४१ कुरुकानगर श्रीशठकोपमुनिवर्णनम्

विश्वास-प्रस्तुतिः

अथ कुरुकानगर श्रीशठकोपमुनिवर्णनम्॥

तदभ्यर्णं निर्वर्ण्य—
चकास्ति कुरुकापुरी शुचिनि ताम्रपर्णीतटे
विरक्तिपरिपक्त्रिमत्रियुगभक्तिभिर्वैष्णवैः ॥
दृढव्रतशठार्युरोबकुलसम्पतद्बम्भर-
ध्वनिद्विगुणजृम्भणद्रविडवेदघोषोज्ज्वला ॥ ४८८ ॥

मूलम्

अथ कुरुकानगर श्रीशठकोपमुनिवर्णनम्॥

तदभ्यर्णं निर्वर्ण्य—
चकास्ति कुरुकापुरी शुचिनि ताम्रपर्णीतटे
विरक्तिपरिपक्त्रिमत्रियुगभक्तिभिर्वैष्णवैः ॥
दृढव्रतशठार्युरोबकुलसम्पतद्बम्भर-
ध्वनिद्विगुणजृम्भणद्रविडवेदघोषोज्ज्वला ॥ ४८८ ॥

बाल-कृष्णः

एवं सेतुं संवर्ण्य ततो निवृत्य ताम्रपर्णीत्याख्यां नदीं वर्णयतीत्याह- इतीत्यादि ।

तापमिति । रोधसोस्तीरयोः लसन्ति शोभमानानि परमहर्षाणाम् अतिशयानन्दयुक्तानां महर्षीणां यूथानि समूहाः यस्य सः, अत एव त्रिजगति त्रैलोक्ये प्रथितः प्रसिद्धः पाथोनिधेः समुद्रस्य अवरोधः अन्तःपुरस्त्री ताम्रपणीम् इति प्रसिद्धाम् आख्यां नाम वहन् धारयन् सन्, इह लोके नृणां मनुष्याणाम् अघानि पापान्येव दवानल- स्तस्य जृम्भणात् प्रज्वलनाद् उत्थमुत्पन्नं तापम् आध्यात्मिकादिरूपं विलुम्पति विनाशयति ॥ ४८७ ॥

एवं ताम्रपर्णी प्रस्तूय तत्समीपवर्तिश्रीशठकोपमुनिं वर्णयितुं प्रस्तौति –

तदित्यादि । अभ्यर्ण समीपदेशम् -

चकास्तीति । शुचिनि पवित्रे ताम्रपर्ण्या नद्यास्तटे तीरे दृढव्रतस्य निर्भरनियमसम्पन्नस्य शठारेः एतन्नामकवैष्णवगुरोः उरः स्थिते बकुले बकुलमालायां सम्पतन्तः सम्प्राप्नुवन्तः ये बम्भराः भ्रमरास्तेषां ध्वनिभिः गुञ्जारवशब्दैः द्विगुणं जृम्भणं ध्वनिप्रसारणं येषां तैर्द्रविडपठितैर्वेदघोषैः उज्ज्वला कान्तिमती कुरुकाख्या पुरी नगरी विरक्तैर्विषयवैतृष्ण्याद्धेतोः परिपक्त्रिमा फलाभिमुखा त्रियुगे विष्णौ भक्तिर्येषां तथाभूतैवैष्णवैः विष्णुभक्तैः करणैः चकास्ति प्रकाशते ॥ ४८८ ॥

विश्वास-प्रस्तुतिः

अत्रत्यानां धर्मनिरतानां1 हरिभृत्यानामित्थमनुसन्धानम् ॥ २०६& ॥
परिदृष्टवते2 सहस्रशाखां परमां द्राविडसंहितां हितां नः ॥
गुरवे करवाम नित्यमस्मै शठकोपाय महर्षये प्रणामान् ॥ ४८९ ॥
अञ्चाम चिञ्चातरुमद्भुतं तं पञ्चामरद्रूनवधीरयन्तम् ॥
शठारिसञ्ज्ञं किल यस्य मूले तपःफलं किञ्चिदुदञ्चितं नः॥४९०॥
दिशन् श्रितानाममृतात्मकं फलं
विलक्षणो भाति स तिन्तिडीतरुः ॥
सहस्रशाखं द्रविडागमं सृजन्
स यस्य मूलं समुपाश्रितो मुनिः ॥ ४९१ ॥

