विश्वास-प्रस्तुतिः
निरूप्य सानन्दं
श्रीरङ्गेश्वर-शासनाद् अधिगत-श्रुत्य्-अञ्चलाचार्यकं
दान्तं यं कविवादि-दन्ति-हरिर् इत्य् आर्या वदन्ति क्षितौ ॥
सर्वस्याम् अपि हन्त तन्त्र-सरणौ1 स्वातन्त्र्यम् आसेदुषां
सुत्रामा स हि वेङ्कटेश-कविराड् अत्राविरासीत् प्रभुः2 ॥ २८९ ॥
मूलम्
निरूप्य सानन्दं
श्रीरङ्गेश्वरशासनादधिगतश्रुत्यञ्चलाचार्यकं
दान्तं यं कविवादिदन्तिहरिरित्यार्या वदन्ति क्षितौ ॥
सर्वस्यामपि हन्त तन्त्रसरणौ1 स्वातन्त्र्यमासेदुषां
सुत्रामा स हि वेङ्कटेशकविराडत्राविरासीत्प्रभुः2 ॥ २८९ ॥
बाल-कृष्णः
प्रकटितेति । प्रकटितः दशायां वर्तिकायाम् अवतारः आविर्भावः येन, प्रकटिता दशसङ्ख्याका अवताराः मत्स्य कूर्मादयो येनेति च तस्मिन् । प्रचुरं बहुलं च तद् आज्यं घृतं च तस्य, पक्षे प्रचुरायाः आजेः राक्षस सङ्ग्रामस्य च " सङ्ग्रामाभ्यागमाहवाः । समुदायः स्त्रियः संवित्-समित्या जि-समिद्-युधः" इत्यमरः । आकलनेन स्वीकरणेन भावितं प्राप्तं स्फुरणं दीप्तिः प्रसिद्धिश्च यस्य तस्मिन् । विभावर्यां निशायां " निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा । विभावरी" इत्यमरः । उदिताम् उत्पन्नां भीतिम् अन्धकारसम्बन्धिनीमित्यर्थः । हरति निवारयतीति तद्धरस्त स्मिन् पक्षे अरिभ्यः शत्रुभ्यः उदितभीतिं हरतीति च तस्मिन् विभौ प्रभौ दीपप्रकाश इति नाम क्षमं योग्यमेव ॥ २८८ ॥
अथ वेदान्तदेशिकवर्णनमाक्षिपति - निरूप्येत्यादि ।
श्रीरङ्गेति । श्रीरङ्गेश्वरस्य भगवतः शासनात् । ल्यब्लोपे पञ्चमी । आज्ञां प्राप्येत्यर्थः । अधिगतं स्वीकृतं श्रुतीनां वेदानामञ्चलानाम् अग्राणाम् उपनिषदाम् आचार्यकं व्याख्यातृत्वं येन तं " मन्त्रत्र्याख्याकृदाचार्यः ’ इत्यमरः । अत एव दान्तं जितबाह्यान्तरिन्द्रियं यं वेङ्कटेशं कवयः पण्डिताः वादिनश्च तद्रूपा ये दन्तिनो गजास्तेषां हरिः सिंह इति क्षितौ पृथिव्याम् आर्याः श्रेष्ठा जनाः वदन्ति कथयन्ति । एतदेव सहेतुकमुपपादयति - हि यतः सर्वस्यामपि, हन्तेत्याश्चर्ये । तन्त्रसरणौ शास्त्रमार्गे स्वातन्त्र्यम् आसेदुषां प्राप्तवतां मध्ये, सदेर्धातोः “भाषायां सद-वस-श्रुवः” इति भूतसामान्ये लिटि क्वसुः । " वसोः सम्प्रसारणम्” इति भसञ्ज्ञायां सम्प्रसारणं च । सुत्रामा इन्द्रः सः वेङ्कटेशकविराट् प्रभुः अत्र काञ्च्याम् आविरासीत् प्रकटीबभूव ॥ २८९ ॥
विश्वास-प्रस्तुतिः
भेदाभिदाविषयवादापतद्दुरुपपादार्थसाधकमदो-
