२७ क्षीरनदीवर्णनम्

विश्वास-प्रस्तुतिः

अथ क्षीरनदीवर्णनम्॥

इति दक्षिणतो विमानं प्रस्थापयन् सहर्षम् -
इयं हि-
गङ्गा-सिन्धु-सरखती-भवहरातुङ्गा- पतङ्गात्मजा-
रङ्गाभ्याशतरङ्गिणीर्वदघतत्यङ्गारभङ्गावहा1
शुग्धाराशमनी मनीषिजनतारब्धावगाहा मुहु-
मुग्धानामपि शुद्धबुद्धिजननी2 दुग्धापगा दृश्यते ॥ ३५१ ॥

मूलम्

अथ क्षीरनदीवर्णनम्॥

इति दक्षिणतो विमानं प्रस्थापयन् सहर्षम् -
इयं हि-
गङ्गा-सिन्धु-सरखती-भवहरातुङ्गा- पतङ्गात्मजा-
रङ्गाभ्याशतरङ्गिणीर्वदघतत्यङ्गारभङ्गावहा1
शुग्धाराशमनी मनीषिजनतारब्धावगाहा मुहु-
मुग्धानामपि शुद्धबुद्धिजननी2 दुग्धापगा दृश्यते ॥ ३५१ ॥

बाल-कृष्णः

तदेतदिति । तदेतत्त्वया वर्णितं दयापयोनिधेर्दयासागरस्यास्य विजयराघवस्य भूषणमेव न तु दूषणम् ॥ १५० ॥

तदिति । तमसः अज्ञानस्य परस्तात् परस्मिन् “ दिक्छब्देभ्यः सप्तमी - पञ्चमी - प्रथमाभ्यः -" इत्यादिसूत्रेण सप्तम्यर्थेऽस्तातिप्रत्ययः । तत्तादृशि तथाविधप्रसिद्धे उत्तमपदे वैकुण्ठे अस्तामयैर्दोषरहितैः अत एव अतुलसूरिभिः अनन्यसदृशैः विद्वद्भिः सनक-नारदप्रभृतिभिः अर्चितः पूजितोऽपि सन्, दृढानुकम्पः सततभक्त - प्रेमवान्, एषः हरिर्विजयराघवरूपः, अत्र गृध्रसरसि चिरं बहुकालम् आविरस्ति प्रकटो वर्तते इति यत्, तन् नराणां मनुष्याणां दृष्टिं नेत्रं, जातावेकवचनम् । सफलयितुं स्वदर्शनेन सफलीकर्तुमेव ॥ ३५० ॥

अथ क्षीरनदीवर्णनार्थमुपक्रमते – गङ्गेति । गङ्गासिन्धुर्गङ्गा नदी अथवा सिन्धु- नाम्नी अन्या नदी, सरस्वती भवहरा संसारनाशिनी तुङ्गा, पतङ्गस्य सूर्यस्य । " पतङ्गौ पक्षि-सूर्यौ च" इत्यमरः । आत्मजा यमुना " कालिन्दी सूर्यतनया यमुना " इति चामरः । रङ्गाभ्याशे रङ्गनाथक्षेत्रसमीपे या तरङ्गिणी नदी कावेरी च ता इव तद्वत् । अघानां पापानां ततिः परम्परैव अङ्गाराः दाहकत्वाद् उल्मुकानि “अङ्गारोऽलातमुल्मुकम्" इत्यमरः । तेषां भङ्गावहा नाशसम्पादयित्री, तथा शुचां दुःखानां धारायाः पङ्क्तेः शमनी विनाशयित्री मुहुर्वारंवारं मनीषिजनतया विद्वत्समूहेन आरब्धाः उपक्रान्ताः अवगाहाः स्नानानि यस्यां सा तथाभूता, मुग्धानां मूर्खाणामपि " मुग्धः सुन्दर - मूढयोः " इति कोशः । शुद्धां निर्मलां बुद्धिं जनयति उत्पादयतीति तज्जननी दुग्धापगा क्षीरनदी दृश्यते ॥ ३५१ ॥

