३९ सेतुवर्णनम्

विश्वास-प्रस्तुतिः

अथ सेतुवर्णनम्॥

इत्यन्यतः परिक्रामन्नग्रतोऽवलोक्य सहर्ष साञ्जलिबन्धनम् —
पातुं पातकिनो जनानशरणान् पातुं तमःसागरम्
यातुं यातुपुरीमरीन् रणमुखे जेतुं दशास्यादिकान् ॥
नेतुं भूतनयां मुदं विरहिणीमेतुं यशः शाश्वतम्
दातुं शर्म च राघवेण1 रचितं सेतुं नमस्कुर्महे ॥ ४७४ ॥

मूलम्

अथ सेतुवर्णनम्॥

इत्यन्यतः परिक्रामन्नग्रतोऽवलोक्य सहर्ष साञ्जलिबन्धनम् —
पातुं पातकिनो जनानशरणान् पातुं तमःसागरम्
यातुं यातुपुरीमरीन् रणमुखे जेतुं दशास्यादिकान् ॥
नेतुं भूतनयां मुदं विरहिणीमेतुं यशः शाश्वतम्
दातुं शर्म च राघवेण1 रचितं सेतुं नमस्कुर्महे ॥ ४७४ ॥

बाल-कृष्णः

किंच देवागारेति । देवागारे देवमन्दिरस्य निषेविणः पूजनान्ननिष्पादनादि- रूपेण सेवकाः जनाः प्रातःकालस्नानादिना शुद्ध्यन्तु, संध्यानाचरणादिना दुष्यन्तु दोषयुक्ता भवन्तु वा । परंतु ते उभयविधा अपि अमी जनाः स्वामिनः भगवतः परिग्रहेणानुग्रहेण मनीषाजुषां बुद्धिमतां नियतं नियमेन मान्याः पूज्याः भवन्ति । अत्रार्थान्तरमुपन्यस्यति — लोके प्रायेण बहुधा हीनोऽपि नीचोऽपि जनः आश्रयस्याधारस्य गौरवेण महत्त्वेन मानार्हतां पूज्यतां लभते प्राप्नोति । हि यस्मात् कुब्जः वक्राङ्गः क्लीबश्व तौ मुखौ प्रमुखौ यस्मिन् तथाभूतो जनोऽपि, जातावेकवचनम् । राजाश्रयात् पूजाम् इतरजनेभ्यः सत्कारं, भजते प्राप्नोति ॥ ४७३ ॥

अथ दक्षिणतः श्रीरामकृतं सेतुं दृष्ट्वा तं नमस्कुर्वन्नाह - पातुमिति । अशरणान् रक्षकहीनान् पातकिनश्च जनान् पातुं रक्षितुं तमः सागरमज्ञानसमुद्रं पातुं तस्य पानं कर्तुं, पूर्व ‘पा रक्षणे’ इति धातो रूपमत्र च ‘पा पाने’ इति धातोश्च रूपमङ्गीकृतमिति बोध्यम् । तेन सकलाज्ञानं विनाशयितुमित्यर्थः । यातूनां रक्षसां " यातुधानः पुण्यजनो नैर्ऋतो यातु रक्षसी । " इत्यमरः । पुरीं लङ्कानगरीं यातुं गन्तुं रणमुखे युद्धमध्ये दशास्यादिकान् रावणप्रमुखान् अरीन् शत्रून् जेतुं पराभावयितुं, विरहिणीं स्ववियोगिनीं भूतनयां सीतां मुदमानन्दं नेतुं प्रापयितुं शाश्वतं विनाशरहितं यशः कीर्ति एतुं संपादयितुं, शर्म सुखं दीनजनेभ्य इति शेषः । दातुं च राघवेण श्रीरामचन्द्रेण रचितं निर्मितं सेतुं नमस्कुर्महे वन्दनं कुर्मः ॥ ४७४ ॥

