३४ श्रीरङ्गनगरीवर्णनम्

विश्वास-प्रस्तुतिः

अथ श्रीरङ्गनगरीवर्णनम्॥

किंचिदन्तरमुपसृत्य अधस्तादवलोक्य सहर्षम् — सारङ्गडिम्भनयनानवकेलियोग्यनारङ्गमुख्यतरुपुष्कलनिष्कुटेयम्1
श्रीरङ्गदिव्यनगरी प्रथते नयाब्धिपारंगतैर्बुधजनैः परिसेव्यमाना2 ॥ ३९६ ॥
निपुणं विभाव्य सशिरःकम्पम्—
हंसा निष्कुटदीर्घिकावसतयः प्रक्रान्ततर्कावहा3
लीलोद्यानचरः पतञ्जलिगिरा पुंस्कोकिलः खेलति ॥
द्वैताद्वैतकथा यथा4 विदधति क्रीडामयूरा इह
स्वैरं तान्त्रिककारिकाः परिपठन्त्येता मुहुः सारिकाः ॥ ३९७॥
किंच—
प्रातः प्रातः पयसि विमले पावने सह्यपुत्र्याः
स्नायं स्नायं सकलविषयत्यागिनो योगिनोऽमी ॥
वारं वारं भुजगशयनं लोचनाभ्यां पिबन्तः
क्षेमं5 क्षेमं क्षणवदखिलं कालमत्र क्षिपन्ति ॥ ३९८ ॥

मूलम्

बाल-कृष्णः

सारङ्गेति । सारङ्गडिम्भस्य हरिणशिशोरिव नयने नेत्रे यासां तासां हरिणनयनानां स्त्रीणां नवकेलीनां नवीनशृङ्गारक्रीडानां " हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः । द्रव - केलि - परीहासाः क्रीडा लीला च नर्म च । ” इत्यमरः । योग्याः नारङ्गा नारङ्गवृक्षा मुख्या येषु ते ये तरवो वृक्षास्तैः पुष्कलाः परिपूर्णाः निष्कुटाः गृहारामा यस्यां सा तथाभूता, तथा नयाः न्यायशास्त्राण्येव, नीतिशास्त्राणि वा अब्धिः समुद्रः तस्य पारंगतैः परतीरप्राप्तैः, संपूर्णनयशास्त्रनिपुणैरित्यर्थः । बुधजनैर्विद्वज्जनैः परिसेव्यमाना इयं पुरो दृश्यमाना श्रीरङ्गसंज्ञा दिव्यनगरी प्रथते प्रकाशते ॥ ३९६ ॥

किंच अत्र क्षेत्रे पक्षिणोऽपि विविधशास्त्रनिपुणा इत्याह-हंसा इति । इह श्रीरङ्गनगर्यो निष्कुटेषु गृहोद्यानेषु या दीर्घिका वाप्यस्तासु वसतिर्निवासो येषां ते तथोक्ताः प्रक्रान्तान् स्वसमुदाये वक्तुमुपक्रान्तांस्तर्कान् न्यायशास्त्राणि वहन्ति धार यन्तीति तद्वहाः । न्यायशास्त्रनिपुणा इत्यर्थः । हंसाः सन्ति । तथा लीलोद्याने क्रीडोपवने चरतीति तच्चरः पुंस्कोकिलः कोकिलपुरुषः । अत्र ’ पुम् कोकिलः’ इति स्थिते " पुमः खथि -" इति रुत्वे विसर्गे सत्वे “ अनुनासिकात् परः - " इत्यु- कारस्यानुस्वारे च सिद्धमिदम् । पतञ्जलेः गिरा व्याकरणमहाभाष्यरूपया खेलति क्रीडति । तथा क्रीडामयूराः द्वैतं जीवेश्वरयोर्भेदः अद्वैतं तयोरैक्यं च तयोः कथाः स्वसमुदाये संवादरूपा इत्यर्थः । यथा विदधति कुर्वन्ति तथैव एताः सारिकाः शुकस्त्रियः तान्त्रिककारिकाः मीमांसाशास्त्रकारिकाः स्वैरं स्वच्छन्दं यथा तथा मुहुर्वारं वारं परिपठन्ति उच्चारयन्ति ॥ ३९७ ॥

अथ तत्रत्यजनानां सदाचारं वर्णयति - प्रातः प्रातरिति । अत्र नगर्यां सकलविषयत्यागिनः ऐहिकसकलकामाद्युपभोगत्यागिनः, अत एव योगिनः योगाभ्यासिनः अमी जनाः प्रातः प्रातः प्रतिप्रातःकालं सह्यपुत्र्याः कावेर्याः नद्याः पावने पवित्रे, विमले निर्मले च पयसि उदके, स्नायं स्नायं स्नात्वा स्नात्वा " आभीक्ष्ण्ये -" इत्यादिना पौनःपुन्यार्थे णमुल् द्वित्वं च । वारं वारं निरन्तरं भुजगः शेषः शयनं यस्य तं श्रीरङ्गेशं, लोचनाभ्यां पिबन्तः अवलोकयन्तः सन्तः, क्षेमं क्षेमं निरन्तरकल्याणकारकं अखिलं सकलं कालं क्षणवत् क्षिपन्ति निर्यापयन्ति ॥ ३९८ ॥

विश्वास-प्रस्तुतिः

कृशानुः - वयस्य विरुद्धमेव भाषसे ॥ १६८& ॥
सारङ्गदृष्टिं6 कथमुत्सृजद्भ्यः सा रङ्गदृष्टिः स्वदते ? मुनिभ्यः ॥
कवेरजासंगतिमुत्सिसृक्षोः कवेरजासङ्गरुचिः कथं स्यात् ॥ ३९९ ॥

अथ दूषयितुमुपक्रमते – वयस्येत्यादि ॥ १६८& ॥

विरुद्धत्वमेवाह - सारङ्गदृष्टिमिति । सारङ्गस्य हरिणस्येव दृष्टी नयने यस्याः सा तां स्त्रियं, जातावेकवचनम् । उत्सृजद्भ्यः त्यजद्भ्यः मुनिभ्यः योगिभ्यः सारङ्गदृष्टिः स्त्री, सा प्रसिद्धा रङ्गस्य रङ्गनाथस्य दृष्टिः दर्शनं च कथं स्वदते रोचते ? तथा कं ब्रह्म- वेत्तीति कविः तस्य ब्रह्मविदः " को ब्रह्मणि शरीरे च " इति कोशः । अजायाः मायायाः मायामय संसारस्येत्यर्थः । संगतिं संबन्धं, कवेरजायाः कावेर्याश्च संगतिं उत्सिसृक्षोः त्यक्तुमिच्छोः कवेः पण्डितस्य अजासङ्गे मायासमागमे, कवेरजासङ्गे कावेरीसंबन्धे च रुचिः प्रीतिः कथं स्यात् ? अपि तु नैव भवेदित्यर्थः । अत्र ’ सारङ्गदृष्टिं कवेरजासंगतिं ’ इति श्लिष्टाभ्यां पदाभ्यां विरोधाभासोऽलंकारः, वास्तवार्थेन च तत्परिहारः । दूषणमपि श्लेषेणैव नतु वास्तवार्थेनेति ज्ञेयम् ॥ ३९९ ॥

वि॰-सखे भवता भणितानां पदानां व्यासेनैवविरोधः समाधेयः ॥१६९& ॥
इत्यग्रतः पश्यन्नञ्जलिं बद्ध्वा-
श्रीरङ्गे शोभते यस्य श्रीरङ्गे शोभते च यः ॥
नमोऽहं कलये तस्मै न मोहं कलये ततः ॥ ४०० ॥
किंच-
प्रणिपतिकर्मीकुर्मः फणिपतिभोगेशयं रथाङ्गशयम् ॥
कारणमेकं जगतां वारणपतिभीतिवारणं ज्योतिः7 ॥ ४०१ ॥
कृशानुः– किमस्मिन्नपि8 महाभुजङ्गशायिनि क्रियन्ते त्वया प्रणामाः ॥१७०&॥ तथाहि–

सख इति । हे सखे, भवता भणितानां उच्चारितानां पदानां शब्दानां विरोधः विरोधाभासः व्यासेनैव, न त्वन्येनेति सूचनार्थमेवशब्दः । समाधेयः समाधातुं शक्यः परिहारार्ह इत्यर्थः ॥ १६९& ॥

अहं तु केवलं भगवन्तं नमस्करोमीति सूचयन्नाह - श्रीरङ्ग इति । यस्य भगवतः अङ्गे वक्षःस्थले श्रीलक्ष्मीः शोभते, स्वयं च यः श्रीरङ्गे नाम क्षेत्रे च शोभते । तस्मै श्रीरङ्गनाथाय अहं नमः नमस्कारं कलये करोमि । कुतः, ततः नमस्काराचरणात् मोहं प्रपञ्चासक्तिरूपं अविचारं, न कलये न स्वीकरोमि ॥ ४०० ॥

किंच प्रणिपतीति । फणिपतेः सर्पराजस्य शेषस्य भोगे शरीरे " अहेः शरीरं भोगः स्यात् " इत्यमरः । शेते इति तथाभूतः तं शेषशायिनमित्यर्थः । वासवासिष्वकालात् ” इति सप्तम्या अलुक् । रथाङ्गं चक्रं शये हस्ते यस्य सः तं, चक्रपाणिमित्यर्थः । " पञ्चशाखः शयः पाणिः " इत्यमरः । जगतां एकमद्वितीयमुख्यमित्यर्थः । कारणं, वारणपतेर्गजेन्द्रस्य भीतिवारणं भयनिवारकं ज्योतिः तेजो- रूपं, प्रणिपतेः प्रनि इत्येतदुपसर्गपूर्वकस्य पतधातोः अर्थात् प्रणिपातस्य नमस्कार- क्रियाया इत्यर्थः । कर्मी कुर्मः, ईप्सिततमरूपं कुर्मः । तं प्रति नमस्कुर्म इत्यर्थः ॥ ४०१ ॥

पुनरपि दूषयति- किमिति । अस्मिन् महांश्चासौ भुजङ्गः विटः महाभुजङ्गः शेषश्च " भुजङ्गो विट-सर्पयोः” इति कोशान्तरम् । तस्मिन् शेते तस्मिन्नपि त्वया प्रणामा नमस्काराः क्रियन्ते किम् ? अहो शेषशायिभगवन्नमस्कारकरणान्महद्भाग्यं तवेति वास्तवोऽर्थः ॥ १७०& ॥

