३८ चम्पकारण्य श्रीराजगोपालवर्णनम्

विश्वास-प्रस्तुतिः

अथ चम्पकारण्य श्रीराजगोपालवर्णनम्॥

इतश्च
कुटीषु गोपीरुचिरासु योर्कभूतटीषु गोपाल इति श्रुतोऽचरत्1
अकम्पकारुण्यमुपेत्य मोदते स चम्पकारण्यमगण्यवैभवः ॥ ४६१ ॥
अत्र किल राजगोपालपादकमलमुपाश्रयतः साधुजनस्येत्थमनु-2
संधानम् ॥ १९५ ॥
कृ॰
कोपाटोपदशाविशालपरुषालापादिरूपाशुभ-
व्यापारग्लपितार्थिलोकहृदयैर्भूपालपाशैरलम् ॥
तापाविष्टसकृत्प्रपन्नजनमुक्त्यापादने दीक्षितम्
पापानामपनोदनाय कुहनागोपालमेवाश्रये ॥ ४६२ ॥
अत्रापि मे विरोध एव प्रतिभाति ॥ १९६ ॥
यतः-
न्यस्तपादः सुमनसां शीर्षेषु मधुहार्यहो ! ।
मुरारातिर्द्विरेफोऽपि चम्पकारण्यमाश्रितः ॥ ४६३ ॥

मूलम्

अथ चम्पकारण्य श्रीराजगोपालवर्णनम्॥

इतश्च
कुटीषु गोपीरुचिरासु योर्कभूतटीषु गोपाल इति श्रुतोऽचरत्1
अकम्पकारुण्यमुपेत्य मोदते स चम्पकारण्यमगण्यवैभवः ॥ ४६१ ॥
अत्र किल राजगोपालपादकमलमुपाश्रयतः साधुजनस्येत्थमनु-2
संधानम् ॥ १९५ ॥
कृ॰
कोपाटोपदशाविशालपरुषालापादिरूपाशुभ-
व्यापारग्लपितार्थिलोकहृदयैर्भूपालपाशैरलम् ॥
तापाविष्टसकृत्प्रपन्नजनमुक्त्यापादने दीक्षितम्
पापानामपनोदनाय कुहनागोपालमेवाश्रये ॥ ४६२ ॥
अत्रापि मे विरोध एव प्रतिभाति ॥ १९६ ॥
यतः-
न्यस्तपादः सुमनसां शीर्षेषु मधुहार्यहो ! ।
मुरारातिर्द्विरेफोऽपि चम्पकारण्यमाश्रितः ॥ ४६३ ॥

बाल-कृष्णः

कुटीष्विति । अर्कभुवः सूर्योत्पन्नायाः यमुनायाः तटीषु तीरेषु गोपीभिर्गोपस्त्रीभी रुचिरासु सुन्दरासु कुटीषु लतागृहेषु यः गोपालः इति नाम्ना श्रुतः प्रसिद्धः सन् अचरत् बभ्राम, स एव भगवान्, सांप्रतमिति शेषः । अगण्यं संख्यातुमशक्यं वैभवमैश्वर्य यस्य सः अचिन्त्यैश्वर्य इत्यर्थः । तथाभूतः सन्, अकम्पं निश्चलं शाश्वतमित्यर्थः । कारु- ण्यं यस्मिंस्तत्तथाभूतं चम्पकारण्यं नाम क्षेत्रं उपेत्य आगत्य मोदते क्रीडति ॥४६१॥

अत्रेति । अत्र चम्पकारण्यक्षेत्रे राजा त्रिलोक्यधिपतिश्चासौ गोपालश्च तस्य भगवतः पादकमलमुपाश्रयतो भजतः साधुजनस्य इत्थं वक्ष्यमाणप्रकारेण अनुसंधानम् ॥ १९५ ॥

