३२ श्रीमुष्णक्षेत्रयज्ञवराहवर्णनम्

विश्वास-प्रस्तुतिः

अथ श्रीमुष्णक्षेत्रयज्ञवराहवर्णनम्॥

इतरत्र विमानं प्रस्पन्दयन् सानन्दम्-
अद्य प्रत्नं पक्त्रिमं सच्चरित्रम्1
देवः प्रीतः सुप्रभाता निशा मे ॥
श्रीमुष्णं यन्मुष्णदंहः सहस्रं2
क्षेत्रं प्राप्तं नेत्रयोः पात्रभावम्3 ॥ ३८२॥
अत्र हि-
वरा वराहरूपिणी चराचरान्तरस्थिता
सुरासुरानुसेविता धराधरादिदेवता4
सदा सदावलिस्तुता मुदामुदारशेवधि-
र्हिता हि तार्क्ष्यकेतना नती न तापतां नयेत् ॥ ३८३ ॥

मूलम्

अथ श्रीमुष्णक्षेत्रयज्ञवराहवर्णनम्॥

इतरत्र विमानं प्रस्पन्दयन् सानन्दम्-
अद्य प्रत्नं पक्त्रिमं सच्चरित्रम्1
देवः प्रीतः सुप्रभाता निशा मे ॥
श्रीमुष्णं यन्मुष्णदंहः सहस्रं2
क्षेत्रं प्राप्तं नेत्रयोः पात्रभावम्3 ॥ ३८२॥
अत्र हि-
वरा वराहरूपिणी चराचरान्तरस्थिता
सुरासुरानुसेविता धराधरादिदेवता4
सदा सदावलिस्तुता मुदामुदारशेवधि-
र्हिता हि तार्क्ष्यकेतना नती न तापतां नयेत् ॥ ३८३ ॥

बाल-कृष्णः

अथ श्रीमुष्णक्षेत्रस्थयज्ञवराहवर्णनं प्रतिजानीते । इदं च रामानुजीयानां प्रसिद्ध- स्थानानामेकतमं प्रियं च दक्षिणतः ’ अर्काडु’ इति तद्भाषाप्रसिद्धे प्रान्ते वर्तते इति पुस्तकान्तरादुपलभ्यते ।

अद्येति । अद्य मे मम एतदग्रेऽपि योज्यम् । प्रत्नं पुरातनं प्राग्जन्मकृतमिति यावत् । सच्चरित्रं सत्कर्माचरणं पक्त्रिमं फलाभिमुखं जातम् । देवो भगवान् प्रीतः तुष्टः, तथा निशा रात्रिः सुप्रभाता शोभनफलप्रदप्रातःकाला जातेति शेषः । यद्यस्मात् कारणाद् अंहसां पापानां सहस्रं मुष्णन् नाशयितृ । “मुष स्तेये’ इति क्र्यादेर्धातोः शत्रन्तस्य रूपमिदम् । श्रीमुष्णं नाम क्षेत्रं मे मम नेत्रयोः पात्रभावं दृष्टिगोचरत्वमित्यर्थः । प्राप्तम् । तस्मादिति सम्बन्धः ॥ ३८२ ॥

पूर्वत्र ‘मुष्णदंहः सहस्रं ’ इत्युक्तमेव सहेतुकमुपपादयति- वरेति । वरा श्रेष्ठा चराचरयोः स्थिर- चञ्चलयोः अन्तरे चित्ते स्थिता, अन्तर्यामिरूपेण देवा असुरा दैत्याश्च तैरनुसेविता, धरां पृथ्वीं धरति उद्धारयतीति धराधरा, रसातलगतायाः पृथ्व्या दंष्ट्राग्रेणोद्धारयित्रीत्यर्थः । अत एव सदा सततं सतां साधूनाम् आवल्या पङ्क्त्या स्तुता प्रशंसिता, मुदां निरतिशयात्मानन्दानाम् उदारो महान् शेवधिः समुद्रः तद्रूपेत्यर्थः । हिता निखिलजगद्धिकर्त्री, तार्क्ष्यकेतना गरुडध्वजा एतादृशी आदिदेवता वराहरूपिणी सूकररूपधारिणी, नता नमस्कृता सती, तापतां संसार सम्बन्धितापत्रयरूपं न नयेन् न प्रापयेत् । हिरवधारणार्थकः ॥ ३८३ ॥