विश्वास-प्रस्तुतिः

श्यामोतुङ्गपयोधरोज्ज्वलरुचिस्तन्वन्भुजङ्गान्वयम्
श्रीरङ्गस्थलनित्यवासरसिकः शृङ्गारिणामग्रणीः ॥
प्राकारप्रकरान्तरस्थितिमती या राजपद्मिन्यहो
निःशङ्कं9 परपूरुषश्चिरमसौ निद्राति तत्सन्निधौ ॥ ४०२ ॥
विश्वावसुः - श्लेषावलम्बना दोषा इमे न मे रोषावहाः,10 प्रत्युत तोषावहा इति नाहमत्रोत्तरयामि ॥ १७१& ॥

तदेव सविस्तृतमुपपादयति - श्यामेति । श्यामानां षोडशवर्षवयस्कानां तरुणीनां " श्यामा षोडशवार्षिकी " इति तल्लक्षणम् । उत्तुङ्गयोरुच्चयोः पयोधरयोः स्तनयोः उज्वला अतिशयिता रुचिरासक्तिर्यस्य सः, श्यामस्य नीलवर्णस्य उत्तुङ्ग- स्योन्नतस्य च पयोधरस्य मेघस्येव " स्त्रीस्तनादौ पयोधरौ इत्यमरः । उज्ज्वला भासमाना रुचिः कान्तिर्यस्य सः इति च तत्त्वार्थः । शृङ्गारः स्त्र्यासक्तिरूपो विद्यते येषां ते शृङ्गारिणस्तेषां अग्रणीः अग्रेसरः । शृङ्गारलक्षणमुक्तं रससुधाकरे - " विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः । नीता सदस्यरस्यत्वं रतिः शृङ्गार उच्यते । " इति । स्त्रीपुरुषयोरन्योन्यासक्तिरूपेच्छाविशेषो रतिरित्युच्यते । तल्लक्षणमपि तत्रैव- “यूनोरन्योन्यविषयस्थायिनीच्छा रतिः स्मृता । " इति । अन्यत्रापि - “ शृङ्गं हि " मन्मथोद्भेदस्तदागमनहेतुकः । पुरुषप्रमदाभूमिः शृङ्गार इति गीयते । ” इति । भरतोऽप्याह - " ऋतुमाल्यालंकारैः प्रियजनगान्धर्वप्रणयसेवाभिः । उपवनगमन- विहारैः शृङ्गाररसः समुद्भवति । नयनवदनप्रसादैः श्रुतिमधुरवचोवृतिप्रमोदैश्च । ललितैश्चाङ्गविहारैस्तदभिनयः संप्रयोक्तव्यः । " इति । अत एव भुजङ्गानां विटानां भुजङ्गस्य शेषस्य च " भुजङ्गो विटसर्पयोः " । अन्वयं संबन्धं, अन्यत्र शयनरूपं च तन्वन् कुर्वन्, श्रीमति रङ्गस्थले रङ्गशालायां नाट्यस्थले इत्यर्थः । नित्यवासे सततनिवासे रसिकः, पक्षे श्रीरङ्गस्थले नाम क्षेत्रे नित्यवासरसिकः तत्र नित्यनिवासीत्यर्थः । असौ परः पत्युरन्यः जार इति यावत् । पूरुषः, पक्षे पर उत्तमः पुरुषश्च या प्राकाराणां पाषाणादिभित्तीनां शैवलादिवेष्टनानां च प्रकरस्य समूहस्य अन्तरे मध्ये स्थितिमती स्थितिशीला राज्ञः चक्रवर्तिभूपतेः पद्मिनी तल्लक्षणोपेता पत्नी, पक्षे राज्ञः चन्द्रस्य पद्मिनी कमलिनी " द्विजराजः शशधरः " इति कोशोक्तद्विजराजशब्दस्य राजेत्येकदेशेन ग्रहणम् । अथवा " सोमो वै राजा ब्राह्मणानाम् ” इति श्रुतेश्चन्द्रस्य राजसंज्ञा । चन्द्रोदये विकासशालिनी कमलिनीत्यर्थः । तस्याः संनिधौ समीपे निःशङ्कं निर्भयं यथा तथा चिरं बहुकालपर्यन्तं निद्राति । अहो इत्याश्वर्ये ॥ ४०२ ॥

एवं श्लेषगर्भितं भाषणं श्रुत्वा संतुष्टः सन्नाह विश्वावसुः - श्लेषावलम्बना इति । इमे ‘श्यामोत्तुङ्ग -’ इत्यादिना प्रतिपादिताः दोषाः श्लेषावलम्बनाः अर्थद्वयावहशब्दाश्रयाः, अत एव मे मम रोषं क्रोधं आवहन्ति संपादयन्ति तथाभूताः प्रत्युत तर्हि रोषोत्पादका इति यावत् । न भवन्ति । तोषावहाः संतोषजनका एव सन्तीति नाहमत्र त्वदुक्तदूषणेषु उत्तरयामि, प्रत्युत्तरं न ददामि ॥ १७१& ॥

विश्वास-प्रस्तुतिः

पुनर्निरूप्य -
क्षितिभृद्भिर्निजमौलिषु धृतपादो विरहितापकारी च ॥
इन्दुरिव रङ्गबन्धुर्दोषाभावे विलोक्यते11 किंतु ॥ ४०३॥
यद्वा-
न विधौ शुभरङ्गलक्षिताङ्गे समुदाप्यायनकारिणीह12 दृष्टे ॥
कलयामि कुरङ्गलक्षिताङ्गं कुमुदाप्यायनकारिणं विधुं तम् ॥ ४०४ ॥
पुनः संचिन्त्य13 सविस्मयम् -
रङ्गेशसेवको युक्तं नार्तरीतिं भजेदिति ॥
चित्रमेतदसङ्गीति व्यपदेशं यदश्नुते ॥ ४०५ ॥

क्षितिभृद्भिरिति । क्षितिभृद्भिः राजभिः पर्वतैश्च निजमौलिषु स्वकीयमस्तकेषु शिखरेषु च धृतौ पादौ चरणौ यस्य सः, पक्षे धृताः पादाः किरणाः यस्य सः इति च, अविः पर्वतः मेरुस्वरूपः, “सूर्यो वा अवयः शैल - मेषाऽर्काः " इत्यमरः । अथवा विः पक्षी गरुडः भगवद्विभूतिरूपः “मेरुः शिखरिणामहम्” “आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । " “वैनतेयोऽस्मि पक्षिणाम्” इति भगवद्गीतायां भगवतैवोक्तत्वात् । अहितानां शत्रूणां अपकारी नाशकर्ता, पक्षे विरहिणां प्रियजनवियोगयुक्तानां तापकारी संतापजनकश्च रङ्गबन्धुः श्रीरङ्गनाथः इन्दुरिव चन्द्र इव, किंतु दोषाणां कामक्रोधादीनां अभावे सति दोषाभावे निशाभावे च विलोक्यते दृश्यते ॥ ४०३ ॥

किंच नेति । शुभे कल्याणगुणयुक्ते रङ्गे क्षेत्रे लक्षितं अङ्गं मूर्तिर्यस्य तस्मिन्, सुष्ठु शोभना अत्यन्तकल्याणावहा या मुत् आनन्दः तया आप्यायनकारिणि सुखकारिणि इह क्षेत्रे, विधौ चन्द्रे विष्णैौ च " विधुर्विष्णौ चन्द्रमसि " इत्यमरः । दृष्टे सति, पुनः कुत्सितेन निन्दितेन रङ्गेण लक्षितं अङ्गं यस्य सः तं कुरङ्गेण मृगेण च लक्षितं चिह्नितं अङ्गं शरीरं यस्य सः तं च कुत्सितया मुदा आनन्देन, कुमुदानां चन्द्रविकासि- कमलानां च आप्यायनकारिणं विकासकारिणं च तं प्रसिद्धं विधुं चन्द्रं न कलयामि न पश्यामि ॥ ४०४ ॥

रङ्गेशेति । रङ्गेशस्य श्रीरङ्गनाथस्य उत्तमरङ्गस्य च सेवको भक्तः आश्रितश्च आर्तस्य दुःखिनः रीतिं प्रकारं न भजेत् न सेवेत । नाती नृत्यसंबन्धिनीं रीतिं च भजेदिति च युक्तं योग्यमेव । किं तु रङ्गेशसेवकः असङ्गी स्त्र्यादिभोगासक्तिरहितः व्यपदेशं व्यवहारम् अश्नुते प्राप्नोति इति यत्, एतदेव चित्रमाश्चर्यम् ॥ ४०५ ॥

विश्वास-प्रस्तुतिः

अन्यदद्भुतमुद्भूतमत्र श्रीरङ्गधामनि ॥
यच्चन्द्राभिख्ययाप्येषा शोभते पुष्करिण्यहो ॥ ४०६ ॥
समन्तादवलोक्य सश्लाघम् -
रङ्गक्षेत्रमिदं रमेशितुरभिव्यक्तिस्थलेष्वादिमम्
तीर्थ सैव मरुद्वृधा भगवती यां तोष्टवीति श्रुतिः ॥
सर्वात्मा नगरस्य चास्य जगतां निर्वाहको नायको
वासश्चेदिह लभ्यते जगति को वैकुण्ठमुत्कण्ठते ? ॥४०७॥
कृ॰ – सार्धाङ्गीकारम् —
सोऽयं यद्यपि हृद्य एव विषयः सायन्तनेन्दीवर-
श्यामाङ्गेन सनायकः कृततमोभङ्गेन रङ्गेन्दुना ॥
भ्रान्ताः किंतु चरन्ति हन्त पिशुनाः शान्तात्मनां तापदाः
श्रीमन्तो यदुदञ्चनाद्बत न खल्वत्रासमत्रासते ॥ ४०८ ॥

किंच अन्यदिति । अत्र श्रीरङ्गस्य भगवतः धामनि स्थाने क्षेत्रे अन्यत् उक्तादितरत् अद्भुतमाश्चर्ये उद्भूतमुत्पन्नम् । किं तत् यत् एषा पुष्करिणी कमलिनी चन्द्रस्य अभिख्यया नाम्ना, कान्त्या चन्द्रिकया चापि शोभते । तत् अद्भुतमिति संबन्धः ॥ ४०६ ॥

रङ्गक्षेत्रमिति । इदं रङ्गक्षेत्रं रमेशितुर्लक्ष्मीपतेर्विष्णोः अभिव्यक्तिस्थलेषु प्रक- -टीभावस्थानेषु मध्ये आदिमं प्रथमं वर्तत इति शेषः । किंच यां नदीं श्रुतिः वेदः " इमं मे गङ्गे यमुने- " इत्यादिरूपा इत्यर्थः । तोष्टवीति पुनःपुनर्भृशं वा स्तौति, ‘टुञ् स्तुतौ’ इत्यस्माद्धातोर्यङ्लुकि लटि रूपम् । सैव भगवती मरुद्वृधा कावेरी नदी अत्र तीर्थ विरजाभिधं प्रसिद्धम् । अस्य च नगरस्य नायकोऽधिपतिस्तु जगतां सर्वेषां लोकानां निर्वाहको रक्षिता, सर्वेषां प्राणिनां आत्मा अन्तर्यामी, भगवान् विष्णुरित्यर्थः । अस्ति । तस्मात् इह क्षेत्रे वासः सततं वसतिः लभ्यते प्राप्यते चेत् जगति कः पुरुषः वैकुण्ठं लोकं, गन्तुमिति शेषः । उत्कण्ठते ? अपि तु न कोऽपी- त्यर्थः ॥ ४०७ ॥

