२५ श्रीकामाक्षीदेवीवर्णनम्

विश्वास-प्रस्तुतिः

अथ श्रीकामाक्षीदेवीवर्णनम्॥

इति किञ्चिदन्तरमतिक्रम्य । अत्र हि-
काञ्चीनगरविभूषा कामाक्षी कल्पमञ्जरी भजताम् ॥
रक्षा सुरसेनानां राजति शर्वस्य1 सर्वस्वम् ॥ ३१२ ॥
निरूप्य सविस्मयानन्दं कामाक्षीमामन्त्र्य -
यस्य
दन्तश्रीस्तव दृश्यते यदि ततः कुन्दं न निन्दन्ति के
वक्त्रं यद्यभिलक्ष्यते बुधजनश्चन्द्रं न सन्द्रक्ष्यते ॥
दृष्टे2 दृष्टियुगे पुनर्न विनुयाद्बालोऽपि नीलोत्पलम्3
सूक्तिश्चेदनुभूयते मधुरता कामाक्षि का माक्षिके ॥ ३१३ ॥

मूलम्

अथ श्रीकामाक्षीदेवीवर्णनम्॥

इति किञ्चिदन्तरमतिक्रम्य । अत्र हि-
काञ्चीनगरविभूषा कामाक्षी कल्पमञ्जरी भजताम् ॥
रक्षा सुरसेनानां राजति शर्वस्य1 सर्वस्वम् ॥ ३१२ ॥
निरूप्य सविस्मयानन्दं कामाक्षीमामन्त्र्य -
यस्य
दन्तश्रीस्तव दृश्यते यदि ततः कुन्दं न निन्दन्ति के
वक्त्रं यद्यभिलक्ष्यते बुधजनश्चन्द्रं न सन्द्रक्ष्यते ॥
दृष्टे2 दृष्टियुगे पुनर्न विनुयाद्बालोऽपि नीलोत्पलम्3
सूक्तिश्चेदनुभूयते मधुरता कामाक्षि का माक्षिके ॥ ३१३ ॥

बाल-कृष्णः

काञ्चीति । काञ्चीनामकनगरस्य विभूषा अलङ्काररूपा, भजतां सेवमानानां जनानां कल्पमञ्जरी कल्पवृक्षस्य वल्लरिः, सुरसेनानां देवसैन्यानां रक्षा रक्षणकर्त्रीत्यर्थः । शर्वस्य शिवस्य सर्वस्वं सर्वद्रव्यं, एतादृशी कामाक्षी एतन्नामिका देवी राजति शोभते ॥ ३१२ ॥

दन्तश्रीरिति । हे कामाक्षि देवि, तव दन्तानां श्रीः शोभा यदि दृश्यते ततः तद्दर्शनात् कुन्दं माध्यकलिकां, के जनाः न निन्दन्ति ? अपि तु सर्व एव निन्दन्तीत्यर्थः । एवमुत्तरत्राप्यूह्यम् । तथा तव वक्त्रं मुखं यदि अभिलक्ष्यते दृश्यते, तदा बुधजनः ज्ञानी नरः चन्द्रं न सन्द्रक्ष्यते नैव पश्यति । तथा तव दृष्टियुगे लोचनयुग्मे दृष्टे सति । पुनः बालोऽपि किमुत प्राज्ञः नीलोत्पलं नीलकमलं न विनुयान् न स्तुयात् । तथा सुष्ठु मधुरा उक्तिः वाणी अनुभूयते श्रूयते चेत्, तदा माक्षिके मधुनि मधुरता का ? अपि तु नास्त्येवेत्यर्थः । एवं तव सौन्दर्यस्याग्रे सर्वमपि वस्तुजातं तुच्छमिति भावः । अत्र दन्तश्रीरित्याद्युपमेयैः प्रसिद्ध कुन्दाद्युपमानानां तिरस्कारप्रतीतेः प्रतीपालङ्कारः।" आक्षेप उपमानस्य प्रतीपमुपमेयता । तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धना" इति तल्लक्षणात् ॥ ३१३ ॥

विश्वास-प्रस्तुतिः

कृ॰ - यद्यपि विद्यते कामाक्ष्याः सर्वाभिनन्दनीयं सौन्दर्य तथापि मुधा तदिति प्रतिभाति ॥ १२३& ॥
तथाहि-
कान्तो विरूपाक्ष इति4 प्रतीतः कामस्य हन्ता गिरिराजपुत्र्याः ॥
स्तम्बेरमास्यस्तनयोऽपि तस्या लम्बोदरः किम्फलमाभिरूप्यम् ॥ ३१४ ॥
अनयोः खल्वम्बिका-त्र्यम्बकयोर्दाम्पत्यमननुरूपमिति व्यक्तमे-
तत् ॥ १२४& ॥
इयं हि सर्वमङ्गला स तु श्मशानमन्दिरो
विभाति हैमवत्यसौ स याति दिक्षु भिक्षुकः ॥
इयं तु कुङ्कुमाङ्किता स भस्मराशिरूषित-
स्त्वरालकुन्तला च सा जटाभिरेष भीषणः ॥ ३१५ ॥

