३६ चोलदेशवर्णनम्

विश्वास-प्रस्तुतिः

अथ चोलदेशवर्णनम्॥

इत्यन्यतो विमानं प्रस्थाप्य सानन्दम्-
अमी खलु –
व्यालाधिपेशयशुभस्थलभूषितेलाः
क्ष्वेडाशनायतनसान्द्रतरान्तरालाः ॥
चोला विभान्ति पवमानविहारवेला-
दोलायमान सहकार नवप्रवालाः ॥ ४४६ ॥
निपुणं विभाव्य सोत्कण्ठम् -
नागवल्लीमतल्लीभिः सुमुखीभिरिवादरात्1
परिरब्धाः प्रमोदन्ते क्रमुकाः कामुका इव ॥ ४४७ ॥

मूलम्

अथ चोलदेशवर्णनम्॥

इत्यन्यतो विमानं प्रस्थाप्य सानन्दम्-
अमी खलु –
व्यालाधिपेशयशुभस्थलभूषितेलाः
क्ष्वेडाशनायतनसान्द्रतरान्तरालाः ॥
चोला विभान्ति पवमानविहारवेला-
दोलायमान सहकार नवप्रवालाः ॥ ४४६ ॥
निपुणं विभाव्य सोत्कण्ठम् -
नागवल्लीमतल्लीभिः सुमुखीभिरिवादरात्1
परिरब्धाः प्रमोदन्ते क्रमुकाः कामुका इव ॥ ४४७ ॥

बाल-कृष्णः

ईदृशमिति । ईदृशं गुणोत्कर्षव्यञ्जकं दूषणं गुणग्राहिणामभिमतमेवेष्टमेव ॥ १८९& ॥ व्यालाधिपेति । व्यालानां सर्पाणामधिपे शेषे शेते इति व्यालाधिपेशयो विष्णुस्तस्य शुभैः मङ्गलप्रदैः स्थलैः स्थानैः भूषिता अलङ्कृता इला भूमिर्येषां ते तथाभूताः, यद्देशे भगवतो विष्णोर्बहूनि स्थानानि सन्तीति भावः । तथा क्ष्वेडाशनः विषभक्षकः शङ्करः “ क्ष्वेडस्तु गरलं विषम् " इत्यमरः । तस्य आयतनैः मन्दिरैः सान्द्रतराणि अतिनिबिडानि अन्तरालानि मध्यभागा येषां ते तथोक्ताः पवमानस्य वायोः विहारवेलासु वहनकालेषु दोलायमानाः दोलावदाचरन्तः चञ्चला इत्यर्थः । सहकारस्य आम्रवृक्षस्य नवप्रवाला नूतनपल्लवा येषु ते " प्रवालोऽस्त्री किसलये वीणादण्डे च विद्रुमे । " इति विश्वः । चोलाः देशाः विभान्ति विराजन्ते ॥ ४४६ ॥

नागवल्लीति । किञ्च अस्मिन् देशे इति शेषः । नागवल्लीमतल्लीभिः प्रशस्तनागवल्लीभिः आदरात् प्रेमातिशयात् सुमुखीभिः स्त्रीभिः इव परिरब्धाः वेष्टिताः आलिङ्गिताश्च क्रमुकाः पूगवृक्षाः कामुका इव प्रमोदन्ते आनन्दयन्ति ॥ ४४७ ॥

.

विश्वास-प्रस्तुतिः

इतश्च भवानवेक्षताम् —
अभ्रंलिहानहह पश्य मरुद्वृधाया
रोधोरुहः पृथुफलानिह नारिकेलान् ॥
आगच्छते सवितृमण्डलमाश्रिताय
देवाय2 भक्तित इवात्तनवोपहारान् ॥ ४४८ ॥
मम तु एवं मतिः–
लोलद्दीर्घदला बृहत्तरफला वातोल्ललद्धूलिभि-
-श्छन्नाः प्रांशुतमाः स्फुरन्ति पुरतो3 ये नारिकेलद्रुमाः ॥
धूमास्वादनपात्रधारिण इमे द्राघिष्ठचञ्चज्जटा-
भस्मोद्धूलितमूर्तयो विवसनाः पाखण्डिभेदा4 इव ॥ ४४९ ॥