विश्वास-प्रस्तुतिः

श्रीमत्कवीन्द्रश्चात्र कश्चिदित्थमनुसन्धत्ते ॥ १६४& ॥
सदावदातनिम्नगातटीकुटीरवासिनी
कटिस्फुटीभवत्करा5 किटीश्वरी पटीयसी ॥
रसारसादिहोदिता रसालसालसंवृते
वनेऽवनेषु दीक्षिता मदीक्षिताधिदेवता6 ॥ ३८४ ॥

मूलम्

श्रीमत्कवीन्द्रश्चात्र कश्चिदित्थमनुसन्धत्ते ॥ १६४& ॥
सदावदातनिम्नगातटीकुटीरवासिनी
कटिस्फुटीभवत्करा5 किटीश्वरी पटीयसी ॥
रसारसादिहोदिता रसालसालसंवृते
वनेऽवनेषु दीक्षिता मदीक्षिताधिदेवता6 ॥ ३८४ ॥

बाल-कृष्णः

अत्रार्थे अन्यकवेरपि सम्मतिं द्योतयन्नाह - श्रीमदित्यादि । अनयोक्त्याऽग्रिमपद्यं न प्रस्तुतकवेरिति प्रतिभाति ॥ १६४& ॥

सदेति । रसायां भूमौ “ भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा । ” इत्यमरः । रसात् प्रीतेर्हेतोः " रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे । चोले रागे गृहे धातौ तिक्तादौ पारदेऽपि च । " इति हैमः । इह रसाला आम्रवृक्षाश्च सालाः सर्जवृक्षाश्च तैः (’ आम्रवतो रसालोऽसौ “साले तु सर्ज-कार्याश्वकर्णकाः सस्यसंवरः । ” इत्युभयत्राप्यमरः । संवृते वेष्टिते वनेऽरण्य उदिता उत्पन्ना सदा अवदाता गौरवर्णा शुद्धा वा " अवदातः सितो गौरः” इत्यमरः । या निम्नगा नदी पिनाकिनी तस्यास्तटी तीरं " कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु ” इत्यमरात् तटशब्दस्य त्रिलिङ्गत्वम् । तस्यां यत् कुटीरम् अल्पगृहं गुहारूपमित्यर्थः । “कुटी - शमी- शुण्डाभ्यो रः " इति सूत्रेणाल्पार्थे रप्रत्ययः । " वासः कुटी द्वयोः शाला सभासञ्जवनं त्विदम् ।" इत्यमरः । तस्मिन् वासिनी निवासिनी कट्यां स्फुटीभवन् प्रत्यक्षतया दृश्यमानः करो हस्तो यस्याः सा किटीनां वराहाणाम् ईश्वरी स्वामिनी आदिवराहरूपिणीत्यर्थः । " वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः । ” इत्यमरः । पटीयसी अघटित घटनाचतुरा, पटुशब्दात् “ द्विवचनविभज्य – ” इत्यादिना ईय- सुनि टिलोपः । अत एव अवनेषु पालनेषु दीक्षिता गृहीतव्रता एतादृशी आदिदेवता मदीक्षिता मया अवलोकिता ॥ ३८४ ॥

विश्वास-प्रस्तुतिः

क्र० - सोऽयं7 हेयप्रत्यनीकोऽपि शार्ङ्गी कष्टं पृथ्वीकाङ्क्षयाभूद्वराहः ॥
इत्थं सिद्धे ब्रूहि भूलाभलोभात्कं कं वेषं मानुषो नेह8 धत्ते ॥ ३८५ ॥
वि॰- -अनभिज्ञो भवान् भगवदवताररहस्यस्य ॥ १६५& ॥
शृणु-
पाठीनीयं कामठं कैटभारिः कैटं रूपं यातु काण्ठीरवं वा ॥
अन्यद्वा यत्सर्वमप्राकृतं तन्नासौ तेष्वप्युज्झति स्वस्वभावम् ॥३८६॥
किं च-
कोलं भुवि कोऽलं जगदालम्बमवैतुं
स्वामी शुभकामी किल भूमीमसुरार्ताम्9
वाराशिगभीराम्भसि काराम्भवनेऽभि-
ग्रस्तामिह10 मुस्तामिव यस्तामुदहार्षीत् ॥ ३८७ ॥
सभक्तिप्रकर्षं यज्ञवराहमभिध्यायन् तमामन्त्र्य-
द्राधिष्ठं कुहनावराह ! भगवन्दंष्ट्रात्मकं ते11 दृढ
स्तम्भं सम्प्रति चिन्तयामि जलधिस्नेहौघसम्पूरिता12
यस्मिन्विन्दति दीपभाजन विधामामोदिनी मेदिनी
चित्रस्तत्र च रत्नसानुरयते निष्कम्पदीपाकृतिम् ॥ ३८८ ॥