विश्वास-प्रस्तुतिः

हन्त कठिनानामप्यमीषामतिमहती प्रीतिरनुबन्धिजने ॥२०३&॥
यतः
लङ्कापुरे पङ्क्तिमुखेन रुद्धां भूमेः सुतां भूमिभृतोऽनुबन्धात् ॥
पतिं पुनः प्रापयितुं पयोधौ सेतूभवन्तः स्वयमाप्लवन्ति ॥ ४७५॥ निरूप्य -
पयोधिमध्ये प्लवमानमूर्तयस्तरङ्गवेगार्पितफेनचिह्निताः ॥
हसन्ति किं मन्दरमन्तरर्णवं निमग्नमेते नलसेतुभूधराः ॥४७६॥ पुनर्विमृश्य-
लङ्कापुरावासिरघूद्वहारिसंपर्कपापादिव सिन्धुराजः ॥
सपक्षभूभृन्निबिडान्तरोऽपि विपक्षभूभृद्भिरबन्धि कष्टम् ॥४७७ ॥
शुद्धाः संश्रितधर्मसेतव इमे सोढोग्रवर्षातपाः
स्थित्वा सिन्धुजले सदा क्षितिभृतो घोरं तपः कुर्वते ॥
नृत्यन्तीरिह नित्यमेव लुलितास्तीक्ष्णैरतन्वाशुगै-2
र्लावण्यं दधतीः कदापि न चलन्त्यालोक्य वीचीरमूः ॥ ४७८ ॥
क्षणमभिध्यायन्नञ्जलिं बद्ध्वा-
अस्तोकदृप्तिरपि वारिधिरेष यस्मात्
त्रस्तो बिभर्ति विपुलोपलसान्द्रसेतुम् ॥
गोपायते दुरितवन्ति जगन्ति तस्मै
कोपाय ते रघुपते महते नमोऽस्तु ॥ ४७९ ॥
कृ॰ - साक्षेपम् —
काकुत्स्थकोपचकितः3 कमिता नदीना-
मासीद्यदानघगुरुप्लवनार्हतोयः4
शक्यस्तदैष तरितुं हरिभिः पदाभ्याम्
किं वा फलं कथय सेतुकृतिश्रमस्य ? ॥ ४८० ॥

मूलम्

हन्त कठिनानामप्यमीषामतिमहती प्रीतिरनुबन्धिजने ॥२०३&॥
यतः
लङ्कापुरे पङ्क्तिमुखेन रुद्धां भूमेः सुतां भूमिभृतोऽनुबन्धात् ॥
पतिं पुनः प्रापयितुं पयोधौ सेतूभवन्तः स्वयमाप्लवन्ति ॥ ४७५॥ निरूप्य -
पयोधिमध्ये प्लवमानमूर्तयस्तरङ्गवेगार्पितफेनचिह्निताः ॥
हसन्ति किं मन्दरमन्तरर्णवं निमग्नमेते नलसेतुभूधराः ॥४७६॥ पुनर्विमृश्य-
लङ्कापुरावासिरघूद्वहारिसंपर्कपापादिव सिन्धुराजः ॥
सपक्षभूभृन्निबिडान्तरोऽपि विपक्षभूभृद्भिरबन्धि कष्टम् ॥४७७ ॥
शुद्धाः संश्रितधर्मसेतव इमे सोढोग्रवर्षातपाः
स्थित्वा सिन्धुजले सदा क्षितिभृतो घोरं तपः कुर्वते ॥
नृत्यन्तीरिह नित्यमेव लुलितास्तीक्ष्णैरतन्वाशुगै-2
र्लावण्यं दधतीः कदापि न चलन्त्यालोक्य वीचीरमूः ॥ ४७८ ॥
क्षणमभिध्यायन्नञ्जलिं बद्ध्वा-
अस्तोकदृप्तिरपि वारिधिरेष यस्मात्
त्रस्तो बिभर्ति विपुलोपलसान्द्रसेतुम् ॥
गोपायते दुरितवन्ति जगन्ति तस्मै
कोपाय ते रघुपते महते नमोऽस्तु ॥ ४७९ ॥
कृ॰ - साक्षेपम् —
काकुत्स्थकोपचकितः3 कमिता नदीना-
मासीद्यदानघगुरुप्लवनार्हतोयः4
शक्यस्तदैष तरितुं हरिभिः पदाभ्याम्
किं वा फलं कथय सेतुकृतिश्रमस्य ? ॥ ४८० ॥

