३५ श्रीजम्बूकेश्वरवर्णनम्

विश्वास-प्रस्तुतिः

अथ श्रीजम्बूकेश्वरवर्णनम्॥

कृ॰ – वयस्य मैवं वोचः ॥ १८५& ॥
अभ्यर्णेऽस्य पुरस्यैतदधिसङ्घात्मजातटम् ॥
शैवक्षेत्रमवेक्षेथाः सप्तप्राकारसंवृतम् ॥ ४४२ ॥
वि॰-विहस्य-
सत्यं जटाधरप्राकारसंवृतस्यास्य श्लेषनैपुण्येनैव रङ्गसाधर्म्यं समर्थनीयम् ॥१८६&॥

मूलम्

अथ श्रीजम्बूकेश्वरवर्णनम्॥

कृ॰ – वयस्य मैवं वोचः ॥ १८५& ॥
अभ्यर्णेऽस्य पुरस्यैतदधिसङ्घात्मजातटम् ॥
शैवक्षेत्रमवेक्षेथाः सप्तप्राकारसंवृतम् ॥ ४४२ ॥
वि॰-विहस्य-
सत्यं जटाधरप्राकारसंवृतस्यास्य श्लेषनैपुण्येनैव रङ्गसाधर्म्यं समर्थनीयम् ॥१८६&॥

बाल-कृष्णः

किञ्च रङ्गादिति । अनङ्गारेर्मदनशत्रोर्महादेवस्य कंसारेर्विष्णोर्वा स्थलेषु स्थानेषु अहो हे कृशानो ! रङ्गात् श्रीरङ्गक्षेत्राद् अन्यदितरत् सप्तभिः प्राकारैः सालैर्वेष्टितं क्षेत्रं किमपि कुत्रापि वा दृष्टं किम् ? अपि तु नैवेत्यर्थः ॥ ४४१ ॥

अभ्यर्ण इति । यस्मादस्य पुरस्य श्रीरङ्गक्षेत्रस्य अभ्यर्णे समीपे “ समीपे निकटासन्न - सन्निकृष्ट- सनीडवत् । सदेशाभ्याश - सविध- समर्याद - सदेशवत् । उपक- ण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोव्ययम् ।" इत्यमरः । अधिसह्यात्मजातटं कावेरीनदीतीरे, विभक्त्यर्थेऽव्ययीभावः । सप्तभिः प्राकारैः संवृतं वेष्टितं, पक्षे सप्तस्य जटाधरस्य (?) प्राकारैः संवृतं च एतत् प्रसिद्धं शैवक्षेत्रं शिवस्थानं जम्बूकेश्वराभिधम् अवेक्षेथाः अवलोकय ॥ ४४२ ॥

सत्यमिति । सत्यं त्वदुक्तमित्यर्थः । यतः जटाधरस्य शङ्करस्य प्राकारैश्चतुःसङ्ख्याकैः संवृतस्यास्य जम्बूकेश्वरक्षेत्रस्य श्लेषस्य सप्तशब्द सम्बन्धिनोऽर्थद्वयस्येत्यर्थः । नैपुण्येनैव नतु वास्तवार्थेन सङ्ख्यापरेणेत्यर्थः । रङ्गस्य रङ्गक्षेत्रस्य साधर्म्य सादृश्यं समर्थनीयम् प्रतिपादनीयम् ॥ १८६& ॥

निपुणं निरूप्य —
नन्दत्कन्दर्पदर्पक्षपणनिपुणदृग्वह्निसम्पन्नभाला-
रुण्यः फण्यग्रगण्यप्रकरमयतया1 भीषणैर्भूषणैर्यः2
कान्तः सान्तःपुरस्सन्कवलितगरलो राजते राजतेऽद्रौ
मह्यां सह्यात्मजाग्रे विहरति सुचिरं3 शङ्करः शङ्खरोचिः ॥ ४४३ ॥
कृ॰ – सखे ! नात्र स्थातव्यम् । यदिह4 विश्वविलक्षणा रीतिरालक्ष्यते ॥
पश्य-
ये तोयैर्नादेयैरभिषिक्तास्ते हि तापमुज्झन्ति ॥
प्रत्युत जहाति तापं कावेरी शङ्कराभिषेकेण ॥ ४४४ ॥
वि॰ – कुत एवम् ?॥ १८८& ॥
कृ॰ - शृणु तावत् -
गङ्गानुषङ्गाद्यमुना सदर्पेत्यसह्यतापा बत सह्यकन्या ॥
गङ्गाधरे स्वैरभिषिच्यमाने तोयैः स्वयं तापमियं जहाति ॥ ४४५ ॥

वि॰ - ईदृशं दूषणं गुणग्राहिणामभिमतमेव ॥ १८९& ॥


  1. पुण्याग्र ↩︎

  2. भीषणो ↩︎

  3. स चिरं ↩︎

  4. यदीह ↩︎