विश्वास-प्रस्तुतिः
अथ कविवर्णनम्॥
इति विमानमग्रतश्चालयन्नग्रतोऽवलोक्य सोपालम्भम् -
कृ॰ – सखेऽत्र पश्य कवीनामेषां शास्त्रैर्विप्रतिषिद्धां चर्याम् ॥ २३३& ॥
श्रीनाथस्तवनानुरूपकवनां वाणीं मनोहारिणीम्
कष्टं हा कवयः कदर्यकुटिलक्ष्मापालसात्कुर्वते ॥
दूरोपाहृतसौरसैन्धवपयो देवाभिषेकोचितम्
संसेके विनियुञ्जते सुमतयः शाकालवालस्य किम् ? ॥५४२ ॥
किंच-
स्तुवद्भवनिवर्तके सति हरौ कविः सूक्तिभिः
करोति वरवर्णिनीचरितवर्णनं गर्हितम् ॥
अनीतिरवनीपतिर्गृहशुनीतनुं मौक्तिकै-
विभूषयति देवता मुकुटभागयोग्यैर्यथा ॥ ५४३ ॥
मूलम्
अथ कविवर्णनम्॥
इति विमानमग्रतश्चालयन्नग्रतोऽवलोक्य सोपालम्भम् -
कृ॰ – सखेऽत्र पश्य कवीनामेषां शास्त्रैर्विप्रतिषिद्धां चर्याम् ॥ २३३& ॥
श्रीनाथस्तवनानुरूपकवनां वाणीं मनोहारिणीम्
कष्टं हा कवयः कदर्यकुटिलक्ष्मापालसात्कुर्वते ॥
दूरोपाहृतसौरसैन्धवपयो देवाभिषेकोचितम्
संसेके विनियुञ्जते सुमतयः शाकालवालस्य किम् ? ॥५४२ ॥
किंच-
स्तुवद्भवनिवर्तके सति हरौ कविः सूक्तिभिः
करोति वरवर्णिनीचरितवर्णनं गर्हितम् ॥
अनीतिरवनीपतिर्गृहशुनीतनुं मौक्तिकै-
विभूषयति देवता मुकुटभागयोग्यैर्यथा ॥ ५४३ ॥
बाल-कृष्णः
अथ कविवर्णनं सूचयितुमवतारयति - इतीति । सोपालम्भं सनिन्दम् ॥
सख इति । हे सखे विश्वावसो ! अत्रास्मिन् देशे एषां कवीनां शास्त्रैर्विप्रतिषिद्धां निषिद्धां चर्यमाचारं पश्यावलोकय ॥ २३३& ॥
श्रीनाथेति । श्रीनाथस्य भगवतो लक्ष्मीपतेः स्तवने स्तुतौ अनुरूपं योग्यं कवनं शब्दनिवेशनचातुर्य यस्याः सा तां अत एव मनोहारिणीं सहृदयजनचित्ताकर्षिणीं वाणीम् एते कवयः कदर्याः कृपणाः “कदर्ये कृपण क्षुद्र किंपचान - मितंपचाः ।” इत्यमरः । कुटिलाः वक्रान्तःकरणाश्च ये क्ष्मापाला भूपालास्तेषां अधीनां कुर्बते कुर्वन्ति । हा कष्टमिति खेदे । एतदेव दृष्टान्तेन द्रढयति–दूरोपाहतेति । दूरात् शतशो योजन प्रदेशात् उपाहृतमानीतं सुरसिन्धोः गङ्गायाः इदं सौरसैन्धवं यत् पयः उदकं तत् अत एव देवस्य श्रीसेतुबन्धरामेश्वरादेः अभिषेके उचितं योग्यं सुमतयः सुबुद्धयो जनाः शाकस्य शाकवृक्षस्य आलवालं तस्य संसेके निषेचने विनियुञ्जते उपयुञ्जते किम् ? अपि तु नैवेत्यर्थः ॥ ५४२ ॥