मूलम्

कृ॰ - यद्यपि विद्यते कामाक्ष्याः सर्वाभिनन्दनीयं सौन्दर्य तथापि मुधा तदिति प्रतिभाति ॥ १२३& ॥
तथाहि-
कान्तो विरूपाक्ष इति4 प्रतीतः कामस्य हन्ता गिरिराजपुत्र्याः ॥
स्तम्बेरमास्यस्तनयोऽपि तस्या लम्बोदरः किम्फलमाभिरूप्यम् ॥ ३१४ ॥
अनयोः खल्वम्बिका-त्र्यम्बकयोर्दाम्पत्यमननुरूपमिति व्यक्तमे-
तत् ॥ १२४& ॥
इयं हि सर्वमङ्गला स तु श्मशानमन्दिरो
विभाति हैमवत्यसौ स याति दिक्षु भिक्षुकः ॥
इयं तु कुङ्कुमाङ्किता स भस्मराशिरूषित-
स्त्वरालकुन्तला च सा जटाभिरेष भीषणः ॥ ३१५ ॥

बाल-कृष्णः

यद्यपीति । यद्यपि कामाक्ष्याः सर्व त्वया वर्णितम् अभिनन्दनीयं प्रशंसनीयं सौन्दर्य सुन्दरत्वं विद्यते, तथापि तन्मुधा व्यर्थ " व्यर्थके तु वृथा मुधा" इत्यमरः । इति प्रतिभाति ॥ १२३& ॥

मुधात्वमेवाह - कान्त इति । गिरिराजस्य हिमालयस्य पुत्र्याः पार्वत्याः कामाक्ष्या इति यावत् । कान्तः पतिः शिवः, विरूपे कुरूपे अक्षिणी, वस्तुतः विरूपाणि विषमाणि त्रीणीति यावत् । अक्षीणि लोचनानि यस्य सः तथाभूतः कामस्य धर्मादिक्रमेण तृतीय पुरुषार्थस्य, मदनस्य चेति वस्तुतः हन्ता विनाशकः इति प्रतीतः प्रसिद्धः । तथा तनयः पुत्रोऽपि स्तम्बेरमास्यः गजाननः स्तम्बेरमेत्यत्र " स्तम्ब- कर्णयो रमि-जपोः" इत्यच्प्रत्ययः " तत्पुरुषे कृति - " इति सप्तम्या अलुक् । “इभः स्तम्बेरमः पद्मी” इत्यमरश्च । लम्बोदरः बृहदुदरचेति प्रतीतः । तस्याः कामाक्ष्याः अभिरूपस्य योग्यमाभिरूप्यं सौन्दर्योचितमित्यर्थः । किम्फलम् ? किमपि नास्तीति । अथवा तस्याः आभिरूप्यं किम्फलं कुत्सितफलमित्यर्थः । विरुद्धसामग्री प्रतीतेरिति भावः । वस्तुतस्तु शिवपत्नीत्वात् सकलविघ्नविनाशकगणाधिपमातृत्वाच्च तस्याः सौन्दर्य किं किमप्यनिर्वाच्यं फलं सिद्धिर्यस्य तत्तथाभूतमित्यर्थः । व्याजस्तुतिरलङ्कारः ॥ ३१४ ॥

अनयोरिति । अम्बिका कामाक्षी देवी च त्र्यम्बकः शङ्करश्च तयोः दम्पत्योर्जायापत्योः भावः दाम्पत्यं, पति-पत्नीमिथुनमिति भावः । अननुरूपमयोग्यं, अस्तीति शेषः । इत्येतद् व्यक्तं स्पष्टमेव खलु ॥ १२४& ॥

