विश्वास-प्रस्तुतिः
अथ ज्योतिषिकवर्णनम्॥
इत्यन्यतो वीक्ष्य साशङ्कम् -
क इमे पुस्तकहस्ताः कल्य एवोत्थाय तत इतः पर्यटन्ति ! ॥ २२५& ॥
मूलम्
अथ ज्योतिषिकवर्णनम्॥
इत्यन्यतो वीक्ष्य साशङ्कम् -
क इमे पुस्तकहस्ताः कल्य एवोत्थाय तत इतः पर्यटन्ति ! ॥ २२५& ॥
बाल-कृष्णः
दीर्घेति । दीर्घाणि आयतानि वक्राणि कुटिलानि च नखानि यस्मिन् तद् बाहुयुगं भुजद्वयं, ते पाषण्डाः उद्धरन्तः उत्क्षिपन्त इव सन्तः, अत एव खरकल्पाः गर्दभतुल्याः शौचमप्याचरितुम् असमर्थाः, नीचा हीना बुद्धिर्निश्चयो यस्मिन् तादृशं हृदयमन्तःकरणं येषां तथोक्ताः सन्तः विहरन्ति इतस्ततः क्रीडन्ति ॥ ५२६ ॥
सख इति । गुणग्राहिणा “गुण-दोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः । शिरसा श्लाघते पूर्व परं कण्ठे नियच्छति ।" इति न्यायेन दोषसत्त्वेऽपि गुणमात्रस्वीकारपरेण पुरुषेण एते पाषण्डा अपि अपिना दोषबाहुल्यं द्योत्यते । न दूषणीयाः ॥ २२४& ॥
शीतोष्णेति । शीतं वर्ष- वातादि च उष्णम् आतपादि च तयोः जृम्भणम् अति- शयत्वं सहन्तीति तत्सहास्तेषु, अत एव जितेन्द्रियेषु कष्टाः दुःखप्रदा ये उपवासाः प्रदोष - शिवरात्र्यादिष्वनशनव्रतरूपास्तैः परिशुष्कं कृशीभूतं कलेवरं शरीरं येषां तथाभूतेषु पुण्यस्थलेषु वाराणसी - गोकर्ण- रामेश्वरादिक्षेत्रेषु अटनेन यात्रार्थं भ्रमणेन पराकृतं निरस्तं किल्बिषं पापं यैस्तेषु अमीषु जटिलेषु कानपि वक्तुमशक्यान् गुणान् जानीहि अवगच्छ । नहि तावदेतत्कष्टोपवासादि गृहिभिर्विषयिजनैश्च कर्तुं शक्यं तस्मादेते पूज्या एवेति भावः ॥ ५२७ ॥
क इति । इमे पुस्तकं पश्चाङ्गादिकं हस्ते येषां ते जनाः कल्ये प्रातः काले एवोत्थाय तत इतः गेहाद्गेहं पर्यटन्ति, भ्रमन्ति, ते के ? ॥ २२५& ॥
विश्वास-प्रस्तुतिः
कृ॰ - निपुणमवलोक्य सपरिहासम्-
ज्योतिःशास्त्रमहोदधौ बहुतरोत्सर्गापवादात्मभिः
कल्लोलैर्निबिडे कणान् कतिपयान् लब्ध्वा कृतार्था इव ॥
दीर्घायुः सुत-सम्पदादिकथनैर्दैवज्ञपाशा इमे
गेहङ्गेहमनुप्रविश्य धनिनां मोहं मुहुः कुर्वते ॥ ५२८ ॥
किञ्च-
विलिखति सदसद्वा जन्मपत्रं जनानाम्
फलति यदि तदानीं दर्शयत्यात्मदाक्ष्यम् ॥
न फलति यदि लग्नं1 द्रष्टुरेवाह मोहं
हरति धनमिहैवं हन्त ! दैवज्ञपाशः ॥ ५२९ ॥
मूलम्
कृ॰ - निपुणमवलोक्य सपरिहासम्-
ज्योतिःशास्त्रमहोदधौ बहुतरोत्सर्गापवादात्मभिः
कल्लोलैर्निबिडे कणान् कतिपयान् लब्ध्वा कृतार्था इव ॥
दीर्घायुः सुत-सम्पदादिकथनैर्दैवज्ञपाशा इमे
गेहङ्गेहमनुप्रविश्य धनिनां मोहं मुहुः कुर्वते ॥ ५२८ ॥
किञ्च-
विलिखति सदसद्वा जन्मपत्रं जनानाम्
फलति यदि तदानीं दर्शयत्यात्मदाक्ष्यम् ॥
