विश्वास-प्रस्तुतिः
अथ कावेरीवर्णनम्॥
इत्यन्यत्राभिक्रामन् मन्दानिलस्पर्शसुखमभिनीय सानन्दम्- कल्हारोत्पलतल्लजोल्ललनवत्कल्लोलनिर्लोलन-1
क्रीडापाटवगाढरूढहिमतासौरभ्यविभ्राजितः ॥
कावेरीसलिलावगाहरसिकः कस्यैष नेड्यो मरुत्
क्लान्तानां पुनरध्वनीनवपुषां यन्निर्धुनीते श्रमम् ॥ ३८९ ॥
कावेरीझरीं2 निरीक्ष्य3 सशिरःकम्पम् -
हन्त रङ्गपुरसङ्गतमत्राहं तरङ्गचलपङ्कजसङ्घम् ॥
सह्यजायतझरं बहु मन्ये स ह्यजायत तमः शमनार्थम् ॥ ३९०॥
मूलम्

बाल-कृष्णः
अथ कावेरीं वर्णयितुमुपक्रमते - इतीत्यादि । अभिक्रामन् अभिगच्छन् “वा- भ्राश- भ्लाश - " इत्यादिना श्यनभावपक्षे शप् । । " क्रमः परस्मैपदेषु ” इति दीर्घः । अभिनीय प्रकटीकृत्य -्
कल्हारेति । कल्हाराणि सुगन्धीनि यानि उत्पलानि कमलानि तानि कल्हारोत्पलानि प्रशस्तानि च कल्हारोत्पलानि कल्हारोत्पलतल्लजाः “ प्रशंसावचनैश्च " इति समासः । " मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमूनि इत्यमरः । तेषाम् उल्ललनम् उन्नयनं विद्यते यस्मिन् तथाभूतं यत् कल्लोलेषु महातरङ्गेषु निर्लोलनम् ऊर्ध्वाधोभ्रमणं तद्रूपा या क्रीडा तस्यां यत्पाटवं कुशलत्वं तेन गाढम् अतिमात्रं रूढाभ्यां हिमता शीतलता च सौरभ्यं सौगन्ध्यं च ताभ्यां विभ्राजितः विराजितः, एतादृशः कावेर्याः नद्याः सलिले जले योऽवगाहः स्नानं तस्मिन् रसिकः अनुरक्तः एषः मरुद् वायुः, " मरुतौ पवनामरौ ” इत्यमरः । कस्य पुरुषस्य ईड्यः स्तुत्यः न भवति ? यद् यस्मात् कारणात् क्लान्तानाम् अतिमार्गक्रमणश्रान्तानाम् अध्वनीनानां पथिकानां, अध्वन्शब्दात् " अध्वनो यत्खौ ” इति अलङ्गच्छतीत्यस्मिन्नर्थे खः “ आत्माध्वानौ खे,’ इति टिलोपो न । “अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि । ” इत्यमरः । वपूंषि शरीराणि तेषां श्रमं क्लमं निर्धुनीते निवारयति । अतः स मरुत् सर्वस्यापि स्तुत्य इति भावः ॥ ३८९ ॥
पुनरपि तामेव कावेरीझरीं वर्णयति - हन्तेति । हन्तेति हर्षे । अत्र पुरोवर्तिभागे रङ्गपुरेण श्रीरङ्गनाथक्षेत्रेण सङ्गतं मिलितं तरङ्गैर्लहरीभिः चलाश्चञ्चलाः पङ्कजानां कमलानां सङ्घाः समुदाया यस्मिंस्तम् एतादृशं सह्यजायाः सह्याद्रेरुत्पन्नायाः कावेर्याः आयतं दीर्घं झरं प्रवाहं, अहं बहु अतिशयेन मन्ये मानयामि । हि यस्मात् सः कावेरीप्रवाहः तमसः अज्ञानस्य पापस्य वा शमनार्थे विनाशार्थम् अजायत प्रकटीबभूव ॥ ३९० ॥
विश्वास-प्रस्तुतिः
एषा खलु4 दोषाकुलसकलमनुजकुलसकलकलुषशोषण5बद्धकङ्कणा6 । निजतटनिबिडतमब7 कुलधवलकुलतिलकामलकाविरलसरलकुन्दचन्दनमन्दार–सहकारकेरलकेसर8सरलबदरकदम्बकदम्बकगम्भीरजम्बीरजम्बूसम्पूर्णपर्ण-9
