२८ बाहानदीवर्णनम्

विश्वास-प्रस्तुतिः

अथ बाहानदीवर्णनम्॥

किञ्चिद्दक्षिणतोऽभिक्रम्य —
मोहादिदोषरहितां तटवासिदेहि-
व्यूहाय कामपि मतिं महतीं दिशन्ती ॥
स्वाहाकरोति दुरितानि शुभप्रवाहा1

बाहानदी बुधसमूहकृतावगाहा ॥ ३५५ ॥
अस्याश्चोत्तरतीरे श्रोत्रियोत्तंसनिवासयोग्यः समग्रगुणोऽसावग्रहारःसंलक्ष्यते पश्य ॥ १५३& ॥
कर्णानन्दकरस्फुरन्मधुकरव्याहारबाहापगा-
रोधः शाखिमरन्दतुन्दिलपयःकल्याणकुल्यावृतः ॥
आत्रेयान्वयविद्वदध्वरहविर्गन्धानुबन्धार्पित-
क्षेमो भात्यरशाणिपाल इति हि ग्रामोऽभिरामो भुवि ॥ ३५६ ॥

मूलम्

अथ बाहानदीवर्णनम्॥

किञ्चिद्दक्षिणतोऽभिक्रम्य —
मोहादिदोषरहितां तटवासिदेहि-
व्यूहाय कामपि मतिं महतीं दिशन्ती ॥
स्वाहाकरोति दुरितानि शुभप्रवाहा1

बाहानदी बुधसमूहकृतावगाहा ॥ ३५५ ॥
अस्याश्चोत्तरतीरे श्रोत्रियोत्तंसनिवासयोग्यः समग्रगुणोऽसावग्रहारःसंलक्ष्यते पश्य ॥ १५३& ॥
कर्णानन्दकरस्फुरन्मधुकरव्याहारबाहापगा-
रोधः शाखिमरन्दतुन्दिलपयःकल्याणकुल्यावृतः ॥
आत्रेयान्वयविद्वदध्वरहविर्गन्धानुबन्धार्पित-
क्षेमो भात्यरशाणिपाल इति हि ग्रामोऽभिरामो भुवि ॥ ३५६ ॥

बाल-कृष्णः

अथ बाहानदीं वर्णयति — मोहेति । तटयोस्तीरयोर्वासिनां वसतिं कुर्वतां देहिनां प्राणिनां व्यूहाय समूहाय, मोहादिदोषरहितां, आदिशब्देन लोभादीनां ग्रहणम् । कामप्यनिर्वाच्यां महतीं स्वर्गापवर्गादिमहाफलप्रदामित्यर्थः । मतिं ज्ञानं दिशन्ती ददती । बुधसमूहकृतावगाहा पण्डितजनवृन्दकृतस्नाना बाहानदी शुभप्रवाहा मङ्गलकरप्रवाहा, दुरितानि पापानि स्वाहाकरोति विनाशयतीत्यर्थः ॥ ३५५ ॥

अस्या इति । अस्याः बाहानद्याः उत्तरे तीरे श्रोत्रियोत्तंसानाम् अग्निहोत्रश्रेष्ठानां निवासयोग्यः समग्राः सम्पूर्णा गुणाः कुशसमित्समृद्ध्यादयो यस्मिन् असौ अग्रहारः ब्राह्मणस्वामिको ग्रामः । अस्तीति शेषः ॥ १५३& ॥

कर्णेति । कर्णानन्दकराः श्रोत्रयोरानन्दजनकाः स्फुरन्तश्च मधुकराणां व्याहाराः उक्तयो गुञ्जारवरूपा इत्यर्थः । येषु तेषां बाहापगायाः रोधसि तटे ये शाखिनो वृक्षास्तेषां सम्बन्धिभिः मरन्दैस्तुन्दिलस्य परिपूर्णस्य पयसः जलस्य कल्याणाभिः कुल्याभिः कृत्रिमसरिद्भिः ‘कालवा’ इति महाराष्ट्रभाषाप्रसिद्धैरित्यर्थः । वृतः वेष्टितः । अत्रेर्मुनेरयम् आत्रेयः स चासौ अन्वयः वंशः येषां तेषां विदुषाम् अध्वरेषु यज्ञेषु हविषां पुरोडाश-वपादीनां गन्धस्य अनुबन्धेन सम्बन्धेन अर्पितं दत्तं क्षेमं कुशलं यस्य सः । अभिरामः मनोहरः भुवि ‘अरशाणिपाल’ इति तन्नामकः ग्रामः भाति प्रकाशते । हि प्रसिद्धौ । अयं कवेरग्रहारः केनचिद्राज्ञा विद्याचरणादिसन्तुष्टेन समर्पित इति बोध्यम् ॥ ३५६ ॥