कोपेति । कोपस्य क्रोधस्य आटोपदशायामतिशयावस्थायां ये विशाला बहुलाः परुषाः कठोराश्च आलापाः भाषणानि आदौ ‘प्रथमतो येषु तद्रूपा ये अशुभाः दुष्टाः व्यापाराः कर्माणि तैर्लपितं दुःखाकृतं अर्थिलोकानां याचकजनानां हृदय- मन्तःकरणं यैस्तैः अत एव भूपालपाशैर्दुष्टनृपैः अलं पर्याप्तम् । न तेऽनु- सायी इत्यर्थः । किंतु तापाविष्टानां आध्यात्मिकादितापतप्तानां अत एव सकृदे- कवारमपि प्रपन्नानां जनानां मुक्त्यापादने मुक्तिसंपादने दीक्षितं गृहीतव्रतं कुहना- गोपालं कपटगोपालवेषं भगवन्तं पापानां दुरितानामपनोदनाय निवारणार्थं आश्रये भजे ॥४६२ ॥

अत्रापीति । अत्र गोपालस्तवनेऽपि मे विरोध एव प्रतिभाति ॥ १९६& ॥

तमेवोपपादयति-— न्यस्तपाद इति । सुमनसां देवानां पुष्पाणां च शीर्षेषु मस्तकेषु अग्रभागेषु च न्यस्तौ पादौ येन तथाभूतः सन् मुरारातिर्मुरनामक दैत्य शत्रुः विष्णुः द्विरेफोऽपि रेफद्वययुक्तो मुरारातिरिति शब्दः भ्रमरश्चापि मधुहारी मधुनामकदैत्यविनाशकः मकरन्दहारकश्च चम्पकारण्यं नाम क्षेत्रं चम्पकवनं च आश्रितः । अहो इत्याश्चर्ये । तच्च चम्पक-भ्रमरयोः स्वभावविरोधित्वादिति भावः ॥४६३॥

विश्वास-प्रस्तुतिः

वि॰ - विरुद्धानामपि सहावस्थितिसंपादके3 देवे वासुदेवे का
नाम विरोधकथा ? ॥ १९७& ॥
यम्मिन्विलोचनतया सह पुष्पवन्तौ
पर्यङ्कवाहनतया फणि-पक्षिराजौ ॥
तेजखिनौ प्रमुदितौ स्थितिमाश्रयेते
तस्मिन्नहो भगवति क्व विरोधगन्धः ? ॥ ४६४ ॥
इति परिक्रम्यावलोक्य प्राञ्जलिः-
परिगतसहकारैः प्रांशुभिर्नारिकेलै-
र्दिनकरकरधारादुष्प्रवेशान्तरेभ्यः ॥
चुलुकितदुरितेभ्यश्चोलदेशस्थितेभ्यो
नम इदमखिलेभ्यो नाथदिव्यस्थलेभ्यः ॥ ४६५ ॥

मूलम्

वि॰ - विरुद्धानामपि सहावस्थितिसंपादके3 देवे वासुदेवे का
नाम विरोधकथा ? ॥ १९७& ॥
यम्मिन्विलोचनतया सह पुष्पवन्तौ
पर्यङ्कवाहनतया फणि-पक्षिराजौ ॥
तेजखिनौ प्रमुदितौ स्थितिमाश्रयेते
तस्मिन्नहो भगवति क्व विरोधगन्धः ? ॥ ४६४ ॥
इति परिक्रम्यावलोक्य प्राञ्जलिः-
परिगतसहकारैः प्रांशुभिर्नारिकेलै-
र्दिनकरकरधारादुष्प्रवेशान्तरेभ्यः ॥
चुलुकितदुरितेभ्यश्चोलदेशस्थितेभ्यो
नम इदमखिलेभ्यो नाथदिव्यस्थलेभ्यः ॥ ४६५ ॥

