विश्वास-प्रस्तुतिः
अथ कामासिकानगरवासिनृसिंहवर्णनम्॥
इत्यन्यतो दृष्टिं विन्यस्य प्राञ्जलिः सन् –
श्रीमान्गभीरतरवेगवतीप्रतीर-
भूमावघद्रुहि1 सुरद्रुरिवावतीर्णः ॥
कामादिवैरिगणमुल्बणमस्मदीयं
कामासिकानरहरिः कवलीकरोतु2 ॥ ३०१ ॥
इत्यन्यतश्चक्षुर्निक्षिप्य3 प्राञ्जलिः सन्—
भयार्तजीवातुदयामहिम्ने वैकुण्ठधाम्ने4 तनवे नमांसि
आम्नाय5 उक्तः परमेशितेति नाम्नाय उक्तः परमत्र चित्रम् ॥ ३०२ ॥
युक्तं चैतत् । यतो ‘विष्णुः परमः’ इति श्रुता6 श्रुतिः ॥ ११९& ॥
मूलम्
अथ कामासिकानगरवासिनृसिंहवर्णनम्॥
इत्यन्यतो दृष्टिं विन्यस्य प्राञ्जलिः सन् –
श्रीमान्गभीरतरवेगवतीप्रतीर-
भूमावघद्रुहि1 सुरद्रुरिवावतीर्णः ॥
कामादिवैरिगणमुल्बणमस्मदीयं
कामासिकानरहरिः कवलीकरोतु2 ॥ ३०१ ॥
इत्यन्यतश्चक्षुर्निक्षिप्य3 प्राञ्जलिः सन्—
भयार्तजीवातुदयामहिम्ने वैकुण्ठधाम्ने4 तनवे नमांसि
आम्नाय5 उक्तः परमेशितेति नाम्नाय उक्तः परमत्र चित्रम् ॥ ३०२ ॥
युक्तं चैतत् । यतो ‘विष्णुः परमः’ इति श्रुता6 श्रुतिः ॥ ११९& ॥
बाल-कृष्णः
अथ कामासिकावासिनृसिंहवर्णनं सूचयन्नाह कविः - इतीत्यादि । अन्यतः अन्यस्मिन्त्स्थले दृष्टिं विन्यस्य दत्त्वा -
श्रीमानिति । अघेभ्यः पापेभ्यः द्रुह्यति जिघांसतीति अघध्रुक् तस्यां गभीरतरायाः अतिनिम्नायाः वेगवत्या नाम नद्याः प्रतीरभूमौ तटभुवि सुरद्रुः कल्पतरुरिव अवतीर्णः आविर्भूतः, श्रीमान् लक्ष्मीवान् लक्ष्म्या सहित इत्यर्थः । कामासिकानरहरिः कामासिकानगरनिवासी श्रीनरसिंहः, उल्बणं प्रवृद्धम् अस्मदीयम् अस्मत्सम्बन्धिनं कामः आदिः प्रमुखो येषु ते ये वैरिणः क्रोध-लोभादयः शत्रवः तेषां गणं समुदायं कवलीकरोतु ॥ ३०१ ॥
भयार्तेति । भयेन संसार-भीत्या आर्तानां पीडितानां जीवातुर्जीवनौषधरूपः दयाया महिमा यस्य तस्मै, वैकुण्ठधाम्ने वैकुण्ठनिवासिने इत्यर्थः । नमांसि नमस्कारान् तनवै करोमि । तनोतेरुभयपदिनः आत्मनेपदे लोडुत्तमैकवचनम् । आम्नाये वेदे यः परमेशिता परमेश्वर इति उक्तः, परं च आम्नाये न उक्तः, इत्यत्रार्थे विरोधाभासरूपे इत्यर्थः । परमत्यन्तं चित्रमाश्चर्यम् । वस्तुतस्तु य आम्नाये परमेशितेति नाम्ना उक्तः कथितस्तस्मै वैकुण्ठधाम्ने इत्यन्वयेन च तत्परिहारः ॥ ३०२ ॥
युक्तमिति । एतत् परमेश्वर इति श्रुतिकथनरूपं युक्तं योग्यमेव । यतो यस्मात् ‘विष्णुः परमःउत्तमः”इत्यर्थिका प्रत्यक्षं श्रुतिः श्रुता आकर्णिता । अस्माभिरिति शेषः ॥ ११९& ॥
विश्वास-प्रस्तुतिः
अनपायरमो विष्णुः कस्मादपरमो भवेत् ॥
युक्तं रमापतेरन्ये देवास्त्वपरमा इति ॥ ३०३ ॥
किञ्च-
जाग्रत्येव शिरांसि नित्यवचसां सर्वोन्नतौ शार्ङ्गिण-
स्तत्र व्यास - पराशरादिकृतयो7 दत्तादरा वस्तुतः ॥
यः पादाम्बु ददाति यस्तदुपसङ्गृह्णाति धत्तेऽथवा8
यश्चैतच्छिरसैव तेषु परमं जानाति को नात्मवान् ॥ ३०४ ॥
पुनः सचमत्कारम् —
दुर्वादिनो विष्णुपदारविन्दं दोषापहं नानुसरन्ति9 मोहात् ॥
तेषां मतं तु स्वयमत्र विष्णुपदारविन्दानुसृतिं विधत्ते ॥ ३०५ ॥
मूलम्
अनपायरमो विष्णुः कस्मादपरमो भवेत् ॥