मूलम्

अत्रत्यानां धर्मनिरतानां1 हरिभृत्यानामित्थमनुसन्धानम् ॥ २०६& ॥
परिदृष्टवते2 सहस्रशाखां परमां द्राविडसंहितां हितां नः ॥
गुरवे करवाम नित्यमस्मै शठकोपाय महर्षये प्रणामान् ॥ ४८९ ॥
अञ्चाम चिञ्चातरुमद्भुतं तं पञ्चामरद्रूनवधीरयन्तम् ॥
शठारिसञ्ज्ञं किल यस्य मूले तपःफलं किञ्चिदुदञ्चितं नः॥४९०॥
दिशन् श्रितानाममृतात्मकं फलं
विलक्षणो भाति स तिन्तिडीतरुः ॥
सहस्रशाखं द्रविडागमं सृजन्
स यस्य मूलं समुपाश्रितो मुनिः ॥ ४९१ ॥

बाल-कृष्णः

अत्रत्यानामिति । अत्रत्यानां कुरुकापुर निवासिनां धर्मनिरतानां पुण्यकर्म- तत्पराणां हरेर्भृत्यानां सेवकानाम् इत्थं वक्ष्यमाणप्रकारकमनुसन्धानं चिन्तनम् ॥ २०६& ॥

परीति । सहस्रं चतस्रः शाखा विभागाः यस्यास्तां, सहस्रसङ्ख्यायाश्चतुर्थस्थानत्वाच्चतुर्षु सहस्रशब्दस्यौपचारिकः प्रयोगः । अत एव परमां महतीं द्राविडैः पठनीयां संहितां, नः अस्माकं वैष्णवानां हितां हितकारिणीं परिदृष्टवते सम्यगवगच्छते, परिसृष्टवते’ इत्यपि पाठः, तत्पक्षे परिसृष्टवते उत्पादयित्रे इत्यर्थः । शठकोपाय गुरवे महर्षये अस्मै नित्यं प्रणामान् नमस्कारान् करवाम कुर्मः । " क्रियार्थोपपदस्य – ” इत्यादिना चतुर्थी । ’ स्वयम्भुवे नमस्कृत्य " इत्यादिवत् । तेन शठकोपायेत्यस्य तमनुकूलयितुमित्यर्थः ॥ ४८९ ॥

अञ्चामेति । यस्य चिञ्चातरोर्मूले नः अस्माकं वैष्णवजनानां किञ्चिदनिर्वाच्यं शठारिसञ्ज्ञं शठारिमुनिरूपमित्यर्थः । तपःफलम् उदञ्चितं प्रकटीभूतं किल तं पञ्च अमरद्रून् मन्दार-पारिजातादिदेववृक्षान् । “पञ्चैते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षच पुंसि वा हरिचन्दनम् । ” इत्यमरः । अवधीरयन्तं तिरस्कुर्वन्तम् अत एव अद्भुतमाश्चर्यावहं चिञ्चातरुं तिन्तिडीवृक्षम् अञ्चाम पूजयाम । अच्चु गति- पूजनयोः ’ इत्यस्य लोडुत्तमपुरुषः ॥ ४९० ॥

दिशन्निति । यस्य तिन्तिडीतरोः मूलं सः प्रसिद्धः सहस्रशाखं द्रविडागमं द्रविडवेदं सृजन्नुत्पादयन् मुनिः शठारिसञ्ज्ञः समुपाश्रितः, सः श्रितानामाश्रितानाम् अमृतात्मकं मोक्षरूपं पीयूषरूपं च फलं दिशन् समर्पयन् अत एव विलक्षणः आश्चर्यावहः स्वस्य आम्लमयत्वाद् अमृतफलप्रदत्वेनेति भावः 1 तिन्तिडीतरुः भाति शोभते ॥ ४९१॥