बाल-कृष्णः

हन्तेति । कठिनानां कठोराणामपि अमीषां सेतुसंबन्धिनां शिला-पाषाणादिका- नामिति शेषः । अनुबन्धिजने स्वसंबन्धिजने अर्थात् सीताविषये अतिमहती प्रीतिः प्रेम, अस्तीति शेषः । हन्तेत्यानन्दे ॥ २०३& ॥-

प्रीतिमेव विशदयति – लङ्कापुर इति । भूमिभृतः सेतुसंबन्धिपर्वताः अनुबन्धात् भूमिकन्यात्वात्सोदरसंबन्धादित्यर्थः । लङ्कापुरे दशानननगर्यां पङ्क्तिमुखेन रावणेन रुद्धां भूमेः पृथिव्याः सुतां सीतां पुनः पतिं श्रीरामचन्द्रसंनिधिं प्रापयितुं पयोधौ समुद्रे स्वयं सेतूभवन्तः सन्तः, आप्लवन्ति तरन्ति ॥ ४७५ ॥

किंच पयोधिमध्य इति । पयोधेः समुद्रस्य मध्ये प्लवमानाः तरन्तः मूर्तयो येषां ते, तरङ्गाणां ऊर्मीणां वेगैः जवैः अर्पितैः समर्पितैः फेनैः चिह्निताः कृतलाञ्छनाः एते नलो नाम रामसैनिकानां वानराणामेकतमः तन्निर्मितसेतुसंबन्धिनो भूधराः पर्वताः, अन्तरर्णवं समुद्रमध्ये निमग्नं मन्दरं नाम पर्वतं हसन्ति किं, उपहासं कुर्वन्त्येवेति किमित्युत्प्रेक्षा ॥ ४७६ ॥

पुनरिति । विमृश्य विचार्य —

लङ्केति । सिन्धुराजः समुद्रः लङ्कापुरावासिनः रघूद्वहस्य रघुश्रेष्ठस्य रामचन्द्रस्य अरेः शत्रो रावणस्य संपर्कपापात् स्पर्शदोषादिव सपक्षाः समानमतस्थाः सुहृद इत्यर्थः । पक्षसहिताश्च ये भूभृतः राजानः पर्वताश्च तैः निबिडं घनम् अन्तरं मध्यभागो यस्य सः तथाभूतोऽपि विपक्षभूभृद्भिः शत्रुभूतराजभिः पक्षरहितैश्च पर्वतैः अबन्धि बद्धः, कष्टमिति खेदे ॥ ४७७ ॥

शुद्धा इति संश्रितः आश्रितः धर्मस्य सेतुर्मर्यादा यैस्ते, पक्षे संश्रितः धर्मेण धर्मरूपेण रामेण रचितः सेतुर्यैस्ते इति च, सोढौ मर्षितौ उग्रौ वर्षं वृष्टिः आतपः सूर्यप्रकाशश्च तौ द्वौ यैस्ते अत एव शुद्धाः पवित्राः सदा सर्वदा सिन्धुजले समुद्रोदके स्थित्वा क्षितिभृतः राजानः पर्वताश्च घोरं भयंकरं तपः कुर्वते कुर्वन्ति । अतः इमे पर्वताः राजानश्च इह लोके समुद्रे च लावण्यं सौन्दर्यं लवणस्य भावः लावण्यं क्षार रसमित्यर्थः । दधतीः धारयन्तीः तीक्ष्णैस्तिग्मैः अतनुभिः बहुभिः आशुगैः वायुभिः अतनोर्मदनस्य च आशुगैर्वाणैश्च आशुगौ वायु - विशिखौ ” इत्यमरः । लुलिताः क्षुभिताः पीडिताश्च अत एव नित्यमनवरतमेव नृत्यन्तीः वर्द्धिताः नृत्यमाचरन्तीश्च अमूः वीचीः लहरीः आलोक्यावलोक्य कदापि न चलन्ति न मुह्यन्ति न भ्रमन्ति च ॥ ४७८ ॥