युक्तं रमापतेरन्ये देवास्त्वपरमा इति ॥ ३०३ ॥
किञ्च-
जाग्रत्येव शिरांसि नित्यवचसां सर्वोन्नतौ शार्ङ्गिण-
स्तत्र व्यास - पराशरादिकृतयो7 दत्तादरा वस्तुतः ॥
यः पादाम्बु ददाति यस्तदुपसङ्गृह्णाति धत्तेऽथवा8
यश्चैतच्छिरसैव तेषु परमं जानाति को नात्मवान् ॥ ३०४ ॥
पुनः सचमत्कारम् —
दुर्वादिनो विष्णुपदारविन्दं दोषापहं नानुसरन्ति9 मोहात् ॥
तेषां मतं तु स्वयमत्र विष्णुपदारविन्दानुसृतिं विधत्ते ॥ ३०५ ॥
बाल-कृष्णः
एतदेव सोपपत्तिकमाह-अनपायेति । यतः न विद्यते अपायो वियोगों यस्यास्तथाभूता सततमाश्लिष्टेत्यर्थः । रमा लक्ष्मीर्यस्य सः विष्णुः, अपगता वियुक्ता रमा यस्मात् तथाभूतः अपकृष्टरूपश्च कस्माद्धेतोर्भवेत् ? लक्ष्म्याः अनपायित्वं " राघवत्वेऽभवत्सीता विष्णोरेषानपायिनी ।" इत्यादिपुराणग्रन्थैः प्रतिपादितम् । तस्माद् रमापतेर्विष्णोरन्ये देवास्तु अपरमा लक्ष्मीरहिताः अपकृष्टाश्च इति युक्तं योग्यमेव ॥ ३०३ ॥
अधुनान्यरीत्या सर्वोत्तमलं प्रपञ्चयति - जाग्रतीति । नित्यवचसाम् अविनाशिवचनानां, वेदानामित्यर्थः । शिरांसि उपनिषदः शार्ङ्गिणः विष्णोः सर्वोन्नतौ सर्वोत्तमत्वे विषये जाग्रति सततं विभान्त्येव । तत्र उपनिषत्प्रतिपादित एवार्थे व्यासपराशरादीनाम् ऋषीणां, आदिशब्देन वाल्मीकि - वसिष्ठ - मार्कण्डेयादीनां ग्रहणम् । कृतयः पुराणस्मृत्यादिरूपाः, दत्तादराः उपनिषत्प्रतिपादितं तात्पर्यमेव विस्तरेण वर्णयन्त्य इत्यर्थः । नन्वेतद्यद्यपि वेदादिभिः प्रतिपादितं तथाप्यनुभवमन्तरेण अविश्वसनीयमेवेति चेदाह – वस्तुतः तत्त्वतः अत्रार्थे केवलं वेद-शास्त्रादिरूपमेव न प्रमाणं, किन्तु प्रत्यक्षमप्यस्तीत्यर्थः । तदेव दर्शयति — यः विष्णुः पादाम्बु पादोत्पन्नं गङ्गाजलमित्यर्थः । ददाति यश्च ब्रह्मा तद् उपसङ्गृह्णाति स्वीकरोति, कमण्डलुनेत्यर्थः । अथवाऽथ च यश्च श्रीशङ्करः तत् पादाम्बु, शिरसा मस्तकेनैव धत्ते धारयति । तेषु ब्रह्म-विष्णु-शिवेषु मध्ये, परमं श्रेष्ठम् आत्मवान् परमात्मज्ञानी को न जानाति ? अपि तु सर्व एव जानातीत्यर्थः ॥ ३०४ ॥
दुर्वादिन इति । दुर्वादिनः केवलं शिवमेव श्रेष्ठं मन्वानाः दोषापहं पापहरं विष्णोः पदारविन्दं चरणकमलं मोहाद् वस्तुतस्त्रयाणामप्येकरूपत्वसत्त्वे स्वमताभिमानान्धाः सन्तः “ शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः । " इत्यादितत्त्वाज्ञानाद्धेतोः नानुसरन्ति न भजन्ति । तस्मात्तेषां मतं स्वयं स्वत एव अत्र उक्तेर्थे तु विष्णुपदे आकाशे यद् अरविन्दं कमलं कदाप्यसम्भवि, तस्यानुसृतिमनुसरणं विधत्ते करोति । यथा तावदाकाशपुष्पं कदाप्यसम्भवि तथैतेषां मतं मिथ्यैव भवतीत्यर्थः ।
अत्राप्याकाशे अरविन्दस्य गङ्गाजलरुहस्य आगोपालाङ्गनमाच पण्डितं सर्वसम्प्रतिपन्नत्वाद्विष्णोः पदं व्यवसितं निश्चितमिति यावत् । अर्यते गम्यतेऽनेनेत्यरो मार्गः विष्णुनिश्चितसिद्धान्तः तं विन्दन्तीति तद्विन्दाः तेषामनुसृतिम् अनुसरणं प्रचारमिति यावत् । इत्यर्थं वदन्ति शैवाः ’ इति भावदर्पणकृत् ॥ ३०५ ॥