विश्वास-प्रस्तुतिः

हरिमिव कृतावतरणं बकुलाभरणं वृणीमहे शरणम् ॥
ध्येयं यं विदुरार्या मुमुक्षुभिर्यत्प्रबन्धमध्येयम् ॥ ४९२ ॥
तस्मिन्मतिर्मेऽस्तु दृढा शठारौ गायन्त उच्चैरिह यस्य गाथाः ॥
प्रहाय3 देहं प्रथयन्ति4 दिव्ये पदेऽहमन्नाद इति प्रगीते ॥ ४९३ ॥
कृतदुरितनिरोधानां कलितश्रुतिमौलिभावबोधानाम् ॥
वशितरमानाथानां न सुधाऽपि समा शठारिगाथानाम् ॥४९४ ॥
जनानुद्दिश्य-
कठिनशठनरेन्द्रस्तावकान् श्लोकपाशान्
जठरपिठरपूयैर्जातु मा सङ्गिरध्वम्5
लुठत दृढतमस्के मा च संसारकूपे
पठत शठजिदुक्तीरश्रमानीतमुक्तीः ॥ ४९५ ॥

मूलम्

हरिमिव कृतावतरणं बकुलाभरणं वृणीमहे शरणम् ॥
ध्येयं यं विदुरार्या मुमुक्षुभिर्यत्प्रबन्धमध्येयम् ॥ ४९२ ॥
तस्मिन्मतिर्मेऽस्तु दृढा शठारौ गायन्त उच्चैरिह यस्य गाथाः ॥
प्रहाय3 देहं प्रथयन्ति4 दिव्ये पदेऽहमन्नाद इति प्रगीते ॥ ४९३ ॥
कृतदुरितनिरोधानां कलितश्रुतिमौलिभावबोधानाम् ॥
वशितरमानाथानां न सुधाऽपि समा शठारिगाथानाम् ॥४९४ ॥
जनानुद्दिश्य-
कठिनशठनरेन्द्रस्तावकान् श्लोकपाशान्
जठरपिठरपूयैर्जातु मा सङ्गिरध्वम्5
लुठत दृढतमस्के मा च संसारकूपे
पठत शठजिदुक्तीरश्रमानीतमुक्तीः ॥ ४९५ ॥

बाल-कृष्णः

हरिमिवेति । हरिमिव श्रीविष्णुमिव कृतम् अवतरणमवतारो येन सः तं भगवन्तं विष्णुमिव लोकोपकारार्थमाविर्भूतमित्यर्थः । बकुलाभरणं श्रीशठकोपमुनिं शरणं रक्षकं वृणीमहे अङ्गीकुर्मः । किं वा तस्मिन् रक्षणसामर्थ्यं यस्मात्तदङ्गीकार इत्याकाङ्क्षायामाह — यं शठकोपमुनिम् आर्याः श्रेष्ठजनाः मुमुक्षुभिः ध्येयं ध्यातुं योग्यं यत्प्रबन्धं यस्य शठकोपस्य ग्रन्थम् अध्येयम् अभ्यसनीयं च विदुः जानन्ति । एतदेव शरणत्वेन स्वीकारे, बलवत्तरं प्रमाणमित्यर्थः ॥ ४९२ ॥

तस्मिन्निति । इह लोके यस्य शठारेः गाथाः संहितारूपाः उच्चैरुच्चस्वरेण गायन्तः सन्तः देहं प्राय त्यक्त्वा अहमन्नादः इति प्रगीते वर्णिते, यजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवल्ल्यां दशमेऽनुवाके " य एवं वित् । अस्माल्लोकात्प्रेत्य " इत्युपक्रम्य " एतत्साम गायन्नास्ते । हा३वु हा ३ बुहा ३ बु । अहमन्नमहमन्नमहमन्नम् । अहमन्नादोऽहमन्नादो २ऽहमन्नादः । ” इत्युपसंहारपरया श्रुत्येति शेषः । अत एव दिव्ये तेजःसम्पन्ने पदे वैकुण्ठस्थाने ग्रथयन्ति प्रसिद्धा भवन्ति । तस्मिन् शठारौ शठकोपमुनौ मे दृढा अनन्यविषया मतिः अस्तु ॥ ४९३ ॥

एवं शठकोपं वर्णयित्वा तद्गाथामाहात्म्यं वर्णयति — कृतेति । कृतं दुरितानां पापानां निरोधो वारणं याभिस्तासां कुतः यतः कलितः प्रकटीकृतः श्रुतिमौलीनाम् उपनिषदां भावस्याभिप्रायस्य बोधो ज्ञानं याभिस्तासाम् अत एव वशितः वशीकृतः रमानाथो भगवान् विष्णुर्याभिस्तासां शठारिगाथानां सुधा अमृतमपि समा तुल्या न, का पुनरितरेषां वार्तेति भावः ॥ ४९४ ॥

