अपि तु उभयत्रापि फलाविशेषात्स्युरेवेति भावः ॥ ५५३ ॥

विश्वास-प्रस्तुतिः

विशिष्य चैतस्य शुष्कतार्किकस्य रीतिर्विवेकिनामुपहासास्पदम् ॥ २३७& ॥
शृणु तावत्-
न जिघ्रत्याम्नायं स्पृशति न तदङ्गान्यपि सकृत्
पुराणं नाधीते न गणयति किञ्च स्मृतिगणम् ॥
वदन् शुष्कं तर्क परपरिभवार्थोक्तिभिरसौ-
नयत्यायुः सर्वे निहतपरलोकार्थयतनः ॥ ५५४ ॥

मूलम्

विशिष्य चैतस्य शुष्कतार्किकस्य रीतिर्विवेकिनामुपहासास्पदम् ॥ २३७& ॥
शृणु तावत्-
न जिघ्रत्याम्नायं स्पृशति न तदङ्गान्यपि सकृत्
पुराणं नाधीते न गणयति किञ्च स्मृतिगणम् ॥
वदन् शुष्कं तर्क परपरिभवार्थोक्तिभिरसौ-
नयत्यायुः सर्वे निहतपरलोकार्थयतनः ॥ ५५४ ॥

बाल-कृष्णः

विशिष्येति । विशिष्य विशेषतः एतस्य शुष्कतार्किकस्य निष्फलतर्कशास्त्रविदो रीतिर्विवेकिनाम् इतरशास्त्रविवेचनशीलानाम् उपहासास्पदं परिहासास्पदं भवति ॥ २३७ ॥

नेति । असौ तार्किकः आम्नायं वेदं न जिघ्रति नाभ्यस्यति, तस्य वेदस्याङ्गानि शिक्षादीनि सकृदेकवारमपि किमु वारं वारं, न स्पृशति नाधीते, पुराणं पाद्मवैष्ण- वादिकं नाधीते. किञ्च स्मृतीनां मन्वादीनां गणं समुदायं न गणयति न मानयति । अत एव निहतं परित्यक्तं परलोकार्थ स्वर्गादिप्राप्त्यर्थं यतनं यत्नो येन सः तथाभूतः सन् परेषां शास्त्रान्तरकोविदानां स्वेतरनैयायिकानां च परिभवः पराभव एव अर्थः प्रयोजनं यासां ताश्च ता उक्तयश्च ताभिः उपलक्षितं शुष्कं निष्फलं तर्कं वदन् सन् सर्वमायुर्जीवितकालं नयति गमयति ॥ ५५४ ॥

विश्वास-प्रस्तुतिः

अपि च-
प्रयत्नैरस्तोकैः परिचितकुतर्कप्रकरणाः
परं वाचो वश्यान् कतिपयपदौघान्विदधतः ॥
सभायां वाचाटाः श्रुतिकटु रटन्तो घटपटान्
न लज्जन्ते मन्दाः स्वयमपि तु जिह्रेति विबुधः ॥ ५५५ ॥
वि॰ – वयस्य विविधोपकारविधायकान्2 नैयायिकान् मावमंस्थाः ॥
श्रृणु तावत्-
मोहं रुणद्धि विमलीकुरुते च बुद्धिं
सूते च संस्कृतपदव्यवहारशक्तिम् ॥
शास्त्रान्तराभ्यसनयोग्यतया3 युनक्ति
तर्कश्रमो न तनुते ? किमिहोपकारम् ॥ ५५६ ॥
तथाहि-
प्रायः काव्यैर्गमितवयसः पाणिनीयाम्बुराशेः
पारज्ञस्याप्यपरिकलितन्यायशास्त्रस्य पुंसः ॥
वादारम्भे वदितुमनसो वाक्यमेकं सभायाम्
प्रह्वा जिह्वा भवति कियतीं पश्य कष्टामवस्थाम् ॥ ५५७ ॥