बाल-कृष्णः

अनुकूलमेवैतदस्मन्मतस्येति सूचयन्नाह - विरुद्धानामिति । विरुद्धानां निसर्गविरोधिनामपि सहावस्थितिः एकत्र सहवासः तस्याः संपादके निर्मातरि देवे भगवति वासुदेवे विरोधकथा विरोधवार्ता का नाम भवति ? ॥ १९७& ॥

यस्मिन्निति । यस्मिन् भगवति तेजस्विनौ विरुद्धशीतोष्णतेजोयुक्तौ पराक्रमयुक्तौ च प्रमुदितौ आनन्दयुक्तौ च पुष्पवन्तौ सूर्य-चन्द्रौ “ एकयोक्त्या पुष्पवन्तौ दिवाकर- निशाकरौ ।" इत्यमरः । विलोचनतया नेत्ररूपेण, फणिराजः शेषः पक्षिराजो गरुडश्च तौ द्वन्द्वान्ते श्रूयमाणस्य प्रत्येकमभिसंबन्धात् राजशब्दस्योभयप्राप्यन्वयः । पर्यङ्कवाहनतया अत्रापि पूर्ववदेव । शयनतया वाहनतया चेत्यर्थः । स्थितिं वासं सह युगपदेव आश्रयेते कुरुतः । तस्मिन् भगवति गोपाले, अहो हे कृशानो ! विरोधस्य गन्धः लेशोऽपि " गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः । " इति विश्वः । क अस्ति ? अपि तु नास्त्येव ॥ ४६४ ॥

एवं भगवन्तं गोपालं स्तुत्वा तत्रत्यभगवन्निवासस्थानानि स्तौति - परिगतेति । परिगताः सर्वतः संगताः सहकारा आम्रवृक्षा येषु तैः प्रांशुभिरुन्नतैः नारिकेलैस्तालवृक्षैः दिनकरस्य सूर्यस्य कराणां किरणानां धारायाः दुष्प्रवेशं प्रवेष्टुमशक्यं अन्तरं मध्यभागो येषां तेभ्यः चुलुकितं विनाशितं दुरितं पापं यैस्तेभ्यः चोलदेशस्थितेभ्यः अखिलेभ्यः सर्वेभ्यः नाथस्य भगवतो गोपालस्य दिव्यस्थलेभ्यः दिव्यमन्दिरेभ्यः, इदं नमः तेभ्यो नमस्करोमीत्यर्थः ॥ ४६५ ॥

विश्वास-प्रस्तुतिः

कृ॰ - भवतु4 तवैतेषु नमस्कर्तृता । मम तु देवलकादिदेवालयोंपजीविदुराचारानालोकयतो5 न भवति नमश्चिकीर्षा ॥ १९८& ॥
तथाहि-
वारस्त्रीकुचमर्दिभिर्विरचयन्त्यर्थ्यादिदानं करै-
स्तद्वीटीरँसवासितैश्च6 वदनैर्जल्पन्ति मन्त्रानमी ॥
द्रव्यं देवलका हरन्त्यचकिता देवस्य तत्पूजिता-
स्वेतासु प्रतिमासु हन्त भविता किं देवतासंनिधिः॥४६६॥
किंच-
आघाता बत पण्ययौवतकथा नो कर्मसंध्यादिकं
यैरभ्यस्तमभूदसभ्यवचनं7 न त्वेव वेदाक्षरम् ॥
अन्धश्चौर्यपरैर्दुरन्वयभवैः सूदैरमीभिः कृता-
न्यन्नौघानि8 निवेदितानि भगवानङ्गीकरोत्येष किम् ? ॥४६७॥

