विश्वास-प्रस्तुतिः
अथ पिनाकिनीगरुडनदी श्रीदेवनायकवर्णनम्॥
इत्यन्यत्र विमानं सञ्चारयन् परितो दृष्ट्वा -
पिनाकिनीं पश्य घनाघनाशिनीं जलाच्च लघ्वीं गरुडापगामपि ॥-
इदन्तटे राजति देवनायकः परोऽत्र1 सर्गादिव2 देवनायकः ॥ ३८१ ॥
मूलम्
अथ पिनाकिनीगरुडनदी श्रीदेवनायकवर्णनम्॥
इत्यन्यत्र विमानं सञ्चारयन् परितो दृष्ट्वा -
पिनाकिनीं पश्य घनाघनाशिनीं जलाच्च लघ्वीं गरुडापगामपि ॥-
इदन्तटे राजति देवनायकः परोऽत्र1 सर्गादिव2 देवनायकः ॥ ३८१ ॥
बाल-कृष्णः
इदानीं पिनाकिनी- गरुडनद्योरधिपतिं देवनायकाभिधं भगवन्तं वर्णयति - पिनाकिनीमिति । घनानि बहूनि च यानि अघानि पापानि तेषां नाशिनीं जलाद् लध्वीम् अल्पां, स्वल्पजलामिति यावत् । पिनाकिनीम् एतन्नामिकां नदीं पश्य अवलोकय । तथा गरुडापगां नाम नदीमपि पश्य । किं वा एतयोरेतावन्माहात्म्यं यद्द्रष्टव्यम् इत्याकाङ्क्षायामाह — इदन्तट इतिम् । एतयोः पिनाकिनी - गरुडनद्योस्तटे तीरे, सर्गात् प्राकृतप्रपञ्चात् परत्र इव परत एव तस्मादलिप्त इत्यर्थः । अत्र इवेति निश्चये । तत्त्वत एव प्रपञ्चात् परत्र वर्तमाने भगवति उत्प्रेक्षादेरसम्भवात् । देवनायकः एतन्नामा कः परमात्मा विष्णुः " को ब्रह्मणि समीरात्म-यम- दक्षेषु भास्करे । मयूरेऽग्नौ च पुंसि " इति मेदिनी । देवनाय क्रीडार्थं राजति शोभते । भगवन्निवासाद्दर्शनीयमिदं स्थलमिति भावः ॥ ३८१ ॥