४३ वेदान्तिवर्णनम्

विश्वास-प्रस्तुतिः

अथ वेदान्तिवर्णनम्॥

कृ॰ – सत्यं पुनर्मह्यमराणामप्येषां न रोचते नमस्क्रिया । यदेतेषु मिथ्यावादिन एव बहुलमुपलभ्यन्ते । अमी खलु प्रामाणिकार्थं दूरीकृत्याप्रामाणिकमर्थमुररीकुर्वन्ति1 ॥ २१२& ॥

तथाहि-

प्रत्यक्षगोचरमशेषमपि प्रपञ्चं मिथ्येति मायिन इमे प्रतिपादयन्ति ॥

सर्वप्रमाणसरणीमतिवर्तमानं ब्रह्माश्रयन्ति च2 परं बत निर्विशेषम् ॥ ५०८ ॥

मूलम्

अथ वेदान्तिवर्णनम्॥

कृ॰ – सत्यं पुनर्मह्यमराणामप्येषां न रोचते नमस्क्रिया । यदेतेषु मिथ्यावादिन एव बहुलमुपलभ्यन्ते । अमी खलु प्रामाणिकार्थं दूरीकृत्याप्रामाणिकमर्थमुररीकुर्वन्ति1 ॥ २१२& ॥

तथाहि-

प्रत्यक्षगोचरमशेषमपि प्रपञ्चं मिथ्येति मायिन इमे प्रतिपादयन्ति ॥

सर्वप्रमाणसरणीमतिवर्तमानं ब्रह्माश्रयन्ति च2 परं बत निर्विशेषम् ॥ ५०८ ॥

बाल-कृष्णः

सत्यमिति । सत्यं ‘क्रियासार्थित —’ इत्यादिनोक्तं तथ्यमेव, पुनः किंतु एषां मह्यमराणामपि ब्राह्मणानामपि, अपिशब्दात्तत्वतस्तेषां पूज्यत्वं सूचितम् । नमस्क्रिया नमस्करणं, मह्यमिति शेषः । न रोचते । यद्यस्मादेतेषु ब्राह्मणेषु मध्ये मिथ्यावादिनः प्रपञ्चमिथ्याभाषिणः, असत्यभाषणशीला एव च बहुलं उपलभ्यन्ते दृश्यन्ते । अमी ब्राह्मणाः खलु प्रमाणेन चक्षुरादीन्द्रियसंनिकर्षेण प्रत्यक्षतया सिद्धः प्रामाणिकः, शास्त्रतः सिद्धश्च तमर्थं शरीरादेः सत्यत्वादिकं कर्तव्यादिकं च दूरीकृत्य परित्यज्य, अप्रामाणिकं “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, न चक्षुषा गृह्यते नापि वाचा, नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुते न " इत्यादिश्रुतिभिः सर्वप्रमाणागोचरं स्वकपोलकल्पितं च अर्थम् उररीकुर्वन्ति अङ्गीकुर्वन्ति ॥ २१२& ॥

उक्तमेवार्थं विशदीकरोति—- प्रत्यक्षगोचरमिति । प्रत्यक्षस्य चक्षुरादीन्द्रियजातस्य गोचरं विषयीभूतमपि, सर्वैराकीटपतङ्गमा च देवर्षिभ्यः साक्षात्क्रियमाणतया दुःशकापह्नवमपीत्य हो साहसमिति भावः । अशेषं सकलं प्रपञ्चं चराचरात्मकं जगत् इमे पुरोदृश्यमाना मायायाः अविद्याया संबन्धो येषां ते मायिनः, संबन्धे मतुप् । स च प्रतिपाद्यप्रतिपादकभावः । मायावादिन इत्यर्थः । पक्षे मायिनः कपटिनः मिथ्येति स्वेन रूपेण निस्तत्त्व इति प्रतिपादयन्ति । " सर्वं विकारजातं मायामात्रं " द्वितीयकारणाभावादनुत्पन्नमिदं जगत् इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं जगत् " इत्यादिवचनैरिति भावः । पक्षे मिथ्येति परप्रतारणाय वास्तवरूपविपर्यासेन यथा— हीरकादिकं काचत्वेन प्रतिपादयन्ति महत्यारभट्या समर्थयन्ति । किं तर्हि ते परमार्थसन्न किमप्यङ्गीकुर्वन्तीत्याकाङ्क्षायामाह —– सर्वप्रमाणेति । सर्वाणि च प्रत्यक्षागमादीनि तत्र प्रत्यक्षाणि चक्षुरादीन्द्रियाणि आगमा-

च तेषां सरणीं पद्धतिं अतिक्रम्य वर्तमानं ’ न(??)

विश्वास-प्रस्तुतिः

पुनः सरोषम् —
हन्त ! ब्रह्मबन्धव इमे ब्रह्मणे परस्मै द्रुह्यन्ति ॥ २१३& ॥
यतः
यदेव सर्वज्ञमपास्तदोषं भवार्तिहारि श्रुतमागमान्ते ॥
अज्ञं परं ब्रह्म तदेव भुङ्क्ते3 संसारतापानिति संगिरन्ते ॥ ५०९ ॥

मूलम्

पुनः सरोषम् —
हन्त ! ब्रह्मबन्धव इमे ब्रह्मणे परस्मै द्रुह्यन्ति ॥ २१३& ॥
यतः
यदेव सर्वज्ञमपास्तदोषं भवार्तिहारि श्रुतमागमान्ते ॥
अज्ञं परं ब्रह्म तदेव भुङ्क्ते3 संसारतापानिति संगिरन्ते ॥ ५०९ ॥

बाल-कृष्णः

तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो न विद्मो न विजानीमो यथैतदनुशिष्यादन्यदेव तद्विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे । " " नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।” इत्यादिबहुश्रुतेः सर्वप्रत्यक्षागमप्रमाणातीतमित्यर्थः । पक्षे सर्व प्रमाणबहिर्भूतत्वात्स्वकपोलकल्पितमित्यर्थः । अत एव विशिष्यते इतरव्यावृत्तत्वेन ज्ञायते यैस्ते विशेषाः प्रकाराः । धर्मा इति यावत् । ते निर्गता यस्मात् तन्निर्विशेषम् । पक्षे आदरातिशयप्रयोजकानितरसाधारणप्रशस्तगुणरहितं; परं “इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ।" इत्यादिभगवद्वाक्यप्रामाण्यात्सर्वेभ्यः श्रेष्ठतमं पक्षे कुत्रापि केनाप्यदृष्टपूर्वस्वभावकं सकललोकविलक्षणमिति यावत् । ब्रह्म आश्रयन्ति स्वीकुर्वन्ति । बतेत्यानन्दे खेदे च ॥ ५०८ ॥