न फलति यदि लग्नं1 द्रष्टुरेवाह मोहं
हरति धनमिहैवं हन्त ! दैवज्ञपाशः ॥ ५२९ ॥
बाल-कृष्णः
ज्योतिरिति । बहुतराः अतिबहुलाः उत्सर्गाः सामान्यवचनानि अपवादाः विशेषवचनानि च आत्मा स्वरूपं येषां तथाभूतैः, अतिशयोत्सर्गापवादवचनरूपैरित्यर्थः । कल्लोलैस्तरङ्गैः निबिडे परिपूर्ण ज्योतिःशास्त्रं प्राणिनां ग्रहाद्यानुकूल्य प्रातिकूल्यज्ञापनद्वारा शुभाशुभफलप्रतिपादकं ग्रहनक्षत्रस्वरूपगत्यादिज्ञापकं च शास्त्रं स एव महोदधिः समुद्रस्तस्मिन् कतिपयान् अत्यल्पान् द्वि-त्रान् कणान् लेशान् लब्ध्वा प्राप्य, अतिविशालज्योतिःशास्त्रस्य यत्किञ्चिदंशमधीत्येति यावत् । कृतार्थाः कृतकृत्या इव वर्तमानाः इमे कुत्सिता दैवज्ञाः ज्यौतिषिकाः दैवज्ञपाशाः, याप्ये पाशप् । गेहं गेहं प्रतिगृहम् अनुप्रविश्य दीर्घायुः सुत-सम्पदादिकथनैः कस्यचिद् दीर्घायुष्य- कथनेन, कस्यचित्सुतार्थिनः ‘तव सद्गुणसम्पन्नः पुत्रः स्यात्” कस्यचिद्दरिद्रस्य त्वम् ‘अग्रे बहुतरद्रव्यसम्पन्नो भविष्यसि’ इत्यादि कथनमूह्यम् । धनिनां द्रव्यवतां मुहुर्वारंवारं मोहं कुर्वते । इमे भविष्यच्छुभकथनेनातीव विद्वांस इति भ्रान्तिमुत्पादयन्तीत्यर्थः ॥ ५२८ ॥
विलिखतीति । किञ्च अयं दैवज्ञपाशः ज्योतिषिकाधमः जनानां सद् यथार्थफलज्ञापकम् असद् अयथार्थफलं वा कथमपि जन्मपत्रं विलिखति । तच्चाग्रे यदि कदाचिद्दैववशतः फलति स्वलेखनानुरूपफलप्राप्तिर्भवति चेत्, तदा आत्मनः दाक्ष्यं भविष्यत्फलकथनचातुर्ये दर्शयति । यदि च लग्नं न फलति तदा द्रष्टुर्जन्मकाली लग्नादिकं पश्यत एव मोहम् अज्ञानम् आह कथयति । अस्य जन्मकालीन लग्नादि सम्यङ्न ज्ञातं भवद्भिस्तस्माद्भवतामेवायं दोषो न ममेति वदतीत्यर्थः । एवम् इह लोके धनिनामिति शेषः । धनं हरति । हन्तेति खेदे ॥ ५२९ ॥
विश्वास-प्रस्तुतिः
अपि च-
प्रमोदे2 खेदे वाऽप्युपनमति पुंसो विधिवशा -
न्मयैवं3 प्रागेवाभिहितमिति मिथ्या कथयति ॥
जनानिष्टानिष्टाकलनपरिहारैकनिरता-4
नसौ मेषादीनां परिगणनयैव भ्रमयति ॥ ५३० ॥
अस्तु वा तथ्यवादी दैवज्ञस्तथापि वृथा तद्वचः श्रवणम् ॥ २२६ ॥
तथाहि-
असुखमथ सुखं वा कर्मणां पक्तिवेला-
वहह ! नियतमेते भुञ्जते देहभाजः ॥
तदिह पुरत एव प्राह मौहूर्तिकश्चेत्
कथय फलममीषामन्ततः किं ततः स्यात् ? ॥ ५३१ ॥
मूलम्
अपि च-
प्रमोदे2 खेदे वाऽप्युपनमति पुंसो विधिवशा -
न्मयैवं3 प्रागेवाभिहितमिति मिथ्या कथयति ॥
जनानिष्टानिष्टाकलनपरिहारैकनिरता-4
नसौ मेषादीनां परिगणनयैव भ्रमयति ॥ ५३० ॥
अस्तु वा तथ्यवादी दैवज्ञस्तथापि वृथा तद्वचः श्रवणम् ॥ २२६ ॥
तथाहि-
असुखमथ सुखं वा कर्मणां पक्तिवेला-