सोऽयमिति । सायं भवानि सायंतनानि यानि इन्दीवराणि नीलकमलानि तेषामिव श्यामं अङ्गं मध्यभागश्च यस्य तेन कृतः तमसोऽज्ञानस्य अन्धकारस्य च भङ्गो येन तेन, रङ्गे क्षेत्रे इन्दुरिव चन्द्र इव तेन रङ्गनाथेन, पक्षे रङ्गयुक्तेन रागयुक्तेन इन्दुना चन्द्रेण च सनायकः सनाथः नायकेन शृङ्गारिणा च सहितः सः प्रसिद्धः अयं विषयो देशः यद्यपि हृद्य एव मनोहर एव वर्तते, किंतु तथापि भ्रान्ताः परधनलुब्धत्वेन अनंवस्थितचित्ताः अत एव शान्तः आत्मा चित्तं येषां तेषां तापदाः संतापजनकाः पिशुनाः खलाः “ पिशुनौ खल-सूचकौ " इत्यमरः । एतादृशश्चोरा इत्यर्थः । चरन्ति परिभ्रमन्ति । हन्तेति खेदे । येषां दृष्टानामुदञ्चनात् सर्वतः संचाराद्धेतोः अत्र क्षेत्रे श्रीमन्तः संपत्तिमन्तो जनाः अत्रासं भयरहितं यथा तथा न खलु आसते तिष्ठन्ति, न वसन्तीत्यर्थः । बतेति खेदे ॥ ४०८ ॥

विश्वास-प्रस्तुतिः

किं बहुना -
नित्यं काञ्चनसिन्धुमध्यरुचिरो निष्कम्पसम्पन्निधि –
र्निस्तुल्यामपि काञ्चनश्रियमुरोमध्ये दधानः स्वयम् ॥
बिभ्यत्किं पिशुनेभ्य एष बहुलप्राकारसंवेष्टिते
शेते धामनि रङ्गनायक इति स्वाख्यामिह ख्यापयन् ॥४०९ ॥
वि॰ - सखे14 न जातु श्रीमतां हानिः प्रत्युत तद्द्वेष्टॄणां15 पिशुनानामेव भवन्त्यनर्थाः ॥ १७२& ॥
परवित्तजिहीर्षया प्रवृत्तः पिशुनस्तु स्वयमेव नाशमेति ॥
सुलभः शलभस्य किं न दाहः पृथुदीपग्रसनाय जृम्भितस्य ॥ ४१० ॥
अलमन्यप्रसङ्गेन, तमेव च16 रङ्गेशं श्रीरङ्गधामानमनुसंदधामि ॥ १७३& ॥

किंच नित्यमिति । नित्यं संततं काञ्चनसिन्धोः सुवर्णसमुदायस्य कावेर्या नद्याथ मध्ये रुचिरः सुन्दरः, तत्र वसान इत्यर्थः । अत एव निष्कम्पायाश्चलनरहितायाः शाश्वताया इत्यर्थः । संपदः संपत्तेः निधिः, तत एव च निस्तुल्यां निरुपमां काञ्चनस्य सुवर्णस्य सुवर्णालंकारस्येत्यर्थः । श्रियं, पक्षे कांचन अनिर्वाच्यगुणयुक्तामित्यर्थः । श्रियं लक्ष्मीं च उरसो वक्षस्थलस्य मध्ये मध्यभागे दधानः धारयन् सन्नपि स्वयं एष भगवान् पिशुनेभ्यः खलेभ्यः बिभ्यत् किं भयं प्राप्नुवन्निवेत्युत्प्रेक्षा । बहुलाः अनेके ये प्राकाराः शिलादिनिर्मिताः प्रासादभित्तयः तैः संवेष्टिते परितो वृते धामनि स्थाने रङ्गस्य एतत्क्षेत्रस्य वङ्गस्य च नायकः पतिः इति स्वस्य आख्यां नाम, चोरभयात् स्वर्णनायक इति नाम निह्नुवन्नित्यर्थः । इह प्रदेशे ख्यापयन् प्रकथयन् प्रसिद्धीकुर्वन्निति यावत् । शेते निलीय तिष्ठति निद्रातीति च ॥ ४०९ ॥

सख इति । जातु कदाचिदपि श्रीमतां संपत्तिमतां लक्ष्मीवतां च पिशुनेभ्य इति शेषः । न हानिः प्रत्युत किं तु तान् लक्ष्मीवतः द्विषन्ति ते तद्द्वेष्टारस्तेषां पिशुनानामेव अनर्थः शिक्षादिरूपाः भवन्ति ॥ १७२& ॥

एतदेव सविस्तरमाह - परवित्तेति । यस्तु पिशुनः परेषामन्येषां वित्तस्य द्रव्यस्य जिहीर्षया हर्तुमिच्छया प्रवृत्तः उद्यतः, सः स्वयमेव नाशं एवि प्राप्नोति । एतदेव सदृष्टान्तमाह - पृथोर्महतः दीपस्य ग्रसनाय भक्षणाय जृम्भितस्य उद्यतस्य शलभस्य कीटविशेषस्य दाहो दहनं भस्मीभाव इत्यर्थः । सुलभः न किम् ? किंतु स एव सुलभः नान्यत् किमपीति भावः ॥ ४१० ॥

अत एव भगवदन्यकथाप्रसङ्गो मास्त्विति सूचयन्नाह — अलमिति । अन्यस्य भगवत्कथेतरस्य प्रसङ्गेन अवसरेण अलं पर्याप्तं, स न कार्य इत्यर्थः । किंतु तं प्रसिद्धमेव च श्रीरङ्गे क्षेत्रे धाम स्थानं यस्य तं रङ्गेशं भगवन्तं अनुसंदधामि वर्णयामि ॥१७३&॥

विश्वास-प्रस्तुतिः

सविस्मयम् —
सपर्यां विरुद्धादपि प्राप्तुमीष्टे
समर्थो जगत्यां यतो रामचन्द्रात् ॥
अरं-गाधिराजोदितप्रौढभक्ते-17
रपि प्राप पूजां स रङ्गाधिराजः ॥ ४११ ॥
अथवा नात्र विरोध इति समर्थये ॥ १७४& ॥
कुवस्तुहानात्18 सद्वस्तुसंग्रही राघवः क्षमम् ॥
हन्ता कुरङ्गराजस्य रङ्गराजमपूजयत् ॥ ४१२ ॥
पुनः सभक्तिप्रकर्षं भगवन्तमुद्दिश्य-
श्रुतसुरनुतिघोषे19 शत्रुषु स्फीतरोषे
निहतविनतदोषे नित्यदास्याभिलाषे ॥
ललितवपुषि शेषे लब्धसंपूर्णतोषे
परमपुरुष ! शेषे पर्वचन्द्राविशेषे ॥ ४१३ ॥

सपर्यामिति । जगत्यां पृथिव्यां समर्थः संपत्तिमान्, कर्तुमकर्तुमित्यादिसामर्थ्ययुक्तश्च विरुद्धात् शत्रोरपि विपरीताचारादपीति च सपर्यां पूजां, “पूजा नमस्यापचितिः सपर्या ” इत्यमरः । प्राप्तुं लब्धुं ईष्टे समर्थो भवति । यतो यस्मात् स प्रसिद्धः रङ्गाधिराजः भगवान् अरङ्गाधिराजे रङ्गनाथभगवदितरस्मिन् पक्षे ‘अरं’ इति छेदः । अरमतिशयितं गाधिराजे विश्वामित्रे च उदिता उत्पन्ना प्रौढा प्रगल्भा भक्तिर्यस्य तस्मात् रामचन्द्रादपि पूजां प्राप स्वीकृतवान् । तस्मात् इति संबन्धः । श्रीरङ्गनाथो रघुकुलदैवतमिति हि पुराणप्रसिद्धिः ॥ ४११ ॥

किंच कुवस्त्विति । राघवः कुवस्तूनां कुत्सितवस्तूनां हानात् त्यागात् सतां उत्तमानां प्रशस्तानां वा " सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्" इत्यमरः । वस्तूनां संग्रही स्वीकारकर्ता एतत् क्षमं युक्तम् । यतः कुत्सितस्य निन्द्यस्य रङ्गराजस्य, कुरङ्गराजस्य मायामृगस्य च मारीचस्येत्यर्थः । हन्ता मारयिता राघवः इमं रङ्गराजं रङ्गनाथं अपूजयत् पूजितवान् ॥ ४१२ ॥

श्रुतेति । श्रुतः आकर्णितः सुराणां देवानां नुतिघोषः स्तुतिघोषो येन तस्मिन्, शत्रुषु वैरिषु स्फीतः प्रवृद्धः रोषः क्रोधो यस्य तस्मिन् निहताः विनाशिताः विनतानां नम्राणां दोषाः पापानि येन तस्मिन् नित्यं दास्ये भगवद्दासकर्मणि अभिलाष इच्छा यस्य तस्मिन् लब्धः प्राप्तः संपूर्णस्तोषः संतोषो येन भगवद्दृढभक्त्येत्यर्थः । तस्मिन्, ललितं मृदु सुन्दरं वा वपुः शरीरं यस्य तस्मिन् पर्वणि पौर्णमास्यां यश्चन्द्रः तस्मादविशेषे विशेषरहिते तत्सदृशे इत्यर्थः । एतादृशे शेषे अनन्ते, हे परमपुरुष भगवन् रङ्गनाथ ! शेषे शयनं करोषि ॥ ४१३ ॥

विश्वास-प्रस्तुतिः

भगवन् रङ्गनायक20 ! भवदीये सदसि भाषितुमपि वयं बिभीमः॥ १७५& ॥
तथाहि-
कर्तृ21 व्याकरणस्य वाममितरद्यस्य प्रवक्त्रीक्षणम्
भाष्यं व्याकरणस्य साधु विदधे शय्या यदीया पुनः ॥
यद्वाहो द्विजशेखरः श्रुतिमयो यस्य स्नुषा भारती
गोष्ठयां त्रस्यति तस्य ते कविजनो रङ्गेश ! कर्तुं स्तुतिम्22 ॥ ४१४ ॥
पुनरञ्जलिं बद्ध्वा सप्रार्थनम्-
वरगुणगणसीमा वारिदश्यामधामा
सततममररामासंघसंगीतनामा ॥
परिहृतभवदामा भासिताकल्पहेमा
मम कलयतु भूमा मङ्गलं रङ्गधामा ॥ ४१५ ॥