कठिनेति । भो भो जनाः भवन्तः कठिनाः निष्ठुराः अत एव शठाः दुस्तरकरभारादिग्रहणेन वञ्चकाश्च ये नरेन्द्रा राजानः तेषां स्तावकाः वृथैव श्लाघाकारिणस्तान् अत एव श्लोकपाशान् निन्द्यश्लोकान् केवलं जठरपिठरस्य उदरकुण्डस्य पिठरः स्थाल्युखा कुण्डम् इत्यमरः । पूर्त्यै भरणार्थं जातु कदाचिदपि मा सङ्गिरध्वम् मा उच्चारयत । तथा दृढं गाढं तमोऽज्ञानं यस्मिन् तथाभूते संसारकूपे च मा लुठत मा तिष्ठत । किन्तु अश्रमेणानायासेनैव आनीता प्रापिता मुक्तिर्याभिस्ताः शठजितः शठकोपस्य मुनेः उक्तीः गाथाः पठत उच्चारयत ॥ ४९५ ॥

विश्वास-प्रस्तुतिः

कृशानुमामन्त्र्य -
ननु शठकोपाय त्वं प्रणतिं प्राप्ताय भावुकोपायत्वम् ॥
विमलमते! कुरु कायान्निरसितुमंहो विराजते कुरुकायाम् ॥४९६॥
किञ्च-
बकुलाभरणीयानां गाथानां सन्मुखेन6 भरणीयानाम् !!
हरिगृहमध्ये तारस्वरेण पुनते प्रपञ्चमध्येतारः ॥ ४९७ ॥
सश्लाघम्—
विरक्तेरास्थानी मधुमथनभक्तेर्नटनभू-
र्विमुक्तेर्निःश्रेणी सुकृतपरिपक्तेः7 फलमसौ ॥
प्रपत्तेरुद्यानक्षितिरकृतकोक्तेः प्रियसखी
चिदङ्कूरक्षोणी बकुलधरवाणी विजयते ॥ ४९८ ॥
समन्तादवलोक्य सानन्दं8 कृशानुमुद्दिश्य-
अभ्यस्तवेदमौलिभ्यः सङ्ख्यस्तत्त्वबुभुत्सया ॥
कुरुकापुरवासिभ्यः कुरु कामं नमस्क्रियाः ॥ ४९९ ॥
कृ॰ - सत्यमेवम् । तथापि पुनरतिपतितश्रुतिस्मृतयो9 यतयोऽपि कतिचिदत्र वर्तन्त इति भातीह10 नातिमाननीयता ॥ २०७& ॥
तथाहि-
न सन्ध्यासु स्नानं तिसृषु न कमण्डल्वभिधृति-
र्न चातुर्मास्यादिव्रतमपि न भिक्षाटनविधिः ॥
न लिप्सायास्त्यागो न परिपठनं चोपनिषदां
यतित्वं नैतेषां श्रुतिमतमतिक्रम्य11 चरताम् ॥ ५०० ॥
न केवलमेतावदेव शृणु तावदन्यदपि ॥ २०८& ॥

मूलम्

कृशानुमामन्त्र्य -
ननु शठकोपाय त्वं प्रणतिं प्राप्ताय भावुकोपायत्वम् ॥
विमलमते! कुरु कायान्निरसितुमंहो विराजते कुरुकायाम् ॥४९६॥
किञ्च-
बकुलाभरणीयानां गाथानां सन्मुखेन6 भरणीयानाम् !!
हरिगृहमध्ये तारस्वरेण पुनते प्रपञ्चमध्येतारः ॥ ४९७ ॥
सश्लाघम्—
विरक्तेरास्थानी मधुमथनभक्तेर्नटनभू-
र्विमुक्तेर्निःश्रेणी सुकृतपरिपक्तेः7 फलमसौ ॥
प्रपत्तेरुद्यानक्षितिरकृतकोक्तेः प्रियसखी
चिदङ्कूरक्षोणी बकुलधरवाणी विजयते ॥ ४९८ ॥
समन्तादवलोक्य सानन्दं8 कृशानुमुद्दिश्य-
अभ्यस्तवेदमौलिभ्यः सङ्ख्यस्तत्त्वबुभुत्सया ॥
कुरुकापुरवासिभ्यः कुरु कामं नमस्क्रियाः ॥ ४९९ ॥
कृ॰ - सत्यमेवम् । तथापि पुनरतिपतितश्रुतिस्मृतयो9 यतयोऽपि कतिचिदत्र वर्तन्त इति भातीह10 नातिमाननीयता ॥ २०७& ॥
तथाहि-
न सन्ध्यासु स्नानं तिसृषु न कमण्डल्वभिधृति-
र्न चातुर्मास्यादिव्रतमपि न भिक्षाटनविधिः ॥
न लिप्सायास्त्यागो न परिपठनं चोपनिषदां
यतित्वं नैतेषां श्रुतिमतमतिक्रम्य11 चरताम् ॥ ५०० ॥
न केवलमेतावदेव शृणु तावदन्यदपि ॥ २०८& ॥