त्सादावहाद्भुतमखादापगांस्यदविनोदाभिजातभणितिः3 ॥
पादारविन्दनन्तखेदापहारचतुरोदारमाधवगुणा-4
स्वादाभितुष्ट इह मोदाय वो भवतु वेदान्तदेशिकमणिः॥२९०॥5
अपि च-
नानाम्नायपरिश्रमं कलयतां नास्त्येव शास्त्रेषु धीः
सत्योर्रेप्युभयोस्तयोर्न6 सुलभा सा " हि7 क्षितौ साहिती ॥
अप्येतासु सतीषु नास्ति विनयो नाचार-भक्ति- क्षमा-
चातुर्यः स च सा च सा च स च ताश्चालम्ब्य खेलन्त्यमुम्॥२९१॥
मूलम्
भेदाभिदाविषयवादापतद्दुरुपपादार्थसाधकमदो-
त्सादावहाद्भुतमखादापगांस्यदविनोदाभिजातभणितिः3 ॥
पादारविन्दनन्तखेदापहारचतुरोदारमाधवगुणा-4
स्वादाभितुष्ट इह मोदाय वो भवतु वेदान्तदेशिकमणिः॥२९०॥5
अपि च-
नानाम्नायपरिश्रमं कलयतां नास्त्येव शास्त्रेषु धीः
सत्योर्रेप्युभयोस्तयोर्न6 सुलभा सा " हि7 क्षितौ साहिती ॥
अप्येतासु सतीषु नास्ति विनयो नाचार-भक्ति- क्षमा-
चातुर्यः स च सा च सा च स च ताश्चालम्ब्य खेलन्त्यमुम्॥२९१॥
बाल-कृष्णः
भेदेति । किञ्च भो जनाः, वेदान्तदेशिकमणिः वेदान्ताचार्यश्रेष्ठः स वेङ्कटेशगुरुः इह काञ्च्यां नगर्यां, वो युष्माकं मोदाय आनन्दाय भवतु । कथम्भूतः । भेदः जीवात्मनोः पृथक्त्वं च अभिदा तयोरैक्यं च ते विषये प्रतिपाये ययोस्तथाभूतौ यौ वादौ तदर्थमापततां प्राप्तवतां, दुरुपपादस्य प्रतिपादयितुमशक्यस्य अर्थस्य भिन्न- क्यान्यतररूपस्य साधकानां वादिनां मदस्य गर्वस्य उत्सादावहाः उच्छेदसम्पादकाः अत एव अद्भुताः आश्चर्यरूपाश्च मखादा यज्ञभुजो देवास्तेषाम् आपगा गङ्गा नदी तस्याः स्यन्दस्य प्रवाहस्येव विनोदो विलासो यासां तादृशश्च । निखिलशास्त्राणां याथार्थ्यप्रतिपादनेन पापहारकत्वाद्गङ्गाप्रवाहविनोदसादृश्यम् । अत एव अभिजाता निर्मलाश्च भणितयो वचनानि यस्य सः तथाभूतः । पुनश्च पादारविन्दे चरणकमले नतानां भक्त्या नम्राणां खेदस्य क्लेशस्य अपहारे निवारणे चतुरस्य अत एव उदारस्य महतः “उदारो दातृ-महतोः " इत्यमरः । माधवस्य विष्णोः गुणानां भक्तवात्सल्यादीनाम् आस्वादेन अभितुष्टः । वेङ्कटेशकविरिति सम्बन्धः ॥ २९० ॥
नानेति । अपि च नानाम्नायेषु निखिलवेदेषु “श्रुतिः स्त्री वेद आम्नायः ’ इत्यमरः । परिश्रमम् अध्ययनरूपं कलयतां कुर्वतां, शास्त्रेषु वेदान्तादिषु धीः अर्थज्ञानरूपा बुद्धिः नास्त्येव नैवास्ति । अत्र सर्वत्र प्रायश इति शेषो ग्राह्यः । तयोः उभयोः वेद-शास्त्रबुद्ध्योः सत्योरपि सा हि प्रसिद्धा साहिती यथार्थव्युत्पत्तिः क्षितौ पृथिव्यां न सुलभा । ननु