विश्वास-प्रस्तुतिः
अथ कुम्भघोणशार्ङ्गपाणिवर्णनम्॥
इति पार्श्वतोऽवलोक्य सश्लाघम्
अस्य देवस्य1 भाग्यवत्ता खल्वियत्तापरित्यक्ता ॥ १९४& ॥
यतोऽत्र -
मणिमयफणितल्पे मल्लिकापुञ्जकल्पे
शमितजगदभद्रां संश्रयन्योगनिद्राम् ॥
दहरकुहरवर्ती देवताचक्रवर्ती
दलितदुरितबाणे दृश्यते कुम्भघोणे ॥ ४५९ ॥
अन्तर्नागरिकीं जनतामवेक्ष्य सशिरः कम्पम् –
स्नात्वा सह्यसुताजले शुचितमा भूत्वा जपादिक्रमै-
र्हुत्वाग्नौ च हविः कृतेतरगिरां कृत्वा च पारायणम् ॥
नत्वा शार्ङ्गधरं भवामयहरं स्तुत्वा च तं भक्तितः
श्रेष्ठाः कालममी क्षिपन्ति बहवः श्रीकुम्भघोणे द्विजाः॥४६० ॥
मूलम्
अथ कुम्भघोणशार्ङ्गपाणिवर्णनम्॥
इति पार्श्वतोऽवलोक्य सश्लाघम्
अस्य देवस्य1 भाग्यवत्ता खल्वियत्तापरित्यक्ता ॥ १९४& ॥
यतोऽत्र -
मणिमयफणितल्पे मल्लिकापुञ्जकल्पे
शमितजगदभद्रां संश्रयन्योगनिद्राम् ॥
दहरकुहरवर्ती देवताचक्रवर्ती
दलितदुरितबाणे दृश्यते कुम्भघोणे ॥ ४५९ ॥
अन्तर्नागरिकीं जनतामवेक्ष्य सशिरः कम्पम् –
स्नात्वा सह्यसुताजले शुचितमा भूत्वा जपादिक्रमै-
र्हुत्वाग्नौ च हविः कृतेतरगिरां कृत्वा च पारायणम् ॥
नत्वा शार्ङ्गधरं भवामयहरं स्तुत्वा च तं भक्तितः
श्रेष्ठाः कालममी क्षिपन्ति बहवः श्रीकुम्भघोणे द्विजाः॥४६० ॥
बाल-कृष्णः
अस्येति । अस्य पुरोदृश्यमानस्य देवस्य शार्ङ्गपाणिनः भाग्यवत्ता ऐश्वर्यवत्त्वं, इयत्तापरित्यक्ता परिमितिरहिता निःसीमेत्यर्थः ॥ १९४& ॥
मणिमयेति । मल्लिकापुञ्जकल्पे मल्लिकाकुसुमराशितुल्ये तद्वन्मृदुनीत्यर्थः । मणिमयो रत्नप्रचुरः फणी शेष एव तल्पं शय्या तस्मिन् शमितं जगतो विश्वस्य अभद्रममङ्गलं यया तां योगः वृत्तिनिरोधरूपः समाधिः तद्रूपां निद्रां प्रलयकाले सर्वमात्मनि प्रविलाप्य स्वस्थस्थितिमिति यावत् । संश्रयन् आश्रयन् सन् किञ्च दहरमन्तराकाशस्तदेव कुहरं विवरं तद्वर्ती अन्तर्यामीत्यर्थः । देवतानां चक्रवर्ती श्रेष्ठो भगवान्, दलितः भग्नः दुरितं पापमेव बाणः, ( बाणवत् पीडाकरत्वात् ) येन तस्मिन् कुम्भघोणे नाम क्षेत्रे दृश्यते अवलोक्यते, जनैरिति शेषः ॥ ४५९ ॥
अन्तरिति । अन्तः पुरमध्ये नगरे भवा नागरिकी तां जनतां जनसमूहम्
- स्नात्वेति । श्रीकुम्भघोणे नगरे श्रेष्ठाः अमी बहवो द्विजाः ब्राह्मणाः सह्यसुतायाः कावेर्याः जले स्नात्वा जपः गायत्र्यादिमन्त्राणामुपांशुपाठः आदिमुख्यो येषु तैः क्रमैः सन्ध्यादिभिः कर्मक्रमैरित्यर्थः । शुचितमाः पवित्रतरा भूला, अग्नौ च हविघृतादिकं हुत्वा विधिवत् प्रक्षिप्य कृतेतराः रचितभिन्नाः नित्याः या गिरः वाण्यः तासां, वेदवाचामित्यर्थः । पारायणं पठनं च ब्रह्मयज्ञसमये इत्यर्थः । कृत्वा, भवामयहरं संसाररोगहरं शार्ङ्गधरं विष्णुं नत्वा नमस्कृत्य तं विष्णुं भगवन्तं च भक्तितः स्तुत्वा च कालं क्षिपन्ति निर्यापयन्ति ॥ ४६० ॥