२६ श्रीमदेकाम्रेश्वरवर्णनम्

विश्वास-प्रस्तुतिः

अथ श्रीमदेकाम्रेश्वरवर्णनम्॥

इत्यन्यतः किञ्चित्परिक्रामन् सामोदम् -
शशाङ्कमौलिः सहकारमूले कैलासवासी स इहाविरासीत्1
यस्याग्निभूर्दृक् च तनूभवश्च योषाऽपिभूषाऽपि च नागराजी ॥ ३२० ॥
कृ॰ – वयस्य किं वर्णयसि विश्वविलक्षणचारित्रं रुद्रम् ? लोके हि लोचनशैत्यसम्पिपादयिषया यतमानान् जनानेव पश्यामः । अयं तु पशुपतिः स्थाणुरिति स्वाह्वयमन्वर्थयन्निव23 आशुशुक्षणिमक्ष्णि निक्षिप्तवान् ॥ १२८& ॥

मूलम्

अथ श्रीमदेकाम्रेश्वरवर्णनम्॥

इत्यन्यतः किञ्चित्परिक्रामन् सामोदम् -
शशाङ्कमौलिः सहकारमूले कैलासवासी स इहाविरासीत्1
यस्याग्निभूर्दृक् च तनूभवश्च योषाऽपिभूषाऽपि च नागराजी ॥ ३२० ॥
कृ॰ – वयस्य किं वर्णयसि विश्वविलक्षणचारित्रं रुद्रम् ? लोके हि लोचनशैत्यसम्पिपादयिषया यतमानान् जनानेव पश्यामः । अयं तु पशुपतिः स्थाणुरिति स्वाह्वयमन्वर्थयन्निव23 आशुशुक्षणिमक्ष्णि निक्षिप्तवान् ॥ १२८& ॥

बाल-कृष्णः

कुशलीति । हिमाद्रितनयायाः भगवत्याः पार्वत्याः, भानां नक्षत्राणां नाथश्चन्द्रः सइव वक्त्रं मुखं यस्य, इभनाथस्य गजेन्द्रस्य च मुखं यस्य स इति च, कुशली प्रशस्तकल्याणयुक्तः प्रथमः पुत्रः अस्ति । अस्याः द्वितीयो नन्दनस्तु पञ्चास्यात् पञ्चमुखयुक्तात् पितुः शिवादपि अधिकः एकाननमात्रेणैवेत्यर्थः । षडाननः स्कन्दः अस्ति ॥ ३१९ ॥

अथ तस्मिन्नेव देशे स्थलान्तरवर्णनार्थमुपक्रमते कविः - इतीत्यादि । परिक्रामन् गच्छन् । सामोदं सानन्दम्–

शशाङ्कमौलिरिति । कैलासवासी कैलासपर्वताधिष्ठाता सः प्रसिद्धः शशाङ्कश्चन्द्रः मौलौ मस्तके यस्य तथाभूतः शिवः, इह काञ्चीनगर्यां सहकारस्य आम्रवृक्षस्य मूले आविरासीत् प्रकटीबभूव । स कीदृशः । यस्य शिवस्य अग्निर्भवत्युत्पद्यते यस्याः सा तथाभूता दृक् दृष्टिः तृतीयनेत्रमित्यर्थः । अग्नेर्भवतीत्यग्निभूश्च तनूभवश्च पुत्रोऽपि वर्तते । स षडानन इत्यर्थः । " पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः" इत्यमरः । तथा भूषा भूषणं चापि, नागानां सर्पाणां राजी पङ्क्तिः, योषा पत्नी चापि नगराजस्य पर्वतराजस्य हिमालयस्य अपत्यं स्त्री कन्या नागराजी, पार्वतीत्यर्थः । वर्तते । स तादृश इति सम्बन्धः ॥ ३२० ॥

वयस्येति । हे वयस्य, विश्वविलक्षणं लोकविरुद्धं नश्वरजडप्रपञ्चासक्तजनविलक्षणमित्यर्थः । चारित्रम् आचरणं यस्य सः सततमात्मलीनत्वात् । तं रुद्रं किं वर्णयसि ? हि यतः लोके लोचनयोः शैत्यसम्पिपादयिषया शीतत्वसम्पादनेच्छया यतमानान् यत्नं कुर्वाणान् जनान् पश्यामः अवलोकयाम एव । अयं रुद्रस्तु पशूनां गवादीनां " अहमेव पशूनामधिपतिः " सर्वे देवास्तु पशवो ब्रह्मविष्ण्विन्द्रपूर्वकाः । प्रोक्तस्तेषां पतिर्यस्मादतः पशुपतिः स्मृतः । " इति श्रुति स्मृत्यादिपर्यालोचनया पशूनां देवानां पतिः स्वामीति च, स्थाणुः शुष्कवृक्षः, सर्ववैकारिकलये स्थाणुस्तिष्ठति येन सः " इति स्मृतेः प्रलयोत्तरमपि स्थितिमान् इति च इत्येतद्वयं स्वस्य आह्वयं नाम अन्वर्थयन्निव यथार्थं कुर्वन्निव आशुशुक्षणिम् अग्निं " अग्निः” इत्यतः " शिखावानाशुशुक्षणिः " इत्यमरः । अक्ष्णि लोचने निक्षिप्तवान् ॥ १२८& ॥

विश्वास-प्रस्तुतिः

वि॰ – अवधेहि तावदभिधास्यामि रहस्यम् ॥ १२९&॥
अङ्गानुषङ्गोदितशीतबाधामिन्दोर्द्युसिन्धोश्च4 समन्वयेन5
हर्तुं वहत्यग्निमयीं तृतीयां हरो हसन्तीमिव हन्त दृष्टिम् ॥ ३२१ ॥
कृ॰ - हन्त तर्हि तुहिनकिरणशकलसुरसरिज्झरीशिशिरशिरसस्त्रिपुरहरस्य6 कथमभिषेकप्रियता ? ॥ १३०& ॥
ततश्व-
गङ्गातरङ्गावलिभिः सुधांशोः सुधाझरैश्चानिशमार्द्रमूर्ध्नः ॥
वृथाभिषेकं7 कलयन्ति शम्भोस्तृप्ताय तोयस्य8 ददत्यपः के ॥ ३२२ ॥

मूलम्

वि॰ – अवधेहि तावदभिधास्यामि रहस्यम् ॥ १२९&॥
अङ्गानुषङ्गोदितशीतबाधामिन्दोर्द्युसिन्धोश्च4 समन्वयेन5
हर्तुं वहत्यग्निमयीं तृतीयां हरो हसन्तीमिव हन्त दृष्टिम् ॥ ३२१ ॥
कृ॰ - हन्त तर्हि तुहिनकिरणशकलसुरसरिज्झरीशिशिरशिरसस्त्रिपुरहरस्य6 कथमभिषेकप्रियता ? ॥ १३०& ॥
ततश्व-
गङ्गातरङ्गावलिभिः सुधांशोः सुधाझरैश्चानिशमार्द्रमूर्ध्नः ॥
वृथाभिषेकं7 कलयन्ति शम्भोस्तृप्ताय तोयस्य8 ददत्यपः के ॥ ३२२ ॥

बाल-कृष्णः

अवधेहीति । तावत् साकल्येन रहस्यं गौप्यम् अभिधास्यामि कथयामि अवधेहि ॥ १२९& ॥

अङ्गानुषङ्गेति । इन्दोवन्द्रस्य सिन्धोः गङ्गायाश्च समन्वयेन सम्बन्धेन अङ्गेषु सर्वावयवेषु अनुषङ्गा प्रसरन्ती उदिता उत्पन्ना या शीतबाधा शीतपीडा तां हर्तु दूरीकर्तु अयं शिवः अग्निमयीम् अभिप्रचुरां तृतीयां दृष्टिं हसन्तीम् अङ्गारधानीमिव “ अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि " इत्यमरः । वहति धारयति । हन्ते- त्यानन्दे ॥ ३०१ ॥

पुनरपि सपरिहासं दोषान्तरमाह — हन्तेति । हन्तेति खेदे । यद्येवं तर्हि तुहि- । नकिरणश्चन्द्रः तस्य शकलं कलात्मकं खण्डं, सुरसरितः गङ्गायाः झरी प्रवाहस्तेन शिशिरं शीतलं शिरः यस्य तस्य त्रिपुरहरस्य शिवस्य अभिषेकस्य प्रियता कथम् ? ॥ १३०& ॥

उक्तामाशङ्कामेव द्रढयति - गङ्गेति । गङ्गायास्तरङ्गावलिभिः ऊर्मिपङ्क्तिभिः सुधांशोश्चन्द्रस्य सुधाझरैः अमृतप्रवाहैश्च अनिशं सततम् आर्द्रमूर्ध्नः क्लिन्नमस्तकस्य शम्भोः’ तद्भक्ता इति शेषः । अभिषेकं रुद्रसूक्तादिमन्त्रस्नानं वृथा कलयन्ति कुर्वन्ति ।