ननु परं ब्रह्माश्रयन्ति चेत् का हानिः सम्यगेव तदित्याशङ्कयाह - हन्तेति । ब्रह्मबन्धवः दुष्टब्राह्मणाः परस्मै इन्द्रियसंघातात् परत्र वर्तमानाय ब्रह्मणे परमात्मने द्रुह्यन्ति ॥ २१३& ॥

द्रोहप्रकारमेवोपपादयति-यदेवेति । आगमान्ते वेदान्ते यदेव ब्रह्म सर्वं जाग्रत्-स्वप्न सुषुप्त्यात्मकमवस्थात्रयं जानाति अन्तर्यामित्वेन प्रत्यक्षयतीति तथाभूतं सर्गस्थित्यादिकं वा जानातीति । तथा च श्रुतिः – “ यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि । " इति । अत एव अपास्ताः निर्गताः दोषाः जन्मादिविकारा यस्मात् तत् " न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।” इति श्रुतिरत्रार्थे प्रमाणम् । भवार्तिहारि संसारदुःखनिवर्तकं ज्ञात्वा स देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः । " इति श्रुतिरपि । इति श्रुतं आकर्णितं, तदेव परं ब्रह्म अज्ञं जीववत् किंचिज्ज्ञं, अल्पार्थे नव् । संसारतापान् जन्म-जरा-मरणादीन् भुङ्क्ते इति संगिरन्ते । " ज्ञाज्ञौ द्वावज्ञावनीशावजा ह्येका भोक्त-भोगार्थयुक्ता । अनन्तश्चात्मा विश्वरूपो ह्यकर्ता" । " द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति । " इत्यादिबहुलश्रुतिभ्यः प्रतिपादयन्ति । जीव-ब्रह्मणोरैक्यप्रतिपादकानामेतत्कथनं व्याहन्यत इति भावः ॥ ५०९ ॥

विश्वास-प्रस्तुतिः

न केवलममी परस्मै ब्रह्मणे द्रुह्यन्ति, किंतु तत्प्रमाणेभ्यः श्रुतिभ्योऽपि ॥ २१४&॥
यतः-
मिथ्यार्थावेदकत्वात् श्रुतिषु कुमतिभिः कर्मकाण्डे निरस्त –
प्रामाण्ये ब्रह्मकाण्डैः सह गुणवचनैः शेषितो ब्रह्मशब्दः ॥
मिथ्यार्थास्मिन्विभक्तिः प्रकृतिरपि परं ब्रह्म नैवाभिधत्ते
वाच्यत्वानाश्रयत्वात्कथमुपनिषदां मानतां जानतां ते ॥ ५१० ॥
परमेते श्रुतिभ्यो न द्रुह्यन्ति, किंतु शारीरकायापि ॥ २१५& ॥

मूलम्

न केवलममी परस्मै ब्रह्मणे द्रुह्यन्ति, किंतु तत्प्रमाणेभ्यः श्रुतिभ्योऽपि ॥ २१४&॥
यतः-
मिथ्यार्थावेदकत्वात् श्रुतिषु कुमतिभिः कर्मकाण्डे निरस्त –
प्रामाण्ये ब्रह्मकाण्डैः सह गुणवचनैः शेषितो ब्रह्मशब्दः ॥
मिथ्यार्थास्मिन्विभक्तिः प्रकृतिरपि परं ब्रह्म नैवाभिधत्ते
वाच्यत्वानाश्रयत्वात्कथमुपनिषदां मानतां जानतां ते ॥ ५१० ॥
परमेते श्रुतिभ्यो न द्रुह्यन्ति, किंतु शारीरकायापि ॥ २१५& ॥

बाल-कृष्णः

नेति । तस्मिन् परब्रह्मणि विषये यानि प्रमाणानि यथार्थतद्भावप्रतिपादकानि तेभ्यः, श्रुतिभ्यः उपनिषद्भ्योऽपि द्रुह्यन्ति ॥ २१४& ॥

द्रोहप्रकारमेवाह - मिथ्येति । श्रुतिषु कर्मब्रह्मपरेषु सर्वेषु वेदवाक्येषु मध्ये मिथ्यार्थानां असत्यार्थानां " ज्योतिष्टोमेन स्वर्गकामो यजेत ” इत्यादिश्रुतिभिः स्वर्गप्राप्त्यादिरूपाणां आवेदकत्वाद्बोधकत्वाद्धेतोः कर्मकाण्डे मन्त्रब्राह्मणात्मके ब्रह्मकाण्डैः अपवादरूपोपनिषद्वाक्यैः " तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते" इत्यादिभिः निरस्तं निवारितं प्रामाण्यं यस्य तथाभूते सति एभिः कुमतिभिः कुत्सितबुद्धिभिः, ‘कुं कुत्सितं असत्यं प्रपञ्चं अतन्ति जानन्तीति तैः कुमतिभिः प्रपञ्चमिथ्यात्वज्ञातृभिरित्यर्थः । ’ इति भावदर्प- णव्याख्यायामर्थान्तरं दृश्यते । तत्पक्षे । ’ अत सातत्यगमने ’ इत्यस्माद्धातोर्गत्य- र्थात् औणादिक इप्रत्यय इत्यवगन्तव्यम् । गत्यर्थस्य ज्ञानार्थकत्वं च । गुणवचनैः सगुणेश्वरप्रतिपादकैः कर्मकाण्डवाक्यैः सह ब्रह्म इत्येक एव शब्दः शेषितः एकार्थीकृतः, तत्र प्रमाणत्वेन स्वीकृत इत्यर्थः । उपनिषदां कर्मकाण्डापवादरूपत्वादेतदयुक्तमिति भावः । किंच अस्मिन् ब्रह्मशब्दे विभक्तिः सु औ इत्यादिरूपा मिथ्यार्था निरर्थका । ब्रह्मणः सदैकरूपत्वात् द्वित्वबहुत्वाभावादित्यर्थः । ततश्च प्रकृतिः केवलं विभक्तिरहितं रूपं वाच्यत्वस्य शब्दप्रतिपाद्यत्वस्य अनाश्रयत्वादनधिकरणत्वाद्धेतोः परं ब्रह्म नैवाभिधत्ते नैव बोधयति । ततः ते अद्वैतवादिनः उपनिषदां मानतां प्रामाण्यं कथं जानतां विदन्तु ? नैव ज्ञातुं शक्नु- वन्तीत्यर्थः ॥ ५१० ॥