मूलम्

इतश्च भवानवेक्षताम् —
अभ्रंलिहानहह पश्य मरुद्वृधाया
रोधोरुहः पृथुफलानिह नारिकेलान् ॥
आगच्छते सवितृमण्डलमाश्रिताय
देवाय2 भक्तित इवात्तनवोपहारान् ॥ ४४८ ॥
मम तु एवं मतिः–
लोलद्दीर्घदला बृहत्तरफला वातोल्ललद्धूलिभि-
-श्छन्नाः प्रांशुतमाः स्फुरन्ति पुरतो3 ये नारिकेलद्रुमाः ॥
धूमास्वादनपात्रधारिण इमे द्राघिष्ठचञ्चज्जटा-
भस्मोद्धूलितमूर्तयो विवसनाः पाखण्डिभेदा4 इव ॥ ४४९ ॥

बाल-कृष्णः

अभ्रंलिहानिति । मरुद्वृधायाः कावेर्याः रोधसि तीरे रुहन्ति उत्पद्यन्ते इति रोधोरुहः अभ्रम् आकाशं लिहन्ति स्पृशन्तीति तथाभूतास्तान्, अत्युच्चानित्यर्थः । पृथूनि महान्ति फलानि येषां तान् नारिकेलान् तालवृक्षान् इह देशे पश्यावलोकय अहहेत्यानन्दे । कथम्भूतान् । सवितृमण्डलं सूर्यबिम्बम् आश्रिताय आगच्छते देवाय भगवते नारायणाय, समर्पयितुमिति शेषः । भक्तितः भक्त्या आत्ताः स्वीकृताः नवाः नूतनाः उपहारा उपायनानि यैस्तथाभूतानिव स्थितान् ॥ ४४८ ॥

ममेति । मम तु एवं मतिरभिप्रायः-

लोलदिति । लोलन्ति वातेन चलन्ति दीर्घाणि दलानि पर्णानि येषां ते, बृहत्तराणि अतिमहान्ति फलानि येषां ते तथोक्ताश्च वातेन उल्ललन्तीभिरूर्ध्वं गच्छद्भिर्धूलिभिः छन्नाः आच्छादिताः प्रांशुतमाः अतिशयोन्नताः नारिकेलद्रुमाः तालवृक्षाः ये पुरतः अग्रभागे स्फुरन्ति विलसन्ति, त इमे नारिकेलद्रुमाः द्राघिष्ठाः दीर्घतमाः चञ्चन्त्य- चञ्चलाच जटा येषां ते धूमास्वादनस्य पात्रं धारयन्तीति तथाभूताः भस्मना उद्धूलिताः मूर्तयः शरीराणि येषां ते तथोक्ताः विवसनाः दिगम्बराश्च पाखण्डिनां नास्तिकसन्न्यासिनां भेदा इव स्फुरन्ति प्रकाशन्ते । अत्र ‘नागवल्ली -’ इत्यादिश्लोकत्रयवर्णनेन चोलदेशस्य बहुलाम्र-नारिकेल- क्रमुकादिवृक्षसम्पन्नत्वं सूचितम् ॥ ४४९ ॥

विश्वास-प्रस्तुतिः

सहासमन्यतो निर्दिश्य-
पद्मिन्याकर्षोचितगन्धप्रसवान्5 प्रपश्य पुन्नागान् ॥
अतनूग्राशुगकलनात्सम्प्राप्तानधिकरेणुसम्पर्कम् ॥ ४५० ॥
पार्श्वतो वीक्ष्य-
अहो महोन्नता जनपदानाममीषामभिजातता ॥ १९०& ॥
पश्य-
ज्योतिष्टोमस्तोम6 उक्थ्योऽतिरात्रो-
ऽप्याप्तोर्यामः7 षोडशी वाजपेयः ॥
प्रौढा यज्ञाः पौण्डरीकादयो ये8
चोलेप्वेते चित्रमौपासनन्ति9 ॥ ४५१ ॥