जलपानेनेत्यर्थः । " कर्तृकर्मणोः कृति " इति षष्ठी । तृप्ताय अपः उदकानि पुनः पातुमित्यर्थः । के ददति प्रयच्छन्ति ? अपि तु केऽपि नैव ददतीत्यर्थः ॥ ३२२ ॥

विश्वास-प्रस्तुतिः

वि॰ - अत्रापि युक्तमुत्तरं व्याहरामि ॥ १३१& ॥
ज्वलनाकलनाद्विषस्य पानाद्विषभाजां वहनाच्च तप्तमूर्तेः ॥
अनिशं त्रिदशापगाधरस्याप्यभिषेकप्रियता शिवस्य9 जाता ॥ ३२३ ॥
कृ॰ — अस्त्विदमथाप्यन्यदपि10 न युज्यते । किमसौ विहाय विहायसं सन्ततं शङ्करशिरसि गङ्गातरङ्गान्तः प्रतिवसति मृगाङ्कः कृशाङ्गः ? ॥ १३२& ॥
वि॰ - शृणु सखे तत्र कारणम् ॥ १३३& ॥
शिवशिरसि शीतभानुः सागरसूनुत्वसूचनाय परम् ॥
अधिवसतिं तन्महिष्या गङ्गाया जठरमल्पतनुरेषः ॥ ३२४ ॥
कृ॰ - तथापि लुब्ध एष फलप्रेप्सुभिरनादृत्यः ॥ १३४& ॥

मूलम्

वि॰ - अत्रापि युक्तमुत्तरं व्याहरामि ॥ १३१& ॥
ज्वलनाकलनाद्विषस्य पानाद्विषभाजां वहनाच्च तप्तमूर्तेः ॥
अनिशं त्रिदशापगाधरस्याप्यभिषेकप्रियता शिवस्य9 जाता ॥ ३२३ ॥
कृ॰ — अस्त्विदमथाप्यन्यदपि10 न युज्यते । किमसौ विहाय विहायसं सन्ततं शङ्करशिरसि गङ्गातरङ्गान्तः प्रतिवसति मृगाङ्कः कृशाङ्गः ? ॥ १३२& ॥
वि॰ - शृणु सखे तत्र कारणम् ॥ १३३& ॥
शिवशिरसि शीतभानुः सागरसूनुत्वसूचनाय परम् ॥
अधिवसतिं तन्महिष्या गङ्गाया जठरमल्पतनुरेषः ॥ ३२४ ॥
कृ॰ - तथापि लुब्ध एष फलप्रेप्सुभिरनादृत्यः ॥ १३४& ॥

बाल-कृष्णः

अत्रापीति । अत्राभिषेकविषयेऽपि युक्तं समर्पकमेवोत्तरं व्याहरामि कथयामि ॥ १३१& ॥

किं तदित्यपेक्षायामाह - ज्वलनेति । ज्वलनस्य ललाटस्थतृतीयनेत्राग्नेः आकलनात् स्वीकाराद् विषस्य कालकूटसञ्ज्ञकस्य पानात् प्राशनात्, विषभाजां सर्पाणाम् । कटककुण्डलाद्यलङ्कारत्वेन वहनाद्धारणाच्च हेतोः तप्ता सन्तप्ता मूर्तिः शरीरं यस्य तस्य शिवस्य अनिशं सन्ततं त्रिदशापगायाः गङ्गायाः धरस्य धारकस्यापि सतः, अभिषेकप्रियता जाता ॥ ३२३ ॥

अस्त्विति । इदम् अभिषेकसम्बन्धि कथनम् अस्तु तिष्ठतु । अथापि अन्यद् इदं व- क्ष्यमाणमपि न युज्यते । तत्किम् ? असौ मृगाङ्कश्चन्द्रः कृशाङ्गः अल्पशरीरः सन् वि- हायसमाकाशं विहाय त्यक्त्वा, सन्ततं शङ्करशिरसि गङ्गायास्तरङ्गाणामन्तः मध्ये किं कुतो हेतोः प्रतिवसति ? ॥ १३२& ॥

शिवशिरसीति । एषः शीतभानुश्चन्द्रः सागरस्य समुद्रस्य सूनुत्वसूचनाय पुत्रत्वज्ञापनायेव, गम्योत्प्रेक्षेयम् । परमत्यन्तम् अल्पतनुः कृशशरीरः सन् शिवशिरसि शङ्करमस्तके तस्य समुद्रस्य महिष्याः स्त्रियाः गङ्गायाः जठरमुदरम् अधिवसति अधितिष्ठति । “अधिशीङ् -स्थासाम् - " इत्याधारस्य कर्मसञ्ज्ञा ॥ ३२४ ॥

अन्यदपि दूषणमुद्घाटयति - तथापीति । तथापि गङ्गा-चन्द्रादियुक्तत्वे सत्यपि एषः शिवः लुब्धः लोभयुक्तः आदिकिरातश्च, फलप्रेप्सुभिः फलं स्वर्गापवर्गादिरूपमिच्छुभिः अनादृत्यः न आदरणीयः ॥ १३४& ॥

विश्वास-प्रस्तुतिः

तथाहि-
11[सौवर्णभूधरमपि स्वकरे निधाय
भिक्षां कपालभृदिहाटति कृत्तिवासाः ॥
आस्तामिदं स्वयमसौ परिगृह्य लुब्धो
लक्ष्मीपतिं तमपि मार्गणयाञ्चकार ॥ ३२५ ॥
सूक्ष्मसितांशुकलाभेऽप्यपटो12 हैमधरपदनिविष्टोऽपि ॥
लुब्धोऽयमयोहस्तस्तण्डुलसत्त्वेऽप्यटत्यहो भिक्षाम् ॥ ३२६ ॥]
अत्यल्पमिदमुच्यते13 । यच्छङ्करसङ्गाद्गङ्गायामपि जीवनदायिन्यां सङ्क्रान्ता तद्गता लुब्धता ॥ १३५& ॥
पश्य-
मुक्ताश्रिता विष्णुपदोदितापि14 गाङ्गेयमुत्पाद्य वसुप्रकृष्टम् ॥
प्राप्यापि रत्नाकरनित्यसङ्गं कपर्दिकाशां न जहाति गङ्गा ॥ ३२७ ॥

मूलम्

तथाहि-
11[सौवर्णभूधरमपि स्वकरे निधाय
भिक्षां कपालभृदिहाटति कृत्तिवासाः ॥
आस्तामिदं स्वयमसौ परिगृह्य लुब्धो
लक्ष्मीपतिं तमपि मार्गणयाञ्चकार ॥ ३२५ ॥
सूक्ष्मसितांशुकलाभेऽप्यपटो12 हैमधरपदनिविष्टोऽपि ॥
लुब्धोऽयमयोहस्तस्तण्डुलसत्त्वेऽप्यटत्यहो भिक्षाम् ॥ ३२६ ॥]
अत्यल्पमिदमुच्यते13 । यच्छङ्करसङ्गाद्गङ्गायामपि जीवनदायिन्यां सङ्क्रान्ता तद्गता लुब्धता ॥ १३५& ॥
पश्य-
मुक्ताश्रिता विष्णुपदोदितापि14 गाङ्गेयमुत्पाद्य वसुप्रकृष्टम् ॥
प्राप्यापि रत्नाकरनित्यसङ्गं कपर्दिकाशां न जहाति गङ्गा ॥ ३२७ ॥

बाल-कृष्णः

लुब्धत्वमेवोपपादयति-सौवर्णेति । असौ शिवः सौवर्णभूधरं मेरुमपि स्वकरे निधाय स्वायत्तीकृत्वा । वस्तुतस्त्रिपुरासुरवधे धनूरूपेणोपादाय इह लोके कृत्तिवासाः चर्मवसनः, कपालभृन् नरकपालधारकश्च सन्, भिक्षां भिक्षार्थमित्यर्थः । अटति परिभ्रमति । इदं स्वयं भिक्षापरिभ्रमणम् आस्ताम् परं च असौ लक्ष्मीपर्ति श्रीविष्णुमपि स्वयं परिगृह्य स्वीकृत्य लुब्धः अधिकधनाभिलाषयुक्तः, तमपि विष्णुमपि मार्गणयाञ्चकार मार्गणं याचकं वस्तुतः शरं कृतवान् । मार्गणशब्दात् " तत्करोति - " इति णिच् । प्रक्षिप्तमिदं पद्यमिति प्रतिभाति । बहुषु पुस्तकेष्वनुपलम्भात् ॥ ३२५ ॥

सूक्ष्मेति । अयं शिवः लुब्धः आदिकिरातश्च सन्, सूक्ष्मस्य सितस्य शुभ्रस्य च अंशुकस्य वस्त्रस्य लाभे सत्यपि, पक्षे सूक्ष्माः सिताः शुभ्राश्च अंशवः किरणा यस्य स सूक्ष्मसितांशुकश्चन्द्रः “ शेषाद्विभाषा” इति कप्प्रत्ययः । तस्य लाभे सत्यपीति च । अपटः वस्त्ररहितः दिगम्बरश्च सन्, हैमधरे सौवर्णधारके पदे स्थाने पक्षे हिममेव हैमं तस्य धारके हिमालये च निविष्टः स्थितोऽपि सन् अयो लोहमयपात्रं शूलं च हस्ते यस्य सः तथाभूतः, तथा तण्डुलानां सत्त्वम् अस्तित्वं, तण्डुर्नृत्याचार्यः लक्षणया तत्प्रोक्तं शास्त्रं नृत्यं वा तेन लसतीति तस्य भावस्तत्त्वं च तस्मिन् सत्यपि अहो इत्याश्चर्ये । भिक्षाम् अटति भिक्षार्थी परिभ्रमति ॥ ३२६ ॥