कुसुमपलाशसमृद्धकपित्थलोध्रनीरन्ध्रशिलीन्ध्रपाटलपटलजटिलक्रमुक-
प्रमुखविशङ्कटविटपिमञ्जरीपुञ्जसञ्जरीजृम्भदुरुतरश्रमशमकरमकरन्दरस-
सुग्रसनतात्पर्यपर्यटददभ्रविभ्रमालम्बरोलम्बनिकुरम्बक10रम्भिततया11 कलिन्द-नन्दिनीप्रतिच्छन्दतामनुविन्दन्ती । निशाकलितविशालसुरतदशाभव–श्रमशालि12क्षितीशालिनिशान्तकृशाङ्गीजनमज्जनवेलादोलायित-13
पृथुलहारप्रत्युप्तमुक्ताफलरुचिनिचयपरिचयरचितया शुचितया पीताम्बरपदाम्बुरुहसम्भवसरिदम्बुडम्बरं14 विडम्बयन्ती । सन्ततमन्तर्गतचिरन्तनपुरुषतल्पीभवदनन्तफणीमणिघृणिश्रेणीशोणीभूततया15 सरस्वतीमनुकुर्वन्ती । पार्श्वद्वय्यामपि नैयमिककर्मानुष्ठानश्रद्धाबद्धासनशुद्धावनीसुरारब्धानवद्यब्रह्मयज्ञ—समय16समधिगतमन्त्रब्राह्मणाम्रेडनपूर्वकमजस्रं17 सहस्रपत्रमध्यमध्यासीनानां18 श्रीरङ्गराजनाभिसरोजविराजमाननिखिलनिगमपठनमुखरचतुर्मुखवैखरीं व्याचक्षमाणानां19 मदकलमरालयूनां वरटापरिरम्म्भचुम्बनमुखानङ्गसङ्गरप्रक्षोभसमु20त्सृत्वरैरभिरामतामरस21 परागैरभिनवचन्दनरसमसृणशरीरेव22 । सलीलमाकण्ठनिमग्नमूर्तीनां सुगात्रीणां वदनैरदसीये पयसि विहायसाध्यासेन23 समागतश्चन्द्रमाः सन्निहितश्रीरङ्गधामा स्वसमाननामा विधुर्विरचिता- नेकावतार इतीर्ष्यया स्वयमपि बहूनि रूपाणि विदधानो विराजत इति भ्रान्त्यां24 सत्यामनुरागमान्द्यसम्पादिकायामितरेतरदृढाश्लेषविशेषोन्मिषत्तोषाभिः कोकदम्पतीपरम्पराभिर्निराकृतायामकुण्ठोत्कण्ठेन युवलोकेन निर्निमेषमवलोक्यमाँनैरलङ्कृता25 सरस्वत्याभिमुख्येन26 कवेरात्मजेति प्रसिद्धिं सार्थयन्ती । शान्तनवास्पदतया गाङ्गेयतरङ्गिणीति सञ्ज्ञामन्वर्थयन्ती । सम्मज्जनदुरितहराऽपि27 नमज्जनदुरितहरा निराकृतपथिकश्रान्तिः स्रवन्तीयं28 कन्दलयति चक्षुषोरमन्दमानन्दम् ॥ १६६& ॥

एषेति । एषा कावेरी नदी खलु दोषैः पापैराकुलानि व्याप्तानि यानि सकलमनुजकुलानि निखिलमनुष्यवृन्दानि तेषां सकलकलुषाणां सकलपातकानां शोषणे नाशने बद्धं कङ्कणं यया सा तदर्थं कृतनिश्चयेति यावत् । निजतटे स्वकीयतीरे निबिडतमाः अतिसान्द्राः ये बकुला बकुलवृक्षाश्च धवलकुलानि अर्जुनवृक्षसमूहाश्च तिलकाः क्षुरकाश्च " तिलकः क्षुरकः श्रीमान् " इत्यमरः । आमलकाश्च अविरला निबिडाः सरलाः पीतद्रुसञ्ज्ञकवृक्षाश्च " पीतद्रुः सरलः पूतिकाष्ठं " इत्यमरः । कुन्दाश्च चन्दनाश्च मन्दाराः पारिजातकाश्च " मन्दारः पारिजातकः " इत्यमरः । सहकारा आम्रवृक्षाश्च केरलाश्च वृक्षविशेषाः केसराश्च सरलाश्च क्वचित् सरस इति पाठः । तत्पक्षे बदरविशेषणम् । बदराश्च कदम्बा नीपाश्च " तूलं च नीप- प्रियक-कदम्बास्तु हलिप्रिये । " इत्यमरः । तेषां वृक्षविशेषाणां कदम्बकं समूहः तथा गम्भीरा ये जम्बीराश्च जम्ब्वः जम्बूवृक्षाश्च, जम्बूशब्दः