मूलम्

सहासमन्यतो निर्दिश्य-
पद्मिन्याकर्षोचितगन्धप्रसवान्5 प्रपश्य पुन्नागान् ॥
अतनूग्राशुगकलनात्सम्प्राप्तानधिकरेणुसम्पर्कम् ॥ ४५० ॥
पार्श्वतो वीक्ष्य-
अहो महोन्नता जनपदानाममीषामभिजातता ॥ १९०& ॥
पश्य-
ज्योतिष्टोमस्तोम6 उक्थ्योऽतिरात्रो-
ऽप्याप्तोर्यामः7 षोडशी वाजपेयः ॥
प्रौढा यज्ञाः पौण्डरीकादयो ये8
चोलेप्वेते चित्रमौपासनन्ति9 ॥ ४५१ ॥

बाल-कृष्णः

सहासमिति । अत्रास्य पूर्वं विश्वावसुरिति दृश्यते । तदत्र निष्प्रयोजनमेवेति भाति । तस्यैव भाषणस्य प्रचलितत्वात् । एवं सति केनचित् तत्समर्थनार्थम् ‘इयं चासूयाविरहेण यथार्थोक्तितया कृशानुकर्तव्याक्षेपमन्तरेणैव विषयान्तरप्रक्रान्ततयैकस्यैवोक्तिप्रक्रमेऽपि पुनरुक्तिर्न दोषाय भवति’ इति यदुक्तं तदप्यविचाररमणीयमेव । अग्रिमश्लोकमारभ्य तद्भाषणसमाप्तिपर्यन्तं नैव कुत्राप्यसूया, सर्वत्र यथार्थोक्तिरेव विद्यते । विषयान्तरप्रक्रान्तिरपि नैव पूर्वोक्तवर्णनस्यैवाग्रेपि सत्त्वात् । तस्मादियं पुनरुक्तिरेव सा च दोषायैवेत्यलमप्रकृतेन ॥

पद्मिनीति । पद्मिनीनां कमलिनीनां स्त्रीणां च आकर्षे आकर्षणे स्पर्धायामिति यावत् । अतिशयसौरभ्यद्योतनार्थमिदम् । वशीकरणे च उचितानि योग्यानि गन्धप्रसवानि सुगन्धिपुष्पाणि गन्धस्य मदस्य च प्रसव उत्पत्तिश्च येषां येभ्यश्च तान् अतनोर्महतः अत एवोग्रस्य भयङ्करस्य च आशुगस्य वायोः अतनोर्मदनस्य च उग्राणामसह्यानाम् आशुगानां बाणानां च " आशुगौ वायु - विशिखौ " इत्यमरः । कलनात् सम्बन्धाद् अधिकस्य रेणोः धूल्याः सम्पर्कं स्पर्शं, करेणुषु गजस्त्रीषु चेत्यधिकरेणु इति च । अस्मिन् पक्षे विभक्त्यर्थेऽव्ययीभावः । सम्प्राप्तान् पुन्नागान् एतन्नामकवृक्षान् पुरुषगजांश्च प्रपश्यावलोकय । यद्वा पद्मिनीनां पद्मिनीजातिस्त्रीणाम् आकर्षोचितानि वशीकरणयोग्यानि गन्धप्रसवानि सुगन्धपुष्पाणि येषां तान् अधिकः रेणुः रजो यासां तासामधिकरेणूनां स्त्रीणां सम्पर्कं स्पर्शं सम्भोगरूपमिति यावत् । सम्प्राप्तान् पुरुषेषु नागान् श्रेष्ठान् तांश्च प्रपश्येति तृतीयार्थोप्यत्र सम्भवति ॥ ४५० ॥

अहो इति । अमीषां चोलानां जनपदानां देशानां महोन्नता अभिजातता रमणीयता च अस्तीति शेषः ॥ १९०& ॥