बाल-कृष्णः

अथ कृशानुमुपदिशति – नन्विति । हे विमलमते शुद्धबुद्धे कृशानो ! त्वं कायात् शरीराद् अंहः पापं निरसितुं निवारयितुं भावुकः कुशलश्चासावुपायः साधनं च " भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् । शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च " इत्यमरात् सुखादयः शब्दाः विशेष्यनिघ्नाः । तत एवात्र भावुकशब्दस्य पुंल्लिङ्गत्वम् । सः तस्य भावः भावुकोपायत्वं प्राप्ताय कुरुकायां नाम नगर्यां विराजते शोभमानाय शठकोपाय मुनये प्रणतिं नमस्कारं कुरु । ननु निश्व- न्येन । मा तस्मिन् दोषारोपं कार्षीरित्यर्थः ॥ ४९६ ॥

बकुलेति । सतां सत्पुरुषाणां सता सद्विद्यादिसंस्कारवत्त्वेनोत्तमेन वा मुखेन भरितुं पठितुं योग्याः भरणीयास्तासां बकुलाभरणः शठकोपमुनिस्तस्येमाः बकुलाभरणीयाः श्रीशठकोपमुनिप्रणीता इत्यर्थः । तासां गाथानां हरिगृहस्य श्रीभगवद्विष्णुमन्दिरस्य मध्ये तारस्वरेण उच्चस्वरेण अध्येतारः अध्ययनकर्तारः जनाः प्रपञ्चं सकलं संसारं पुनते पवित्रीकुर्वन्ति ॥ ४९७ ॥

विरक्तेरिति । विरक्तेर्वैराग्यस्य आस्थानी सभा “समज्या परिषद्गोष्ठी सभा समिति - संसदः आस्थानी” इत्यमरः । मधुमथनभक्तेर्विष्णुभक्तेः नटनभूः रङ्गभूमिः, विमुक्तेर्मोक्षस्य निःश्रेणी, अधिरोहिणी, सुकृतस्य पुण्यकर्मणः परिपक्तेः परिपाकस्य फलम् इच्छितलाभः प्रपत्तेः शरणागतेः उद्यानक्षितिः उपवनभूमिः, विशिष्टसुखोत्पादकत्वात् । अकृतकायाः अकृत्रिमायाः उक्तेः वेदस्य प्रियसखी, चिदङ्कुरस्य चिन्मयनूतनप्ररोहस्य क्षोणी उत्पत्तिभूमिः, एतदभ्यासादेव चिन्मयब्रह्मज्ञानं प्रादुर्भवतीत्यर्थः । एतादृशी असौ बकुलधरस्य श्रीशठकोपस्य वाणी प्रबन्धरूपा विजयते सर्वोत्कर्षेण वर्तते ॥ ४९८ ॥

भ्यस्तेति । हे कृशानो, त्वमिति शेषः । तत्त्वस्य आत्मयाथार्थ्यस्य बुभुत्सया जिज्ञासया हेतुभूतया अभ्यस्ताः अधीताः वेदमौलयः उपनिषदः यैस्तेभ्यः अत एव सद्भ्यः कुरुकापुरवासिभ्यः कामं यथेच्छं नमस्कियाः नमस्कारान् कुरु ॥ ४९९ ॥