कदाचिद् एतासु वेद-शास्त्र- यथार्थव्युत्पत्तिषु सतीष्वपि विनयो नम्रता नास्ति । तथा आचारः यथाशास्त्राचरणं च भक्तिः भगवति प्रेम च क्षमा सुखदुःखादिद्वन्द्वसहनं च चातुरी कर्तव्याकर्तव्यकौशलं च ताः चतस्रः न सन्त्येव । अमुं तु आलम्ब्य आश्रित्य सः वेदाभ्यासश्च सा शास्त्रबुद्धिश्व सा साहिती च, सः विनयश्च, ताः आचार-भक्ति- क्षमा चातुर्यश्च खेलन्ति क्रीडन्ति । अनेन लोक- विलक्षणोऽयमिति व्यज्यते ॥ २९१ ॥
विश्वास-प्रस्तुतिः
अर्वन्तमास्ये तमुपास्य देवं गर्वं तमोजं कुदृशां प्रशान्तम् ॥
कुर्वन्तमेतं8 गुरुमन्तरेण गुर्वन्तरं कोऽत्र गुणी वृणीते ॥ २९२ ॥
कृशानुः – वयस्य मा स्मैवमवोचः9 । यदेतत्पक्षावलम्बनतः10 पक्षान्तरस्वीकार एव वर इति मे प्रतिभाति ॥ ११४& ॥
मूलम्
अर्वन्तमास्ये तमुपास्य देवं गर्वं तमोजं कुदृशां प्रशान्तम् ॥
कुर्वन्तमेतं8 गुरुमन्तरेण गुर्वन्तरं कोऽत्र गुणी वृणीते ॥ २९२ ॥
कृशानुः – वयस्य मा स्मैवमवोचः9 । यदेतत्पक्षावलम्बनतः10 पक्षान्तरस्वीकार एव वर इति मे प्रतिभाति ॥ ११४& ॥
बाल-कृष्णः
किञ्च अर्वन्तमिति । आस्ये मुखे अर्वन्तम् अश्वरूपं " वाजि - वाहार्व- गन्धर्व - हय- सैन्धव-सप्तयः " इत्यमरः । तं देवं हयग्रीवावतारम् उपास्य संसेव्य, कुत्सितं यथा तथा पश्यन्ति अर्थाद् वेद-शास्त्राणि, ते कुदृशः वेद-शास्त्रादीनां विपरीतार्थकारिण इत्यर्थः । तेषां तमोजम् अज्ञानजन्यं गर्वम् अभिमानं प्रशान्तं नष्टं कुर्वन्तम् एतादृशम् एवं वेदान्ताचार्यगुरुमन्तरेण विना " अन्तराऽन्तरेण - " इति द्वितीया । गुर्वन्तरम् अन्यं गुरुम् अत्र लोके, को गुणी पुरुषः वृणीते अङ्गीकरोति ? अपि तु कोऽपि नैवेत्यर्थः ॥ २९२ ॥
वयस्येति । हे वयस्य, एवं ’ एतं गुरुमन्तरेण गुर्वन्तरं न वृणीते ’ इत्यादि- रूपं मा स्म अवोचः मा वद । अत्र माङ्योगे अडागमः प्रामादिकः । “न माङ्योगे” इति तन्निषेधात् । अथवा केवलं माशब्दमङ्गीकृत्य कथञ्चित् समाधेयम् । यतः एतस्य गुरोः पक्षावलम्बनतः पक्षाश्रयाद् द्वैतप्रचुरत्वादित्यर्थः । पक्षान्तरस्य अन्यपक्षस्य शुद्धाद्वैतप्रतिपादकस्येत्यर्थः । स्वीकारः अङ्गीकार एव वर इति मे प्रतिभाति । अत्र भावदर्पणकृता मर्कटकिशोर-मार्जारकिशोरन्यायतुल्यतया व्याख्यातम् । ‘यथा- मर्कटकिशोरः प्राकारादिलङ्घनेऽपि दृढमवलम्बमानः मातुः काङ्क्षितं स्तन्यमनुभवति, तथा श्रौत - स्मार्तकर्मद्वारा सेवमानो भक्तः भगवत्प्रसादं लभत इति - मर्कट किशोरन्यायानुगृहीतः । तस्मात् पक्षान्तरमन्यः पक्षः यथा मार्जारकिशोरं तन्माता मार्जारी स्वयमेव दन्तघातनादेः संरक्ष्य देशाद्देशान्तरं नीत्वा पुष्णाति तथा सर्वं कर्म विहाय स्वात्मानं भगवते निवेद्य वर्तमानं स्वयमेव भगवान् कृतयोग - क्षेमो रक्षतीति - मार्जार किशोरन्यायानुगृहीतः वर इति’ इति ॥ ११४& ॥
