विश्वास-प्रस्तुतिः
अथ भिषग्वर्णनम्॥
कृ॰ - अस्त्वेवम् । इत्यन्यतो वीक्ष्य सोपहासम् –
मिथ्यौषधैर्हन्त ! मृषाकषायै
रसह्यलेह्यैरयथार्थतैलैः ॥
वैद्या इमे वञ्चितरुग्ण वर्गाः
पिचण्डभाण्डं परिपूरयन्ति ॥ ५३६ ॥
किञ्च-
न धातोर्विज्ञानं न च परिचयो वैद्यकनये
न रोगाणां तत्त्वावगतिरपि नो वस्तुगुणधीः ॥
तथाप्येते वैद्या इति तरलयन्तो जडजना-
नसून्भृत्या मृत्योरिव वसु हरन्ते ! गदजुषाम् ॥ ५३७ ॥
मूलम्
अथ भिषग्वर्णनम्॥
कृ॰ - अस्त्वेवम् । इत्यन्यतो वीक्ष्य सोपहासम् –
मिथ्यौषधैर्हन्त ! मृषाकषायै
रसह्यलेह्यैरयथार्थतैलैः ॥
वैद्या इमे वञ्चितरुग्ण वर्गाः
पिचण्डभाण्डं परिपूरयन्ति ॥ ५३६ ॥
किञ्च-
न धातोर्विज्ञानं न च परिचयो वैद्यकनये
न रोगाणां तत्त्वावगतिरपि नो वस्तुगुणधीः ॥
तथाप्येते वैद्या इति तरलयन्तो जडजना-
नसून्भृत्या मृत्योरिव वसु हरन्ते ! गदजुषाम् ॥ ५३७ ॥
बाल-कृष्णः
विदैवज्ञमिति । सुष्ठु विचारसम्पन्ना बुद्धिर्यस्य सः सुबुद्धिः पुरुषः विदैवज्ञ ज्यौतिषिकरहितं ग्रामं, विबुधविधुरं पण्डितशून्यं भूपतिसमं राज्ञः सभां क्वचित् ‘विबुधविधुरां भूपतिसभां’ इति पाठान्तरं दृश्यते । तत्तु न युक्तं, “सभा राजाऽमनुष्यपूर्वा” इति राजपर्यायपूर्वसभान्ततत्पुरुषस्य नपुंसकत्वविधानात् । श्रुत्या वेदेन हीनं रहितं मुखं, मनुजपतिना राज्ञा शून्यं च विषयं देशं, अनाचारान् सतीत्वाचाररहितान् व्यभिचारसम्पन्नानित्यर्थः । दारान् स्त्रियं चापि, अपगता हरिकथा यस्मात् तत् हरिगुणानुवर्णनरहितमित्यर्थः । काव्यं च प्रकर्षेण यद्वक्तृत्वं यथार्थोप- देशरूपं तस्मादपेतं निवृत्तं गुरुमध्यापकं च परिहरेत् त्यजेत् ॥ ५३५ ॥
,
मिथ्येति । इमे वैद्याः मिथ्यौषधैः रोगादिसम्यक्परीक्षामन्तरा प्रयुक्तैरसत्यौषधैः, मृषाकषायैः पूर्ववदेव वृथाप्रयुक्तैः असहयैः सोढुमशक्यैलेह्यैः अयथाथैः विरुद्ध रोगप्रयुक्ततया अयोग्यैस्तैलैश्च वञ्चितः रुग्णानां रोगिजनानां वर्गः समुदायो यैस्तथाभूताः सन्तः, पिचण्डमुदरं भाण्डमिव परिपूरयन्ति पूर्णं कुर्वन्ति ॥ ५३६ ॥
नेति । एषां वैद्यानां धातोः पारद-ताम्रादेः विज्ञानं विशेषतः शुद्धिकरणादिज्ञानं न, वैद्यकनये वैद्यकशास्त्रे चरक-सुश्रुतादिग्रन्थे परिचयोऽभ्यासः न, रोगाणां ज्वरा दीनां तत्त्वतः अवगतिर्ज्ञानं चापि न, वस्तूनाम् औषधीनां गुणाः शैत्यौष्ण्यादयः तेषां धीर्ज्ञानं नो नास्ति । तथापि औषध-रोगादिज्ञानाभावे सत्यपि वैद्या वयम् इति कथयित्वा जडजनान् मूर्खलोकान् तरलयन्तो मोहयन्तः सन्तः मृत्योर्यमस्य भृत्याः दूता इवेत्युत्प्रेक्षा । गदजुषां रोगिणां वसु द्रव्यं, असून प्राणांश्चापि हरन्ते अपहरन्ति ॥ ५३७ ॥
विश्वास-प्रस्तुतिः