अतीति । किञ्च इदं वक्ष्यमाणम् अत्यल्पम् अतिसूक्ष्मं गुह्यमित्यर्थः । उच्यते । यत् शङ्करस्य सङ्गात् सम्बन्धाज् जीवनं जलं प्राणनं च ददाति तच्छीलायां, नान्तत्वान्ङीप् । सत्यामपि गङ्गायां तद्गता शिवगता लुब्धता सङ्क्रान्ता मिलिता ॥ १३५& ॥

लुब्धतामेवोपपादयति — मुक्ताश्रितेति । इयं गङ्गा मुक्तेः अर्थात् संसारात्, मुक्ताभिर्मौक्तिकैश्च- आश्रितापि, विष्णोर्भगवतः पदाद् आकाशाच्च " वियद्विष्णुपदं वा तु पुंस्याकाश-विहायसी" इत्यमरः । उदिता उत्पन्नापि, प्रकृष्टम् उतमं गाङ्गेयं स्वर्णप्रचुरं वसु धनं, पक्षे वसुषु अष्टवसुषु प्रकृष्टं श्रेष्ठं गाङ्गेयं भीष्मं च “देवभेदेऽनले रश्मौ वसू रत्ने धने वसु” इत्यमरः । " गाङ्गेयं भर्म कर्बुरम्" इति च सुवर्ण- नामसु । उत्पाद्य प्रसूय, रत्नानां मणीनाम् आकरेण खनिना समुद्रेण च सह नित्यं सङ्गं प्राप्य लब्ध्वापि, कपर्दिकायां वराटिकाशां, कपर्दिनः शङ्करस्य के मूर्ध्नि च “कं वारिणि च मूर्धनि” इत्यमरः । आशामभिलाषं न जहाति न त्यजति । अहो तस्या भक्तिरिति तत्त्वम् ॥ ३२७ ॥

विश्वास-प्रस्तुतिः

अन्यच्च-
सर्वतोमुखसमृद्धिजुषोद्यत्पौण्डरीकघनवासनयाऽपि15
यत्तयाप्यवधि16 जह्नुमुखस्तत्सत्रघातिचिरसङ्गतिदोषात् ॥ ३२८ ॥
पुनर्विमृश्य-
ईशः करस्थीकृतकाञ्चनाद्रिः17 कुबेरमित्रं रजताचलस्थः ॥
तथापि भिक्षाटनमस्य जातं विधौ शिरःस्थे कुटिले कुतः श्रीः ॥ ३२९ ॥

मूलम्

अन्यच्च-
सर्वतोमुखसमृद्धिजुषोद्यत्पौण्डरीकघनवासनयाऽपि15
यत्तयाप्यवधि16 जह्नुमुखस्तत्सत्रघातिचिरसङ्गतिदोषात् ॥ ३२८ ॥
पुनर्विमृश्य-
ईशः करस्थीकृतकाञ्चनाद्रिः17 कुबेरमित्रं रजताचलस्थः ॥
तथापि भिक्षाटनमस्य जातं विधौ शिरःस्थे कुटिले कुतः श्रीः ॥ ३२९ ॥

बाल-कृष्णः

सर्वत इति । सर्वतोमुखानां यज्ञविशेषाणाम् उदकानां च " पुष्करं सर्वतोमुखम्" इत्युदकनामस्वमरः । समृद्धिजुषा आधिक्ययुक्तथापि तथा उद्यतां प्रफुल्लानाम् उत्पन्नानां च, पुण्डरीकाणि कमलान्येव पौण्डरीकाणि तेषां पौण्डरीकाणां कमलसमूहानां वा । स्वार्थे समूहे वाण् । यज्ञविशेषाणां च घनवासनया अतिसुगन्धयुक्तया बहुसंस्कारवत्यापि च तया गङ्गयापि, जह्नोर्मुनेः मखः यज्ञः अवधि विनाशितः । हन्तेर्धातोः कर्मणि लुङि वधादेशः चिण् च । इति यद् यद् यज्ञविघातरूपं कर्म, सत्रघातिनः दक्षयज्ञविनाशकस्य शिवस्य चिरसङ्गतेः बहुकालसहवासस्यैव दोषात् । अन्यथा यज्ञवासनायुक्तायां तस्यां तदसम्भवात् ॥ ३२८ ॥

अपि च ईश इति । यद्यपि ईशः शिवः करस्थीकृतः त्रिपुरविनाशसमये चापरूपेण हस्तस्थः कृतः, हस्ते धृत इत्यर्थः । काञ्चनाद्रिः मेरुपर्वतो येन सः, करखीकृत इत्यपि पाठान्तरम् । तथा कुबेरस्य मित्रं सुहृत्, रजताचले रौप्यमये कैलासपर्वते तिष्ठतीति तथाभूतः अस्ति । तथापि ईदृशसम्पत्तिमत्त्वेऽपि अस्य शिवस्य भिक्षाटनं जातं प्राप्तम् । तस्मात् कुटिले वामे वक्रे च विधौ दैवे । भोगसूचकरेषायामिति यावत् । चन्द्रे च, “ विधिर्विधाने दैवेऽपि ”, “ विधुः सुधांशुः शुभ्रांशुः" इत्युभयत्राप्यमरः । शिरःस्थे सति, कुतः श्रीः सम्पत् ? अपि तु दुर्लभैवेत्यर्थः । वस्तुतस्तु ‘नहि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ३२९ ॥

विश्वास-प्रस्तुतिः

किं च-
एष विरुद्धधर्मा कृत्तिवासाः कुतः स्तोतव्यः ? ॥ १३६& ॥
शृणु तावत् -
धत्ते महो मूर्ध्नि तदौषधीशमौषर्बुधं18 भालतलेऽङ्गकेषु ॥
फणीन्द्रमौलिस्थमणिप्रसूतं हरोऽन्धकारित्वमथाप्युपैति ॥ ३३० ॥
अपि च-
तारकारिं वहन्नङ्के मस्तके तारकाधिपम् ॥
अङ्गीकुर्वन्सुदृशमप्यलीकाक्षो विभात्ययम् ॥ ३३१॥
विश्वावसुः—किमेभिः शब्दश्लेषैकशरणैर्दूषणैरस्य19 खलु मृत्युञ्ज- यस्यविश्वस्तुत्यमसदृशं20 वदान्यत्वम् ॥ १३७& ॥

मूलम्

किं च-
एष विरुद्धधर्मा कृत्तिवासाः कुतः स्तोतव्यः ? ॥ १३६& ॥
शृणु तावत् -
धत्ते महो मूर्ध्नि तदौषधीशमौषर्बुधं18 भालतलेऽङ्गकेषु ॥
फणीन्द्रमौलिस्थमणिप्रसूतं हरोऽन्धकारित्वमथाप्युपैति ॥ ३३० ॥
अपि च-
तारकारिं वहन्नङ्के मस्तके तारकाधिपम् ॥
अङ्गीकुर्वन्सुदृशमप्यलीकाक्षो विभात्ययम् ॥ ३३१॥
विश्वावसुः—किमेभिः शब्दश्लेषैकशरणैर्दूषणैरस्य19 खलु मृत्युञ्ज- यस्यविश्वस्तुत्यमसदृशं20 वदान्यत्वम् ॥ १३७& ॥

बाल-कृष्णः

नैतावदेव, किन्तु परस्परविरुद्धधर्मवस्तुपरिग्रहत्वमपि तस्मिन्नाह - एष इति । एष शिवः विरुद्धधर्मा विरुद्धाचरणशीलः कृत्तिवासाः चर्मवस्त्रः कुतः स्तोतव्यः ? ॥१३६॥ तदेवोपपादयति– धत्त इति । हरः मूर्ध्नि मस्तके तत् प्रसिद्ध औषधीशं चन्द्रसम्बन्धि महस्तेजो धत्ते धारयति, भालतले कपालस्थलोचने इत्यर्थः । उषर्बुध- स्य अनेः इदम् औषर्बुधम् अग्निसम्बन्धीत्यर्थः । " बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः । इत्यग्निनामखमरः । तेजो धत्ते, शीतत्वप्राप्त्यर्थं चन्द्रधारणे कृते पुनरुष्णधर्माग्निधारणं विरुद्धमिति भावः । एवमग्रेऽपि यथायथमूह्यम् । तथा अङ्गान्ये- वाङ्गकानि तेषु सर्वावयवेष्वित्यर्थः । फणीन्द्रस्य शेषस्य मौलिस्थमणेः प्रसूतम् उत्पन्नं महः धत्ते । तथापि अन्धकारः ध्वान्तम् अस्यास्तीत्यन्धकारी तस्य भावः अन्धकारित्वं, पक्षे अन्धको नाम दैत्यः तस्य अरित्वं शत्रुत्वं च उपैति प्राप्नोति ॥ ३३० ॥