विश्वास-प्रस्तुतिः
तथा हि–
यस्मिन्पक्षेऽस्ति मोक्षो गुरुणि लघुनि वा साधनेऽप्यप्रयुक्ते
श्लाघाहेतुः श्रमार्थव्ययकरयजनाद्यग्र्यकर्मप्रहाणम् ॥
तं हन्तोपेक्ष्य पक्षं श्रयति जगति कः काम्यवेदोक्तकर्मा-
नुष्ठानावश्यकत्वप्रकटनकठिनं वेदचूडार्यमार्गम् ॥ २९३ ॥
मूलम्
तथा हि–
यस्मिन्पक्षेऽस्ति मोक्षो गुरुणि लघुनि वा साधनेऽप्यप्रयुक्ते
श्लाघाहेतुः श्रमार्थव्ययकरयजनाद्यग्र्यकर्मप्रहाणम् ॥
तं हन्तोपेक्ष्य पक्षं श्रयति जगति कः काम्यवेदोक्तकर्मा-
नुष्ठानावश्यकत्वप्रकटनकठिनं वेदचूडार्यमार्गम् ॥ २९३ ॥
बाल-कृष्णः
उक्तार्थमेव विशदीकरोति - यस्मिन्पक्ष इति । यस्मिन् अन्यस्मिन् शुद्धाद्वैतप्रतिपादके पक्षे, गुरुणि महति कतिपयदिनसाध्ये यज्ञादिरूपे, वाऽथवा लघुनि दर्श - पूर्ण - मासादिरूपे साधने कर्मणि अप्रयुक्ते अनाचरिते सत्यपि, मोक्षः अस्ति । अत एव स पक्षः श्लाघाहेतुः प्रशंसाकारणम् । श्रमः शरीरप्रयासश्च अर्थव्ययः द्रव्य- व्ययश्च तौ करोतीति तत्करं तच्च तद् यजनादि आदिशब्देन तपःकृच्छ्रादेः सङ्ग्रहः । अग्र्याणां ब्राह्मणानां कर्म तस्य प्रकर्षेण हानं विनाशो यस्मिन् तथाभूतम् । तं पक्षं, हन्तेति खेदे । उपेक्ष्य काम्यानां वेदोक्तानां कर्मणां “स्वर्गकामो यजेत” इत्यादिरूपाणाम् अनुष्ठानस्य आवश्यकत्वस्य आवश्यकर्तव्यस्य प्रकटनेन कठिनं कर्तुमशक्यं वेदचूडार्यस्य वेदान्ताचार्यस्य मार्गं पक्षं जगति कः श्रयति अङ्गीकरोति ? कोऽपि नैवेत्यर्थः । अयं भावः - अयं वेदान्ताचार्यः वेङ्कटाचार्याभिधः स्वयं यज्ञादिकाम्य- कर्मणामनुष्ठाता तत एव च यज्ञादिकर्मानुष्ठानोत्तरमेव ज्ञानेन मुक्तिरिति तत्सिद्धान्तः । एतस्मादन्यस्मिन् श्रीमच्छङ्कराचार्यादिमते तु मोक्षसाधने काम्यादिकर्मणां नावश्यकता, किन्तु शमदमादिसाधनसम्पन्नतया विधिवद्गुरूपसत्तिपूर्वकात्मज्ञानेन वै मुक्तिरिति । तस्मात् स एव पक्षो वर इति ॥ २९३ ॥
विश्वास-प्रस्तुतिः
विश्वावसुः - निरूपणनिपुणोऽपि भवान् कथमेवं कथयति ॥११५&॥
वेदान्तार्थविशोधितं11 हितपथं12 व्याधूय साधूचितं
चापल्यादनुरुन्धते तदितरं पन्थानमन्धा नराः ॥