सत्यमिति । सत्यमित्यार्धाङ्गीकारे । एवं त्वयुक्तप्रकारेण सत्यं, तथापि अतिपतिताः अतिक्रमिताः श्रुतयः स्मृतयश्च यैस्ते कतिचिद् यतयः सन्न्यासिनोऽपि अत्र कुरुकानगर्यां वर्तन्ते इति हेतोः अतिमाननीयता अतिपूज्यता इह न भाति ॥२०७&॥

नेति । श्रुतिमतं वेदमतमतिक्रम्य चरताम् एतेषां सन्न्यासिनाम् एतत्प्रतिवाक्यान्वयि [?‍] । तिसृषु सन्ध्यासु प्रातर्मध्याह्नसायाह्नासु स्नानं यतीनां वेदविहितं न, कमण्डलोः अभिवृतिर्धारणं न चातुर्मास्यादिव्रतम् एकस्मिन्नेव स्थाने संवासादिरूपम् एतच यतीनां शास्त्रविहितम् । तदपि न भिक्षाटनं भिक्षार्थ परिभ्रमणं तस्य विधिः न लिप्सायाः धनवाञ्छायाः त्यागो न, किञ्च उपनिषदां पठनमपि न, अत एव एतेषां यतित्वं न । केवलं काषायवस्त्रपरिधानादिना बाह्यतः सन्न्यासित्वेपि न तथाऽन्तत इत्यर्थः ॥ ५०० ,

विश्वास-प्रस्तुतिः

सन्न्यासाश्रममाश्रितोऽपि सकलव्यापारलोपात्मकं
कैङ्कर्यं चपलो हरेरपदिशन्द्राग्राजधानीं विशन् ॥
अर्थानर्जयति श्रितोर्जितमठो सृष्टान्नमश्नात्यसौ
को मृष्येदिह राम ! राम ! तदिदं कष्टं कलेश्चेष्टितम्12 ॥ ५०१ ॥
किम्बहुना -
अन्याय्यमस्ति किमितोऽपि हते13 कलौ यत्
सन्न्यासिनो विदधते गृहिणां प्रणामान् ॥
एतत्तु चेत इह कृन्तति वैष्णवोऽसा-
वित्यत्र14 शूद्रममतिर्नमति द्विजो यत् ॥ ५०२ ॥
वि॰ - सखे मेवं सम्भाषिष्ठाः ॥ २०९& ॥
इच्छन्तु15 हन्त यतिनः कतिचिद्धनौघ-
मुज्झन्तु भैक्ष्यचरणं कलयन्तु मा16 वा ॥
हर्यङ्घ्रिपङ्करुहकिङ्करतारताश्चे-17
दङ्कप्रसक्तिरकलङ्कहृदां18 क्व ? तेषाम् ॥ ५०३ ॥

मूलम्

सन्न्यासाश्रममाश्रितोऽपि सकलव्यापारलोपात्मकं
कैङ्कर्यं चपलो हरेरपदिशन्द्राग्राजधानीं विशन् ॥
अर्थानर्जयति श्रितोर्जितमठो सृष्टान्नमश्नात्यसौ
को मृष्येदिह राम ! राम ! तदिदं कष्टं कलेश्चेष्टितम्12 ॥ ५०१ ॥
किम्बहुना -
अन्याय्यमस्ति किमितोऽपि हते13 कलौ यत्
सन्न्यासिनो विदधते गृहिणां प्रणामान् ॥
एतत्तु चेत इह कृन्तति वैष्णवोऽसा-
वित्यत्र14 शूद्रममतिर्नमति द्विजो यत् ॥ ५०२ ॥
वि॰ - सखे मेवं सम्भाषिष्ठाः ॥ २०९& ॥
इच्छन्तु15 हन्त यतिनः कतिचिद्धनौघ-
मुज्झन्तु भैक्ष्यचरणं कलयन्तु मा16 वा ॥
हर्यङ्घ्रिपङ्करुहकिङ्करतारताश्चे-17
दङ्कप्रसक्तिरकलङ्कहृदां18 क्व ? तेषाम् ॥ ५०३ ॥

