विश्वास-प्रस्तुतिः
अथ श्रीत्रिविक्रमवर्णनम्॥
इत्यन्यतो दृष्टिं निक्षिप्य -
समन्तरूढद्रुमपुष्पनिष्पतन्मरन्दसन्तत्यभिषिक्तमुत्तमम्1 ॥
रविक्रमाशुत्वनिरोधगोपुरं त्रिविक्रमस्यायतनं निशाम्यताम् ॥ ३०६ ॥
सविस्मयमभिध्यायन्—
अव्यादाश्रयतामनश्वरपदप्रासादनिःश्रेणिका2
हर्षादूर्ध्वमुदञ्चितः स चरण स्त्रैविक्रमो नः क्लमात् ॥
त्रैलोक्यार्पणतः सितं शुभयशश्छत्रं यदासीद्बले-
द्राघिष्ठो हरिनीलदण्ड इव यस्तद्धारणायोद्धृतः ॥ ३०७ ॥
मूलम्
अथ श्रीत्रिविक्रमवर्णनम्॥
इत्यन्यतो दृष्टिं निक्षिप्य -
समन्तरूढद्रुमपुष्पनिष्पतन्मरन्दसन्तत्यभिषिक्तमुत्तमम्1 ॥
रविक्रमाशुत्वनिरोधगोपुरं त्रिविक्रमस्यायतनं निशाम्यताम् ॥ ३०६ ॥
सविस्मयमभिध्यायन्—
अव्यादाश्रयतामनश्वरपदप्रासादनिःश्रेणिका2
हर्षादूर्ध्वमुदञ्चितः स चरण स्त्रैविक्रमो नः क्लमात् ॥
त्रैलोक्यार्पणतः सितं शुभयशश्छत्रं यदासीद्बले-
द्राघिष्ठो हरिनीलदण्ड इव यस्तद्धारणायोद्धृतः ॥ ३०७ ॥
बाल-कृष्णः
समन्तेति । समन्ते आसमन्तभागे रूढाः वृद्धाः ये द्रुमा वृक्षास्तेषां पुष्पेभ्यः निष्पतन् निर्गलन् यो मरन्दो मकरन्दः तस्य सन्ततिभिः धाराभिः अभिषिक्तम्, अत एव उत्तमं रवेः सूर्यस्य क्रमे गमने यदाशुत्वं शीघ्रत्वं तस्य निरोधि प्रतिबन्धि गोपुरं पुरद्वारं यस्य तत् “ पुरद्वारं तु गोपुरम्" इत्यमरः । एतादृशं त्रिविक्रमस्य एतदाख्यविष्णोः आयतनं स्थानं निशाम्यतामवलोक्यताम् । हे कृशानो, त्वयेति शेषः ॥ ३०६ ॥
तमेव प्रार्थयते - अव्यादिति । आश्रयतां सेवमानानां जनानां नश्यतीति नश्वरं विनाशि न नश्वरमनश्वरं कालत्रयेऽप्यविनाशीत्यर्थः । नशेः इण्-नश- जि-सर्तिभ्यः – ” इति क्वरप् प्रत्ययः । यत् पदं वैकुण्ठस्थानं तदेव प्रासादः तस्य निःश्रेणिका आरोहणसाधनं तत्प्रापिकेति यावत् । हर्षाद् ऊर्ध्वम् उदश्चितः उन्नमितः बलिसत्रे इत्यर्थः । यः त्रयो भू-स्वर्ग-बलिशिरोव्यापनरूपाः विक्रमाः पादक्षेपा यस्य सः त्रिविक्रमः तस्यायं त्रैविक्रमः स चरणः नोऽस्मान् क्रमात् संसारश्रमाद् अव्याद् रक्षतु । यस्त्रिविक्रमस्य चरणः, यज्ञसमये इति शेषः । त्रैलोक्यस्य अर्पणतः दानाद्धेतोः बलेर्विरोचनसुतस्य दैत्यस्य शुभं कल्याणावहं यशः कीर्तिरेव छत्रम् आतपत्रं यद् आसीद् उत्पन्नमभूत्, तस्य छत्रस्य धारणाय उद्धृतः ऊर्ध्वं धृतः द्राधिष्ठः दीर्घतरः दीर्घशब्दादिष्टन्प्रत्यये द्राघादेशः । हरिनीलो इन्द्रनीलमणिस्तन्मयो दण्डः छत्रमध्यव- र्तियष्टिरिव स्थितः स चरण इति सम्बन्धः ॥ ३०७ ॥
विश्वास-प्रस्तुतिः
कृशानुः - किमरे मायाविनमेनमक्रमं त्रिविक्रममभिनन्दसि ॥ १२०& ॥
पश्य-
श्रीमानपि स्वयं दैत्यात्कुर्वाणः कुप्रतिग्रहम् ॥
विन्दन् स महतीं वृद्धिमिष्टां3 गोत्रभिदे ददौ ॥ ३०८ ॥
विशिष्यायमकपटानां कवीनां न श्लाघनीयः ॥ १२१& ॥
यतः-
नित्यानपायिप्रमदोऽपि नाथो वटूभवन्वञ्चितदातृकोऽसौ ॥
कविव्यथाकृत्खलु भूसुरोऽपि भूदानवत्वं क्षममेव भेजे4 ’ ॥ ३०९ ॥