इष्टं भक्षय कान्तया च विहरेत्येवं प्रियालापिनं
रोगार्ताश्चपलाः स्तुवन्ति न तु तं यः पथ्यवादी भिषक् ॥ २९४ ॥
मूलम्
विश्वावसुः - निरूपणनिपुणोऽपि भवान् कथमेवं कथयति ॥११५&॥
वेदान्तार्थविशोधितं11 हितपथं12 व्याधूय साधूचितं
चापल्यादनुरुन्धते तदितरं पन्थानमन्धा नराः ॥
इष्टं भक्षय कान्तया च विहरेत्येवं प्रियालापिनं
रोगार्ताश्चपलाः स्तुवन्ति न तु तं यः पथ्यवादी भिषक् ॥ २९४ ॥
बाल-कृष्णः
निरूपणेति । निरूपणे सदसद्विवेके निपुणः प्रवीणोऽपि सन् भवान् कथमेव ‘यस्मिन् पक्षे –’ इत्यादिरूपं कथयति ? ॥ ११५& ॥
वेदान्तार्थेति । अन्धाः ज्ञानहीना नराः वेदान्तार्थेन वेदान्ततात्पर्येण विशो- धितं शुद्धं, आर्येति पाठे वेदान्तार्येण वेङ्कटगुरुणा विशोधितमित्यर्थः । साधूनामुचितं योग्यम् अत एव हितपथं श्रेयस्करं मार्गे व्याधूय त्यक्त्वा तस्माद् इतरमन्यं पन्थानं चापल्याद् विषयोपभोगलौल्याद्धेतोः अनुरुन्धते अनुसरन्ति । अत्र दृष्टान्तमाह- इष्टं— शास्त्रनिषिद्धमपि पलाण्डुसदृशं - पदार्थे भक्षय, कान्तया स्त्रिया सह, यथेच्छ - मिति शेषः । विहर क्रीड, एवं प्रियालापिनं प्रियभाषिणं वैद्यं चपलाः भाविपरिणाम- विवेकरहिताः रोगातः रोगपीडिताः स्तुवन्ति प्रशंसन्ति । किन्तु यः पथ्यं भक्ष्यादिकं- वदति तच्छीलः भिषक् वैद्यः तं तु नैव स्तुवन्तीत्यर्थः ॥ २९४ ॥
विश्वास-प्रस्तुतिः
किञ्च-
आम्नाय मौलिगुरुणा करुणाकरेण
नावातरिष्यत यदीह भवाब्धिनावा ॥
अज्ञातभक्तिजगदश्रुतसच्चरित्र -
मज्ञातशास्त्रमभविष्यदवैदिकं च ॥ २९५ ॥
पुनरालोच्य -
अस्य खलु निगममौलिगुरोरशेषविद्यासमुद्रतलस्पर्शित्वादधुनातनविबुधव्यूहसमभिव्याहारो13 नोचितः ॥ ११६& ॥
किन्तु-
निशमयति यः किल दृशा निशामयत्यङ्घ्रिणा च यो विश्वम् ॥
गज तुरगौ वदने यो तैः सह वेदान्तदेशिको गण्यः ॥ २९६ ॥
मूलम्
किञ्च-
आम्नाय मौलिगुरुणा करुणाकरेण
नावातरिष्यत यदीह भवाब्धिनावा ॥
अज्ञातभक्तिजगदश्रुतसच्चरित्र -
मज्ञातशास्त्रमभविष्यदवैदिकं च ॥ २९५ ॥
पुनरालोच्य -
अस्य खलु निगममौलिगुरोरशेषविद्यासमुद्रतलस्पर्शित्वादधुनातनविबुधव्यूहसमभिव्याहारो13 नोचितः ॥ ११६& ॥
किन्तु-
निशमयति यः किल दृशा निशामयत्यङ्घ्रिणा च यो विश्वम् ॥
गज तुरगौ वदने यो तैः सह वेदान्तदेशिको गण्यः ॥ २९६ ॥
बाल-कृष्णः