अस्तोकेति । एष वारिधिः समुद्रः अस्तोका बहुला दृप्तिर्गर्वो यस्य तथाभूतः सन्नपि, यस्मात् कोपात्त्रस्तो भीतः सन् विपुला बहुला ये उपलाः पाषाणास्तैः सान्द्रं निबिडं सेतुं बिभर्ति धारयति, तस्मै दुरितवन्ति पापयुक्तानि जगन्ति गोपायते रक्षते, ‘गुपू रक्षणे’ इत्यस्मात् “गुपू-धूप-" इत्यादिना आयप्रत्यये शतृप्रत्ययः । हे रघुपते भगवन् रामचन्द्र ! ते तव महते कोपाय क्रोधाय नमः अस्तु ॥ ४७९ ॥

‘वारिधिस्त्रस्तो बिभर्ति विपुलोपलसान्द्रसेतुं’ इत्यत्राक्षिपति — काकुत्स्थेति । नदीनां कमिता पतिः समुद्रः ककुत्स्थस्य गोत्रापत्यं पुमान् काकुत्स्थः रामचन्द्रः तस्य कोपात् चकितो भीतः यदा अनघानां निर्मलानां गुरूणां महतां, सोढुमशक्यानामित्यर्थः । अर्थात् पाषाणानां प्लवनाय तरणाय अर्हं योग्यं तोयमुदकं यस्य तथाभूतः आसीत्, तदा तर्हि एषः हरिभिः वानरैः पदाभ्यां चरणाभ्यां तरितुं लङ्घयितुमपि शक्यः स्यात् । तस्मात् सेतुकृतिश्रमस्य सेतुरचनाप्रयत्नस्य किं वा फलमुपयोगः ? कथय ॥ ४८० ॥

विश्वास-प्रस्तुतिः

वि॰ - तत् कथितमेव मया । भवता तु न सम्यगवधारितम् । शृणु तर्हि पुनः सावधानम्॥5 २०४& ॥
अम्भोराशिं वानरा लङ्घयन्त्वित्येतद्व्याजीकृत्य राजीवनेत्रः ॥
अंहोराशेर्लङ्घनार्थं नराणामम्भोराशौ6 सेतुमुच्चैरबध्नात् ॥ ४८१ ॥
पुनर्निरूप्य -
न सागरोऽसौ नभ एव फेनव्रजा न चामी विपुलोडुवर्गाः ॥
न सेतुरेषोऽपि निशाचराणां नृपातकानामपि धूमकेतुः ॥ ४८२ ॥ ‘पश्यात्र जलचरभ्रमचमत्कारम् ॥ २०५& ॥
गजेन्द्र बुद्ध्या नलसेतुशैलान्ग्राहा ग्रसन्ते जलधौ वसन्तः ॥
तद्भासजायाससमुत्थदंष्ट्राव्यथाः प्रधावन्ति यथागतं ते ॥ ४८३ ॥

मूलम्

वि॰ - तत् कथितमेव मया । भवता तु न सम्यगवधारितम् । शृणु तर्हि पुनः सावधानम्॥5 २०४& ॥
अम्भोराशिं वानरा लङ्घयन्त्वित्येतद्व्याजीकृत्य राजीवनेत्रः ॥
अंहोराशेर्लङ्घनार्थं नराणामम्भोराशौ6 सेतुमुच्चैरबध्नात् ॥ ४८१ ॥
पुनर्निरूप्य -
न सागरोऽसौ नभ एव फेनव्रजा न चामी विपुलोडुवर्गाः ॥
न सेतुरेषोऽपि निशाचराणां नृपातकानामपि धूमकेतुः ॥ ४८२ ॥ ‘पश्यात्र जलचरभ्रमचमत्कारम् ॥ २०५& ॥
गजेन्द्र बुद्ध्या नलसेतुशैलान्ग्राहा ग्रसन्ते जलधौ वसन्तः ॥
तद्भासजायाससमुत्थदंष्ट्राव्यथाः प्रधावन्ति यथागतं ते ॥ ४८३ ॥