मूलम्
कृशानुः - किमरे मायाविनमेनमक्रमं त्रिविक्रममभिनन्दसि ॥ १२०& ॥
पश्य-
श्रीमानपि स्वयं दैत्यात्कुर्वाणः कुप्रतिग्रहम् ॥
विन्दन् स महतीं वृद्धिमिष्टां3 गोत्रभिदे ददौ ॥ ३०८ ॥
विशिष्यायमकपटानां कवीनां न श्लाघनीयः ॥ १२१& ॥
यतः-
नित्यानपायिप्रमदोऽपि नाथो वटूभवन्वञ्चितदातृकोऽसौ ॥
कविव्यथाकृत्खलु भूसुरोऽपि भूदानवत्वं क्षममेव भेजे4 ’ ॥ ३०९ ॥
बाल-कृष्णः
अथ कृशानुः कपटाचरणरूपं दोषमुद्घाटयन्नाह - किमिति । मायाविनं कपटयुक्तं, मायाशब्दात् " अस्- माया - मेधा - " इत्यादिना विनिप्रत्ययः । त्रिपद- भूमियाचनव्याजेन सर्वस्वापहारात् । अत एवाक्रमम् अनुचितकृत्यकारिणं, एनं त्रिविक्रमं वामनं किं कुतो हेतोरभिनन्दसि ? ॥१२०& ॥
मायावित्वमेव प्रपञ्चयति - श्रीमानपीति । यः स्वयं श्रीमान् सम्पत्तिमान् लक्ष्मीवानपि सन्, दैत्याद् दितिवंशजात्, बलेः सकाशान् नतु सजातीयाद्देवादेः सकाशात्, कुप्रतिग्रहं कुत्सितं याचितसुवर्णादिग्रहणं, कोः पृथिव्याः प्रतिग्रहं स्वीकारें च " गोत्रा कुः पृथिवी पृथ्वी" इत्यमरः । कुर्वाणः सन् ततः इष्टाम् ईप्सितां महतीं विपुलां वृद्धिं समृद्धिं विन्दन् प्राप्नुवन् सन्नपि स त्रिविक्रमः गोत्रभिदे इन्द्राय कुलोच्छेदकाय च ददौ समर्पितवान् । नतु तां स्वयमुपबुभुजे । हीनोऽपि जनः स्वसम्पादितमर्थं न परस्मै अर्पयतीत्यतोऽयमतीवानुचितकारीति भावः । अत्र निन्दायाः स्तुतौ पर्यवसानाद्व्याजस्तुतिरलङ्कारः ॥ ३०८ ॥
विशिष्येति । अयं त्रिविक्रमः विशिष्य विशेषतः कृत्वा, अकपटानां निर्व्याजानां शुद्धमानसानामिति यावत् । कवीनां कविभिरित्यर्थः । न श्लाघनीयः ॥ १२१& ॥ तदेवोपपादयति — नित्येति । नित्यं सततम् अनपायिनी अवियुक्ता प्रमदा लक्ष्मीः पत्नी यस्य सः तथाभूतोऽपि सन्, बटुभवन् अबटुर्बटुरिव भवन् छद्मना ब्रह्मचारिवेषधारीत्यर्थः । “कृभ्वस्तियोगे " - इत्यादिना अभूततद्भावे च्विप्रत्ययः । “चौ च” इति दीर्घः । स्त्रीपरिग्रहेऽपि ब्रह्मचारिवेषधारणम् एकं दूषणं, अपरं कथयति— वञ्चितः दाता दानशीलो बलिर्येन तथाभूतः, तृतीयं दोषमाह- कवीनां पण्डितानां कवेः शुक्राचार्यस्य च “सङ्ख्यावान् पण्डितः कविः”, “शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः” इत्युभयत्राप्यमरः । अपरं च असौ नाथः वामनः भूसुरो ब्राह्मणोऽपि सन्, भुवि भूमौ दानवत्वं दैत्यत्वं भुवः पृथिव्या दानं बलिकृतमस्यास्ति तस्य भावः तद्वत्त्वं च भेजे सेवितवान् इति क्षममेव युक्तमेवेति काकुः । एवं च चत्वारि दूषणानि तस्मिन् सन्तीति न स सत्प्रशंसार्ह इति भावः । अत्रापि निन्दायाः स्तुतावेव पर्यवसानमिति ज्ञेयम् ॥ ३०९ ॥
विश्वास-प्रस्तुतिः
विश्वा० – अभ्युपगच्छाम एव भवतः प्रौढगुणदोषीकरणपाण्डित्यम् । आस्तामेष श्लेषचमत्कारः, आकर्णय तावदेतद् यदाश्रितरक्षणाय पद्मेक्षणः स्वमहत्त्वाननुरूपमपि रूपमापेदे ॥ १२२& ॥
नित्योन्नतोऽपि निरपायरमाश्रयोऽपि