अपि च-
कषायैरुपवासैश्च नृणामुल्लाघतां कृताम् ॥
निजौषधकृतां वैद्यो निवेद्य हरते धनम् ॥ ५३८ ॥
वि॰ - वयस्य ! विश्वोपकारिषु वैद्येषु अवद्यानि न कलयेथाः॥२३१1
&॥
पश्य
मस्ते दुःसहवेदनाकवलिते2 मर्मे खरेऽन्तर्गलं
तप्तायां ज्वरपावकेन च तनौ तान्ते3 हृषीकव्रजे ॥
दूने बन्धुजने कृतप्रलपने धैर्य विधातुं पुनः
कः शक्तः कलितामयप्रशमनाद्वैद्यात्परो विद्यते ? ॥ ५३९॥
कषायैरिति । कषायैः त्रिकटु-त्रिफलादिसाररूपैः उपवासैर्लङ्घनैश्वापि नृणां मनुष्याणाम् उल्लाघतां नीरोगतां “अनुपसर्गात्फुल्ल-क्षीब-शोलाघाः” इति निपात• नात्साधुः । “उल्लाघो निर्गतो गदात्” इत्यमरः । कृतां सम्पादितां वैद्यः निजैः स्वकीयैः औषधैः कृतां सम्पादितां निवेद्य कथयित्वा धनं हरते । रोगिजनाना- मिति शेषः ॥ ५३८ ॥
वयस्येति । हे वयस्य ! विश्वोपकारिषु सर्वजनोपकारकर्तृषु, सदौषधप्रयोगा- दिभिरिति भावः । वैद्येषु अवद्यानि दूषणानि न कलयेथाः दूषणानां वृथारोप मा कुर्वित्यर्थः ॥ २३१& ॥
मूलम्
अपि च-
कषायैरुपवासैश्च नृणामुल्लाघतां कृताम् ॥
निजौषधकृतां वैद्यो निवेद्य हरते धनम् ॥ ५३८ ॥
वि॰ - वयस्य ! विश्वोपकारिषु वैद्येषु अवद्यानि न कलयेथाः॥२३१1
&॥
पश्य
मस्ते दुःसहवेदनाकवलिते2 मर्मे खरेऽन्तर्गलं
तप्तायां ज्वरपावकेन च तनौ तान्ते3 हृषीकव्रजे ॥
दूने बन्धुजने कृतप्रलपने धैर्य विधातुं पुनः
कः शक्तः कलितामयप्रशमनाद्वैद्यात्परो विद्यते ? ॥ ५३९॥
बाल-कृष्णः
विश्वोपकारित्वमेवाह-मस्ते इति । रोगिण इति शेषः । मस्ते शिरसि दुःसहा सोढुमशक्या या वेदना रोगोत्पन्नं दुःखं तथा कवलिते प्रस्ते सति, खरे शब्दे च अन्तर्गलं कण्ठमध्ये एव मने लीने सति स्फुटतया कण्ठाद्वहिरप्रकटे सं- तीत्यर्थः । तनौ देहे च ज्वरो रोगविशेषः स एव पावकोऽग्निस्तेन तप्तायां सत्यां तत एव हृषीकाणां चक्षुरादीन्द्रियाणां व्रजे समुदाये तान्ते निम्नगतत्वेन सम्य- ग्दर्शनाद्यक्षमे सम्पन्ने च सति बन्धूनां मातृ-पितृ-भ्रातृ-पुत्रादिखजनानां जने समुदाये दूने दुःखिते च सति अत एव कृतं प्रलपनं शोको येन तथाभूते च सति पुनः धैर्य विधातुमुत्पादयितुं कलितं सम्पादितमामयानां रोगाणां प्रशमनं शान्तिर्येन तस्माद् वैद्यात् परोऽन्यः पुरुषः कः शक्तः समर्थः विद्यते ? अपि तु कोऽपि नास्तीत्यर्थः ॥ ५३९ ॥
विश्वास-प्रस्तुतिः
मा बोधि वैद्यकमथापि4 महामयेषु
प्राप्तेषु यो भिषगिति प्रथितस्तमेव ॥
आकारयत्यखिल एव विशेषदर्शी
लोकोऽपि तेन भिषगेष न दूषणीयः ॥ ५४० ॥
कष्टमहो कृतोपकारेष्वगदङ्कारेषु कृतघ्न एव निर्विवेको लोकः । इत्थं हि कवयः कथयन्ति ॥ २३२& ॥
निर्वृत्ताध्वरकृत्य ऋत्विजमथोत्तीर्णापगो नाविकं