स्त्रीलिङ्गः । “बार्हतं च फले जम्ब्वा जम्बू स्त्री जम्बु जाम्बवम् । " इत्यमरात् । सम्पूर्णानि समग्राणि निबिडानीति यावत् । पर्णानि कुसुमानि पुष्पाणि च येषु तादृशाः पलाशाः किंशुकाः “ पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे । " इत्यमरः । समृद्धाः ये कपित्थाः लोध्राश्च तैः नीरन्ध्राः सान्द्राः शिलीन्ध्राः पाटलाश्च तेषां पटलानि समूहाः " समूहे पटलं न ना " इत्यमरः । तैश्च जटिला निबिडाः अन्योन्यसम्मिश्रा इत्यर्थः । ये क्रमुकाः पूगवृक्षाश्च “घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु । ” इत्यमरः । ते सर्वे प्रमुखा मुख्याः येषु ते ये विशङ्कटाः विशालाः “ विशङ्कटं पृथु बृहद्विशालं पृथुलं महत्” इत्यमरः । विटपिनो वृक्षाः तेषां मञ्जरीपुञ्जेभ्यः मञ्जरीसमूहेभ्यः सञ्जरीजृम्भन् अत्यन्तं प्रवहन्, जृम्भतेर्यङ्लुकि द्वित्वे च " रीगृदुपधस्य च " इत्यभ्यासस्य रीगागमः । उरुतरः अतिबहुलः श्रमशमकरः ग्लानिनिवारकः मकरन्दरसः पुष्परससारं तस्य सुग्रसने सुष्ठु पाने तात्पर्यम् अत्यन्तासक्तत्वं तेन पर्यटन्तः परितो भ्रमन्तः अदभ्राणां बहूनां विभ्रमाणामालम्बा आश्रयभूताः रोलम्बा भ्रमरास्तेषां निकुरम्बैः समूहैः “समुदायः समुदयः समवायश्चयो गणः । स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् । समूहे" इत्यमरः । करम्भिततया व्याप्ततया कलिन्दनन्दिनी यमुना तस्याः प्रतिच्छन्दतां तुल्यताम् अनुविन्दन्ती प्राप्नुवती । तथा निशायां रात्रौ आकलितम् आचरितं यद् विशालं सुरतं बहुव्यवायः तस्य दशायामवस्थायां भवो जातो यः श्रमः तेन शाली युक्तः क्षितीशालीनां राजसमूहानां निशान्तकृशाङ्गीजनः अन्तःपुरस्त्रीसमूहः तस्य मज्जनवेलायां स्नानवेलायां दोलायिताः दोलावदाचरिताः ये पृथुला महान्तो हाराः तेषु प्रत्युप्तानि खचितानि यानि मुक्ताफलानि मौक्तिकानि तेषां रुचिनिचयस्य कान्तिसमूहस्य परिचयेन रचितया निर्मितया शुचितया शुभ्रत्वेन पीताम्बरस्य विष्णोः पदाम्बुरुहाच् चरणकमलात् सम्भव उत्पत्तिर्यस्याः सा तादृशी या सरिद् गङ्गानदी तस्याः अम्बुडम्बरम् उदकाडम्बरं विडम्बयन्ती अनुकुर्वती । तथा सन्ततं निरन्तरमन्तर्गतः अन्तः स्थितो यश्चिरन्तनपुरुषः श्रीरङ्गनायकाख्यो भगवान् तस्य तल्पीभवन् शयनरूपीभवन् योऽनन्तः शेषः तस्य फणामणीनां घृणिश्रेणीभिः किरणपङ्क्तिभिः " किरणोऽस्र मयूखांशुर्गभस्ति घृणिरश्मयः” । इत्यमरः । शोणीभूततया रक्तीभूतत्वेन सरस्वतीं नाम नदीमनुकुर्वन्ती, तथा पार्श्वद्वय्यां तीरद्वयेऽपीत्यर्थः । द्वय्यामि- त्यत्रायचः स्थानिवद्भावेन तयप्प्रत्ययान्तत्वात् “ टिड्ढाणम् - " इत्यादिना ङीप् । नैयमिकानि