२९ तुण्डीरमण्डलवर्णनम्

विश्वास-प्रस्तुतिः

अथ तुण्डीरमण्डलवर्णनम्॥

अथ सर्वतस्तुण्डीरमण्डलमवलोकयन् सहर्षातिरेकम् -

वयस्य स्फुटमस्य तुण्डीरमण्डलस्य1 पश्यतु भवान् पावनत्वं रमणीयत्वं च ॥ १५५& ॥

तीरे तीरे स्फुरति सरितामग्रहारोऽत्र भूया -

नग्र्यो वर्गो धरणिमरुतामग्रहारेऽग्रहारे ॥

वर्गे वर्गे धरणिमरुतां वर्धते साधु यज्ञो

यज्ञे यज्ञे श्रवणसुभगः स्तोत्रशास्त्रानुघोषः2 ॥ ३६० ॥

किञ्च-

तुण्डीरमण्डलनिवासिषु दुग्धसिन्धु-

डिण्डीरखण्डनिभकीर्तिषु पण्डितेषु ॥

आप्यायमानमखिलैरविगीतमेत-3

द्रोचेत धूतदुरितं चरितं न कस्मै ॥ ३६१ ॥

मूलम्

अथ तुण्डीरमण्डलवर्णनम्॥

अथ सर्वतस्तुण्डीरमण्डलमवलोकयन् सहर्षातिरेकम् -

वयस्य स्फुटमस्य तुण्डीरमण्डलस्य1 पश्यतु भवान् पावनत्वं रमणीयत्वं च ॥ १५५& ॥

तीरे तीरे स्फुरति सरितामग्रहारोऽत्र भूया -

नग्र्यो वर्गो धरणिमरुतामग्रहारेऽग्रहारे ॥

वर्गे वर्गे धरणिमरुतां वर्धते साधु यज्ञो

यज्ञे यज्ञे श्रवणसुभगः स्तोत्रशास्त्रानुघोषः2 ॥ ३६० ॥

किञ्च-

तुण्डीरमण्डलनिवासिषु दुग्धसिन्धु-

डिण्डीरखण्डनिभकीर्तिषु पण्डितेषु ॥

आप्यायमानमखिलैरविगीतमेत-3

द्रोचेत धूतदुरितं चरितं न कस्मै ॥ ३६१ ॥

बाल-कृष्णः

अथेति । तुण्डीरमण्डलमिति देशविशेषनाम, भाषायां ’ तोण्डमनाडु ’ इति टीकान्तरे दृश्यते-

वयस्येति । हे वयस्य, अस्य पुरोवर्तिनः तुण्डीरमण्डलस्य रमणीयत्वं सौन्दर्य पावनत्वं पवित्रत्वं च स्फुटं स्पष्टं यथा तथा पश्यतु भवान् ॥ १५५& ॥

तीरे तीर इति । सरितां बाहानद्यादीनाम् अत्रास्मिन् तीरे तीरे प्रतितीरं भूयान् बहुशः अग्रहारः स्फुरति प्रकाशते । अग्रहारेऽग्रहारे प्रत्यग्रहारं च अग्र्यः पूज्यः धरणिमरुतां ब्राह्मणानां वर्गः वृन्दं स्फुरति । वर्गे वर्गे च यज्ञः ज्योतिष्टोमादिः साधु यथा तथा वर्धते । यज्ञे यज्ञे च सर्वत्र वीप्सायां द्विर्भावः । श्रवणयोः कर्णयोः सुभगः मनोज्ञः स्तोत्र-शस्त्राणां मन्त्रविशेषाणाम् अनुघोषः पाठशब्दश्च वर्धते ॥ ३६० ॥

तुण्डीरेति । तुण्डीरमण्डले निवसन्ति ते निवासिनस्तेषु दुग्धसिन्धोः क्षीरसमुद्रस्य डिण्डीरखण्डैः फेनखण्डैः निभा तुल्या, तद्वन्निर्मलेति यावत् । कीर्तिर्येषां तेषु पण्डितेषु आप्यायमानं व्याप्नुवानं तैः क्रियमाणमिति यावत् । अखिलैः वेद-शास्त्र- पुराणादिग्रन्थैः अविगीतम् अनिन्दितम् अत एव धूतदुरितं प्रक्षालितदोषं, एतच्चरितं सत्कर्म कस्मै न रोचेत ? सर्वस्मा अपि रोचेतैवेत्यर्थः । " रुच्यर्थानाम् - " इत्यादिना चतुर्थी ॥ ३६१ ॥