भगवन्निति । हे भगवन् रङ्गनायक ! भवदीये त्वत्संबन्धिनि सदसि सभायां भाषितुं वक्तुमपि वयं बिभीमः भयं प्राप्नुमः ॥ १७५& ॥

भयकारणमेवोपपादयति-कत्रिति । यस्य भगवतः वामं सव्यं ईक्षणं नेत्रं चन्द्ररूपमित्यर्थः । व्याकरणस्य चान्द्रव्याकरणस्य कर्तृ उत्पादकं, तथा इतरत् वामात् भिन्नं दक्षिणनेत्रं सूर्यरूपं सौरव्याकरणशास्त्रस्य प्रवक्तृ प्रणेतृ, पुनश्च यस्य रङ्गनाथ भगवतः इयं यदीया भगवत्संबन्धिनीत्यर्थः । शय्या शेषरूपा व्याकरणस्य पाणिनीय व्याकरणशास्त्रस्य भाष्यं महाभाष्यरूपं व्याख्यानं साधु यथा तथा विदधे चकार, तथा यस्य भगवतो वाहो वाहनं श्रुतिमयो वेदरूपः द्विजानां ब्राह्मणानां पक्षिणां च श्रेष्ठः गरुडः, यस्य भगवतः स्नुषा पुत्रपत्नी भारती सरस्वती, तस्मात् हे रङ्गेश रङ्गनाथ भगवन् ! तस्य एतादृशगुणविशिष्टस्य ते तव गोष्ट्यां सभायां कविजनः काव्य कर्तृसमुदायः स्तुतिं स्तवं कर्तुं त्रस्यति बिभेति ॥ ४१४ ॥

पूर्वोक्तगुणविशिष्टा देवता मम कल्याणं विदधातु इति मनसि निधाय प्रार्थयते - वरगुणेति । वराणां श्रेष्ठानां गुणगणानां गुणसमुदायानां सीमा मर्यादा, वारिदस्य मेघस्येव श्यामं नीलवर्ण धामं देहो यस्य सः, “गृह - देह - लिट्- प्रभावा धामानि " इत्यमरः । सततं निरन्तरं अमररामाणां देवस्त्रीणां सङ्घेन समुदायेन संगीतम् उत्तम- प्रकारेण गानेन वर्णितं नाम यस्य सः, परिहृतं निवारितं भवस्य संसारसंबन्धि दाम बन्धनपाशो येन सः, समस्त संसारबन्धनोच्छेदक इत्यर्थः । भासितं प्रकाशितं आकल्पानां भूषणानां हेम सुवर्ण यस्य सः, रङ्गे रङ्गक्षेत्रे धाम स्थानं यस्य सः भूमा महात्मा भगवान् रङ्गनाथः, मम मत्संबन्धि मङ्गलं कल्याणं कलयतु करोतु ॥ ४१५ ॥

विश्वास-प्रस्तुतिः

अन्यतो वीक्ष्य सश्लाघम्23
स्वामिनीं स्तौमि24 नीलाब्जमदमोचनलोचनाम् ॥
अङ्गनां रङ्गनाथस्य25 दीप्तिं मूर्तिमतीमिव ॥ ४१६ ॥
देवीमुद्दिश्य —
मोहोन्मूलनमूलिका भवजुषां मोक्षाध्वनिःश्रेणिका
चेतः शुद्धिविधानसिद्धगुलिका26 चिन्तातमश्चन्द्रिका ।
विद्याविभ्रमसारिकासि27 कमले ! विष्णोरुरोमालिका
मातस्त्वं मम पारिजातलतिका मोदाम्बुधेर्वीचिका ॥ ४१७॥
कृ॰ — कान्त्येव हन्त वृत्त्याऽपि कमलामपि28 चञ्चलाम् ॥
अशिष्टेष्वेव रज्यन्तीमभिष्टौति कथं बुधः ॥ ४१८ ॥

एवं भगवन्तं रङ्गनाथं स्तुत्वा तत्पत्नीं भगवतीं महालक्ष्मीं स्तौति - स्वामिनी- मिति । नीलाब्जस्य नीलकमलस्य मदमोचने सौन्दर्यगर्वनिवारणे लोचने नेत्रे यस्याः सा तां, मूर्तिमतीं प्रत्यक्षशरीरधारिणीं दीप्तिं कान्तिमिव स्थितां स्वामिनीं सर्वजनानामीश्वरीं, रङ्गनाथस्य भगवतः अङ्गनां पत्नीं लक्ष्मीं स्तौमि वक्ष्यमाण- प्रकारेण स्तुतिं करोमि ॥ ४१६ ॥

मोहोन्मूलनेति । भो मातः सकललोकजननि ! कमले महालक्ष्मि ! त्वं भवजुषां संसारिणां मोहस्याज्ञानस्य उन्मूलने निर्मूलने मूलिका मूली, अत एव मोक्षाध्वनः मोक्षमार्गस्य निःश्रेणिका अधिरोहिणी, चेतसः अन्तःकरणस्य शुद्धिविधाने पवित्रीकरणे सिद्धगुलिका सिद्धगुटिका, चिन्तारूपस्य तमसः अन्धकारस्य चन्द्रिका चन्द्रकान्तिः, विद्याविभ्रमस्य विद्याक्रीडायाः सारिका, विष्णोर्भगवतः उरोमालिका वक्षःस्थलमाला, मम पारिजातलतिका कल्पवल्ली, अत एव मोदाम्बुधेरानन्दसमुद्रस्य वीचिका लहरी च असि । एतदेव क्रियापदं पूर्वविशेषणेष्वपि योज्यम् ॥ ४१७ ॥.

एवं लक्ष्मीवर्णनमाकर्ण्य चपलत्वरूपं दोषं तस्यामुद्भाव्य कृशानुः प्राह-कान्त्येवेति । हन्तेति खेदे । कान्त्या प्रभयेव वृत्त्या स्थित्या स्वभावेन चापि चञ्चलां चपलां विद्युतं चापि, किंच अशिष्टेष्वेव असभ्येष्वेव रज्यन्तीं रममाणां कमलां लक्ष्मीमपि बुधः पण्डितः कथमभिष्टौति प्रशंसति ? अपि तु नैव स्तौतीत्यर्थः । उप- सर्गात् सुनोति -” इत्यादिना षत्वम् ॥ ४१८ ॥

विश्वास-प्रस्तुतिः

तथा हि

प्राक्पर्यङ्कमधिष्ठितोपि29 मृदुलं पालाशशय्यामपि
प्रायः प्रार्थयते कदन्नमिव यः क्षीरौदनं भुक्तवान्30
प्राश्नात्येष कदुष्णिकाममृतवत् प्रागाप्तपीताम्बरः॥31
कॅन्थां याचति भृत्यति3233 क्षितिपतिर्लक्ष्मीकटाक्षात्यये ॥ ४१९ ॥
अन्यच्चावधेयम्-
दातुर्द्वारि य एष वारणमगात्तद्वार्यहो वारणम्
पश्याम्यद्य चिरादशेत भुवि यो भूस्तस्य शेते भुजे ॥
नाहारानपि लेभिरे यदबला हारानमूस्तत्प्रिया
विन्दन्ते कमलादृगूर्मिभिरहो निम्ने34 भवत्युन्नतिः ॥ ४२० ॥

लक्ष्म्याश्चञ्चलत्वमेव तावत्सविस्तृतमाह — प्रागिति । यः क्षितिपतिः पृथ्वीपती राजा, प्राक् लक्ष्म्याः कृपाकटाक्षसमये मृदुलं मृदुतरं पर्यङ्कं अधिष्ठितः आरूढोऽपि सन्, लक्ष्म्याः कटाक्षस्य नेत्रापाङ्गदर्शनस्य अत्यये नाशे सति लक्ष्मीप्रसादाभावे इत्यर्थः । एतदेवाग्रेष्वपि वाक्येषु योज्यम् । पलाशानां पर्णानामियं पालाशी तां पर्णनिर्मितामित्यर्थः । शय्यामपि प्रायः प्रार्थयते वाञ्छति । तथा यः प्राक् क्षीरौदनं दुग्धयुक्तं भोजनं भुक्तवान् बुभोज, सः एषः कदुष्णिकां कुत्सितां यवागूं अमृतवत् प्रकर्षेण अश्नाति भुनक्ति । तथा यः प्राक् आप्तं परिहितं पीतं कौशेयं अम्बरं वस्त्रं येन सः तथाभूतः आसीत् स एव कन्थां बहुवस्त्रखण्डरचितां याचति, अत एव भृत्यति दासवदाचरति च ॥ ४१९ ॥

किंच दातुरिति । यः एषः याचकः दातुः उदारधनिकस्य द्वारि द्वारदेशे चारणं निवारणं अन्तर्गमननिषेधं अगात् प्राप्तवान्, तस्य याचकस्य द्वारि वारणं निवारणं, गजं वा पश्यामि अवलोकयामि । अहो इत्याश्चर्ये । तथा यः चिरात् बहुकालपर्यन्तं भुवि केवलभूमावेव अशेत शयनं करोति स्म, तस्यैव भुजे बाहौ अद्य भूः पृथ्वी शेते । भुजबलात् भुवं लब्धवानित्यर्थः । तथा यस्य दरिद्रस्य अबलाः स्त्रियः आहारान् भोजनान्यपि न लेभिरे न प्राप्तवत्यः, तस्य दरिद्रस्य प्रियाः अमूः स्त्रियः हारान् मुक्ताफलमणिरचितान् विन्दन्ते प्राप्नुवन्ति । तस्मात् कमलाया लक्ष्म्याः दृशः दृष्टय एव ऊर्मयः तरङ्गास्तैर्हेतुभिः निम्ने नीचेऽपि उन्नतिः उच्चता संपत्त्यादिनेति भावः । भवति ॥ ४२० ॥

विश्वास-प्रस्तुतिः

इदं च पुनर्बोद्धव्यम् - ( श्रियमुद्दिश्य - )
हन्तुर्बन्धुजनान् धनार्थमनघान् गन्तुः परस्त्रीशतम्
रन्तुर्जन्तुविहिंसकैः सह जनैः संतुष्यतो वञ्चनैः ॥
वक्तुस्तीक्ष्णमयुक्तमेव वचनं पक्तुर्मितं चौदनम्
नित्यं नृत्यसि मन्दिरेषु कमले ! क्वत्यं35 तवैतन्मतम् ॥ ४२१ ॥
अन्यच्च-
येषामन्यकलत्रदर्शनकलाव्युत्पत्तिशून्ये36 दृशौ
मूढं हृच्च परार्थचिन्तनविधौ37 मिथ्यानभिज्ञं मुखम् ॥
अप्रज्ञातपशून्बुभुक्षितशिशूनभ्रोदकैस्ताम्यत-
स्तेषां लक्ष्मि गृहान् दृशा च38 भयभीतेवेह नावेक्षसे ॥ ४२२ ॥