वहह ! नियतमेते भुञ्जते देहभाजः ॥
तदिह पुरत एव प्राह मौहूर्तिकश्चेत्
कथय फलममीषामन्ततः किं ततः स्यात् ? ॥ ५३१ ॥
बाल-कृष्णः
प्रमोद इति । पुंसो जनस्य विधिवशाद्दैववशादेव न तु स्वकथनेन, प्रमोदे आनन्दे वाऽथवा खेदे दुःखे उपनमति प्राप्नुवति सति, इदं सुखं दुःखं वा मया प्रागेव प्राप्तकालात् पूर्वमेव अभिहितं कथितम् इत्येवं मिथ्या असत्यं कथयति । इष्टं सुखादि अनिष्टं दुःखादि च तयोः आकलनं स्वीकारः परिहारः निवारणं च तयोः एकं मुख्यं यथा स्यात् तथा निरतानासक्तान्, सुखस्याङ्गीकारे दुःखस्य परिहारे च तत्परानिति यथायथमूह्यम् । जनान् असौ ज्यौतिषिकः मेषादीनां राशीनां परिगणनया सङ्ख्यानेनैव भ्रमयति विमोहयति । ‘तव जन्मराशेः सकाशाद्द्रव्यादेर्ग्रहस्येष्टफलप्रतिपादके एकादशादिस्थाने प्रवेशात् सुखोत्पत्तिः, जन्म-चतुर्थादिस्थानप्रवेशाच्चानिष्टफलप्राप्तिः’ इत्यादिकथनेन भ्रमयतीत्यर्थः ॥ ५३० ॥
अस्त्विति । किञ्च दैवज्ञः तथ्यवादी सत्यवक्ता, वाऽप्यर्थकः । अस्तु तथापि । तस्य वचसो भाषणस्य श्रवणं वृथा निष्फलमेव ॥ २२६& ॥
वृथात्वमेवाह – असुखमिति । एते दृश्यमाना देहभाजः प्राणिनः कर्मणां पूर्वजन्मकृतानां पक्तिवेलासु फलनिष्पत्तिकालेषु असुखं दुःखम् अथवा सुखं च नियतं नियमेनैव भुञ्जते । अहहेत्याश्चर्ये । तदेव सुखं दुःखं वा मौहूर्तिको ज्यौतिषिकः इह पुरतः तत्प्राप्तेः प्रागेव प्राह कथयति चेत्, ततः अग्रिमसुख-दुःखादि- कथनाद् अमीषां देहभाजां फलम् अन्ततः पर्यवसाने किं स्यात् ? कथय । प्राणिनामिष्टानिष्टप्राप्तिः स्वस्वकर्मानुसारेणैव भविष्यति ज्यौतिषिकादिकथनेन किमप्यन्यथा न भवेदित्यर्थः ॥ ५३१ ॥
विश्वास-प्रस्तुतिः
वि॰ - ऐहिकामुष्मिक5 कर्मारम्भोपयोगिनो नोपालम्भमर्हन्ति ज्यो-
तिर्विदः ॥ २२७ ॥
शृणु तावत्—–
न दैवं न पित्र्यं च कर्मात्र सिध्ये-
न्न यत्रास्ति देशे ननु ज्योतिषज्ञः ।
न तारा न चारा नवानां ग्रहाणां
न तिथ्यादयो वा यतस्तत्र6 बुद्धाः ॥ ५३२ ॥
यच्च समर्थितं मौहूर्तिकवचननिशमनं7 मुधेति तन्निपुणनिरूपणा न भणन्ति8 ॥ २२८ ॥
मूलम्
वि॰ - ऐहिकामुष्मिक5 कर्मारम्भोपयोगिनो नोपालम्भमर्हन्ति ज्यो-
तिर्विदः ॥ २२७ ॥
शृणु तावत्—–
न दैवं न पित्र्यं च कर्मात्र सिध्ये-
न्न यत्रास्ति देशे ननु ज्योतिषज्ञः ।
न तारा न चारा नवानां ग्रहाणां
न तिथ्यादयो वा यतस्तत्र6 बुद्धाः ॥ ५३२ ॥
यच्च समर्थितं मौहूर्तिकवचननिशमनं7 मुधेति तन्निपुणनिरूपणा न भणन्ति8 ॥ २२८ ॥
बाल-कृष्णः