विश्वास-प्रस्तुतिः

कृशानुः - हन्त एतस्मिन् अन्तिमयुगेऽपि अध्वरकर्माचरताममीषां चरितानि कथमिव रोचेरन् कोविदेभ्यः ? ॥ १५६& ॥
न ऋत्विक्सम्पत्तिर्न च कुशलता यष्टुरनघा
न च द्रव्यं शुद्धं न च हृदयशुद्धिः कलियुगे ॥
प्रसिद्धिं काङ्क्षन्तः परिमितधनं4 हन्त कृपणा
वृथा पश्वालम्भं विदधति तथापि क्षितिसुराः ॥ ३६२ ॥
किञ्च-
शौचं नाचरितुं यथाविधि कलौ शक्ता द्विजाः किञ्च ते
ये’ खल्वाचमनाप्लवादिनियमास्तान्5 स्मर्तुमप्यक्षमाः ॥
क्वामीषां पुनरग्निहोत्रनियमः क्वेष्टेरनुष्ठानधीः6

क्वाग्निष्टोममुखा मखाः सपशुकाः क्वत्याग्निचित्या7 तु सा ॥ ३६३॥

मूलम्

कृशानुः - हन्त एतस्मिन् अन्तिमयुगेऽपि अध्वरकर्माचरताममीषां चरितानि कथमिव रोचेरन् कोविदेभ्यः ? ॥ १५६& ॥
न ऋत्विक्सम्पत्तिर्न च कुशलता यष्टुरनघा
न च द्रव्यं शुद्धं न च हृदयशुद्धिः कलियुगे ॥
प्रसिद्धिं काङ्क्षन्तः परिमितधनं4 हन्त कृपणा
वृथा पश्वालम्भं विदधति तथापि क्षितिसुराः ॥ ३६२ ॥
किञ्च-
शौचं नाचरितुं यथाविधि कलौ शक्ता द्विजाः किञ्च ते
ये’ खल्वाचमनाप्लवादिनियमास्तान्5 स्मर्तुमप्यक्षमाः ॥
क्वामीषां पुनरग्निहोत्रनियमः क्वेष्टेरनुष्ठानधीः6

क्वाग्निष्टोममुखा मखाः सपशुकाः क्वत्याग्निचित्या7 तु सा ॥ ३६३॥

बाल-कृष्णः

हन्तेति । अस्मिन् अन्तिमयुगे चरमयुगे कलियुगे इत्यर्थः । " अन्तो जघन्यं चरममन्त्य-पाश्चात्य-पश्चिमम् ।" इत्यमरः । अध्वरकर्म यज्ञकर्म आरभतां कुर्वाणानाम् अमीषां लोकानां चरितानि कोविदेभ्यः बुधेभ्यः कथमिव रोचेरन् ? कलौ यज्ञकर्मणां निषेधादिति भावः ॥ १५६& ॥

कलौ यज्ञकरणानर्हत्वमेवाह - नेति । कलियुगे ऋत्विजां मन्त्र- तद्विनियोगादि- ज्ञानिनां सम्पत्तिः सुलभत्वं न, तथा यष्ट्रर्यजमानस्य " यष्टा च यजमानश्च " इत्यमरः । अनघा निर्मला, एतत्पूर्वत्राप्यनुसन्धेयम् । कुशलता निपुणता न च नास्त्येव, तथा धनं द्रव्यं शुद्धम् अगर्हितोपायलब्धं न च किञ्च हृदयस्यान्तःकरणस्य शुद्धिः काम-क्रोधादिराहित्यं च न, तथापि कृपणाः द्रव्यव्ययकातराः क्षितिसुरा ब्राह्मणाः, प्रसिद्धिं ’ अयं यज्ञकर्ता, अयं दीक्षितः, अयं सोमयाजी’ इत्यादिरूपां प्रख्यातिं काङ्क्षन्तः वाञ्छन्तः सन्तः परिमितम् अल्पं धनं यस्मिन् अल्पद्रव्यव्ययसाध्यमित्यर्थः । वृथा सम्यग्ऋत्विगादिसम्पत्त्यभावाद्यर्थमेव पशोः यज्ञीयमेषादेः आलम्भं वधं विदधति कुर्वन्त्येव ॥ ३६२ ॥