अपि च हन्तुरिति । हे कमले लक्ष्मि ! धनार्थं द्रव्यार्थं अनघान् निरपराधान् बन्धुजनान् हन्तुः, परस्त्रीणां शतं, अनेकपरस्त्रीरित्यर्थः । गन्तुः उपभोगार्थ गच्छतः, जन्तुविहिंसकैः प्राणिवधकर्तृभिः जनैः सह रन्तुः विहारशीलस्य, वञ्चनैः परप्रतारणैः संतुष्यतः, किंच अयुक्तं सभ्यजनानामयोग्यं तीक्ष्णं कठोरं च वचनं भाषणं वक्तुः, मितं स्वोदरपूर्तिमात्रमेव ओदनमन्नं च पक्तः, “ आत्मार्थं पाचयेन्नान्नं" इत्यादिशास्त्रात् आत्मपर्याप्तिमात्रान्नपचनमयुक्तमिति भावः । एतादृशजनस्य मन्दिरेषु गृहेषु नित्यं नृत्यसि । एतत् तव मतं कत्यं कुत उत्पन्नम् ? नान्यतः कुतोऽपि तु त्वत्त एवोत्पन्नमित्यर्थः ॥ ४२१ ॥

अथ ये तावत् सदाचरणतत्परास्तेषां गृहे नैव तिष्ठसीति वदन् लक्ष्मीं दूषयति- येषामिति । येषां निर्मलमानसानां जनानां दृशौ लोचने अन्यकलत्राणामन्यस्त्रीणां दर्शनरूपा या कला तस्याः व्युत्पत्तिर्ज्ञानं तेन शून्ये रहिते, कदापि परस्त्रीदर्शनवर्जिते इत्यर्थः । तथा येषां, इदमेव सर्वत्राग्रिमवाक्येषु योज्यम्, हृत् हृदयं च परार्थचिन्तनविधौ अन्यद्रव्यग्रहणविचारकरणे मूढं, सर्वदा सत्कार्यपरतया परद्रव्यापहाराद्यसत्कर्मविचारशून्यमित्यर्थः । क्वचित् ‘परार्तिचिन्तनविधौ ’ इति पाठः । तत्पक्षे परपीडाकरणविचाररहितमित्यर्थः । तथा मुखं मिथ्यानभिज्ञं असत्य भाषणरहितं सर्वदा सत्यभाषणपरमेवेत्यर्थः । तेषां जनानां अप्रज्ञाताः कदाप्यदृष्टाः पशवो गोमहिष्यादयो येषु तान्, बुभुक्षिताः क्षुधिताः शिशवो बालाः येषु तान्, अभ्रोदकैः वर्षाका- लिकमेघजलैः ताम्यतः सम्यक् जलवारणाभावात् दुःखप्रदांश्च गृहान् प्रति हे लक्ष्मि ! इह भयभीतेव दृशा न अवेक्षसे नैव पश्यसि । सदाचारसद्विद्यादिसंपन्नान् जनान् सततं दारिद्र्यावस्थायामेव वर्तयसीत्यर्थः ॥ ४२२ ॥

विश्वास-प्रस्तुतिः

विश्वा० - सखे ! मानसखेदजननी तवेयं वाणी । यतो दुःशीलेषु दृश्यमानाः साधुजनानुपयुक्ताः संपदाभासाः, प्रत्युत मृत्युतरणकारणभुवनजननीकृपाकटाक्षवैधुर्यनिबन्धना एव । उक्तं हि गुणहानेरुदधिदुहितृवैमुख्यनिबन्धनत्वमुचितज्ञेन केनचिद्विदुषा39 ॥ १७६& ॥
’ सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः ॥
पराङ्मुखी जगद्धात्रि ! यस्य त्वं विष्णुवल्लभे ! ॥ ४२३ ॥’ इति ।

सख इति । हे सखे मित्र ! मानसस्य मनसः खेदजननी तव इयं ‘कान्त्येव हन्त - ’ इत्यारभ्य ’ - नावेक्षसे ’ इत्यन्ता वाणी । यतो यस्मात् कारणात् दुःशीलेषु दुष्टस्वभावाचारेषु जनेषु दृश्यमानाः संपदः द्रव्यादिसमृद्धेः आभासाः, न तु सत्याः, चिरकालस्थायित्वाभावात् । अत एव साधुजनानां अनुपयुक्ताः, प्रत्युत विचारे कृते तु मृत्योः जन्म-मरणादिपरंपरायुक्तस्य संसारस्य तरणे पारगमने कारणरूपा ये भुवनजनन्या लक्ष्म्याः कृपाकटाक्षाः तेषां वैधुर्यं शून्यत्वं निबन्धनं प्रयोजकं येषां तथाभूता एव । सदाचारसद्विद्यादिसंपन्नसज्जनानां जन्ममरणादिराहित्य- चिरसुखस्थायित्वादिदर्शनात्, तद्विरुद्धाचाराणां च धनादिसंपन्नत्वेऽपि पुनः पुनर्जन्म-मरण- दुर्गतिप्रापणादिश्रवणाच्च । उक्तार्थे विद्वत्संमतिमाह – उक्तं हीति । गुणानां दया- दाक्षिण्यादीनां हानेः उदधिदुहितुः क्षीरसागरकन्यकायाः लक्ष्म्याः वैमुख्यं पराङ्मुखत्वमेव निबन्धनं प्रयोजकं यस्य तस्य भावस्तत्वं केनचित् उचितं लक्ष्मीकटाक्षस्य भवसागरमोचनमेव सत्यं फलमिति योग्यं जानातीति तज्ज्ञस्तेन विदुषा पण्डितेन । उक्तं हि कथितमेव । क्वचित् ‘नमुचिद्विषा’ इति पाठः । तत्पक्षे इन्द्रेणेत्यर्थः । इममेव पाठमनुसृत्याग्रिमपद्ये ’ इयं हि ( ‘सद्यो वैगुण्यमायान्ति’ इत्यादिरूपा ) इन्द्रायैरावतारूढाय राजोपहारकारणीभूता केनचित् स्वस्मै समर्पिता पुष्पमाला सहजमन्युना दुर्वाससा मध्येमार्गमेव दत्ता । शक्रश्च तां गृहीत्वा गजेन्द्रगण्डस्थलोपरि निक्षिप्तवान् । स चैरावतस्तां पुष्करेण गृहीत्वा छिन्नामकरोत् । तद्दृष्ट्वा परमकोपनो मुनिराट् इन्द्राय ’ त्वत्पालितेषु भुवनेषु लक्ष्मीर्न वत्स्यति’ इति शापमदात् । ततश्च सर्वत्र लक्ष्मीप्रादुर्भावाभावे यज्ञादिसंपत्यभावे च देवानां हविर्भागाद्यप्राप्त्या चिन्ताविष्टतया ब्रह्मादिकृतस्तवन संतुष्टाया लक्ष्म्याः सर्वलोकहितावहे प्रादुर्भावे शक्रकृतलक्ष्मीप्रशंसारूपा प्रासङ्गिकी उक्तिः विष्णुपुराणे दृश्यते ।’ इति टिप्पणी मुद्रितपुस्तके दृश्यते ॥ १७६& ॥

तामेवोक्तिं दर्शयति-सद्य इति । हे विष्णुवल्लभे विष्णुप्रिये, जगद्धात्रि जगन्मातः ! त्वं यस्य पुरुषस्य पराङ्मुखी भवसि तस्य शीलं सद्वृत्तं आद्यं मुख्यं येषां ते गुणाः सदाचरणपरोपकारादयः सकला अपि सद्यः सपद्येव विगुणानां दोषाणां भावः वैगुण्यं दोषरूपत्वं आयान्ति प्राप्नुवन्ति ॥ ४२३ ॥

विश्वास-प्रस्तुतिः

ततश्च
संपत्तिः किंपचानानां संप्राप्ता कापथेन या ॥
नरकानुभवोदर्का न सा लक्ष्म्याः40 कृपाफलम् ॥ ४२४ ॥
तथाहि-
धन्यंमन्यतया तृणीकृतबुधा धर्मेषु दुर्मेधसः
सेर्ष्यास्तामसपुण्यलेशविलसत्संपल्लवाः पल्लवाः ॥
पश्यासूनपहाय41 पञ्चषदिनान्याकल्पमल्पा42 इमे
भोक्ष्यन्ते बत यातना बहुविधाः कार्तान्तगर्तान्तरे ॥४२५॥
यच्च भणितं भवता तत्रभवतः शिष्टान् लक्ष्मीर्न वीक्षत43 इति तदज्ञानोपबृंहितमेव44 । यतः साधुजनेभ्यो मुक्त्यैश्वर्यपर्यन्तनिरन्तरभगव द्भक्तिसंपदं प्रदत्ते45 दूरापास्तमारामयविकारा वाराशिदुहितुरुदारकटाक्षसाधुसुधाधारा ॥ ९७७& ॥

संपत्तिरिति । किंपचानानां कृपणानां " कदर्ये कृपण-क्षुद्र- किं पचान-मितं- पचाः । " इत्यमरः । संपत्तिः या कापथेन कुत्सितमार्गेण प्राप्ता, सा नरकानुभवः उदर्कः उत्तरं फलं यस्याः सा तथाभूता । अत एव सा लक्ष्म्याः कृपाफलं न भवति । नहि खलु लोकमातुः कृपारसार्द्रचित्ताया लक्ष्म्याः प्रसादेन दुर्गत्युदर्काणि फलानि भवन्तीति भावः ॥ ४२४ ॥

नरकानुभवोदर्कत्वमेव प्रपञ्चयति —- धन्यंमन्यतयेति । आत्मानं धन्यं मन्यन्ते ते धन्यंमन्यास्तेषां भावो धन्यंमन्यता तथा हेतुना तृणीकृतास्तृणवत्तुच्छीकृता बुधाः पण्डिता यैस्ते तथाभूताः अत एव दुर्मेधसो दुष्टबुद्धयः, धर्मेषु सेर्ष्याः धर्मनिबन्धनान्यसहमाना इत्यर्थः । पल्लवाः परदारासक्ताः जाराः “पल्लवः किसले बले । विटपे विस्तरेऽलक्तरागे शृङ्गार - षिङ्गयोः ।" इति कोशः ( ? ) । अल्पाः क्षुद्राः पञ्चषदिनानि पञ्चष- दिनपर्यन्तमित्यर्थः । " बहुव्रीहौ संख्येये-" इत्यादिना डचि टिलोपः । तामसः तमोगुणप्रभवः यः पुण्यस्य लेशः अंशः तेन विलसन् संपदः धनादिसंपत्तेः लवो लेशो येषां ते तथोक्ताः इमे जनाः अन्ते असून् प्राणानपहाय त्यक्त्वा आकल्पं कल्पपर्यन्तं बहुविधाः यातनाः तीव्रनरकवेदनाः कृतान्तस्य यमस्य अयं कार्तान्तः स चासौ गर्तः नरकरूपः तस्य अन्तरे मध्ये भोक्ष्यन्तेः पश्य । बतेति खेदे ॥ ४२५ ॥