स्तुवदिति । स्तुवतां स्तुतिं कुर्वतां जनानां भवनिवर्तके संसारनिवर्तके हरौ विष्णौ सत्यपि कविः सूक्तिभिः मधुरवाणीभिः गर्हितं सद्भिर्निन्द्यं वरवर्णिन्याः स्त्रियाश्चरितस्य वर्णनं नेत्र-वदनाद्यवयवप्रशंसारूपं करोति । किंच कतिपये कवयः प्रत्यक्षं प्रन्थारम्भे मङ्गलादौ श्रीहरि - शिवादिवर्णनप्रसङ्गेऽपि व्रीडावहशृङ्गारादिवर्णनेन निजां वाणीं दूषयन्ति वास्तविकेश्वरसामर्थ्यं निह्नुवते च । यथा भट्टनारायणेन वेणीसंहारनाटके मङ्गलाचरणतृतीयपद्ये ‘उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ -’ इत्यादिना भगवत्या लक्ष्म्याः संभोगोत्थानं वर्णितं, तत्किं भगवत्याः अन्यन्निरवद्यं माननीयं च चरित्रं नासीदेव ? परं तु तदेषां विषयवासनामलिनान्तःकरणानां कवीनां मनः कुतः प्रवेष्टुं शक्नोति ? इत्यलमप्रस्तुतप्रवचनेन । अत्रापि दृष्टान्तमाह- अनीतिः नयशिक्षणरहितः अवनीपती राजा यथा देवतानां मुकुटस्य किरीटस्य भागेषु प्रान्तेषु योग्यैरुचितैः, खचितुमिति शेषः । मौक्तिकैः गृहे पालितायाः शुन्याः तनुं शरीरं विभूषयति । तथैवैतेषां कवीनां कृतिरिति भावः ॥ ५४३ ॥
विश्वास-प्रस्तुतिः
वि॰ - आन्तरध्वान्तहरयः कवयस्त्वया नाधिक्षेप्याः ॥ २३४& ॥
कामं वाचः कतिचिदफलाः सन्तु लोके कवीनाम्
सन्त्येवान्या मधुरिपुकथासंस्तवाः कामदोग्ध्र्यः ॥
वित्तं कामं भवतु विफलं दत्तमश्रोत्रियेभ्यः
पात्रे दत्तैर्भवति हि धनैर्धन्यता भूरिदातुः ॥ ५४४ ॥
कल्याणं भगवत्कथाग्रथनतः काव्यं विधातुः कवे-
स्तस्यैवाङ्गतया क्वचिद्रचयतः शृङ्गार-वीरादिकम् ॥
को दोषो भविता ? यदत्र कविताशीलैः समाश्रीयते
पन्था व्यासवसुन्धराश्रुतिभवग्रन्थादिषु प्रेक्षितः ॥ ५४५ ॥
मूलम्
वि॰ - आन्तरध्वान्तहरयः कवयस्त्वया नाधिक्षेप्याः ॥ २३४& ॥
कामं वाचः कतिचिदफलाः सन्तु लोके कवीनाम्
सन्त्येवान्या मधुरिपुकथासंस्तवाः कामदोग्ध्र्यः ॥
वित्तं कामं भवतु विफलं दत्तमश्रोत्रियेभ्यः
पात्रे दत्तैर्भवति हि धनैर्धन्यता भूरिदातुः ॥ ५४४ ॥
कल्याणं भगवत्कथाग्रथनतः काव्यं विधातुः कवे-
स्तस्यैवाङ्गतया क्वचिद्रचयतः शृङ्गार-वीरादिकम् ॥
को दोषो भविता ? यदत्र कविताशीलैः समाश्रीयते
पन्था व्यासवसुन्धराश्रुतिभवग्रन्थादिषु प्रेक्षितः ॥ ५४५ ॥
बाल-कृष्णः
आन्तरेति । आन्तरस्य मनोगतस्य ध्वान्तस्य अन्धकारस्य अज्ञानरूपस्येत्यर्थः । हरयः सूर्याः तत्सदृशा इत्यर्थः । कवयस्त्वया नाधिक्षेप्या न निन्दनीयाः ॥ २३४& ॥