नियमसम्बन्धीनि यानि कर्माणि तेषामनुष्ठाने या श्रद्धा आस्तिक्यबुद्धिः तया बद्धानि रचितान्यासनानि यैस्ते अत एव शुद्धाः पवित्रा ये अवनीसुरा ब्राह्मणा स्तैरारब्धो यो ब्रह्मयज्ञः तत्समये समधिगतानि प्राप्तानि मन्त्रब्राह्मणानि वेदमन्त्रा इत्यर्थः । तेषाम् आम्रेडनपूर्वकं द्विस्त्रिरुच्चारणपूर्वकं " आम्रेडितं द्विस्त्रिरुक्तम्" इत्यमरः । अजस्रं निरन्तरं सहस्रपत्रमध्यं कमलमध्यमध्यासीनानां श्रीरङ्गराजस्य भगवतः नाभिसरोजे नाभिकमले विराजमानस्य शोभयानस्य निखिलनिगमानां चतुर्णामपि वेदानां पठनेन मुखरा शब्दायमाना या चतुर्मुखवैखरी ब्रह्मवाणी तां व्याचक्षमाणानां स्पष्टीकुर्वतां मदकलानां मदोत्कटानां “ मदोत्कटो मदकलः " इत्यमरः । मरालयूनां तरुणहंसानां वरटाभिः हंसयोषिद्भिः सह “हंसस्य योषिद्वरटा" इत्यमरः । परिरम्भः आलिङ्गनं चुम्बनं च मुखं मुख्यं यस्मिंस्तादृशं यदनङ्गसङ्गरं मदनयुद्धं सुरताचरणमित्यर्थः । तस्य प्रक्षोभेन समुत्सृत्वरैः निःसृतैः समुत्पूर्वकात्सर्तेः इण्-नश्- जि-सर्तिभ्यः -" इति क्रप् प्रत्ययः, पित्त्वात्तुगागमः । अभिरामतामरसपरागैः मनोहरकमलरजोभिः अभिनवचन्दनरसेन मसृणमुपलिप्तं शरीरं यस्याः सेव, तथा सलीलं यथा तथा आकण्ठं कण्ठपर्यन्तं निमग्नाः जलाच्छादिताः मूर्तयो देहा यासां तासां सुगात्रीणां सुन्दरशरीराणां स्त्रीणां वदनैः मुखैः, हेतौ तृतीया । अदसीये अस्याः कावेर्याः सम्बन्धिनि पयसि जले विहायसाध्यासेन आकाशभ्रान्त्या समागतश्चन्द्रमाः सन्निहितं समीपं श्रीरङ्गस्य भगवतः धाम स्थानं यस्य सः तथाभूतः सन्, आत्मना समानं तुल्यं नाम विधुरिति यस्य सः, विधुः विष्णुः “ विधुर्विष्णौ चन्द्रमसि " इत्यमरः । विरचिताः धृताः अनेके बहव अवतारा येन तथोक्तः इति एवंरूपया ईर्ष्यया अक्षमया स्वयं चन्द्रमा अपि बहूनि रूपाणि विदधानः धारयन् सन् विराजति शोभते । इत्येवंरूपायाम् अनुरागस्य प्रेम्णः मान्द्यसम्पादिकायां मन्दत्वोत्पादिकायां भ्रान्त्यां सत्यां, ततः इतरेतरदृढाश्लेषे परस्परदृढालिङ्गने विशेषेणातिशयेन उन्मिषन् उत्पद्यमानः तोषः सन्तोषो यासां ताभिः कोकदम्पतीपरम्पराभिः चक्रवाकमिथुनपङ्क्तिभिः निराकृतायां, ’ यद्येते सर्वे चन्द्राः स्युस्तर्हि नास्माकं परस्परालिङ्गनं सम्भवति, परं चेदानीमेतत्सम्भवति, तस्मान्नेमे चन्द्राः, किन्तु स्त्रीणां मुखान्येव’ इति निवारितायां सत्यां, अकुण्ठा अप्रतिहता उत्कण्ठा यस्य तेन युवलोकेन तरुणजनेन निर्निमेषं नेत्रमीलनरहितं यथा स्यात्तथा अवलोक्यमानैः स्त्रीमुखैरिति शेषः । अलङ्कृता, सरस्वत्याः वेदशास्त्रवाण्याः सरस्वति समुद्रे च आभिमुख्येन साम्मुख्येन पण्डितबाहुल्यात् प्रयत्नमन्तरा