मूलम्

क्र० - सोऽयं7 हेयप्रत्यनीकोऽपि शार्ङ्गी कष्टं पृथ्वीकाङ्क्षयाभूद्वराहः ॥
इत्थं सिद्धे ब्रूहि भूलाभलोभात्कं कं वेषं मानुषो नेह8 धत्ते ॥ ३८५ ॥
वि॰- -अनभिज्ञो भवान् भगवदवताररहस्यस्य ॥ १६५& ॥
शृणु-
पाठीनीयं कामठं कैटभारिः कैटं रूपं यातु काण्ठीरवं वा ॥
अन्यद्वा यत्सर्वमप्राकृतं तन्नासौ तेष्वप्युज्झति स्वस्वभावम् ॥३८६॥
किं च-
कोलं भुवि कोऽलं जगदालम्बमवैतुं
स्वामी शुभकामी किल भूमीमसुरार्ताम्9
वाराशिगभीराम्भसि काराम्भवनेऽभि-
ग्रस्तामिह10 मुस्तामिव यस्तामुदहार्षीत् ॥ ३८७ ॥
सभक्तिप्रकर्षं यज्ञवराहमभिध्यायन् तमामन्त्र्य-
द्राधिष्ठं कुहनावराह ! भगवन्दंष्ट्रात्मकं ते11 दृढ
स्तम्भं सम्प्रति चिन्तयामि जलधिस्नेहौघसम्पूरिता12
यस्मिन्विन्दति दीपभाजन विधामामोदिनी मेदिनी
चित्रस्तत्र च रत्नसानुरयते निष्कम्पदीपाकृतिम् ॥ ३८८ ॥

बाल-कृष्णः

सोऽयमिति । सः अयं त्वया वर्णितः शार्ङ्गी श्रीविष्णुः, हेयानां राग-द्वेषादिप्राकृतदोषाणां प्रत्यनीको विरुद्धः तद्रहितोऽपीत्यर्थः । पृथ्व्याः काङ्क्षया वाञ्छया वराहः सूकरः अभूत्, इति कष्टम् अन्याय्यम् । यतः इत्थं भगवतोपि पृथ्वीलाभहेतुना पशुरूपस्वीकारे सिद्धे सति, इह लोके भूलाभलोभात् पृथ्वीप्राप्तिकाङ्क्षायाः हेतोः, मानुषो मनुष्यः कं कं नीचतरं वेषं न धत्ते स्वीकरोति । को वा आढ्योपि सन् सेवकत्वयाचकत्वासत्याचरणानृतभाषणादि न करिष्यतीत्यर्थः । अपि तु भगवदुदाहरणात् सर्वमपि करिष्यत्येवेत्यर्थः । एतत् सत्यमसत्यं वेति ब्रूहि ॥ ३८५ ॥

अनभिज्ञ इति । भवान् भगवत ईश्वरस्यावताराणां रहसि भवं रहस्यं तस्य, गौप्यस्येत्यर्थः । " रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु । ” इत्यमरः । अनभिज्ञः अभिजानातीत्यभिज्ञः तथा न भवतीत्यनभिज्ञः, तन्न जानातीत्यर्थः ॥ १६५ ॥

अनभिज्ञत्वमेवाह - पाठीनीयमित्यादिना । कैटभारिः कैटभनामकासुरशत्रुः श्रीविष्णुः, पाठीनस्य सहस्रदंष्ट्राभिधमत्स्यविशेषस्येदं पाठीनीयं ‘तस्येदम्’ इत्यर्थे छः तस्य च इयादेशः । “ सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ” इत्यमरः । कमठस्य कूर्मस्येदं कामठं पूर्वोक्तेऽर्थे एवाण् । “कूर्मे कमठ-कच्छपौ" इत्यमरः । वाथवा किटेर्वराहस्येदं कैटं, कण्ठीरवस्य सिंहस्येदं काण्ठीरवं वा रूपं यातु प्राप्नोतु, अन्यद् अश्वादिरूपं वा यातु । तथापि यद्यद्भगवान् रूपं धत्ते, तत्सर्वम् अप्राकृतं प्रकृतिसम्बन्धरहितं यद्यस्माद् असौ भगवान् तेषु रूपेषु स्वीकृतेष्वपि स्वस्य स्वभावं सामर्थ्य न उज्झति न त्यजति । यथा - मत्स्यरूपेण वेदोद्धारणं, कूर्मरूपेण मन्दराच - लधारणं, वराहेण धरण्युद्धारणमित्याद्यूह्यम् । नैतत् प्राकृतेन रूपेण कर्तुं शक्यमिति भावः ॥ ३८६ ॥