तदेवाह - इयं हीति । इयम् अम्बिका कामाक्षी देवी हि, सर्वाणि मङ्गलानि शुभानि यस्याः सा तथाभूता, अस्तीति शेषः । स त्र्यम्बकस्तु श्मशानं पितृवनं, शून्य त्वात् श्मशानतुल्यं दहराकाशं च मन्दिरं, उपलब्धिस्थानं च यस्य सः तथोक्तः, असौ कामाक्षी तु हेम्नां सुवर्णालङ्काराणां समूहः हैमं, हेमपदं सुवर्णालङ्कारार्थे लाक्षणिकं, समूहार्थेऽण् । तदस्यास्तीति तद्वती हिमवतोऽपत्यं हैमवतीति च । तादृशी विभाति विराजते । स शिवस्तु दिक्षु भिक्षति याचतीति निजभक्तकल्याणमभिवा- ञ्छतीति च भिक्षुः स एव भिक्षुकः " सनाशंस" इत्यादिना उप्रत्यये खार्थे कः । तादृशः सन् याति परिभ्रमति । वस्तुतस्तु धनदादिसुहृत्त्वेऽपि नश्वरैश्वर्यवैतृष्ण्येनैव परमात्मलाभ इति द्योतनार्थं भिक्षुवृत्त्या परिभ्रमतीति । तथा इयं कामाक्षी तु कुङ्कुमेन केशरकस्तूर्यादिसुगन्धद्रव्येण अङ्किता चिह्निता, सुगन्धिकुङ्कुमतिलकयुक्तेत्यर्थः । सः शिवः भस्मराशिना भस्मसमूहेन रूषितः विलिप्तः, तथा सा कामाक्षी अरालाः । कुटिलाः कुन्तलाः केशा यस्याः सा तथाभूता, सौभाग्यसूचककुटिलकेशयुक्तेत्यर्थः । “ अरालं वृजिनं जिह्मं - " इति “चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः " इति चामरः । एष शिवश्च जटाभिः कदाप्यसंस्कृतत्वात् परस्परसंसक्तकेशैः, नियमार्थं तैलादिसंस्काररहिततया केवलं जलप्रक्षालनमात्रसंस्कृतकेशैरिति तु परमार्थः । भीषणः भयङ्करः । प्रापञ्चिकानां, न तु परमार्थविदामिति तत्त्वार्थः ॥ ३१५ ॥

विश्वास-प्रस्तुतिः

वि॰ – वयस्य मैवं वादीः । न खल्वप्रशस्तैरप्यावास-वासः5 प्रभृतिभिः सांसिद्धिकमभिरूपाणामाभिरूप्यमपहीयते6 ॥ १२५& ॥
निवस्तां वा कृत्तिं निवसतु चिरं वा पितृवने
शिवस्तावद्धत्तामहिगणमथाप्येष सुभगः ॥
परीतं शैवालैरुषितमपि पङ्केषु मलिना-
मलीनां बिभ्राणं किमिहँ7 कमनीयं न कमलम् ॥ ३१६ ॥

मूलम्

वि॰ – वयस्य मैवं वादीः । न खल्वप्रशस्तैरप्यावास-वासः5 प्रभृतिभिः सांसिद्धिकमभिरूपाणामाभिरूप्यमपहीयते6 ॥ १२५& ॥
निवस्तां वा कृत्तिं निवसतु चिरं वा पितृवने
शिवस्तावद्धत्तामहिगणमथाप्येष सुभगः ॥
परीतं शैवालैरुषितमपि पङ्केषु मलिना-
मलीनां बिभ्राणं किमिहँ7 कमनीयं न कमलम् ॥ ३१६ ॥

बाल-कृष्णः

अथ विश्वावसुः प्रकृतिसिद्धविभूतीनां महात्मनां न खलु वासोऽलङ्कारादि भूषणमिति द्योतयन्नाह - वयस्येति । भो वयस्य मैवं वादीः कुतइति चेदाह — अभिरूपाणां ज्ञानिनाम् आवासः वसतिस्थानं वासो वस्त्रं च तत्प्रभृतिभिः तत्प्रमुखैः सांसिद्धिकं स्वभावसिद्धम् आभिरूप्यं सौन्दर्यं न अपहीयते न विनश्यति । खलु निश्चयेन ॥ १२५& ॥

निवस्तामिति । शिवस्तावत् कृत्तिं गजचर्म " अजिनं चर्म कृत्तिः स्त्री” इत्यमरः । निवस्तां परिदधातु परिधानं करोत्वित्यर्थः । वाथवा चिरं बहुकालं पितृवने श्मशाने निवसतु वासं करोतु । वाथवा अहीनां सर्पाणां गणं समूहं कटककुण्डलादिरूपेण धत्तां धारयतु । अथापि तथापि एष शिवः सुभगः शोभनैश्वर्यसम्पन्न एव । अत्र दृष्टान्तमाह- कमलं शैवालैः परीतं वेष्टितं, पङ्केषु कर्दमेषु उषितं स्थितमपि, मलिनां कृष्णवर्णत्वेन मलयुक्तानाम् अलीनां भ्रमराणां बिभ्राणं धारकमपि, अलीनामित्यत्र कर्मणः शेषत्वविवक्षायां षष्ठी । " कर्तृकर्मणोः -" इति प्राप्तायाः षष्ठ्याः " न लोक – " इत्यादिना निषेधात् । तद् इहलोके कमनीयं सुन्दरं न किम् ? किन्तु ‘किमिव हि मधुराणां मण्डनं नाकृतीनाम्’ इति कालिदासोक्तन्यायेन तदतीव सुन्दरमिति भावः ॥ ३१६ ॥