ऐहिकेति । इहलोके भवान्यैहिकानि अमुष्मिन् परलोके भवान्यामुष्मिकाणि च यानि कर्माणि तेषामारम्भे उपयोगिनः भविष्यदिष्टानिष्टकथनेनेति भावः । ज्योतिर्विदः ज्योतिःशास्त्रवेत्तारः उपालम्भं निन्दां नार्हन्ति निन्दितुं न योग्या भवन्ति ॥ २२७&॥
ज्योतिर्विदां सर्वाण्यपि दूषणानि परिहरन् प्रथमं तावत्तेषामुपयोगमाह - नेति । ननु इति आमन्त्रणे । हे कृशानो इत्यर्थः । यत्र यस्मिन् देशे ज्योतिषं ग्रहनक्षत्रादीनां स्वरूप गत्यादिज्ञापकं शास्त्रं जानातीति तज्ज्ञः नास्ति न विद्यते, अत्रास्मिन् ज्योतिर्विदभाववति देशे दैवं देवसम्बन्धि कर्म पूजादिकम् एकादश्युपवासादिकं च सम्यक् तिथ्यादिज्ञानाभावान् न सिध्येत्, तथा पित्र्यं पित्रुद्देशेन कर्तव्यं श्राद्धादिकं चापि न सिध्येत् । अत्रापि पूर्वोक्त एव हेतुर्ज्ञेयः । किञ्च ताराः नक्षत्राणि न सिध्येयुः तेषां स्वरूपज्ञानाभावादित्यर्थः । तथा नवानां नवसङ्ख्याकानां ग्रहाणां रव्यादीनां चारा मेषादिराशिप्रवेशाश्च न सिध्येयुः, तिथ्यादयः प्रतिपदादितिथयः आदिशब्देन योग-करणादीनां सङ्ग्रहः । न सिध्येयुः । वाऽप्यर्थकः । यतः कारणात् तत्र दैव पित्र्यादिकर्मसु ज्योतिर्विद इति शेषः । बुद्धाः ज्ञानवन्तः सन्ति । तस्मात् तेषामभावात् कापि दैव-पित्र्यादिकर्मोपयोगि कालज्ञानं नोत्पद्येतेत्यर्थः । क्वचित् ‘यतोऽत्रैष बुद्धः’ इति पाठः । पूर्वसम्बन्धदर्शनेन स एव युक्त इति भाति । परं च प्राचीन पुस्तकेषु तस्याभावात् स नादृतः ॥ ५३२ ॥
यच्चेति । मौहूर्तिकानां ज्योतिर्विदां वचनस्य भाषणस्य निशमनं श्रवणं मुधा व्यर्थमेव इति च यत् समर्थितं प्रतिपादितं तन् निपुणं युक्तायुक्तविवेकपूर्वकं निरूपण भाषणं येषां ते न भणन्ति न प्रतिपादयन्ति ॥ २२८& ॥
विश्वास-प्रस्तुतिः
यतः-
भानोः शीतकरस्य वापि भुजगग्रासे पुरो निश्चिते
तीर्थानामटनं जनस्य घटयेत्तापत्रयोच्चाटनम् ॥
इष्टे प्रागवधारिते सति धृतेस्तुष्टेश्व लाभो भवे-
द्दृष्टे9 तु व्यसनेऽत्र तत्परिहृतिः कर्तुं जपाद्यैः क्षमा ॥ ५३३ ॥
अविस्रम्भश्च दैवज्ञवचनेष्वनुपपन्नः ॥ २२९& ॥
वृद्धिह्रासौ10 कुमुदसुहृदः पुष्पवन्तोपरागः11
शुक्रादीनामुदयविलयावित्यमी सर्वदृष्टाः ॥
आविष्कुर्वन्त्यखिलवचनेष्वत्र कुम्भीपुलाक-
न्यायाज्ज्योतिर्नयगतिविदां12 निश्चलं मानभावम् ॥ ५३४ ॥
मूलम्
यतः-
भानोः शीतकरस्य वापि भुजगग्रासे पुरो निश्चिते
तीर्थानामटनं जनस्य घटयेत्तापत्रयोच्चाटनम् ॥
इष्टे प्रागवधारिते सति धृतेस्तुष्टेश्व लाभो भवे-
द्दृष्टे9 तु व्यसनेऽत्र तत्परिहृतिः कर्तुं जपाद्यैः क्षमा ॥ ५३३ ॥
अविस्रम्भश्च दैवज्ञवचनेष्वनुपपन्नः ॥ २२९& ॥
वृद्धिह्रासौ10 कुमुदसुहृदः पुष्पवन्तोपरागः11
शुक्रादीनामुदयविलयावित्यमी सर्वदृष्टाः ॥