उक्तमेव स्पष्टयति- काममिति । लोके कवीनां कतिचित् वाचः वाण्यः श्रीवर्णनादिरूपाः कामं अफलाः निष्फलाः सन्तु । नैतादृशः सर्वा अपीत्यर्थः । किंतु अन्याः स्त्री-राजादिवर्णनादितराः मधुरिपोः श्रीकृष्णस्य कथायाः संस्तवः सम्यक्-स्तुतिः यासु ताः अत एव कामदोग्ध्र्यः अभीष्टसद्गत्यादिप्रदात्र्यः वाचः सन्त्येव । अत्रैतादृशो वाचः कालिदासस्य रघुवंश-कुमारसंभवादिकाः, माघस्य शिशुपालवधादिरूपाः, भवभूतेरुत्तररामचरित्रादयश्चोह्याः । अत्रार्थान्तरं न्यस्यति- अश्रोत्रियेभ्यः अवैदिकेभ्यः अर्थात् कुपात्रेभ्यः दत्तं स्वत्वत्यागपूर्वकं परस्वत्वोत्पादनपूर्वकं च समर्पितं वित्तं द्रव्यं कामं विफलं भवतु । किंतु पात्रे सत्पात्रे अग्नि. होत्रादिसंपन्ने दत्तैः समर्पितैः धनैः भूरिदातुः अतिशयदानकर्तुः पुरुषस्य धन्यता पुण्यवत्ता भवति हि एव ॥ ५४४ ॥
’ स्तुवद्भवनिवर्तके –’ इत्यादिनोक्तं स्त्रीवर्णनरूपं दोषमुद्धारयन्नाह - कल्याणमिति । भगवतः श्रीविष्णोः कथानां राम-कृष्णाद्यवतारचरित्राणां ग्रथनतः रचनया कल्याणं निःश्रेयसकरं काव्यं रघुवंश - कुमारसंभव - शिशुपालवध - किरातार्जुनीयादिकं शाकुन्तल - महावीरचरितोत्तररामचरितादिनाटकरूपं च विधातुः कर्तुः कवेः कालिदास-माघ- भारवि भवभूत्यादेः, तस्य काव्यस्यैवाङ्गतया यत्किंचिदंशरूपत्वेन क्वचित् विवाहादिप्रसङ्गे दम्पतीसमागमादिप्रसङ्गे वा, न तु सर्वत्र । यथा रघुवंशे इन्दुमत्याः वर्णनं, कुमारसंभवे भगवत्याः पार्वत्याश्च वर्णनं, सर्वतो वीररसप्रधाने वेणीसंहारनाटके च भानुमत्यादिवर्णनं चेत्यादिकं यथायथमूह्यम् । शृङ्गारः वीरश्च तौ आदी यस्मिन् तदादिकं रसं, आदिशब्दात् करुणाद्भुतादेर्ग्रहणम् । रचयतः को दोषो भविता भविष्यति ? नैवायं संप्रदायः आधुनिककवीनामेव, किंतु प्राचीनानामपीत्याह-यत् यस्मात् अत्र लोके कविताशीलैः काव्यकर्तृभिः व्यासः पाराशरः वसुंधराश्रुतिः पृथिव्याः श्रवणेन्द्रियं लक्षणया वल्मीकं तत्र भवो वाल्मीकिश्च तयोर्ग्रन्थादिषु महाभारत - भागवत - रामायणादिपुराणग्रन्थेषु प्रेक्षितोऽवलोकितः पन्थाः क्वचिदङ्गतया शृङ्गारादिवर्णनरूपः, यथा महाभारते द्रौपद्यादिसमागमवर्णनं, भागवते च श्रीकृष्ण - गोपिकारासक्रीडादिवर्णनं, रामायणे सीतावर्णनादिकं च ज्ञेयम् । समाश्रीयते स्वीक्रियते । न तु स्वकपोलकल्पित इति भावः ॥ ५४५ ॥
विश्वास-प्रस्तुतिः
कृ॰ - नरस्तुतेर्विधातारो न वस्तुत इमे बुधैः ॥
श्लाघनीया इति कवीन् शास्त्राध्वन्यो विनिन्दति ॥ ५४६ ॥
वि॰ - धनचपलसकलपुरुषसाधारणमिदं दूषणमविवेकिभिः कविष्वेव केवलमाधीयते ॥ २३५&॥
यतः-
पद्यैर्हृद्यतमैः स्तुवन्ति कवयः प्रायेण पृथ्वीपती-
नन्ये तान् स्तुवते वचोभिरचमत्कारैरसारैरपि ॥