परमिति । किंच परं अन्यदपि कथयामीति शेषः । एते केवलं श्रुतिभ्यो वेदेभ्य एव दुह्यन्तीत्येतावदेव न, किंतु शरीरमधिकृत्य कृतं शारीरकं श्रीमद्व्यासनिर्मितं ब्रह्मसूत्ररूपं शास्त्रं तस्मै अपि द्रुह्यन्ति । उपनिषत्प्रतिपादितार्थमेव स्पष्टीकर्तु तत्रभवता व्यासेन ब्रह्मसूत्ररूपं शास्त्रं व्यरचि, तत्रापि द्रोहाचरणमन्याय्यमित्यपिशब्दाद्बोध्यम् ॥ २१५& ॥

विश्वास-प्रस्तुतिः

पराशरभुवा शास्त्रं ब्रह्मज्ञानाय निर्मितम् ॥

असमञ्जसतां नीतमद्वैतब्रह्मवादिभिः4 ॥ ५११ ॥

किं च यादृशस्वभावः सर्वेश्वरस्तद्विपरीतमेव तमुशन्ति5 विरुद्धमतय6

एते ॥ २१६& ॥

सर्वज्ञमज्ञ इति सर्वपदाभिधेयम्

कस्याप्यवाच्य इति सर्वमहागुणानाम् ॥

स्थानं च निर्गुण इतीह समस्तवेद-

वेद्यं त्ववेद्य इति ते7 जगदीशमाहुः ॥ ५१२ ॥

किं बहुना -

विविधदुरितत्रातस्फीतस्थिरव्यसनाकुला-

दतिमितमतेर्जीवादेवाभिदां परमेशितुः ॥

अपगतपरिच्छेदामोदाम्बुधेरुपगच्छताम्

मशकशिशुतोऽभेदो न स्यात्कुतो मदहस्तिनः ॥ ५१३ ॥

मूलम्

पराशरभुवा शास्त्रं ब्रह्मज्ञानाय निर्मितम् ॥

असमञ्जसतां नीतमद्वैतब्रह्मवादिभिः4 ॥ ५११ ॥

किं च यादृशस्वभावः सर्वेश्वरस्तद्विपरीतमेव तमुशन्ति5 विरुद्धमतय6

एते ॥ २१६& ॥

सर्वज्ञमज्ञ इति सर्वपदाभिधेयम्

कस्याप्यवाच्य इति सर्वमहागुणानाम् ॥

स्थानं च निर्गुण इतीह समस्तवेद-

वेद्यं त्ववेद्य इति ते7 जगदीशमाहुः ॥ ५१२ ॥

किं बहुना -

विविधदुरितत्रातस्फीतस्थिरव्यसनाकुला-

दतिमितमतेर्जीवादेवाभिदां परमेशितुः ॥

अपगतपरिच्छेदामोदाम्बुधेरुपगच्छताम्

मशकशिशुतोऽभेदो न स्यात्कुतो मदहस्तिनः ॥ ५१३ ॥

बाल-कृष्णः

उक्तार्थमेव प्रपञ्चयति —– पराशरभुवेति । पराशरभुवा श्रीमद्व्यासेन शास्त्रं सूत्ररूपं ब्रह्मणः ज्ञानाय ज्ञानार्थमेव, सकलजीवानामिति शेषः । निर्मितं रचितम् । तदपि द्वे जीवब्रह्मरूपे इते गते यस्मात् तद्द्वीतं द्वीतमेव द्वैतं जीवब्रह्मणोर्द्विरूपत्वं तन्न भवतीत्यद्वैतं जीवात्म - परमात्मनोरैक्यरूपं ब्रह्म एकमिति वदन्तीति तद्वादिभिः आत्मा वा इदमेक एवाग्र आसीत् नान्यत् किंचन मिषत् " " एकमेवाद्वितीयम्” “तत्त्वमसि” इत्यादिबहुलश्रुत्यनुरोधेन जीवात्मनोरेकत्वप्रतिपादकैरित्यर्थः । असमञ्जसतां अयोग्यतां नीतं प्रापितम् ॥ ५११ ॥

किंचेति । किंच यादृशस्वभावः तत्त्वतो यत्प्रकाररूपो भगवान् सर्वेश्वरः तस्माद्विपरीतं विरुद्धस्वभावमेव तं सर्वेश्वरं परमात्मानं उशन्ति इच्छन्ति । विरुद्धमतयः एते अद्वैतिनः ॥ २१६& ॥

सर्वज्ञमिति । ते अद्वैतवादिनः वस्तुतः सर्वे भूतभविष्यादि जानातीति सर्वज्ञः तं जगदीशं अज्ञः अल्पज्ञः ज्ञातुमशक्यश्च इति, आहुः कथयन्ति । एतदेव सर्वत्रान्वेतव्यम् । सर्वेषां पदानां शब्दानां अभिधेयं वाच्यं जगदीशं, कस्यापि पदस्य अवाच्यः इति, सर्वेषां महागुणानां स्रष्टृत्वादीनां स्थानभूतं जगदीशं निर्गुणः सत्त्वरजआदिगुणरहितः इति, समस्तैः सर्वैरपि वेदैर्वैद्यं ज्ञेयं, तु-पदं विरोधसूचकम् । अवेद्यः “ विज्ञातारमरे केन विजानीयात् " इत्यादिश्रुतिभिः अज्ञेय । इति च आहुः ॥ ५१२ ॥

विविधेति । विविधानामनेकेषां दुरितानां पापानां व्रातेन समूहेन स्फीतैः प्रवृद्धैः स्थिरैश्च व्यसनैः आकुलात् पीडितात्, अत एव च अतिमितमतेः अत्यल्प - बुद्धेः जीवादेव, एवकारेणात्यन्तानौचित्यं सूचितम् । अपगतः परिच्छेदः परिमि- तिर्यस्मात् तादृशः य आमोदाम्बुधिः आनन्दसागरः तद्रूपः, अपरिमितानन्दरूप इत्यर्थः । तस्य परमेशितुरीश्वरस्य अभिदामभेदं उपगच्छतां जानतां तेषामद्वैतिनां मशकशिशुतः मशकबालात् मदयुक्तस्य हस्तिनः अभेदः कुतो न स्यात् ? अपि तु विद्या-विनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः । " इति गीताप्रामाण्यात् शरीरमात्रभेदेन विरोधेऽपि सर्वत्र जीवसाम्यात् स्यादेवाभेद इति भावः ॥ ५१३ ॥