ज्योतिष्टोमेति । ज्योतिष्टोमानां नाम यज्ञविशेषाणां स्तोमः समूहः, उक्थ्यः, अतिरात्रः, आप्तोर्यामः, षोडशी, वाजपेयश्चापि । एते सर्वेपि यज्ञविशेषाः क्रमात् पञ्च- चतुस्त्रि-द्वयेकरात्रकालसाध्याः । प्रौढाः बहुकालसाध्यत्वान्महान्तः, पौण्डरीकादयश्च ये प्रसिद्धा यज्ञाः सन्ति, त एते चोलेषु देशेषु औपासनन्ति औपासनवद् गृह्याग्निहोमवद् आचरन्ति । तद्वन्नित्यं भवन्तीत्यर्थः । आचारे क्विप् । एतच्चित्रमाश्चर्यम् ॥ ४५१ ॥

विश्वास-प्रस्तुतिः

गृहे गृहे पश्य कृताग्निहोत्राः
शास्त्रौषधोल्लाघहृदो10 विदोषाः ॥
पुण्योत्तराः पण्डितपुण्डरीकाः
पुनन्ति वेदैकधना जगन्ति ॥ ४५२ ॥
कृ॰ - एतद्विषयविषया श्लाघा11 शाखानुशाखं न कर्तव्या । यत एतद्देशे वसतां सतामप्यनेकप्रकारा दुराचारा उपलभ्यन्ते ॥ १९९ ॥
स्नान्ति प्रातरधिस्रवन्ति विधिवत्सन्ध्यादि कर्माचर-
न्त्यग्नीनादधते मखान्विदधते शास्त्राणि चाधीयते ॥
अभ्यर्चन्ति सुरान्परार्ध्यकुसुमै12रर्चन्ति13 किञ्चातिथी -
नन्नैः किन्तु पुरातनैस्तनुममी पुष्यन्ति14 दुष्यन्त्यतः ॥४५३॥

मूलम्

गृहे गृहे पश्य कृताग्निहोत्राः
शास्त्रौषधोल्लाघहृदो10 विदोषाः ॥
पुण्योत्तराः पण्डितपुण्डरीकाः
पुनन्ति वेदैकधना जगन्ति ॥ ४५२ ॥
कृ॰ - एतद्विषयविषया श्लाघा11 शाखानुशाखं न कर्तव्या । यत एतद्देशे वसतां सतामप्यनेकप्रकारा दुराचारा उपलभ्यन्ते ॥ १९९ ॥
स्नान्ति प्रातरधिस्रवन्ति विधिवत्सन्ध्यादि कर्माचर-
न्त्यग्नीनादधते मखान्विदधते शास्त्राणि चाधीयते ॥
अभ्यर्चन्ति सुरान्परार्ध्यकुसुमै12रर्चन्ति13 किञ्चातिथी -
नन्नैः किन्तु पुरातनैस्तनुममी पुष्यन्ति14 दुष्यन्त्यतः ॥४५३॥

बाल-कृष्णः

गृहे गृह इति । शास्त्राण्येवौषधानि तैः उल्लाघानि नीरोगाणि हृन्दि अन्तः करणानि येषां ते, विविधशास्त्राभ्यासेन निर्मलान्तःकरणा इत्यर्थः । उल्लाघ इति “अनुपसर्गात् फुल्ल-क्षीब" इत्यादिनिपातनात् साधुः । " वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात्” । इत्यमरः । “उल्लाघो निपुणे हृष्टे शुचिनीरोगयोरपि । " इति हैमश्च । अत एव विदोषाः पापरहिताः वेदा एव एकं मुख्यं धनं सम्पादनीयं द्रव्यं येषां ते पुण्योत्तराः अतिशयपुण्यवन्तः पण्डितानां पुण्डरीकाः श्रेष्ठाः गृहे गृहे प्रतिगृहं कृतम् अग्निहोत्रं यैस्ते तथाभूताश्च सन्तः जगन्ति पुनन्ति पवित्रयन्ति पश्य ॥ ४५२ ॥