अपि च शौचमिति । किञ्च कलौ युगे ये द्विजाः शौचं मृज्जलादिना शरीरशुद्धिं यथाविधि शास्त्रविधिमनतिक्रम्य आचरितुं न शक्ताः न समर्थाः, ते द्विजाः आचमनम् आप्लवः स्नानं च तौ आदी येषां ते ये नियमाः स्वाध्यायादयः खलु प्रसिद्धाः सन्ति, तान् नियमान् स्मर्तुमपि किमुताचरितुं, अक्षमाः असमर्थाः । एतादृशाममीषां ब्राह्मणानां पुनः अग्निहोत्रनियमः क्व ? इष्टेः दर्शपूर्णमासादियागरूपायाः अनुष्ठानधीः नं क्व ? तथा पशुभिः सहिताः सपशुकाः पशुवधयुक्ता इति भावः । अग्निष्टोमः मुखम् आदिर्येषां ते मखाः यज्ञाः क्व ? तथैव सा प्रसिद्धा अग्नेश्चयनमग्निचित्या अग्निसञ्चयनादिक्रिया “ चित्याग्निचित्ये च" इति निपातनाच् चिनोतेः क्यप् तुगागमश्च । क्वत्या कुतः प्राप्ता भवति ? अपि तु एतत्पूर्वोक्तं सर्वमपि दुर्लभमेतेषामिति भावः ॥ ३६३ ॥

विश्वास-प्रस्तुतिः

विश्वावसुः — स्थूलमनीष8 मृषा किमिति भाषसे ? ॥ १५७& ॥

यतः-

शिष्टेभ्यः प्रतिगृह्य9 वित्तमुचितं सम्पाद्य विद्याः कलौ

श्रद्धालून् श्रुतिकल्पसूत्रचतुरान् लब्ध्वा शुचीनृत्विजः ॥

प्रीतिं भागवतीं प्रकाममभिसन्धायाहरन्तः क्रतून्

धीमन्तो युगमन्तिमं तु कृतयन्त्यन्तर्मुखाः सन्ततम् ॥ ३६४ ॥

किञ्च—

अयज्ञार्हद्रव्या वयमिति तु यज्ञाद्विरमतां

न कल्पेत स्वान्नैर्ननु भगवदाराधनमपि ॥

प्रयत्नेन द्रव्यं शुचि किमपि लब्ध्वा भगवतः

कृतं चेत्कैङ्कर्यं किमिति न तदेवाध्वरमयम्10 ॥ ३६५ ॥

मूलम्

विश्वावसुः — स्थूलमनीष8 मृषा किमिति भाषसे ? ॥ १५७& ॥

यतः-

शिष्टेभ्यः प्रतिगृह्य9 वित्तमुचितं सम्पाद्य विद्याः कलौ

श्रद्धालून् श्रुतिकल्पसूत्रचतुरान् लब्ध्वा शुचीनृत्विजः ॥

प्रीतिं भागवतीं प्रकाममभिसन्धायाहरन्तः क्रतून्

धीमन्तो युगमन्तिमं तु कृतयन्त्यन्तर्मुखाः सन्ततम् ॥ ३६४ ॥

किञ्च—

अयज्ञार्हद्रव्या वयमिति तु यज्ञाद्विरमतां

न कल्पेत स्वान्नैर्ननु भगवदाराधनमपि ॥

प्रयत्नेन द्रव्यं शुचि किमपि लब्ध्वा भगवतः

कृतं चेत्कैङ्कर्यं किमिति न तदेवाध्वरमयम्10 ॥ ३६५ ॥

बाल-कृष्णः

स्थूलेति । हे स्थूलमनीष मन्दमते, किमिति पूर्वोक्तरूपं मृषा मिथ्या भाषसे ? ॥ १५७& ॥