विश्वास-प्रस्तुतिः

अपरं च -
दृश्यं मिथ्या दृष्टिकर्ताऽपि मिथ्या
दोषो मिथ्यैवेति या धीरमीषाम् ॥
साधिष्ठानांशेपि किं नेति चिन्ता
साधिष्ठानां पण्डितानामुदेति ॥ ५१४ ॥
वि॰ – वयस्य ! मैवं महीसुरदूषणेषु विजृम्भिष्ठाः ॥ २१७& ॥
पारम्पर्यत आगतो निजकुले पन्था न हातव्य इ
त्यद्वैतं परिगृह्य हन्त जगतो मिथ्यात्वमाचक्षताम् ॥
अध्येतुं निगमानशेषत इमान्8 कर्माणि निर्मातुम-
प्यास्तिक्याच्चतुरा निकाममितरे के ? तावदेतादृशाः ॥ ५१५ ॥

मूलम्

अपरं च -
दृश्यं मिथ्या दृष्टिकर्ताऽपि मिथ्या
दोषो मिथ्यैवेति या धीरमीषाम् ॥
साधिष्ठानांशेपि किं नेति चिन्ता
साधिष्ठानां पण्डितानामुदेति ॥ ५१४ ॥
वि॰ – वयस्य ! मैवं महीसुरदूषणेषु विजृम्भिष्ठाः ॥ २१७& ॥
पारम्पर्यत आगतो निजकुले पन्था न हातव्य इ
त्यद्वैतं परिगृह्य हन्त जगतो मिथ्यात्वमाचक्षताम् ॥
अध्येतुं निगमानशेषत इमान्8 कर्माणि निर्मातुम-
प्यास्तिक्याच्चतुरा निकाममितरे के ? तावदेतादृशाः ॥ ५१५ ॥

बाल-कृष्णः

दृश्यमिति । द्रष्टुं योग्यं दृश्यं रज्जु - सर्पादि, शुक्ति - रजतादिकं वा, मिथ्या असत्यं, दृष्टेरयं सर्पः, इदं रजतं, इत्यादिभ्रान्तेः कर्ता आश्रयो देवदत्तादिश्चापि मिथ्या, दोषः पित्तादिश्च मिथ्यैव । अत्र दृश्य-दृष्टिकर्तृ-दोषशब्दैः क्रमेण सकलप्रपञ्च- अन्तःकरणावच्छिन्नचैतन्य - अज्ञानानि ग्राह्याणि । तेनैतत्रयमपि ज्ञानोत्तरकाले बाधप्रतीतेर्मिथ्यैवावभासते इत्यद्वैतवेदान्तिनामभिप्रायः । इत्युक्तप्रकारा या अमीषामद्वैतवादिनां धीर्ज्ञानं विद्यते सा दृश्याद्यंशत्रयेऽपि मिथ्येति बुद्धिः अधिष्ठानं आश्रयः रज्जुः शुक्तिर्वा, परब्रह्म च तस्मिन्नंशेऽपि किं कुतो न भवति ? इत्येवंप्रकारा चिन्ता साधिष्ठानां श्रेष्ठानां पण्डितानां विदुषामुदेति उत्पद्यते । अत्र केचित् ‘अज्ञाननाशात् सत्ये अधिष्ठानांशे सा मिथ्याबुद्धिर्नोत्पद्यते इत्यद्वैतिनामभिप्रायः । अत एव आधिना कामादिमनोव्यथया सहिताः तिष्ठन्तीति साधिष्ठाः गाढाज्ञानिनस्तेषामेवेदृशी चिन्ते- ति न्यायावतारः ’ इत्याहुः ॥ ५१४ ॥

वयस्येति । एवमुक्तप्रकारेण मा विजृम्भिष्ठाः उद्युक्तो मा भव ॥ २१७& ॥

पारम्पर्यत इति । निजकुले स्ववंशे परम्परायाः श्रीमद्व्यास-शंकराचार्यादि-प्राचीनसंप्रदायस्य भावः पारम्पर्यं तस्मादिति ततः आगतः प्राप्तः पन्था अद्वैतमार्गः अन्यथा अतिप्राचीन परंपरागतसंप्रदायत्यागदोषापातप्रसङ्गादिति भावः । अनेन अद्वैतसंप्रदायः- माध्वरामानुजीयादिसंप्रदायवन्नाधुनिकः, केवलं स्वकपोलकल्पितसिद्धश्च किन्तु अतिप्राचीनश्रुत्यर्थानुसरणपूर्वकं श्रीमद्व्यास शंकरप्रभृतिभिरीश्वरांशैरेव प्रवर्तित इति प्रतीयते । इति हेतोः अद्वैतं जीवेश्वरयोरैक्यं परिगृह्य जगतः मिथ्यात्वमसत्यत्वं आचक्षतां कथयताम् । एते अद्वैतवादिन इति शेषः । अतिसर्गे लोट् । हन्तेति हर्षे “नेह नानास्ति किंचन” ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।" इत्यादिश्रुतिप्रामाण्यात् एकमात्मानं विनाऽन्यत् सर्वमपि जगन्मिथ्यैवेति भावः । किंच एते इमान् प्रसिद्धान् निगमान् स्वस्वशास्त्रीयऋगादिवेदान् अशेषतः मूलमारभ्य समाप्तिपर्यन्तं अध्येतुं अभ्यसितुं, तदुक्तानि कर्माणि नित्यनैमित्तिकादीनि आस्तिक्यात् अस्ति वेदविहितं सत्यमिति बुद्धिर्येषां ते आस्तिकाः तेषां भावस्तस्माद्धेतोः निकामं यथेच्छं निर्मातुमाचरितुमपि चतुराः कुशलाः इतरे अद्वैतिभ्योऽन्ये एतादृशाः अद्वैतिसमाः के सन्ति ? न केपीति भावः । अनेन वैष्णवादयो न तावद्वेदस्यैकं मन्त्रमपि यथार्थतया पठितुं शक्ता इति प्रसिद्धिः सूचिता । दृश्यते हि सांप्रतमप्येवं रीतिः केषुचित् कर्नाटकीयवैष्णवेषु ॥ ५१५ ॥

विश्वास-प्रस्तुतिः

किं च-
श्रुतीरध्येतारः किमपि विदितारः9 प्रतिदिनं
क्रतूनाहर्तारः किमपि जपितारो मनुगणम् ॥
अमी स्मार्ताः श्राद्धान्यपि रचयितारो विधुनते
श्रुतेरप्रामाण्यं प्रसजदननुष्ठापकतया ॥ ५१६ ॥

मूलम्

किं च-
श्रुतीरध्येतारः किमपि विदितारः9 प्रतिदिनं
क्रतूनाहर्तारः किमपि जपितारो मनुगणम् ॥
अमी स्मार्ताः श्राद्धान्यपि रचयितारो विधुनते
श्रुतेरप्रामाण्यं प्रसजदननुष्ठापकतया ॥ ५१६ ॥