मूलम्

कृ॰ - भवतु4 तवैतेषु नमस्कर्तृता । मम तु देवलकादिदेवालयोंपजीविदुराचारानालोकयतो5 न भवति नमश्चिकीर्षा ॥ १९८& ॥
तथाहि-
वारस्त्रीकुचमर्दिभिर्विरचयन्त्यर्थ्यादिदानं करै-
स्तद्वीटीरँसवासितैश्च6 वदनैर्जल्पन्ति मन्त्रानमी ॥
द्रव्यं देवलका हरन्त्यचकिता देवस्य तत्पूजिता-
स्वेतासु प्रतिमासु हन्त भविता किं देवतासंनिधिः॥४६६॥
किंच-
आघाता बत पण्ययौवतकथा नो कर्मसंध्यादिकं
यैरभ्यस्तमभूदसभ्यवचनं7 न त्वेव वेदाक्षरम् ॥
अन्धश्चौर्यपरैर्दुरन्वयभवैः सूदैरमीभिः कृता-
न्यन्नौघानि8 निवेदितानि भगवानङ्गीकरोत्येष किम् ? ॥४६७॥

बाल-कृष्णः

भवत्विति । एतेषु नाथस्थलेषु तव नमस्कर्तृता नमस्काराचरणं भवतु । मम तु देवलकाः वेतनादिना देवपूजकाः “देवाजीवस्तु देवलः " । इत्यमरः । आदयो मुख्याः येषु तादृशा ये देवालयोपजीविनः देवालयोत्पन्नधनफलादिभिः स्वोदरनिर्वाहकाः अत एव दुराचारास्तान् आलोकयतः पश्यतः सतः नमश्चिकीर्षा नमस्कर्तुमिच्छा न भवति नैवोत्पद्यते ॥ १९८& ॥

वारस्त्रीति । अमी देवलंकाः वारस्त्रीणां वेश्यानां कुचमर्दिभिः स्तनमर्दिभिः हस्तैः देवस्य देवाय भगवते इत्यर्थः अर्ध्या आदिः प्रधानं येषामावाहनादिषोडशपूजोपचाराणां तेषां दानं समर्पणं विरचयन्ति कुर्वन्ति । तासां वेश्यानां वीट्याः सम्बन्धिताम्बूलस्य रसेन वासितैः सुगन्धयुक्तैर्वदनैर्मुखैश्च मन्त्रानर्ध्याद्युपचारसमर्पणमन्त्रान् जल्पन्ति पठन्ति । तथा अचकिताः परलोकभयरहिताः सन्तः द्रव्यं कैश्चिद्भक्तैः समर्पितं फलादिकं हरन्ति स्वयमेव गृह्णन्ति । तैर्देवलकैः पूजितासु एतानु प्रतिमासु देवमूर्तिषु देवतानां संनिधिः सामीप्यं भविता भविष्यति किम् ? अपि तु त्यर्थः । हन्तेति खेदे ॥ ४६६ ॥

एवं देवलकानां स्थितिमुक्त्वा तन्नैवेद्यान्नपाचकानां सूदानामाचरणमाह — आघ्रातेति । यैः सूदैः पण्ययुवतीनां वारस्त्रीणां समूहः पण्ययौवतं तस्य कथा आघ्राता अभ्यस्ता संध्यादिकं कर्म तु नो नैवाघ्रातम् । बतेति विषादे । तथा असभ्यवचनं अश्लीलभाषणं अभ्यस्तमधीतमभूत्, वेदस्य अक्षरमपि किमुत मन्त्रादिकं नैवाभ्यस्तम् । किंच अन्धसोऽन्नस्य “भिःसा स्त्री भक्तमन्धोऽन्नमोदनः” इत्यमरः । चौर्यपरैः चौर्यतत्परैः यतो दुरन्वयभवैः दुष्कुलोत्पन्नैः अमीभिः सूदैः ओदनपाचकैः कृतानि पाचितानि अन्नौघानि विविधान्नसमूहाः, अत्रौघशब्दस्य नपुंसकत्वं " स्तोमौघनिकर व्रातवारसंघातसंचयाः ।" इत्यमरानुशासनात् प्रामादिकमिति भाति । क्वचित् ’ अन्नाद्यानि ’ इति पाठान्तरं दृश्यते तत्तु युक्तमेवेति मन्यामहे । तत्पक्षे च अन्नं भक्तं आद्यं मुख्यं येषु सूपशाकादिवस्तुषु तानीत्यर्थः । परं तु प्राचीन बहुतरपुस्तकेषु अस्यैव पाठस्य स्वीकृतत्वादस्माभिरपि स एवाङ्गीकृतः । निवेदितानि समर्पितानि सन्ति, एष भगवान् अङ्गीकरोति स्वीकरोति किम् ? ॥४६७ ॥-