एतदिति । एषः विषयः चोलदेशः विषयः प्रतिपाद्यो यस्याः सा श्लाघा प्रशंसा शाखानुशाखं प्रतिक्षणं न कर्तव्या । यतो यस्माद् एतद्देशे चोलदेशे वसतां वासं कुर्वतां सतां विदुषामपि अनेकप्रकारा नानाविधाः दुराचारा उपलभ्यन्ते दृश्यन्ते ॥ १९१& ॥

के ते दुराचारा इत्याकाङ्क्षायामाह - स्नान्तीति । अभी चोलदेशवासिनो जनाः प्रातः स्रवन्त्यां कावेर्यां नद्यामित्यधिस्रवन्ति, विभक्त्यर्थेऽव्ययीभावः । " स नपुंसकम् " इति नपुंसकत्वम् । स्नान्ति स्नानं कुर्वन्ति, सन्ध्यादि कर्म च विधिवत् शास्त्रोक्तविधिमनुसृत्य आचरन्ति कुर्वन्ति, अग्नीन् दक्षिणादित्रीन् आदधते स्थापयन्ति सततमग्निहोत्रं पालयन्तीत्यर्थः । मखान् दर्श- पूर्णमासादीन् विदधते कुर्वन्ति, शास्त्राणि धर्मप्रतिपादकानि पूर्वमीमांसादीनि च अधीयते अभ्यस्यन्ति, सुरान् विष्णुशिवादिदेवान् परार्ध्यकुसुमैः सुगन्धिपुष्पैः अभ्यर्चन्ति पूजयन्ति किञ्च अतिथीनपि अर्चन्ति सत्कुर्वन्ति । किन्तु स्वयं पुरातनैः पर्युषितैरन्नैः तनुं शरीरं पुष्यन्ति पुष्टीकुर्वन्ति । अतः पर्युषितान्नभक्षणाद् दुष्यन्ति दोषयुक्ता भवन्ति । शास्त्रे तस्य निषिद्धत्वादिति भावः ॥ ४५३ ॥

विश्वास-प्रस्तुतिः

पुनर्निरूप्य सविस्मयम् —
कष्टमेतद्देशवासिनीनां15 विलासिनीनां नित्यमेव लज्जाव्युत्पत्तिराहित्यम् ॥
तथाहि-
अपि हन्त चौलवासस्थैर्यवतीनां चिराय युवतीनाम् ॥
अपकञ्चुलिकाबन्धौ कुचकुम्भाविति विरुद्धमुपलब्धम् ॥४५४ ॥
किञ्च-
अगूढगाढस्तनकुम्भिकुम्भमम्भोजदम्भोदयजैत्रनेत्रम् ॥
चित्ते निधत्ते16 बत चोलदेशस्त्रैणं प्रवीणं रतिकान्तबाणम् ॥४५५॥

मूलम्

पुनर्निरूप्य सविस्मयम् —
कष्टमेतद्देशवासिनीनां15 विलासिनीनां नित्यमेव लज्जाव्युत्पत्तिराहित्यम् ॥
तथाहि-
अपि हन्त चौलवासस्थैर्यवतीनां चिराय युवतीनाम् ॥
अपकञ्चुलिकाबन्धौ कुचकुम्भाविति विरुद्धमुपलब्धम् ॥४५४ ॥
किञ्च-
अगूढगाढस्तनकुम्भिकुम्भमम्भोजदम्भोदयजैत्रनेत्रम् ॥
चित्ते निधत्ते16 बत चोलदेशस्त्रैणं प्रवीणं रतिकान्तबाणम् ॥४५५॥