किञ्च आम्नायेति । भवाब्धेः संसारसमुद्रस्य नावा तारकतरणिरूपेण अत एव करुणाकरेण दयाकरेण, आम्नायाः वेदास्तेषां मौलयः शिरांसि वेदान्ता इति यावत् । तेषां गुरुणा आचार्येण तद्वयाख्यात्रा वेदान्ताचार्येणेत्यर्थः । इह लोके यदि न अवातरिष्यत न प्रादुरभविष्यत, तर्हि सर्व जगद् अज्ञाता भक्तिर्येन तत्, अश्रुतम् अनाकर्णितं सतां सज्जनानां चरित्रं येन तत्, अज्ञातम् अनवबुद्धं शास्त्रं येन तत्, अवैदिकं वेदविहिताचारशून्यं च अभविष्यत् । क्रियातिपत्तौ लङ् । तत्र पूर्वं कर्मणि तरतेः, उत्तरत्र च भवतेः कर्तरीति बोध्यम् ( ? ) ॥ २९५ ॥
अस्येति । निगममौलिगुरोः वेदान्ताचार्यस्य अशेषाः निखिला या विद्या वेद- शास्त्रादिरूपास्तासां समुद्रस्य तलस्पर्शित्वात् तलपरामर्शशीलत्वात्, आमूलात् समाप्तिपर्यन्तं यथार्थतया विवेचनशीलत्वादित्यर्थः । अधुनातना इदानीन्तना ये विबुधाः पण्डितास्तेषां व्यूहेन समुदायेन सह समभिव्याहारः गणनं नोचितः ॥ ११६& ॥
अधुनातनविबुधवैलक्षण्यमेव प्रतिपादयति - निशमयतीति । यः दृशा नेत्रेण निशमयति किल शृणोति, भगवान् शेषावतारः पतञ्जलिरित्यर्थः । तथा च यः अङ्घ्रिणा पादेन किरणैरित्यर्थः । जातावेकवचनम् । विश्वं जगन् निशामयति अवलोकयति, भगवान् सूर्य इत्यर्थः । भावदर्पणकारस्तु ‘निशामयत्यङ्घ्रिणा -’ इत्यादिवाक्येन गौतम इत्याह । तत्तु गौतमस्यैवाक्षपाद इति नामप्रसिद्धेरिति ज्ञेयम् । एतत्तु भगवतः पतञ्जलेः साम्यार्थं व्याख्यानम् । तेन च उभौ ( पतञ्जलि - गौतमौ ) अपि व्याकरण- न्यायशास्त्रयोः प्रवर्तकाविति सूचितम् । यथा यौ वदने मुखे गज-तुरगौ भगवन्तौ गजाननः हयग्रीवावित्यर्थः । तैश्चतुर्भिः ( पतञ्जलि - गौतम - गजानन-हयग्रीवैः ) सह अयं वेदान्तदेशिको वेदान्ताचार्यः गण्यः गणनीयः ॥ २९६ ॥
विश्वास-प्रस्तुतिः
विचिन्त्य—
गम्भीरशब्देन विशालमोहदशापिशाचग्रहमोचनेन ॥
घण्टा हरेर्वेङ्कटनाथरूपा कल्याणमुल्लासयति श्रुतीनाम् ॥ २९७॥
पुनः सचमत्कारं
वेदान्ताचार्यशब्दोऽस्मिन्वेदान्तस्थापने14 क्षमः ॥
इमं विवेकं कुर्वन्तो दान्ताचार्यं च तं विदुः ॥ २९८ ॥
कृ॰ – कथं नाम द्रुहिणगृहिणीचिकुरनिकुरम्बचुम्बिचम्पककुसुमसुकुमारतराः कविकथककण्ठीरवगुरोरपि गिरो दुस्तरप्रसरनिष्ठुर-15 बंहिष्ठसासूयहृदयनिर्भेदाय जायते ? ॥ ११७ ॥
मूलम्
विचिन्त्य—
गम्भीरशब्देन विशालमोहदशापिशाचग्रहमोचनेन ॥
घण्टा हरेर्वेङ्कटनाथरूपा कल्याणमुल्लासयति श्रुतीनाम् ॥ २९७॥
पुनः सचमत्कारं
वेदान्ताचार्यशब्दोऽस्मिन्वेदान्तस्थापने14 क्षमः ॥
इमं विवेकं कुर्वन्तो दान्ताचार्यं च तं विदुः ॥ २९८ ॥