मिथ्यात्वमेवाह — शिष्टेभ्य इति । धीमन्तः ईश्वरतोषककर्मबुद्धियुक्ताः अत एव सन्ततं निरन्तरम् अन्तः हृदयस्थपुण्डरीके मुखं मुखमिव चित्तं येषां ते तथाभूताः शिष्टेभ्यः जनेभ्यः उचितं यज्ञाद्यनुष्ठानपर्याप्तं वित्तं द्रव्यं प्रतिगृह्य स्वीकृत्य, कलौ अपि विद्याः वेदशास्त्रादीः सम्पाद्य, श्रुतयः वेदाः कल्पसूत्राणि आश्वलायनापस्तम्बीयादीनि च तेषु चतुरान् निपुणान् श्रुत्यादीनां यथार्थज्ञानयुक्तानित्यर्थः । किञ्च श्रद्धालून् वेद-शास्त्रोक्तकर्मसु विश्वासयुक्तान्, अत एव शुचीन् पवित्रान् ऋत्विजः लब्ध्वा, भागवतीं परमेश्वरसम्बन्धिनीं प्रीतिं सन्तोषम् अभिसन्धाय निश्चित्य, न तु स्वार्थे पारलौकिकसुखम् अभिसन्धाय, प्रकामं यथेच्छं क्रतून् आहरन्तः कुर्वन्तः सन्तः, अन्तिमं चरमं युगं कलियुगं कृतयन्ति कृतयुगमिव सम्पादयन्ति ॥ ३६४ ॥

एतावता कलौ यज्ञकरणस्य युक्तत्वं प्रतिपादितम्, इदानीम् अल्पधनत्वादिनोक्तं दूष- णमुद्धारयन्नाह - अयज्ञार्हेति । वयं यज्ञस्यार्हं विहितव्यापारागतं कर्मपर्याप्तं च द्रव्यं येषां ते तथा न भवन्तीत्ययज्ञार्हद्रव्याः इति हेतोस्तु यज्ञाद् यज्ञानुष्ठानाद् विरमतां यज्ञानुष्ठानमकुर्वतामित्यर्थः । " जुगुप्सा-विराम प्रमादार्थानाम्-" इत्यादिवार्तिकेनापादानसञ्ज्ञा । ‘विरमताम्’ इत्यत्र च व्याङपरिभ्यो रमः " इतिसूत्रेण विपूर्वकस्य रमतेः परस्मैपदविधानात् शतृप्रत्ययः । ननु तर्हि स्वैः आत्मीयैः अन्नैः भगवतः आराधनं नैवेद्यार्पणरूपमपि न कल्पेत न क्रियेत । तस्याप्यल्पत्वाद् भगवदाराधनानर्हत्वादिति भावः । प्रयत्नेन अनिन्द्यप्रयासेन शुचियाजनाध्यापनादिव्यापारलब्धत्वात् पवित्रं किमपि यत्किञ्चित्स्वल्पमपि द्रव्यं लब्ध्वा सम्पाद्य तेनेति शेषः । भगवतः ईश्वरस्य कैङ्कर्यं पूजननैवेद्यार्पणादिरूपं कृतं चेत् तदेव अध्वरमयं यज्ञप्रचुरं यज्ञरूपमित्यर्थः । किमिति न भवति ? अपि तु भवत्येवेति । एवं च यदि कलौ यज्ञकरणमयुक्तं स्यात्, तर्हि भगवत्पूजनादिकमपि त्वन्मते त्याज्यमेव स्यात् । उभयोरपि यज्ञत्वाविशेषाद्द्रव्यानर्हत्वस्य चापि समत्वादिति भावः ॥ ३६५ ॥.