मूलम्

अपि च-
प्रयत्नैरस्तोकैः परिचितकुतर्कप्रकरणाः
परं वाचो वश्यान् कतिपयपदौघान्विदधतः ॥
सभायां वाचाटाः श्रुतिकटु रटन्तो घटपटान्
न लज्जन्ते मन्दाः स्वयमपि तु जिह्रेति विबुधः ॥ ५५५ ॥
वि॰ – वयस्य विविधोपकारविधायकान्2 नैयायिकान् मावमंस्थाः ॥
श्रृणु तावत्-
मोहं रुणद्धि विमलीकुरुते च बुद्धिं
सूते च संस्कृतपदव्यवहारशक्तिम् ॥
शास्त्रान्तराभ्यसनयोग्यतया3 युनक्ति
तर्कश्रमो न तनुते ? किमिहोपकारम् ॥ ५५६ ॥
तथाहि-
प्रायः काव्यैर्गमितवयसः पाणिनीयाम्बुराशेः
पारज्ञस्याप्यपरिकलितन्यायशास्त्रस्य पुंसः ॥
वादारम्भे वदितुमनसो वाक्यमेकं सभायाम्
प्रह्वा जिह्वा भवति कियतीं पश्य कष्टामवस्थाम् ॥ ५५७ ॥

बाल-कृष्णः

प्रयत्नैरिति । किञ्च अस्तोकैर्बहुभिः प्रयत्नैः श्रमैः परिचितान्यभ्यस्तानि कुत्सितानां तर्काणां प्रकरणानि वादजल्पवितण्डादिपरिपूरितानि यैस्ते परं वाचो वाण्याः वश्यान् स्वाधीनान् असकृत् परिशीलनादित्यर्थः । कतिपयानां त्रिचतुराणां पदानाम् अवच्छिन्नावच्छेदकप्रतियोग्यादिशब्दानाम् ओघान् विदधतः प्रयोजयन्तः सन्तः, अत एव वाचाटाः बहुगर्ह्यवाचः “वाचाटो बहुवाक्” इत्यमरः । सभायां श्रुतिकटु कर्णकटु यथा तथा घटपटान् शब्दान् रटन्तः सन्तः मन्दाः मूढाः एते नैयायिकाः स्वयं न लज्जन्ते, अपि तु विबुधः पण्डितः जिहेति लज्जते ॥ ५५५॥

वयस्येति । विविधाः नानाप्रकाराः ये उपकाराः शास्त्रान्तराभ्यासे बुद्धिवैश- द्यादयस्तेषां विधायकान् सम्पादकान् नैयायिकान् मावमंस्थाः वृथादूषणैस्तेषामपमानं मा कुर्वित्यर्थः ॥ २३८& ॥

मोहमिति । तर्क तर्कशास्त्रे श्रमोऽभ्यासः मोहं बुद्धिभ्रमं रुणद्धि विनाशयति, बुद्धिं च विमलीकुरुते मान्यादिदोषपरिहारपूर्वकं निर्दोषीकरोति, संस्कृतानि प्रौढत्व - परिशुद्धत्वादिसंस्कारयुक्तानि यानि पदानि तेषां व्यवहारे भाषणे शक्तिं सामर्थ्यं सूते जनयति । शास्त्रान्तरस्य व्याकरणाद्यन्यशास्त्रस्य अभ्यसने योग्यतया युनक्ति संयोजयति । ततः इह लोके तदध्येतरि वा तर्कश्रमः उपकारं न तनुते न करोति किम् ? ॥ ५५६ ॥

प्राय इति । काव्यैः काव्यग्रन्थाभ्यासैः गमितं यापितं वयो येन तस्य, जन्मपर्यन्तं काव्याभ्यासशीलस्येत्यर्थः । पाणिनीयस्य पाणिनिमुनिप्रणीतव्याकरणस्य अम्बुराशेः

समुद्रस्य पारज्ञस्यापि आसमाप्तिव्याकरणशास्त्रनिष्णातस्यापीत्यर्थः । अप- रिकलितमनभ्यस्तं न्यायशास्त्रं येन तस्य पुंसः पुरुषस्य सभायां वादस्य पक्षद्वयस्थप- ण्डितानां पूर्वपक्षोत्तरपक्षरूपस्य आरम्भे एकं वाक्यमपि न त्वधिकं वदितुमनसः वक्तुमिच्छोः सतः जिह्वा प्रह्वा नम्रा, वाग्रहितेत्यर्थः । भवति । एतां कष्टां दुःखप्रदां कियतीम् अनिर्वाच्यामिति यावत् । अवस्थां पश्यावलोकय । हे कृशानो, त्वमिति शेषः ॥ ५५७ ॥