विश्वास-प्रस्तुतिः

किं च
मम दुग्धनदी धनदीकृतमज्जन्मानवा नवाम्भोभिः ॥
बुधजातनुता तनुतां तनुतां तनुतापहृद्घनाघानाम्3 ॥ ३५२ ॥
कृ॰—भवत्वेवमथाप्यस्याः क्षीरतरङ्गिण्या विधिना कृता
विरसता4 ॥ १५१& ॥
कालुष्यलेशविधुरा मधुराऽपि पयोनदी ॥
रोचते साधवे युक्ता नो चेल्लवणसिन्धुना ॥ ३५३ ॥
वि॰ – गुणमपि भणसि दोषतया ॥ १५२& ॥
यतः
क्वचन समागतसिन्धुनि धुनीजले5 साधुनि स्नानम् ॥
पङ्कविलोपं कलयति सङ्घटयति श्रियमिति6 स्मरन्ति बुधाः॥ ३५४ ॥

मूलम्

किं च
मम दुग्धनदी धनदीकृतमज्जन्मानवा नवाम्भोभिः ॥
बुधजातनुता तनुतां तनुतां तनुतापहृद्घनाघानाम्3 ॥ ३५२ ॥
कृ॰—भवत्वेवमथाप्यस्याः क्षीरतरङ्गिण्या विधिना कृता
विरसता4 ॥ १५१& ॥
कालुष्यलेशविधुरा मधुराऽपि पयोनदी ॥
रोचते साधवे युक्ता नो चेल्लवणसिन्धुना ॥ ३५३ ॥
वि॰ – गुणमपि भणसि दोषतया ॥ १५२& ॥
यतः
क्वचन समागतसिन्धुनि धुनीजले5 साधुनि स्नानम् ॥
पङ्कविलोपं कलयति सङ्घटयति श्रियमिति6 स्मरन्ति बुधाः॥ ३५४ ॥

बाल-कृष्णः

ममेति । नवानि च तानि अम्भांसि उदकानि च तैर्धनदीकृताः पूर्वं दरिद्राः सन्तः कुबेरवद्धनाढ्याः कृताः मज्जन्तः स्वस्याम् अवगाहमानाः मानवा यया सा बुधानां जातेन समूहेन नुता स्तुता, तनोः शरीरस्य तापहृत्, सन्तापहर्त्री, दुग्धनदी क्षीर- नदी, मम सम्बन्धिनां घनाघानां महापापानां तनुतां क्षीणत्वं तनुतां करोतु, पापानि विनाशयत्वित्यर्थः ॥ ३५२ ॥

भवत्विति । एवं त्वदुक्तप्रकारं भवतु अस्तु, अथापि अस्याः क्षीरतरङ्गिण्याः क्षीरनद्याः विधिना दैवेन विरसता रसरहितता अनास्वाद्यतेत्यर्थः । कृता ॥ १५०& ॥

कालुष्येति । कालुष्यस्य मालिन्यस्य लेशेन लवेनापि विधुरा रहिता सत्यपि, मधुराऽपि पयोनदी क्षीरनदी, लवणसिन्धुना क्षारसमुद्रेण युक्ता नो चेन्न भवेद्यदि तर्हि साधवे सज्जनाय रोचते लवणसंसृष्टक्षीरपानस्य धर्मशास्त्रनिषिद्धत्वादिति भावः ॥ ३५३ ॥

क्वचनेति । समागतः सङ्गतः सिन्धुः समुद्रः येन तस्मिन् अत एव साधुनि पवित्रतया शोभने क्वचन कस्मिन्नपि धुनीजले नद्याः उदके स्नानं पङ्कस्य पापस्य कर्दमस्य च विलोपं नाशं कलयति सम्पादयति । श्रियं सम्पत्तिं च सङ्घटयति उत्पादयति । इत्युक्तप्रकारं, बुधाः स्मरन्ति जानन्ति । क्वचित् ‘धियं’ इति पाठान्तरं, तत्पक्षे उत्तमां बुद्धिमित्यर्थः । अत्र च " समुद्रगानदीस्नानं नराणां शुद्धबुद्धिदम्” इति स्मृतिरप्यनुकूला ॥ ३५४ ॥


  1. दघहा गम्भीरभङ्गावहा ↩︎ ↩︎

  2. शुद्धि ↩︎ ↩︎

  3. कृद्धनागानाम् ↩︎ ↩︎

  4. नीरसता ↩︎ ↩︎

  5. सिन्धुजले ↩︎ ↩︎

  6. धियं ↩︎ ↩︎