विश्वास-प्रस्तुतिः
अथ पाण्ड्य-चोलदेशनिवासिस्मार्तशैवादिवर्णनम्॥,
इत्यन्यतोऽभिकामान् समन्तादवलोक्य साञ्जलिबन्धम् —
क्रियासार्थितवेदेभ्यो ग्राहयद्भ्यः श्रुतीर्बहून् ॥
पाण्ड्य-चोलनिवासिभ्यः पण्डितेभ्यो नमोऽस्तु वः ॥ ५०७ ॥
मूलम्
अथ पाण्ड्य-चोलदेशनिवासिस्मार्तशैवादिवर्णनम्॥,
इत्यन्यतोऽभिकामान् समन्तादवलोक्य साञ्जलिबन्धम् —
क्रियासार्थितवेदेभ्यो ग्राहयद्भ्यः श्रुतीर्बहून् ॥
पाण्ड्य-चोलनिवासिभ्यः पण्डितेभ्यो नमोऽस्तु वः ॥ ५०७ ॥
बाल-कृष्णः
भोगायैवेति । यदि नितम्बिन्याः स्त्रियाः परिणयः विधिवत् पाणिग्रहः भोगायैव कामवासनापूरणायैव आचर्यते तदा दुष्येन् निन्द्यो भवेत् प्रत्यवायमुत्पादयेदिति वा । एवकारः यदि आचर्यते दुष्येदिति च प्रतिवाक्यमन्वेतव्यम् । न तु सन्तत्यै इति, अग्निहोत्राद्याश्रमधर्माय वा यागानां ज्योतिष्टोमादीनाम् आहृतिरनुष्ठानं ख्यातये कीर्त्यर्थमेव न तु स्वर्गाद्यर्थ; पाकस्य कृतिः निष्पादनं स्वार्थे स्वभक्षणार्थं न तु पचयज्ञार्थमिति; अर्थार्जनं द्रव्यसम्पादनं कुपात्रविषये कुत्सितवेश्यादिजनविषये त्यागार्थं समर्पणार्थमेव, न तु धर्मार्थं; स्वाध्यायस्य वेदस्य अध्ययनमभ्यासः प्रतिग्रहकृते पर- दत्तद्रव्यादिग्रहणार्थं, न तु स्वीयानुष्ठानोपयोगि कर्मज्ञानाद्यर्थं शास्त्रेषु व्याकरण तर्क-मी मांसादिषु श्रमोऽभ्यासः वादाय, न तु तत्त्वावबोधाय; तथा हरेः कैङ्कर्ये दास्यं स्वोदरपूर्तये आचर्यते तदा दुष्येदिति हेयोपादेयविद उदाहरन्तीति पूर्वेण सम्बन्धः ॥ ५०५ ॥
भूय इति । पुरुषो मनुष्यः भूयो दोषैर्बहुभिर्दोषैः सन्ध्यादिकर्मत्यागादिभिः परिवृतः युक्तोऽपि सात्त्विकानां सत्त्वप्रधानमनसां शुद्धमानसानामित्यर्थः । जनानां हृद्यां
मनोज्ञां भगवति विष्णौ भक्तिम् आसाद्य सम्पाद्य प्रायः बहुधा पूज्यो मान्यो भवति । एतदेव सदृष्टान्तमाह- केतकी प्रबलाः दुर्भरगरलसम्पन्नत्वेन प्रकृष्टशक्तिमन्तश्च ते भुजगाः सर्पाश्च तैः अनल्पैः र्बहुभिः कण्टकैश्चापि आक्रान्ता व्याप्तापि सुरभीणि सुगन्धीनि कुसुमानि पुष्पाणि यस्याः सा तथाभूता, हेतुगर्भमिदं विशेषणम् । सुरभिकुसुमसम्पन्नत्वादित्यर्थः । भाग्यभाजाम् आदृत्या आदरार्हा न भवति किम् ? अपि त्ववश्यमादर्तव्यैव भवतीत्यर्थः ॥ ५०६ ॥
क्रियेति । क्रियाभिः यागाद्यनुष्ठानैः सार्थिताः सफलीकृताः वेदाः यैस्तेभ्यः, बहून् शिष्यवर्गानिति शेषः । श्रूतीर्वेदान् ग्राहयद्भयः पाठयद्भ्यः पाण्ड्यश्च चोलश्च देशभेदौ तयोः निवासो वसतिरस्त्येषां तेभ्यः पण्डितेभ्यो वो युष्माकं नमः अस्तु ॥ ५०७ ॥