पद्यारम्भणशक्त्यशक्तिविहितो भेदः कवीनां भव-
त्यन्येषां च परं नरस्तुतिकृतो दोषस्तु सार्वत्रिकः ॥ ५४७ ॥
मूलम्
कृ॰ - नरस्तुतेर्विधातारो न वस्तुत इमे बुधैः ॥
श्लाघनीया इति कवीन् शास्त्राध्वन्यो विनिन्दति ॥ ५४६ ॥
वि॰ - धनचपलसकलपुरुषसाधारणमिदं दूषणमविवेकिभिः कविष्वेव केवलमाधीयते ॥ २३५&॥
यतः-
पद्यैर्हृद्यतमैः स्तुवन्ति कवयः प्रायेण पृथ्वीपती-
नन्ये तान् स्तुवते वचोभिरचमत्कारैरसारैरपि ॥
पद्यारम्भणशक्त्यशक्तिविहितो भेदः कवीनां भव-
त्यन्येषां च परं नरस्तुतिकृतो दोषस्तु सार्वत्रिकः ॥ ५४७ ॥
बाल-कृष्णः
पुनरपि दूषयति- नरेति । नरस्य मनुष्यस्य राजादेः स्तुतेः स्तवस्य विधातारः कर्तारः इमे कवयः, अत एव वस्तुतः तत्त्वतः बुधैः पण्डितैः न श्लाघनीयाः न प्रशंसनीयाः । इति हेतोः कवीन् शास्त्राध्वन्यः शास्त्रपथिकः " अध्वनो यत्खौ " इति सूत्रेण ‘अलं गच्छति’ इत्यर्थे यत् प्रत्ययः । शास्त्रोक्तमार्गेण गन्तेत्यर्थः । विनिन्दति ॥ ५४६ ॥
धनेति । धने द्रव्यसंपादने चपला आसक्ता ये सकलाः सर्वेऽपि पुरुषाः कवयः तदन्ये च तेषां साधारणं समानमिदं नरस्तवनरूपं दूषणं, परं तु अविवेकिभिः अविचारिभिः केवलं कविष्वेव, न त्वन्येषु आधीयते आरोप्यते ॥ २३५& ॥
पद्यैरिति । कवयः हृद्यतमैः अतिमनोहरैः रसालंकारादिपरिपूर्णत्वेनेत्यर्थः । पद्यैः श्लोकैः पृथ्वीपतीन् राज्ञः प्रायेण स्तुवन्ति । प्रायग्रहणात् केचित् पद्यादिरचनप्रयत्नं विनैव स्तुवन्तीति ज्ञेयम् । अन्ये च तान् राज्ञः अचमत्कारैः उपमाद्यलंकाराभावात् आह्लादजननासमर्थैः अत एव असारैरपि वचोभिर्भाषणैः स्तुवते तेषां स्तुतिं कुर्वन्ति । उभयोस्तारतम्यमाह–पद्यानां श्लोकानां आरम्भणे करणे शक्तिः सामर्थ्य अशक्तिरसामर्थ्य च ताभ्यां विहितः कृतः कवीनां अन्येषां च मध्ये भेदः विशेषः अस्ति । परंतु नरस्तुतिकृतो दोषस्तु सर्वत्र कवि - तदितर- धनचपलजनेषु भवतीति सार्वत्रिक एव न तु कवीनामेवायं दोषः प्रत्युत चमत्कारजनितो गुण एव संभवतीति ॥ ५४७ ॥
विश्वास-प्रस्तुतिः
प्राचेतसव्यासपराशराद्याः
प्राञ्चः कवीन्द्रा जगदञ्चितास्ते ॥
गोष्ठी नवीनापि महाकवीनां
पूज्या गुणज्ञैर्भुवनोपकर्त्री ॥५४८ ॥ तथा हि–
माघश्चोरो मयूरो मुररिपुरपरो भारविः सारविद्यः
श्रीहर्षः कालिदासः कविरथ भवभूत्याह्वयो भोजराजः ॥
श्रीदण्डी डिण्डिमाख्यः श्रुतिमुकुटगुरुर्भल्लटो1 भट्टबाणः
ख्याताश्चान्ये सुबन्ध्वादय इह कृतिभिर्विश्वमाह्लादयन्ति ॥ ५४९ ॥
मूलम्