विश्वास-प्रस्तुतिः

विमृश्य–
यतः
अहो कलिमाहात्म्यादखिलजनानामनिवार्यो विवेकविपर्ययः9 ॥१९९&॥
सद्मस्वादरतोऽर्पितानि हरये सत्त्वोत्तरैर्भूसुरै-
रन्नान्यत्र न मानयन्ति विधिवत्सिद्धानि वृद्धा अपि ॥
देवस्यायतने10 स्वदन्ति विभया व्रात्यैः कृतानोदनान्
स्पृष्टान्दुष्टजनेन कष्टमखिलैर्दृष्टान11शिष्टाहृतान्12 ॥ ४६८ ॥
वि॰—मादृशेभ्यो हि दिव्यक्षेत्रमाहात्म्यवेदिभ्यो भवदीयमत्र दूषणं न रोचते ॥ २०० ॥

मूलम्

विमृश्य–
यतः
अहो कलिमाहात्म्यादखिलजनानामनिवार्यो विवेकविपर्ययः9 ॥१९९&॥
सद्मस्वादरतोऽर्पितानि हरये सत्त्वोत्तरैर्भूसुरै-
रन्नान्यत्र न मानयन्ति विधिवत्सिद्धानि वृद्धा अपि ॥
देवस्यायतने10 स्वदन्ति विभया व्रात्यैः कृतानोदनान्
स्पृष्टान्दुष्टजनेन कष्टमखिलैर्दृष्टान11शिष्टाहृतान्12 ॥ ४६८ ॥
वि॰—मादृशेभ्यो हि दिव्यक्षेत्रमाहात्म्यवेदिभ्यो भवदीयमत्र दूषणं न रोचते ॥ २०० ॥

बाल-कृष्णः

अहो इति । कलिमाहात्म्यात् कलियुगप्रभावात् अखिलजनानां नतु केवलं देवलकादीनामेव, विवेकस्य विधिनिषेधविवेचनस्य विपर्ययः वैपरीत्यम् ॥ १९९& ॥

सद्मस्विति । सत्त्वेन सत्त्वगुणेन उत्तरैः श्रेष्ठतां प्राप्तैः भूसुरैर्ब्राह्मणैः सद्मसु स्वगृहेषु आदरतः सत्कारेण हरये भगवते अर्पितानि निवेदितानि अत एव विधिवद्यथाशास्त्रं सिद्धानि पक्वानि अन्नानि अत्र चोलदेशे वृद्धा अपि किमुतेतरे ? न मानयन्तिः नैव स्वीकुर्वन्ति । किंतु देवस्यायतने देवालये व्रात्यैः पूर्वोक्तरीत्या विद्यादिसंस्कारहीनैः कृतान् पाचितान् किंच दुष्टजनेन दुराचारिणा मनुष्येण स्पृष्टान् कृतस्पर्शान्, अखिलैः सर्वैः शूद्रादिभिर्जनैर्दृष्टान्, अशिष्टैरसभ्यैः आहृतान् आनीतान् ओदनान् अन्नानि ‘ओदनोऽस्त्री’ इत्यनुशासनादोदनशब्दस्य पुंलिङ्गतापि । विभयाः भयरहिताः सन्तः स्वदन्ति आस्वादयन्ति भक्षयन्तीत्यर्थः ॥ ४६८ ॥