अन्यदपि तारकारिमिति । अङ्के उत्सङ्गे “उत्सङ्ग- चिह्नयोरङ्कः” इत्यमरः । तारकारिं तारकासुरस्य शत्रुं स्कन्दं, मस्तके च तारकस्य, तारकानां नक्षत्राणां च अधिपं चन्द्रं च वहन्धारयन् तथा सुदृशं शोभनां दृष्टि, सुष्ठु शोभने दृशौ लोचने यस्याः सा तां पार्वतीं च अङ्गीकुर्वन् स्वीकुर्वन् वामभागेऽर्धाङ्गीकुर्वन्नित्यपि च, अ- लीके ललाटे अप्रियस्थले च “अलीकमप्रियेऽपि स्याद्गोध्यसत्ये नपुंसकम् । ” इति मेदिनी । “ ललाटमलिकं गोधिः” इत्यमरश्च । अक्षि नेत्रं यस्य सः अयं शिवः विभाति विरुद्धं प्रकाशते, विशेषेण दीप्यते इति चापि ॥ ३३१ ॥

पुनः समाधत्ते — किमिति । एभिः शब्दश्लेषैकशरणैः शब्दश्लेषैकावलम्बैः दूषणैर्दोषैः किम् ? किन्तु अस्य प्रसिद्धस्य मृत्युञ्जयस्य शिवस्य वदान्यत्वं दातृत्वं विश्वस्तुत्यं सर्वैरपि स्तोतुं योग्यं, अत एव असदृशम् अन्यादृशम् अनन्यसाधारणमिति यावत् । अस्तीति शेषः। खलु निश्चयेन ॥ १३७& ॥

विश्वास-प्रस्तुतिः

दीर्घायुर्मुनिसूनवे स्म ददते दिव्यं तथाऽभीष्टदम्
प्रख्याताय भगीरथाय भगवत्पादामृतं प्राददात् ॥
पापेभ्योऽपि21 च बाणपङ्क्तिवदनप्रेष्ठेभ्य22 इष्टं फलम्
प्रादात्तस्य शिवस्य भाति जगदाह्रादाय वादान्यकम् ॥ ३३२ ॥
कृ॰ - तदेतद्व्याहतं23 भाषितम् । यन्महादेवस्य वादान्यकं जगदाह्लादायेति24 ॥ १३८& ॥
यतः
दत्त्वा वरं दानवराक्षसेभ्यो विश्वस्य च स्वस्य च यो विषादम् ॥
सम्पादयामास शशाङ्कमौलिंर्दातृत्वमेतस्य25 तवैव हृद्यम् ॥ ३३३ ॥
वि॰ – कुटिलधिषण, गुणमपि दोष इति घोषयति भवान् ! ॥ १३९& ॥

मूलम्

दीर्घायुर्मुनिसूनवे स्म ददते दिव्यं तथाऽभीष्टदम्
प्रख्याताय भगीरथाय भगवत्पादामृतं प्राददात् ॥
पापेभ्योऽपि21 च बाणपङ्क्तिवदनप्रेष्ठेभ्य22 इष्टं फलम्
प्रादात्तस्य शिवस्य भाति जगदाह्रादाय वादान्यकम् ॥ ३३२ ॥
कृ॰ - तदेतद्व्याहतं23 भाषितम् । यन्महादेवस्य वादान्यकं जगदाह्लादायेति24 ॥ १३८& ॥
यतः
दत्त्वा वरं दानवराक्षसेभ्यो विश्वस्य च स्वस्य च यो विषादम् ॥
सम्पादयामास शशाङ्कमौलिंर्दातृत्वमेतस्य25 तवैव हृद्यम् ॥ ३३३ ॥
वि॰ – कुटिलधिषण, गुणमपि दोष इति घोषयति भवान् ! ॥ १३९& ॥

बाल-कृष्णः

तदेवोपपादयति – दीर्घायुरिति । यः शङ्करः मुनेः मृकण्डोः सूनवे पुत्राय मार्कण्डेयाय दीर्घायुः चिरञ्जीवित्वं ददते स्म ददौ । ’ दद दाने’ इत्यस्माद्धातोर्लटि रूपम् । तथा प्रख्याताय स्वचारित्र्यप्रसिद्धाय भगीरथाय एतन्नाम्ने राज्ञे अभीष्टदम् इच्छितफलप्रदं दिव्यं भगवतो विष्णोः पादसम्बन्धि अमृतं जलं गङ्गारूपं प्राददाद् दत्तवान् । तथा बाणः बलिपुत्रः पङ्क्तिवदनः रावणश्च तौ प्रष्ठौ मुख्यौ येषु तेभ्यः पापेभ्यः पापरूपेभ्यो दैत्येभ्योऽपि, इष्टमभीष्टं फलं प्राददात् समर्पितवान् । तस्य शिवस्य वादान्यकं दातृत्वं जगतः आह्रादाय आनन्दाय भाति विराजते ॥ ३३२ ॥

पुनरपि दोषमाह - तदेतदिति । तदेतत् त्वयोक्तं भाषितं व्याहतं व्याघातरूपदोषयुक्तं भवति । किं तत् । यन् महादेवस्य वादान्यकं जगतः आह्लादाय इत्युक्तं तत् ॥ १३८& ॥

कथं व्याहतं भवतीत्येतदेवोपपादयति - दत्त्वेति । यः शशाङ्कमौलिः शिवः दानवा दैत्याश्च राक्षसाश्च तेभ्यः वरम् इच्छितफलप्राप्तिरूपं दत्त्वा विश्वस्य स्वस्य च विषादं दुःखं सम्पादयामास । रावणादिसदृशेभ्यो वरदानाज् जगतः भस्मासुरादिसदृशेभ्यश्च स्वस्यापि दुःखोत्पादनात् । तस्मादेतस्य शिवस्य दातृत्वं तवैव हृद्यं मनोहरं, न तु सर्वस्येत्यर्थः ॥ ३३३ ॥

कुटिलेति । कुटिला वा धिषणा बुद्धिर्यस्य तत्सम्बुद्धौ हे कुटिलधिषण, भवान् गुणमपि दोष इति घोषयति उच्चारयति ॥ १३९&॥

विश्वास-प्रस्तुतिः

तथाहि-
दैत्येभ्यो न वरान् स दास्यति26 यदि त्र्यक्षो मुहुस्तर्हि ते
नाशक्ष्यन्भुवनानि27 पेष्टुमुदयं नाप्स्यद्दया शार्ङ्गिणः ॥
नोदायिष्यत मानुषादिषु हरिर्नो सेतु - गीतादिकम्
प्रारप्स्यद्भगवान्28 भवार्णवममी नालङ्घयिष्यन्नराः ॥ ३३४ ॥
किञ्च-
पम्पातरङ्गशिशिरानिलडिम्भजात-29
कम्पाम्रनिष्पतितपुष्परसाभिषिक्तः ॥
सम्पादयत्यतुलसम्पदमर्थिनोऽनु-
कम्पासुधाम्बुधिरयं पतिरम्बिकायाः ॥ ३३५ ॥
पुनर्निरीक्ष्य30 सश्लाघम्-
अल्पोऽपि काञ्च्यामावासादासादयति गौरवम् ॥
यत एतत्पुरस्थाणुर्गिरीश इति गीयते ॥ ३३६ ॥

मूलम्

तथाहि-
दैत्येभ्यो न वरान् स दास्यति26 यदि त्र्यक्षो मुहुस्तर्हि ते
नाशक्ष्यन्भुवनानि27 पेष्टुमुदयं नाप्स्यद्दया शार्ङ्गिणः ॥
नोदायिष्यत मानुषादिषु हरिर्नो सेतु - गीतादिकम्
प्रारप्स्यद्भगवान्28 भवार्णवममी नालङ्घयिष्यन्नराः ॥ ३३४ ॥
किञ्च-
पम्पातरङ्गशिशिरानिलडिम्भजात-29
कम्पाम्रनिष्पतितपुष्परसाभिषिक्तः ॥
सम्पादयत्यतुलसम्पदमर्थिनोऽनु-
कम्पासुधाम्बुधिरयं पतिरम्बिकायाः ॥ ३३५ ॥
पुनर्निरीक्ष्य30 सश्लाघम्-
अल्पोऽपि काञ्च्यामावासादासादयति गौरवम् ॥
यत एतत्पुरस्थाणुर्गिरीश इति गीयते ॥ ३३६ ॥