प्राचेतसव्यासपराशराद्याः
प्राञ्चः कवीन्द्रा जगदञ्चितास्ते ॥
गोष्ठी नवीनापि महाकवीनां
पूज्या गुणज्ञैर्भुवनोपकर्त्री ॥५४८ ॥ तथा हि–
माघश्चोरो मयूरो मुररिपुरपरो भारविः सारविद्यः
श्रीहर्षः कालिदासः कविरथ भवभूत्याह्वयो भोजराजः ॥
श्रीदण्डी डिण्डिमाख्यः श्रुतिमुकुटगुरुर्भल्लटो1 भट्टबाणः
ख्याताश्चान्ये सुबन्ध्वादय इह कृतिभिर्विश्वमाह्लादयन्ति ॥ ५४९ ॥
बाल-कृष्णः
,
प्राचेतसेति । प्राचेतसः वाल्मीकिः, व्यासः सत्यवतीसुतः, पराशरश्च ते आयाः प्रथमाः येषु ते प्राञ्चः प्राचीनाः अत एव कवीन्द्राः कविषु श्रेष्ठाः ते प्रसिद्धाः जगति अञ्चिताः पूज्याः, आसन्निति शेषः । तथा तत्पथसमाश्रयणात् नवीना अर्वाचीनापि भुवनोपकर्त्री, विविध सृष्टपदार्थगुणदोषवर्णनेनेति शेषः । महाकवीनां कालिदासादीनां गोष्टी सभा " समज्या परिषद्गोष्ठी सभा - " इत्यमरः । गुणज्ञैः जनैः पूज्या माननीया ॥ ५४८ ॥
‘कवीनां नवीनापि गोष्टी पूज्या’ इत्युक्तं तदन्तर्भूतानेव कांश्चित् प्रसिद्धान् नामतो निर्दिशति - माघ इति । माघः एतन्नामा कविः शिशुपालवधाख्यकाव्यकर्ता, चोरः एतन्नामा कविः, अस्यैव विल्हण इति नामान्तरं श्रूयते । एतद्विषये अत्रत्यमुद्रितपुस्तके टिप्पण्यामेवं वृत्तान्त उपलभ्यते — ‘चोरपञ्चाशिकाभिधमेकं काव्यमनेन कविना राजाज्ञैकविधेयराजपुरुष करिष्यमाणशूलारोपणप्राक्कालिकतद्वञ्चनलब्धावसरे कालचौरत्वापदेशेन निमित्तेन विरचितम्’ इति । मयूरः, मुररिपुर्मुरारिनामा कविः अनर्घराघवनाटककर्ता, अपरः एभ्यः अन्यः यः सारवित् काव्यनिर्माणसामग्रीभूतसाहित्यालंकारादितत्त्वज्ञः भारविनामा किरातार्जुनीयादिकाव्यनि- र्माता, श्रीहर्षः वत्सराजचरितादिकर्ता, कालिदासः कविकुलगुरुत्वेन प्रसिद्धः रघुवंशकुमारसंभव मेघदूतादिकाव्यानां, अभिज्ञानशाकुन्तलविक्रमोर्वशीयादिनाटकानां च निर्माता, अत एवायं प्रथमं ग्रथितुं योग्यः कविमालिकायां परं छन्दोऽनुरोधान्न तथा कृतमिति बोध्यम् । अथ भवभूतिरिति आह्वयो नाम यस्य सः कविः मालती- माधव-उत्तररामचरितादिनाटककर्ता, भोजराजः प्रसिद्धः, श्रीदण्डी दशकुमारचरितादिकर्ता डिण्डिमाख्यः, श्रुतिमुकुटगुरुर्वेदान्ताचार्यः, भल्लटः, भट्टबाणः, कादम्बर्यादिग्रन्थकर्ता च, अन्ये उक्तेभ्य इतरे सुबन्ध्वादयः कवयः, आदिशब्देन जयदेवादिग्रहणम् । ख्याताः प्रसिद्धाः सन्ति । ते कृतिभिः उपरिनिर्दिष्टस्वविरचितकाव्य-नाटकादिग्रन्थैः इह लोके विश्वं आह्लादयन्ति आनन्दयन्ति ॥ ५४९ ॥