बाल-कृष्णः

श्रुतीरिति । अमी स्मार्ताः अद्वैतिनः अत्र स्मार्तपदं अद्वैतिषु योगरूढं पङ्कजादिवदिति बोध्यम् । श्रुतीर्वेदान् प्रतिदिनं ब्रह्मयज्ञसमये इति शेषः । अध्येतारः पठितारः । न केवलं पठितार एव, किंतु किमपि यथामति विदितारः तदुक्तमर्थमपि जानन्तः, ऋतून् ज्योतिष्टोमादियज्ञान् आहर्तारः कर्तारः, किमपि यथाशक्ति मनुगणं स्वसंप्रदायप्रोक्तं मन्त्रसमुदायं जपितारः जपं कुर्वन्तः क्वचित् ‘ददितारः प्रतिदिनम्’ इति पाठः । तत्पक्षे दानं कुर्वाणा इत्यर्थः । श्राद्धानि प्रतिवार्षिक विहितानि पितृतृप्तिकराणि अपिः समुच्चयार्थकः । रचयितारः कुर्वन्तश्च सन्तः अननुष्ठापकतया अध्ययन- तदर्थज्ञान- होम-जपाद्याचरणाभावतया प्रसजति निकटं प्राप्नोतीति प्रसजत् नित्यं प्राप्नुवत् श्रुतेरृगादेर्वेदस्य अप्रामाण्यं प्रमाणत्वाभावं विधुनते निरस्यन्ति । यथार्थानुष्ठानाभावात् श्रुतेरप्रामाण्यं प्राप्तावसरमिति भावः । अत्र वेदाप्रामाण्यनिरसनद्वारा अद्वैतवादिनां वेदप्रमाणकत्वेन तदुक्तानुष्ठानतया च जगन्मिथ्यात्वादिकाः सकला अपि सिद्धान्ताः सप्रमाणास्तेनैव हेतुना पूर्वोक्तानि सकला- न्यपि दूषणानि निष्फलानीति सूचितम् । एवमेव भावदर्पणकृतोप्यभिप्रायः ॥५१६॥

विश्वास-प्रस्तुतिः

कृ॰ – समन्तादवलोक्य -
निस्तुला अप्यमी विषयाः शैवप्रचुरतया न श्लाघामर्हन्ति । अत्र हि तत्त्वहितपुरुषार्थानयथावस्थितानभिदधानाः10 शैवा विदुषोऽपि विमोहयन्ति ॥ २१८& ॥
तथाहि-
मदनजनके वीतातङ्के महागुणशेवधौ
परमपुरुषे नित्यासक्तां श्रुतिं कमलामिव ॥
बत पशुपतौ शूलोपेते मनोभवदाहके
निहितहृदयां शैवा जल्पन्त्यभाग्यहता11 इव ॥ ५१७ ॥

मूलम्

कृ॰ – समन्तादवलोक्य -
निस्तुला अप्यमी विषयाः शैवप्रचुरतया न श्लाघामर्हन्ति । अत्र हि तत्त्वहितपुरुषार्थानयथावस्थितानभिदधानाः10 शैवा विदुषोऽपि विमोहयन्ति ॥ २१८& ॥
तथाहि-
मदनजनके वीतातङ्के महागुणशेवधौ
परमपुरुषे नित्यासक्तां श्रुतिं कमलामिव ॥
बत पशुपतौ शूलोपेते मनोभवदाहके
निहितहृदयां शैवा जल्पन्त्यभाग्यहता11 इव ॥ ५१७ ॥

बाल-कृष्णः

उक्तार्थाङ्गीकारपूर्वकमाह कृशानुः - निस्तुला इति । अमी विषया देशाः निस्तुला वेदविहितकर्म-ज्ञानविद्बहुजनसत्त्वान्निरुपमा अपि, शिवस्य भक्ताः शैवास्ते प्रचुराः बहुला येषु ते तत्प्रचुरास्तेषां भावस्तत्ता तथा हेतुना श्लाघां प्रशंसां नार्हन्ति, तस्याः न योग्या भवन्ति । सन्तु नाम शैवाः किं वा तेन प्रशंसानर्हत्वमिति चेदाह –

अत्रहीति । अत्र एषु देशेषु हि तत्त्वतः सत्यतया हिता हितकरा ये पुरुषार्थास्तान् अयथावस्थितान् स्थितिमतिक्रम्य वर्तमानान् विरुद्धस्वभावानिति यावत् । अभिदधानाः प्रतिपादयन्तः सन्तः क्वचित् ‘तत्पदार्थ यथावस्थितमनभिदधानाः ’ इति पाठः तत्पक्षे तदिति पदस्य शब्दस्य अर्थ ब्रह्मरूपं यथावस्थितं स्थितिनमतिक्रम्य वर्तमानं, यथास्थितस्वभावमित्यर्थः । अनभिदधानाः अकथयन्तः सन्त इत्यर्थः । शैवा विदुषोऽपि पुरुषान् किमुतान्यान् विमोहयन्ति विभ्रमयन्ति ॥ २१८& ॥

मोहनप्रकारमेव स्पष्टतयाह - मदनजनक इति । वीताः गताः आतङ्काः रोगाः दोषाश्च यस्मात् तस्मिन् महतां स्रष्टृत्वपालकत्वादीनां गुणानां शेवधौ निधौ मदनस्य कामस्य जनके पितरि परमपुरुषे देवानामपि श्रेष्ठपुरुषे विष्णौ नित्यं संततमासक्तां अनुरक्तां, अत एव कमलां लक्ष्मीमिव स्थितां श्रुतिं सर्वमपि वेदं शूलेन रोगेण, शूलनामकायुधविशेषेण चोपेते युक्ते पशूनां गवादीनां ब्रह्मादिदेवानां च पतिस्तस्मिन् मनोभवस्य मदनस्य दाहके शिवे निहितम् अनुरक्तं स्थापितं च हृदयं मनः अभिप्रायश्च यस्याः सा तां श्रुतिं अभाग्येन प्राक्तनदुष्कर्मणा हता नष्टा इव शैवाः जल्पन्ति वर्णयन्ति । अत्र शैवानां तात्पर्यं वर्णितं भावदर्पणकृता तदित्थम् - ‘महतां अगुणानां कामक्रोधादीनां शेवधिर्यस्मात्तस्मिन् राग-द्वेषादिजनके अत एव मदनस्य स्मरविकारस्य जनके अत एव विशेषेण इताः प्राप्ताः आतङ्काः तापास्त्रयः यस्मात्तस्मिन् तज्जनके " रुक् -ताप- शङ्कास्वातङ्कः" इत्यमरः । परं भृशं अपुरुषे अल्पपुरुषे, अनुदरा कन्येत्यादाविव अल्पार्थे नञ्समासः । नित्यं आ ईषदंशेन सक्तां अत एव के चित्ते मलं अपुरुषसंबन्धजन्यदुःखं यस्यास्तथोक्तामिव स्थितां “काश्चित्तात्म-रवि-ब्रह्म-वाताः” इति कोशः । अत एव च अभाग्यहतामिव श्रुतिं मनसि भवन्तीति मनोभवाः कामादयस्तद्दाहके शूलमिव शूलम् अज्ञाननाशकं ज्ञानं तेनोपेते प्राप्ये इत्यर्थः । पशुपतौ सर्वेश्वरे निहितहृदयां शैवाः जल्पन्ति’ इति ॥ ५१७ ॥