सम्पादनेन, समुद्रे च प्रेमातिशयेन चेत्यर्थः । कवेः पण्डितस्य आत्मजा कवेरस्य सह्याद्रेः आत्मजा कन्येति च प्रसिद्धिं ख्यातिं सार्थयन्ती यथार्थीकुर्वन्ती । शन्तनोरपत्यं शान्तनवो भीष्मः तस्य, शान्तानां शमयुक्तानां नवाः स्तुतयश्च तासां च आस्पदतया स्थानतया योग्यतया च गाङ्गेयतरङ्गिणी भीष्मजननी गङ्गेत्यर्थः । पक्षे गाङ्गेयं सुवर्णं तन्मयी तरङ्गिणीति च " स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम् । तपनीयं शातकौम्भं गाङ्गेयं भर्म कर्बुरम् । ” इत्यमरः । सञ्ज्ञां नाम अन्वर्थयन्ती अर्थयुक्तां कुर्वन्ती । सम्मज्जनेन स्नानमात्रेण दुरितहरापि पापहरापि, मज्जनदुरितहरा न भवति इति विरोधः, नमतां नमस्कुर्वतां जनानां दुरितहरा इत्यर्थेन च तत्परिहारः । निराकृता निवारिता पथिकानां पान्थानां श्रान्तिः श्रमो यया सा इयं कावेरी नाम स्रवन्ती नदी चक्षुषोर्नेत्रयोः अमन्दं बहुलम् आनन्दं कन्दलयति उत्पादयति ॥१६६&॥
विश्वास-प्रस्तुतिः
प्रहसति भवशोषकरी भवेन परितोषिता सुवर्णनदी ॥
दुर्वर्णरुचिरफेनैः29 सह्यसुता जाह्नवीमसह्यसुताम् ॥ ३९१ ॥
पुनः सश्लाघम् -
स्वर्णवन्तं विदुः कान्तं रामां हेमापगामिमाम् ॥
दाम्पत्यमनयोरेतदनुरूपं विशोभते ॥ ३९२ ॥

पूर्वस्मिन् गद्ये गङ्गासाम्यं प्रतिपादितं कावेर्याः, अधुना गङ्गाया अप्याधिक्यं प्रतिपादयति उत्प्रेक्षया - प्रहसतीति । भवस्य संसारस्य शोषकरी नाशकरी भवेन शिवेन संसारेण च परितोषिता, सह्यस्य सह्याद्रेः सुता कन्या तत्रोत्पन्नेत्यर्थः । सुवर्णा शोभनवर्णयुक्ता, सुवर्णा कनकमयी च नदी कावेरी, दुर्वर्णैः कृष्ण ताम्रादिरागैः, दुर्वर्णमिव रजतमिव च “दुर्वर्णं रजतं रूप्यम्” इत्यमरः । रुचिराः मिश्रिताः सुन्दराश्व फेना तैः असह्यस्य निन्द्यत्वात् सोढुमशक्यस्य " अकारो वासुदेवः स्यात्” इति कोशाद् अस्य विष्णोः सह्यां मनोहरत्वात् सहनीयां लालनीयामिति यावत् । सुतां कन्यां जाह्नवीं गङ्गां प्रहसति उपहसत्येवेति गम्योत्प्रेक्षेयम् । श्लेषमूलिका गम्योत्प्रेक्षेयम् ॥ ३९१ ॥
पुनरपि सश्लाघमाह – स्वर्णवन्तमिति । इमं कान्तं पतिं स्वर्णं कनकमस्यास्तीति तद्वन्तं तं प्रसिद्धम् अर्णवं समुद्रं च विदुः जानन्ति । इमां कावेरीं हेमापगां रामां कान्तां च विदुः जानन्ति । अत एव एतद् अनयोर्जायापत्योः रूपं योग्यं विशोभते विशेषेण राजते ॥ ३९२ ॥
विश्वास-प्रस्तुतिः
कृ॰ – साक्षेपम् -
परिशोभिताम्रपार्श्वा मध्यमहितरङ्गराजतः30 स्फुरिता ॥
कथमिव दधाति कीर्ति कावेरी कनकनिम्नगेत्येषा ॥ ३९३ ॥
विश्वावसुः– आपातदूषणमिदं निरूप्यमाणमस्या31 गुण एव स्यात्पश्य तावदेतस्या32 रामणीयकम् ॥ १६७ ॥
पीताम्बरालङ्कृतमध्यभागा कल्हारमालाकमनीयवेणी ॥