आविष्कुर्वन्त्यखिलवचनेष्वत्र कुम्भीपुलाक-
न्यायाज्ज्योतिर्नयगतिविदां12 निश्चलं मानभावम् ॥ ५३४ ॥
बाल-कृष्णः
तत्कारणमुपपादयति- भानोरिति । भानोः सूर्यस्य शीतकरस्य चन्द्रस्य वापि, भुजेन कौटिल्येन गच्छतीति भुजगस्तेन ‘भुजो कौटिल्ये’ इति धातोः ‘अन्यत्रापि -‘इत्यनेन डप्रत्ययः । राहुणा केतुना वा ग्रासे, चन्द्र-सूर्यग्रहणे इत्यर्थः । पुरः ग्रासकालात् पूर्वमेव निश्चिते ज्ञाते सति, ज्योतिषिकेनेति शेषः । तापत्रयस्य आध्यात्मिकादिदुःखत्रयस्य उच्चाटनं निर्मूलनं यस्मात् तत्, तापत्रयनाशकर मित्यर्थः । तीर्थानां गङ्गादीनां यात्रार्थमिति शेषः । अटनं भ्रमणं जनस्य घटयेत् सम्पादयेत् । किञ्च ग्रहाणामानुकूल्येन इष्टे अभीष्टफले प्राक् तत्प्राप्तिकालात् पूर्वमेव अवधारिते निश्चिते सति धृतेर्धैर्यस्य तुष्टेः सन्तोषस्य च लाभः भवेत् । व्यसने दुःखे ग्रहाणां प्रातिकूल्येनेति शेषः । दृष्टे प्राग्गणितेन ज्ञाते सति तु, अत्र तस्य व्यसनस्य परिहृतिः परिहारः जपाद्यैः तत्तदनिष्टग्रहमन्त्रजपाद्यैः, आयशब्देन दानादेर्ग्रहणम् । कर्तु क्षमा योग्या स्यात् । अनेन ‘असुखमथ सुखं वा’ इत्यादिनोक्तं दूषणं परिहृतमिति ज्ञेयम् ॥ ५३३ ॥
अत एव ज्योतिषिकवचनमवश्यं माननीयमिति वक्तुमाह - अविस्रम्भ इति । दैवज्ञानां ज्योतिर्विदां वचनेषु भाषणेषु अविस्रम्भोऽविश्वासः अनुपपन्नः अयुक्तः ॥ २२९& ॥
कुत इत्यत आह-वृद्धि-ह्रासाविति । कुमुदसुहृदश्चन्द्रस्य वृद्धिः शुक्लपक्षे प्रतिदिन मेकैककलया जायमाना पुष्टिः ह्रासः कृष्णपक्षे तत्क्रमेणैव जायमानः क्षयश्च तौ, पुष्पवन्तौ सूर्याचन्द्रमसौ “एकयोक्त्या पुष्पवन्तौ दिवाकर - निशाकरौ” इत्यमरः । तयोः उपरागः ग्रहणं “उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च ।” इत्यमरः । शुक्रादीनां ग्रहाणां, आदिशब्देन गुर्वादीनां ग्रहणम् । उदयः विलयः अस्तमयश्च तौ, इत्येवम्प्रकारेण अमी कालविशेषाः सर्वैर्लोकैः दृष्टाः, एते ज्यौतिषिक निश्चिता एवेति शेषः । अत्र लोके कुम्भी अन्नपचनपात्रं पुलाकः धान्यकणः तयोर्न्यायः एककणपचनज्ञानात् सर्वधान्यपाकज्ञानरूपः तस्माज् ज्योतिर्नयो ज्योतिःशास्त्रं तस्य गतिं लापनरीतिं विदन्ति जानन्तीति तद्विदस्तेषाम् अखिलानि सर्वाणि यानि वचनानि तेषु निश्चलं चञ्चलतारहितं सनिश्चयमित्यर्थः । मानभावं पूज्यभावम् अविष्कुर्वन्ति प्रकटीकुर्वन्ति ॥ ५३४ ॥
इत्थं किल नीतिविदो विदुः ॥ २३०& ॥
विदैवज्ञं ग्रामं विबुधविधुरं13 भूपतिसभम्
मुखं श्रुत्या हीनं मनुजपतिशून्यं च विषयम् ॥
अनाचारान् दारानपहरिकथं काव्यमपि च
प्रवक्तृत्वापेतं गुरुमपि सुबुद्धिः परिहरेत् ॥ ५३५ ॥