युद्धान्ते5 सुभटं च सिद्धविजयो वोढारमाप्तस्थलः ॥
वृद्धं वारवधूजनं च कितवो6 निर्धृष्टतद्यौवनो7
ध्वस्तातङ्कचयश्चिकित्सकमपि द्वेष्टि प्रदेयार्थिनम् ॥ ५४१ ॥
मूलम्
मा बोधि वैद्यकमथापि4 महामयेषु
प्राप्तेषु यो भिषगिति प्रथितस्तमेव ॥
आकारयत्यखिल एव विशेषदर्शी
लोकोऽपि तेन भिषगेष न दूषणीयः ॥ ५४० ॥
कष्टमहो कृतोपकारेष्वगदङ्कारेषु कृतघ्न एव निर्विवेको लोकः । इत्थं हि कवयः कथयन्ति ॥ २३२& ॥
निर्वृत्ताध्वरकृत्य ऋत्विजमथोत्तीर्णापगो नाविकं
युद्धान्ते5 सुभटं च सिद्धविजयो वोढारमाप्तस्थलः ॥
वृद्धं वारवधूजनं च कितवो6 निर्धृष्टतद्यौवनो7
ध्वस्तातङ्कचयश्चिकित्सकमपि द्वेष्टि प्रदेयार्थिनम् ॥ ५४१ ॥
बाल-कृष्णः
‘न धातोर्विज्ञानं नच परिचयो वैद्यकनये’ इत्यादिनोक्तं दूषणं परिहर्तुमाह- मा बोधीति । अयं वैद्यः वैद्यक शास्त्रं मा बोधि मा ज्ञासीत् ‘बुध अवगमने’ इत्यस्मान् माङ्योगालुङि अडागमाभावः " दीप- जन- बुध - " इत्यादिना विकल्पेन चिण् । तथापि आमयेषु रोगेषु प्राप्तेषु सत्सु विशेषदर्शी समयविशेषेण कार्याकार्य- द्रष्टा अखिल एव सर्वोऽपि जनः भिषक् वैद्यः इति यो लोके प्रथितः प्रसिद्धः तमेव आकारयति आह्वयति । तेन कारणेन एष भिषक् वैद्यः न दूषणीयः । अयं भावः - वैद्यक्रिया हि न तावत्सर्वकालमेव ग्रन्थज्ञानमवलम्ब्य भवति, किन्तु विशेषतः अनुभवज्ञानमवलम्बते । ततश्च यदि केषाञ्चिद् गुरुपरम्परया रोगपरी- क्षणं तत्परिहर्त्रीषधविज्ञानं च स्यात्, तदा न ग्रन्थावगतिरावश्यकी, तत एव च तादृशां दोषारोपोऽपि वृथैवेति ॥ ५४० ॥
कष्टमिति । कृतोपकारेष्वप्यगदङ्कारेषु वैद्येषु विषये " अगदङ्कारो भिषग्वैद्यौ चिकित्सके" इत्यमरः । निर्विवेकः विचाररहितः अत एव कृतम् औषधादिना सम्पादितमारोग्यं हन्तीति कृतघ्नः लोकः, इति अहो कष्टमन्याय्यम् ॥ २३२& ॥
उक्तार्थे वृद्धसम्मतिमाह - निर्वृत्तेति । निर्वृत्तं समाप्तम् अध्वरकृत्यं यज्ञकृत्यं यस्य सः जनः, प्रदेयं दक्षिणादिद्रव्यं पूर्व प्रतिज्ञातम् अर्थते याचते इति प्रदेयार्थी तं, एतदेव विशेषणं प्रतिद्वितीयान्तं योजनीयं द्वेष्टीति क्रियापदं च । ऋत्विजं यज्ञ- कर्तारं द्वेष्टि, उत्तीर्णा लङ्घिता आपगा नदी येन सः नाविकं कर्णधारं, सिद्धः विजयः शत्रोरुत्कर्षप्राप्तिर्यस्य सः, युद्धान्ते समरावसाने सुभटं वीरपुरुषं, आप्तं प्राप्तं स्थलं गन्तव्यस्थानं येन सः वोढारं वाहकं, निर्धृष्टम् असकृदुपभोगेन विनाशितं तस्य वारस्त्रीजनस्य यौवनं तारुण्यं येन सः कितवो धूर्तः अत एव वृद्धं वारवधूनां वेश्यानां जनं समूहं च ध्वस्तो विनष्टः आतङ्कानां रोगाणां चयः समुदायो यस्य सः चिकित्सकं वैद्यं चापि द्वेष्टि ॥ ५४१ ॥