बाल-कृष्णः

तदिति । तत् सेतुकृतिश्रमफलं मया कथितं ‘दातुं शर्म च राघवेण रचितं’ इत्यादिनोक्तमेव । भवता तु पुरोभागितया न सम्यक् अवधारितं ज्ञातम् । तर्हि पुनः कथयामीति शेषः । सावधानं केवलपुरोभागित्वं त्यक्त्वा तत्त्वजिज्ञासया मनःपूर्वकं यथा तथा श्रृणु ॥ २०४& ॥

अम्भोराशिमिति । वानराः अम्भोराशिं समुद्रं लङ्घयन्तु तरन्तु इत्येतत् व्याजीकृत्य निमित्तीकृत्य, राजीवनेत्रः कमलनयनः श्रीरामचन्द्रः नराणां अंहसां पापानां राशेः समुद्रस्य लङ्घनार्थं उल्लङ्घनार्थम् अम्भोराशौ समुद्रे उच्चैर्महान्तं सेतुं अबध्नात् बबन्ध ॥ ४८१ ॥

नेति । असौ दृश्यमानः सागरः समुद्रो न, किंतु नभ आकाश एव । अमी सागरतरङ्गेषु विलसन्तः फेनव्रजाः फेनसमुदायाः न, किंतु विपुलानां बहूनां उडूनां नक्षत्राणां वर्गाः समुदाया एव । तथा एषः सागरे श्रीरामनिबद्धः सेतुर्न, अपि तु निशाचराणां राक्षसानां नृणां मनुष्याणां संबन्धिनां पातकानामपि च धूमकेतुः उत्पातसूचकग्रह विशेषः । अत्र सागरादीनां प्रकृतस्वरूपं निषिध्य नभआदीनामप्रकृतानां साधनादपह्नुतिरलंकारः । तदुक्तम् — " प्रकृतं यन्निषिध्यान्यत् साध्यते सापह्नुतिः। " इति ॥ ४८२ ॥ पश्येति । अत्र समुद्रे जलचराणां मत्स्यादीनां भ्रमस्य मिथ्याज्ञानस्य चमत्कारम् आश्चर्य पश्य ॥ २०५& ॥

गजेन्द्रेति । जलधौ समुद्रे वसन्तो वासं कुर्वन्तः ग्राहाः नक्राः गजेन्द्रा महाहस्तिन इति या बुद्धिस्तया नलस्य नलनिर्मितस्य सेतोः संबन्धिनो ये शैलाः पाषाणास्तान् ग्रसन्ते भक्षयन्ति । ततः तेषां ग्रासाज्जाता ये आयासाः प्रयत्नाः तेभ्यः समुत्था उत्पन्ना दंष्ट्राणां व्यथा येषां ते तथाभूताः सन्तः यथागतं आगतस्थानमनतिक्रम्य, स्वस्थानमित्यर्थः । प्रधावन्ति शीघ्रगत्या गच्छन्ति ॥ ४८३ ॥

विश्वास-प्रस्तुतिः

पुनर्विचिन्त्य -
डिण्डीरखण्डान्वयपाण्डुराभं द्राधिष्ठमुच्चैः परिणाहवन्तम् ॥
काकुत्स्थसेतुं कलये गुणाढ्यं धौतोत्तरीयं धृतमर्णवेन ॥ ४८४ ॥
यद्वा-
चिराद्धराभूरिभरार्तमूर्तिर्हरित्करिष्बर्पितनैजकृत्यः ॥
श्रमक्षयायार्णववारि शीते शेते स किं सेतुमिषेण शेषः ॥ ४८५ ॥
विमृश्य सश्लाघम् —
यः पुरा पापदशकच्छेदे साधनतां गतः ॥
स सेतुर्न कथं शक्तः ? पापपञ्चकभञ्जने ॥ ४८६ ॥