विश्वास-प्रस्तुतिः

सूर्यादारोग्यमिच्छेत्कमपि12 हुतवहात्सम्पदुल्लासमिच्छे-
दीशानात् ज्ञानमिच्छेदनवधिविभवं मोक्षमिच्छेन्मुकुन्दात् ॥
इत्याद्याः सत्यवाद्यादिममुनिभणितीराकलय्यापि13 विष्णोः
सेवां शैवास्त्यजन्तो बत भवहतये भावयन्ते भवं ते ॥ ५१८ ॥
अपि च-
तद्विष्णोः परमं पदं हि तमसः पारे सदा पश्यता
सान्द्रं सूरिगणेन निर्मलमहानन्दात्मकं शाश्वतम् ॥
अप्रेप्सन्त इमे समेतमनिशं वेतालभूतालिभि-
र्लोकं भीकरमञ्चितुं व्यवसिता माहेश्वरं नश्वरम् ॥ ५१९ ॥

मूलम्

सूर्यादारोग्यमिच्छेत्कमपि12 हुतवहात्सम्पदुल्लासमिच्छे-
दीशानात् ज्ञानमिच्छेदनवधिविभवं मोक्षमिच्छेन्मुकुन्दात् ॥
इत्याद्याः सत्यवाद्यादिममुनिभणितीराकलय्यापि13 विष्णोः
सेवां शैवास्त्यजन्तो बत भवहतये भावयन्ते भवं ते ॥ ५१८ ॥
अपि च-
तद्विष्णोः परमं पदं हि तमसः पारे सदा पश्यता
सान्द्रं सूरिगणेन निर्मलमहानन्दात्मकं शाश्वतम् ॥
अप्रेप्सन्त इमे समेतमनिशं वेतालभूतालिभि-
र्लोकं भीकरमञ्चितुं व्यवसिता माहेश्वरं नश्वरम् ॥ ५१९ ॥

बाल-कृष्णः

सूर्यादिति । सूर्यात् सूर्यमुपास्य, ल्यब्लोपे पञ्चमी । आरोग्यं इच्छेत्, हुतवहादग्नेः कमप्यनिर्वचनीयं संपदः धनादिसंपत्तेः उल्लासं विस्तारं इच्छेत्, ईशानात् भगवतः शंकरात् ज्ञानं परमात्मविषयं इच्छेत्, अनवधिर्निःसीमः विभव ऐश्वर्यं यस्मिन् तथाभूतम् अनश्वरसुखादिसंपद्युक्तमित्यर्थः । मोक्षं मुक्तिं मुकुन्दात् भगवतः श्रीविष्णोः इच्छेत्, इत्याद्याः सत्यवादिनो यथार्थवत्तारः ये आदिमाः प्रथमाः मुनयः व्यास- वाल्मीकादयस्तेषां भणितीर्वाक्यानि “आरोग्यं भास्करादिच्छेत्” इत्याद्याः आकलय्य ज्ञात्वापि शैवाः भवस्य संसारस्य हृतये नाशार्थं विष्णोः सेवां परिचर्यां त्यजन्तः सन्तः, ते भवं शिवमेव भावयन्ते पूजयन्ति । अत्रार्थे शैवानामेवमभिप्रायः - " तरति शोकमात्मवित् ज्ञात्वा देवं मृत्युमुखात् प्रमुच्यते, ज्ञानादेव तु कैवल्यम्" इत्यादिबहुलश्रुति स्मृतिप्रामाण्याज्ज्ञानेनैव मोक्षः, तज्ज्ञानं च “ईशानः सर्वविद्यानामीश्वरः” इत्यादिश्रुतिभ्यः शिवादेव प्राप्नोति ततश्च युक्तमेव तद्भ- जनमिति ॥ ५१८ ॥

तदिति । तमसः अज्ञानस्य पारे समाप्तौ सत्यां अज्ञानविनाशे सतीत्यर्थः । पश्यता अवलोकयता सूरीणां ज्ञानिनां गणेन समुदायेन सनक - नारदादिज्ञानिमुनिसमुदायेनेत्यर्थः । सान्द्रं निबिडं व्याप्तमिति यावत् । निर्मलः जन्म-मरणादिविकाररहितश्चासौ महानन्दः अतिशयानन्दश्च स आत्मा स्वरूपं यस्य सः तथाभूतं अत एव शाश्वतं विनाशरहितं अत एव च परमं सर्वोत्तमं हिः समुच्चायकः । तत् प्रसिद्धं विष्णोः पदं वैकुण्ठम् अप्रेप्सन्तः अनिच्छन्तः सन्तः वेतालः पिशाचसेनानीश्च भूतानि च तेषामालिभिः पतिभिः, वेतालो नाम पिशाचसेनापतिरिति हि रुद्रपटले पिशाचसाधनप्रकरणे दृश्यते । “वेतालो नीलदेहोऽसौ पिशाचगणनायकः । सर्वकार्यकरः शंभोः सेनानीः शवभूमिगः । " इति । एतेन ‘वेताला नाम भूतानि’ इति भावदर्पणकारोक्तं व्याख्यानं परास्तम् । यद्वा वेतालस्य भूताना- माधिपत्ये सेनानीत्वे वा सत्यपि भूतत्वं पिशाचत्वं वा नापैति । यथा मनुजसेनानेः । प्रत्यक्षशिवसंनिधौ च तदितरक्षुद्रभूतानां प्रयोजनाभावात् युक्तमेव पूर्वोक्तं व्याख्यानमिति समाधेयम् । अनिशं संततं समेतं व्याप्तं अत एव भीकरं सर्वलोकानां भयोत्पादकं, नश्वरं विनाशयुक्तं च महेश्वरस्यायं माहेश्वरः तं लोकं कैलासं अञ्चितुं गन्तुं व्यवसिताः कृतनिश्चयाः इमे शैवाः सन्ति । ‘वस्तुतस्तु “यस्य ब्रह्मा च विष्णुश्च उभे भवत ओदनः । मृत्युरस्योपसेचनम् ।” इति श्रुत्या वैकारिकमूर्तित्रयावासानां त्रयाणामपि नश्वरत्वेन निर्विकार सदाशिवावासपरमकैलासकादिषु शैवेषूक्तदूषणमारोपितमेवेति ध्येयम्’ इति भावदर्पणकारः ॥ ५१९ ॥