बाल-कृष्णः

दैत्येभ्य इति । सः त्रीणि अक्षीणि नेत्राणि यस्य सः शिवः दैत्येभ्यः वरान् यदि न दास्यति, तर्हि ते दैत्याः मुहुर्वारंवारं भुवनानि त्रीन् लोकान् पेष्टुं चूर्णयितुं नाशक्ष्यन् समर्था नाभविष्यन्, ततश्च शार्ङ्गिणो विष्णोः दया उदयमुत्पत्तिं नाप्स्यन् न प्राप्स्यत् । ततोऽपि मानुषादिषु आदिशब्देन मत्स्य वराहादीनां ग्रहणम् । हरिः श्रीविष्णुः नोदायिष्यत न प्रकटोऽभविष्यत् ततः भगवान् सेतुः रामावतारे लङ्कागमनसमये समुद्रे रचितः, गीता कृष्णावतारे भक्तमर्जुनं प्रति कथिता भगवद्गीता च ते आदी यस्य तत् सेतुगीतादिकं, नो प्रारप्स्यन् नारचयिष्यत् । भवतु नाम तथा, का वा हानिरित्याशङ्कायामाह — अमी नरा मनुष्याः भवार्णवं संसारसमुद्रं नालङ्घयिष्यन् । अत्र “लिङ्निमित्ते लृङ् -" इत्यादिसूत्रेण शकआपॢ- उदाङ्पूर्वाय- प्राङ्पूर्वरभ - लघिधातुभ्यः क्रियातिपत्तौ लृङ् । तत्रायतेरात्मनेपदम् । पदातेस्तु ऌडे- व । क्वचित् तत्र ’ वरानदास्यत’ इत्यपि पाठान्तरं दृश्यते ॥ ३३४ ॥

पम्पेति । पम्पा नाम श्रीमदेकाम्रेश्वरसमीपस्थं सरः तस्य तरङ्गैर्लहरीभिः शिशिराः शीतला ये अनिलस्य वायोः डिम्भाः शिशवः मन्दवायव इत्यर्थः । तैः जातः कम्पो येषां ते ये आम्रा रसालवृक्षाः तेभ्यः निष्पतितः निर्गलितो यः पुष्परसो मकरन्दः तेन अभिषिक्तः, अनुकम्पा दया एव सुधा अमृतं तस्याः अम्बुधिः समुद्रः अपरिमितदयावानित्यर्थः । अयमम्बिकायाः पतिः श्रीमदेकाम्रेश्वरः अर्थिनः याचकजनसमूहस्य अतुलां सम्पदं सम्पादयति ॥ ३३५ ॥

अल्पोऽपीति । अल्पोऽपि पदार्थः काञ्चयां नगर्यामावासाद्वसतेर्हेतोः गौरवं महत्त्वम् आसादयति सम्पादयति । यतो यस्मात् कारणाद् एतस्मिन् काञ्चीसञ्ज्ञके पुरे नगरे तिष्ठतीति तत्स्थः स चासावणुश्च एतत्पुरस्थाणुः अणुमात्रः, एतस्मिन् पुरे स्थाणुः शिवः श्रीमदेकाम्रेश्वरसञ्ज्ञकश्च, गिरीशः पर्वताधिपः कैलासाधिपश्च इत्येवम्प्रकारेण गीयते स्तूयते ॥ ३३६ ॥-

विश्वास-प्रस्तुतिः

कृशानुः — अन्योन्यविरुद्धस्वभावाभ्यां31 देवाभ्यामाक्रान्तामेनां नग-
रीं किं विनौषि32 ? ॥ १४० ॥
देवौ द्वावधिकाञ्चि पश्य लसतः प्राची - प्रतीच्याशयो-33
स्तत्रैकः कुरुते विनायकमधश्चित्रं पुरश्चापरः ॥
एको नित्यमनष्टमूर्तिरितरः ख्यातोऽष्टमूर्तिर्जग-
त्येको वारितवान् गजार्तिमचिराद्धत्ते34 गजार्तिं परः ॥३३७॥

मूलम्

कृशानुः — अन्योन्यविरुद्धस्वभावाभ्यां31 देवाभ्यामाक्रान्तामेनां नग-
रीं किं विनौषि32 ? ॥ १४० ॥
देवौ द्वावधिकाञ्चि पश्य लसतः प्राची - प्रतीच्याशयो-33
स्तत्रैकः कुरुते विनायकमधश्चित्रं पुरश्चापरः ॥
एको नित्यमनष्टमूर्तिरितरः ख्यातोऽष्टमूर्तिर्जग-
त्येको वारितवान् गजार्तिमचिराद्धत्ते34 गजार्तिं परः ॥३३७॥

बाल-कृष्णः

काञ्च्यामपि दोषोद्घाटनार्थमुपक्रामति – अन्योन्येति । अन्योन्यविरुद्धः परस्प- रविरोधी स्वभावः ययोस्ताभ्यां देवाभ्यां विष्णु-शिवाभ्यामाक्रान्तमधिष्ठितामेनां काञ्चीं नगरीं किं कथं विनौषि ? ‘णु स्तुतौ’ इत्यदादिकस्य रूपम् । “उतो- वृद्धिः –" इति वृद्धिः ॥ १४०& ॥

अन्योन्यविरुद्धस्वभावत्वमेवोपपादयति - देवाविति । द्वौ देवौ वरदराजैकाम्रेश्वरसञ्ज्ञौ विष्णु-शङ्करौ अधिकाञ्चि काञ्च्यां नगर्यां, विभक्त्यर्थेऽव्ययीभावः । " अव्ययीभावश्च" इति नपुंसकत्वम् । प्राची पूर्वा च प्रतीची पश्चिमा च ते आशे दिशौ तयोः, प्राच्यां प्रतीच्यां च दिशीत्यर्थः । लसतः शोभेते । तत्र तयोर्द्वयोर्मध्ये एकः वरदराजः वीनां पक्षिणां नायको गरुडस्तम् अधः अधोभागे कुरुते करोति, वाहनत्वेनेत्यर्थः । अपरः श्रीमदेकाम्रेश्वरस्तु विनायकं गणपतिं पुरः अग्रभागे कुरुते धत्ते, पुत्रत्वात् । एकः वरदराजः नित्यम् अनष्टमूर्तिः अष्टमूर्तिर्न भवति । वस्तुतस्तु नष्टा नाशं प्राप्ता मूर्तिः स्वरूपं यस्य सः तथा न भवतीति, अविनाशिस्वरूप इत्यर्थः । इतरः एकाम्रेश्वरश्च अष्टौ भूरादिपञ्चमहाभूतानि चन्द्र-सूर्य- यज्वानश्चेति त्रयः एवं मूर्तयः यस्य तथाभूतः जगति ख्यातः प्रसिद्धः । तथा एकः गजस्य सरःस्थगजेन्द्रस्य आर्ति पीडां नक्रकृताम् अचिरात् शीघ्रं वारितवान् । परः अन्यस्तु गजस्य गजासुरस्यार्तिं पीडां धत्ते करोति । अत्र भावदर्पणकृता ‘गजस्य आर्तिं चर्म धत्ते धारयति’ इति यदुक्तं तदविचाररमणीयमेव । आर्तिशब्दस्य चर्मवाचकत्वं क्वापि कोशादौ नोपलभ्यते । एतच्चित्रमाश्चर्यं पश्य । क्वचित् ’ रत्या ’ इति पाठान्तरं दृश्यते । तत्पक्षे अगजायाः हिमालयोत्पन्नायाः पार्वत्याः आर्तिं काममयीं पीडां रत्या सुरतेन वारितवान् इत्यर्थः । एतदेव पाठान्तरमाहत्य भावदर्पणकृता व्याख्यातम् । परं चैतस्मात् ’ धत्ते ’ इत्येव पाठान्तरं युक्तमिति भाति ’ वारितवान्’ इत्येतदपेक्षया तस्यैव स्वारस्यादित्याकलयन्तु सुधियः ॥ ३३७ ॥

विश्वास-प्रस्तुतिः

यद्वा-
काञ्चीनाम्नि पुरे सुरेन्द्रमहिते35 प्राक्पश्चिमोद्देशयो-
श्चित्रं दैवतयोश्चिरं निवसतो रीतिर्विरुद्धा मिथः ॥
एको हिद्विजराजमप्यधरयत्यन्यस्तमुत्तंसय-36
त्यङ्घ्रौ हन्त बिभर्ति कश्चिदपरः स्वे मूर्धनि स्वर्धुनीम् ॥ ३३८ ॥ विरुद्धदेवाक्रान्तकाञ्चीनगरसमागमाद्वारणधराधरोऽप्येवम्37 ॥ १४१& ॥
तथाहि-
भेत्ता38 गोप्ता च हरिर्महासवजुषो हिरण्यगर्भस्य ॥
भयकृदिभस्याभयकृन्मूलाञ्चलयोश्चकास्ति हस्तिगिरेः ॥ ३३९ ॥
अयं चापरो दोषः-
दरानुषङ्गं39 च गदान्वयं च त्यक्तुं जना ये निवसन्ति काञ्चयाम् ॥
दन्तावलाद्रीश्वरमाश्रितास्ते देहक्षये तौ नियतं भजन्ते ॥ ३४० ॥