विश्वास-प्रस्तुतिः

अपि च-

हिंसाकृत्प्रत्यवेयादिति कथयति यो वेद एवैष यागे

पश्चालम्भं विधत्ते यदि क इह मखे वैदिकः संशयीत ? ।

हिंसात्वाभावमेवाध्वरपशुनिहतेराह रामानुजार्य-

स्तत्पक्षस्थोऽपि यो न प्रसजति यजने कस्तदन्यो गुरुद्विट् ॥ ३६६ ॥

इदं चावधेयम्-

हिंसान्तरेष्विव मखाश्रितहिंसनेऽपि

जैनेतरो यदि जनो भजते जुगुप्साम् ॥

नार्यन्तरेष्विव न निन्दति नन्दनानां

निष्पादनं किमनघेऽपि निजे कलत्रे ॥ ३६७ ॥

मूलम्

अपि च-

हिंसाकृत्प्रत्यवेयादिति कथयति यो वेद एवैष यागे

पश्चालम्भं विधत्ते यदि क इह मखे वैदिकः संशयीत ? ।

हिंसात्वाभावमेवाध्वरपशुनिहतेराह रामानुजार्य-

स्तत्पक्षस्थोऽपि यो न प्रसजति यजने कस्तदन्यो गुरुद्विट् ॥ ३६६ ॥

इदं चावधेयम्-

हिंसान्तरेष्विव मखाश्रितहिंसनेऽपि

जैनेतरो यदि जनो भजते जुगुप्साम् ॥

नार्यन्तरेष्विव न निन्दति नन्दनानां

निष्पादनं किमनघेऽपि निजे कलत्रे ॥ ३६७ ॥

बाल-कृष्णः

किञ्च हिंसाकृदिति । ’ हिंसाकृत् प्राणिप्राणवियोगानुकूलव्यापारकर्ता जनः प्रत्यवेयाद् दोषीभवेत्’ इति यः वेदः " न हिंस्यात् सर्वभूतानि ” इत्यादिरूपः कथयति, एष एव वेदः यागे यज्ञे पशोः आलम्भं वधं “ आग्नीषोमीयं पशुमालभेत " इत्यादिनेति भावः । विधत्ते कथयति यदि, तर्हि इह मखे यज्ञविषये कः वेदमधीते वेद वा वैदिकः वेदवेत्ता पुरुष इत्यर्थः । संशयीत सन्देही स्यात् ? अपि तु न कोऽपि संशयीतेति । उभयत्र प्रामाण्ये संशयाभावादिति भावः । अपि च रामानुजार्यो रामानुजाचार्यस्तु, अध्वरे यागे या पशोर्निंहतिर्वधः तस्याः हिंसात्वस्य अभावमेवाह । तथा च मनुरपि - " यज्ञार्थ पशवः सृष्टाः स्वयमेव स्वयम्भुवा । यज्ञस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ।" इत्याह । तस्मात् तस्य रामानुजार्यस्य पक्षे मते तिष्ठतीति तन्मतस्थः, तन्मताभिमानीत्यर्थः । सोऽपि, अपिशब्दोऽस्य विधेः सार्वत्रिकत्वबोध नार्थः । सन् यो जनः यजने यज्ञकर्मणि न प्रसजति नोद्युक्तो भवति, ’ षञ्ज सङ्गे इत्यस्मात् प्रपूर्वकाद्धातोर्लट् । " दंश - सञ्ज - स्वञ्जाम्-" इति नलोपः । तस्मात्पुरुषादन्यः कः पुरुषः गुरुं द्वेष्टीति तथोक्तः गुरोद्वेष्टेत्यर्थः । भवति ? अपि तु स एव तथाविध इत्यर्थः ॥ ३६६ ॥

किञ्च हिंसान्तरेष्विति। यदि जैनान् महावीर जिनस्थापितमतानुयायिनः श्रावकादेः इतरः भिन्नः जनः हिंसान्तरेष्विव यज्ञकर्म बहिर्भूत केवल स्वशरीरपोषणार्थं श्रुति-स्मृति विहितत्वादवश्यप्राप्तं तच्च तद्धिंसनं वधश्च तस्मिन्नपि जुगुप्सां निन्दां भजते चेत्, यज्ञीयपशुहिंसनमपि निन्द्यं मन्यते चेदित्यर्थः । तर्हि नार्यन्तरेष्विव परस्त्रीष्विव नन्दनानां पुत्राणां निष्पादनमु- त्पादनं, अनघे पातिव्रत्यादिस्त्रीधर्मसम्पन्नत्वान्निर्दोषे निजे स्वकीये कलत्रे भार्यायामपि, पुत्रोत्पादनं किं कस्माद्धेतोर्न निन्दति ? ऋतुकाले स्वस्त्रीसङ्गस्य यज्ञकर्मणि पशुवधस्य चापि शास्त्रेणैव विहितत्वादुभयमपि तुल्यमिति भावः ॥ ३६७ ॥