बाल-कृष्णः

सन्न्यासेति । सकलाच ते व्यापारा धनार्जनादिरूपाश्च तेषां लोपः शास्त्रत- त्याग एवात्मा स्वरूपं यस्य तं सन्न्यासाश्रमम् आश्रितोऽपि चपलः द्रव्याशाधीनत्वा- चञ्चलान्तःकरणः हरेर्भगवतः कैङ्कर्य दास्यम् अपदिशन् निमित्तीकुर्वन् सन्, द्राक् शीघ्रमेव राजधानी राजनिवासनगरी विशन् प्रविशन् संश्च अर्थान् द्रव्याण्यर्जयति सम्पादयति । नैतावदेव, किन्तु श्रितः निवासार्थमाश्रितः ऊर्जितः सुभगशिलाभित्त्यादिसम्पन्नः मठः येन तथाभूतः सन् असौ यतिः मृष्टान्नं मधुरान्नम् अश्नाति भुनक्ति । तत् तस्माद् इदं कलेः कलियुगस्य, क्वचित् ‘यतेः’ इत्यपि पाठः । अर्थात् कलियुगसम्बन्धियतेः चेष्टितं कष्टम् अन्याय्यम् । अत एव इह लोके को जनः मृष्येत् सहेत ? राम ! राम ! इति खेदे ॥ ५०१ ॥

जनानां किञ्च अन्याय्यमिति । सन्न्यासिनः गृहिणां गृहस्थाश्रमिणां प्रणामान् नमस्कारान् विदधते कुर्वन्ति इति यत्, इतोऽप्यस्मादपि हृते दुष्टे कलौ युगे अन्याय्यं किमस्ति ? नान्यत् किमपीत्यर्थः । किञ्च एतस्मादपि अन्यद्दुश्चरितं श्रण्वित्याह- पतत्त्विति । असौ शूद्रः वैष्णवः विष्णुभक्तः इति मत्वा, अत्र कुरुकानगर्याम् अमतिर्मन्दबुद्धिः स्वयं द्विजो ब्राह्मणोऽपि सन् शूद्रं नमति नमस्करोतीति इयद् एतत्तु द्विजेन शूदनमस्काराचरणं च इह नगर्यां चेतः चित्तं कृन्तति त्रोटयति ॥ ५०२ ॥

अथ धनार्जनादिरूपं यतिनामारोपितं दोषमुद्धारयन्नाह - इच्छन्त्विति । हन्तेति हर्षे । कतिचिद् यतिनः न तु सर्वे धनौघं द्रव्यसञ्चयम् इच्छन्तु उज्झन्तु त्यजन्तु वा । तथा भैक्ष्याचरणं च मा कलयन्तु न कुर्वन्तु । किं तु ते यतयः हरेर्विष्णोरङ्घ्री चरणावेव पङ्करुहे कमले, पङ्करुह इति प्रामादिकम्। “तत्पुरुषे कृति - " इत्यलुग्विधानात् । " पङ्केरुहं तामरसं" इत्यमरोऽपि । बाहुल्याद्वा कथञ्चित् समाधेयम् । तयोः किङ्करतायां दास्ये रतास्तत्पराश्चेद् यदि भवेयुस्तर्हि तत एव अकलङ्कं दोषरहितं हृदन्तःकरणं येषां तेषां यतीनाम् अङ्कस्य कलङ्कस्य " उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः ।" इत्यमरः । प्रसक्तिः सम्बन्धः क्व सम्भवति ? हरिभक्तिप्रभावादेव धनार्जनादिरूपाः क्षुद्रदोषा नश्यन्तीति भावः । तदुक्तं भगवतैव- " अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः - " इत्यादि ॥ ५०३ ॥

विश्वास-प्रस्तुतिः

यत्पुनरभिहितं फणिवर्यपर्यङ्ककैङ्कर्यार्थ पर्यटनमपि तुर्याश्रमाननुगुणमिति तदपि निपुणनिरूपण विरहविजृम्भितम् ॥ २१०& ॥
केचन पङ्कजलोचनकैङ्कर्यायैव पर्यटाट्यन्ते19
सन्न्यासिन इह धन्यास्ते हि स्वत उपगतस्पृहाविरहाः ॥ ५०४ ॥
इत्थं हि हेयोपादेयविद उदाहरन्ति ॥ २११& ॥