एतावता ‘दातुर्द्वारि य एष इत्यादिना ’ हन्तुर्बन्धुजनान्-’ इत्यादिना चोक्तं दूषणं परिहृत्य ’ येषामन्यकलत्रदर्शन -’ इत्यादिनोक्तं दूषणं परिहर्तुमाह- यश्चेति । यच्च तत्रभवतः पूज्यान् शिष्टान् जनान् प्रति लक्ष्मीर्न वीक्षते नावलो कयति इति भणितं ’ येषामन्यकलत्र-’ इत्यादिना प्रतिपादितं तदज्ञानेन तत्त्वतोऽवबोधाभावेन उपबृंहितमुपवृद्धमेव । यतो हेतोः वाराशिदुहितुः समुद्रकन्या- या लक्ष्म्याः दूरं अपास्तस्त्यक्तः मारः काम एव आमयो रोगस्तस्य विकारो यया सा उदारा मोक्षपर्यन्तानन्तसुखप्रदत्वान्महान्तो ये कटाक्षास्तद्रूपा या साध्वी उत्तमा सुधाधारा अमृतसंपातः मुक्त्यैश्वर्यं मोक्षरूपा भूतिः पर्यन्ते अवसाने यस्यास्तादृशीं निरन्तरां अविच्छिन्नां भगवति विष्णौ भक्तिसंपदं प्रदत्ते प्रददाति ॥ १७७& ॥

विश्वास-प्रस्तुतिः

संभोगारम्भजृम्भन्मदकितवपरीरम्भसम्पीड्यमान-
प्रौढस्त्रीरत्नहारप्रशिथिलगुणवद्भङ्गुराः सम्पदोघाः ॥
साधूनां मा स्म भूवन्सुरपुर निरसीकारदक्षं4647 हि लोके
भोक्ष्यन्ते मोक्षमन्ते स्थिरनिरवधिकानन्दधारात्मकं ते ॥ ४२६ ॥

‘दूरापास्तमारामयविकारा’ इति यल्लक्ष्मीकटाक्षाणामुदारत्वमुक्तं तदेव सहेतुकमुपपादयति- संभोगेति । संभोगस्य सुरतसुखस्य आरम्भे जृम्भन्तः उद्यन्तः मदयुक्ताश्च ये कितवा धूर्तास्तेषां परीरम्भेणाश्लेषेण संपीड्यमानाः प्रौढस्त्रीणां तरुणस्त्रीणां रत्नहाराणां प्रशिथिला अतिशयशिथिला ये गुणाः सूत्राणि तद्वत् भङ्गुरा विनाशिनः क्षणमात्रनश्वरा इत्यर्थः । संपदां ओघाः समूहाः साधूनां सततपरोपकारतत्पराणां सज्जनानां मा स्म भूवन् मा भवन्तु, एतादृशनश्वरसंपदां नैव तेषामपेक्षेति भावः । हि यस्मात् कारणात् लोके ते साधवः सुरपुरस्य स्वर्गस्य निरसीकारे नीरसीकरणे तुच्छीकरणे इत्यर्थः । दक्षं समर्थ, तस्याप्यनित्यत्वात् । तदुक्तं भगवतैव - " त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्रा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान् ॥ ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । ” इति । श्रुतिरपि - " तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते " इति । किं तर्हि स्थिरसुखं यत्साधुभिरुपभुज्यते इत्याकाङ्क्षायामाह - स्थिरा कालत्रयेऽप्यनश्वरा अत एव निरवधिका निःसीमा च अनुत्तमेत्यर्थः । आनन्दस्य धारैव आत्मा स्वरूपं यस्य तं मोक्षं मुक्तिं अन्ते देहावसाने भोक्ष्यन्ते ॥ ४२६ ॥

विश्वास-प्रस्तुतिः

किंच—
लक्ष्मीकटाक्षपूरः स जयति यदुपचयतारतम्येन ॥
नरसुरपशुप्रजानां पतयः स्युर्हन्त जन्तवः केऽपि ॥ ४२७ ॥

मूलम्

किंच—
लक्ष्मीकटाक्षपूरः स जयति यदुपचयतारतम्येन ॥
नरसुरपशुप्रजानां पतयः स्युर्हन्त जन्तवः केऽपि ॥ ४२७ ॥

बाल-कृष्णः

लक्ष्मीति । सः पूर्वोक्तरीत्या प्रसिद्धः लक्ष्म्याः भगवत्याः कटाक्षाणां पूरः अतिशयः जयति सर्वोत्कर्षेण वर्तते । कथंभूतः सः । यस्य कटाक्षपूरस्य उपचयो वृद्धिः तस्य तारतम्येन न्यूनाधिकभावेन हेतुना केऽपि पूर्वं हीनदशापन्ना अपि जन्तवः प्राणिनः नराणां मनुष्याणां सुराणां देवानां नरसुराणां ब्राह्मणानां वा पशूनां सर्वजीवानां गोमहिष्यादीनां च प्रजानां च पतयः पालकाः स्वामिनश्च हन्तेत्यानन्दे । नृपति इन्द्र- रुद्र - ब्रह्माणो वा स्युः ॥ ४२७ ॥

विश्वास-प्रस्तुतिः

कृ॰ – कमलाकटाक्षातिशयो विभवोपचयहेतुरिति नोपपद्यते । यतस्तदल्पीयस्त्वमेव सम्पदुत्कर्षसम्पादकम् ॥ १७८& ॥
तथाहि-
गजशिबिकातुरगाः स्युर्नरस्य तन्व्या दृशा हरेस्तन्व्याः ॥
तद्भूम्नि भवति वाहो नीरद उक्षा च हन्त पक्षी च ॥ ४२८ ॥
वि॰- विहस्य —
ईदृशीमुत्कर्षपिशुनामरविन्दालयाया निन्दामभिनन्दामि ॥ १७९& ॥
किं दर्पदायकधनोपचयप्रमत्तैः कन्दर्पसायकहतैः48 क्षितिंपैरिहेति ॥
सन्तः पुरन्दरनुतं त्वरविन्दनाभेरन्तःपुरं तदवनावनुचिन्तयन्ति ॥ ४२९ ॥

कमलेति । कमलाकटाक्षाणां लक्ष्मीकटाक्षाणामतिशयो विभवस्यैश्वर्यस्य उपचय- हेतुर्वृद्धिकारणमिति नोपपद्यते नैव युज्यते । यतः कारणात् तेषां लक्ष्मीकटाक्षाणाम- ल्पीयत्वमेव अत्यल्पत्वमेव संपदः संपत्तेः उत्कर्षसंपादकं भवति ॥ १७८& ॥

तदेवोपपादयति- गजशिबिकेति । हरेः विष्णोस्तन्व्याः कान्तायाः लक्ष्म्याः तन्व्या अल्पयैव दृशा कटाक्षरूपया नरस्य गजा हस्तिनश्च शिबिका आन्दोलिकाश्च तुरंगा अश्वाश्च ते स्युः भवन्ति । तेषां लक्ष्मीकटाक्षाणां भूम्नि अतिशये सति क्रमेण नीरदो मेघः वाहो वाहनं भवति । एतदेव पदद्वयमग्रेऽपि योज्यम् । अनेन चेन्द्रस्वरूपमुक्तम् । उक्षा वृषभश्च, अनेन शिवस्वरूपं, पक्षी गरुडश्च, एतेन विष्णुस्वरूपं चोक्तम् । एतद्यथोत्तरमाधिक्ये ज्ञेयम् । हन्तेत्यानन्दे ॥ ४२८ ॥

ईदृशीमिति । ईदृशीं शब्दमात्रविरोधदर्शिनीं वस्तुतस्तत्त्वार्थप्रतिपादिनीं अत एवोत्कर्षस्यातिशयस्य पिशुनां सूचकां अरविन्दालयायाः पद्मालयायाः लक्ष्म्याः निन्दामप्यभिनन्दामि आनन्दयामि ॥ १७९& ॥

यतः सज्जनाः क्षणभङ्गुरत्वं लौकिकराज्याद्यैश्वर्यस्यालोच्य मोक्षमार्गमेवानुसरन्तीत्याह- किमिति । दर्पदायकः गर्वसंपादको यो धनस्य द्रव्यस्योपचयो वृद्धिः तेन प्रमत्तैः सदसद्विवेकशून्यैः केवलं कन्दर्पस्य मदनस्य सायकैः बाणैः करणैः हृतैः, सततं कामास क्तैरित्यर्थः । क्षितिपै राजभिः इह लोके किं कर्तव्यमस्ति ? इत्यालोच्य सन्तः पुरंदरेणेन्द्रेणापि नुतं स्तुतं अरविन्दं कमलं नाभौ यस्य तस्य विष्णोः तत् शाश्वतसुखप्रदत्वेन प्रसिद्धं, तुरवधारणार्थकः । अन्तःपुरं स्त्रीं लक्ष्मीं, अवनौ पृथिव्यां अनुचिन्तयन्ति ध्यायन्ति ॥ ४२९ ॥

१ ’ हृतैः ‘..