विश्वास-प्रस्तुतिः

इदमप्यवगन्तव्यम्–
ऋत्विग्विशुद्धिविरहादतिशङ्कया11 चेत्12 केचित्कलौ जहति नित्यमपि क्रतुं ते ॥
मुञ्चन्ति गुर्वशुचिताविशयेन किं न चक्राङ्कवैष्णवमनुग्रहणादि सर्वम् ॥ ३६८ ॥
किञ्च-
सर्वैर्वेदैः स्मृतिगुणयुतैः सेतिहासैः पुराणैः
शिष्टाचारैरपि नियमितानध्वरान्मध्वरातेः ॥
आज्ञासिद्धानहह जहतस्तद्विरुद्धानि कृत्या -
न्यातन्वन्तः कतिचिदपरानप्यमी13 शिक्षयन्ति ॥ ३६९ ॥

मूलम्

इदमप्यवगन्तव्यम्–
ऋत्विग्विशुद्धिविरहादतिशङ्कया11 चेत्12 केचित्कलौ जहति नित्यमपि क्रतुं ते ॥
मुञ्चन्ति गुर्वशुचिताविशयेन किं न चक्राङ्कवैष्णवमनुग्रहणादि सर्वम् ॥ ३६८ ॥
किञ्च-
सर्वैर्वेदैः स्मृतिगुणयुतैः सेतिहासैः पुराणैः
शिष्टाचारैरपि नियमितानध्वरान्मध्वरातेः ॥
आज्ञासिद्धानहह जहतस्तद्विरुद्धानि कृत्या -
न्यातन्वन्तः कतिचिदपरानप्यमी13 शिक्षयन्ति ॥ ३६९ ॥

बाल-कृष्णः

अपि च ऋत्विगिति । ऋत्विजां विशेषेण या शुद्धिः यथार्थानुष्ठानरूपा तस्याः विरहादभावाद्धेतोः अत एव अविशङ्कया ’ सम्यक्तया अनुष्ठानं भवेद्वा न भवेत् " इति संशयेन केचिज्जनाः कलौ युगे नित्यमपि क्रतुं पञ्चमहायज्ञान्तर्भूतं वैश्वदेवादियज्ञमपि, दर्श- पूर्णमासादिरूपं वा जहति त्यजन्ति चेत्, तर्हि ते जनाः गुरोः आचार्यस्य अशुचितायाः अपवित्रतायाः विशयेन संशयेन चक्राङ्कः चक्रचिह्नं चक्र-शङ्खादि- मुद्राधारणमिति यावत् । वैष्णवमनुः दीक्षाग्रहणकाले उपदेष्टव्यो नारायणाष्टाक्षरमन्त्रः तस्य ग्रहणं च ते आदी यस्य तत् सर्वे पञ्चसंस्कारादिरूपं किं कुतः कारणान् न मुञ्चन्ति । पञ्चसंस्कारास्तु प्रागुक्ताः । एवं च यथा चक्राङ्कादिधारणं त्यक्तुं न युक्तं, तथैव वेदविहितयज्ञाद्यनुष्ठानमपि त्यक्तुं न युक्तमिति भावः ॥ ३६८ ॥

श्रुति-स्मृति-पुराणविहितयज्ञकर्माननुष्ठानमनुचितमिति सखेदमाह - सर्वैर्वेदै- रिति । सर्वैर्वेदैः स्मृतिगणयुतैः मनु-याज्ञवल्क्य - पराशरप्रोक्तस्मृतिसमूहसहितैः, सेतिहासः महाभारतादिपुरावृत्तसहितैः पुराणैः पाद्म-वैष्णवादिभिः, शिष्टाचारैश्चापि नियमितान् अवश्यकर्तव्यत्वेन प्रतिपादितान् मध्वरातेः श्रीविष्णोः आज्ञासिद्धानपि अध्वरान् यज्ञान्, अहहेति खेदे I जहतः त्यजन्तः, तेषां वेद-शास्त्रादीनां विरुद्धानि स्वसङ्कल्पसिद्धानीत्यर्थः । कृत्यानि कर्माणि आतन्वन्तः आचरन्तः सन्तः, कतिचिद् अमी जनाः अपरानप्यन्यानपि जनान् शिक्षयन्ति । एतदेवायुक्तमिति ज्ञेयम् ॥ ३६९ ॥