दातापि हन्त बहुशो महतां पदानाम् ॥
स्वीकृत्य वामनवपुः श्रितमिन्द्रमीशः
पातुं पदत्रितयमत्र बलिं बिभिक्षे ॥ ३१० ॥
पुनः सभक्तिप्रकर्षम् । अत्र5 हि—
त्रैविक्रमस्त्रिपथगाजनकः स पादः
पायात्पुरस्य मरुतां मरुतां निहन्ता ॥
शम्भोः स्फुरन्मुकुटभूषणदानचुञ्चु-
मम्भोनिधेः श्वशुरमाप्तगिरो यमाहुः ॥ ३११ ॥
मूलम्
विश्वा० – अभ्युपगच्छाम एव भवतः प्रौढगुणदोषीकरणपाण्डित्यम् । आस्तामेष श्लेषचमत्कारः, आकर्णय तावदेतद् यदाश्रितरक्षणाय पद्मेक्षणः स्वमहत्त्वाननुरूपमपि रूपमापेदे ॥ १२२& ॥
नित्योन्नतोऽपि निरपायरमाश्रयोऽपि
दातापि हन्त बहुशो महतां पदानाम् ॥
स्वीकृत्य वामनवपुः श्रितमिन्द्रमीशः
पातुं पदत्रितयमत्र बलिं बिभिक्षे ॥ ३१० ॥
पुनः सभक्तिप्रकर्षम् । अत्र5 हि—
त्रैविक्रमस्त्रिपथगाजनकः स पादः
पायात्पुरस्य मरुतां मरुतां निहन्ता ॥
शम्भोः स्फुरन्मुकुटभूषणदानचुञ्चु-
मम्भोनिधेः श्वशुरमाप्तगिरो यमाहुः ॥ ३११ ॥
बाल-कृष्णः
अभ्युपगच्छाम इति । भवतः त्वत्कृतमित्यर्थः । प्रौढानां प्रगल्भानामपि गुणानां दोषीकरणे वस्तुतो दोषत्वाभावेऽपि तदारोपे, एतदपि विप्रत्ययान्तम् । पाण्डित्यं चातुर्यम् अभ्युपगच्छामः जानीम एव । अयं श्लेषचमत्कारः वस्तुतस्तु नैतद्दूषणमित्यर्थः । आस्ताम् । तत्त्वतस्तु पद्मेक्षणः कमललोचनः अयम् आश्रितानां भक्तानां रक्षणाय रक्षणार्थ स्वमहत्त्वस्य अननुरूपम् अयोग्यमपि रूपं बटुवामनाकारम् आपेदे स्वीकृतवानिति यत्, तदेतदाकर्णय ॥ १२२& ॥
नित्यानपायिप्रमदः - इत्यादिनोक्तस्यार्थस्यैव वास्तवत्वं प्रतिपादयति- नित्योन्नतोऽपीति । योऽयं त्रिविक्रमः नित्योन्नतः नित्यं महानपि, निरपायः विश्लेषरहितः रमाश्रयः लक्ष्म्याश्रयो यस्य सः तथाभूतोऽपि महतां बहुशः बहूनां न तु द्वित्राणां " बह्वल्पार्थात्- " इत्यादिना विभक्त्यर्थे शस् प्रत्ययः । पदानां वैकुण्ठादिस्थानानां दातापि, अनेकपदमितभूभागानामित्यर्थोऽप्यनुसन्धेयः । हन्तेति हर्षे । ईशः ईश्वरोऽपि श्रितम् अङ्गीकृतम् इन्द्रं पातुं रक्षितुं, वामनवपुः बटुशरीरं स्वीकृत्य गृहीत्वा, बलिं दैत्यम् अत्र भूलोके बलियज्ञे वा, पदानां त्रितयं त्रिपदपरिमितां भूमिमित्यर्थः । बिभिक्षे ययाचे । भिक्षतेर्द्विकर्मकत्वाद् बलिशब्दादपि कर्मणि द्वितीया ॥ ३१० ॥
विक्रमेति । त्रिपथगायाः गङ्गायाः जनकः उत्पादकः, अत एव मरुतां देवानां I पुरस्य स्वर्गस्य मरुतां निर्जलदेशत्वं निहन्ता निवारकः, गङ्गोत्पत्तेः पूर्व तत्र जलाभावादिति भावः । त्रैविक्रमः स पादः चरणः पायान् नः सर्वान् रक्षतु । कथम्भूतः सः । यं त्रैविक्रमपादं, आप्तगिरो वेदवाण्यः शम्भोः स्फुरत् प्रकाशमानं यन्मुकुटभूषणं तस्य दानेन प्रसिद्धम् । शिवस्य गङ्गाशिरस्त्वादिति भावः । “तेन वित्तश्चुञ्चुश्चणपौ” इति प्रसिद्धार्थे चुचुप् प्रत्ययः । तथा अम्भोनिधेः समुद्रस्य श्वशुरं च, तस्य गङ्गाजानित्वात् । आहुः कथयन्ति । स इति सम्बन्धः ॥ ३११ ॥
्