मूलम्

यत्पुनरभिहितं फणिवर्यपर्यङ्ककैङ्कर्यार्थ पर्यटनमपि तुर्याश्रमाननुगुणमिति तदपि निपुणनिरूपण विरहविजृम्भितम् ॥ २१०& ॥
केचन पङ्कजलोचनकैङ्कर्यायैव पर्यटाट्यन्ते19
सन्न्यासिन इह धन्यास्ते हि स्वत उपगतस्पृहाविरहाः ॥ ५०४ ॥
इत्थं हि हेयोपादेयविद उदाहरन्ति ॥ २११& ॥

बाल-कृष्णः

यदिति । यत् पूर्वं फणिवर्यः शेषः पर्यङ्कः शयनं यस्य तस्य विष्णोः कैङ्कर्यार्थं दास्यार्थं पर्यटनं परिभ्रमणमपि तुर्याश्रमस्य चतुर्थाश्रमस्य अननुगुणमयोग्यमिति यदभिहितं ‘सन्न्यासाश्रममाश्रितोऽपि -’ इत्यादिना प्रतिपादितं तत्प्रतिपादनमपि निपुणं सविवेकं यन्निरूपणम् अवलोकनं तस्य विरहेणाभावेन विजृम्भितं समुल्लसितम् ॥ २१०& ॥

केचनेति । केचन सन्न्यासिनः पर्यटाट्यन्ते पुनःपुनरतिशयेन वा परिभ्रमन्ति राजधानीमिति शेषः । ’ अट गटौ’ इत्यस्माद् यङि रूपम् । ते पङ्कजलोचनस्य भगवतो विष्णोः कैङ्कर्यायैव दास्यार्थमेव एवकारेणेतरदोषारोपव्यवच्छेदः । अत एव स्वतः उपगतः प्राप्तः स्पृहायाः इच्छायाः विरहः अभावो येषां तथाभूताः निःस्पृहा इत्यर्थः । सन्ति । अत एव च ते इहलोके धन्याः सुकृतिनः हि एव ॥ ५०४ ॥

इत्थमिति । हेयं त्याज्यम् उपादेयं ग्राह्यं च ते उभे विदन्ति जानन्तीति तद्विदः ते, इत्थं वक्ष्यमाणप्रकारेण उदाहरन्ति कथयन्ति ॥ २११& ॥

भोगायैव नितम्बिनीपरिणयो यागाहृतिः ख्यातये
स्वाँर्थे20 पाककृतिः कुपात्रविषये21 त्यागार्थमर्थार्जनम् ॥.

स्वाध्यायाध्ययनं प्रतिग्रहकृते वादाय शास्त्रश्रमो
दुष्येत्स्वोदरपूर्तये22 यदि हरेः कैक्ङ्कर्यमाचर्यते ॥ ५०५ ॥
अन्यच्च-
भूयोदोषैरपि परिवृतः पूरुषः सात्विकानाम्
प्रायः पूज्यो भवति भगवद्भक्तिमासाद्य हृद्याम् ॥
आक्रान्ताऽपि प्रबलभुजगैः कण्टकैरप्यनल्पैः
किं नादृत्या सुरभिकुसुमा केतकी भाग्यभाजाम्23 ॥ ५०६ ॥


  1. नित्यानां, नित्यानां हरिभृत्यानाम् ↩︎ ↩︎

  2. सृष्ट ↩︎ ↩︎

  3. प्रव्हाय वेदं ↩︎ ↩︎

  4. प्रपठन्ति ↩︎ ↩︎

  5. सङ्गदिष्ठाः ↩︎ ↩︎

  6. सन्मुखाब्ज ↩︎ ↩︎

  7. सुकृततरु ↩︎ ↩︎

  8. सहर्षम् ↩︎ ↩︎

  9. रतीत ↩︎ ↩︎

  10. न भातीह माननीयता ↩︎ ↩︎

  11. गति ↩︎ ↩︎

  12. यतेः ↩︎ ↩︎

  13. युगे ↩︎ ↩︎

  14. इत्यान्ध्र ↩︎ ↩︎

  15. मुञ्चन्तु हन्त यतयः कतिचित्द्व्रतौघान् ↩︎ ↩︎

  16. वामी ↩︎ ↩︎

  17. ऋच्छन्तु ↩︎ ↩︎

  18. त्पङ्क ↩︎ ↩︎

  19. पर्यटन्तेऽमी ↩︎ ↩︎

  20. स्वार्थः ↩︎

  21. विषयः ↩︎

  22. च्चोदर ↩︎

  23. भाजा ↩︎