वि॰ - सखे गुणग्रहणकुतूहली14 भूयाः ॥ २१९& ॥
नित्यं कर्म समाचरन्ति निगमान् शास्त्राणि चाधीयते
संतन्वन्ति च सप्ततन्तु निचयं धिन्वन्ति भक्त्यातिथीन्15
साम्बं त्र्यम्बकमर्चयन्ति शुचयः शैवाः सदैवादरा-
देषामीदृशधर्मणां16 कतिपये दोषा विषह्या न किम् ? ॥ ५२० ॥

सख इति । गुणग्रहणे यथार्थगुणाङ्गीकारे कुतूहलं कौतुकं यस्यास्ति स तत्कु- तूहली भूयाः भव ॥ २१९ ॥

के वा शैवानां गुणा इत्यपेक्षायामाह - नित्यमिति । शुचयः पवित्राः शैवाः सदैव नित्यमेव आदरात् नित्यं संध्योपासनादिकं कर्म सं सम्यक्, न तु यथाकथंचित्, आचरन्ति, निगमान् वेदान् शास्त्राणि च अधीयते अभ्यस्यन्ति सप्ततन्तूनां नित्यनैमित्तिकादियज्ञानां निचयं समुदायं संतन्वन्ति सम्यगनुतिष्ठन्ति च भक्त्या प्रेम्णा अतिथीनभ्यागतान् धिन्वन्ति प्रीणयन्ति, अम्बया भगवत्या पार्वत्या सहितः साम्बः तं त्रीणि अम्बकानि नेत्राणि यस्य सः तं शिवं भक्त्येत्यत्रापि संबन्धनीयम् । अर्चयन्ति पूजयन्ति । ईदृशाः पूर्वोक्तरीत्या शुद्धाः धर्माः पुण्यकर्माणि येषां “धर्माः पुण्य-यम- न्याय - स्वभावाचार - सोमपाः ।” इत्यमरः । तथाभूतानां “धर्माद- निच् केवलात्” इति समासान्तो ऽनिच्प्रत्ययः । एषां शैवानां कतिपये बहुगुणसमवाये द्वित्राः दोषाः विषयाः विशेषेण सहनीया न किम् ? अपि तु “ एकोहि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्गः ।” इति न्यायमाश्रित्यावश्यं सह्या एवेति भावः ॥ ५२० ॥

अन्यच्च श्रोतव्यम् ॥ २२०& ॥
स्मरहरपरिचर्या सांप्रतं तन्यते या
जनयति हरिभक्तिं हन्त जन्मान्तरे सा ॥
शमितदुरित वर्गं सा च सूतेऽपवर्गम्
कुत इव फलहानिः ? कुर्वतां शर्वपूजाम् ॥ ५२१ ॥
परंतु –
सा रुद्रभक्तिर्वितनोति भद्रं या विष्णुविद्वेषलवासहिष्णुः ॥
त एव धर्माय भवन्ति दाराः कदापि यान्नाभिमृशन्ति जाराः ॥ ५२२ ॥
शेषशायिविद्वेष एव हि मूर्धाभिषिक्तो दोषः पुरुषाणाम् ॥ २२१& ॥
पश्य-
नास्तिक्यमावहति नारकमातनोति
प्रौढिं निहन्ति परिलुम्पति संपदं च ॥
आयुः क्षिणोत्युपचिनोति समस्तदोषान्
द्वेषो मुकुन्दविषयो विषयोगतुल्यः ॥ ५२३ ॥

किंचैतेषां शिवपूजनं हरिभक्तिजननद्वाराऽपवर्गसाधकमतो महदुपकारकं तदिति वक्तुमवतारयति – अन्यच्चेति ॥ २२०& ॥

स्मरहरेति । सांप्रतमधुना स्मरहरस्य शिवस्य परिचर्या पूजा या तन्यते क्रियते, जनैरिति शेषः । सा । हन्तेति हर्षे । जन्मान्तरेऽन्यस्मिन् जन्मनि हरिभक्तिं विष्णुभक्तिं जनयति उत्पादयति । सा हरिभक्तिश्चापि शमितः विनाशितः दुरितानां पापानां वर्गः समुदायो येन स तं सकलपापसंबन्धनिवारकमित्यर्थः । अपवर्गं मोक्षं सूते उत्पादयति । तस्मात् शर्वस्य शिवस्य पूजां कुर्वतां जनानां फलहानिः कुतो भवति ? अपि तु कुतोऽपि नैव भवतीत्यर्थः ॥ ५२१ ॥ शिवभजनेऽपि विष्णुभजन मावश्यकमन्यथानर्थापात इति वक्तुमाह-

परमिति । सेति । या रुद्रभक्तिः शिवभक्तिः विष्णौ द्वेषः अप्रीतिस्तस्य लवस्य लेशस्यापि, किमुताधिकस्य, असहिष्णुरसहनशीला, सा भद्रं मोक्षप्राप्तिरूपं कल्याणं वितनोति विस्तारयति । अन्यथाधःपातः स्यादिति भावः । एतदेवार्थान्तरेण द्रढयति-त एवेति । यान् दारान् स्त्रियः जाराः परस्त्रीलम्पटाः पुरुषाः कदापि न अभिमृशन्ति न स्पृशन्ति, ते एव दाराः स्त्रियः धर्माय धर्मसाध्यपुरुषार्थाय भवन्ति प्रभवन्ति ॥ ५२२ ॥

शेषशायीति । पुरुषाणां शेषशायिविद्वेषः विष्णुद्वेष एव हि मूर्धाभिषिक्तः सर्वदोषेभ्योऽधिकः दोषः ॥ २२१& ॥

एतदेव सप्रपञ्चमुपपादयति- नास्तिक्यमिति । विषस्य योगेन भक्ष्य-पेयपदार्थ संबन्धेन तुल्यः समः मुकुन्दविषयः श्रीविष्णुविषयः द्वेषः नास्तिक्यं ईश्वरास्तित्वाभावत्वम् आवहति संपादयति, नारकं दुर्गतिम् आतनोति विस्तारयति । पुनः पुन- नरकमेव प्रापयतीत्यर्थः । प्रौढिं महत्त्वं निहन्ति विनाशयति, क्षुद्रत्वं ददातीत्यर्थः । संपदमर्थसंपत्तिमपि परिलुम्पति परिहरति । आयुर्जीवितकालं क्षिणोति क्षीणं करोति, ततश्चैवं समस्तदोषान् उपचिनोति वर्धयति ॥ ५२३ ॥