विश्वास-प्रस्तुतिः
परं तु —
संपन्निर्मदभावयोरनघयोः साहित्यपाण्डित्ययोः
सामर्थ्यान्यजनोपकारकतयोः साम्राज्यदाक्षिण्ययोः ॥
औदार्यप्रियवादयोश्च कथयन्त्याचार-विज्ञानयोः
सामानाधिकरण्यमेव विबुधोत्तंसप्रशंसास्पदम् ॥ ५५० ॥
इदं चावधेयम्-
प्रणतचरणरेणुविष्णुचित्तः शठमथनरसो मुनिः स भूतः ॥
मधुरकविरितोपरे च धन्याः कति न पुनन्ति जगन्ति सूक्तिपूरैः ॥ ५५१ ॥
मूलम्
परं तु —
संपन्निर्मदभावयोरनघयोः साहित्यपाण्डित्ययोः
सामर्थ्यान्यजनोपकारकतयोः साम्राज्यदाक्षिण्ययोः ॥
औदार्यप्रियवादयोश्च कथयन्त्याचार-विज्ञानयोः
सामानाधिकरण्यमेव विबुधोत्तंसप्रशंसास्पदम् ॥ ५५० ॥
इदं चावधेयम्-
प्रणतचरणरेणुविष्णुचित्तः शठमथनरसो मुनिः स भूतः ॥
मधुरकविरितोपरे च धन्याः कति न पुनन्ति जगन्ति सूक्तिपूरैः ॥ ५५१ ॥
बाल-कृष्णः
को वैतेषां कृतिभिर्जनानां लाभः इत्यपेक्षायामाह — परं त्विति । तुर्विरोधसूचकः । तेन तत्कृतिषु वक्ष्यमाणप्रकारेण वर्णनमपेक्षितमिति तदर्थः ।
संपदिति । अनघयोर्निर्दोषयोः, एतत्प्रतिषष्ठ्यन्तं योजनीयम् । संपदः भावः लक्ष्म्याः सत्ता निर्मदस्य अहंकारराहित्यस्य भावश्च तयोः, भावशब्दस्य द्वन्द्वान्ते श्रूयमाणत्वात् प्रत्येकं संबन्धः । साहित्यं काव्यालंकारादिज्ञानं, पाण्डित्यं तर्कादिशास्त्रेषु प्रावीण्यं तयोः, सामर्थ्य परपराभवशक्तत्वं अन्यजनेषु उपकारकता च तयोः, साम्राज्यं सार्वभौमत्वं दाक्षिण्यं सरलत्वं च तयोः, औदार्य दातृत्वं प्रियवादः प्रियभाषणं च तयोः, आचारः शास्त्रोक्ताचरणं विज्ञानं शास्त्रज्ञानं च तयोश्च सामानाधिकरण्यमेकत्र स्थितिमेव विबुधोत्तंसानां ज्ञानिश्रेष्ठानां प्रशंसायाः स्तुतेः आस्पदं स्थानं कथयन्ति । जना इति शेषः ॥ ५५० ॥
प्रणतेति । प्रणताः प्रकर्षेण नमस्कृताः अर्थाद्भक्तैः चरणरेणवः पादपांसवो यस्य सः तथाभूतः स चासौ विष्णुश्च भगवान् तस्मिन् चित्तं यस्य सः सततं विष्णुध्यानतत्पर इत्यर्थः । शठानां कपटवादिनां मथने पराजये रस उल्लासो यस्य सः, सः प्रसिद्धः मुनिः मधुरकविः श्रीशठकोपमुनिरित्यर्थः । तस्यैवेदं नामान्तरमिति भाति । भूतः जातः । इतः श्रीशठकोपमुनेः अपरे अन्ये तत्तद्देशभाषायां काव्यनिर्मातारः ज्ञानेश्वर - एकनाथ -तुलसीदास श्रीधर - नामदेव-तुकाराम - वामनादयः धन्याः पुण्यवन्तः सन्तः सूक्तीनां मधुरभाषणानां अर्थात् भावार्थदीपिकादिरूपाणां पूरैः प्रवाहैः कति जगन्ति लोकान् न पुनन्ति ? अपि तु बहव एतादृशः सन्तीत्यर्थः ॥५५१॥