विश्वास-प्रस्तुतिः

पुनरनुध्याय साञ्जलिबन्धम्—49
मातस्ते मधुसूदनप्रणयिनि ! प्रातः सरोजच्छटा-
मुष्टीमुष्टिविचक्षणे शुभगुणे दृष्टी नमस्कुर्महे ॥
अष्टाभिः किल दृष्टिभिश्च तिसृभिर्जुष्टाः सहस्रेण वा
देवा द्वादशभिश्च यद्विषयतामेवार्थयन्ते क्षणम् ॥ ४३० ॥
इत्यन्यतो वीक्ष्य सामोदम्-
उग्ररिपुनिग्रहपविग्रहदिवौकश्चक्रवृतशक्रमदविक्रमनिहन्ता50
मोदरसमादरसमेत इह पूर्णः51 प्रक्षिपतु52 पक्षिपतिरक्षियुगले मे ॥ ४३१ ॥
कृ॰ - किं वर्णयसि सुपर्णममुमतिक्रान्तमर्यादम् ? ॥ १८०& ॥

मातरिति । हे मधुसूदनस्य विष्णोः प्रणयिनि मातः लक्ष्मि ! ते तव प्रातः प्रातःकाले सरोजानां कमलानां छटा समूहः तया मुष्टीमुष्टि मुष्टिभ्यां मुष्टिभ्यां प्रहृत्य प्रवृत्तं युद्धं तस्मिन् “ इच् कर्मव्यतिहारे " इति समासान्त इच्प्रत्ययः । विचक्षणे कुशले, कमलशोभामपि तुच्छीकुर्वन्त्यावित्यर्थः । शुभगुणे कल्याणगुणयुक्ते दृष्टी नमस्कुर्महे । किं वा दृष्ट्योःरेतावन्माहात्म्यं यत्ते नमस्करोषि इति चेदाह —— ययोर्दृष्ट्योः विषयतां गोचरतां, अष्टाभिरष्टसंख्याकाभिः दृष्टिभिः अनेन चतुर्मुखब्रह्मावबोधः, तिसृभिश्च दृष्टिभिः अनेन त्र्यम्बकस्य शिवस्य ग्रहणं, सहस्रेण दृष्टिभिः सहस्रसंख्याकलोचनैरित्यर्थः । अनेनेन्द्रः, द्वादशभिर्दृष्टिभिश्च अनेन षडाननश्चोक्तः, जुष्टा युक्ता देवाः क्षणं क्षणमात्रमपि अर्थयन्ते याचन्त एव ॥ ४३० ॥

उग्रेति । उग्राणामपि रिपूणां शत्रूणां निग्रहः पराभवो यस्मात् तादृशः यः पविर्वज्रं तस्य ग्रहः स्वीकारो यस्यास्ति तादृशो दिवौकसां देवानां चक्रेण समूहेन वृतो यः शक्र इन्द्रस्तस्य मदस्य गर्वस्य विक्रमस्य पराक्रमस्य च मदकरो गर्वोत्पादको यो विक्रम इति वा तस्य निहन्ता विनाशयिता । अमृताहरणसमये इत्यर्थः । अत एव पूर्णः सकलगुणैः परिपूर्णः आदरेण प्रेम्णा समेतः युक्तः पक्षिपतिर्गरुडः इह मे अक्षियुगले नेत्रयुग्मे मोदरसमानन्दरसं प्रक्षिपतु योजयतु । इन्दुवदना वृत्तम् “इन्दुवदना भ-ज-स- नैः सगुरुयुग्मैः " इति वृत्तरत्नाकरे तल्लक्षणात् ॥ ४३१ ॥

किमिति । अतिक्रान्ता उल्लङ्घिता मर्यादा स्थितिर्येन तममुं सुपर्णं गरुडं किं कुतः कारणात् वर्णयसि ? ॥ १८०& ॥

विश्वास-प्रस्तुतिः

तथाहि-
अधिगतनिगमाङ्गोऽपि द्विजराजोऽप्यच्युतं दधानोऽपि ॥
निजगार ? कथंकारं निःशङ्कं भिल्लपल्लिकां गरुडः ॥ ४३२ ॥
वि॰ - पक्षिराजस्य भिल्लपल्लीनिंगरणेन53 साधुजनानुग्रहासाधुजननिग्रहसामर्थ्यम् सदसद्विवेचनचातुर्य च व्यञ्जितमेतत्कथं54 भूषणमेव दूषयसि55 ? ॥ १८१& ॥
शृणु-
गरुडो गिलन्56 कमपि किल्बिषाविलं खलभिल्लजालमुषितं57 तदन्तरे ॥
निरजीगलन्निजगलादिलासुरं भवतः प्रपन्नमिव पन्नगेशयः ॥ ४३३ ॥
हन्त शकुन्तपुरन्दरस्यास्य स्वच्छन्दविहारावसरेष्वप्यभङ्गुरमेव स्वामिकैङ्कर्यम् ॥ १८२& ॥

अतिक्रान्तमर्यादत्वमेवाह- अधिगतेति अधिगतानि ज्ञातानि निगमा वेदाश्च अङ्गानि शिक्षा-व्याकरणादीनि च येन, अधिगतानि प्राप्तानि निगममयान्यङ्गानि हस्तपादाद्यवयवा येनेति वा, तथाभूतोऽपि द्विजानां ब्राह्मणानां पक्षिणां च राजा श्रेष्ठः अधिपतिश्चापि, अच्युतं विष्णुं दधानोऽपि धारयन् सन्नपि गरुडः भिल्लपल्लिकां भिल्लगोधिकां, हिरण्यपुराभिधं शबरग्रामं चेति भावदर्पणकारः । निःशङ्कं भयरहितं यथा तथा कथंकारं कथं निजगार भक्षितवान् । एतदेवातिक्रान्तमर्यादत्वमित्यर्थः ॥ ४३२ ॥

पक्षिराजस्येति । भिल्लपल्ल्याः निगरणेन भक्षणेन साधुजनेषु अनुग्रहः कृपा च असाधुजनेषु दुष्टजनेषु च निग्रहः शिक्षा च तयोः सामर्थ्यम्, तत एव च सद- सतोः सत्यासत्ययोः विवेचने चातुर्यम् नैपुण्यं च पक्षिराजस्य गरुडस्य व्यञ्जितं प्रकटीभूतं एतच्च भूषणमेव तत् त्वं कथं दूषयसि ? ॥ १८१& ॥,

गरुड इति । गरुडः कमपि किल्बिषैः पापैः आविलं मलिनं दूषितमित्यर्थः । खलभिल्लानां दुष्टशबराणां जालं समूहं गिलन् भक्षयन् सन् तस्य भिल्लसमूहस्य अन्तरे मध्ये उषितं स्थितं निजगलात् स्वकण्ठात् इलासुरं भूसुरं ब्राह्मणमित्यर्थः । भवतः संसारात् प्रपन्नं शरणागतं भक्तं पन्नगे शेषे शेतेऽसौ पन्नगेशयः विष्णुरिव निरजीगलत् बहिर्निःसारितवान् । अनेन तस्य दुष्टेष्वेव निग्रहो द्योतितः ॥ ४३३ ॥

हन्तेति । शकुन्तानां पक्षिणां पुरंदरस्य इन्द्रस्य पक्षिश्रेष्ठस्येत्यर्थः । “शकु- न्त - पक्षि- शकुनि - " इत्यमरः । अस्य गरुडस्य स्वच्छन्दाः स्वतन्त्रा ये विहाराः क्रीडाः तेषां अवसरेषु समयेष्वपि स्वामिनो भगवतो विष्णोः कैङ्कर्यम् दास्यं अभङ्गुरमेव विच्छेदरहितमेव । वर्तत इति शेषः ॥ १८२& ॥

विश्वास-प्रस्तुतिः

स्वज्येष्ठ प्रेर्यहर्याश्रितरथघृणिमन्मण्डलस्थाच्युताप्यम्
सन्मार्गं पक्षवातोद्गतधरणिरजश्छन्नमेतज्जवेन ॥
कल्लोलैरुल्लसद्भिः58 प्रचलजलनिधेः क्षालयन्घूर्णदर्णः- प्रेङ्खिड्डिण्डीरखण्डच्छलकुसुमकुलैर्मण्डयत्यण्डजेन्द्रः ॥ ४३४ ॥
पुनरभिध्यायन्-
यद्वीक्षा धैर्यरक्षां किल पुलकभृतां धावतां59 दैवतानाम्
सेवासंमर्दकाले गिरिशफणिगणाद्विभ्यतामभ्यतानीत् ॥
सोऽयं गाङ्गेयपृथ्वीधरवरशिखरच्छायदायादकाय-60
श्छिन्दन्वृन्दं रिपूणां कलयतु कुशलं छान्दसो नः शकुन्तः॥४३५॥

स्वज्येष्ठेति । अण्डजेन्द्रः पक्षीन्द्रः गरुडः पक्षयोः पत्रयोर्वातेन उद्गतं ऊर्ध्वं गतं यद्धरण्याः पृथ्व्याः रजस्तेन छन्नं आच्छादितं स्वस्य ज्येष्ठेन ज्येष्ठभ्रात्रा अरुणेन प्रेर्याः प्रेरणीयाः ये हरयोऽश्वाः “यमाऽनिलेन्द्र चन्द्रार्कविष्णु-सिंहांशु वाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु । " इत्यमरः । तैराश्रितो रथो यस्य स चासौ घृणिमान् किरणवान् सूर्यश्च तस्य मण्डले तिष्ठतीति तत्स्थः यः अच्युतो विष्णुः तेन आप्यं प्राप्यं अत एव सन्मार्गमुत्तमाध्वानमाकाशं च एतस्य पक्षवातस्य जवेन वेगेन प्रचलः प्रकर्षेण चञ्चलः यः जलनिधिः समुद्रः तस्य उल्लसद्भिः उद्भूयमानैः कल्लोलैः महातरङ्गैः क्षालयन् सन्, घूर्णतः क्षुभ्यतः अर्णसः समुद्रोदकात् प्रेङ्खन्ति निर्गच्छन्ति यानि डिण्डीरस्य फेनस्य खण्डानि शकलानि तेषां छलं व्याजो येषां तथाभूतानि यानि कुसुमकुलानि पुष्पवृन्दानि तैः मण्डयति भूषयति च ॥४३४॥

यद्वीक्षेति । सेवायां भगवत्पूजायां यः संमर्दः युगपदेकत्र बहुजनानां समागमः तत्काले गिरिशस्य शंकरस्य फणिगणात् सर्पसमुदायात् बिभ्यतां अत एव पुलकभृतां भयाद्रोमाञ्चयुक्तानां अत एव च धावतां पलायमानानां दैवतानां देवानां यस्य गरुडस्य वीक्षा दर्शनं धैर्येण रक्षां रक्षणं अभ्यतानीत् विस्तारयामास चकारेति यावत् । किल निश्चयेन । गाङ्गेयपृथ्वीधरस्य सुवर्णपर्वतस्य मेरोः वरशिखराणां उत्तमशृङ्गाणां छाया इति वरशिखरच्छायं “ छाया बाहुल्ये " इति नपुंसकम् । तस्य दायादः भागहरः कायः शरीरं यस्य सः, मेरुशिखरवत् स्वर्णकान्तिरित्यर्थः । सः अयं छान्दसः वेदप्रतिपाद्यः शकुन्तः पक्षी गरुडः नोऽस्माकं रिपूणां शत्रूणां वृन्दं समूहं छिन्दन् विनाशयन् सन् कुशलं कल्याणं कलयतु करोतु ॥ ४३५॥