विश्वास-प्रस्तुतिः

कृ॰ - तथ्यमेव,17 तथाप्यवैदिकव्रतेष्वेव प्रयततां शिवभक्तिमभिनयतां पाषण्डविशेषाणामेषां वेष एव भीषयति हृदयम् ॥ २२२& ॥ तथाहि-
श्रिताभव्यमार्गाश्चिताभस्मशुष्यन्निटाला जटालाः स्फुटाला पशून्याः ॥
स्मशानाग्निसख्या दृशा निर्दहन्तः पिशाचा इवामी दिशासु भ्रमन्ति ॥ ५२४ ॥
किंच-एषामतिजुगुप्सिता रीतिः ॥ २२३& ॥
पक्षीकृत्य गिरीशं सिद्ध्या रहिताश्च मानहीनाश्च ॥
इच्छन्त्यधिगन्तुमिमे धनंजयं लिङ्गदर्शनेनैव ॥ ५२५ ॥

मूलम्

कृ॰ - तथ्यमेव,17 तथाप्यवैदिकव्रतेष्वेव प्रयततां शिवभक्तिमभिनयतां पाषण्डविशेषाणामेषां वेष एव भीषयति हृदयम् ॥ २२२& ॥ तथाहि-
श्रिताभव्यमार्गाश्चिताभस्मशुष्यन्निटाला जटालाः स्फुटाला पशून्याः ॥
स्मशानाग्निसख्या दृशा निर्दहन्तः पिशाचा इवामी दिशासु भ्रमन्ति ॥ ५२४ ॥
किंच-एषामतिजुगुप्सिता रीतिः ॥ २२३& ॥
पक्षीकृत्य गिरीशं सिद्ध्या रहिताश्च मानहीनाश्च ॥
इच्छन्त्यधिगन्तुमिमे धनंजयं लिङ्गदर्शनेनैव ॥ ५२५ ॥

बाल-कृष्णः

तथ्यमिति । त्वयोक्तं तथ्यमेव सत्यमेव, तथापि एतेषु शैवेष्वयं प्रकारो न दृश्यते, किंतु अवैदिकानि वेदबाह्यानि यानि व्रतानि केवलं शैवागमप्रोक्तानि तेष्वेव प्रयततां प्रयत्नं कुर्वाणानां पाषण्डविशेषाणां वेददूषकभेदानां जनानां शिव- भक्तिम् अभिनयतां प्रकटीकुर्वतां एषां शैवानां वेषः जटाभस्मादिधारणरूपः दिगम्बरत्वादिरूपश्च हृदयमन्तःकरणं भीषयत्येव ॥ २२२& ॥

श्रितेति । श्रितः अङ्गीकृतः अभव्यः अकल्याणकरः मार्गः यैस्ते, चितायाः भस्मना शुष्यत् शुष्कीभवत् निटालं भालं येषां ते, जटालाः जटायुक्ताः, स्फुटः स्पष्टः श्रवणयोग्यः य आलापो भाषणं तेन शून्याः रहिताः स्मशानाग्नेः सख्या मित्रभूतया तत्सदृश्या अतिरक्तवर्णयेत्यर्थः । दृशा लोचनेन निर्दहन्त इव सन्तः, अमी पाषण्डाः पिशाचा इव दिशासु दशसु भ्रमन्ति पर्यटन्ति ॥ ५२४ ॥

एषामिति । एषां पाषण्डानां अतिजुगुप्सिता अतीव निन्द्या रीतिः ॥ २२३& ॥ तामेव स्पष्टतया प्रतिपादयति - पक्षीकृत्येति । मानेन प्रमाणेन श्रुत्यादिना, ‘यत्र यत्र धूमस्तत्र तत्र वह्निः’ इति व्याप्तिज्ञानेन च हीना रहिताः अत एव सिद्धया मन्त्रादिसाधनेन रहिताः, पर्वतो वह्निमान् इति निश्चयेन च रहिताः इमे पाषण्डाः लिङ्गस्य शिवलिङ्गस्य, धूमरूपस्य च हेतोः, दर्शनेनैव दर्शनमात्रेणैव गिरीशं शिवं पर्वतं च पक्षीकृत्य इष्टदेवत्वेनाश्रित्य पक्षताश्रयं च कृत्वा, धनं द्रव्यं जयमुत्कर्ष च, धनंजयमग्निं च अधिगन्तुं प्राप्तुं अनुमातुं च इच्छन्ति ॥ ५२५ ॥

अन्ये चात्र-
दीर्घवक्रनखरं18 खरकल्पा उद्धरन्त इव बाहुयुगं ते ॥
शौचमाचरितुमप्यसमर्था नीचबुद्धिहृदया19 विहरन्ति ॥ ५२६ ॥
वि॰- विमृश्य -
सखे गुणग्राहिणा नैतेऽपि दूषणीयाः ॥ २२४&॥
शीतोष्णजृम्भणसहेषु जितेन्द्रियेषु
कष्टोपवासपरिशुष्ककलेवरेषु ॥
पुण्यस्थलाटनपराकृत किल्बिषेषु
जानीहि कानपि गुणान् जटिलेष्वमीषु ॥ ५२७ ॥


  1. मत ↩︎ ↩︎

  2. परमम् ↩︎ ↩︎

  3. भोक्तृ ↩︎ ↩︎

  4. भोक्तृ, वेद्यं ↩︎ ↩︎

  5. तमुपदिशन्ति ↩︎ ↩︎

  6. बुद्धय ↩︎ ↩︎

  7. तं ↩︎ ↩︎

  8. इमे ↩︎ ↩︎

  9. ददितारः ↩︎ ↩︎

  10. तत्पदार्थम् यथावस्थितमनभिदधानाः ↩︎ ↩︎

  11. हतामिव ↩︎ ↩︎

  12. सूरा ↩︎ ↩︎

  13. वाचो हितमुनि ↩︎ ↩︎

  14. कौतुकी ↩︎

  15. भृत्या ↩︎

  16. कर्मणाम् ↩︎

  17. सत्यमेव तथाप्यवैदिकवृत्तिष्वेव प्रयियासतां ↩︎ ↩︎

  18. नखराः ↩︎

  19. हृदयं भ्रमयन्ति ↩︎