विश्वास-प्रस्तुतिः

किञ्च-
रमणीयः स हि पुरुषो रमणी यत्रैव रज्यति विदग्धा ॥
श्लोकः स एव सुभगश्चित्तं सक्तं हि यत्र रसिकस्य ॥ ३१७ ॥
अवधार्यतामत्रैतदतिमात्रं चित्रम् ॥ १२६& ॥
शिवाक्ष्यालोकितः8 कामो जित इत्येव शुश्रुम ॥
व्यत्यासोऽत्रजितो यस्मात्9 कामाक्ष्यालोकतः शिवः ॥ ३१८ ॥
पुष्कलं किल पुत्रभाग्यमपि पर्वतराजकन्यायाः ॥ १२७& ॥

मूलम्

किञ्च-
रमणीयः स हि पुरुषो रमणी यत्रैव रज्यति विदग्धा ॥
श्लोकः स एव सुभगश्चित्तं सक्तं हि यत्र रसिकस्य ॥ ३१७ ॥
अवधार्यतामत्रैतदतिमात्रं चित्रम् ॥ १२६& ॥
शिवाक्ष्यालोकितः8 कामो जित इत्येव शुश्रुम ॥
व्यत्यासोऽत्रजितो यस्मात्9 कामाक्ष्यालोकतः शिवः ॥ ३१८ ॥
पुष्कलं किल पुत्रभाग्यमपि पर्वतराजकन्यायाः ॥ १२७& ॥

बाल-कृष्णः

किञ्च शिवे पार्वत्याः प्रेमातिशयदर्शनादेव तत्सौन्दर्यमवगन्तव्यमिति कथयति- रमणीय इति । स हि स एव पुरुषः रमणीयः सुन्दरः । स कः । यत्रैव यस्मिन् पुरुषे एव विदग्धा चतुरा रमणी स्त्री रज्यति रमते, स इति सम्बन्धः । अत्र दृष्टान्तः — यत्र श्लोके रसिकस्य अलङ्कारादिसाहित्यसम्पन्नस्य, चित्तं सक्तं संलग्नं, स एक श्लोकः पद्यं सुभगः मनोहरः इति ज्ञेयम् ॥ ३१७ ॥

शिवाम्बिकाविषये एतदतिमात्रम् अतिशयितं चित्रमाश्चर्यम् अवधार्यतां निश्चीयताम् ॥ १२६&॥

शिवेति । शिवस्य अक्ष्णा ललाटस्थतृतीयनेत्रेणेत्यर्थः–आलोकितः दृष्टमात्र एव कामो मदनः जितः इत्येव शुश्रुम पुरा शृणुमः । अत्र तु व्यत्ययः वैपरीत्यं वर्तते । यस्मात् कामस्य मदनस्य अक्ष्णा आलोकितः शिवः जितः । वस्तुतः कामाक्ष्या देव्याः आलोकतः जितः इत्यर्थः । इदमेव श्लोषार्थजन्यं चित्रमिति भावः ॥ ३१८ ॥

एतावता ’ कान्तो विरूपाक्ष’ इत्याद्द्यर्थं दूषणं परिहृतम् इदानीं ’ स्तम्बेरमास्यस्तनयः—’ इत्यादिनोक्तस्य दूषणस्य परिहारार्थमुत्तरमाह – पुष्कलमिति । पर्वतराजस्य हिमालयस्य कन्यायाः भगवत्याः अम्बिकायाः पुत्रभाग्यमपि पुष्कलं बहुलम् अस्तीति शेषः ॥ १२७& ॥

यतः-
कुशलीभनाथवक्त्रः पुत्रः प्रथमो हिमाद्रितनयायाः ॥
पञ्चास्यात्पितुरधिकः षडाननो नन्दनो द्वितीयोऽस्याः ॥ ३१९ ॥


  1. शर्वरी सुखदा, सर्वस्य सर्वस्वम् ↩︎ ↩︎

  2. दृष्टं दृष्टियुगं ↩︎ ↩︎

  3. नीलोत्पले ↩︎ ↩︎

  4. इह ↩︎ ↩︎

  5. अप्रशस्तैरपि वास - कृत्तिवासःप्रभृतिभिः ↩︎ ↩︎

  6. अवहीयते ↩︎ ↩︎

  7. तदपि ↩︎ ↩︎

  8. लोकतः ↩︎ ↩︎

  9. जितः काञ्च्यां ↩︎ ↩︎