माहशेभ्य इति । मादृशेभ्यः मत्सदृशेभ्यः दिव्यक्षेत्रस्य माहात्म्यवेदिभ्यः भावविद्भयः हि भवदीयं त्वत्संबन्धि, त्वयोक्तमित्यर्थः । अत्र श्रीराजगोपालविषये पणं न रोचते ॥ २००& ॥

विश्वास-प्रस्तुतिः

यतः
उषस्येव स्नानादुचितशुचिताशालिवपुषो
विनीताः स्वे शास्त्रे विगतवृजिनाः13 पूजकजनाः ॥
परित्रातुं लोकान्विधिवदपतन्द्रा विदधते
पवित्रैरन्नाद्यैः परमपुरुषाराधनममी14 ॥ ४६९ ॥
आकर्ण्यतामिदमपि यदभ्युपगम्याप्यभिधास्यामि15 रहस्यम् ॥ २०१& ॥
विधिवदविधिवद्वा भक्तितोऽभक्तितो वा
ननु शुचिरशुचिर्वा नाथमर्चत्विहत्यः ॥
अनुदिनमुपयातैरर्च्यमानासु देवै-
ररुचिरजितमूर्तिष्वास्तिकस्यास्ति कस्य ? ॥ ४७० ॥

मूलम्

यतः
उषस्येव स्नानादुचितशुचिताशालिवपुषो
विनीताः स्वे शास्त्रे विगतवृजिनाः13 पूजकजनाः ॥
परित्रातुं लोकान्विधिवदपतन्द्रा विदधते
पवित्रैरन्नाद्यैः परमपुरुषाराधनममी14 ॥ ४६९ ॥
आकर्ण्यतामिदमपि यदभ्युपगम्याप्यभिधास्यामि15 रहस्यम् ॥ २०१& ॥
विधिवदविधिवद्वा भक्तितोऽभक्तितो वा
ननु शुचिरशुचिर्वा नाथमर्चत्विहत्यः ॥
अनुदिनमुपयातैरर्च्यमानासु देवै-
ररुचिरजितमूर्तिष्वास्तिकस्यास्ति कस्य ? ॥ ४७० ॥

बाल-कृष्णः

उषसीति । अभी पूजकजनाः उषस्येव प्रातः काले एव स्नानाद्धेतोः उचिता यथाशास्त्राचारतया योग्या या शुचिता पवित्रता तथा शालि शोभमानं वपुः शरीरं येषां ते, स्वे आत्मीये शास्त्रे विनीताः शिक्षिताः, स्वशास्त्रकृताभ्यासा इत्यर्थः । अत एव विगतं विनष्टं वृजिनं दुष्कृतं येषां ते लोकान् परित्रातुं संरक्षितुं अपगता तन्द्रा मन्दता येषां ते, संततं जागरूका इत्यर्थः । विधिवद्यथाशास्त्रं पवित्रैः अन्नाद्यैः परमपुरुषस्य भगवतो गोपालस्य आराधनं पूजनं विदधते कुर्वन्ति ॥ ४६९ ॥

आकर्ण्यतामिति । किंच यत् अभ्युपगम्य भवदीयदूषणं स्वीकृत्यापि रहस्यं गौप्यं अभिधास्यामि कथयामि तत् आकर्ण्यतां श्रूयताम् । त्वयेति शेषः ॥ २०१& ॥