सह्याद्रिकन्या जनकस्य गेहात् पत्युः समीपं व्रजति प्रसन्ना ॥ ३९४ ॥ पुनर्निर्वर्ण्य33 —
उद्गच्छन्दच्छतमगुच्छलसच्छिरस्का-34
स्तीरद्वयेऽपि तरवः प्रतिभान्त्यमुष्याः ॥
एनां तरीतुमिह यत्नजुषः स्वशीर्ष -
बद्धावदातवसनाः पथिका इवामी ॥ ३९५ ॥

अत्राक्षिपति कृशानुः - परिशोभीति । परितः आसमन्तात् शोभिनौ ताम्रमयौ पार्श्वौ यस्याः सा, परितः आसमन्तात् शोभिताः फलपुष्पसम्पन्नत्वेन विराजिताः आम्राः आम्रवृक्षाः ययोस्तथाभूतौ च पार्श्वं यस्याः सा इति च मध्ये मध्य- भागे महिताभ्यां महद्भ्यां रङ्गं त्रपु " त्रपु पिच्चटम् । रङ्गवङ्गे अथ पिचुः " इत्यमरः । राजतं रजतसमूहश्च ताभ्यामिति ततः स्फुरिता, मध्ये महितेन पूज्येन रङ्गराजतः श्रीरङ्गराजेन च, सार्वविभक्तिकस्तसिः । स्फुरिता शोभिता एतादृशी एषा कावेरी नदी कनकनिम्नगा सुवर्णनदी इति कीर्तिं कथमिव दधाति धारयति ? व्यथैवेयं कीर्तिरस्या इति भावः ॥ ३९३ ॥
समाधत्ते - आपातेति । इदं पूर्वोक्तं निरूप्यमाणं त्वया दीयमानम् आपातदूषणम् अतात्त्विकं श्लेषमूलकमितियावत्, यद्दूषणमित्यर्थः । तदस्याः कावेर्याः गुण एव स्यात् । तावत्तस्मात् तत्त्वतः एतस्या रामणीयकं रमणीयत्वं पश्य ॥ १६७& ॥
तदेवाह - पीताम्बरेति । इयं सह्याद्रिकन्या कावेरी पीतं च तद् अम्बरं वस्त्रं तेन, पीत कौशेयवस्त्रेणेत्यर्थः । पीताम्बरेण विष्णुना च " पीताम्बरोऽच्युतः शार्ङ्ग " इत्यमरः । अस्मिन् पक्षे च बहुव्रीहिः समासः । अलङ्कृतः मध्यभागो मध्यप्रदेशो नितम्बप्रदेशश्च यस्याः सा, कहाराणां रक्तकमलानां मालया पङ्ङ्ख्या च कमनीया - सुन्दरा वेणी केशपाशः प्रवाहश्च यस्याः सा तथाभूता “वेणी सेतु - प्रवाहयोः । देव- ताडे केशबन्धे " इति हैमः । प्रसन्ना प्रसन्नान्तःकरणा स्वच्छजला च सती, जनकस्य पितुः, सह्याद्रेश्च गेहाद् गृहान्, प्रदेशाच्च पत्युः भर्तुः, समुद्रस्य च समीपं व्रजति गच्छति ॥ ३९४ ॥
किञ्च उद्गच्छदिति । अमुष्याः कावेर्यास्तीरद्वयेऽपि, स्थिता इति शेषः । उद्गच्छन्तः उत्पद्यमानाः अच्छतमाः अतिस्वच्छाः ये गुच्छाः पुष्पपुञ्जाः तैः लसन्ति शोभमानानि शिरांसि शाखाग्राणि येषां ते लसच्छिरस्काः तरवो वृक्षाः भान्ति शोभन्ते । कथम्भूताः । इह अस्यास्तीरे एनां नदीं तरीतुं पारं गन्तुं ‘तू प्लवन -तरणयोः ’ इति धातोः “ तुमुन्ण्वुलौ - " इत्यादिना तुमुनि इटि च तस्य " वृतो वा” इति दीर्घः । यत्नजुषः प्रयत्नं कुर्वाणाः सन्तः अमी वृक्षाः स्वशीर्षे निजमस्तके बद्धानि जलस्पर्शभयेन वेष्टितानि अवदातानि शुभ्राणि वसनानि परिधानवस्त्राणि यैस्तथाभूताः पथिकाः पान्था इव, प्रतिभान्तीति सम्बन्धः । उत्प्रेक्षालङ्कारः ॥ ३९५ ॥-