बाल-कृष्णः

किञ्च कष्टमिति । एतद्देशवासिनीनां विलासिनीनां स्त्रीणां नित्यमेव सततमेव, अनेन सुरताद्युपभोगस्थले तथा करणं न दोषायेति सूचितम् । लज्जायाः व्युत्पत्तिज्ञानं तस्या राहित्यम् अभाववत्वमिति यत् तत् कष्टम् ॥ १९२&॥
तदेवाह - अपीति । चोलस्य कूर्पासकस्य " चोलः कूर्पासकोऽस्त्रियां" इत्यमरः । वाससः वस्त्रस्य च, चोले देशे वासस्य निवासस्य च स्थैर्य स्थिरत्वं विद्यते यासां तथाभूतानां ‘वासस्थैर्य -’ इत्यत्र “ खर्परे शरि वा विसर्गलोपो वक्तव्यः” इति पक्षे विसर्गलोपः । युवतीनां स्त्रीणामपि कुचौ स्तनौ कुम्भाविव तैौ चिराय बहुकालपर्यन्तम् अपगतः कञ्चुलिकायाः बन्धो बन्धनं ययोस्तौ इति एतद् विरुद्धम् इतरजनविरुद्धम् उपलब्धं दृष्टम् । हन्तेति खेदे ॥ ४५४ ॥
अगूढेति । अगूढौ अनाच्छादितौ गाढौ कठिनौ च स्तनौ कुचौ कुम्भिनः हस्तिनः कुम्भौ गण्डस्थले इव यस्य तद् अम्भोजस्य कमलस्य दम्भोदयस्य गर्वोत्पत्तेः जैत्रे जेतृणी नेत्रे यस्य तच् चोलदेशसम्बन्धि स्त्रैणं स्त्रीसमूहः, प्रवीणं रतौ कुशलं सत्, मोहने कुशलं वा, अस्मिन् । पक्षे रतिकान्तबाणस्यैतद्विशेषणम् । रतिकान्तस्य मदनस्य बाणं चित्ते निधत्ते नितरां धारयति । सततस्तनानावृतत्वात्कामासक्तमिव भातीति भावः । बतेति खेदे ॥ ४५५ ॥

विश्वास-प्रस्तुतिः

अपि च-
नवार्तवमहोत्सवे ननु सहस्रशः सङ्गता
गृहाद्वहिरशङ्कितं गदितकामगाथाशताः ॥
अहार्यकठिनस्तनप्रकटनादनागस्विनो
मुनेरपि घनां17 धृतिं चुलुकयन्ति चोलाङ्गनाः ॥ ४५६ ॥
वि॰ - वयस्य मा18 स्म निन्द चोलमण्डलवासिनो जनान् ॥ १९३& ॥
याभिः सर्वपदार्थशुद्धिरुदिता तास्वप्सु देवार्पितं
निक्षिप्तं निशि रक्षितं शुचि हविर्भक्ष्येत चेत्का क्षतिः ? ॥
त्याज्यं शास्त्रनिषेधतस्तदिति चेत्साज्यं सतैलं च त-
द्भोज्यं पर्युषितं स्मरन्ति यदतो योज्यं न तद्दूषणैः ॥ ४५७॥

मूलम्

अपि च-
नवार्तवमहोत्सवे ननु सहस्रशः सङ्गता
गृहाद्वहिरशङ्कितं गदितकामगाथाशताः ॥
अहार्यकठिनस्तनप्रकटनादनागस्विनो
मुनेरपि घनां17 धृतिं चुलुकयन्ति चोलाङ्गनाः ॥ ४५६ ॥
वि॰ - वयस्य मा18 स्म निन्द चोलमण्डलवासिनो जनान् ॥ १९३& ॥
याभिः सर्वपदार्थशुद्धिरुदिता तास्वप्सु देवार्पितं
निक्षिप्तं निशि रक्षितं शुचि हविर्भक्ष्येत चेत्का क्षतिः ? ॥
त्याज्यं शास्त्रनिषेधतस्तदिति चेत्साज्यं सतैलं च त-
द्भोज्यं पर्युषितं स्मरन्ति यदतो योज्यं न तद्दूषणैः ॥ ४५७॥