पुनरपि तमेव वराहं वर्णयति - कोलमिति । जगतः आलम्बम् आश्रयं कोलं वराहं “ कोलः पोत्री किरिः किटिः । " इत्यमरः । भुवि अवैतुं ज्ञातुं, अवपूर्वकात् “इण् गतौ ’ इत्यदादिकात् तुमुन् । “ एत्येधत्यूट्सु " इति वृद्धिः । कः पुरुषः अलं समर्थः ? । कोपि नैवेत्यर्थः । यतः यः शुभानि भक्तकल्याणानि कामयते वाञ्छति तच्छीलः स्वामी सकलजगदधिपतिः वराहः, असुरेण हिरण्याक्षनामक दैत्येन आर्ता पीडितां भूमिं पृथ्वीं, वाराशेः समुद्रस्य गभीरे निम्ने अम्भसि उदके तद्रूपे इत्यर्थः । काराभवने बन्धनालये " कारा स्याद्बन्धनालये " इत्यमरः । स्थितां तां पृथ्वीम् अभिग्रस्तां भक्षितां मुस्तामिव वराहभक्ष्य दूर्वासदृशद्रव्यविशेषमिव ‘नागर- मोथा ’ इति महाराष्ट्रभाषाप्रसिद्धमिवेत्यर्थः । इह लोके उदहार्षीत् समुद्दधार । तं कोलमिति सम्बन्धः । अस्य वृत्तस्य वृत्तरत्नाकरादौ लक्षणं नोपलभ्यते । चित्रवृत्तेष्वस्यान्तर्भावः ( ? ) ॥ ३८७ ॥

एवं संवर्ण्य भक्त्या तमेव चिन्तयति - द्राघिष्ठमिति । कुहनया दम्भेन कपटेनेति यावत् " कुहना दम्भचर्यायामीर्ष्याला कुहनस्त्रिषु । ” इति मेदिनी । वराहः सूकररूपधरः तत्सम्बोधने हे कुहनावराह, हे भगवन्, ते दंष्ट्रात्मकं दंष्ट्रारूपं द्राघिष्ठम् अतिदीर्घ दृढस्तम्भम् अशिथिलस्तम्भं सम्प्रति इदानीं चिन्तयामि स्मरामि । यस्मिन् स्तम्भे जलधिः समुद्र एव स्नेहौघः तैलपूरः तेन सम्पूरिता, अत एव आमोदिनी आनन्दवती मेदिनी पृथ्वी दीपभाजनस्य दीपपात्रस्य विधां प्रकारं विन्दति प्राप्नोति । किञ्च तत्र पात्रे चित्रः चित्रवर्णः रत्नसानुः सुमेरुः " मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः । " इत्यमरः । निष्कम्पः चलनरहितः अकृत्रिमत्वाज्जडत्वाच्च वातादिभयाभावादित्यर्थः । स चासौ दीपश्च तस्य आकृतिम् आकारम् अयते प्राप्नोति । तं स्तम्भमिति सम्बन्धः ॥ ३८८ ॥


  1. नश्चरित्रं ↩︎ ↩︎

  2. समस्तं ↩︎ ↩︎

  3. प्राप्तभावम् ↩︎ ↩︎

  4. धराधराधिदेवता ↩︎ ↩︎

  5. कटीतटीस्फुटीभवत्करा किटी पटीयसी ↩︎ ↩︎

  6. तादिदेवता ↩︎ ↩︎

  7. योऽयं ↩︎ ↩︎

  8. नैव ↩︎ ↩︎

  9. असुरात्ताम् ↩︎ ↩︎

  10. न्यस्तामिव यस्तामिव मुस्तामुद ↩︎ ↩︎

  11. तद्धृढम्, ते दृढम् ↩︎ ↩︎

  12. सम्पूरितम् ↩︎ ↩︎