वारस्त्री कुचमर्दिभिः —’ इत्यादिनोक्तं दूषणमुद्धर्तुमाह - विधिवदिति । इहत्यः एतद्देशीयः जनः शुचिः पवित्रः, अशुचिः अपवित्रो वा सन्, नाथं गोपालं भगवन्तं विधिवद्यथाशास्त्रं वाऽथवा अविधिवत् शास्त्रविरुद्धतया, भक्तितः अभक्ति- तो वा अर्चतु पूजयतु । किंतु अनुदिनं प्रतिदिनं उपयातैः आगतैः देवैरिन्द्रादिभिः अर्च्यमानासु पूज्यमानासु अजितमूर्तिषु भगवन्मूर्तिषु कस्य अस्ति परमात्मा इति मति- र्यस्य स आस्तिकः “अस्ति नास्तिदिष्टं मतिः” इति ठक् प्रत्ययः । तस्य पुरुषस्य अरुचिः अप्रीतिः अस्ति ? अपि तु सततमिन्द्रादिदेवैः पूजितत्वाद्देवतासंनिधानात्सर्वस्याप्या- स्तिकस्य श्रद्धा जागरूकैवेति भवादृशनास्तिकस्य तु अश्रद्धैवेति च भावः ॥ ४७० ॥

आघ्राता बत - ’ इत्यादिश्लोकद्वयेनोक्तं दूषणं परिहरति - केचिदिति ।

विश्वास-प्रस्तुतिः

इदं चावधेयम् —
केचिच्चक्रधरापराधचकिताः16 क्ष्मापालभीताः परे
श्रद्धातः कतिचित्पचन्त्यवहिताः शुद्धाश्च दिव्यं हविः ॥
अग्रे न्यस्तमिदं मुदैव भगवानालोकनैः स्वीकरो–
त्यंहः संहरणास्थया च तदिदं प्राश्नन्ति भाग्योत्तराः ॥४७१॥
पश्य तावत् स्वानुभवसिद्धौ प्रकर्ष - निकर्षौ भगवदायतन-तदितरस्थलपरिकल्पितयोरन्नयोः॥२०२ ॥
उपस्कारैः स्फारैरुपचितरसामोदभरम-
प्यवैत्यन्नं गेहे कृतमनतिभोग्यं17 बुधजनः ॥
अभूयः संस्कारिण्यपि हविषि देवालयभवे
त्वनल्पं भोग्यत्वं पुनरघहरत्वं च मनुते ॥ ४७२ ॥

मूलम्

इदं चावधेयम् —
केचिच्चक्रधरापराधचकिताः16 क्ष्मापालभीताः परे
श्रद्धातः कतिचित्पचन्त्यवहिताः शुद्धाश्च दिव्यं हविः ॥
अग्रे न्यस्तमिदं मुदैव भगवानालोकनैः स्वीकरो–
त्यंहः संहरणास्थया च तदिदं प्राश्नन्ति भाग्योत्तराः ॥४७१॥
पश्य तावत् स्वानुभवसिद्धौ प्रकर्ष - निकर्षौ भगवदायतन-तदितरस्थलपरिकल्पितयोरन्नयोः॥२०२ ॥
उपस्कारैः स्फारैरुपचितरसामोदभरम-
प्यवैत्यन्नं गेहे कृतमनतिभोग्यं17 बुधजनः ॥
अभूयः संस्कारिण्यपि हविषि देवालयभवे
त्वनल्पं भोग्यत्वं पुनरघहरत्वं च मनुते ॥ ४७२ ॥

बाल-कृष्णः

केचित् सूदादयः चक्रधरस्य विष्णोः अपराधात् चकिताः यदि तावत् अशुचितया - ऽन्नादिकं पाचितं तर्हि भगवतोऽपराधः स्यादिति भीताः, परे अन्ये ये तावदीश्वराद्भयं न मानयन्ति ते इत्यर्थः । क्ष्मापालात् राज्ञः सकाशात् भीताः यदि तावदनवहितत्वे- नाशुचित्वेन च पाकनिष्पत्तिः कदाचिद्राज्ञा राजपुरुषेण वा केनचिद्दृष्टा स्यात्तदा वयं दण्ड्या भवेमेति शङ्किताः सन्तः, अत एव अवहिताः पाककर्मणि दत्तचित्ताः, तत एव च शुद्धाः स्नानादिना पवित्राश्च सन्तः कतिचिदौदनिकाः श्रद्धातः आस्तिक्यबुद्ध्या दिव्यं सम्यग्विहितत्वेन तेजोयुक्तं हविरन्नादिकं पचन्ति । ततश्च इदं सावधानतया पवित्रतया च निष्पादितमन्नं अग्रे न्यस्तं नैवेद्यार्थं पुरःस्थापितं सत् भगवान् मुदैव आनन्देनैव आलोकनैरवलोकनैः स्वीकरोति । तच्चेदं भगवदीक्षणेनात्यन्तपरिशुद्ध- मन्नादिकं अंहसां पापानां संहरणास्थया विनाशाशया भाग्योत्तराः अतिशयभाग्यवन्तो जनाः प्राश्नन्ति भक्षयन्ति ॥ ४७१ ॥