विश्वास-प्रस्तुतिः

साध्वग्रे - सरयूपेतः साकेतनगरश्रियम् ॥
अग्रहारो विभात्येष2 रघुनाथाभिरक्षितः ॥ ३५७ ॥
किञ्चिद्विमानमुन्नमय्य नद्योः पार्श्वद्वयमवलोक्य सश्लाघम् –
चारुगुणैः सन्मणिभिर्जुष्टा बाहानदी - पयखिन्योः ॥
उपकूलमग्रहारा उदग्रहारा इवावनेर्भान्ति ॥ ३५८ ॥
कृ॰ – अमून् ग्रामान् कथङ्कारमग्रहारान् प्रचक्षते ॥
सुवृत्तमुक्तारहिता यदेनानाश्रिता जनाः ॥ ३५९ ॥
विश्वावसुः – सखे, भवता स्तुतिरेवैषां भङ्गयन्तरेण कृतेति मृष्यामि तुष्यामि च ॥ १५४& ॥

मूलम्

साध्वग्रे - सरयूपेतः साकेतनगरश्रियम् ॥
अग्रहारो विभात्येष2 रघुनाथाभिरक्षितः ॥ ३५७ ॥
किञ्चिद्विमानमुन्नमय्य नद्योः पार्श्वद्वयमवलोक्य सश्लाघम् –
चारुगुणैः सन्मणिभिर्जुष्टा बाहानदी - पयखिन्योः ॥
उपकूलमग्रहारा उदग्रहारा इवावनेर्भान्ति ॥ ३५८ ॥
कृ॰ – अमून् ग्रामान् कथङ्कारमग्रहारान् प्रचक्षते ॥
सुवृत्तमुक्तारहिता यदेनानाश्रिता जनाः ॥ ३५९ ॥
विश्वावसुः – सखे, भवता स्तुतिरेवैषां भङ्गयन्तरेण कृतेति मृष्यामि तुष्यामि च ॥ १५४& ॥

बाल-कृष्णः

साध्विति । साधुषु मध्ये अग्रेसराणां श्रेष्ठानाम् आत्रेयगोत्राणां यूपैः यज्ञपशुब- न्धनस्तम्भैः इतः प्राप्तः, पक्षे साधु अग्रे सरय्वा नाम नद्या उपेतः, रघुनाथेन श्रीरघु- नाथदीक्षितेन कवेः पित्रा, श्रीरामेण च अभिरक्षितः एष अग्रहारः साकेतस्य अयोध्यायाः श्रियं शोभां वहति धारयति ॥ ३५७ ॥

किञ्चिदिति । उन्नमय्य ऊर्ध्वं नीत्वा, नद्योः बाहा - क्षीरनद्योः -

चार्विति । चारवः गुणाः दया दाक्षिण्यादयः सूत्राणि च येषां तैः सतां साधूनां मणिभिः श्रेष्ठैः, पक्षे सद्भिरुत्तमैः मणिभी रत्नैश्च जुष्टाः युक्ताः बाहानदी - पयस्विन्योः बाहानदी - क्षीरनद्योः कूलानां तीराणां समीपे इत्युपकूलं, सामीप्येऽव्ययीभावः ।कूलं रोधश्च तीरं च " इत्यमरः । अग्रहाराः, अवनेर्भूमेः उदग्राः उन्नताः हारा इव “ उच्च- प्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने ।” इत्यमरः । भान्ति प्रकाशन्ते ॥ ३५८ ॥

अमूनिति । अमून् नदीद्वयतीरस्थान् ग्रामान् कथङ्कारं कथमित्यर्थः । अग्रहारान् प्रचक्षते वदन्ति ? बुधा इति शेषः । यद्यस्मादेनान् ग्रामान् आश्रिता जनाः, सुवृत्ताभिः सुन्दरवर्तुलाकृतिभिः मुक्ताभिमौक्तिकैः रहिताः, सुवृत्तैः साध्वाचारैः मुक्तैर्विगतसंसारबन्धनैश्च जनैः अरहिताः सङ्गताश्च, “वृत्तोऽधीतेऽप्यतीतेऽपि वर्तुलेऽपि मृते वृते । वृत्तेऽन्यलिङ्गे वा क्लीबे छन्दश्चारित्रवृत्तिषु" इति मेदिनी । सन्तीति शेषः ॥ ३५९ ॥

सख इति । भवता भङ्ग्यन्तरेण अन्यया रीत्या व्याजस्तुतिप्रकारेणेति यावत् ।

एषां जनानां स्तुतिः प्रशंसैव कृता, इति हेतोः मृष्यामि सहे, तुष्यामि सन्तुष्टश्च भवामि । ॥ १५४& ॥


  1. प्रवाहैः ↩︎ ↩︎

  2. वहत्येष ↩︎ ↩︎