विश्वास-प्रस्तुतिः

यागं ये बत वैष्णवा विजहतिच्छागच्छिदाभीतितः
शिष्यक्लेशनसाध्वसाज्जहतु ते चक्राङ्कनप्रक्रियाम् ॥
पूर्वस्मिन्बहुसम्मतिर्भगवतः प्रीतिः फलं नो धना-
न्यल्पीयोऽभिमतिः परत्र फलमप्यर्थाप्तिरित्थं भिदा । ३७० ॥
कृ॰ - ( विहस्य )
तप्ताभ्यां शङ्खचक्राभ्यां तापनं प्राणिनामिदम् ॥
छागालम्भसमत्वेन साधो ! किमिति वर्ण्यते ? ॥ ३७१ ॥
वि॰- गुणदोषतारतम्यानभिज्ञ, शृणु तावदिदम् ॥ १५८& ॥
छागालम्भसहस्रतः क्षितिसुरस्यैकस्य हिंसाधिका
तस्माद् ब्राह्मणतापनं न किमिदं तुल्यं पशोर्हिंसया ॥
शास्त्रात्तप्तरथाङ्गधारणमपि14 श्रेयस्करं चेत्तदा
वेदैरेव15 सवे पशोर्विशसनाद्धर्मोपि16 किं ? हीयते ॥ ३७२ ॥
इत्यलं श्रुत्ययुतविहितसँवनकरणावश्यकतासमर्थनेन17 करबदरास्तित्व- साधकप्रमाणान्तरपरिकल्पनकल्पेन ॥ १५९& ॥

मूलम्

यागं ये बत वैष्णवा विजहतिच्छागच्छिदाभीतितः
शिष्यक्लेशनसाध्वसाज्जहतु ते चक्राङ्कनप्रक्रियाम् ॥
पूर्वस्मिन्बहुसम्मतिर्भगवतः प्रीतिः फलं नो धना-
न्यल्पीयोऽभिमतिः परत्र फलमप्यर्थाप्तिरित्थं भिदा । ३७० ॥
कृ॰ - ( विहस्य )
तप्ताभ्यां शङ्खचक्राभ्यां तापनं प्राणिनामिदम् ॥
छागालम्भसमत्वेन साधो ! किमिति वर्ण्यते ? ॥ ३७१ ॥
वि॰- गुणदोषतारतम्यानभिज्ञ, शृणु तावदिदम् ॥ १५८& ॥
छागालम्भसहस्रतः क्षितिसुरस्यैकस्य हिंसाधिका
तस्माद् ब्राह्मणतापनं न किमिदं तुल्यं पशोर्हिंसया ॥
शास्त्रात्तप्तरथाङ्गधारणमपि14 श्रेयस्करं चेत्तदा
वेदैरेव15 सवे पशोर्विशसनाद्धर्मोपि16 किं ? हीयते ॥ ३७२ ॥
इत्यलं श्रुत्ययुतविहितसँवनकरणावश्यकतासमर्थनेन17 करबदरास्तित्व- साधकप्रमाणान्तरपरिकल्पनकल्पेन ॥ १५९& ॥

बाल-कृष्णः

किं च यागमिति । ये वैष्णवाः छागस्य मेषस्य छिदायाः हिंसायाः भीतितः भयाद्धेतोः यागं यज्ञं विजहति त्यजन्ति । बतेति खेदे । ते वैष्णवाः शिष्याणां क्लेशनं तापोत्पादनं तद्रूपं यत् साध्वसं भयं तस्माद्धेतोः चक्राङ्कनस्य तप्तचक्र-शङ्खा- दिमुद्रालक्षणस्य प्रक्रियां[‍?] करणं जहतु त्यजन्तु । किञ्च यागाङ्कनयोर्मध्येऽङ्कनमेव त्याज्यं स्यादित्याह — पूर्वस्मिन् यज्ञे विषये बहूनां मतान्तरस्थानामपि सम्मतिरनुमतिः, भगवतो विष्णोः प्रीतिः सन्तोषः फलं, धनानि विषयादिलालसाजनकानि तु नो न भवन्ति । परत्र चक्राङ्कने तु अल्पीयसी अत्यल्पा एकदेशीयमतस्थानां जनानामित्यर्थः । अभिमतिः, सम्मतिः फलमपि अर्थानां द्रव्याणाम् आप्तिः प्राप्तिः, पूर्वप्रतिपादितजारचोरादिनीचजनेभ्य इत्यर्थः । इत्थमेवंरूपा भिदा भेदः अस्तीत्यर्थः ॥ ३७० ॥