नन्वनुभवमन्तरेण व्यर्थमेवेदं सर्वे त्वद्भाषणमिति चेदाह – पश्येति । भगवतः आयतने स्थाने तदितरस्मिंश्च स्थले कस्यचिद्गृहे परिकल्पितयोः पाचितयोरन्नयोः स्वानुभवेनात्मीयानुभवेनैव नतु मत्सदृशान्येन केनचित्कथितमात्रेण, सिद्धौ प्रकर्षः देवालयनिष्पादितस्योत्कर्षः निकर्षः तदितरस्थलनिर्मितस्य चापकर्षश्च तौ पश्य तावत् ॥ २०२& ॥

उपस्कारैरिति । स्फारैर्बहुलैः उपस्कारैः वेसवारादिव्यञ्जनैः उपचितः वृद्धः रसस्य तिक्ताम्लादेः आमोदस्य सुगन्धस्य च भरः अतिशयः यस्मिन् तथाविधमप्यन्नं गेहे गृहे कृतं पक्वं चेत्, तत् बुधजनः अनतिभोग्यम् अतीव भोजनानर्हम् अवैति जानाति । किंच देवालयभवे भगवन्मन्दिरपक्वे न विद्यन्ते भूयांसो बहुलाः संस्कारा व्यञ्जनादयो यम्मिन् तथाभूतेऽपि किं पुनर्बहुतरसंस्कारवति हविषि अन्ने अनल्पं बहुतरं योग्यत्वं न त्वेतावदेव पुनः अघहरत्वं पापनिवर्तकत्वं चापि मनुते । प्रभाव एवेति भावः ॥ ४७२ ॥

इदं च बोद्धव्यम् -
देवागारनिषेविणः किल जना दुष्यन्तु शुध्यन्तु वा
तेऽमी स्वामिपरिग्रहेण नियतं मान्या मनीषाजुषाम् ॥
प्रायेणाश्रयगौरवेण लभते हीनोऽपि मानार्हताम्
कुब्जक्लीबमुखो जनोऽपि भजते पूजां हि राजाश्रयात् ॥ ४७३ ॥


  1. श्रुतश्चरन् ↩︎ ↩︎

  2. स्येदमित्थं ↩︎ ↩︎

  3. स्थान ↩︎ ↩︎

  4. भवत एतेषु ↩︎ ↩︎

  5. नालोचयतो ↩︎ ↩︎

  6. रसभासितैश्च ↩︎ ↩︎

  7. मदभ्र ↩︎ ↩︎

  8. न्यन्नाद्यानि ↩︎ ↩︎

  9. विपर्यासः ↩︎ ↩︎

  10. आयतनेष्वदन्ति, त्वदन्ति ↩︎ ↩︎

  11. नूनम ↩︎ ↩︎

  12. शिष्टावृतान् ↩︎ ↩︎

  13. विजित ↩︎ ↩︎

  14. मपि ↩︎ ↩︎

  15. ‘अभिधास्यामि’ इत्येव क्वचिद्दृश्यते ↩︎ ↩︎

  16. पचार ↩︎ ↩︎

  17. मयमभोग्यं ↩︎ ↩︎