मूलम्

पुनर्विचिन्त्य -
डिण्डीरखण्डान्वयपाण्डुराभं द्राधिष्ठमुच्चैः परिणाहवन्तम् ॥
काकुत्स्थसेतुं कलये गुणाढ्यं धौतोत्तरीयं धृतमर्णवेन ॥ ४८४ ॥
यद्वा-
चिराद्धराभूरिभरार्तमूर्तिर्हरित्करिष्बर्पितनैजकृत्यः ॥
श्रमक्षयायार्णववारि शीते शेते स किं सेतुमिषेण शेषः ॥ ४८५ ॥
विमृश्य सश्लाघम् —
यः पुरा पापदशकच्छेदे साधनतां गतः ॥
स सेतुर्न कथं शक्तः ? पापपञ्चकभञ्जने ॥ ४८६ ॥

बाल-कृष्णः

डिण्डीरेति । डिण्डीरखण्डानां फेनशकलानां अन्वयेन स्पर्शसंबन्धेन पाण्डुरा श्वेतवर्णा आभा कान्तिर्यस्य तं द्राधिष्ठं अतिदीर्घ उच्चैः परिणाहवन्तं अतिविशालतासंपन्नं च गुणैः प्रणतजनदुःखनिर्हरणादिभिः, सूत्रैश्च आढ्यं संपन्नं काकुत्स्थसेतुं श्रीरामनिर्मितं सेतुं, अर्णवेन समुद्रेण धृतं परिवृतं धौतं प्रक्षालितं उत्तरीयम् उपवस्त्रं, कलये अवगच्छामि ॥ ४८४ ॥

अथवा एवं कल्पनीयमित्याह — चिरादिति । चिरात् बहुकालपर्यन्तं धरायाः पृथिव्याः भूरिभरेणातिभारेण आर्ता पीडिता मूर्तिः शरीरं यस्य सः, अत एव हरित्करिषु दिग्गजेषु अर्पितं समर्पितं नैजं स्वकीयं कृत्यं पृथ्वीधारणरूपं येन तथाभूतः सन् श्रमक्षयाय पृथ्वीधारणायासपरिहाराय सः प्रसिद्धः शेषः अनन्तः सेतुमिषेण सेतुव्याजेन शीते अर्णववारि समुद्रजले, रेफान्तोयं शब्दः । शेते शयनं करोति किम् ? उत्प्रेक्षालंकारः ॥ ४८५ ॥

य इति । यः सेतुः पुरा रामावतारे पापानां दशकं तस्य त्रिविधकायिक- चतुर्विधवाचिक-त्रिविधमानसिकेति भेदेन दशसंख्याकपापानामित्यर्थः । तानि स्कान्दे यथा - " अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ॥ पारुष्यमनृतं चैवं पैशुन्यं चापि सर्वशः । असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥ परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम् । वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ॥ " इति । दशसंख्यानि कानि शिरांसि यस्य सः दशकः पापश्चासौ दशको रावणस्तस्य च छेदे विनाशे साधनतां निखिलवानरसैन्यस्य लङ्कायां प्रापणात् साहाय्यत्वं गतः, सः सेतुः पापानां ब्रह्महत्यादीनां पञ्चकं तस्य भञ्जने विनाशे कथं न शक्तः न समर्थः ? अपि तु शक्त एव स्यादिति तत एव च स स्तुत्य एवेति च भावः ॥ ४८६ ॥


  1. निर्मितं भगवता ↩︎ ↩︎

  2. चपला ↩︎ ↩︎

  3. रोष ↩︎ ↩︎

  4. गुरुनग, ननुगुरु ↩︎ ↩︎

  5. सावधानः ↩︎ ↩︎

  6. उद्नां राशौ, पाथोराशौ ↩︎ ↩︎