कृ॰ – कथं नाम द्रुहिणगृहिणीचिकुरनिकुरम्बचुम्बिचम्पककुसुमसुकुमारतराः कविकथककण्ठीरवगुरोरपि गिरो दुस्तरप्रसरनिष्ठुर-15 बंहिष्ठसासूयहृदयनिर्भेदाय जायते ? ॥ ११७ ॥
बाल-कृष्णः
किञ्च गम्भीरेति । हरेः श्रीविष्णोः सम्बन्धिनी वेङ्कटनाथरूपा एतदाख्यश्रीवेदान्ताचार्यरूपेत्यर्थः । घण्टा विशाला महती या मोहस्याज्ञानस्य दशाऽवस्था तद्रूपो यः पिशाचस्तस्य ग्रहं मोचयतीति तथाभूतेन गम्भीरेण महता शब्देन ध्वनिना, अथवा गम्भीरेण दुरवगाहेन शब्देन व्याख्यारूपेणेत्यर्थः । श्रुतीनां कर्णानाम् उपनिषदां वा कल्याणं मङ्गलं यथार्थं वा उल्लासयति वर्द्धयति ॥ २९७ ॥
अपि च वेदान्तेति । अस्मिन् भुवने वेदान्ताचार्य इत्ययं शब्दः वेदान्तानां स्थापने विविधवाक्यानां यथार्थनिर्णयेन व्यवस्थाकरणे इत्यर्थः । क्षमः समर्थः । अस्तीति शेषः । इमम् उक्तप्रकारं विवेकं विचारं “ मन्त्रव्याख्याकृदाचार्यः” इत्यादि- कोशपर्यालोचनया वेदानां व्याख्याकरणरूपमित्यर्थः । किंवा इमं वेदान्ताचार्यशब्दं विगतवेकं वेशब्दरहितं च, अस्मिन् पक्षे “ शेषाद्विभाषा" इति कप्प्रत्ययो ज्ञेयः । कुर्वन्तो लोकाः तं वेदान्ताचार्य दान्तानां जितबाह्यान्तरिन्द्रियाणाम् आचार्यं गुरुं दान्ताचार्यशब्दमपि विदुः जानन्ति ॥ २९८ ॥
कथमिति । द्रुहिणस्य ब्रह्मणः गृहिणी सरखती तस्याश्चिकुरनिकुरम्बं केशपाशः तच्चुम्बीनि यानि चम्पककुसुमानि तद्वत् सुकुमारतराः अतिकोमलाः कविकथककण्ठीरवगुरोरपि कविवादिनां महासिंहस्येत्यर्थः । गिरः वाण्यः दुस्तराः कठिना ये प्रस्तराः पाषाणाः इव निष्ठुराणि कठोराणि बहिष्ठानि बहुलानि, बहुलशब्दादिष्ठनि “प्रियस्थिर - " इत्यादिना बहादेशः । असूयया गुणेषु सत्स्वपि दोषारोपबुद्ध्या सहितानि च यानि हृदयानि मतान्तरवादिचित्तानि तेषां निर्भेदाय खण्डनाय जायन्ते भवन्ति ? । कोमलत्वान् मृणालतन्तुना पाषाणभेदवत् कठिनहृदय भेदनमशक्यमिति भावः ॥ ११७& ॥
विश्वास-प्रस्तुतिः
विश्वावसुः - सखे शृणु तावत् ॥ ११८ ॥
वेदान्तार्यगिरः प्रसून मृदवो मोदं दधानाः सताम्
प्रौढग्रावकठोरकाण्यपि परं भिन्दन्ति हृन्दि द्विषाम् ॥
नन्दाचार्यजनाभिनन्दितमृदुस्पर्शोऽपि पादो हरे-
दुर्भेदे शकटासुरे तु शतकोट्याकारमागान्न किम् ? ॥२९९ ॥
पुनः सप्रार्थनमञ्जलिं बद्ध्वा -
दर्पाविष्टकुदृष्टिदुष्टसमयोत्सादाय16 बोधाङ्कुरो-17
द्भेदाय प्रबले कलावपि जयोत्पादाय वेदाध्वनः ॥
श्रीमल्लक्ष्मणपक्षरक्षकबुधामोदाय18 पापाटवी-
च्छेदायार्थिमरुत्तरुर्विजयतां19 वेदान्तविद्यागुरुः ॥ ३०० ॥