बाल-कृष्णः

नवार्तवेति । नवं प्रथमप्राप्तं यद् आर्तवं स्त्रीरजः तत्सम्बन्धी यो महानुत्सवः नस्मिन् गृहाद् बहिः प्रदेशे सहस्रशः सहस्रसङ्ख्याकाः सङ्गताः एकत्र मिलिताः अशङ्कितं भयरहितं यथा तथा गदितानि परस्परं भाषितानि कामगाथानां व्यवायाभिलाषोत्पादककथानां शतानि याभिस्ताः चोलाङ्गनाः चोलदेशीय स्त्रियः अहार्यवत् पर्वतवत् " महीधे शिखरि क्ष्माभृदहार्य - धर-पर्वताः” । इत्यमरः । कठिनौ यौ स्तनौ तयोः प्रकटनाद् अनाच्छादनतया व्यक्तं प्रदर्शनाद् अनागखिनः कामादिवासनारहितत्वान्निरपराधिनः मुनेः मननशीलस्यापि घनां निबिडाम् अतिशयितामित्यर्थः । धृतिं धैर्य ननु निश्चयेन चुलुकयन्ति चुलुकवत् कुर्वन्ति त्याजयन्तीत्यर्थः ॥ ४५६ ॥
एतदग्रे मुद्रितैकस्मिन् पुस्तके श्लोकद्वयमधिकं दृश्यते, परन्तु तस्य प्राचीनादर्शपुस्तके अन्यपुस्तकेषु चानुपलम्भात् प्रकृतवर्णनासङ्गतत्वाच्च तन्मूले नैव निवेशितमत एव तत्र टीकामपि कर्तु नोत्सहे। किन्तु लोकबोधनार्थ यथास्थितं टीकायामेव निवेश्यते किञ्च-
न केशेषु स्नेहो न च नयनयोरञ्जनकथा
न वा वीटी वक्रे न च कुचतटे चन्दनरसः ॥
न चाल्पोऽप्याकल्पो न च सुवसनं नैव कुसुमं
स्नुषात्वं पापानां फलमधनगेहेषु19 सुदृशाम् ॥ १ ॥ अपि च-
अंसौ चेदुदकुम्भभारकिणितावङ्गी पुनर्गोमय-
स्फायन्नाट्यमलीमसौ करतलं घासच्छिदाकर्कशम् ॥
पाकाभ्युत्थितधूममेलनगलद्वाष्पाविले लोचने
कष्टं रिक्तगृहिस्नुषात्वनरकः स्त्रीणामहो दुस्सहः ॥ २ ॥
वयस्येति । मा स्म निन्द निन्दां मा कुरु इत्यर्थः ॥ १९३& ॥

अथ क्रमेण दूषणानि निराकुर्वन् प्रथमं तावत् ‘स्नान्ति प्रातरधिस्रवन्ति’ इत्यादिनोक्तं पर्युषितान्नभक्षणरूपं दोषं निराकरोति – याभिरिति । याभिरद्भिः सर्वपदार्थानां शुद्धिरागन्तुकानागन्तुकदोषनिवृत्तिरुदिता कथिता तास्वेवाप्सु जलेषु निक्षिप्तम् एकस्मिन् पात्रे जलं सम्पूर्य तस्मिंस्थापितं, कुलस्त्रियः औदनिका वा उर्वरितान्नपात्रं जलपूरितपात्रे पिपीलिकादिभ्यो रक्षणार्थं स्थापयन्तीति सुविदितमेव गृहस्थानाम् । तच्च देवेभ्यः अर्पितं नैवेद्यादिरूपेण निवेदितं सन् निशि रात्रौ रक्षितं मूषकमार्जरादिभ्य इत्यर्थः । अत एव शुचि प्रकारत्रयेण पवित्रं हविरन्नं भक्ष्येत चेत् तस्मात् का क्षतिः को वा दोषः ? तर्हि शास्त्रनिषेधस्य का व्यवस्था इत्याकाङ्क्षायामाह - शास्त्रनिपेधतः तन्निशि रक्षितमन्नं त्याज्यम् इति चेत् साज्यं घृतयुक्तं सतैलं तैलपक्वं च यदन्नं तत् पर्युषितमपि भोज्यं भोजनार्हं स्मरन्ति । तथा च मनुः – “ यत्किञ्चित् स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् । तत् पर्युषितमप्याद्यं हविःशेषं च यद्भवेत् ।" इति । अतः कारणात् तत् पर्युषितान्नभक्षणं दूषणैः न योज्यम् । एतेषां शास्त्रविहितान्नस्यैव भक्षणात् ॥ ४५७ ॥