मूलम्

यद्वा-
काञ्चीनाम्नि पुरे सुरेन्द्रमहिते35 प्राक्पश्चिमोद्देशयो-
श्चित्रं दैवतयोश्चिरं निवसतो रीतिर्विरुद्धा मिथः ॥
एको हिद्विजराजमप्यधरयत्यन्यस्तमुत्तंसय-36
त्यङ्घ्रौ हन्त बिभर्ति कश्चिदपरः स्वे मूर्धनि स्वर्धुनीम् ॥ ३३८ ॥ विरुद्धदेवाक्रान्तकाञ्चीनगरसमागमाद्वारणधराधरोऽप्येवम्37 ॥ १४१& ॥
तथाहि-
भेत्ता38 गोप्ता च हरिर्महासवजुषो हिरण्यगर्भस्य ॥
भयकृदिभस्याभयकृन्मूलाञ्चलयोश्चकास्ति हस्तिगिरेः ॥ ३३९ ॥
अयं चापरो दोषः-
दरानुषङ्गं39 च गदान्वयं च त्यक्तुं जना ये निवसन्ति काञ्चयाम् ॥
दन्तावलाद्रीश्वरमाश्रितास्ते देहक्षये तौ नियतं भजन्ते ॥ ३४० ॥

बाल-कृष्णः

पक्षान्तरेणापि तदेवोपपादयति — काञ्चीनाम्नीति । सुरेन्द्रेणेन्द्रेण महिते पूजिते काञ्चीनाम्नि पुरे नगरे, प्राक्पश्चिमोद्देशयोः पूर्वपश्चिम दिशोरित्यर्थः । चिरं बहुकालं निवसतोः वासं कुर्वतोः दैवतयोः वरदराजैकाम्रेश्वरयोः मिथः परस्परं विरुद्धा रीतिः आचारः । हि यस्माद् एकः वरदराजः द्विजराजं पक्षिराजं ब्राह्मणराजं चापि, अधरयति वाहनत्वेनाधरीकुरुते तिरस्करोति च । अन्यः एकाम्रेश्वरस्तु तं द्विजराजं चन्द्रमुत्तंसयति पूजयति शिरोभूषणत्वेन स्वीकरोति च । हन्तेत्याश्चयेम् । कश्चिदेकः स्वर्धुनीं गङ्गाम् अङ्घ्रौ चरणे बिभर्ति धारयति, अपरः स्वे मूर्धनि मस्तके च स्वर्धुनीं बिभर्ति । एतद्वा चित्रमाश्चर्यं पश्येति पूर्वेणान्वयः ॥ ३३८ ॥

अपि च विरुद्धेति । विरुद्धौ यौ देवौ वरदराजैकाम्रेश्वरौ ताभ्यामाक्रान्तमधिष्ठितं यत्काञ्चीनगरं तस्य समागमात् सम्बन्धाद्धेतोः वारणधराधरः हस्तिशैलोपि एवं विरुद्धाचार एव ॥ १४१& ॥

भेत्तेति । अयं हरिः श्रीवरदराजरूपः महांश्चासौ आसवः मद्यं महांश्चासौ सवो यज्ञश्च तं जुषत इति तज्जुषः नित्यं मद्यपायिनोऽश्वमेधादिसदृश महायज्ञकर्तुश्चेत्यर्थः । हिरण्यं चासौ गर्भश्च तस्य हिरण्यकशिपोरित्यर्थः । हिरण्यगर्भस्य ब्रह्मणश्च भेत्ता विनाशकर्ता गोप्ता रक्षिता च । तथा इभस्य हिरण्यकशिपुरूपस्य गजेन्द्रस्य च भयकृद् भीत्युत्पादकः, अभयकृच्च भयविनाशयिता च हस्तिगिरेः मूलाञ्चलयोः मूले शिखरे चेत्यर्थः । चकास्ति प्रकाशते ॥ ३३९ ॥

अपरमपि दोषं कथयति - दरानुषङ्गमिति । ये जनाः दरस्य भयस्य अनुषङ्गं सम्बन्धं, गदस्य रोगस्य अन्वयं स्पर्शं च त्यक्तुं हातुं काञ्च्यां नगर्यां वसन्ति, ते जनाः दन्तावलाद्रीश्वरं हस्तिशैलाधिपतिं वरदराजमित्यर्थः । “दन्ती दन्तावलो हस्ती" इत्यमरः । आश्रिताः सन्तः, देहक्षये देहावसाने जाते सति तौ दरानुषङ्गगदान्वयौ भगवत्सारूप्यात् पाञ्चजन्याभिधशङ्खस्य कौमोदकीत्याख्यगदायाश्च सम्बन्धमित्यर्थः । नियतं नियमेन निश्चयेनेत्यर्थः । भजन्ते सेवन्ते ॥ ३४० ॥

विश्वास-प्रस्तुतिः

वि॰ - - सखे मैवं सम्भाषिष्ठाः, यत एकरूपदैवतमिदं नगरमिति समर्थ्यते । शृणु तावत् ॥ १४२& ॥
फणिपतिसरस्फुरन्तीभनायकधरोत्तमाङ्गशोभितनुः ॥
भवहरिसञ्ज्ञा40 काञ्च्योः पूर्वापरयोर्हि देवता जयति ॥ ३४१ ॥
अन्यच्चास्य नगरस्य भूषणमेव न तु दूषणम् ॥ १४३& ॥
इत्यन्यत्र दृष्टिमादाय सानन्दम् —
अहो खलु ममाद्य पचेलिमं भागधेयम् ॥ १४४& ॥
यतः-
सुरयौवतोपगीतः प्रातः41 पद्माननो मुनिध्यातः ॥
व्यासकृतौ यः ख्यातः पाण्डवदूतः स दृक्पथं नीतः ॥ ३४२ ॥

मूलम्

वि॰ - - सखे मैवं सम्भाषिष्ठाः, यत एकरूपदैवतमिदं नगरमिति समर्थ्यते । शृणु तावत् ॥ १४२& ॥
फणिपतिसरस्फुरन्तीभनायकधरोत्तमाङ्गशोभितनुः ॥
भवहरिसञ्ज्ञा40 काञ्च्योः पूर्वापरयोर्हि देवता जयति ॥ ३४१ ॥
अन्यच्चास्य नगरस्य भूषणमेव न तु दूषणम् ॥ १४३& ॥
इत्यन्यत्र दृष्टिमादाय सानन्दम् —
अहो खलु ममाद्य पचेलिमं भागधेयम् ॥ १४४& ॥
यतः-
सुरयौवतोपगीतः प्रातः41 पद्माननो मुनिध्यातः ॥
व्यासकृतौ यः ख्यातः पाण्डवदूतः स दृक्पथं नीतः ॥ ३४२ ॥

बाल-कृष्णः

अथ समाधत्ते - सख इति । हे सखे, मैवं सम्भाषिष्टाः पूर्वोक्तदोषयुक्त भाषणं मा कुरु । यतो यस्मात्कारणाद् एकरूपे अभिन्नस्वरूपे दैवते वरदराज - एकाम्रेश्वररूपे यस्मिन् तथाभूतमिदं काञ्चीसञ्ज्ञकं नगरम् इत्येवं समर्थ्यते साध्यते । मयेति शेषः ॥ १४२& ॥

तमेव प्रकारं दर्शयति - फणिपतीति । फणिपतिसरसि तन्निकटवर्तिनि अनन्तसरोवरे स्फुरन्ती प्रकाशमाना अर्थाद्वरदराजरूपा, फणिपतीनां सर्पाधिपानां सरैः हारैः स्फुरन्तीति च एकाम्रेश्वरसञ्ज्ञक शिवरूपेत्यर्थः । इभनायकधरस्य हस्तिशैलस्य उत्तमाङ्गे शिरसि शिखरे इत्यर्थः । भानां नक्षत्राणां नायकश्चन्द्रः तस्य धरेण धारकेणोत्तमाङ्गेन शिरसा च शोभिनी तनुः शरीरं यस्याः सा भवः हरिश्च इति सञ्ज्ञे नामनी, भवं संसारं हरन्ति तथाभूताश्च सञ्ज्ञाः वरदराज - राम कृष्णादिनामानि च यस्याः सा देवता पूर्वा चापरा च तयोः विष्णु - शिवसञ्ज्ञयोरित्यर्थः । काञ्चनयोः जयति हि जयत्येव । एवं चेदं नगरमेकरूपदैवतमेवेति भावः ॥ ३४१ ॥

अथ तत्रस्थपार्थसारथिभगवद्वर्णनं सूचयन्नाह — अन्यच्चेति । अस्य नगरस्य काञ्चीनगरस्य भूषणमेव ॥ १४३& ॥

अहो इति । आश्चर्ये । ममाद्य पचेलिमं फलाभिमुखं " तव्यत्तव्यानीयरः" इति सूत्रस्थेन " केलिमर उपसङ्ख्यानम्” इति वार्तिकेन केलिम प्रत्ययः । भाग्यं दैवम् ॥ १४४& ॥