विश्वास-प्रस्तुतिः

अपरीक्षितलक्षणप्रमाणैरपरामृष्टपदार्थसार्थतत्त्वैः ॥ अवशीकृतजैत्रयुक्तिजालैरलमेतैरनधीततर्कविद्यैः ॥ ५५८ ॥
किम्बहुना —
निरूप्य–
अद्भुतस्तर्कपाथोधिरगाधो यस्य वर्धकः ॥
अक्षपादोऽतमस्पृष्टस्त्वकलङ्कः कलानिधिः ॥ ५५९ ॥
पुनरालोच्य सश्लाघम्-
ज्ञानाब्धिरक्षचरणः कणभक्षकश्च
श्रीपक्षिलोऽप्युदयनः स च वर्धमानः ॥
गङ्गेश्वरः शशधरो बहवश्च नव्या
ग्रन्थैर्निरुन्धत इमे हृदयान्धकारम् ॥ ५६० ॥

मूलम्

अपरीक्षितलक्षणप्रमाणैरपरामृष्टपदार्थसार्थतत्त्वैः ॥ अवशीकृतजैत्रयुक्तिजालैरलमेतैरनधीततर्कविद्यैः ॥ ५५८ ॥
किम्बहुना —
निरूप्य–
अद्भुतस्तर्कपाथोधिरगाधो यस्य वर्धकः ॥
अक्षपादोऽतमस्पृष्टस्त्वकलङ्कः कलानिधिः ॥ ५५९ ॥
पुनरालोच्य सश्लाघम्-
ज्ञानाब्धिरक्षचरणः कणभक्षकश्च
श्रीपक्षिलोऽप्युदयनः स च वर्धमानः ॥
गङ्गेश्वरः शशधरो बहवश्च नव्या
ग्रन्थैर्निरुन्धत इमे हृदयान्धकारम् ॥ ५६० ॥

बाल-कृष्णः

अपरीक्षितेति । अपरीक्षितानि अनवलोकितानि अनभ्यस्तानीति यावत् । लक्षणानि असाधारणलक्ष्यधर्माः प्रमाणानि प्रत्यक्षानुमानादीनि च यैस्तैः अपरा- मृष्टानि अविचारितानि पदार्थानां द्रव्यगुणादीनां सार्थस्य समूहस्य तत्त्वानि यथा- स्थितस्वरूपाणि यैस्तैः अत एव अवशीकृतानि अस्वाधीनीकृतानि जैत्राणि जयशीलानि युक्तीनां जालानि यैस्तैः एतादृशैः एतैः अनधीता अनभ्यस्ता तर्कविद्या तर्कशास्त्रं यैस्तैः पुरुषैरलं पर्याप्तम् ॥ ५५८ ॥

अद्भुत इति । तर्कः न्यायशास्त्रमेव पाथोधिः समुद्रः अगाधः अतलस्पर्शः अद्भुत आश्चर्यकरश्च । यतो यस्य तर्कपाथोधेः वर्धकः तमसाऽन्धकारेण राहुणा अज्ञानेन च स्पृष्टः कृतस्पर्शः न भवतीयतमस्पृष्टः अक्षाणीन्द्रियाण्येव पादाः किरणा यस्य सः अक्षं नेत्रेन्द्रियं पादे चरणे यस्य सः गौतममुनिश्च अकलङ्कः निष्कलङ्कः निरपवादश्च “कलङ्कोऽङ्कापवादयोः” इत्यमरः । कलानां षोडशभागानां चतुःषष्टि- कलानां विद्यानां च निधिः चन्द्रः अस्ति॥५५९ ॥

ज्ञानाब्धिरिति । ज्ञानानां स्वर्गापवर्गसाधकशास्त्रावबोधानाम् अधिः समुद्रः सर्वज्ञ इत्यर्थः । इदमेव प्रत्येकमभिसम्बन्धनीयम् । अक्षचरणः श्रीगौतममुनिः षोडशपदार्थबोधकन्यायसूत्रकर्ता, कणभक्षकः कणादमुनिः सप्तपदार्थावबोधकसूत्रकर्ता, श्रीपक्षिलः, अपिः समुच्चायकः । उदयनः, स प्रसिद्धः वर्धमानश्च गङ्गेश्वरः तत्त्वचिन्तामणिकारः, शशधरः, बहवो नव्याः पक्षधर मिश्र भवानन्द-जगदीश-गदाधरप्रभृतयश्चाचार्याः ग्रन्थः स्वस्वकृतैः शास्त्रप्रबन्धैः हृदयस्य अन्धकारम् अज्ञानरूपं निरुन्धते निवारयन्ति ॥ ५६० ॥


  1. भ्राम्यन्ति ↩︎ ↩︎

  2. विविधोपाय ↩︎ ↩︎

  3. योग्यतमं व्यनक्ति ↩︎ ↩︎