मूलम्
विश्वावसुः - सखे शृणु तावत् ॥ ११८ ॥
वेदान्तार्यगिरः प्रसून मृदवो मोदं दधानाः सताम्
प्रौढग्रावकठोरकाण्यपि परं भिन्दन्ति हृन्दि द्विषाम् ॥
नन्दाचार्यजनाभिनन्दितमृदुस्पर्शोऽपि पादो हरे-
दुर्भेदे शकटासुरे तु शतकोट्याकारमागान्न किम् ? ॥२९९ ॥
पुनः सप्रार्थनमञ्जलिं बद्ध्वा -
दर्पाविष्टकुदृष्टिदुष्टसमयोत्सादाय16 बोधाङ्कुरो-17
द्भेदाय प्रबले कलावपि जयोत्पादाय वेदाध्वनः ॥
श्रीमल्लक्ष्मणपक्षरक्षकबुधामोदाय18 पापाटवी-
च्छेदायार्थिमरुत्तरुर्विजयतां19 वेदान्तविद्यागुरुः ॥ ३०० ॥
बाल-कृष्णः
अथ समाधत्तुमुपक्रमते विश्वावसुः वेदान्तेत्यादिना । प्रसूनमृदवः पुष्पवत् सुकुमाराः अत एव सतां तन्मतस्थसाधूनां मोदम् आनन्दं दधाना उत्पादयन्तः वेदान्तार्यस्य गिरः व्याख्यानरूपा वाण्यः, द्विषां मतान्तरस्थवादिनां हृन्दि हृदयानि “पद्दन्नोमास्–” इत्यादिना हृदयशब्दस्य हृदादेशः । प्रौढाः कठोराः ग्रावाणः पाषाणा इव कठोरकाणि कठिनान्यपि, परमत्यन्तं भिन्दन्ति विदारयन्त्येव । अत्र दृष्टान्तमाह - नन्दो गोकुलाधिपः श्रीहरेः पिता आदिः प्रमुखो येषां सुनन्दादीनां ते ये आर्यजनाः श्रीकृष्णभक्तत्वात् श्रेष्ठजनास्तैरभिनन्दितः मृदुस्पर्शः कोमल- स्पर्शो यस्य तादृशोऽपि हरेः श्रीकृष्णस्य पादः दुर्भेदे इतरैर्भेत्तुमशक्ये शकटासुरे, शत- कोटेर्वज्रस्य " शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः" इत्यमरः । आकारं न अगान् न प्राप किम् ? तद्वदेवेदमिति भावः ॥ २९९ ॥
इदानीमेतत्प्रकरणमुपसंहरन् प्रार्थयते -दर्पाविष्टेति । दर्पाविष्टानां गर्विष्ठानाम् अत एव कुदृष्टीनां कुत्सितज्ञानानाम् अत्र दृशिर्ज्ञाने । दुष्टो यः समयः सिद्धान्तः “समयाः शपथाचार-कालसिद्धान्तसंविदः ।" इत्यमरः । तस्य उत्सादाय तं विनाशयितुमित्यर्थः । “तुमर्थात् — इत्यादिना चतुर्थी । अग्रेऽप्येवमेव ज्ञेयम् । बोधाङ्कुरस्य उद्भेदाय उत्पादनाय, प्रबलेऽपि कलौ युगे वेदाध्वनः कर्म-ज्ञानरूपवेदमार्गस्य जयोत्पादाय सर्वोत्कर्षमुत्पादयितुमित्यर्थः । श्रीमतो लक्ष्मणस्य रामानुजाचार्यस्य यः पक्षः विशिष्टाद्वैतरूपः तद्रक्षकास्तत्पालका ये बुधाः पण्डितास्तेषां मोदाय आनन्दमुत्पादयितुमित्यर्थः । पापान्येवाटवी अरण्यं तस्याश्छेदाय, तां छेत्तुं चेत्यर्थः । अर्थिनां विशिष्टाद्वैतज्ञानाभिलाषिणां मरुत्तरुः कल्पवृक्षः वेदान्तविद्यागुरुः, विजयतां सर्वोत्कर्षेण वर्तताम् ॥ ३०० ॥