सुरेति । सुरयौवतेन देवस्त्रीसमूहेन । समूहार्थेऽण् । “गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे" इत्यमरः । सुरयुवतीनां समूह इति विग्रहः । उपगीतः प्रशंसितः, प्रातः प्रभातकाले मुनिभिः सनकादिभिः ध्यातः अनन्यमनसा चिन्तितः, यश्च व्यासस्य कृतौ महाभारते ख्यातः नायकत्वेन प्रसिद्धः सः पद्माननः कमलमुखः पाण्डवानां दूतः भगवान् श्रीकृष्णः, दृक्पथं दृष्टिपथं नीतः प्रापितः । मया दृष्टः इत्यर्थः ॥ ३४२ ॥

विश्वास-प्रस्तुतिः

कृ॰ - अनुचितकर्मासौ किमर्थमनुवर्ण्यते ॥ १४५& ॥
सकलजगतामीशानोऽपि स्वयं विगतश्रिया –
मिदमनुचितं दूतो जातो यदेष पृथाभुवाम् ॥
किमिह महतां हृद्या खद्योतपोतनिकेतने
चिरमधिपतेर्भासां दासानुदासतया स्थितिः ॥ ३४३ ॥
वि॰- पुरोभागिन्, भगवद्गुणेषु दोषमनीषया भवानेव दुष्यति ॥ १४६& ॥
श्रूयतामेतत्-
कवित्वस्य गाम्भीर्यमौदार्यमृद्धेः प्रभुत्वस्य शौर्यं गुरुत्वस्य विद्याम् ॥
महावंश्यतायाः सदाचारपूर्तिं महत्त्वस्य सौलभ्यमाकल्पमाहुः ॥ ३४४॥

मूलम्

कृ॰ - अनुचितकर्मासौ किमर्थमनुवर्ण्यते ॥ १४५& ॥
सकलजगतामीशानोऽपि स्वयं विगतश्रिया –
मिदमनुचितं दूतो जातो यदेष पृथाभुवाम् ॥
किमिह महतां हृद्या खद्योतपोतनिकेतने
चिरमधिपतेर्भासां दासानुदासतया स्थितिः ॥ ३४३ ॥
वि॰- पुरोभागिन्, भगवद्गुणेषु दोषमनीषया भवानेव दुष्यति ॥ १४६& ॥
श्रूयतामेतत्-
कवित्वस्य गाम्भीर्यमौदार्यमृद्धेः प्रभुत्वस्य शौर्यं गुरुत्वस्य विद्याम् ॥
महावंश्यतायाः सदाचारपूर्तिं महत्त्वस्य सौलभ्यमाकल्पमाहुः ॥ ३४४॥

बाल-कृष्णः

तं दूषयति-अनुचितेति । अनुचितानि अयोग्यानि कर्माणि यस्य सः असौ पाण्डवदूतः किमर्थमनुवर्ण्यते स्तूयते । त्वयेति शेषः ॥ १४५& ॥

अनुचितकर्मत्वमेव प्रतिपादयति–सकलजगतामिति । यद् यस्मात् कारणाद् एष श्रीकृष्णः स्वयं सकलजगतां त्रयाणामपि लोकानामित्यर्थः । ईशानोऽधिपतिरपि सन्, विगता कपटद्यूते विनष्टा श्री राज्याद्यैश्वर्यं येषां तेषां पृथाभुवां कुन्तीपुत्राणां पाण्डवानां दूतः जातः इदमेव अनुचितमयोग्यम् । अत्र दृष्टान्तमाह- भासां कान्तीनामधिपतेः सूर्यस्य खद्योतपोतानां ज्योतिरिङ्गणशिशूनां निकेतने गृहे । " यानपात्रे शिशौ पोतः " इत्यमरः । दासानां सेवकानाम् अनुदासः तस्य भावो दासानुदासता तया तद्रूपेणेत्यर्थः । स्थितिः सापि चिरं बहुकालपर्यन्तम् इह लोके महतां किं हृद्या मनोहरा भवति ? अपि तु नैवेत्यर्थः ॥ ३४३ ॥

पुरोभागिन्निति । हे पुरोभागिन् दोषैकदर्शिन्, भगवतो गुणेषु दोषमनीषया दोषबुद्ध्या भवानेव दुष्यति ॥ १४६& ॥

कवित्वस्येति । कवित्वस्य काव्यरचनस्य गाम्भीर्यम् अर्थबाहुल्यालङ्कारादिसम्पन्नत्वेन गभीरत्वम् आकल्पं भूषणमाहुः । ऋद्धेः सम्पत्तेः औदार्य दातृत्वम् आकल्पं, प्रभु- त्वस्य आधिपत्यस्य शौर्य शूरत्वं गुरुत्वस्य आचार्यत्वस्य विद्यां महावंश्यतायाः सद्वंशोत्पन्नत्वस्य सदाचारेण सत्कर्माचरणेन पूर्ति परिपूर्णतां महत्त्वस्य सर्वजन श्रेष्ठ- त्वस्य सौलभ्यं सुलभत्वं सर्वेषामपि जनानां सहजदर्शनत्वमिति यावत् । सर्वत्र आकल्पमित्यनुसन्धेयम् ॥ ३४४ ॥

विश्वास-प्रस्तुतिः

इत्यपरत्र विमानमानयन् सानन्दम् ।
अत्र हि—
विकचरुचिरपुण्डरीकषण्डद्युतिमदमोचनलोचनप्रभावः ॥
जयति विजयराघवः स देवः42 शुचितरगृध्रसरोवरोपकण्ठे ॥ ३४५ ॥
किञ्च-
सम्पातिसोदरसरस्तटसम्प्ररूढो
भात्यद्भुतो विजयराघवपारिजातः ॥
शाखाततेरुपरि सद्भिरुदीक्ष्यते यो
यस्याध एव सकलः सुमनः प्रपञ्चः ॥ ३४६ ॥
पुनः सभक्तिप्रकर्षं जनानुद्दिश्य -
भो भो भुक्तिमुक्तिप्रेप्सवः इदं शृण्वन्तु भवन्तः ॥ १४७ ॥

मूलम्

इत्यपरत्र विमानमानयन् सानन्दम् ।
अत्र हि—
विकचरुचिरपुण्डरीकषण्डद्युतिमदमोचनलोचनप्रभावः ॥
जयति विजयराघवः स देवः42 शुचितरगृध्रसरोवरोपकण्ठे ॥ ३४५ ॥
किञ्च-
सम्पातिसोदरसरस्तटसम्प्ररूढो
भात्यद्भुतो विजयराघवपारिजातः ॥
शाखाततेरुपरि सद्भिरुदीक्ष्यते यो
यस्याध एव सकलः सुमनः प्रपञ्चः ॥ ३४६ ॥
पुनः सभक्तिप्रकर्षं जनानुद्दिश्य -
भो भो भुक्तिमुक्तिप्रेप्सवः इदं शृण्वन्तु भवन्तः ॥ १४७ ॥

बाल-कृष्णः

अथ विजयराघववर्णनमुपसूचयन्नाह - विकचेति । विकचं विकासितम् अत एव रुचिरं सुन्दरं यत्पुण्डरीकषण्डं श्वेतकमलवृन्दं “ पुण्डरीकं सिताम्भोजम्" इत्यमरः । तस्य द्युतिमदं कान्तिगर्वं मोचयतीति तथाभूतः लोचनयोः प्रभावो यस्य सः, सः त्रिलोकीविश्रुतः विजयराघवो देवः शुचितरस्य अतीव पवित्रस्य गृध्रसरोवरस्य एतदाख्य तीर्थस्य उपकण्ठे अन्तिके “उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्” इत्यमरः । जयति सर्वोत्कर्षेण वर्तते ॥ ३४५ ॥

सम्पातीति । सम्पातेः सोदरस्य बन्धोर्जटायुषः सम्बन्धि सरः गृध्रतीर्थमित्यर्थः । तस्य तटे तीरे सम्प्ररूढः उत्पन्नः अद्भुतः आश्चर्योत्पादकः विजयराघवः एतत्सञ्ज्ञको भगवानेव पारिजातः वृक्षः भाति शोभते । अद्भुतत्वमेव प्रपञ्चयति-लोके हि वृक्षस्योपरितनभागे शाखाः सम्भवन्ति । यः अयं विजयराघवस्तु सद्भिः सज्जनैः शाखानां वृक्षस्कन्धानां वेदशाखानाम् आश्वलायनापस्तम्ब - बौधायनादीनां च ततेः उपरि ऊर्ध्वभागे उपनिषत्सु च उदीक्ष्यते अवलोक्यते । तथा लोके वृक्षशाखाग्रे पुष्पाण्युद्भवन्ति । यस्यास्य विजयराघवस्य तु, अध एवाधोभागे एव सकलः सम्पूर्णः सुमनसां पुष्पाणां प्रपञ्चः विस्तारः उदीक्ष्यते अवलोक्यते । एतेन " ऊर्ध्वमूलमधः शाखमश्वत्थं प्राहुरव्ययम् ।" इति भगवद्गीतोक्तार्थः स्मारितः । तत्र अश्वत्थरूपकमत्र च पारिजातरूपकमियानेव भेदः ॥ ३४६ ॥