कृशानुः सोपहासमाह - तप्ताभ्यामिति । हे साधो ! एतत् परिहासद्योतकं सम्बोधनम् । तप्ताभ्यां शङ्ख-चक्राभ्यां तन्मुद्राभ्यामित्यर्थः । प्राणिनां शिष्यजनानां तापनं सन्तापोत्पादकं, छागालम्भसमत्वेन पशुहिंसातुल्यत्वेन किमिति कुतो हेतोः वर्ण्यते ? प्राणवियोजनं, किञ्चित्कालपर्यन्तं शरीरस्यैकस्मिन् भागे तापनं च नैव तुल्यमिति भावः ॥ ३७१ ॥

गुणदोषेति। हे गुणदोषतारतम्यानभिज्ञ गुण-दोषयोर्न्यूनाधिकभावनिर्णायक-

दं वक्ष्यमाणं शृणु ॥ १५८& ॥

छागेति । छागस्य आलम्भः हिंसा तेषां सहस्रं तस्मादिति ततः सहस्रपशुर्हि-सापेक्षयेत्यर्थः । एकस्य क्षितिसुरस्य ब्राह्मणस्य एका हिंसा अधिका । तस्मात् कारणाद् ब्राह्मणतापनं तप्तमुद्रयेत्यर्थात् । इदम् एकस्य पशोर्हिंसया तुल्यं समं न किम् ? अपि तु अस्त्येवेत्यर्थः । यतः मुद्राधारणकाले ’ हा ! हा ! ’ इत्यादिखेदप्रदर्शकशब्दाः श्रूयन्ते । तस्माद् यद्यपि तस्मिन् काले प्रत्यक्षप्राणहानिर्न भवति तथापि तत्तुल्यत्वादेकपशुहिंसातुल्यमेव तदिति भावः । शास्त्रप्राप्तत्वान्मुद्राधारणमावश्यकमिति चेत्तत्राह — तप्तरथाङ्गधारणं सन्तप्तचक्रादिमुद्राधारणमपि शास्त्रान् नारदपाञ्चरात्राद्यागमात् प्राप्तमिति शेषः । श्रेयस्करं कल्याणकरम् अस्ति चेत्, तदा वेदैरेव वेदान्तर्गतविधिवाक्यैरेव सवे यज्ञे पशोर्मेषादेः विशसनान् मारणाद् धर्मः हीयते अपि किम् ? अपि तु नैवेत्यर्थः ॥ ३७२ ॥

इतीति । इत्येवम्प्रकारेण श्रुतीनाम् अयुतेन अनन्तश्रुतिकदम्बकेनेतियावत् । विहितस्य प्रतिपादितस्य सवकरणस्य यज्ञकरणस्य आवश्यकतायाः अवश्यकर्तव्यत्वस्य समर्थनेन प्रतिपादनेन अलं पर्याप्तम् । कीदृशं तत्समर्थनं, करे हस्ते वर्तमानस्य बदरस्य बदरीफलस्य अस्तित्वसाधकस्य सत्ताप्रतिपादकस्य प्रमाणान्तरस्य प्रत्यक्षादन्यस्यानुमानादेः परिकल्पनेन विरचनतुल्येनेति श्रुत्ययुतेत्यादेर्विशेषणं “ ईषदसमाप्तौ -" इति कल्पप्प्रत्ययः ॥ १५९& ॥


  1. मण्डलस्य रामणीयकं ↩︎ ↩︎

  2. शास्त्रादिघोषः ↩︎ ↩︎

  3. रवगीत ↩︎ ↩︎

  4. परिमितधना ↩︎ ↩︎

  5. यः खल्वाचमनाप्लवादिनियमस्तं ↩︎ ↩︎

  6. अनुष्ठानगीः ↩︎ ↩︎

  7. क्वात्याग्निचित्यादयः ↩︎ ↩︎

  8. लक्ष ↩︎ ↩︎

  9. परिगृह्य ↩︎ ↩︎

  10. समम् ↩︎ ↩︎

  11. विरहादिविशङ्कया ↩︎ ↩︎

  12. ये ↩︎ ↩︎

  13. दितरान् ↩︎ ↩︎

  14. मिदं ↩︎ ↩︎

  15. वेदादेव मखे पशोर्विशसनं नैतेन किं मीयते ↩︎ ↩︎

  16. द्धर्मो न किं हीयते ↩︎ ↩︎

  17. सदाचरणा ↩︎ ↩︎