विश्वास-प्रस्तुतिः

पुनः सविस्मयम्-
नगरूपमुपैति युक्तमङ्गीकृतशाखोऽपि सुपर्ण उन्नतोऽपि ॥
विनतैकविधेय एष चित्रं स्थिरमामोदमगान्मधोर्विपक्षात्61 ॥४३६॥
अथ सर्वतः पुरीं निरीक्ष्य साञ्जलिबन्धम् —
श्रीवल्लभदासेभ्यः श्रीरङ्गक्षेत्रनित्यवासेभ्यः62
त्रुटितभवत्रासेभ्यो नमोऽस्तु कृतशिष्यधीविकासेभ्यः ॥ ४३७ ॥
कृ॰ - सखे! सर्वानेतत्पुरवास्तव्यान्मा स्म भवान्नमस्कार्षीत् ॥१८३॥ निबिरीसगुणस्तोमैर्हरिदासैरलंकृते ॥
अट्टशूलाः कतिपये पट्टनेऽस्मिन्प्रतिष्ठिताः ॥ ४३८ ॥

नगेति । अङ्गीकृताः स्वीकृताः शाखाः शिफाः ऋग्वेदादिशाखाश्च येन सः तथाभूतोऽपि अत एव उन्नतः उच्चोऽपि सुष्ठु पर्णानि पलाशानि पक्षाश्च यस्य सः गरुडः नगस्य वृक्षस्य मेरुपर्वतस्य च रूपं साम्यम् उपैति प्राप्नोतीति तु युक्तं योग्यमेव । परंतु एषः विनतानां नम्राणां विनताभिधायाः स्वमातुश्च एकः अद्वितीयः विधेयः वचनग्राही आज्ञाधारक इत्यर्थः । " विधेयो वचनग्राही " इत्यमरः । मधोर्वसन्तस्य मधुनामक दैत्यस्य च विपक्षात् शत्रोः विष्णोश्च स्थिरमनश्वरं आमोदं सुगन्धं आनन्दं च अगात् प्राप्तवानिति यत्, एतदेव चित्रमाश्चर्यम् । श्लेषमूलको विरोधाभासोऽलंकारः ॥ ४३६ ॥

श्रीति । श्रीवल्लभस्य भगवतो विष्णोः दासेभ्यो भक्तेभ्यः श्रीरङ्गक्षेत्रे नित्यं वस्तुं शीलं येषां तथाभूतेभ्यः अत एव त्रुटितः भवस्य संसारस्य त्रासो येषां तेभ्यः कृतः शिष्याणां धियो बुद्धेः विकासः विविधशास्त्राध्यापनेन प्रकाशो यैस्तेभ्यश्च नमः अस्तु ॥ ४३७ ॥

सख इति । सर्वान् एतत्पुरस्थान् रङ्गक्षेत्रनिवासिनो जनान् भवान् मा स्म नमस्कार्षीत् मा नमस्करोतु ॥ १८३& ॥

निबिरीसेति । निबिरीसाः अतिसान्द्राः अत्र सान्द्रार्थे “नेर्बिडज्विरीसचौ” इति सूत्रेण तद्धितो बिरीसच् प्रत्ययः । ये गुणाः सौशील्यादयः तेषां स्तोमः समूहो येषां तैः अतिगुणवद्भिरित्यर्थः । हरिदासैर्भगवद्भक्तैः अलंकृते विराजितेऽप्यस्मिन् पट्टने श्रीरङ्गक्षेत्रे कतिपये जनाः अट्टशूलाः अन्नविक्रयिणः " अट्टमन्नं शिवो वेदः शूलो विक्रय उच्यते । " इति कोशः । प्रतिष्ठिताः स्थिताः सन्तीति शेषः ॥४३८॥

विश्वास-प्रस्तुतिः

निरूप्य सविस्मयम्—
शक्राद्यर्थं हविरघहरं शौरिणाऽsस्वादितं यत्
दत्तं वित्तग्रहणचपलाः केऽपि विक्रीणते तत् ॥
धाम श्रीमद्यदि मधुजिता ध्रीयते63 स्वीयमेते
नो त्रस्यन्ते64 धनकणतृषा तच्च विक्रेतुमज्ञाः65 ॥ ४३९ ॥
वि॰ - मन्दमते मैवं भाणीः ॥ १८४& ॥
किं किं न जीर्यति मुकुन्द पदारविन्द-
द्वन्द्वाभिवन्दनकृतामिह देहभाजाम् ॥
अत्यद्भुतौषधविशेषनिषेवकाणा-
मापादयेत ? किमनर्थमपथ्यसेवा ॥ ४४० ॥

‘अट्टशूला’ इत्युक्तमेव सविस्तरमुपपादयति — शक्राद्यर्थमिति । यत् हविः शौरिणा विष्णुना आस्वादितं भक्षितं, तस्मै समर्पितमिति यावत् । अत एव तदघहरं पापनिवारकं हविः शक्र इन्द्रः आदिर्मुख्यो येषां अग्निवरुणादीनां तदर्थं दत्तं समर्पितं च तत् हविः केऽपि नीचाः वित्तग्रहणचपलाः द्रव्यसंपादन लोलुपाः सन्तः विक्रीणते । नैतावदेव किंतु मधुजिता विष्णुना यद्यपि श्रीमत् संपत्तियुक्तं लक्ष्मीयुक्तं वा स्वीयं धाम वैकुण्ठस्थानं दीयते समर्प्यते, तथापि एते अज्ञा मूर्खाः धनकणे अल्पीयस्यपि द्रव्ये इत्यर्थः । तृषा वाञ्छा तया तच्च विष्णुपदमपि, विक्रेतुं नो त्रस्यन्ते नैव बिभ्यति । तस्मान्नैतेभ्यो द्रव्यार्जनैकपरेभ्यः अन्ये नीचा इति भावः ॥ ४३९ ॥

किं किमिति । इह रङ्गक्षेत्रे मुकुन्दस्य भगवतो विष्णोः पादारविन्दयोश्चरण- कमलयोर्द्वन्द्वस्य अभिवन्दनं अभिवादनं कुर्वन्तीति तथाभूतास्तेषां देहभाजां प्राणिनां किं किं पापाचरणं न जीर्यति न नश्यति ? अपि तु सर्वमेव जीर्यत्येवेत्यर्थः । एतदे- वार्थान्तरन्यासेनाह— अत्यद्भुतेति । अत्यद्भुतः सत्वररोगनिवारकत्वादत्याश्चर्यावहः य औषधविशेषः तस्य निषेवकाणां पानं कुर्वतां रोगिणां अपथ्यसेवा अपथ्यभक्षणम् अनर्थ रोगवृद्धिकरणरूपं आपादयेत संपादयेत किम् ? अपि तु नैव संपादयेदित्यर्थः । पथ्यसेवनं हि क्षुद्रौषधस्वीकारे, न दिव्यौषधस्वीकारे इति भावः । तथैव दृढभगवदासक्तिसत्वे एतादृशक्षुद्रपापाचरणं नैव दोषायेति ज्ञेयम् ॥ ४४० ॥

समन्तात् पुरीं निरीक्ष्य सश्लाघम्
रङ्गादन्यदनङ्गारेः कंसारेर्वा स्थलेष्वहो ॥
किं दृष्टं ? किमपि क्षेत्रं सप्तप्राकारवेष्टितम् ॥ ४४१ ॥

  1. नग ↩︎ ↩︎

  2. परिभूष्यमाणा ↩︎ ↩︎

  3. तर्का अहो, तर्कच्छटा ↩︎ ↩︎

  4. बुधा ↩︎ ↩︎

  5. क्षामक्षेमाः, क्षामाक्षेमा ↩︎ ↩︎

  6. दृष्टीः ↩︎ ↩︎

  7. धाम ↩︎ ↩︎

  8. किमस्मिन् महाभुजङ्गे ↩︎ ↩︎

  9. निःशङ्कः ↩︎ ↩︎

  10. दोषावहाः ↩︎ ↩︎

  11. पिलोक्यते ↩︎ ↩︎

  12. सुहृदा ↩︎ ↩︎

  13. विचिन्त्य ↩︎ ↩︎

  14. विहस्य सखे ↩︎ ↩︎

  15. द्रोहिणाम् ↩︎ ↩︎

  16. परमेशम् ↩︎ ↩︎

  17. अलं ↩︎ ↩︎

  18. हन्ता ↩︎ ↩︎

  19. श्रित ↩︎ ↩︎

  20. रङ्गचन्द्र भवदीयसंमुखे ↩︎ ↩︎

  21. वक्तृ ↩︎ ↩︎

  22. नुतिम् ↩︎ ↩︎

  23. सप्रश्रयम् ↩︎ ↩︎

  24. नौमि ↩︎ ↩︎

  25. धाम्नोऽस्य ↩︎ ↩︎

  26. गुटिका ↩︎ ↩︎

  27. शालिका ↩︎ ↩︎

  28. मति ↩︎ ↩︎

  29. मणिमयं ↩︎ ↩︎

  30. दृष्टवान् ↩︎ ↩︎

  31. प्रागात्त ↩︎ ↩︎

  32. च क्षितेरधिपति ↩︎ ↩︎

  33. भृत्यवत् ↩︎ ↩︎

  34. निम्नो भवत्युन्नतः ↩︎ ↩︎

  35. कृत्यं ↩︎ ↩︎

  36. कथा ↩︎ ↩︎

  37. परार्ति ↩︎ ↩︎

  38. भवसरिन्नावेद ↩︎ ↩︎

  39. नमुचिद्विशा ↩︎ ↩︎

  40. लक्ष्मीकृपाफलम् ↩︎ ↩︎

  41. पञ्चा ↩︎ ↩︎

  42. दिनैराकल्प ↩︎ ↩︎

  43. विन्दत ↩︎ ↩︎

  44. तदज्ञानोपज्ञमवज्ञातुमेवार्हम् ↩︎ ↩︎

  45. संप्रदत्ते दूरापास्ततमोमयविकाराःवाराशिदुहितुरुदाराः कटाक्षाः साधुसुधाधाराः ↩︎ ↩︎

  46. निरयीकार ↩︎ ↩︎

  47. दक्षो, दक्षा ↩︎ ↩︎

  48. हृतैः ↩︎ ↩︎

  49. देवीमुद्दिश्य. इ०अ० ↩︎ ↩︎

  50. दविग्रह ↩︎ ↩︎

  51. पूर्णम् ↩︎ ↩︎

  52. प्रक्षिपति ↩︎ ↩︎

  53. निगरणे ↩︎ ↩︎

  54. विजृम्भितं ↩︎ ↩︎

  55. दूषयति भवान् ↩︎ ↩︎

  56. गिरन् ↩︎ ↩︎

  57. जात ↩︎ ↩︎

  58. रुल्ललद्भिः ↩︎ ↩︎

  59. याचताम् ↩︎ ↩︎

  60. सच्छायकायः भिन्दन् ↩︎ ↩︎

  61. मधान्म ↩︎ ↩︎

  62. नियतवासिभ्यः ↩︎ ↩︎

  63. दीयते ↩︎ ↩︎

  64. त्रप्स्यन्ते ↩︎ ↩︎

  65. विक्रीणतेऽज्ञाः ↩︎ ↩︎