भो भो इति । भो भो इति सम्बोधने । भुक्तिश्च मुक्तिश्च ते प्रकर्षेण ईप्सन्ति इच्छन्ति ते तथाभूता हे जनाः इदं वक्ष्यमाणं शृण्वन्तु भवन्तः ॥ १४७& ॥

विश्वास-प्रस्तुतिः

विश्रुताश्रितवात्सल्यं वीरं विजयराघवम् ॥
नमस्कुरुत यो गृध्रं समस्कुरुत दाहतः43 ॥ ३४७ ॥
अत्र च गृध्रपतिक्षेत्रे44 विश्वप्रसिद्धा काचिद्वैचित्री ॥ १४८& ॥
वनयार्थनया समागताभिस्तरुणीभिः परिभर्जिताश्च मुद्गाः ॥
दृढमङ्कुरमत्र देवशक्त्या सममासां पुलकाङ्कुरैः फलन्ति ॥ ३४८ ॥
कृ॰-निजरूपमहिमाननुरूपस्थितिरसौ विजयराघवः किमीड्यते ? ॥ १४९& ॥
शुकस्तुतो हंसमयूरवाहमुखप्रगीतो गरुडासनोऽसौ ॥
क्षीराब्धितीरावसथोऽपि वासं करोत्यहो गृध्रसरोऽन्तिकेऽस्मिन् ॥ ३४९ ॥

मूलम्

विश्रुताश्रितवात्सल्यं वीरं विजयराघवम् ॥
नमस्कुरुत यो गृध्रं समस्कुरुत दाहतः43 ॥ ३४७ ॥
अत्र च गृध्रपतिक्षेत्रे44 विश्वप्रसिद्धा काचिद्वैचित्री ॥ १४८& ॥
वनयार्थनया समागताभिस्तरुणीभिः परिभर्जिताश्च मुद्गाः ॥
दृढमङ्कुरमत्र देवशक्त्या सममासां पुलकाङ्कुरैः फलन्ति ॥ ३४८ ॥
कृ॰-निजरूपमहिमाननुरूपस्थितिरसौ विजयराघवः किमीड्यते ? ॥ १४९& ॥
शुकस्तुतो हंसमयूरवाहमुखप्रगीतो गरुडासनोऽसौ ॥
क्षीराब्धितीरावसथोऽपि वासं करोत्यहो गृध्रसरोऽन्तिकेऽस्मिन् ॥ ३४९ ॥

बाल-कृष्णः

किं तदित्यपेक्षायामाह — विश्रुतेति । यो विजयराघवः गृध्रं जटायुषं दाहतः दहनेन समस्कुरुत सञ्चस्कार । तस्य दाहादिसंस्कारांश्चक्रे इत्यर्थः । " सम्परिभ्यां करो - तौ भूषणे” इति सुडागमः स च " अडभ्यासव्यवायेऽपि” इत्युक्तत्वात् तद्व्यवधा- नेऽपि । अत एव विश्रुतं प्रसिद्धम् आश्रितेषु भक्तेषु वात्सल्यं प्रेम यस्य सः तं वीरं शौर्यादिगुणयुक्तं विजयराघवं नमस्कुरुत । यूयं सर्वे इति शेषः ॥ ३४७॥

अत्र चेति । अत्र गृध्रपतिक्षेत्रे जटायुषस्तीर्थे इत्यर्थः । विश्वप्रसिद्धा काचिच् चित्ताह्रादकर्त्री वैचित्री आश्चर्यम् ॥ १४८& ॥

वैचित्रीमेवाह – तनयार्थनयेति । अत्र विजयराघवक्षेत्रे तनयानां पुत्राणाम् अर्थनया प्रार्थनया समागताभिः प्राप्ताभिः तरुणीभिः वन्ध्यस्त्रीभिः परिभर्जिताः भक्षणार्थे पाचिताः मुद्गाः देवस्य विजयराघवस्य शक्त्या सामर्थ्येन आसां स्त्रीणां पुलकाङ्कुरैः रोमाञ्चोद्गमैः समं सह, दृढमत्यर्थं यथा तथा अङ्कुरं फलन्ति उत्पादयन्ति । भर्जितधान्यस्य कुत्राप्यङ्कुरासम्भवात्तदेवात्राश्चर्यमिति भावः ॥ ३४८ ॥

निजेति । निजस्य आत्मनः रूपस्य यो महिमा माहात्म्यं तस्य अननुरूपा अयोग्या स्थितिः रीतिर्यस्य सः असौ विजयराघवः किं कुतो हेतोः ईड्यते स्तूयते ? । त्वयेति शेषः ॥ १४९& ॥

कथं वाननुरूपस्थितिरित्याकाङ्क्षायामाह - शुकस्तुत इति । यो विजयराघवः शुकेन कीरेण शुक्राचार्येण योगिना च स्तुतः, हंसश्च मयूरश्च तौ वाहौ वाहने ययोस्तौ ब्रह्म-षडाननौ मुखं मुख्यौ येषां तैरिन्द्रादिदेवैः प्रगीतः प्रकर्षेण वर्णितः, पुनश्च गरुडासनः क्षीराब्धितीरे क्षीरसागरतीरे आवसथं स्थानं यस्य तथाभूतोपि सन्, असौ विजयराघवः अस्मिन् गृध्रसरसः गृध्रतीर्थस्य अन्तिके तीरे वासं करोति । अहो अतीवायुक्तमेतदित्यर्थः । श्लेषमूलकविरोधाभासोऽत्रालङ्कारः । भक्तत्वाद्गृध्रेऽपि वात्सल्यप्रतीतेश्चालङ्कारस्य ध्वनिमात्ररूपत्वम् ॥ ३४९ ॥

वि॰ – तदेतद्दयापयोनिधेरस्य भूषणमेव न तु दूषणम्45 ॥ १५०& ॥
तत्तादृगुत्तमपदे तमसः परस्तादस्तामयैरतुलसूरिभिरर्चितोऽपि46
अत्राविरस्ति47 हरिरेष चिरं नराणां दृष्टिं कृतार्थयितुमेव दृढानुकम्पः ॥ ३५० ॥


  1. आविरास्ते ↩︎ ↩︎

  2. च आह्वय ↩︎ ↩︎

  3. न्निह ↩︎ ↩︎

  4. अङ्गानुषङ्गामति, अङ्गानुषङ्गोदितशीतबाधां ↩︎ ↩︎

  5. तदन्वयेन ↩︎ ↩︎

  6. सुरसरिद्वरशिशिरशिरस ↩︎ ↩︎

  7. मुधा ↩︎ ↩︎

  8. तोयेन ↩︎ ↩︎

  9. हरस्य ↩︎ ↩︎

  10. अस्त्वेवमथाप्यन्यदप्यनुयुज्यते ↩︎ ↩︎

  11. इदं पद्यं नोपलभ्यते आदर्शपुस्तके, अन्येषु पुस्तकेषु च । केवलं मुद्रितैकस्मिन्नत्रत्यपुस्तके दृश्यते । ↩︎ ↩︎

  12. लाभो ↩︎ ↩︎

  13. अन्यदल्प ↩︎ ↩︎

  14. पदादुदीता ↩︎ ↩︎

  15. वन ↩︎ ↩︎

  16. व्यवधि ↩︎ ↩︎

  17. करस्वी ↩︎ ↩︎

  18. जडौ ↩︎ ↩︎

  19. दोषै ↩︎ ↩︎

  20. अन्यादृशम् ↩︎ ↩︎

  21. पापिभ्योपि ↩︎ ↩︎

  22. प्रेष्ठेभ्य ↩︎ ↩︎

  23. आहतं ↩︎ ↩︎

  24. आह्लादायति ↩︎ ↩︎

  25. मौले ↩︎ ↩︎

  26. अदास्यत यदि ↩︎ ↩︎

  27. भुवनस्य ↩︎ ↩︎

  28. प्राभन्त्स्यत् ↩︎ ↩︎

  29. कम्पा ↩︎ ↩︎

  30. पुरोनिरीक्ष्य ↩︎ ↩︎

  31. अन्योन्यविरुद्धधर्मस्वभावाभ्यां ↩︎ ↩︎

  32. विस्तौषि ↩︎ ↩︎

  33. प्रतीच्यन्तयोः ↩︎ ↩︎

  34. द्रत्या ↩︎ ↩︎

  35. सुरेश ↩︎ ↩︎

  36. यद्वि ↩︎ ↩︎

  37. भूधरो ↩︎ ↩︎

  38. ‘छेत्ता गोप्ता च हरो हरिः ↩︎ ↩︎

  39. दारा ↩︎ ↩︎

  40. हर ↩︎ ↩︎

  41. स्फुटतरपद्मासनामुनि ↩︎ ↩︎

  42. एषः ↩︎ ↩︎

  43. राघवः ↩︎ ↩︎

  44. गृध्रसरस्तीरे ↩︎ ↩︎

  45. एतत् क्वचिन्नास्ति ↩︎

  46. दस्तामयेऽप्यतुल ↩︎

  47. अत्राविरास ↩︎