विश्वास-प्रस्तुतिः

पातिव्रत्यमुपेत्य नित्यमनघाचारावदातात्मनां
चोलीनां यदि कञ्चुकी20 न कुचयोर्मालीमसी का ततः ? ॥
नारीणां सुरतोपयोग्यवयवस्पष्टीकृतिर्दोष इ-
त्युक्तं21 चेदधरापिधानमपि किं न स्यात् सदा वाससा ! ॥ ४५८ ॥

मूलम्

पातिव्रत्यमुपेत्य नित्यमनघाचारावदातात्मनां
चोलीनां यदि कञ्चुकी20 न कुचयोर्मालीमसी का ततः ? ॥
नारीणां सुरतोपयोग्यवयवस्पष्टीकृतिर्दोष इ-
त्युक्तं21 चेदधरापिधानमपि किं न स्यात् सदा वाससा ! ॥ ४५८ ॥

बाल-कृष्णः

अथ स्त्रीणां कञ्चुकीराहित्यरूपं दूषणं निराकरोति – पातिव्रत्येति । पतिव्रतानां भावः पातिव्रत्यं पति सेंवापरत्वम् उपेत्य प्राप्य अत एव नित्यं सन्ततम् अनघैर्निदोषैराचारैः अवदातः शुद्धः आत्मा चित्तं यासां तासां चोलीनां चोलदेशीयस्त्रीणां कुचयोः स्तनयोः यदि कञ्चुकी न भवति, ततः कञ्चुक्यभावान् मालीमसी मलिनता का ? अपि तु कापि नास्तीति । पातिव्रत्येन शुद्धाचाराणाम् अवयवगोपनेऽगोपने वा न कोऽपि दोषः समुज्जृम्भत इति भावः । अथ सुरते रतिकाले उपयोगिनामवयवानां स्पष्टीकृतिर्व्यक्त करणं नारीणां दोषः इति उक्तं, शास्त्रे इति शेषः । तस्माद्दोष एवायं स्तनानाच्छादनरूप इति चेद् वाससा वस्त्रेण अधरस्याधरोष्ठस्यापिधानमाच्छादनं तस्य सुरतोपयोगित्वात् किं कुतो हेतोर्न स्यात् ? सर्वासामपि स्त्रीणामिति भावः । एतेन चोलीनां देशाचारात् कञ्चुक्यभावो न दोषायेति सूचितम् ॥ ४५८ ॥


  1. कामिनीभिः ↩︎ ↩︎

  2. नाथाय ↩︎ ↩︎

  3. परितो ↩︎ ↩︎

  4. पाषण्ड ↩︎ ↩︎

  5. प्रसरान् ↩︎ ↩︎

  6. ज्योतिष्टोमः साङ्ग ↩︎ ↩︎

  7. आाप्तोर्यामाः ↩︎ ↩︎

  8. वा ↩︎ ↩︎

  9. नित्यमेव क्रियन्ते ↩︎ ↩︎

  10. धोल्लासहृदो ↩︎ ↩︎

  11. श्लाघानुश्लाघा न कर्तव्या। ↩︎ ↩︎

  12. सुराननर्घ्य ↩︎ ↩︎

  13. रञ्चन्ति ↩︎ ↩︎

  14. पुष्णन्ति ↩︎ ↩︎

  15. वासिनीनां नित्यमेव ↩︎ ↩︎

  16. न धत्ते, विधत्ते ↩︎ ↩︎

  17. मनोधृतिं ↩︎ ↩︎

  18. मा दूषय ↩︎ ↩︎

  19. फलमिह बतान्यत्र ↩︎

  20. कञ्चुकं ↩︎ ↩︎

  21. उक्तश्चेत् ↩︎ ↩︎